भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

एकदेशिनस्तद्विपरीतम् । उभयमपि सूत्रकारस्य संमतमिति ॥ २९ ॥ प्रतिषेधाच्च ॥ ३० ॥ एकदेशिमते उपपत्त्यन्तरमाह । 'एकमेवे'त्युक्त्वा पुनः 'अद्वितीय'मिति भाष्यप्रकाशः । पराशरेण च भगवद्रूपत्वादिनैव तदुपबृंहणाच्च विरुद्धधर्माधारत्वलौकिकयुक्त्यगम्यत्वविदिताविदित- परत्वानिरुक्तस्वरूपाणां श्रुत्युक्तयुक्तीनां अनन्तगुणपूर्णत्वपक्षेपि तुल्यत्वात् युक्त्या कारणरूपस्यैवम- विरोधानुकूल्यप्रापणं व्यासचरणानां सिद्धान्तः । द्वितीयस्कन्धे 'नास्य कर्माणि जन्मादौ परस्यानु- विधीयत' इति मुख्याधिकारिणामर्थे जन्मकर्मनिषेधकथनेन सद्रूपत्वबोधनात् । एकदेशिन- स्तु पूर्वोक्तरीत्या कालभेदेनाविरोधप्रापणमिति व्यासोक्तपक्षाद्विपरीतम् । तस्य पक्षस्य द्वितीय- स्कन्ध एव 'इत्थं भावेन कथितो भगवान् भगवत्तमः । नेत्थं भावेन हि परं द्रष्टुमर्हन्ति सूरय' इति मध्यमाधिकारिपरतयोक्तत्वेन इतो न्यूनत्वात् । एतावान् परं विशेषः, यत्पुराणे माया- द्वारकं कर्तृत्वादि, श्रौते मते तु तन्नेत्येकदेशिमतं तत उत्तमम् । तथापि 'अनुच्छित्तिधर्मे'त्यादि- श्रुतीनां 'पश्चादह'मित्याद्युपबृंहणानां चाज्ञास्याभावेन न तथोपपन्नम् । एवमपि सत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः कर्तृत्वादिश्रुतीनां च नासामञ्जस्यमित्यल्पदोषदुष्टत्वेन सूत्रकारादृतम् । अत उभयमपि सूत्रकारस्य संमतमित्यर्थः ॥ २९ ॥ प्रतिषेधाच्च ॥ ३० ॥ सूत्रमवतारयन्ति एकदेशीत्यादि । भगवन्माहात्म्यबोधकत्वेपि किञ्चिद्दोषपादनादरो मा भूदित्यत एकदेशिमते उपपत्त्यन्तरमाहेत्यर्थः । व्याकुर्वन्ति एकमेवे- रश्मिः । वजन्मनाशविकल्पवत्त्वानि । अत्र उपपत्त्यापि विचारः पूर्वानुरोधेनैव कर्तव्य इति भाष्यानुरोधात्पूर्वानय- नमाहुः विरुद्धधर्मेत्यादि । विरुद्धधर्माधारत्वं उभयव्यपदेशसूत्रात् 'सकलविरुद्धधर्मा भगवत्येव वर्तन्त' इति भाष्यात् । लौकिकयुक्त्यगम्यत्वं 'तादृशमेव तद्वस्तुतत्सिद्धि'मिति भाष्यात् 'न धर्मेष्वपि युक्त्य- पेक्षे'ति भाष्याच्च । विदितेत्यादि । विदितं वर्तमानं अविदितं मृतं भविष्यच्च तयोः परत्वम् । 'अन्य- देव तद्विदितादथोऽविदितादधी'ति श्रुतेः । अनिरुक्तत्वं तैत्तिरीये । अभिधेयानामित्युक्ते एकदेशिमतवा- दकवलिता स्यादत आहुः श्रुत्युक्तयुक्तीनामिति । विरुद्धधर्माधारत्वं नित्यं न भवेन्नित्यानित्यसंयोग- धिया श्रुत्यभिधेयं न भवेत् । लौकिकयुक्त्यगम्यत्वं नित्यं न भवेत्, श्रुत्यभिधेयं न भवेत् । 'आसीनो दूरं व्रजति शयानो याति सर्वतः' । 'अपाणिपादो जवनो ग्रहीते'ति श्रुत्यभिधेयं नित्यानित्यसंयोगधिया न भवेत् । विदिताविदितपरत्वं नित्यं न भवेत् । नित्यानित्यसंयोगधिया श्रुतिरभिधेयं न वदेत् । अनि- रुक्तत्वं नित्यं न भवेत् । नित्यानित्यसंयोगधिया श्रुत्यभिधेयं न भवेदित्येवं युक्तीनाम् । नास्येति । अस्य परस्य आदौ कर्माणि जन्म नानुविधीयते इति । मुख्याधिकारिणामिति । एकदेशिन इति भाष्यं विवृण्वन्ति स्म एकदेशिन इति । पूर्वोक्तेति । अत्रैव पूर्वोक्तरीत्या सृष्टिकालस्य भेदेन । सिद्धान्ते तु सृष्टिकालपूर्वकालेपि धर्माः । मायाद्वारकमिति । 'बुभुत्सुम्पावदे' इति वाक्यात् । तत इति । पुराणमतात् । आज्ञास्येति । सिद्धान्तरीत्या नयनाभावेन । स्वार्थे ष्यञ् । न तथेति । सिद्धान्तत्वेन नोपपन्नम् । अल्पदोषेति । अपसिद्धान्तत्वदोषदुष्टत्वेन । सूत्रकारादृतं मत इति पदच्छेदः ॥ २९ ॥ प्रतिषेधाच्च ॥ ३० ॥ किञ्चिदिति । अपसिद्धान्तदोषात् । प्रतीति । धर्मप्रतिषेधयुक्ता 1690

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५५ द्वितीयं प्रतिषेधति । स एवकारेणैव सिद्धो व्यर्थः सन् धर्मनिषेधमपि सूचयति । 'ऐक्षते'ति वचनात् तदुत्पत्तिः । चकारादेकविज्ञानेन सर्वविज्ञानोपक्रमः परिगृ- हीतः । तस्मान्न ब्रह्मणि कश्चिद्विरोध इति सिद्धम् ॥ ३० ॥ इति तृतीयाध्याये द्वितीयपादे नवमं प्रकाशाश्रयवद्भेत्यधिकरणम् ॥ ९ ॥ भाष्यप्रकाशः। त्यादि । स इति । द्वितीयनिषेधः । नन्वनुच्छित्तिधर्मेत्यादिना तन्नित्यत्वे कुतो निषेध इत्यत आहुः ऐक्षतेत्यादि । तथाचोक्तश्रुत्यनुरोधेन धर्मनित्यताबोधकश्रुतिरनुच्छित्तिर्धर्मो यस्येतिसमासेनावि- नाशिपदव्याख्यानपरतया नेयेत्यर्थः । स्फुटमन्यत् । नचैकदेशिमतस्य युक्त्यन्तरेणोपष्टम्भात् पूर्वमततुल्यत्वमस्य सूत्रकाराभिप्रेतमिति शङ्क्यम् । प्रतिषेधश्रुतेर्द्वित्वसंख्यापूरकनिषेधपरतायाः प्रागुपपादितत्वेन, 'सूर्य एकाकी चरती'तिश्रुतौ सप- रिकरे एव सूर्ये एकाकित्ववत् 'गेहे देवदत्त एवास्ति, न द्वितीय' इति लौकिकप्रयोगे करचरणा- दियुक्तदेवदत्ताद्वितीयत्ववच्चापि निषेधगतेः शक्यवचनत्वेन, अनुच्छित्तिधर्मपदस्याविनाशिप- दव्याख्यानताया अपि मानान्तरविरहादगतिकगतित्वेन च तस्य शैथिल्यात् । अत एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानुरोध एवैतत्संग्रहे बीजम् । एतस्योपष्टम्भकं च नैतस्मादन्यदिति बोधनायैवैतद्यु- क्तिकथनमिति बोध्यम् । तस्मान्न कोपि शङ्कालेशः । (ननु मतद्वयस्यापि सूत्रकारसम्मतत्वे स्वसिद्धान्त इति भाष्यस्थस्य स्वशब्दस्य सूत्रकार- परत्वेन व्याख्यानमनुचितम् । एकदेशिपदे च व्यासैकदेशित्वव्याख्यानमपि तथा । व्यासैस्तन्ना- मानुल्लेखादिति चेत् । मैवम् । एकदेशिपदेत्र व्यासस्यैकदेशी ग्राह्यः । अन्यथाम्बुवत्सूत्रेण 'अत एव'तिसूत्रसिद्धं दृष्टान्तं न दूषयेत् । वृद्धिह्रासादि Barclay सूत्रद्वये युक्त्यन्तरं च न वदेत् । एकदेशिनामानुल्लेखस्तु जैमिन्या- दिवदप्रसिद्धत्वात् । 'जीवमुख्यप्राणलिङ्गा'दित्यादिपूर्वपक्षिनामवत् । अस्मिन् सूत्रे जघन्यानामर्थेऽस्य सद्भावाद्वा । अथवा । जीवप्रसङ्गे 'अवस्थितेरिति काशकृत्स्न' इति काशकृत्स्नेन जीवस्य ब्रह्मावस्थाविशेषत्वेनाङ्गीकारात् तस्य न्यायस्यापि तुल्यत्वात् स एवैकदेशी ग्राह्यः । अत एव द्विती- यस्कन्धपञ्चमाध्याये सृष्टिप्रकरणे 'सत्त्वं रजस्तम' इत्यस्य सुबोधिन्यां 'काशकृत्स्नमतमत्र सिद्धं भविष्यती'त्याचार्यैरपि तथाङ्गीकारः कृत उत्पत्त्या विमर्शविचारे इति नात्र शङ्कालेशः । एवमेक- देशिनि निर्णीते स्वशब्दो व्यासपर एव युक्त इत्यत्राप्यदोषः । नचास्य पश्चात् कथनेनास्यैव मुख्य- त्वमिति शङ्क्यम् । द्वितीयस्कन्धे 'इत्थंभावेन कथितो भगवान् भगवत्समाः । नेत्थं भावेन हि परं ब्रह्मार्हन्ति सूरय' इत्यादिभिरेतदसमुख्यतयाः शुकवाक्ये व्यासचरणैरेवोक्तत्वात् । एतस्य रश्मिः। श्रुतिरद्वितीयमितिश्रुतिस्तस्याः । द्वित्वेति । द्वितीयमित्यत्र पूरणार्थकप्रत्यय इति भावः । प्रागिति । सपरीति । चरणादिः परिकरः । श्रौतत्वादेवकारः । एवेति । अन्ययोगव्यवच्छेदकः । निषेधगते- रिति । अद्वितीयश्रुत्युक्तायाः । तस्येति । एकदेशिमतस्य । एवेति । अन्ययोगव्यवच्छेदकः । एतत्संग्रहे एकदेशिमतसंग्रहे । एतस्मादिति । प्रतिषेधसूत्रादित्यर्थः । एवकारोऽन्ययोगव्यवच्छेदकः । (ए)तद्युक्तीति । एकदेशिमतयुक्तिकथनपनेन सूत्रेणेत्यर्थः । शङ्केति । एकदेशिमतोपपत्त्यनावश्यकत्वशङ्का तस्या लेशः । १. अधिकरणादिसार्थः । 1691

भाष्यप्रकाशः। सम्मतत्वं तु जघन्याधिकारिणामर्थे एतस्यैव सुबोधत्वेनोपयोगात् । अत एवेदं मतं पूर्वमुक्तम् । यथा द्वितीयस्कन्धे राजार्थम् । किञ्च, भाववृत्तसूक्ते 'नासदासी'दित्यादिभिः सृष्टिं पूर्वमुक्त्वा, समाप्तौ 'इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न योऽस्या अध्यक्षः परमे व्योमन् सोऽङ्ग वेद यदि वा न वेदे'ति सृष्ट्याधानानाधानात्भकं पक्षद्वयमुक्त्वा तस्य ज्ञानाज्ञाने आह । तेन विसृष्टिं कदाचिदाधत्ते, कदाचित् स्वतःसिद्धामेव प्रकटयति । अथवा सामान्यां करोति । लीलासृष्टिं तु स्वतःसिद्धामेवाविष्करोतीति ज्ञानाज्ञाने उभये अपि युक्ते । एतज्ज्ञापनाय सन्देह- वचनम् । अन्यथा वेदस्य ब्रह्मणश्च सन्देहाभावादेवं न वदेत् । अतो लीलासृष्टिमनुसन्धाय व्यासः स्वमतं वक्ति । एकदेशिनस्तु तन्न जानन्तीति ब्रह्मणो निर्विशेषादुत्पत्तिं वदन्ति । तस्मादुपपत्ति- पक्ष एव व्यासाशयगोचरः, इतर इतरस्येति दिक् ।) शङ्कराचार्यास्तु । 'न स्थानतोपी'त्यारभ्यैकादशसूत्रमेकमधिकरणं कल्पयन्ति । 'प्रकृतै- तावत्त्वे'त्यारभ्य नवसूत्रमपरम् । तत्र प्रथमे, सुषुप्त्यादिषूपाध्युपशमाज्जीवो यत् सम्पद्यते तद् ब्रह्म । 'सर्वकर्मे'त्यादिभिः सवि- शेषत्वश्रावणादस्थूलमित्यादिभिर्निर्विशेषत्वश्रावणाच्च किमुभयलिङ्गं ब्रह्म प्रतिपत्तव्यम्, उतान्यतर- लिङ्गम् । यद्यन्यतरलिङ्गम्, तदापि किं सविशेषम्, उत निर्विशेषमिति सन्देहे, उभयलिङ्गश्रुत्यनुग्रहा- दुभयलिङ्गं ब्रह्मेति प्राप्ते, अभिधीयते । न स्थानत इत्यादि । परस्य ब्रह्मण उभयचिह्नत्वं स्वत उपा- धितश्च न । कुतः । सर्वत्र हि । ब्रह्मस्वरूपप्रतिपादनपरेषु 'अशब्दमस्पर्शमरूपमव्यय'मित्यादिषु निर्विशेषस्यैवोपदेशादिति । 'न भेदा'दिति द्वितीये च प्रतिविद्यं ब्रह्मण आकारभेदश्रावणान्निर्वि- शेषाङ्गीकारे च तस्य शास्त्रस्य निर्विषयत्वापत्तेरौपाधिक आकार आदर्तव्य इत्याशङ्क्य, मधुविद्यायां प्रत्युपाधिभेदं ब्रह्मणोऽभेदश्रावणान्न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति । 'अपिचैवमेके' इति तृतीये च, 'मनसैवेदमाप्तव्यम्' 'नेह नानास्ति किञ्चने'ति भेददर्शननिन्दापूर्वकमभेदमेके, तथान्ये भोक्तृभोग्यादिप्रपञ्चस्य 'त्रिविधं ब्रह्ममेत'दिति ब्रह्मैकस्वभावत्वमामनन्तीति व्याख्याय, ननूभय- लिङ्गासु श्रुतिषु सतीषु कथमेनाकारमेव ब्रह्मावधार्यते, न पुनः साकारमिति शङ्कायाम्, चतुर्थस्या- रूपवत्सूत्रस्य प्रवृत्तिमुक्त्वा, अरूपवदेव ब्रह्मावधारयितव्यम्, न रूपादिमत् । कुतः । तत्प्रधानत्वात् । 'अस्थूलमनणु', 'अशब्दमस्पर्शमरूपमव्ययम्,' 'आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद् ब्रह्म,' 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः,' 'तदेतत् ब्रह्मापूर्वमनपरमनन्तरमबाह्य- मयमात्मा ब्रह्म सर्वानुभू'रित्यादीनां निर्विशेषब्रह्मप्रधानत्वात्, आकारलिङ्गानां चोपासनाप्रधान- रश्मिः। सुषुप्त्यादिष्विति । आदिना संपत्तिसमाधी । एवेति । सविशेषव्यवच्छेदक एवकारः । आकारेति । 'चतुष्पाद्ब्रह्म' 'षोडशकलं ब्रह्म', वामनीत्वभामनीत्वलक्षणं ब्रह्म, त्रैलोक्यशरीरं वैश्वानरशब्दोदितं ब्रह्म, 'सर्वं खल्विदं ब्रह्मे'ति, चतुर्दशभुवनात्मकं ब्रह्मेत्येवमाकारभेदश्रावणात् । मधुविद्यायामिति । 'यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मे'त्यादिरूपायाम् । अभेदेति । पृथिव्यादीनामुपाधित्वाच्चेति भावः । भोक्तृभोग्या- द्येति । आदिना प्रेरिता । 'भोक्ता भोग्यं प्रेरितारं च मत्वे'ति श्रुतेः । अनाकारमेवेति । साकार- योग्यव्यवच्छेदक एवकारः । ते यदिति । ते नामरूपे यस्यान्तरा मध्ये व्यवधायके वर्तेते तद्ब्रह्मेत्यर्थः । १. प्रकाशमूलपुस्तके सुषुप्तादिषु, रश्मौ च सुषुप्त्यादिषु । २. ज्ञाप्य ।

त्वेन ततो निर्बलत्वादिति व्याख्यातवन्तः। ततो, ननु तर्हि आकारवद्विषयाणां का गतिरित्या- शङ्कायां पञ्चमं 'प्रकाशवच्चावैयर्थ्या'दिति सूत्रमवतार्य, यथा सौर्यश्चान्द्रो वा प्रकाशो वियद् व्याप्या- वतिष्ठमानोङ्गुल्याद्युपाधिसंसर्गादृजुवक्रादिभावं प्रतिपद्यमानेषु संसर्गिषु तदाकारतामिव प्रतिपद्यते, तथा ब्रह्मापि पृथिव्याद्युपाधिसम्बन्धात् तदाकारतामिव प्रतिपद्यते, तदालम्बनं ब्रह्मण आकार- विशेषोपदेश उपासनाय ना विरुध्यते, एवमाकारवद्ब्रह्मविषयाणामवैयर्थ्यात्। नच नोपाधियो- गादप्युभयलिङ्गमिवि प्रतिज्ञाहानिः। उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः। उपाधीनामाविद्य- कत्वाद्वेति व्याख्याय, 'आह च तन्मात्र'मिति सूत्रं च यथावद्व्याख्याय, 'दर्शयति' सूत्रे च 'अथात आदेशो नेति नेति', 'अन्यदेव तद्विदितादथो अविदितात्', 'यतो वाचो निवर्तन्ते, 'अवचनेनैवोवाचे'ति श्रुतीः, 'ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्रह्म' न सत्तन्नासदुच्यत' इति गीतावाक्यम्, 'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूत- गुणैर्युक्तं नैवं मां द्रष्टुमर्हसी'ति स्मृती उपन्यस्य परप्रतिषेधेनैव निर्विशेषं ब्रह्म प्रतिपाद्यत इत्युक्त्वा, 'अत एवे' 'त्यम्बुव'दिति सूत्रद्वयं च यथावद्व्याख्याय, 'वृद्धिह्रास'सूत्रे जलसूर्यकादिदृष्टान्तं साधितुं जलगतं सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, तद्ध्रासे ह्रसति, तच्चलने चलति, तद्भेदे भिद्यत इत्येवं जल- धर्मानुविधायि भवति, न तु सूर्यस्य तथात्वमस्ति, एवं परमार्थतोऽविकृतमेकरूपमपि सद्रह्म देहा- द्युपाध्यन्तर्भावाद्बुद्धिह्रासादीनुपाधिधर्मान् भजत इत्येवमुक्त्वा, 'दर्शनाच्चे'ति सूत्रे, 'पुरश्चक्रे द्विपदः,' 'अनेन जीवेनात्मनानुप्रविश्ये'ति श्रुतिभ्यामुपाधिप्रवेशं ब्रह्मणो दर्शयित्वा, युक्त एवातः सूर्यकादिदृ- ष्टान्त इत्युक्त्वा, तस्मान्निर्विकल्पकलिङ्गमेव ब्रह्म,नोभयलिङ्गम्, न विपरीतलिङ्गं चेति सिद्धान्तमाहुः। तत्र प्रथमसूत्रव्याख्यानमयुक्तम्। 'सर्वत्र ही'ति हेतुबोधके पदे निर्विशेषस्यैवोपदेशादित्य- स्यार्थस्यासौत्रत्वेन तृतीयाध्याये वा शास्त्रे वा ईदृशस्य शब्दस्यार्थस्य च काप्यनुक्ततया अनुवृत्तेरपि कर्तुमशक्यत्वेनाभ्युपगमैकशरणत्वात्। 'अशब्दमस्पर्श'मिति विषयवाक्योत्तरार्धेऽपि, 'अनाद्यनन्तं महतः परं ध्रुवं निचाय्य त'मित्यनेन 'महतः पर'मित्यादिना पूर्वोक्तस्य ध्रुवस्य पुरुषस्य परामर्शन प्राप्तायाः सविशेषताया अनादरेण तद्विरुद्धत्वात्। निर्विशेषमेव ब्रह्मेति सिद्धान्तस्तत्रैव सिद्धाव-

निर्बलत्वादिति । उपासनायाः कल्पिताकारपरत्वादिति भावः। संसर्गिषु प्रकाशेषु। इति प्रतिज्ञेति। 'न स्थानत उभयलिङ्ग'मितिसूत्रभाष्ये इति प्रतिज्ञा। यथावदिति । निराकारपरत्वेपि सिद्धान्तानुसारि- त्वाद्यथावत् । तेषां सिद्धान्ते यथावदिति वा। परप्रतीति। चिन्मात्रतापरप्रतिषेधेन। नेतिनेती- त्यादिना । 'मत् परं ब्रह्मे'त्यत्र मत् मत्तः ब्रह्म परमित्यर्थायोगव्यवच्छेदक एवकारः । यथावदिति। व्याख्यातम् । वृद्धिह्रासादीनिति । आदिनोक्तचलनादयः। एवकारव्यावर्त्यमाहुः नोभयेति। विपरीतेति। साकारलिङ्गमेव, न तु निराकारमित्येवम्। निर्विशेषस्यैवेति। परसोभयलिङ्गमिवि प्रतियोगिनिर्वचनेन सर्वत्र प्रतियोगिस्फूर्तेर्नेतिनेतीत्यादौ नञा निषेध इति तथा। ईदृशस्येति । निर्विशेषमात्रस्य । अनुक्ततयेति । किन्तु 'अस्थूलमनण्वि'त्यादिवाक्यैः प्रापञ्चिकसर्वधर्मवैलक्षण्यस्य सर्वत्र कारणत्वाद्भगवानस्तीत्यर्थस्य चोक्ततया । निचाय्य तमिति । तं पुरुषं निचाय्य ज्ञानकाण्डत्वा- ज्ज्ञात्वा। अत्र परामर्शमाहुः महतः परमिति । काठके 'महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति'रित्यनेन पूर्वोक्तस्य । ध्रुवपदसामानाधिकरण्यायाहुः ध्रुवस्येति । 'सा काष्ठा सा परा गति'रित्यस्यार्थः । तद्धीति । उत्तरार्धविरुद्धत्वात् । अत्रैवेति । अस्मिन्सूत्रे एव

१५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः। ग्रिमस्यारूपवत्सूत्रस्य वैयर्थ्यप्रसक्तेः। तत्र साध्यमानत्वान्न सिद्धवन्निर्देशाङ्गीकार इत्यस्याप्युक्त- त्वाच्च । तथा, अरूपवत्सूत्रे 'तत्प्रधानत्वा'दित्यस्य निर्विशेषप्रधानत्वादिति व्याख्यानमप्ययुक्तम् । तदुपन्यस्तानां विषयवाक्यानामुपक्रमादिविचारे तथात्वस्यालाभात् । तथाहि । प्रथमं तत्रास्थूल- वाक्यम् । तच्च 'कस्मिन् वा आकाश ओतश्चे'ति गार्गीप्रश्नात् प्रवृत्तम्, स्थूलत्वादीन् लौकिकान् धर्मान्निषेधत् प्रशासितृत्वाम्बरान्तधारकत्वद्रष्टृत्वादीनाकाशोपादानत्वान्तानलौकिकान् दर्शयति । अशब्दवाक्यं तु प्राग्व्याख्यातम् । आकाशवाक्यं च नामरूपनिर्वाहकत्वम् । 'दिव्यो ह्यमूर्तः' इति वाक्यं चेयत्तावच्छिन्नं परिमाणं निषेधत् पुरुषं बाह्याभ्यन्तरसाहित्यं बाह्याभ्यन्तररूपत्वं वा दर्शय- दक्षरात् परत्वमग्रे श्रावयति । 'तदेतद् ब्रह्मे'ति मधुविद्योपसंहारस्थमपि मधुविद्यायामुपक्रमे, 'अय- मेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्व' मित्येवं चतुर्दशपर्यायैरभ्यस्तं सर्वत्वं मध्य उक्तं सर्व- भूताधिपतित्वादिकं 'रूपं रूप'मिति मन्त्रव्याख्यानोक्तं 'अयं हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानि चे'त्यनन्तरूपतां श्रावयतीति निर्विशेषब्रह्मप्रधानतया वक्तुमयुक्तत्वात् । नच 'तदेतद् ब्रह्मे'ति भिन्नं वाक्यं पूर्वेभ्य इति वाच्यम् । तच्छब्दात् पूर्वपरामर्शाद्विभागे साकाङ्क्ष- तया तदभावात् । नचेदं तच्छब्देन पूर्वोक्तरूपत्वं परामृशदप्यपूर्वमित्यनेन तभिषेधतीति न दोष इति वाच्यम् । एवं तर्ह्यनपरमित्यनेनानन्तरत्वादीनग्रिमानपि निषेधच्छून्यवाद्मेव प्रसञ्जयेत् । अतोत्र पूर्वत्वादीनां धर्मानामेव निषेध इत्येवाङ्गीकार्यम् । तथा सति 'न शुष्केण न चार्द्रेण रश्मिः। निर्धारणेनेत्येवकारार्थः । इत्यस्यापीति । इति हेतोः सूत्रस्यापि । अशब्दवाक्यमिति । काठकेऽस्ति । प्राक् । अत्रैव पूर्वम् । नामरूपेति । दर्शयतीत्यनेनान्वेति । पुरुषत्वमिति । दर्शयतीत्यनेनान्वेति । 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः' इत्यत्र बाह्याभ्यन्तराभ्यां समानः सह वेति विग्रहे आहुः बाह्याभ्यन्तरेति । सः बाह्याभ्यन्तरः इति पदद्वयेनेत्याहुः बाह्याभ्यन्तरेति । श्रावयतीति । 'अक्षरात्परतः परः' इति श्रुत्या श्रावयति । सर्वभूतेति । आदिना राजत्वसमर्पितत्वे । 'स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूताना५ राजा तद्यथा रथनाभौ रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानः समर्पिता' इति श्रुतिः । रूपं रूपमिति । 'रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेत्ययं वै हरय'इत्यादि । युक्ता इति । रथयुक्तवाजिवत् अस्य इन्द्रस्य परमात्मनः रथस्थानीये आकाशे शरीरे युक्ताः गोविन्दं स्वविषयान्प्रति हरन्तीति हरयः इन्द्रियाणि, शता शतानि, नित्यलीलास्थभक्तेन्द्रियाभिप्रायेण दश प्राणाः, प्राणानामिन्द्रियपदवा- च्यत्वात् । मन्त्रः समाप्तः । नित्यलीलास्थगोपीजनवल्लभ उक्तः । लीलायां भेदवारणाय मन्त्रव्याख्यानं प्रकाशे । अयं वा इति । अयं परमात्मा । अत्र श्रुतिश्छान्दोग्ये 'आत्मत आविर्भावतिरोभावा'विति सर्वात्मभावप्रकरणश्रुतेः । पूर्वेभ्य इति । चतुर्दशपर्यायेभ्यः । तदभावादिति । 'अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्या'दिति जैमिनिसूत्रेणैकवाक्यत्वे भिन्नवाक्यत्वाभावात् । पूर्वोक्तेति । 'अयमेव स योयमात्मे'ति पूर्वोक्तरूपत्वम् । अपूर्वमिति । 'तदेतद्ब्रह्म' इत्यस्य अग्रे 'अपूर्वमनपर- मनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मित्यस्यापूर्वमित्यनेनेत्यर्थः । न दोष इति । सधर्मकत्वदोषो न । शून्यवाद्मेवेति । अन्ययोगव्यवच्छेदक एवकारः । द्वितीयस्कन्ध नवमाध्यायेऽपि कारणत्वाङ्गीकारात् साकारत्वाङ्गीकाराच्च । एवेति । पूर्वोक्तरूपत्वानन्तरत्वादियोगव्यवच्छेदकः । 1694

... wait! Ah, let's look at line 27, character by character: 1: 2:स्म3:(or is itद्?) Wait, look at line 26: रत्वमस्मदादिगोचरत्वम् ।-> wait, is itरत्वमस्मदादिगोचरत्वम्orरत्वमस्मदाद्यगोचरत्वम्? Wait! In Bhashya line 11: अस्मदाद्यगोचरत्वमेव प्रलयः, क्रमेण वा युगपद्वा तद्गोचरत्वमेव सृष्टिःBhashyaprakasha says:अस्मदाद्यगोचरत्वमेव प्रलयः, क्रमेण वा युगपद्वा तद्गोचरत्वमेव सृष्टिःHere "तद्गोचरत्वम्" refers to: whose gocara? Does "तद्" refer to "अस्मदादि"? Yes! Srishti is when it becomes gocara to them (अस्मदादिगोचरत्वम्)! And pralaya is when it is NOT gocara to them: अस्मदाद्यगोचरत्वम्! Now look at Rashmi explaining this: Line 25-26:तद्गोच- रत्वमस्मदादिगोचरत्वम् ।` Rashmi explains: "तद्गोचरत्वम् = अस्मदादिगोचर

१६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः । वाक्यान्युक्तानि, तेष्वपि 'अथात आदेश' इति वाक्यं तु न निर्विशेषप्रतिपादकमिति दर्शयितुंछात्रमा- ध्वाख्यान एव दर्शितम् । विदिताविदितवाक्यं तु तदुभयभिन्नत्वमेव वदति, न तु विशेषान्नि- षेधति । अथान्यत्वादिकथनेनमुखेन निषेधति, तदा लौकिकानेव निषेधति । तावतैव चारिता- र्ध्यम्, न तु स्वरूपात्मानपि । 'तदेतद् ब्रह्मे'त्यादिश्रुतिविरोधप्रसङ्गात् । 'यतो वाच' इति वागाद्यप्राप्यत्वमेव वदतीत्यनिरुक्तश्रुतिसमानार्थम्, न तु विशेषनिषेधकमित्यपि प्रागेव व्युत्पा- दितम् । 'अवचनेनैवोवाचे'त्यपि 'यतो वाच' इत्येतस्य समानार्थकम् । लौकिकसर्वधर्मराहित्या- देवोपशान्तत्वसिद्धेरिति । 'न सत्तन्नासदुच्यत' इति गीतावाक्यमपि व्याकृताव्याकृतयोरेव निषे- धकमिति लौकिकनिषेधपरमेव । 'सर्वतःपाणिपादन्त'मित्यग्रिमवाक्येन तथा निश्चयात् । सर्वतःपा- णिपादत्वादेः क्वापि लौकिके अदर्शनादिति । 'माया ह्येषे'ति वाक्यमपि सर्वभूतगुणयुक्तदर्शननि- षेधाभिप्रायकमिति तत्रैव स्फुटतीति न सार्वात्म्यबाधकम्, अतस्तत्तन्त्रव्याख्यानमपि तथा । एवं रश्मिः । ख्याविचारे यत्किमपि कार्यमविद्या च तत्सत्त्वेनैवानुभूयते, नतु प्रतिनियतेन तेन तेन रूपेणातो विजातीयद्वैतस्याप्यभावाच्छुद्धाद्वयसिद्धिरित्यर्थ इति' सन्दर्भे दूषितत्वेन, प्रयोजकहेतुत्वाभावात् । व्याख्यान एवेति नान्यत्रेत्येवकारः । तदुभयेति । विदिताविदितोभयभिन्नत्वमन्यदेवेत्यत्र भिन्नार्थ- कान्यशब्दप्रयोगात् । भिन्नवाचकपदसत्त्वान्निषेधवाचकपदाभावादेवकारः । विशेषानिति । द्विती- यान्तम् । अथेति पदार्थभिन्नप्रक्रमे । अन्यत्वादीति । आदिना विदितत्त्वाविदितत्वे । मुखमुपायः । निषेधतीति । विदितादन्यत् अविदितादन्यदित्युक्ते विदिताविदितप्रतियोगिकभेदवत्प्रतीतेः विदित- त्वाविदितत्वरूपसामान्यधर्मनिषेध इति निषेधतीत्यर्थः । एवेति । प्रक्षालनपङ्कन्यायात् । श्रुतिवि- रोधेति । तत्त्वसर्वात्मपदविरोधप्रसङ्गादित्यर्थः । वागादीति । आदिना मनः । एवकारोऽन्यस्य सविशेषत्वस्य योगव्यवच्छेदकः । नतु निर्विशेषत्वं वदतीत्यर्थः । किञ्च । अनिरुक्तेति । निरुक्तत्वे प्राप्तेऽनिरुक्तत्वं विरुद्धधर्माधारत्वार्थम् । तद्वद्वागप्राप्यत्वे प्राप्ते वाग्वृत्तिर्विरुद्धधर्माधारत्वार्थमित्य- निरुक्तश्रुतिसमानार्थमित्यर्थः । प्रागेवेति । अवचनेति । वचनेनोवाचेति प्राप्ते अवचनेनोवाचेति विरुद्धधर्माश्रयत्वाय । अवचनेन वचनविरुद्धवचनेन । परस्परं विरुद्धवचनेनेति यावत् । विरोधो नञर्थ इति । अत एवकारः । विरुद्धधर्माणांमन्याभिनिश्चयात् । एवेति । नत्वलौकिकसर्वधर्मराहि- त्यमुपशान्तत्वसिद्धिरपेक्षत इत्यर्थः । उपशान्तत्वं त्वेवम् । बाष्कलिना च राद्धः पृष्टः सन् 'अवचनेनैव ब्रह्म प्रोवाचे'ति श्रूयते 'स होवाचाधीहि भगवो ब्रह्मेति । स तूष्णीं बभूव, तं ह द्वितीये तृतीये वा वचन उवाच क्रथः खल त्वं न विजानासि उपशान्तोऽयमात्मे'ति । स ह बाष्कलिर्ह प्रसिद्धः । हे भगवन् पृष्टः सः पृष्टः । तं तूष्णींभूतं पृष्टं प्रति द्वितीय इति । प्रश्ने वचने, पृष्ट उवाच, क्रथः क्रमेण । सुपांसुः । हे खल, त्वं तु ब्रह्म न विजानासि, उपशान्तः लौकिकसर्वधर्मरहितः । यथा शान्तो वह्निर्भ- स्मात्मा । व्याकृतेति । लक्षणया सदसद्द्रव्ययोः । एवेति । समाकर्षाधिकरणोक्तवकारोयम् । तत्र शब्दाः स्वार्थात्तच्याव्यन्त इति । लौकिकेति । लौकिकसर्वधर्मनिषेधपरम् । श्रुत्येकवाक्यतासम्भवादेवकारः । इत्यग्रिमेति । अलौकिकसर्वधर्माणां सर्वतः पाणिपादान्तत्वादीनां बोधकेन । तथेति । लौकिकनिषे- धपरत्वेन निश्चयात् । सर्वत इति । आदिना सर्वतोऽक्षिशिरोमुखत्वम् । तत्रैवेति । वाक्य एव, नत्वन्यत्र, 'नैवं मां द्रष्टुमर्हसी'त्यंशेन स्फुटतीत्यर्थः । न सार्वात्म्येति । परिच्छेदेन सर्वात्मत्वधर्म- बाधकम् । एतादृशधर्मोपादानं जीवपरत्वेन प्रतीतानां ब्रह्मपरत्वप्रतिपादनाय । अत इति । सर्वा- 1696

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १६१ भाष्यप्रकाशः । वृद्धिह्राससूत्रे जलवृद्धिह्रासाभ्यां प्रतिबिम्बवृद्धिह्रासकथनपि तथा । भूयसि स्वल्पेपि च जले सूर्यादिप्रतिबिम्बस्य तुल्यताया एव ग्रहणात् । अतोत्राकाशदृष्टान्तेन धर्माणामौपाधिकत्वसमर्थन- मेव युक्तम्, न तु जलसूर्यदृष्टान्तसमर्थनमित्यवधेयम् । यत्तु भामत्यामेतत्तात्पर्यमुक्तम् । उपाधिजनितस्य रूपस्य पारमार्थिकत्वे ब्रह्मणः परिणामि- भावः । स च प्राक्प्रतिषिद्ध इत्यपारमार्थिको ब्रह्मण्यध्यस्त इति । निर्विशेषप्रतिपादनार्थत्वाच्छ्रु- तीनाम् । सविशेषतायामपि मधुविद्यायां 'यश्चायमस्यां पृथिव्या'मित्यादिभिर्ब्रह्मैकत्वप्रतिपादनपर- त्वात् । एकत्वनानात्वयोश्चैकस्मिन्नसम्भवात् । एकत्वाङ्गत्वेनैव नानात्वप्रतिपादनपर्यवसानात् । नानात्वस्य प्रमाणान्तरसिद्धत्वेनानुवाद्यत्वादेकत्वस्य चानधिगतेर्विधेयत्व

१६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ९ सू० १०. भाष्यप्रकाशः। द्वैताभिधायिनीनां तत्तल्लयपरत्वम् । तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सत् ब्रह्म परमार्थतः । विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादर्ता इति सिद्धमिति । तदप्यसङ्गतमेव । ब्रह्मणः परिणामिभावस्य श्रुतिषु सूत्रेषु च प्रतिषेधादर्शनात् । 'बहु स्यां प्रजायेये'ति, 'स आत्मानं स्वयमकुरुते'त्यादिश्रुतिषु, 'आत्मकृतेः परिणामा'दित्यादिषु सूत्रेषु च तद्विपरीतस्य विधानस्यैव दर्शनाच्च । नच वाचारम्भणवाक्यं विकारस्य वाङ्मात्रताकथनमुखेन तद- भावमेव बोधयत् प्रतिषेधतीति शक्यवचनम् । तत्र तत्कथनमुखेन कारणाभिन्नत्वबोधनस्यैव भग- वता सूत्रकारेणादृततया स्वयमन्यादर्तुमयुक्तत्वात् । तदनादृत्यादरे तु 'वाचारम्भणं विकारो मृत्तिकैव सत्य'मित्येतावत्तैव चारितार्थ्येन, इतिशब्देनामधेयपदयोर्वैयर्थ्यस्य दुर्वारत्वमित्यादिकं तदनन्यत्वसूत्रभाष्यविभागे एव विवृतमिति न पुनः प्रपञ्च्यते । अतो निर्विशेषप्रतिपादनार्थत्वं यच्छ्रुतीनामङ्गीकृतम्, तदप्यभिमानमात्रमेवेति प्रागेवोपपादितम् । एकत्वनानात्वयोरेकत्रासम्भ- वस्तु 'इदं सर्वं यदयमात्मा' 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्ता'दित्यादिश्रुतिभि- रेवोदस्त इति तस्य निर्विशेषतासाधनादरः श्रुतिप्रद्वेषादेव । एकत्वाङ्गत्वेन नानात्वप्रतिपादनं त्विष्टमेव, परन्तु तन्न नानात्वस्यापोद्यत्वाय, अपि त्वभेदस्य भेदविरुद्धसम्पत्त्वबोधनायेत्यप्युक्तं पूर्वम् । नानात्वस्य प्रमाणान्तरसिद्धत्वं तु लौकिकस्यैव, न तु ब्रह्मधर्मभूतस्यैकत्वाविरोधिनः । तादृशस्य रश्मिः। अन्येति । चक्षुर्विद्येत्यात् । तथाच नार्थवादत्वमिति भावः । तस्येति । नानात्वस्य । 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण' इति श्रुत्या तस्य भेदस्य प्रलयपरत्वम् । 'प्रज्ञां कुर्वीते'त्यस्य दृशिमात्रं ब्रह्म कुर्यात्प्रपञ्चप्रविलायनेनेत्यर्थात् । उपाधीत्यादि । अन्यत्राप्रसिद्धानामप्य- स्तत्वं भ्रमात् । इत्यादिष्विति । सूत्राणि तु समन्वयादिलादीनि द्रष्टव्यानि । तद्विपरीतस्य प्रतिषेधविपरीतस्य । एवेति । प्रतिषेधयोग्यव्यवच्छेदक एवेति । तदभावमेवेति । परिणामिभावस्य प्रतिषेधम् । एवकारोऽन्ययोग्यव्यवच्छेदकः । प्रतीषेधतीति । ब्रह्मणः परिणामिभावं प्रतिषेधति । एवेति । स्वसिद्धान्तभाष्यादेवकारः । तदिति । भाष्यम् । तदनन्येति । विभागो व्याख्यानम् । एवकारोऽन्ययोग्यव्यवच्छेदकः । एवेति । नतु युक्त्यन्तरदूषणेन प्राप्तम् । प्रागेवेति । तदनन्यत्वा- धिकरणे । एवकारोधिकरणान्तरयोग्यव्यवच्छेदकः । एषोदस्त इति । निर्धारणेनोदस्तः । एकात्मत्व- विधानेन तमःपरत्वेन चोदस्तः । श्रुतिप्रेति । श्रुतीनामक्षरमात्रान्याथाप्रतिपादकत्वेन विरुद्धधर्मा- श्रयत्वे लोकविरोधाल्लोकेषः, आलोचनयुक्त्यभावात्, दुरूह जिज्ञासोदयात् । अनुभवादेवकारः । इष्ट- मेवेति । नानात्वं विना सात्त्विकज्ञानेनैकत्वज्ञानानुदयादिष्टम् । एवेति । एकत्वस्याष्टादशाध्यायगी- तयोपबृंहणादेवकारः । विरुद्धधर्माधारप्रकरणादाहुः परन्त्विति । तन्नेति । एकत्वं न । अभेदस्य एकत्वस्य भेदो नानात्वं तद्विरुद्धत्वसम्पत्त्वबोधनाय । पूर्वमिति । प्रकाशाश्रयवत्सूत्रे । प्रमाणान्तरेति । प्रत्यक्षसिद्धत्वम् । एवकारव्यवच्छेद्यमाहुः नत्विति । तादृशस्येति । नानात्वस्य । तादृशशब्दो रूढः । अवयवार्थो नास्ति । कुत्र रूढ इति चेत् । तत्पूर्वोक्तमेकत्वाविरोधिृत्वं दृश्यते यत्र तत्र । योग इति चेत्, वैदिकेस्तु, तल्लोके रूढ्यर्थं गृह्यते । योगस्तु तमिवेमं पश्यन्ति जना इति । बहुव्रीहिप्रसङ्ग इति चेत्, १. मुद्रितभामत्यामप्यस्ता इति पाठ उपलभ्यते, श्रीहस्ताक्षरपुस्तके तथैव केश्वित् शोधितः, तथापि भाष्यप्रकाशका- राणां त्वयमेव पाठः संमत इति 'विशेषाणामस्ताते' तिफक्किकया प्रतिभाति, अतो यथोपलब्ध एव पाठोत्रावृत इति । खार- स्वस्य तस्मिन्नेव रक्षणादिति । 1698

ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति ।' L17: 'तद्धि प्रकृतम् । प्रपञ्चितं च पूर्वस्मिन् ग्रन्थे अधिदैवतमध्यात्मं च । तज्जनितं च वासनालक्षणम-'

Now रश्मि: L18: 'रश्मिः ।' L19: 'तत् दृश्यत इति पदद्वयं तादृश इति प्रयोगे यत्रेति तु स्पष्टार्थम् । स्वरूपान्तरिति । 'अविभक्तं च भूतेषु' L20: 'विभक्तमिव च स्थित'मिति गीतायाः । तोषणायैवेति । 'नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्चे'ति' L21: 'सूत्रेणालंयोगे चतुर्थी । व्याख्येयेति । नानालापनोदेनैकत्वसमर्थनाय । अतो विरुद्धधर्मधारत्वमर्थ-' Wait, in L21: 'विरुद्धधर्मधारत्वमर्थ-' or 'विरुद्धधर्मधारकत्वमर्थ-'? Look at L21: 'विरुद्धधर्मधारत्वमर्थ-' -> 'धा', 'र', 'त्व', 'म', 'र्थ'. Yes, 'विरुद्धधर्मधारत्वमर्थ-'. L22: 'वादत्वाभावात्सुस्थिरमिति भावः । ननूक्ताया भेददर्शननिन्दायास्तादृशेष्ववतारात्स्वरूपान्तःपातित्वं'

परं रूपममूर्तरसभूतपुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं माहारजनाद्युपमाभिर्दर्शितम् । तदेतत् सप्रपञ्चं ब्रह्मणो रूपं सन्निहितालम्बनेनेतिकरणेन प्रतिषेधकेनञ् प्रत्युपनीयत इति गम्यते । ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्वस्मिन् ग्रन्थे, न तु स्वप्रधानत्वेन । प्रपञ्चिते च रूपद्वये रूपवतः स्वरूपजिज्ञासायामिदमुपक्रान्तं 'अथात आदेशो नेति नेती'ति । तत्र कल्पितरूपप्रत्याख्या- नेन ब्रह्मणः स्वरूपावेदनमिदमिति निर्णीयते । नच स्वरूपद्वयं स्वयमेवोक्त्वा स्वयमेव निषेधे 'प्रक्षा- लनाद्धि पङ्कस्ये'ति न्यायेनाकथनमेव युक्तं स्यादिति शङ्क्यम् । एतस्य रूपद्वयस्य लोकप्रसिद्धस्य ब्रह्मणि कल्पितत्वेन प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय च तत्परामर्शेन कथनस्य युक्त- त्वात् । द्वौ चैतौ निषेधौ यथासंख्यं मूर्तामूर्ते प्रतिषेधतः । यद्वा । पूर्वप्रतिषेधो भूतराशिं निषेधति, उत्तरस्तु वासनाराशिम् । अथवा, 'नेति नेती'ति वीप्सा । तत्र 'इती'ति यावत्किञ्चिदुत्प्रेक्ष्यते, तत्सर्वं 'ने'त्यनेन निषिध्यते । परिगणितनिषेधे हि क्रियमाणे यदि नैतद्ब्रह्म, किमन्यत् ब्रह्म भवे- दिति जिज्ञासा स्यात् । वीप्सायां तु सत्यां समस्तविषयजातस्य प्रतिषेधाद् अविषयः प्रत्यगात्मा विराडात्मा एतच्चाधिदैविककारणात्मकस्य ब्रह्मणो रूपम् । निश्चयपूर्वकं पुनराह त्यस्य ह्येष इति । त्यमित्युक्तस्य हि निश्चयेन एष रसः रसशब्दप्रतिपाद्यः सारः वासनेत्यावृत्तिः । एवमुक्तमाधिदैविकं विभागमुपसंहरति स अधिदैवतमिति । लिङ्गात्मेति । 'तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्५ सकृद्विद्युतेव ह वा अस्य श्रीर्भवति य एवं वेदे'ति श्रुतिः । अत्र तस्याधिदैविकस्य ह एतस्याध्यात्मिकस्य लिङ्गपुरुषस्य आत्मनीत्यध्यात्मं तत्सम्बन्धिन इत्यर्थात् । मनसो वासनामयं रूपम् । यथा लोके महारजनं हरिद्रा तया रक्तं माहारजनं वासः वस्त्रम् । 'तेन रक्तं रागादि'ति सूत्रेणाण् । एवं रूपादिविषयसंयोगे सति । तादृशं रञ्जनाकारमुत्पद्यते । तथा चावेरिदमाविकम् । ऊर्णादि यत्पाण्डुरम् । तथान्यद्वासनारूपं लिङ्गस्य जायते । तथा चेन्द्रगोपः वर्षाकालीनकीटविशेषः कौसुम्भवदत्यन्तरक्तो भवत्येवमेवास्य वासणारूपम् । यथाचाग्न्यर्चिर्भास्वरं भवति, तथा कचित्कस्यचिद्वासनारूपम् । यथाच पुण्डरीकं शुभ्राम्भोजं तद्वदपि कचित्कस्यचिद्वासनारूपं भवति । यथाच सकृद्विद्युतं विद्योतनं सर्वतः प्रकाशकं भवति । यथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचिद्धिरण्यगर्भादेर्वासनारूपमुपजायते । सत्त्वा- दितारतम्यादित्यर्थः । चरमोक्तहिरण्यगर्भवासनारूपोपासनफलमाह सकृदिति । एवं यथोक्तमत्यन्तं हिरण्यगर्भवासनारूपं यो वेद अस्योपासकस्य सकृद्विद्युतेव विद्योतनमिव श्रीः शोभा ख्यातिर्भवति । ह वै भवत्येवेत्यर्थः । तदेतदुक्तं लिङ्गात्मेत्यारभ्य दर्शितमित्यन्तेन । 'अथात आदेशो नेति नेती'त्यस्या र्थमाह तदेतदिति । सन्निहितं मूर्तामूर्तं आध्यात्मिकमाधिदैविकं च तेषामवलम्बनं ग्राह्यं प्रतिपाद्यं यस्येतिकरणस्य तेन । प्रतिषेधकेति । प्रतिषेधकं नञ् प्रतिषेधकनञ् तं प्रति प्रतियोगितासम्बन्धेनो- पनीयते प्राप्यते । 'द्वे वा व ब्रह्मणो रूपे' इत्यत्राह ब्रह्म त्विति । ब्रह्मसम्बन्धिनी रूपे इति रूपविशे- षणत्वेन । ग्रन्थे श्रुतौ । रूपवत इति । ब्रह्मणः । स्वयमेवेति, नतु 'तदेषाभ्युक्ते'तिवदन्यमुखेन । एवमग्रेपि । प्रक्षालनेति । 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर'मितिन्यायेन । एवेति । कथन- योग्यव्यवच्छेदकः । परीति । परिगणितानां वस्तूनां मूर्तामूर्ताधिदैवताध्यात्मिकानां निषेधे । एतदिति । वासनामूतम् । अविषयः स्वयंप्रकाशः । 'प्रकृतैतावत्त्वं हि प्रतिषेधती'ति व्याकृत्य 'ततो ब्रवीति च १. मूले रश्मौ च प्रतिषेधकनमिति पाठः, मुद्रितपुस्तके प्रतिषेधकमनमिति ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १६५ भाष्यप्रकाशः । ब्रह्मणेति जिज्ञासा निवर्तते । तस्मात् ब्रह्मणि कल्पितं प्रपञ्चं प्रतिषेधति, ब्रह्म तु परिशिनष्टीति निर्णयः । किञ्च । ततः प्रतिषेधात् 'भूयो ब्रवीति' 'अन्यत् परम्स्ती'ति । अभावावसाने हि निषेधे किमन्यत् परम्स्तीति ब्रूयात् । अतोपि ब्रह्मैव परिशिनष्टीति निर्णयः । तत्रैषा श्रुत्यक्षरयोजना । नेति नेतीति ब्रह्मादिश्य तमेवादेशं पुनर्निर्वक्ति । नेति नेतीत्यस्य कोर्थः । न ह्येतस्माद्ब्रह्मणो व्यति- रिक्तम्स्तीत्यतो नेतीत्युच्यते, न पुनः स्वयमेव नास्तीत्यर्थः । तच्च दर्शयति 'अन्यत् परम्स्ती'ति । यदा पुनः श्रुत्यक्षराप्येवं योज्यन्ते, न ह्येतस्मादिति नेति । न हि प्रपञ्चनिषेधरूपादादेशनादन्यत् परं ब्रह्मण आदेशनं नास्तीति, तदा 'ततो ब्रवीति च भूय' इत्येतन्नामधेयविषयं योजनीयम् । 'अथ नामधेयं सत्यस्य सत्य'मिति, 'प्राणा वै सत्यं तेषामेष सत्य'मिति हि ब्रवीतीति । तच्च ब्रह्मा- वसाने निषेध उपपद्यते । अभावावसाने तु किं 'सत्यस्य सत्य'मित्युच्येत । तस्माद्ब्रह्मावसानोऽयं निषेध इति सूत्रं व्याचक्षुः । तत् ब्रह्मास्ति चेत्, कुतो न गृह्यते इति शङ्कायां तदन्यक्तसूत्रम्, तस्य च, 'न चक्षुषा गृह्यते,' 'स एष नेति नेत्यात्मा,' 'अगृह्यः', 'यदा ह्येवैष एतस्मिन्नदृश्ये,' 'यत्तद- दृश्यमग्राह्यम्,' 'अव्यक्तोऽयमचिन्त्योऽय'मिति विषयवाक्यानि धृत्वा, सर्वसाक्षित्वादनिन्द्रियग्रा- ह्यमिति व्याख्याय, 'अपि संराधन'सूत्रे भक्तिध्यानप्रणिधानाद्यनुष्ठानरूपसंराधनेन 'कश्चिद्धीरः प्रत्यगात्मानमैक्षत्,' 'ज्ञानप्रसादेन विशुद्धसत्त्व' इत्यादिश्रुत्यनुरोधेन अव्यक्तस्यापि ब्रह्मणो दर्शन- मङ्गीकृत्य, ननु संराध्यसंराधकभावाभ्युपगमात् परेतरात्मनोरन्यत्वं स्यादिति शङ्कायां तन्निषेधाय 'प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासा'दिति सूत्रमवतार्य, यथा प्रकाशाकाशसूर्यादयोऽङ्गु- लिकरकोदकादिषु कर्मण्यपाधिभूतेषु सविशेषा इवावभासन्ते, न च स्वाभाविकीमविशेषात्मतां जहति, एवमुपाधिनिमित्त एवायमात्मभेदः, स्वतस्त्वैकात्म्यमेव । तथाहि वेदान्तेष्वभ्यासेनासकृ- ज्जीवप्राज्ञयोरभेदः प्रतिपाद्यत इति व्याख्याय, 'अतोऽनन्तेन तथाहि लिङ्ग'मिति सूत्रं च अमे- दस्य स्वाभाविकत्वात् भेदस्य चाविद्याकृतत्वाद्विद्यया अविद्यां विधूय जीवः परेणानन्तेन प्राज्ञे- नैक्यं गच्छति । तथाहि लिङ्गम् । 'स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति, ब्रह्मैव सन् ब्रह्मा- प्येती'त्यादीनि व्याख्याय, स्वमतशुद्धये तस्मिन्नेव संराध्यसंराधकभावे मतान्तरोपन्यासायाहिकुण्ड- लादिसूत्रद्वयमित्येवं तदवतार्य, 'ततस्तु तं पश्यते निष्कलं ध्यायमानः,' 'परात् परं पुरुषमुपैति रश्मिः । भूय' इति व्याकरोति स्म किञ्चेति । 'अन्यत्परमस्ती'ति श्रुतिस्तत्रत्या । अभावावसाने वासनावसाने- ऽप्यभावो वासनायामवसानं यस्य निषेधस्य तस्मिन्सति । ब्रूयादिति । किमः प्रश्ने प्रयोगात्प्रश्नं ब्रूयात् । अतोपीति । वीप्सया प्रतिषेधात् । तमेवेति । एतन्निर्वचनस्याग्रे दर्शनादेवकारः । श्रुतिस्तु 'नेति नेति नह्येतस्मादिति नेत्यन्यत्परमस्तीति प्राणा वै सत्यं तेषामेष सत्य'मिति । 'नह्येतस्मादिति' 'नेत्यन्यत्परमस्ती'ति द्वितीयपाठः । दर्शयतीति । श्रुतिः । नामधेयविषयं यथा तथाहुः अथेत्यादि । तत इत्यस्यार्थः आनन्तर्येऽथशब्दः । तदनन्तरम् । हीति चकारार्थः । ब्रवीति भूयो ब्रवीति । तच्चेति । सत्यत्वम् । वीप्सापक्षे ब्रह्मावसानं तस्मिन् । ब्रह्मण्यवसानं यस्य निषेधस्य तस्मिन्सत्युपपद्यते । सर्वेति । सर्वेषां साक्षित्वात् । इत्यादीति । 'ततस्तु तं पश्यते निष्कलं ध्यायमान' इति । परेति । परं च इतरात्मा चेति तयोः । प्रकाशेति । आदिना चन्द्रः । अङ्गुलीति । आदिना आदर्शः । यथासंख्यमधिकरणानि । कर्मस्विति । कर्मणीति सौत्रपदार्थः । अस्य विवरणमुपाधिष्विति रूढ्या । सविशेषा इति । विशेषा अङ्गुल्यादयः तैः सह समाना वा सविशेषाः । एवेति । 'मृत्योः स मृत्युमा- प्नोती'ति श्रुतेरेवेति । ऐकात्म्यमेवेति । 'यत्र त्वस्य सर्वमात्मैवाभू'दिति श्रुतेरेवकारः । अभ्यासा- [1701]

१६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः। दिभ्यम्', 'यः सर्वाणि भूतान्यन्तरो यमयती'त्यादौ ज्ञातृध्येयत्वद्रष्टृद्रष्टव्यत्वाभ्यां गन्तृगन्तव्य- त्वेन नियन्तृनियन्तव्यत्वेन च भेदो व्यपदिश्यते । 'तत्त्वमसि' 'अहं ब्रह्मास्मि', 'एष त आत्मा सर्वा- न्तर एष त आत्मान्तर्याम्यमृत' इत्यभेदश्च । एवमुभयव्यपदेशे सति यद्यभेद एकान्त एव गृह्येत, तदा भेदव्यपदेशो निरालम्बन एव स्यात् । अतो यथा अहिरित्यभेदः, कुण्डलाभोगप्रांशुत्वादी- नेति भेदः, एवमिहापि उभयव्यपदेशदर्शनादङ्गीकर्तव्यः । अथवा । यथा सौर्यः प्रकाशस्तदाश्रयश्च सूर्यो नात्यन्तभिन्नौ, उभयोस्तेजस्त्वाविशेषात्, अथ च भेदव्यपदेशभाजौ भवतः, एवमिहापीतिव्या- ख्याय, ततः, पूर्ववद्वेत्यादिसूत्रद्वयं सिद्धान्तीत्यत्वेनाभिप्रेत्य, यथा वा, 'प्रकाशादिवच्चावैशेष्य'मिति सूत्रे पूर्वमुपन्यस्तं तथैवैतद्भवितुमर्हति । तथा सत्यविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते । यदि पुनः परमार्थत एव बद्धः कश्चिदात्माऽहिकुण्डलन्यायेन परमात्मनः संस्थानभूतः प्रकाशाश्रय- न्यायेन वा एकदेशभूतोऽङ्गीक्रियते, तदा बन्धस्य पारमार्थिकत्वेन तिरस्कर्तुमशक्यत्वान्मोक्षशास्त्र- वैय्यर्थ्य स्यात् । श्रुतिश्च भेदाभेदौ न तुल्यवद्व्यपदिशति, किन्तुवभेदं प्रतिपाद्यत्वेन निर्दिशति । भेदं तु पूर्वप्रसिद्धमेवानुवदत्यर्थान्तरविवक्षया । किञ्च । 'नान्योऽतोऽस्ति द्रष्टे'त्यादिना चेतना- न्तरं निषेधति, 'अथात आदेशो ने'ति, 'तदेतद्ब्रह्मापूर्वमनपर'मित्यादिना च प्रपञ्चम् । अतोऽ- न्यनिराकरणाद्ब्रह्ममात्रपरिशेषणाच्च 'प्रकाशादिवच्चावैशेष्य'मितिसूत्रोक्त एव सिद्धान्त इत्याहुः । तदसङ्गतम् । तद्रीतिके प्रथमसूत्रव्याख्याने मूर्तामूर्तप्रतिषेधस्य 'प्रकृतं प्रतिषेधती'त्येताव- तैव सिद्धेरेतावत्त्वमित्यस्य, एतावत्त्वपदादरे च प्रकृतपदस्य वैय्यर्थ्यप्रसक्तेर्दुर्নিবারत्वात् । एताव- त्वमिति त्वप्रत्ययस्य भावेऽनुशिष्टत्वेन एतावता परिच्छिन्नस्य मूर्तामूर्तलक्षणरूपद्वयस्य तेन पदे- नालाभात् । त्वस षष्ठ्यन्तादनुशिष्टत्वेन तृतीयान्तादभवनेनापि तथात्वाच्च । अथ तन्न विग्रहवा- क्यम्, किन्त्वर्थमात्रकथनमित्युच्यते, तदापि रूपद्वयात्मकस्य सर्वस्य प्रपञ्चस्य परिच्छिन्नान्तर्निवे- रश्मिः। दिति सौत्रं पदं व्याकरोति स्म तथाहीति । अविद्यां विधूयेत्यावरणभङ्गः । तद्वतार्येति । सूत्रद्वय- मवतार्य । एवेति । आलम्बनयोग्यव्यवच्छेदकः । अतो यथेति । रङ्गुरहिरित्यभेदः । अहेः कुण्डलमा- भोगो रङ्गुः । प्रगतः अंशुः प्रांशुः तत्त्वम् । उभयेति । भेदाभेदव्यपदेशदर्शनात् । प्रकाशाश्रयसूत्रव्या- ख्यानमाहुः अथवेति । भेदरूप्येति । सूर्यस्य प्रकाश इति प्रयोगादिति भावः । अभिप्रेत्येति । इत्याहुरित्यनेनान्वेति । कथं सिद्धान्तत्वेनाभिप्रेतत्वमित्यतः पूर्वसूत्रीयभाष्यं प्रक्षिपन्ति स्म यथा वेति । इतीति । इति पूर्वं तस्मिन्सूत्र उपन्यस्तमितियोजना । एतदिति ब्रह्म । बन्धस्य भेदस्य । मोक्षोऽभेद उपपद्यते । संस्थानेति । ज्ञातृध्येयादिभावात्तथा । एकदेशेति । भेदव्यपदेशभाक्त्वपक्षे ब्रह्मण एकदेशभूतः । भेदं त्विति । ध्यातृध्येयभावाद्भेदं तु पूर्वं अविद्यावस्थायां प्रसिद्धम् । एवेति । सार्वत्रिकत्वादेवेति । अन्विति । सिद्धस्य कथनमनुवादः । अर्थोऽभेदः अन्योऽर्थः भेदः अर्थान्तरं तस्य विवक्षया । प्रतिषेधसूत्रार्थमाहुः किञ्चेति । एवेति । अपिसंराधनसूत्रोक्तस्य सिद्धान्तत्वयोग्यव्यव- च्छेदकैवकारः । ननु प्रकृतं मूर्तामूर्तं एतावत्त्वं यत्पदं इत्येवमेतावत्त्वपदादरे तस्य तद्वाच्यत्वे लक्षणायाः क्वचित् सिद्धत्वेनादोषादूषणान्तरमाहुः प्रकृतपदस्येति । मूर्तामूर्तेति । भावप्रत्ययरहितस्य । तेनेति । भावप्रत्ययसहितेन । तृतीयान्तादिति । एतावता मूर्तामूर्तेन भावः प्रकृतजन्यबोधे प्रकारः एतावत्त्वम् । प्रकृतेन मूर्तामूर्तेन विशेषणेन जन्यो नेति नेतीत्युक्तब्रह्मविशेष्यकबोधः तत्र प्रकारः । तथात्वादिति । तेन पदेनालाभात् । अथेति । भिन्नप्रक्रमे । तत् एतावत्ताभावः । तदित्यव्ययात् । एतावतोर्भाव 1702

श्शादेतावतेत्यत्राभिप्रेतस्य परिच्छेदकस्यालाभेनासङ्गतिः । नच लौकिकप्रमाणमेव तथेति वाच्यम् । जन्मादिसूत्रव्याख्याने 'मनसाप्यचिन्त्यरचनारूपस्ये'ति श्लोकस्य प्रपञ्चविशेषणस्य विरोधेन तथा वक्तुमशक्यत्वाच्च । किञ्च, अत्र मूर्तामूर्तं रूपद्वयं यत्प्रकृतत्वेन विवक्षितं तत्प्राधान्यमालम्ब्य । तत् तस्य किं स्वेन रूपेण ब्राह्मरूपत्वेन वा । नाद्यः । ब्रह्मणो रूपे इति विशेषणवैयर्थ्यप्रसङ्गात् । द्वितीये तु ब्रह्मण एव प्राधान्यम् । ब्रह्मपरिचायनार्थमेव रूपद्वयस्य कथनात् । ब्रह्मण एवात्रोपदे- श्यत्वाच्च । नच सम्बन्धषष्ठ्यन्तपदेन बोधनाद्ब्रह्मणोऽप्राधान्यमिति युक्तम् । 'राहोः शिर' इति- वदभेदेपि षष्ठीभवनेन सम्बन्धषष्ठ्या प्राधान्याबाधात् । 'आनन्दं ब्रह्मणो विद्वा'नित्यत्र स्वयम- प्यभेदे षष्ठ्याः स्वीकृतत्वात् । कार्ये कारणानन्यत्वस्य भगवता सूत्रकारेणोक्ततया 'द्वे वा व ब्रह्मणो रूपे' इत्यत्र ब्रह्माभिन्ने रूपे इत्यर्थस्य वक्तुमुचितत्वाच्च । अतो ब्रह्मणः प्राधान्यस्याविधा- तात् 'ब्रह्म ते ब्रवाणि'ति वाक्योपन्यासेन स्वयमेवोपक्रान्तत्वाङ्गीकारादग्रे उपदेश्यत्वाच्च ब्रह्मणः प्रकृतत्वसिद्धौ तस्मिन्नेतावत्त्वं परिच्छिन्नत्वं प्रतिषेधतीत्येव व्याख्यातव्यम् । एतावच्छब्दस्य परि- च्छिन्नवाचकतायाः प्रसिद्धत्वात् । तथाच मूर्तामूर्तमात्रत्वं ब्रह्मणि नास्तीत्यर्थः सिध्यति, न तु प्रकृतं यदेतावता परिच्छिन्नमिति सिध्यति । एवञ्च, 'नेति नेती'ति श्रुतिव्याख्याने नञ्द्वयेन यथा- संख्यं मूर्तामूर्तनिषेधे वासनाशेषात् तद्विहाय भूतराशीवासनाराश्योर्निषेधाङ्गीकारे परिगणितनि- षेधेन, यदि नेदं ब्रह्म, किमन्यद्ब्रह्मेति शङ्कापत्तेस्तदपि विहाय वीप्सया यावत्प्रपञ्चजातनिषेधो यदङ्गीकृतः, सोपि तथा । भूतराशिनिषेधे कैमुतिकादेव वासनाराशिनिषेधसम्भवेन तदर्थं निषे- धापेक्षाभावात् । त्यक्ते यथासंख्ये वासनानिषेधावतारकप्रमाणाभावात्, वासनाया अनुक्तत्वेन तन्निषेधस्याप्ययुक्तत्वाच्च । अत एव न यावनिषेधोपि युक्तः । यदपि 'न ह्येतस्मा'दिति 'नेत्यन्यत् परमस्ती'त्यस्य योजनाद्वयम् । तत्र प्रथमयोजनायां निषेध- वीप्सया ब्रह्मव्यतिरिक्ताभाव उच्यते, न पुनर्ब्रह्माभावः, तदेव दर्शयति'अन्यत्परमस्ती'ति व्याख्यातम् । एतावत्त्वमिति षष्ठ्यन्तविगृहीतसार्थमात्रकथनम् । अभीति । अभेदसंसर्गेणाभिप्रेतस्य मूर्तामूर्तरूपस्य परिच्छेदकस्यालाभेन एकस्य परिच्छेदकपरिच्छिन्नभावायोगात् परिच्छिन्नपरिच्छेदकभावासंगतिरित्यर्थः । लौकिकेति । यादृशपरिच्छेदकेन मूर्तामूर्तेन यादृशं मूर्तामूर्तं परिच्छिन्नमिति लौकिकप्रमाणं चक्षुरादि तदैव नतु अलौकिकं प्रमाणं तथा संगतिप्रयोजकम् । भाष्ये प्रकृते ब्रह्मणि यदेतावत्त्वं लौकिकधर्मवत्त्वं तत्समर्थयितुमाहुः किञ्च, अत्रेति । प्राधान्येति । मूर्तामूर्तयोः प्राधान्यमालम्ब्य तत्तस्य प्राधान्यं तस्य मूर्तामूर्तस्य । स्वेन मूर्तामूर्तरूपेण । ब्राह्म(ण) इति । मूर्तामूर्तं ब्राह्मणामिति ब्रह्मसम्बन्धिविशेषणरूपत्वेन । विशेषणस्य ब्रह्मणो वैयर्थ्यप्रसङ्गात् । ब्रह्मण एवेति । नतु मूर्तामूर्तयोरिति मूर्तामूर्तान्ययोगव्यवच्छेदक एवेति । एवेति । प्रसिद्धेरेवकारः । ब्रह्मण एवेति । 'द्वे वा व ब्रह्मणो रूपे' इत्युपक्रमात् । 'तेषामेष सत्य'मित्युपसंहाराच्चैवकारः । स्वयमिति । श्रुत्या । तदनन्यत्वसूत्रकारेण । ब्रह्म ते ब्रवाणीत्यादि । तथाच तद्भाष्यं प्रकृतसूत्रस्य । 'ब्रह्म ते ब्रवाणि'त्याद्युपक्रमविरोधात् । 'असन्नेव स भवति असद्ब्रह्मेति वेद चे'दित्यादिनिन्दाविरोधादिति । अग्रे इति । उपसंहारे 'तेषामेष सत्य'मित्यनया । प्रतीति । प्रतिषेधत्येवेति व्याख्येयम् । अयोगव्यवच्छेदक एवकारः । एतावतेति । परिच्छिन्नत्वेन धर्मेण परिच्छिन्नं ब्रह्मेत्यर्थः । त्यक्त इति । वासनानिषेधापेक्षाभावात्त्यक्ते द्वितीयपक्षोक्ते यथासंख्ये । यद्वा । पूर्वप्रतिषेधो भूतराशि निषेधस्तूत्तरस्तु वासनाराशिमिति । अत एवेति । भूतराशिनिषेधेन कैमुति-

१६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः। तदपि तथा । ब्रह्मव्यतिरिक्तनिषेधोत्तरं ब्रह्मसत्ताप्रदर्शनस्य अन्यदस्तीत्येतावत्तैव सिद्ध्या परपदवैयर्थ्यापत्तेः । अतो व्यतिरिक्तनिषेधेनाव्यतिरिक्तत्वं सर्वस्य स्वीकृत्य तावन्मात्रत्ववारणाय परं ब्रह्मान्यदस्तीत्यङ्गीकार्यमित्येव युक्तम् । द्वितीययोजनायामपि परपदवैयर्थ्यं पूर्ववदेव । तदर्थं परपदमुत्कृष्टार्थकतया व्याख्येयम् । तत्र चाभावावसान एव निषेधः सिद्ध्यतीति ब्रह्मसत्तासाधनाय, 'ततो ब्रवीति च भूय' इति सूत्रांशं नामधेयविषयत्वेन योजयित्वा, नामधेयेन तत्सत्तां साध- यित्वा, निषेधस्य ब्रह्मावसानत्वमुपपादितम् । तदपि तथा । नामधेयाङ्गीकारे तद्वत्तासिद्ध्या याव- द्विशेषशून्यत्वप्रतिज्ञाहानिप्रसङ्गात् । नामधेयकथनमात्रेणैव तत्सत्तासिद्धेस्तन्निर्वचनश्रुतिवैयर्थ्यप्र- सङ्गात् । तदादरे च 'चक्षुषश्चक्षु'रित्यादिवन्नियामकत्वतन्मूलरूपत्वयोः सिद्ध्या प्रतिज्ञाहानिस्ताद- वस्थ्याच्च । एवं तदव्यक्तादिसूत्रद्वयेऽपि यदि ब्रह्मणो दृश्यत्वादृश्यत्वयोर्द्वयोरपि स्थापनम्, तदा तु विरुद्धधर्माश्रयत्वापत्तिः । यदि च साधनाभ्यासपाकवशात् दृश्यत्वम्, तदभावे अदृश्यत्वमिति व्यवस्था, तदापि दृश्यत्वस्य प्रामाणिकत्वे 'यतो वाच' इत्यादिश्रुतिविरोधात्तादवस्थ्यम् । अप्रा- माणिकत्वे च 'कश्चिद्धीर' इत्यादिश्रुतेस्तदुक्तसाधनानां च वैयर्थ्यम् । अपिसंराधनसूत्रस्य च, न हि तेन कश्चिन्निर्णयः सिध्यति, अपि तु ब्रह्मणो दृश्यत्वबोधनेन, जीवब्रह्मणोः संराधकसंराध्याभावा- च्छेदबोधनेन च संशयस्यैवोत्पत्तिरिति । यदपि प्रकाशादिवत्सूत्रे जीवब्रह्मणोरभेदं युक्त्या व्याख्याय तत्र प्रमाणापेक्षायां वेदान्तेषु जीवप्राज्ञयोरभेदप्रतिपादनाभ्यासो हेतुत्वेन व्याख्यातः । सोऽपि शिथिलः । सौत्रस्याभ्यासपदोक्तस्य हेतोर्वैशेष्ये कर्मणि प्रकाशे च साधारण्येनोक्ततया रश्मिः। कन्यायादेव । यावन्निषेध इति । तृतीयवीप्सापक्षोक्तः । तथेति । अयुक्तम् । सर्वस्येति । मूर्तामूर्त- प्रपञ्चस्य । तावदिति । प्रपञ्चमात्रत्ववारणाय । इत्येवेति । 'मायावादमसच्छास्त्र'मिति पाद्मात् । पूर्ववदेवेति । अन्ययोगव्यवच्छेदकः । तदर्थमिति । परपदवैयर्थ्यपरिहारार्थम् । तत्र चेति । द्वितीययोजनायाम् । अभावावसान इति प्रथमान्तम् । नेति न इत्येवमभावे पर्यवसानम् । निषेधोऽ- भावपर्यवसानः । एवकारस्तु यदा पुनः श्रुत्यक्षराण्येत्र योज्यन्ते । नह्यस्मादिति नेति । नहि प्रपञ्चनिषेधरूपोपदेशनादन्यत्परं ब्रह्मण आदेशनं नास्तीति तदीयग्रन्थात् । तत्सत्तामिति । ब्रह्मसत्ताम् । तथेति । अयुक्तम् । नामधेयेति । मात्रचा 'ततो ब्रवीति च भूय' इति नामधेयवाचकेतरस्याः 'सत्यस्य सत्य'मित्यस्य व्यवच्छेदः । एवेति । मात्रजर्थानुवादः । तत्सत्ता ब्रह्मसत्ता तस्याः सिद्धेः । तन्निर्व- चनेति । 'सत्यस्य सत्य'मिति श्रुतिवैयर्थ्यप्रसङ्गात् । तदादर इति । निर्वचनादरे । नियामकेति । सत्यमूलत्वं तन्मूलत्वम् । प्रतिज्ञेति । अरूपवत्सूत्रोक्ता । इत्यादीति । 'कश्चिद्धीरः प्रत्यगात्मानमैक्ष- दावृत्तचक्षुरमृतत्वमिच्छन्' इति श्रुतेः । तदुक्तेति । धीरवृत्तचक्षुष्टादीनाम् । संशयस्यैवेति । परेतरात्मनोरन्यत्वसंशयस्य । एवकारो व्याख्यानात् । अभेदेति । ज्योतिर्ब्राह्मणे 'यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवाय५शारीर आत्मा प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तर'मिति । 'अत्र पिताऽपिता भवती'त्यादि । 'यद्वैतन्न पश्यति पश्यन्वैतद्द्रष्टव्यं न पश्य- ती'ति अभेदप्रतिपादनाभ्यासः । वक्ष्यमाणवृत्तौ तु 'तत्त्वमसी'त्याद्यभेदश्रुत्यभ्यासादित्यर्थ उक्तः । अवै- शेष्य इत्यादि । वैशेष्ये अभेदे कर्मणि आत्माभिध्यानज्ञानादौ कर्मण्युपाधौ । उक्ततयेति । तथाच वृत्तिः । यथा सौरः प्रकाश आकाशो वाङ्गुल्याद्युपाधौ कर्मणि भिन्न इव वक्र इव भाति, वस्तुतस्त्वेक- रूपः, तद्वत्प्रकाशे आत्माभिध्यानज्ञानादौ । कर्मण्युपाधौ । भिन्न इव वक्र इव भाति, वस्तुतस्त्ववैशेष्य- 1704

जीवप्राज्ञाभेदाभ्यास एव नियमेन प्रमाणानुपलम्भात् । वेदान्तेषु तयोर्भेदस्येव भेदस्याप्यभ्यास- दर्शनाच्च । यदप्युभयव्यपदेशादिसूत्रद्वयमेकदेशिमतीयत्वेन व्याख्याय, 'पूर्ववद्दे'ति सूत्रव्याख्याने तद्दूषणमुक्तम् । जीवात्मनः परमात्मसंस्थानभूतत्वे एकदेशभूतत्वे वाङ्गीक्रियमाणे बन्धस्य पारमा- र्थिकत्वेनातिरस्कार्यत्वापत्त्या मोक्षशास्त्रवैयर्थ्यमिति । तदपि तथा । 'बहु स्यां प्रजायेये'तीच्छाभ्यां भेदस्यागन्तुकत्वावगमाद्बन्धस्य पारमार्थिकत्वेपि तथात्वात् पल्यूलनेन वस्त्रमालिन्यस्येव शास्त्री- यसाधनैर्बन्धनाशसम्भवेन शास्त्रवैयर्थ्याभावात् । एवं प्रतिषेधसूत्रे 'नान्योऽतोऽस्ति द्रष्टे'ति चेतना- न्तरनिषेधो य उक्तः, सोपि द्रष्टुर्ब्रह्माभिन्नत्वं वदति, न तु ब्रह्मणो द्रष्टृभिन्नत्वम्, अतो न तद्व्यव- सायसाफल्याय । 'नेति नेती'ति वाक्यं 'तदेतद्ब्रह्मापूर्व'मिति वाक्यं च यथायथं प्रपञ्चस्य ब्रह्माभि- न्नत्वं ब्रह्मणः सर्वाकारत्वं च वदतीति प्रागेवोपपादितम् । अतोऽन्यनिषेधो यो वर्तते, स सर्वं ब्रह्मणोऽन्तर्निवेश्येतरं निषेधति, न तु सर्वं मिथ्याकृत्येति सुधीभिरवधेयम् । भास्कराचार्यास्तु । विंशतिसूत्रमेकमेवाधिकरणमङ्गीकृत्य, सगुणासु शाण्डिल्यविद्यादिषु सगुणोपासितस्य प्रतिप्रकरणं चोदनासामर्थ्येन निर्णीतत्वात् तत्र नायं विचारः, किन्तु निर्गुणब्र- ह्मचोदनायां साकारं निराकारं च ब्रह्मोपास्यम्, उतैकतरमिति जिज्ञासायाम्, यथास्थितवस्तूपासनस्य युक्तत्वात् कारणात्मना प्रपञ्चात्मना चावस्थितमुपास्यमिति प्राप्तेऽभिधीयते । नोभयलिङ्गमूपास्यम् । कुतः । अस्थूलादिवाक्यैः समस्तप्रपञ्चाकारस्य निवर्तितत्वात् । स्वतश्च कारणस्य कूटस्थनित्यस्यैक- स्याद्वितीयत्वात् । पाश्चात्यस्य कार्यरूपस्य कादाचित्कत्वात् । ननु कारणस्य विकारात्मकत्वा- रूपत्वमेवात्मनः । कुतः । अभ्यासात् । 'तत्त्वमसी'त्याद्यभेदश्रुत्यभ्यासादित्यर्थ इति । अवैशेष्ये दार्ष्टा- न्तिके यः स दृष्टान्तयोरपीति । एवेति । नतु कर्मप्रकाशयोरित्येवकारार्थः । तयोरिति । जीवप्राज्ञयोः । भेदस्यापीति । अपिसंराधनसूत्रेऽस्मद्भाष्योक्तरीत्याभ्यासदर्शनात् । परमात्मेति । अहिकुण्डल- न्यायेन परमात्मनः संस्थानभूत इत्युक्तप्रकारेण । प्रकाशाश्रयन्यायेन एकदेशभूतत्वे । पारमार्थि- कत्वेनेति । संस्थानभूतस्यैकदेशभूतस्य परमार्थस्य धर्मः पारमार्थिको बन्ध इति । तथेति । शिथिलम् । तथात्वादिति । तिरस्कार्यत्वात् । पल्यूलनेनेति । वस्त्रमालिन्यनाशसाधनेन । बन्धनाशेति । बन्धतिरोभावसम्भवेन । अतो ब्रह्मणोऽन्यो भिन्नो न द्रष्टास्तीति योजनामाहुः सोपीति । 'अधिकं तु भेदनिर्देशा'दिति सूत्रादाहुः नत्विति । तद्व्यवेति । ब्रह्माद्वितीयत्वरूपफलेन सर्वमिथ्यात्वव्यवसायस्य साफल्यं मिथ्या तस्मा इत्यर्थः । प्रागेवेति । 'दर्शयति चे'ति सूत्रे ब्रह्माभिन्नत्वं स्पष्टम् । 'तदेतद्ब्रह्मे'- त्यपि तत्र स्पष्टम् । अन्तरिति । 'खसूक्ष्ममिदमापीये'ति वाक्यात् । इतरमिति । प्रपञ्चम् । सुधीभि- रिति । शोभना ब्रह्मगोपनाभावेन मोक्षार्था धीर्येषां तैः । विंशतीति । 'न स्थानतोपी'तिसूत्रमारभ्य 'प्रतिषेधाच्चे'त्यन्तम् । एवेति । न तु द्वयमिति द्वययोग्यव्यवच्छेदक एवेति । शाण्डिल्येति । छान्दोग्यपञ्चमप्रपाठकेऽस्ति 'सर्वं खल्विदं ब्रह्मे'त्यादि- शाण्डिल्यविद्या । 'इति ह स्माह शाण्डिल्यः शाण्डिल्य'इति श्रुतेः । आदिना कोशविज्ञानम् । 'अन्त- रिक्षोदरः कोश'इत्यादिश्रुतेः । तदग्रे कोशविद्या । तदग्रे यज्ञसम्पादनं 'पुरुषो वाव यज्ञ' इत्यादिना । चोदनेति । 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीते'त्यत्रोपासीतेत्युपासनाचोदना । कोशविज्ञाने चोदना । 'सामवेदं प्रपद्य' इतिलेडाश्रयणात् । 'य एवं वेदे'ति यज्ञसम्पादने चोदनालेडाश्रयणात् । नोभ- २१ ब्र० सू० २०

१७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः । द्विकारपरित्यागे कारणस्वरूपस्यापि त्यक्तत्वात् कारणत्वेनोपासनमपि हीयेतेति चेत्, नेत्युच्यते । न पृथिव्यादिस्थानतोपि परस्योभयलिङ्गता । ब्रह्मणः स्वतोऽभिभवात् । स्थानकृतस्य रूपस्य चाग- न्तुकत्वात् । ब्रह्मात्मको हि नामरूपप्रपञ्चः, न प्रपञ्चात्मकं ब्रह्म । यथा समुद्रात्मकः फेनतरङ्गा- दिः, न तदात्मकः समुद्र इति । कथं पुनर्गम्यते, सर्वत्र, वेदान्तेषु, 'अशब्दमस्पर्शम्', 'स एष नेति नेत्यात्मा', 'अस्थूल'मित्यादिषु भूतभौतिकनिराकरणात् । नचैतैः प्रपञ्चस्य मायामात्रत्वप्राप्तिः । कारणे कार्यरूपं अनेकविधं नास्तीत्येतावदवधारणेनैव वाक्योपपत्तेः प्रपञ्चाभावस्य प्रतिपत्तुमश- क्यत्वादित्येवं प्रथमसूत्रं व्याख्याय, 'न भेदा'दितिसूत्रे प्रथमं नकारमपठन्तः, 'सर्वाणि भूतानि सर्व एवात्मानः समर्पिता' इति श्रुतेर्नेमिस्थानीयेन बाह्यप्रपञ्चेन वेष्टितानामरास्थानीयानां विज्ञानात्मनामन्तरतमे रथचक्रनाभिस्थानीये परमात्मनि समर्पणाद्भेदोऽवगम्यते, अतो भोग्यभो- क्त्राकारवदुपास्यमिति सूत्रांशेनाशङ्क्य, 'न प्रत्येकमदृष्टेना'दित्यनेन मधुविद्यायां प्रत्युपाधि भेदव- चनाभावाच्च सर्वेषां चेतनाचेतनानामेकीभावः, स एव परमात्मा ज्ञेयत्वेनोपदिश्यत इति व्याख्याय, तन्मात्रसूत्रे चैतन्यमात्रं ब्रह्मेति व्याख्याय, 'ब्रह्मायाति प्रपञ्चोऽयं रूपं हित्वा तु वैकृतम् । जहाति कठिनावस्थां जलधौ लवणं यथा । चेतनेऽचेतनं क्षिप्तमभेदाच्चेतनीभवेत् । उषायां वस्तु विन्यस्तं तत्सर्वं लवणीभवेत्' इत्येतावदधिकमुक्तान्यानि सूत्राणि शङ्कराचार्यवत् व्याचक्षुः । ततः प्रकृतैतावत्त्वसूत्रे च प्रकृतस्य पुरुषस्य यदेतावत्त्वं मूर्तामूर्तोपाधिपरिच्छिन्नत्वं तत्प्रतिषेधति, ततो निर्विकल्पकं परिशिष्टं ब्रह्म भूयः पुन्र्ब्रवीति, अन्यत् परमस्तीति व्याख्याय, शङ्कराचार्योक्तमधिकरणान्तरकल्पनां सर्वोपनिषद्वदस्यामप्युपनिषदि ब्रह्मण उपक्रमोपसंहारयोरव- रश्मिः । येति । कार्यकारणोभयलिङ्गम् । सूत्रं व्याचक्षते स्म न पृथिव्यादीति । अत्र भेदाभेदावेतन्मते ताव- नुसंधेयौ । स्वत इति । कारणात्मना । अभेदस्तु कटकं सुवर्णमितिवत् । रूपस्येति । कार्यरूपस्य । कटकं सुवर्णं सुवर्णं कटकं नेति प्रतीत्याहुः ब्रह्मात्मक इति । तदात्मक इति । फेनतरङ्गबुद्बुदा- त्मकः । सर्वत्रेति सौत्रांशव्याख्या सर्वत्रेत्यादि । भूतभौतिकेति । मूर्तौ शब्दस्पर्शौ वाय्वाकाश- तन्मात्रारूपौ । भौतिकं स्थूलं वाय्वाकाशरूपम् । तयोर्निराकरणात् । एतैरिति । मृतभौतिकनिराकरणैः । अनेकेति । न एकविधं अनेकविधं शब्दतस्थूलाकाशविधं स्पर्शतस्थूलवायुविधं नास्ति, किन्तु शब्द- स्पर्शरूपं मृतसूक्ष्मरूपं कार्यरूपमिति । एवकारोऽन्ययोगव्यवच्छेदकः । 'अशब्दमस्पर्श'मित्यादिवाक्योप- पत्तेः । सर्वाणीति । मधुब्राह्मणस्था । एवात्मान इत्यत्र एते आत्मान इत्यपि पाठः । नेमी रथचक्रवल- यम् । अरा वलयेऽर्पिताः स्थूलशलाकाः । रथचक्रेति । नाभी रथचक्रपिण्डिका । भोग्येति । भोग्यः प्रपञ्चो नेमिः । भोक्तारो जीवा अराः । उपास्यं परमात्मा नाभिः । इत्यनेनेति । सूत्रांशेन । प्रत्युपा- धीति । क्रियाविशेषाणां नपुंसकत्वमेकवचनान्तत्वं च । उपाधिष्पृथिव्यादि लक्षीकृत्येति प्रत्युपाधि । स एवेति । अत्रेति बोध्यम् । अन्ययोगव्यवच्छेदक एवकारः । आयातीत्यादि । आसमन्तादाप्नोति । कठिनेति । पृथिव्यवस्थाम् । 'यत्कठिनं सा पृथिवी'ति श्रुतेः । उषायामिति । रात्रौ क्वचित् । अधिकरणान्तरेति । मूर्तामूर्तब्राह्मणं विषयः । सन्देहः ब्रह्म वा मूर्तामूर्ते वा प्रतिपाद्ये इति । मूर्तामूर्ते सत्यमित्युपसंहाराद्ब्रह्मणोऽप्रत्यक्षत्वाच्च प्रतिपाद्ये इति पूर्वपक्षः । ब्रह्मप्रतिपाद्यमुपक्रमस्यासञ्जातविरोधित्वात् ब्रह्मणोऽप्रत्यक्षत्वेपि शून्यवादप्रसङ्गादिति सिद्धान्तः । तदिदं नाधिकरणान्तरम् । तत्र तृतीयान्तं 1706

भाष्यप्रकाशः। स्थानात् सन्देहानुत्पत्त्या निरस्य, शेषं शङ्कराचार्यवदेव व्याख्यातवन्तः । तथाच तन्मते कारणावस्थाविशेष एव कार्यम् । तन्तुनामदृष्टान्तात् । अतो निमित्तव- शादेव नानाकारः । स यद्यसन्नेवोत्पद्यते, तदा असतः सत्तानिषेधकश्श्रुतिविरोधः । अतः सन्नेव निमित्तवशाल्लक्ष्यते । कारणं च ब्रह्म यथाकाशोऽविक्रियमाण एव वायुजनकः, एवमविक्रिय- माणमेव प्रपञ्चजनकम् । तच्च कृत्स्नप्रसक्त्यादिदोषवारणार्थं श्रुतिबलादेव भगवता सूत्रकारेणाङ्गी- कृतम् । स्वयमपि तथैव व्याख्यातम् । निमित्तं चात्रेच्छैव । परिणतिश्च शक्तेरेव । शक्तिशक्तिम- तोर्नात्यन्तं भेदो गुणगुणिनोरिवेतरेतराविनाभावादिति तदनन्यत्वाधिकरणे व्युत्पादितम् । तत्रेदवधेयम् । यदि श्रुतिबलादेवमवधारितम्, तदा ब्रह्मणि युक्तीनां लौकिकीनामकि- ञ्चित्करत्वादचिन्त्यसामर्थ्यं त्वङ्गीकृतमेव । तथा सति तेनैव विरुद्धधर्माश्रयत्वादोषपरिहारसिद्धौ कुतः कारणरूपस्य केवलनिर्विकल्पकत्वाग्रहः । नचाशब्दादिवाक्येभ्य इति युक्तम् । तेषां यथा भूतमौतिकनिराकरणेऽप्युभयलिङ्गताप्रतिपादकत्वं तथोपपादितत्वात् । नापि 'कश्चिद्धीर' इति वाक्यात् । 'तं यथा यथोपासत' इति श्रुत्या तादृगुपासकेन तथादर्शनेऽपि तेन लिङ्गान्तरबाधस्या- शक्यवचनत्वात् । सूत्रस्थेन केवलेन सर्वत्रेतिपदेन भूतमौतिकनिराकरणात्मकस्य हेतोरलाभात् । मधुविद्यायामपि यत्रैकीभावस्तादृशरूपस्य ध्येयत्वोपदेशेपि 'तदेतद्ब्रह्मापूर्व'मित्युपसंहारवाक्येपि रश्मिः। हेतुमाहुः सर्वेत्यादिना सन्देहानुत्पत्त्येत्यन्तेन । यद्यप्यत्र गार्गिब्राह्मणेऽस्थूलादिवाक्यं पञ्चमप्रपाठ- कीयशाण्डिल्यविद्यादिषु 'सर्वकर्मा सर्वकाम' इति वाक्यम्, तथाप्यन्यसंग्रहाय सर्वत्वेनोपनिषद्गृहीता । अस्यामिति । मूर्तामूर्तब्राह्मणीयायामुपनिषदि । ब्रह्मण इति । 'द्वे वाव ब्रह्मणो रूपे' इत्युपक्रमः । 'तेषामेष सत्य'मित्युपसंहारः । रूपे वा रूपवद्वेति सन्देहानुत्पत्त्या इति हेतुः । निरस्येति । विंशति- सूत्रात्मकाधिकरणमिति नवसूत्र्यामधिकरणत्वं निरस्य । एवेति । भास्करभाष्याभ्याससूचनेनान्ययोग- व्यवच्छेदक एवकारः । एवेति । दृष्टान्तसद्भावात् । निमित्तेति । क्रीडेच्छा निमित्तं तद्वशात् । तन्तुनामवत् । एवेति । 'सदेव सोम्येदमग्र आसी'दित्यत्र सदितरव्यवच्छेदात् 'स ईक्षांचक्रे' इत्यत्र निमित्तप्रदर्शनादन्ययोगव्यवच्छेदकैवकारः । असत इति । श्रुतिस्तु 'असन्नेव स भवति असद्ब्रह्मेति वेद चे'दिति । एवेति । चिन्तामणिदृष्टान्तसत्त्वादेवकारः । तच्चेति । अविकृतत्वम् । आदिना 'निरवय- वत्वशब्दकोपो वा' । सूत्रेनेति । 'कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वे'ति सूत्रकारेण । स्वयमिति । भास्कराचार्यैः । इच्छैवेति । श्रुतेरेवकारः । शक्तेरेवेति । निर्गुणत्वाच्छक्तिमतो योगस्य व्यवच्छेद- कैवकारः । तदेति । श्रुतिविचारकाले । एवेति । अवधारणेनैवकारार्थेन हेतुना । अशब्दादीति । अत्रैव पूर्वमुक्तेभ्यः । तेषामिति । इदमपि व्याख्यातम् । उपेति । दर्शयति चेति सूत्रोपन्यास एव पूर्वम् । भास्करभाष्योक्तेतरामप्याहुराशङ्काम् । नापीति । तादृगुपासकेनेति । तादृगिति रूढशब्दः । महाभाष्ये तु सोयं स इव दृश्यमानस्तमिवात्मानं पश्यतीति कर्मकर्तरि व्युत्पत्तिर्दर्शिता । सोयं तादृगुपासकः स इव आत्मदर्शीव अन्यैर्दृश्यमानस्तमिवात्मदर्शिनमिव स्वात्मानं पश्यतीत्यर्थः । तादृगुपासकेन । लिङ्गान्तरेति । निर्विकल्पकलिङ्गादन्यल्लिङ्गं सविकल्पकवलिङ्गं तस्य बाधस्य । अलाभादिति । सूत्रस्य सारवद्विश्वतोमुखत्वादिति भावः । विकल्प इति चेदोम् । भगवत्क्रीडार्थत्वात्सर्वमतानाम् । अपीति । अनेन यत्रैकीभावः, तत्रापि ध्येयत्वेन सर्वरूपत्वपदार्थसम्भावना । उपेति । शङ्कराचार्य- १. उभयव्यपदेशाधिकरणे ।

'प्रकाशवच्चावैयर्थ्या'दित्याद्येकादशसूत्र्या जीवसा- Wait, let's look at "यान्तरङ्गशक्तिस्तद्दारकं": Wait, is it "स्तद्दारकं" or "स्तद्द्वारकं"? Let's look really closely at the letter: Could it be तद्द्वारकं? If you look at the font in Nirnaya Sagar: द्वा is often formed by द् + + . Sometimes OCR reads it as तद्दारकं. Let's write तद्दारकं or तद्द्वारकं? Wait, if the font actually has द्दारकं (printer's error for तद्द्वारकं), let's check line 23 again. In line 23: "तद्दारकं अन्तरङ्गशक्तिजनकसत्यादिकम् ।" Wait! If it was an error for तद्द्वारकं, writing तद्दारकं reflects the printed page exactly, but wait, could it BE तद्द्वारकं? Wait, look at the bottom of the ligature in line 4: It goes down, rounds to the left, loops around to the right and closes like a 'व'! Wait, a 'द' does NOT close! A 'द' opens to the right and has a tail pointing down-right! A 'व' is a closed loop! Look at

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १७३ भाष्यप्रकाशः । 'अरूपवदेव ही'ति । हि यस्माद् अरूपवदेव ब्रह्म । मूर्तामूर्तब्राह्मणाजाग्रदाद्यवस्थाहेतुभूतस्थूलसूक्ष्म- शरीरद्वयरहितमेव ब्रह्म प्रतिपत्तव्यम्, कुतः, तत्प्रधानत्वात्, 'ततो यदुत्तरतरं तदरूपमनामय'- मिति, 'यन्मनसा न मनुते येनाहुर्मनो मतम्, तदेव ब्रह्म त्वं विद्धी'त्यादिश्रुतीनां तत्परत्वात्, अवधारणाच्चैरैमनआदिकरणैः शून्यस्यैव ब्रह्मणः सम्यग्ज्ञानविषयत्वावधारणादित्यर्थः । अपिच, 'अथात आदेशो नेति नेति, न ह्येतस्मादिति नेत्यन्यत् परमस्ती'ति मूर्तामूर्तरूपाभावादेशस्यैव पारमार्थि- कत्वं वदति, तदेवमुभयलिङ्गत्वनिषेधेनैकमात्ररूपत्वमुपाधिसाधारण्येन लक्षणमुक्तमित्याह । तदसङ्गतम् । सर्वत्रेति पदेन सर्वाधिष्ठानश्रुतय एवाभिप्रेयन्त इत्यत्र गमकस्यानुपलम्भात् । अथ जीवस्य पूर्वं निरूपितत्वात् तद्ब्रह्मण्यप्युभयलिङ्गत्वशङ्कायां तन्निरासायास्य सूत्रस्य प्रवृत्त- त्वादर्थादेव तस्य हेतोः प्राप्तिरिष्यते, तदाप्येतादृशैकलिङ्गत्वस्य ब्रह्मलक्षणत्वमात्रं युक्तम् । श्रुति- सिद्धत्वात् । न तु लक्षणसोपाधिसाधारण्यमपि युक्तम् । परमेश्वरस्य कारणत्त्वसोपाधिकत्वे प्रमा- णानुपलम्भात् । पूर्वं स्वयमपि 'न स्थानतोऽपी'त्यागामिसूत्रस्यैव प्रमाणत्वेनोपन्यस्तत्वात् । सर्व- कारणस्याद्वितीयस्य परस्य 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्', 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः,' 'यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः,' 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः, अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः, एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चे'त्या- दिषु श्रुतिषु, 'तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोगोचरातीतं द्विधा समभव- द्वृहत् । तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयत' इत्यादिषु पुराणेषु च निरुपाधिकत्वेनैव सिद्धेश्च । कार्योपाधिरयं जीवः कारणोपाधिरीश्वर इत्यादीनि तु ब्रह्मविष्ण्वादिपराणि । तत्रत्येश्वरपदस्य परमेश्वरपरत्वे नियामकस्य तेष्वदर्शनात् । नच निरु- पाधिकस्य निर्धर्मकत्वम् । तस्य शाङ्करमतनिरास एव निरस्तत्वात् । न चारूपवत्सूत्रविरोधः । रूपवद्वै- लक्षण्यायैव तत्र बोधनेन रूपराहित्यस्य तत्राबोधनीयत्वात् । 'आनन्दरूपममृतं यद्विभाति,' 'सच्चि- दानन्दरूपाये'त्यादिनिमित्तन्न तद्रूपताया एव निर्धाराच्च । नच 'ततो यदुत्तरतरं तदरूप'मिति श्रुति- विरोधः । तदग्र एव 'सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिव' इत्यस्य मन्त्रस्य दर्शनात् । नापि 'यन्मनसा न मनुत' इत्यस्याः । तत्राप्युपास्यरूपस्यैव ब्रह्म- रश्मिः । एवेति । 'नेति नेती'ति श्रुत्यैवकारः । तत इति । मूर्तामूर्तरूपद्वयात् । शून्यस्यैवेति । अशून्य- योगव्यवच्छेदकः । एवेति । मूर्तामूर्तरूपयोगव्यवच्छेदकैवकारः । एवेति । सर्ववाक्ययोगव्यवच्छेद- कैवकारः । पूर्वमिति । प्रथमपादे । पूर्वाध्याये वा । अर्थादेवेति । सङ्कुचितहेत्वाक्षेपादेव । एवकारः सर्वत्र शब्दशक्तियोगव्यवच्छेदकः । उपाधीति । एकरूपलोपाधिसाधारण्यमित्यर्थः । प्रमाणानुपलम्भं दर्शयन्ति स्म पूर्वं स्वयमिति । ईक्षत्यधिकरणे स्वयं विज्ञानेन्द्रभिक्षुणा । एवेति । पूर्वं स्वयमपि प्रमाणोपन्यासयोगव्यवच्छेदकैवकारः । एवेति । न तु सोपाधिकत्वेन । तत्रत्येति । कार्योपाधिरि- त्यादिवाक्यस्थेश्वरपदस्य । तेष्विति । वाक्येषु । निरस्तत्वादिति । यथाकथञ्चिदपि निर्धर्मकला- सिद्धेः । एवेति । अन्ययोगव्यवच्छेदकः । एवेति । वदित्यन्यथा एवकारः । तत्रेत्यादि । ग्रन्थणि । तद्रूपतायाः आनन्दाकारतायाः सच्चिदानन्दाकारतायाः । एवकारस्तु श्रुतित्वात् । नचानन्देन रूप्यते व्यव- ह्रियते इत्यरूपमिति शङ्क्यम् । व्यवहार्यत्वधर्मसिद्धेः । उपास्येति । अनुपास्ययोगव्यवच्छेदकैवकारः । नेदं परिदृश्यमानं इदं मनो न । यदिदं वैदिकोपासका उपासाते तद्ब्रह्म विद्धीति । यदिदमुपासते नेदं 1709