अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २७३ पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥ (३-३-४.) तैत्तिरीयके, 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्, स भूमिं विश्वतो वृत्वा अत्यतिष्ठद् दशाङ्गुलम्, पुरुष एवेद५ सर्वं यद्भूतं यच्च भाव्य'मित्यादिना पुरुषविद्या निरूप्यते । तत्रैव, 'ब्रह्मविदाप्नोति पर'मिति प्रश्ने, 'स वा एष पुरुषोऽ- न्नरसमय' इत्यारभ्य प्राणमयमनोमयविज्ञानमयानन्दमयात्मकं ब्रह्मस्वरूपं निरू- प्यते । तत्र सर्वत्र 'स च पुरुषविध एवे'ति च पठ्यते । अत्रान्नलयादिषु पुरुषसूक्ते च पुरुषपदश्रवणादन्नमयादिषु सहस्रशीर्ष- त्वायुपसंहारः कर्तव्यो न वेति भवति संशयः । किमत्र युक्तम् । उपसंहर्त- व्यमेवेति । कुतः । सर्वत्र ब्रह्मण एवोपास्यत्वादत्राप्युपासनोक्तेर्ब्रह्मत्वपुरुषत्वयो- रविशेषाद्विद्यैक्यादिति प्राप्ते, उच्यते । पुरुषविद्यायामिवेति । अन्नमयादिषु सहस्रशीर्षत्वादिकं नोपसंहर्तव्यम् । कुतः । पुरुषविद्यायां यथा पुरुषस्वरूपं निरूप्यते, न तथेतरेषामन्नमयादीनां विज्ञानमयान्तानां स्वरूपं तत्प्रकरणे निरूप्यते । अत्र हि पुरुषत्वमुच्यते । सहस्रपदमनेकत्वोपलक्षकम् । अन्यथाक्ष्णां शिरोभ्यो द्वैगुण्यं वदेत् । तेन साकारव्यापकत्वमुक्तं भवति । तत्र पुरुषविधत्वम् , स चाध्यात्मिकरूपः, तच्छरीराभिमान्यात्मा चान्य आधिदैविक उच्यते, न तथात्र । किञ्च, 'पुरुष एवेद५ सर्व'मित्यादिना प्रपञ्चात्मकत्वं मुक्तिदातृत्वं चोक्त्वा, नैतावन्मात्रमस्य माहात्म्यम्, इतोऽपि महन्माहात्म्यमस्तीति वक्तुं प्रपञ्चरूपं तद्विभूतिरूपमिति 'एतावानस्य महिमे'त्यनेनोक्त्वा तत आधिक्यमाह 'अतो ज्यायाँश्च पूरुष' इति । एवमतिवैलक्षण्यात् पुरुषपदमात्रसाधर्म्येण भाष्यप्रकाशः । पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥ एवमनारभ्याधीतानां धर्माणां भक्तिमार्गेऽनुपसंहारमुक्त्वा उत्तमाधिकारिभिरशेषगुणपूर्णं परं ब्रह्मैवोपास्यम्, न तु विभूतिरू- पमिति बोधनायोपासनामार्गे तेष्वशेषानुपसंहारमवसरसङ्गत्या वदतीत्याशयेनाधिकरणविषयादिकं दर्शयन्ति तैत्तिरीयक इत्यादि । प्रश्ने इति । प्रपाठके । अविशेषादिति । भृगुविद्यायां ब्रह्मत्वसान्न च पुरुषविधत्वोक्त्या तदाकारत्वस्योक्तत्वेन तयोरविशेषात् । सूत्रं व्याकुर्वन्तोऽत्रापि नशब्दः पूर्वसूत्रादनुवर्तत इत्याशयेनाहुः अन्नमयादिष्वित्यादि । निरूप्यत इति । 'सहस्रशी- र्षे'त्यादिना निरूप्यते । अत्र हीति । पुरुषविद्यायाम् । तेनेति । सहस्रशीर्षत्वादिश्रावणेन । वैलक्षण्यबोधनायाहुः तत्रेत्यादि । तत्रेति । अन्नमयाद्युपासनप्रकरणे । स चेति । अन्नमयादिः । वैलक्षण्यन्तरमाहुः किञ्चेत्यादि । सिद्धमाहुः एवमित्यादि । तथाच पुरुषविद्यायाममृतत्वस्य फलत्वेनोक्ततयान्नमयादिचतुष्टयविद्यासु यथायथमन्वायुर्मयामावसर्वकामप्राप्तीनां फलत्वेनोक्ततया रश्मिः । पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥ उत्तमेति । दृढवैराग्यवत्त्वमुत्त- माधिकारः । दृढत्वं द्वादशाङ्गपुरुषोत्तमैकतानलक्षणम् । हरेरपि हरित्वं वैराग्य उत्कर्षः । तादृशैः । विशेषेति । विभूतीनामशेषगुणपूर्णत्वार्थं तथा । प्रश्न इति । 'सर्वे सर्वार्थवाचका' इति तथा । [L
३७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १४ सू० २४. नैकविद्यत्वं वक्तुं शक्यम्, नचोपसंहार इति । चकारात् 'अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीया' नित्यादिश्रुतयः, 'सर्वतः पाणिपादान्त'- मित्यादिस्मृतयश्च संगृह्यन्ते । एतेन यत्किञ्चिद्धर्मसाम्येपि न मूलभूतब्रह्मरूपत्वम्, अत एव न तन्नोपास्यता तथात्वेनेति ज्ञापितम् । अत एव भृगूपाख्यानेऽन्नमया- दिब्रह्मज्ञानेपि जिज्ञासैवोक्ता । भृगोरानन्दरूपपरब्रह्मज्ञाने तु नोक्ता । तेनाशे- षगुणपूर्णं ब्रह्मेत्युक्तं भवति । अत उत्तमाधिकारिभिस्तदेवोपासनीयम्, न भाष्यप्रकाशः। संयोगभेदात्, पुरुषविद्यायां पुरुषत्वस्यान्नमयादिषु पुरुषविधत्वस्य चोक्ततया रूपभेदादेतस्यास्तासां च चोदनाख्ययोर्भेदस्य स्पष्टत्वाच्च न विद्यैक्यमिति तथेत्यर्थः । वैलक्षण्यबोधनस्य तात्पर्यमाहुः एतेनेत्यादि । एतेनेति । विभूतिभ्योऽतिवैलक्षण्यबोधनेन । न तन्नोपास्यता तथात्वेनेति । ब्रह्मत्वेनोपास्यतायां सत्यामपि न मूलभूतब्रह्मरूपत्वेन । एतदधिकरणप्रयोजनस्य पूर्वमनुक्तत्वाद्विदा- नीमाहुः तेनेत्यादि । तेनेति । एवं महिमाधिक्यादतिवैलक्षण्यबोधनेन । उत्तमाधिकारि- भिरिति । एतेन भक्ता अपि संगृहीता ज्ञेयाः । तेषामेव तथात्वादिति । अत्र समाचारसूत्रोक्तैर्हेतु- भिरेवानुपसंहारप्राप्तावपि यत्पुनर्विशेषतस्तद्धेतुकथनम्, तद्विभूतिरूपेषु मूलरूपगुणानुपसंहारार्थम् । 'योऽन्यथा सन्तमात्मान'मिति वाक्योक्तबाधकस्य विद्यमानत्वात् । एवञ्चात्र पूर्वं पतित्वेन चिन्तिते चित्तस्य निवेशो यदाधिकः, तदा सोऽक्षरस्यापि पतिरित्येवं पर्यवस्यति । 'उतामृतत्वस्येशान' इति मोक्षेशनशीलत्वस्यात्र श्रवणात् । अनस्तमितत्वाद्वायुरूपा कलाप्यत्र बोधिता । अन्ये तु, ताण्डिनां पैङ्गिनां च या 'पुरुषो वा व यज्ञ' इत्यादिनाक्ता षोडशशतवर्षजी- वनफलिका पुरुषविद्या, या च तैत्तिरीयाणां 'तस्यैवं विदुषो यज्ञस्यात्मा यजमान' इत्यादिनाक्ता विद्या, तयोः पुरुषविद्येति समाख्यैक्यात् पुरुषावयवेषु यज्ञावयवकल्पनेन रूपैक्याच्च विद्यैक्ये, तैत्तिरीयोक्ता गुणास्तत्रोपसंहर्तव्या इति प्राप्ते, यथा पुरुषविद्यायां ताण्ड्यादिभिर्गुणा आम्नायन्ते, न तथा तैत्तिरीयक इति रूपभेदात्, तैत्तिरीयके च 'य एवं वेद ब्रह्मणो महिमानमाप्नोती'ति फलसंयोगभेदाच्च विद्याभेदे सति न तैत्तिरीयोक्तानां गुणानां तत्रोपसंहार इत्येवमाहुः । तत्रेदंमवधेयम् । व्यासचरणैर्हि जिज्ञासाशास्त्रं शीघ्रं मोक्षो भवतु जीवानामिवि करुणया आरब्धम् । तेन याभिः शीघ्रं मुच्यन्ते, ता एव विद्या आदरेण विचारणीयाः, शेषाणां तु तन्नो- रश्मिः। नच द्विरूपवर्णलोपः । सहस्रपादित्यत्रापि तथापत्तेः । पूर्वमिति । 'ईशान' इति श्रुत्येशनशीलत्वस्य भावित्वात्तत्पूर्वं पतित्वेन 'दर्शयति'सूत्रभाष्योक्तरीत्या चिन्तिते 'स मानसीन आत्मा जनाना'मिति श्रुत्या चित्तस्य निवेशः स यदाधिकः मानसेवारूपः, तदा स भगवान् अक्षरस्यापि पतिः । 'मम योनिर्महद्ब्रह्मे'ति गीतावाक्यात् । अपिना स्वस्य पतिः । अतिगोप्यत्वात्स्पष्टं नोक्तम् । विमृत्यूपासना- नन्दमयमजनाभ्यामानन्दमयाधिकरणोक्तरीत्या पर्यवस्यति । तदेतद्भजनं गीतगोविन्दटीकायां श्रीगोस्वामिभिः कृतमिति निगर्वः । मोक्षेति । ज्ञानिप्राप्यभगवद्रूपोऽक्षरस्तस्य ईशनशीलत्वं तस्य । 'यदनेनातिरोहती'ति श्रुतिविचारेणाहुः अनस्तमिति । तैत्तिरीये 'स वा एषोऽक्षरसमय' इत्युक्तेरनेन ऽकारेण अतिरोहतीति छान्दसो नलोपः । 'आविर्भावतिरोभावौ शक्ती वै मुरवैरिण' इति वाक्यात्तत्षष्ठो भावविकारोऽस्तस्तदभावं इतत्वात् गतत्वात् वायुरूपा कलेति । 'सैषानस्तमिता देवते'ति श्रुतेः । इयं कलान्न मयादिनिरूपणानुवृत्त्यान्नमयस्य शिरोरूपापि प्रियशिरस्त्वादिसूत्रोक्तप्रियशिरस्त्वादिवासनयान्नमय- शब्देन बोधिता । 'वायवस्ये'ति संहिताश्रुतेः । मनोमयस्य शिरो यजुःकला सा नोक्ता । प्रतिपादकत्वात् । 1810
विभूतिरूपमिति ज्ञापितम् ॥ २४ ॥ इति तृतीयाध्याये तृतीयपादे चतुर्थं पुरुषविद्यायामित्यधिकरणम् ॥ ४ ॥ अथ निर्दोषत्वं ज्ञात्वा भजनीयमिति ज्ञापयितुमधिकरणान्तरमारभते । वेधाद्यर्थभेदात् ॥ २५ ॥ (३-३-५.) वाजसनेयिशाखायां 'द्वया ह प्राजापत्या' इत्युपक्रम्य तेषां मिथः स्पर्धामुक्त्वोच्यते, 'ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति, ते ह वाचमूचुस्त्वं न उद्गायेति, तथेति, तेभ्यो वागुदगायत्, यो वाचि भोगस्तं देवेभ्य आगायत्, यत् कल्याणं वदति तदात्मने, तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य भाष्यप्रकाशः। तैरैव न्यायैरानुषङ्गिको निर्णयो भविष्यति । अतः परविद्यां विहायैतद्विचारो युक्तो वा, परविद्याविचारो वा युक्त इति । ताण्डिप्रभृतीनां विद्यायामायुर्वृद्ध्यादिरूपं लौकिकं फलम्,
२७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० ५ सू० २५. पाप्मनाविध्यन्, स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव, स पाप्मे'ति । एवमेव घ्राणचक्षुःश्रोत्रप्रभृतिषु पापवेधमुक्त्वोच्यते । 'अथैनमासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्, ते विदुरनेन वै न उद्गात्रात्येष्य- न्तीति तमभिद्रुत्य पाप्मनाविध्यत्सन्, स यथाइममानम् ऋत्वा लोष्ठो विध्वंसेतैव५ ह वै विध्वंसमाना विष्वञ्चो विनेशु'रिति । छान्दोग्येपि प्राणादिष्वेवमेव पाप्मवे- धमुक्त्वासन्थे न तथेत्युच्यते । एतावान् परं विशेषः, वाजसनेयिनां गानकर्तृत्वम्, सामगानामुद्गीथत्वेनोपास्यत्वमुच्यते वाक्प्राणादीनामिति । अत्र देहसम्बन्धित्वगानकर्
ार्थ"! Look at the image: is it 'ना' or 'न'? Ah! In L15, look at the letter before 'र्थ': It is 'ना' with an aa-matra? No, look at 'र्थ': it has a vertical line, which is the stem of 'थ'. Before it is 'न'! There is no aa-matra on 'न'! Wait! In "तन्नोदनार्थ" / "तद्बोधनार्थ": If it were "तद्बोधनार्थ", it is त - द्बो - ध - न - र्थ ? Wait! "बोधन" + "अर्थ" = "बोधनार्थ"! The 'न' merges with 'अ' of 'अर्थ' to make 'नार्थ' (न + आ + र्थ)! So 'न' MUST have an aa-matra: 'ना'! YES! बोधन + अर्थ = बोधनार्थ! AND नोदन + अर्थ = नोदनार्थ! Now, what is the letter between त and ध/द? Look at it: Is it 'द्बो' or 'न्नो'? Wait, in L15: "कल्पनोपदेशाङ्गीकारः सांख्यप्रसिद्ध्या तन्नोधनार्थ इति" Wait! Why would it be "तद्बोधनार्थ"? Let's think: "मध्वादिविद्यास्वपि कल्पनोपदेशाङ्गीकारः सांख्यप्रसिद्ध्या तद्बोधनार्थ इति तु त
ाद्बाधापत्तेः ।" - wait! Look at line 26: "भूतार्थवादत्वाद्बाधापत्तेः ।" Wait, is it "भूतार्थवादत्वाद्बाधापत्तेः"? Letters: भू - ता - र्थ - वा - द - त्वा - द्बा - धा - प - त्तेः । Yes, भूतार्थवादत्वाद्बाधापत्तेः ।
Then: "गौणीति । वेदप्रतिपाद्य..." wait! Let's read line 26-27: Line 26 ends with: "गौणीति । वेद-" Line 27 starts with: Wait! What are the first words in line 27? Let's read carefully: "प्रतिपाद्यलगुणयोगात्"? Wait, look at line 27: "प्रतिपाद्य..." Letter 1: प्र Letter 2: ति Letter 3: पा Letter 4: द्य (or ध?) Letter 5: ल? Wait! "प्रतिपाद्यल..."? No! What qualities do Yupa and Prastara have? Aditya is Yupa: "आदित्यो यूपः", "यजमानः प्रस्तरः". Prastara has 'सत्त्वगुणयोगात्' or 'प्रस्तर' has some guna, Yupa has some guna! Wait! "आदित्यो यूपः" - why is Aditya called Y
न्यायाद्देवान्तेषूपास्यं ब्रह्मातिरिक्तं नोच्यत इत्यासन्योऽपि ब्रह्माभिन्नः, अत एव 'अपहतपाप्मा ह्येष' इति सामगैः पठ्यते । अतस्तन्न न पाप्मवेध इति भावः । ब्रह्मणः स्वतन्त्रपुरुषार्थत्वज्ञापनायार्थपदेनोक्तिः । एतेन विभूतिरूपेऽपि यत्रैवम्, तत्र मूल- भूतब्रह्मणि निर्दोषत्वं किं वाच्यमिति ज्ञापितम् । अथवा, अर्थः प्रयोजनं विषय इति यावत् । तद्भेदादित्यर्थः । अत्रेवमाकूतम् । देवा हि स्वस्यासुरजयाय गानार्थं वागादीनूचुः 'त्वं न उद्गाये'ति गानान्तरं 'यो वाचि भोगस्तं देवेभ्य आगाय'- दित्युच्यते । एवमेव प्राणादिष्वपि 'स्वस्यभोगं देवेभ्य आगाय'दिति । एवं सति भाष्यप्रकाशः । ब्रह्माभिन्न इति । उत्कृष्टतद्विभूतिरूपत्वात् तदात्मकत्योक्तः । उत्कर्षश्च पाप्मवेधाभावादेव गम्यते । एवञ्च 'मनो ब्रह्मेत्युपासीते'त्यादौ यत्तेषामुपास्यत्वेन विभूतित्वेपि नैतत्साम्यम्, तद्भगवता स्वसामर्थ्यस्य तत्र तारतम्येनैव स्थापितत्वादिति । यत् पुनर्वागादीनामुपास्यत्वं छान्दोग्ये प्रतीयते, तत्तु अप्रप्तानुवादरूपम्, न तु वास्तवम् । श्रुत्यनभिप्रेतत्वात् । उदवसानीयपशुक- पालवत् । तत्र निषेधेनैवात्र पाप्मवेधादेव तथा निश्चयात् । अतो न चोद्यावकाशः । ननु यदि वागादीनां ब्रह्मभिन्नत्वमेवमभिप्रेतम्, तदा सूत्रे ब्रह्मभेदादित्येवोच्येतेत्यत आहुः ब्रह्मण इत्यादि । ननु भवत्वेवमासन्योत्कर्षः, तथापि पूर्वप्रतिज्ञातस्याधिकरणप्रयोजनस्य कथमवगतिरित्यत आहुः एतेनेत्यादि । तथाच कैमुतिकन्यायादवगतिरित्यर्थः । नन्वर्थपदस्य वस्त्वर्थकत्वे उक्तमेव सिध्यति, तदनङ्गीकारे कथमेतदवगन्तव्यमित्यत आहुः अथवेत्यादि । रायभिधेयनिवृत्तीनामत्र प्रसङ्गाभावात् प्रयोजनमत्रार्थो ग्राह्यः । स चात्र वागादीनां विषयरूपः । तस्यैव देवार्थत्वेनोक्तत्वात् । अतस्तद्भेदादित्यर्थः । तदेतदुपपादयन्ति अत्रेदमित्यादि । उच्यत इति । बृहदारण्यके रश्मिः । प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथ एष प्रणव ॐमिति ह्येष स्वरन्नेती'ति । अग्रे 'अथाध्यात्मं य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतोमित्येष स्वरन्नेती'ति । प्रणवशब्द्वाच्योपि कस्मात्, हि यस्मात् एष सविता ॐमिति स्वरन्नुच्चारयन् एति गच्छति । यद्वा । प्राणिनां प्रवृत्त्यर्थमोमिति स्वरन्ननुज्ञां कुर्वन्निव एति । स्पष्टमन्यत् । अत्र यद्यपि प्रणवोद्गीथयोरेकत्वोक्तिरिति व्याख्यातम्, तथापि भाविनीमाख्यां आदित्य उद्गीथरूपमादायोद्गीथस्थले आदित्यपदोक्तिः । एवमुद्गीथदृष्टिरित्यत्रादित्यदृ- ष्टिरिति व्याख्यानं द्रष्टव्यम् । 'असौ वा आदित्य उद्गीथ' इति श्रुतेः । भाष्ये । ब्रह्मातिरिक्त- मिति । ब्रह्म अतिरिक्तमिति छेदः । प्रकृते । उत्कृष्टेति । अन्येषामप्रत्यक्षत्वात् 'त्वमेव प्रत्यक्षं ब्रह्मासी'ति श्रुतेः प्रत्यक्षत्वादुत्कृष्टेति विशेषणम् । यद्यपि तथाप्याध्यात्मत्वात्पाप्मवेधाभाव उत्कर्षः । पाप्मा- वेध उत्कर्ष इत्याहुः उत्कर्ष इति । पूर्वेति । आभासे प्रतिज्ञातस्य । अधीति । निर्दोषत्वज्ञानस्य । वस्त्वर्थेति । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि'ति कोशात्तथा । उक्तमिति । ब्रह्मवार्थत्वेन सिध्यति । ब्रह्मातिरिक्तस्यावस्तुत्वात् । तदनङ्गीकार इति । सौत्रार्थशब्दस्य वस्त्वर्थकत्वानङ्गीकारे रायाद्यर्थाना मङ्गीकारे केन प्रकारेण एतद्ब्रह्मणो निर्दोषत्वमधिकरणप्रयोजनमवगन्तव्यम् । प्रयोजन- रूपार्थाभावादित्यर्थः । अरुचिर्नोक्ता । अस्याप्यर्थस्य विवक्षितत्वात् । रायभीति । रैश्च अभिधेयं च निवृत्तिश्च रायाभिधेयनिवृत्तयः तासाम् । अत्रेति । पूर्वव्याख्याने वस्तुरूपे । अत्रेति । द्विती- यार्थशब्दव्याख्याने । तस्येति । प्रयोजनरूपविषयस्यैव 'यो वाचि भोगस्तं देवेभ्य आगाय'दित्यादि- श्रुतिषु देवार्थत्वेनेत्यादिः । तद्भेदात् विषय रूपप्रयोजनभेदात् । प्रयोजनं फलं तदत्र विषयभोगः ।
देवार्थमेवैतज्ज्ञानम्, न तु भगवदर्थम् । यद्यप्यासन्द्येऽप्येवमुच्यते, 'तेभ्य एष प्राण उदगाय'दिति, तथापि यथा वागादिषु खनिष्ठभोगं 'देवेभ्य आगाय'- दित्युक्तम्, तथा नासन्ये । तेनोक्तमानैर्ब्रह्मात्मकत्वेनासुरजयहेतुर्भगवत्सम्बन्ध एवेति ज्ञात्वा तथैवागायदासन्थ इति ज्ञायते । अत एवान्यत्र बेध उक्तोऽत्र तत्करणेच्छायामप्यासुरोणां नाश उक्तः । अग्रे च, 'भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेदे'ति पठ्यते । तेन परब्रह्म निर्दोषमिति किमु वाच्यम् । यत्र तद्विभूतिरूपआसन्यस्योक्तरूपतां यो वेत्ति, सोऽपि गुणयुक्तो दोषरहितश्च भवतीति कैमुतिकन्यायः सूचितो भवति । एतेन लोके दोषत्वेन ये धर्माः प्रतीयन्ते, त एव धर्मा भगवति निरूप्यमाणा न दोषत्वेन ज्ञेयाः, किन्तु
भाष्यप्रकाशः । उच
letter has: an upper part and lower part. Wait, look at Sutra 25: "वेधाद्यर्थभेदात्". In line 20: "वेधाद्यर्थभेदात्" - yes, 'द्य' is clear.
Line 21: वेधार्थी हृदयवेधादयो भिन्नाः अनभिसंबद्धाः ते उपनिषदुक्ताभिर्विद्याभिः, न तेषां ताभिः संगन्तुं साम-
Line 22: र्थ्यमस्ति । अयमर्थः । पूर्वपक्षोत्थानरूपप्रमाणस्य लिङ्गरूपप्रमाणापेक्षया दुर्बलत्वान्न पूर्वपक्ष इति ।
Line 23: देशसामान्यं स्थानम् । तच्च द्वेधा पाठदेशसामान्यमनुष्ठानदेशसामान्यं च । तत्र पाठदेशसामान्यमपि
Line 24: द्वेधा । यथासंख्यरूपं सन्निधिरूपं च । तत्र प्रथमस्यानुक्तत्वाद्वितीयः सन्निधिपाठरूपदेशसामान्यसह-
Line 25: कृतो 'यथग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निर्वपे'दिति, 'सोत्र जुहोत्यग्नये स्वाहा' 'कृत्तिकाभ्यः Wait, line 25: is it 'यथग्नये' or 'यथाग्नये' or 'यदग्नये'? Look at line 25: "'यथग्नये" -> wait,
१८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम्। [अ० ३ पा० ३ अ० ५ सू० २६. 'तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती'त्याथर्वणिकैः पठ्यते । परमपदेन ब्रह्मोच्यते । तथाच सकार्याविद्यारहितः परममुपैति । तदनन्तरं साम्यमुपैतीति योजना । तत्रेवं विचार्यते । साम्यं हि समानजातीयधर्मवत्त्वम् । तच्च कतिपयधर्मैर- शेषतन्निष्ठधर्मैर्वा भवति । तत्रान्त्यः पक्षो ब्रह्मणा समं न सम्भवति । 'न तत्सम- श्चाभ्यधिकश्च दृश्यत' इति श्रुतिविरोधात् । अत आद्य एव पक्षोऽनुसर्तव्यः । तत्र कैर्धर्मैः साम्यमिहोच्यत इत्याकाङ्क्षायामाह हानाविति । ब्रह्मणः सकाशाद्विभागो जीवस्य हानिशब्देन उच्यते । तथाच तस्यां सत्यां ये धर्मा जीवनिष्ठा आनन्दांशै- श्वर्यादयो भगवदिच्छया तिरोहिताः, ते ब्रह्मसम्बन्धे सति पुनराविर्भूता इति तैरेव भाष्यप्रकाशः । भगवत्सम्बन्धे विशेषबोधिकां श्रुतिमाहुः तदेत्यादि । एतत्पूर्वार्धं तु 'यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनि'मिति । पठ्यते इति । मुण्डके पठ्यते । ननु क्वात्र भगवत्सम्बन्ध उच्यत इति शङ्कायां पूर्वार्धस्य स्फुटार्थत्वादुत्तरार्धं व्याकुर्वन्ति परमपदेनेत्यादि । विद्वान् भगवज्ज्ञानवान्, पुण्यपापे अविद्याकार्ये, ज्ञानेन विधूय निवार्य, निरञ्जनः अविद्या- रहितः सन्, परमं ब्रह्म उपैति, तदनन्तरं साम्यमुपैतीत्येवमर्थः संक्षेपेण तथाचेत्यादिनोक्तः । एतेन यदन्यैरुक्तं 'परममत्युत्कृष्टं साम्यं समत्वं अद्वैतलक्षणं उपैति अवगच्छती'ति । तन्निरस्तम् । समशब्दस्य सर्वपर्यायत्वे साम्यं सर्वत्वम्, तुल्यपर्यायत्वे तौल्यम्, न पुनरद्वैतं निर्विशेषत्वलक्षणम्, लक्षणाप्रसङ्गात् । उभयनिरूपितधर्मरूपसाम्याङ्गीकारेपि यथा नाद्वैतहानिः, तथातीतपाद एवोपपादनात् । अन्यथा श्रुतिविरोधप्रसङ्गाच्च । अत उपैतिपदावृत्तिरेव युक्तेति । ननु भवत्वेवम्, तथापि किमत्र विचार्यमित्यत आहुः तत्रेदमित्यादि । इदमिति । साम्यम् । विचारमुपपादयन्ति साम्यं हीत्यादि । आहेति । यैर्धर्मैः साम्यं तानत्राहेत्यर्थः । सूत्रं व्याकुर्वन्ति ब्रह्मण इत्यादि । सूत्रे तुशब्देन श्रुत्यन्तरे समाभ्यधिकनिषेधादत्र साम्यपदं लक्षणया अद्वैतपरमिति पक्षो निरस्यते । ब्रह्मणः सकाशाद्विभागो जीवस्य, 'ओहाक् त्याग' इति धातुनिष्पन्नेन हानिशब्देनो- च्यते । विभागस्य पूर्वस्थितित्यागरूपत्वात् । तथाच तस्यां सत्याम्, उपायनशब्दशेषत्वात्, उपायनं ब्रह्मप्राप्तिस्तद्वाचकः शब्द उपैतिशब्दस्तच्छेषत्वात् साम्यस्य ये धर्मास्तिरोहिताः, ते परमोपायने ब्रह्मसम्बन्धे सति पुनराविर्भूता इति तैरेव तथा तैरेव साम्यमित्यर्थः । नन्वेवं रश्मिः । तथा सतीतिभाष्यं विवृण्वन्ति स्म भगवदित्यादि । विशेषेति । साम्योपायनरूपविशेषबोधिकाम् । पश्य इति । पश्यतीति पश्यः । भगवज्ज्ञानेति । स्मार्तः प्रयोगः । उपैतीति । उप आ एतीति पदच्छेदः । तथाचेत्यादिना भाष्येणोक्तः । लक्षणेति । ब्रह्मवत् सर्वत्वे अभेदसम्बन्धो लक्षणा । तौल्येपि अभेदः । ब्रह्मतुल्यः ब्रह्माभिन्न इत्यर्थात् । सिद्धान्ते साम्येऽद्वैतमुपपादयन्ति स्म उभयेति । वक्ष्यमाणे इत्यर्थः । अतीतेति । तदनन्यत्वाधिकरणे । 'परमत' इत्यधिकरणे 'स्थानविशेष' सूत्रे 'अम्बुव'दधिकरणे वा । श्रुतीति । अद्वैतश्रुतिविरोधप्रसङ्गात् । लक्षणयेति । अभेदसम्बन्धरू- 18 18
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २८३ तथेत्यर्थः । भगवदानन्दादीनां पूर्णत्वाज्जीवानन्दादीनामल्पत्वाज्ञानेव सर्वैर्धर्मैः कृत्वा ब्रह्मसाम्यं जीव उपचर्यते । 'साम्यमुपैती'ति । वस्तुतस्तु नैतैरपि धर्मैः साम्यमिति भावः । अत एव, 'न तत्सम' इति श्रुतिर्विरुद्धा । अत एव सूत्रकृता 'साम्यमुपैती'ति साम्योपायनशब्दमात्रम्, न तु साम्यपदार्थः स्वारसिकोऽत्रा- स्तीति भावप्रकटनाय शब्दशब्द उक्तः । ननु तैरैव धर्मैः साम्यम्, नेतरेरित्यत्र को हेतुरित्याकाङ्क्षायामाह उपायनशब्दशेषत्वादिति । 'परममुपैती'ति य उपायन- शब्दः, तच्छेषत्वात् साम्योपायनस्येत्यर्थः । ब्रह्मसम्बन्धहेतुकत्वादानन्दांशाया- विर्भावस्य, तदैव साम्योपायनकथनात्तैरेव धर्मैः साम्यमभिप्रेतमिति भावः । नन्वानन्दादीनां ब्रह्मधर्मत्वात् तैस्तत्साम्यकथनं तद्भेदमेव गमयेदित्याशङ्क्य, तद्धर्मवत्त्वमात्रस्य न तद्भेदसाधकत्वमित्यत्र दृष्टान्तमाह कुशेल्यादि । कुशा औदुम्बर्यः समिधस्ता अग्निष्टोमादियागेषु प्रस्तोत्रा स्थाप्यन्ते । तदा तत्सम्बन्धि यच्छन्दःस्तुत्युपगानं तद्वदित्यर्थः । तत्र 'अभि त्वा शूर नोनुमो दुग्धा इव धेनव' भाष्यप्रकाशः। साम्येपि 'न तत्सम' इति श्रुतौ संकोचस्तु स्यादेवेत्यत आहुः भगवदित्यादि । जीवान- न्दादीनामल्पत्वादिति । 'सर्वे जीवाः सर्वमयास्तथाप्यल्पा' इति नृसिंहोत्तरतापनीये जीवानामल्पतोया उक्तत्वेन तदानन्दादीनामपि तथात्वात् । नन्वेवमेव सूत्राशय इति कथं ज्ञातव्यमित्यत आहुः अत एव सूत्रकृतेत्यादि । हेतुमवतारयन्ति नन्वित्यादि । तदैवेति । ब्रह्मसम्बन्ध एव । तथाचोपायनशब्दशेषत्वात् उक्तैरेव धर्मैः साम्यमिति सूत्रयोजनेत्यर्थः । दृष्टान्तमवतारयन्ति नन्वानन्देत्यादि । व्याकुर्वन्ति कुशा इत्यादि । उपगीयतेऽनेनेत्युपगानम् । करणे ल्युट् । तथाच कुशाभिः कृत्वा छन्दःस्तुत्युपगानसाधनभूत- मकारवदिति सूत्रार्थ इत्यर्थः । एतद्व्युत्पादयन्ति तत्रेत्यादि । रश्मिः। पया । तच्छेषत्वादिति । हानावुपायनशब्दशेषत्वात् । भगवदित्यादीति । उपचर्यते कति- पयधर्मैर्गौणं क्रियते । सूत्रयोजनेति । हानौ जीवस्य भगवत्सकाशाद्विभागे ये जीवनिष्ठा धर्मास्ति- रोहिता भगवदिच्छया आनन्दैश्वर्यादयस्ते भगवत्सम्बन्धे सति पुनराविर्भूता भवन्तीति परं तुकारात् 'न तत्समाभ्यधिकश्च दृश्यत' इति श्रुतिनिषिद्धसाम्यपदं लाक्षणिकमद्वैतवाचकमिति पक्षनिरासात् साम्यमुपैतीति योजना यद्यपि, तथापि दुरूहत्वममन्यमाना उपायनशब्दसोपैतीत्यस्य साम्ये कर्मत्वा- च्छेषत्वं विशेषणत्वं तस्मात् उक्तैरेवैश्वर्यादिधर्मैः साम्यमिति साम्यसैतादृशस्य योजनेत्यर्थः । नन्वानन्देत्यादीति । नेति । चन्द्रवन्मुखमित्यादौ तथा । अनेनेति । भकारेण । छन्द इत्यादि । छन्दोभिर्वेदैः स्तुतियुक्तमुपगानं तत्साधनभूतो भकारः तद्वत् । अत्रोपगानं भावव्युटन्तम् । ऋत्विजो गायन्तीत्यार्त्विज्यं गानस्य । अत्र भाष्ये । तत्सम्बन्धीति । स्तुतिरूपप्रतिपाद्यस्य प्रतिपादकत्व- सम्बन्धि, छन्दसः स्तुतियुक्तमुपगानमित्यर्थः । प्रकृते । तत्रेत्यादीति । अभि त्वेति श्रुत्यर्थस्तु, हिरण्याक्षस्य वराहं प्रति वचः, ब्राह्मणे वाराहोक्तेः । कृष्णं प्रति भीष्मवचो वा । वेदान्ते कृष्णोक्तेः । यद्वा, हे शूर यातुधानादे, यज्ञाभिभावक, त्वामभि त्वा नोनुमः न रयन्तरेण साम्ना स्तुमः । तत्र दृष्टान्तः । 'अदुग्धाः न विद्यते दुग्धं यासु ताः धेनवो यथा न स्तुत्यास्तद्वत्, तवापि ब्रह्मत्वं परं १. अभेदो लक्षणा। 1819
१८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० ५ सू० २६. इत्यृचि ये वर्णाः, तेषामच एवोपसंहृत्य भकारेणैव गानं क्रियते । न हि तदार्थि- कवर्णधर्माणामप्यनुपसंहारोऽस्तीति तहगात्मकत्वं भकारस्य सम्भवति, एवं प्रकृतेऽपि ब्रह्मधर्मप्राकट्येन न तदात्मकत्वं जीवस्य सम्भवति । ननु तत्त्वमस्यादि- वाक्यैरत्राभेदबोधनादस्तु तथेति चेत्, तत्राह तदुक्तमिति । जीवब्रह्माभेदबोध- नतात्पर्यमुक्तमित्यर्थः । 'तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञव' दिति सूत्रेणेति शेषः । अपिच । श्रुतौ ब्रह्मोपायनस्य साम्योपायनहेतुत्वोक्त्या तदनुपायनस्य साम्यानुपायने हेतुत्वमिति ज्ञाप्यते । तथाच, 'पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्यया'विति सूत्रे जीवस्य ब्रह्मांशत्वेनानन्दैश्वर्यादिब्रह्मधर्मवत्त्वात् भाष्य
ब्रह्मणः सकाशाद्विभागे सति तदिच्छया तद्धर्मतिरोधानस्य संसारित्वे हेतुत्वमुक्तं यत्, तदपि 'तदुक्त' मित्यनेन स्मार्यत इति न विस्मर्तव्यम् । यथान्यशाखोक्तधर्मा अप्येकस्यां विद्यायामुपसंह्रियन्ते, एवं ब्रह्मनिष्ठा धर्मा जीवेऽप्येतया श्रुत्या बोध्यन्त भाष्यप्रकाशः। ख्यानमसङ्गतम्, उपसंहारप्रकरणे धर्मसाम्यविचारप्रसङ्गस्याभावादित्यत आहुः यथेत्यादि । यथा छान्दोग्यस्थपञ्चाग्निविद्यायां काण्वाद्युक्तः षष्ठोऽग्निः प्राणविद्यायां पञ्चमं रेतश्चोपसंह्रियते, विद्यैक्य- बलात्, तथात्र श्रुत्या परमसाम्यनिरूपणादैक्यभ्रमेणासाधारणा ब्रह्मनिष्ठा धर्मा अपि जीवे उपसंहार्या इति शङ्कानिरासायैतदुक्तमित्यर्थः । तस्माच्चिद्दोषत्वे तिरोहितगुणप्राप्त्या साम्ये च सिद्धे ब्रह्मभूतस्य मुख्यं भजनं सिध्यतीति तदर्थं यतनीयम्, न तु विभूतिपरेण भवितव्यमिति बोधितम् । अत्रापहतपाप्मत्वस्य यज्ञे प्राक्तव्याद्यङ्गसम्बन्धे रुक्मवर्णत्वात् सौभाग्यस्य कर्तृत्वयो- रश्मिः। पञ्चममिति । सर्ववेदान्तप्रत्ययसूत्र एवोक्तम् । 'उपसंह्रियन्त' इत्यनुक्त्वा 'बोध्यन्त' इत्युक्तं तदर्थ- माहुः इति शङ्केति । उपसंहारशङ्कानिरासायैतत् 'बोध्यन्त' इति पदमुक्तमित्यर्थ इत्यर्थः । उपासनां प्राकरणिकीमाहुः तस्मादिति । ब्रह्मनिष्ठधर्माणां जीवे बोधनात् । दोषः पाप्मवेधः तस्मान्निर्गतत्वे प्रथमसूत्रोक्ते द्वितीयसूत्रोक्ते तिरोहितगुणानामानन्दादीनां प्राप्त्या साम्ये । 'ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते परा'मिति गीताया आहुः ब्रह्मभूतस्येति । जीवस्य । मुख्यं परं फलाविसंवादि एकादशैकोनविंशाध्यायोक्तम् । तदर्थ इति । मर्यादामार्गार्थे तदुक्ते । एतेन तत्पदार्थाशया भजनेऽयं पुष्टिमार्गो भवति । 'तत्वायामि ब्रह्मणे'ति सन्ध्याश्रुतेः । तत् महावाक्योक्तं त्वा त्वायामि पद्धत्यां सेवे । पादसेवोक्ता । ब्रह्मणा हिरण्यगर्भेण वन्द्यमानः वन्द्यमानम् । अमः सुः । 'ब्रह्मा मानसी सेवां प्रत्यहं करोती'ति सुबोधिन्याम् । वन्दनभक्तिः सेवापूर्वै एकादशस्कन्धसुबोधिन्यामुक्तम् । तत् पूर्वोक्तं यजमानो दैशिक आशास्ते आशां कुरुते । हविर्भिः बहुविधभक्तिमार्गीयैः समर्पणदानैः । स यजमानो न कृतात्मनिवेदी, किंतु श्रुतात्मनिवेदीत्याह अहेडमान इति । हेड अनादरे । हेडते कृतात्मनिवेदनत्वदशायां गुरुणा न हेडमानोऽहेडमानः, हे वरुण, इह लोके बोधी ज्ञानी उरु यथा भवति तथा शंसमानः कीर्तनभक्तिमान् । आयुः अन्नं प्रमोषीः प्रकर्षेण मोषीः । मुष स्तेये । जलदोषेण स्तेयं मा कार्षीः । अडभावश्छान्दसः । उरु शं यथा भवति तथा स यजमानोऽतो नोऽस्माकं आयुः त्वं प्रमोषीः । आनन्दमयादीनां प्रियशिरस्त्वसूत्रानुसारेण प्रियाद्युपासनमुक्त्वा तत्सङ्गेन स्मृताश्च विरुद्धधर्माधारत्वाय निकेतत्वानिकेतत्वे श्रीवैराग्यरूपे आहुः पुरुषविधब्राह्मणोक्तपतिपत्नीभजनाय । तत्सङ्गेन स्मृतार्थं च । अत्रापहतेति । श्रुतौ अपहतपाप्मा यज्ञ उक्तः, सोऽत्र शाखाभेदेन पुरुष- विधः । आनन्दमयाधिकरणे पुरुषविधब्राह्मणोक्तेरानन्दमयाद्युपासनप्रसङ्गेन पुरुषविध आनन्दमय इति स्मृतेः । पुरुषविधयज्ञो दंपतीत्वतः 'पतिः पत्नी चाभवता'मिति पुरुषविधब्राह्मणश्रुतेः । ततो यज्ञ आसन्द्येऽपहतपाप्मत्वं रुक्मवर्णत्वं पत्नीकृतमथोक्षजे । तस्याः क्रियात्वेन रुक्मवर्णत्वमिति । गोप्यत्वा'दजामेका'मिति श्रुत्युक्ताया अजायास्त्यक्ताया गुणहानिः तस्यां सत्यां ब्रह्मोपासनशेषत्वात्सा- म्यस्य । ब्रह्मप्राप्तिमुख्यनित्यक्रीडाप्रवेशोपयिकः प्रपञ्चः तस्य शेषत्वं पत्नीनिष्ठसाम्यस्येति परम्परया ब्रह्मोपासनशेषत्वं साम्यस्येत्याशयवन्त आहुः सौभाग्यस्येति । अलौकिककर्तृत्वयोनित्वाभ्यां सौभाग्यस्य साम्यरूपस्य । ब्रह्मवदभिन्न (निभिन्न) निमित्तोपादानत्वं तेन साम्यमित्युक्तम् । तस्याः कार्यकारणभावः प्रपञ्चसम्बन्धः इति त्रिधा सौभाग्यजन्यकर्तृत्वयोनित्वैस्त्रिधा आधिदैविकादिभेदेन या श्रीलक्ष्मीः शोभ्न
२८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० ५ सू० २६. भाष्यप्रकाशः । नित्याम्ब्रां प्रपञ्चस्य च सम्बन्ध इति त्रिधा श्रीनिकेतनत्वमुक्तम् । अन्ये तु इदमप्येकसूत्रमधिकरणमङ्गीकृत्य, 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य, धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी'ति ताण्डिश्रुतिं 'तदा विद्वा'न्नित्याथर्वणश्रुतिं 'तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्या'मिति शाट्यायनिश्श्रुतिं 'तत्सुकृतदुष्कृते विधुनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति अप्रिया दुष्कृत'- मिति कौषीतकिश्रुतिं चोदाहृत्य, यत्रोभयं श्रूयते, तत्र न कश्चिद्विचारः, यत्राप्युपायनमेव श्रूयते, न हानम्, तत्राप्यर्थादेव हानं सन्निपतति, अन्यैरुपैयमानयो
... wait: Look at: "मन्मक्षापन" Wait, could it be "सन्मक्षापन"? Wait! Look at line 30: "परस्परमेकवाक्यतापन्नवाक्यचतुष्टयस्य" -> Look at the word: "एकवाक्यतापन्न"! "एकवाक्यतापन्न"! Now look at line 29: Does it say: "...मन्मक्षापन" -> wait: "मन्मक्षा" ??? What if line 29 ends with: "...[something] एकवाक्यतापन्न..."? Wait! Look at line 29 again: "मानाभावान्मन्मक्षापन" Wait! Could it be: "मानाभावान्मन्मन्त्रैकवाक्यतास्वीकारात्"? No, there are letters: Look at the letters after मानाभावान्:
- 'म'
- 'न्म'
- 'क्षा' (or 'त्था' or 'स्था')
- 'प'
- 'न' Wait! What if it is: "मानाभावान्मन्मक्षापन"? Wait, what if it's a typo in the original book? Indian pandit editions (like Chowkhamba, which this 100% is—Chowkhamba Sanskrit Series, Bhashyaprakasha with Rashmi, page 287/1823) frequently have typos. Wait, let'
२८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० ५ सू० २६. इत्येतावत्साम्यमस्तीत्युपसंहारप्रकरण एतस्य निरूपणं कृतम् ॥ २६ ॥ इति तृतीयाध्याये तृतीयपादे पञ्चमं वेधाद्यधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः। मात्रेण दोषसंक्रमकथनात्, भारतादौ माण्डव्यदत्तयमशापप्रसङ्गे बालकृतपापस्य जनकत्वोपाधिना पितृसंक्रमकथनात्, विश्वामित्रपुण्येन त्रिशङ्कोः स्वर्गप्राप्तिसरणाच्चापि तथा सम्भवेन स्तुतिमात्र- त्वाङ्गीकारस्याप्रयोजकत्वात्, 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथे'ति श्रुतिस्मृतिभ्यां ज्ञानस्य कर्मनाशकत्ववत् विद्याविशेषस्यान्यत्र कर्मसंक्राम- कत्वेपि बाधकाभावात्। नच सुकृतदुष्कृतयोः कर्तृसामानाधिकरण्यस्यैव सर्वत्र दर्शनान्नान्यत्र साक्षात् [L10
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २८९ सम्पराये तर्तव्याभावात् तथा ह्यन्ये ॥ २७ ॥ ( ३-३-६. ) वाजसनेयिशाखायां 'स एष नेति नेतीत्यात्मे'त्युपक्रम्य, 'न व्यथत' इत्यन्तेन ब्रह्मस्वरूपमुक्त्वा, यत एतादृग्ब्रह्मातस्तद्विदपि विवक्षितरूप इत्यभि- प्रायेणाग्रे पठ्यते 'अतः पापमकरवमतः कल्याणमकरवमित्युभे ह्येष एते तरत्य- मृत' इत्यादिना । अग्रिमया 'एष नित्यो महिमा ब्राह्मणस्ये'तृचा च ब्रह्मविदो माहात्म्यमुक्त्वा पठ्यते । 'तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धा- भाष्यप्रकाशः। सम्पराये तर्तव्याभावात् तथा ह्यन्ये ॥ २७ ॥ साम्पराय इति पाठे स्वार्थेऽण् बोध्यः । पूर्वाधिकरणे जीवस्य भगवत्सम्बन्धे विशेषमुक्त्वा तत्साधनयोर्ज्ञानभक्तयोर्मध्ये किं ज्याय इति विचारयितुमधिकरणमारभत इत्याशयेन सूत्रे तर्तव्याभावपदात्तल्लिङ्गिके श्रुती विषय- त्वेनोदाहरन्ति वाजेत्यादि । आथर्वणेत्यादि च । एतयोराद्यं वाक्यं बृहदारण्यके शारीर- ब्राह्मणस्थम् । तत्र च पूर्वं 'मनसैवानुद्रष्टव्य'मित्यनेन तद्दर्शनसाधनमुक्त्वा, 'विरजः पर आकाशा'दित्यादिना विरजत्ववशित्वेशानत्वादीन् धर्मान् बोधयित्वा, ततोऽनिरुक्तत्वाय 'नेति नेती'त्यनेनैतावन्मात्रतां निषिध्य, 'अगृह्यो नहि गृह्यते, अशीर्यो नहि शीर्यते, असङ्गोऽसितो न सज्जते न व्यथत' इत्यनेन लौकिकप्रमाणाग्राह्यत्वमनाशित्वमसङ्गत्वम्, 'षिञ् बन्धने', अबद्धत्वं निर्दुःखत्वं चोक्त्वा, तेन जडविलक्षणं ब्रह्मस्वरूपं बोधयित्वा, ब्रह्मण एतादृशत्वात् तद्विदपि साध्वसाधुकर्मरहित इति बोधनायाग्रे पठ्यते 'अतः पापमकरवमतः पुण्यमकरवमित्युभे ह्येष एते तरत्यमृतः साध्वसाधुनी' इति । अत इदमभिसंधाय पापमकरवं कृतवानस्मि, अत इदमभिसन्धाय कल्याणं पुण्यं कृतवानस्मि, इति एवमभिसन्धिपूर्वकं कृते एते उभे साध्वसाधुनी हि निश्चयेन एष उक्तरीतिकब्रह्मवित् तरति अतिक्रामत्यभिभवति । अमृतो जीवन्नेव, नैनं कृताकृते तपतः, - एनं ब्रह्मविदं निन्दितकरणकल्याणकरणे पश्चात्तापं न जनयतः, नास्य केनचन कर्मणा लोको मीयते, अस्य प्राप्तव्यो ब्रह्मलोकः केनापि कर्मणा नापयाति, प्राप्तव्यं प्राप्नोत्येवेत्यर्थः । तदेतदृचाभ्युक्तम् । ब्राह्मणोक्तोऽर्थो वक्ष्यमाणर्चायुक्त इत्यर्थः । ऋक् तु 'एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् तस्यैव स्यात् पदवित् तं विदित्वा न कर्मणा लिप्यते पापकेने'ति । 'एष' इति ब्राह्मणोक्तः । 'तं' पूर्वोक्तरूपमात्मानं विदित्वा तस्यैवात्मनः पदवित् पदं चरणं स्थानं वा 'तद्धाम परमं ममे'ति वाक्यादक्षरं तद्वित् स्यात् । ततः पापेन लिप्तो न भवतीत्येवमक्षरविदो माहात्म्यमुक्त्वा पठ्यते । तत्साधन- मुच्यते 'तस्मादेवंवि'दित्यादिना । यस्मादेवं ज्ञातुर्माहात्म्यम्, तस्मादेवं शास्त्रतो ज्ञः, यः स्वरूपवित्, शान्तो दान्तः निगृहीतान्तर्बहिःकरण उपरतो निवृत्तसर्वदृष्टस्तितिक्षुः दुःखसहिष्णुः श्रद्धावित्त आस्तिक्यबुद्धिमान् आत्मनि स्वशरीर एवात्मानमक्षरं पश्येत् । 'अर्हे कृत्यतृचश्चे'- रश्मिः। सम्पराये तर्तव्याभावात् तथा ह्यन्ये ॥ २७ ॥ अत इति । अभावस्य प्रतियोगि- सापेक्षत्वात् । साध्वसाधुनी इति । द्वितीयाद्विवचनान्तं पदम् । नापयातीति । मीयत इति । माङ्माने शब्दे च । अपयातिशब्देन शून्यत इत्यर्थः । पदवित्तमिति । पदवित् तं इति छेदः । 'तस्यैवात्मा पदवित् तमिति'दानीन्तनपाठः । स्वशरीर इति । स्वजीवे । 'यस्यात्मा शरीर'मित्य- ३७ ब्र० सू० २० 1825
२९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० ६ सू० २७. चित्तो भूत्वात्मन्येवात्मानं पश्येत्, सर्वमेनं पश्यति, सर्वोऽस्यात्मा भवति, सर्वस्यात्मा भवति, सर्वं पाप्मानं तरति, नैनं पाप्मा तरती'त्याद्युक्त्वान्ते पठ्यते 'य एवं वेदे'ति । अत्र हि पाप्मतरणादिरूपं ब्रह्मज्ञानमाहात्म्यमुच्यते । ज्ञानस्य संसारमुक्तिहेतुत्वात् । अथर्वणोपनिषदादिषु तु भगवद्भक्तेर्मुक्तिहेतुत्वमुच्यते । 'परं ब्रह्मैतत् यो धारयती'त्युपक्रम्य 'भजति सोऽमृतो भवति सोऽमृतो भवती'ति । अग्रेऽपि 'मुक्तो भवति संसृते'रिति । एतद्विषयव्यवस्था तु पूर्ववोक्तेति नात्रोच्यते । एतावान् परं सन्देहः, 'य एवं वेद स पाप्मानं तरती'ति वचनाज्ज्ञानदशा- यामपि पापसत्त्वं वाच्यम्, अन्यथा तरणासम्भवापत्ते
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३९१ तत्र श्रुतावविशेषेण पापनाशश्रवणान्मुक्तिपूर्वकाले पापनाशावश्यम्भा- वावेकत्र निर्णीतः शास्त्रार्थोऽपरत्रापि तथेति न्यायेन भक्त्या पापनाशादत्रापि तथैवेति प्राप्ते, आह सम्पराय इत्यादि । सम्परायः परलोकः, तस्मिन् प्राप्तव्ये सतीत्यर्थः । अथवा । परः पुरुषोत्तमस्तस्याऽयो ज्ञानम् । तथाच सम्यग्भूतं पुरुषोत्तमज्ञानं येन स सम्परायो भक्तिमार्ग इति यावत् । अथवा । परे पुरुषोत्तमे अयनमयो गमनं प्रवेश इति यावत् । तथाच सम्यक्परायौ येन स तथा भक्तिमार्ग इत्यर्थः । ज्ञानमार्गेऽक्षरप्राप्त्या भक्तिमार्गे पुरुषोत्तमप्राप्त्या तस्माद्विशेषमत्र ज्ञाप- यितुमेवंकथनम् । अतो भक्तेः पूर्वमेव पापनाशो युक्त इति भावः । ब्रह्मभूतस्य भक्तिलाभानन्तरं 'भक्त्या मामभिजानाती'ति भगवद्वाक्यात् पुरुषोत्तमस्वरूप- ज्ञानस्य भक्त्येकसाध्यत्वात् तथा । एवं सति 'मुक्तानामपि सिद्धानां नारायण- भाष्यप्रकाशः । पूर्वपक्षमाहुः तत्र श्रुतावित्यादि । तथैवेति । भक्तिदशायां पापमत्त्वमेव । सिद्धान्तं वक्तुं सूत्रं व्याकुर्वन्ति सम्पराय इत्यादि । भक्तिदशायामेव तर्तव्याभाव इति भावः । संपरायशब्दस्य प्रसिद्धार्थग्रहणे भक्तिमार्गबोधकपदाध्याहारापत्तिरिति तमर्थं विहाय यौगिकार्थं गृहीत्वा व्याकुर्वन्ति अथेत्यादि । अत्र द्वेधा व्याख्यानेन पुरुषोत्तमज्ञानस्य तत्प्राप्तेश्च साधनं भक्तिमार्ग एवेति ज्ञापिते सन्देहो भवति । ननु 'रूढिर्योगमपहरती'ति न्यायेन योगस्य निर्बलत्वाद्विदं न युक्तम्, व्यासचरणैर्वा कुत एवं प्रयुक्तमिति, तद्वारणायोहुः ज्ञानमार्गे इत्यादि । तस्मादिति । ज्ञानमार्गात् । एवंकथनमिति । यौगिकपदकथनम् । तथाचैवं व्यासाशयादध्या- हारापेक्षया यौगिकादरस्य लधुत्वाच्चैवमाशयकथनं युक्तमित्यर्थः । भक्तेरिति । मर्यादामार्गीयप्रे- मात्मिकाया भक्तेः । नन्विदं तदा युज्येत, यदा ज्ञानमार्गाद्भक्तिमार्गोत्कर्षः स्यात्, स एव तु कथ- मित्यत आहुः ब्रह्मेत्यादि । तथेति । ज्ञानमार्गाद्भक्तिमार्गोत्कृष्टत्वम् । ज्ञानमार्गे साक्षात्कारोत्तरं पुण्यपापनिवृत्त्या सुखप्राप्तेः, भक्तेस्तु पापनाशोत्तरमेव भवनादादित एव सुखप्राप्तेर्भेत्थ्यापि बोध्यम् । किञ्च । ननु भवत्वेवम्, तथापि कथं भक्तिमार्गे तर्तव्याभाव इत्यत आहुः एवं सतीत्यादि । रश्मिः । मुक्तो ज्ञानमार्गीयाद्भिन्नः । तत्र श्रुतावित्यादीति । अत्रापीति । भक्तिमार्गेपि । प्रसिद्धेति । 'कृत्वा तत्साम्परायिक'मित्यादौ परलोके सम्परायशब्दः प्रसिद्धः । भक्तिमार्गमिति । भक्तिमार्गे यः सम्परायः परलोकस्तस्मिन् तर्तव्याभावात् । तथा ज्ञानानन्तरमपि पापवन्तोऽन्ये भक्तिमार्गीयेभ्योऽन्ये 'मुक्तानामपि सिद्धाना'मित्याद्युक्तवाक्येभ्य इति सूत्रार्थः स्यादत्र तथैत्यर्थः । सप्तम्यन्तभक्तिमार्गपदा- ध्याहारः । लाघवादर्थाध्याहारे पदजन्यपदार्थोपस्थितिरहान्या घटपदात्पटवोधः स्यादिति भावः । तत्प्राप्तेरिति । भाष्ये प्रवेशः प्राप्तिरिति भावः । भक्तिमार्ग एवेति । प्रथमान्तं पदम् । तथाच तृतीयसुबोधिनौ । 'भक्तिमार्ग एव मार्ग' इति । सन्देह इति । उक्तसन्देहः । एवमिति । यौगिकं पदम् । ज्ञानमार्ग इत्यादीति । इदमानुमानिकाधिकरणे 'त्रयाणामेव चैव'मिति सूत्ररश्मौ 'यस्मि- न्निदं विचिकित्सन्ती'ति श्रुतिव्याख्याने स्पष्टम् । युक्तमित्यर्थ इति । तथाच पूर्वमीमांसाकारिकासु श्रीमदाचार्याः 'विचारो योगरूढित' इति । वेदे तथा । वेदान्ते योगमात्रं 'सर्वे सर्वार्थवाचकाः' 'सर्वं सर्वमय'मिति चेति । अत्रेति । भक्तिमार्गे । ब्रह्मेत्यादीति । ब्रह्मभूतस्येति । तर्तव्यपापरहितस्य । भक्त्यैकेति । न तु पापाभावं द्वारीकृत्य भक्त्येकसाध्यत्वात् । उत्कृष्टत्वमिति । 'अभिजानाती'ति- 1827
१९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ. ३. पा. ३. अ. ६. सू. २८. परायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने' 'मुक्तोपसृप्यव्यपदे- शात्' 'जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते' 'जन्मान्तरसहस्रेषु समाराध्य वृषध्वजम् । वैष्णवत्वं लभेत् कश्चित् सर्वपापक्षयादिहे'त्यादिवाक्यैः पापनाशानन्तरमेव भक्तिसम्भवाद्भ- क्तस्य तर्तव्यपापादेरभावान्न ज्ञानमार्गीयतुल्यतेत्यर्थः । ननु 'य एवं वेदे'ति सामान्यवचनात् पुरुषोत्तमविदोऽप्येवमेवेति चेत्, तन्नाह तथा ह्यन्ये । तथा ज्ञानानन्तरमपि पापवन्तोऽन्ये भक्तिमार्गीयेभ्योऽन्य इत्यर्थः । उक्तवचनरूपोपपत्तिर्हिशब्देन ज्ञाप्यते ॥ २७ ॥ ननु भक्तिमार्गीयाणामपि गोपस्त्रीणां 'दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गला' इति वचनेन दुष्कृतसुकृतयोरपि हानि- श्रवणात् पूर्वोक्तवचनैर्विरोध इत्याशङ्कायामुत्तरं पठति । छन्दत उभयाविरोधात् ॥ २८ ॥ छन्द इच्छा, तथाच भक्तिमार्गीयाणामपि पूर्वं पापनाशो यः, स भगव- भाष्यप्रकाशः। 'मुक्ताना'मिति वाक्यं तु षष्ठस्कन्धचतुर्दशाध्यायस्थम् । 'नराणां क्षीणपापाना'मिति तु पाण्डव- गीतास्थम् । 'समाराध्य वृषध्वज'मिति तु वाराहपुराणीयप्रबोधिनीमाहात्म्यस्थम् । वैष्णवत्वमिति । भक्तिमार्गीयप्रेमवत्त्वम् । एतदग्रे 'एतज्ज्ञात्वा तु विद्वद्भिः पूजनीयो जनार्दनः । वेदोक्तविधि- ना सम्यक् भक्तिमार्गानुसारत' इति गारुडवाक्यात् । 'स्निग्धास्ते वैष्णवाश्च त' इति गारुडाच्च । तथाचैतेभ्यो वाक्येभ्यो भक्तस्योत्कृष्टत्वात् तथेत्यर्थः । सूत्रशेषमवतारयन्ति ननु य इत्यादि । नन्विदं सूत्रे कुतो लभ्यत इत्यत आहुः उक्तेत्यादि । तथाच हिशब्दाल्लभ्यत इत्यर्थः ॥ २७ ॥ छन्दत उभयाविरोधात् ॥ २८ ॥ सूत्रमवतारयन्ति ननु भक्तीत्यादि । पूर्वोक्तव- चनैरिति । पापाभावबोधकवचनैः । तथाच विरोधादनिश्श्चये पापसन्निपातान्न भक्तिमार्गीयस्यो- रश्मिः। पदोक्तं ज्ञानं तु फलात्मकमिति भावः । उत्कर्षापकर्षौ तु साधनभूतज्ञानभक्त्योः । इति त्विति । अत्र त्रुटिः 'अमुकस्य'मित्यस्य । एतेभ्य इति । भाष्ये आदिशब्देन 'दुःसहप्रेष्ठविरहतीव्रतापधुताशुभा' इति वाक्यं तदत्रापीति ज्ञेयम् । तथेति । तर्तव्याभावो भक्तिमार्ग इत्यर्थः । ननु य इत्यादीति । इयं 'वाजसनेयिशाखाया'मित्यादिभाष्योक्ता ज्ञेया । यः पूर्वोक्तप्रकारेण ब्रह्म वेदेत्यर्थे पुरुषोत्तमो वाग्वि- षयः सगुणं ब्रह्मेति पुरुषोत्तमविदोप्येवमेवेत्यर्थः । अन्य इत्यर्थ इति । तथाच ब्रह्मशब्देन न पुरुषोत्तमः, तस्य पुच्छत्वात्, 'ब्रह्म पुच्छं प्रतिष्ठे'ति श्रुतेः । पुरुषोत्तमस्तु भक्तैः सह निगूढभावं करोतीति ब्रह्म वेदेत्यत्र पुरुषोत्तमग्रहणाभावान्न ब्रह्मशब्दः पुरुषोत्तमसाधारणः । तथाच ब्रह्मविदो ज्ञानानन्तरमपि पापवन्तो पुरुषोत्तमविद्वद्धो भक्तिमार्गीयेभ्योऽन्य इत्यर्थः ॥ २७ ॥ छन्दत उभयाविरोधात् ॥ २८ ॥ विरोधेति । भक्तिमार्गे पापपापापाययोर्विरोधः १. असंभवदिति पाठः । २. मर्यादामागीयप्रेमवत्त्वमिति पाठः । ३. वेदोक्तविधिना भद्रे आगमोक्तेन वा सुश्वीरिति वाक्यादिति पाठः । 1828