अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४६३ रश्मिः । कर्मकरणे फलं भवत्येवेत्येवम् । स फलोपकारी शेषशेषिभावः । मदर्थोपासनापि मनस उपासनं मानसी- सेवारूपम् । व्याख्यानात् । तथा च श्रुतिरीशावास्योपनिषदि । 'अन्धंतमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्याया१रताः' ॥ इति ह्युपासामक्तिभेदमाह 'श्रद्धा रतिर्भक्तिरनुक्रमिष्यति' इति द्वितीया कक्षा रतिः । सेवाप्रकारस्तु संप्रदायप्रदीपे पञ्चमे प्रकरणे पूर्णताराधने श्रीकृष्णोक्त एव भक्तिमार्ग इत्यादिना भक्तिमार्गमुक्त्वा भजनप्रकार उक्तः । भजनप्रकारमाह । 'मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च' ॥ मच्चित्ता इति पञ्चज्ञानेन्द्रियव्यापारो भगवद्युक्तः । मद्गतप्राणा इति कर्मेन्द्रियव्यापारो भगवत्येव युक्तः । मद्गतत्वेन निर्दोषत्वम् । पायोर्मलांशत्यागेनेति प्राणस्य हि क्रियाशक्तिरिति वाक्यात् । एवं च निरोधलक्षणोक्तो निरोधो मर्यादामार्गीयसर्वात्मभावरूपः प्रकारः । 'बोधयन्तः परस्परम्' इति समानशीलैरेव सङ्गोप्युक्तः 'कथयन्तश्च मां नित्यम्' इति श्रीभागवतश्रवणं कीर्तनमप्युक्तम् । एवं सेवाकथालक्षणा भक्तिः सिद्धा । सैव फलरूपा जातेति 'तुष्यन्ति च रमन्ति च' इत्युक्तमिति । सेवाप्रकरणे तु 'यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः तत्तन्निवेदयेन्मह्यम्' इति दास्यमुक्तम् । टिप्पण्यां दास्यमुक्तम् । पुरुषोत्तमप्रतिष्ठायां तु श्रीभागवतभक्तिवर्द्धिनीनवरत्नाद्युक्तप्रकारेणेत्युक्तम् । पुरुषोत्तमसहस्रनामस्तोत्रे तु 'लघुखमार्गवक्ता च' इत्येकादशस्कन्धनामसु पठितम् । भक्तिरत्ने तदेवोक्तं टीकायाम् । सिद्धान्तमुक्तावल्याम् । 'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत्' ॥ इति भावनोक्ता श्रीहरिधनैः सैव प्रपञ्चिता । शृङ्खला तु संप्रदायप्रदीपे श्रीकृष्णोक्त एवेत्यादिनोक्ता । प्रथमस्कन्धे द्वितीयेऽध्याये शृङ्खलोक्ता । सेवाप्रकरणे उक्ता एकादशे योगेश्वर- वाक्यैरुक्ता अप्रतीकालम्बनसूत्रे वक्ष्यामः सप्रपञ्चप्रकारम् । एवं प्रकारेण ब्रह्म सेवमानस्य यथाक्रतोर्ब्रह्म भजनीयं यदा तदा श्रीमदाचार्य्योक्तपूर्वोक्तरीत्या सङ्गरूवाक्यात् आत्मसमर्पणं कृत्वा सेवाकथाभ्यामेव भजनं कुर्वतः । एतमितिपेदेनोक्तेयं प्राणशरीरो हि प्राप्तव्यः तस्य भजनीयस्य चैक्यरूप्यमस्त्येव । अत्र मनोमय इति वेद आत्मोक्तस्तस्याभिसन्धिवेशः स च सत्यं ज्ञानमनन्तं ब्रह्म इत्यत्रानन्तपदार्थः अनन्ता वै वेदा इति श्रुतेः । अतो वेदं शब्दात्मकं विहाय प्राणशरीररूपार्थस्य प्राप्तव्यत्वम् । न च शब्दार्थयोरौत्पत्तिकसंबन्धान्मनोमयस्यापि प्राप्तव्यत्वमस्त्विति शङ्क्यम् । प्राण- शरीररूपवेदस्यास्तु प्राप्तव्यत्वं सर्वस्य वेदस्य नेति मनोमयस्य प्राप्तव्यत्वाभावात् । अक्षरे त्वेवम् । गणितानन्दापेक्षयाधिकानन्दाविर्भावान उत्तमः पुरुषः । विशिष्यादृश्यकत्वाधिकरणे वाच्यम् ॥ ३ ॥ फलवाक्यस्येति एतमितः प्रेत्याभिसंभवितास्मि इतिवाक्यस्येत्यर्थः । खपुष्पमितिवद् बोधकता । ३७ तृचा । १४ म० ११० ६० 463
४६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ५ रूपाकथने तादृशं फलं सिद्ध्यतीति चकारार्थः अधिकरणसंपूर्णत्वद्योतकश्च ॥ ४ ॥ इति प्रथमाध्याये द्वितीयपादे प्रथमं सर्वत्र प्रसिद्धोपदेशाधिकरणम् ॥ १ ॥ शब्दविशेषात् ॥ ५ ॥ ( १।२।२ ) इदमाम्नायते । 'यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैव- भाष्यप्रकाशः। कतैव प्रसज्येतातस्तदपि प्राप्तत्वेनैवावगन्तव्यमित्येष चकारार्थ इत्यर्थः । एवं चात्र जगदुत्प- त्तिकर्तृत्वनिर्वाहकाणां सत्यसंकल्पत्वादिधर्माणां ब्रह्मणि साधनेन तदसंभवः परिहृतः । प्रयो- जनान्तरमाहुः अधिकरणेत्यादि । एतेनैव पूर्वपक्षस्योपशान्तत्वात् तथेत्यर्थः । अन्ये त्वेतदधि- करणमष्टसूत्रमाहुः । तदप्येतेनैव दूषितम् ॥ ४ ॥ इति प्रथमं सर्वत्र प्रसिद्ध
: "यदि स्फुरति दूषणं निपुणबुद्धयः सर्वथा मदीयवचसि ध्रुवं तदपि युक्तिभिर्दीर्यताम् । विचारभरचातुरीफलमिदं हि लोके यतः समाधिकुशलस्तद्भवतु चापि कौतूहलम् ॥ इति ।"
Now look at line 25-27: "समाधिकुशलास्तु अनुमानस्य श्रीमदाचार्यानभि- प्रेतत्वेन तत्प्रकाशे कुतोऽनुमानवर्णनां निपुणबुद्धयः प्रवदन्ति इति च..." What is the phrase after 'इति च'? Look at the verse: "निपुणबुद्धयः" (in verse line 28) "समाधिकुशलस्तद्भवतु चापि कौतूहलम्" (in verse line 31) In line 25: "निपुणबुद्धयः", "समाधिकुशलास्तु" Then: "इति च कुतूहलिनो बभूवुः ।" or "कुतूहलाद् बभूवुः"? Wait! Look at the letters: कु (ku) तू (tū) ह (ha) ल (la) िन (i-matra on na? or ya?) Let's look at the letters after 'कुतूह': ला (lā) द् (d) ब (ba) भू (bhū)
४६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ५ मयमन्तरात्मन् पुरुषो हिरण्मयः' इति । तत्र संशयः । हिरण्मयः पुरुषः किं जीव उत ब्रह्मेति । उपक्रमबलीयस्त्वे जीव, उपसंहारबलीयस्त्वे ब्रह्मेति । यत्रैकस्यान्यपरत्वेनैकार्थता संभवति तद्बलीयस्त्वमिति सिद्धं पूर्वतन्त्रे । भाष्यप्रकाशः। त्वेनेत्युक्तपक्षस्य सारणादिति वाच्यम् । तथा सति पूर्वशेषत्वावगत्याऽधिकरणभेदस्यासङ्ग- तत्त्वमित्याशङ्कायां संशयाकारमाहुः तत्र संशय इत्यादि । तथाच तत्र मनोमयत्वादि- विशिष्टः पक्षोऽत्र तु हिरण्मयत्वविशिष्ट इति पक्षभेदाद् भेद इत्यर्थः । नन्वेवं सति पूर्वपादो- क्तान्तस्तद्धर्माधिकरणेनैव गतार्थत्वेनैतत्प्रणयनवैयर्थ्यापात इत्यत आहुः उपक्रमेत्यादि । तथाच तत्रोपक्रमस्य बलिष्ठत्वसाधनात् संशयनिरासः । प्रकृते तु तदभावादेतत्
तत्र चतुर्विधभूतनिरूपणार्थं जीवस्यैवाराग्रमात्रस्यान्तर्हृदये प्रतिपादकमिदं वचनं, फलतो हिरण्मयत्वमिति, न त्वेतादृशाभाससमानत्वं ब्रह्मणो युक्तमतो जीव-
भाष्यप्रकाशः। तदुपपादनाय प्रणयनमतो न वैयर्थ्यम् । तथाच तत्समानप्रकरणाभावेन तत्राक्षरणाञ्च तत्राक्ष प्रणयनम् । प्रकृते तु स्मरणेऽपि पक्षभेदोपस्थित्या पूर्वत्र निवेशासंभवेनाधिकरणान्तरत्वाङ्गीकारं इत्यर्थः । एवमधिकरणान्तरत्वं प्रसाध्य पूर्वपक्षमाहुः तत्रेत्यादि । जरायुजस्वेदजाण्डजो- द्भिज्जभेदेन चतुर्विधानि यानि भूतानि जीवदेहाः । न हिंसात् सर्वा भूतानीत्यादौ तथा सिद्धत्वात् । तेषां निरूपणार्थम् । छान्दोग्ये, त्रीण्येव तेषां बीजानीति श्रावणादत्र चतुर्थस्या- धिकस्य कथनार्थमाराग्रमात्रस्य जीवस्यान्तर्हृदये व्रीह्यादिभिर्भूतैर्निदर्शन्तैरौपाधिकस्य परिमाणस्य प्रतिपादकमि
४६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ५ प्रतिपादकमेवेदं वाक्यमिति प्राप्ते, उच्यते । शब्दविशेषात् । स हिरण्मयः पुरुषो न जीवस्य फलमपि, तत्प्राप्तेरेव फलत्वात् । नाप्ययं नियमस्तस्यामेव मूर्त्तौ लय इति । अतः शब्देनैव विशेषस्यो- क्तत्वान्न हिरण्मयः पुरुषो जीवः ॥ ५॥ भाष्यप्रकाशः । मयाधिकरणे च तत्प्राप्तेरेव फलत्वमतो जीवस्य फलमपि हिरण्मयो न भवतीति तद्विरो- धाज्जीववाक्यत्वं न शङ्कितुं शक्यमित्यर्थः । ननु पूर्वाधिकरणे तत्क्रतुन्यायस्य सिद्धत्वात् तथो- पासने स्वरूपसारूप्यान्यतरलाभेन भाष्येऽप्यङ्गीकाराच्च कथं न तस्य फलत्वमित्यत आहुः नापीत्यादि । तैत्तिरीये, आदित्यो वा एष एतन्मण्डलं तपतीत्याद्यनुवाकद्वयमध्ये पूर्वस्मिन् हिरण्मयं पुरुषं प्रस्तुत्य, द्वितीये चादित्यो वै तेज ओजो बलमित्यादिना तद्विभूतिभूता देवताश्चोक्त्वाऽन्ते वदति । 'ब्रह्मणः सायुज्यं सलोकतामाप्नोत्येतासामेव देवतानां सायुज्यं सार्ष्टितां समानलोकतामाप्नोति य एवं वेदेत्युपनिषत्' इति । तथाच यदि तत्क्रतुन्यायो नियतः स्याद्धिरण्मयस्य फलत्वं युज्येतापि । न तु तथा । नचैतद्विरोधः शङ्क्यः । यथा क्रतुरित्यत्र पुरुषविशेषणस्याधिकारस्यापि प्रकारांशे निवेशे तदभावात् । रश्मिः । व्याकर्तव्यं समानपदव्याकोपात् । साधकेति जीवसाधकब्रह्मसाधकयुक्तिसत्त्या । तत्प्राप्तेरिति आनन्दमयमात्मानमुपसंक्रामतीति श्रुतेः । फलत्वस्य श्रौतत्वादेवंकारः । तद्विरोधात् हिरण्मय- पदविरोधात् । चेति चकारेण 'भगवान्नेव हि फलं स यथाविर्भवेद्भुवि' इति निरोधलक्षण- ग्रन्थोक्तस्य वाक्यस्य संग्रहः । तैत्तिरीय इति महानारायणोपनिषदि 'आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचस्तदृचां मण्डलं स ऋचां लोकः, अथ य एष एतस्मिन् मण्डले- र्चिर्दीप्यते तानि सामानि स साम्नां लोकः, अथ य एष एतस्मिन् मण्डलेर्चिषि पुरुषस्तानि यजूंषि स यजुषां मण्डलं स यजुषां लोकः सैषा त्रय्येव विद्या तपति य एषोन्तर्रादित्ये हिरण्मयः पुरुषः आदित्यो वै तेज ओजो बलं यशश्चक्षुः श्रोत्रमात्मा मनो मन्युर्मृत्युः सत्यो मित्रो वायुराकाशः प्राणो लोकपालकः किं कं तत्सत्यमन्नममृतो जीवो विश्वः कतमः स्वयम्भूः प्रजापतिः संवत्सरः इति संवत्सरोऽसावादित्यो य एष पुरुष एष भूतानामधिपतिर्ब्रह्मणैतदमृतमेष पुरुष एष भूतानामधिपति- र्ब्रह्मणः सायुज्यं सलोकतामाप्नोत्येतासामेव देवतानां सायुज्यं सार्ष्टितां समानलोकतामाप्नोति य एवं वेदेत्युपनिषत्' । इत्यनुवाकद्वये । तद्विभूतीति आदित्यविभूतिरूपाः । नन्वादित्यो वै तेज ओजो इत्यादिनाऽभेदसंसर्गस्य भासनात् कथं विभूतिरूपत्वमिति चेन्न आदित्य इत्यत्र ङसः सुः सुपां सुलुगिति सूत्रात् आदित्यस्येत्यर्थात् । अन्त इति द्वितीयानुवाकान्ते । युनक्तीति युक् सह युक् सयुक् सयुजो भावः सायुज्यं युजिर् योगे ऋष गतौ इति हैमधातुपाठः । ऋष्टिः समाना ऋष्टिर्यस्य स सार्ष्टिः तद्भावः । समानस्य सादेशः । समानलोकतामित्यत्र समानपदात् समानैश्वर्यादिगतिस्तामित्यर्थः । नन्विति सार्ष्टितासमानलोकत्तयोरपि प्राक्तिकत्वान्न तु तत्क्रतुन्यायो नियतत्वेन प्रकारेणेत्यर्थः । एतदिति तत्क्रतुन्यायविरोधोत्रेत्यर्थः । प्रकारांश इति थाल् प्रत्ययार्थीभूतो यः प्रकारस्तदंशे । तथा हि यथाक्रतुरिति पुरुषविशेषणम् । यथा येन प्रकारेण क्रतुरस्येत्यत्राधिकारप्राप्तत्वात् प्रकारस्य १. पुष्टिमार्गसम्मतैषा । २. ब्रह्मणः। ३. लोकपालः कः । 468
ननु हृदये विद्यमानत्वादभिमान्येव जीवो युक्त इति चेत्, तत्राह । स्मृतेश्च ॥ ६ ॥ भाष्यप्रकाशः। अन्यथोक्तश्रुतिविरोधस्य दुःपरिहरत्वात् । एवं सिद्धे तन्मूर्ती लयानियमे हिरण्मयस्य फलतया अपि प्रायिकत्वेन तद्विरोधो दुर्वार इत्युपक्रमस्थ पदवैयर्थ्यापादकतयैकार्थताविघटकत्वेन निर्बलत्वाच्च तदनुरोधादस्य जीववाक्यत्वमित्यर्थः । एवं सिद्धान्तमभिधाय तस्य सौत्रत्वं प्रकटयन्ति अत इत्यादि । छन्दोक्तो विशेषः शब्दविशेषस्तस्मात् । उक्तरीत्या हिरण्मयशब्देनैवाधिकारिकवि- शेषमादाय तत्र लयानियमस्य सूचितत्वात् तथेत्यर्थः । एवं चात्राणुत्वबोधकैर्माक्षादिदृष्टान्तैरन्त- रात्मनि वर्तमानस्य जीवत्वं प्रतीयत इति युक्त्या पूर्वाधिकरणसंगतिमाक्षिप्योपसंहारबलीयस्त्वेन तन्निवार्य पूर्वोक्तं दृढीक्रियत इतीदं पूर्वाधिकरणस्यैव शेषः ॥ ५ ॥ स्मृतेश्च ॥ ६ ॥ इदं सूत्रमवतारयन्ति ननु हृदय इत्यादि । तथाच श्रुतेः संदिग्धत्वेऽपि लिङ्गाज्जीववाक्यत्वं युक्तमित्यर्थः । अभिमान्येव जीव इति अभिमानी जीव एवेति योजना । रश्मिः । यादृशाधिकारप्राप्तप्रकारेणेत्यर्थात् परंपरया पुरुषविशेषणस्याधिकारस्येत्यर्थः । शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वादिति तृतीयाध्याये सूत्राच्छमादिमतः पुरुषस्य क्रतुरपि शमादिकृतप्रकारेण भवति यथा मनोमयः प्राणशरीर इति मननप्रकारो मनोमयत्वं प्राणशरीरत्वं च गार्ग्यस्य स होवाच गार्ग्यः य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपासे इति तच्छमादिकृतादित्यत्वेन प्रकारेण ब्रह्ममननमित्यादित्यत्वं प्रकारो दृप्तबालाकिब्राह्मणे । ययाधिकारं सायुज्यादिप्राप्तेस्सत्येतः प्रेत्य भवतीति श्रुत्योक्तेस्तत्क्रतुश्रुतिविरोधाभावात् । श्रुतिविरोधस्य ब्रह्मणः सायुज्यमित्यादिश्रुति- विरोधस्य । तद्विरोध इति हिरण्मयस्य कथमपि जीवपरत्वासंभवेन हिरण्मयपदविरोध इत्यर्थः । पदेति हिरण्मयपदवैयर्थ्यापादकतयेत्यर्थः । तदनुरोधात् उपक्रमानुरोधात् । यद्यपि पक्षे संभवति जीवस्य फलतो हिरण्मयत्वं तथापि यावद्यथाकथंचिदपि ब्रह्मप्रकरणं सिद्ध्यति तावदन्यप्रकरणत्वम- युक्तमिति हिसन्दार्थ इत्यनुगमाधिकरणभाष्याद्ब्रह्मप्रकरणत्वमेव युक्तम् । अत इति मूर्तौ लया- नियमात् । शब्दोक्त इति मध्यमपदलोपी समासः । उक्तमिति भाष्ये हिरण्मय इत्यायुक्तरीत्या हिरण्मयशब्देन हिरण्मयत्वरूपो जीवाद्विशेषोऽभिधीयते । हिरण्मयत्वविशिष्टे हिरण्मये हिरण्मयपदशक्तेः । तेनैव शब्देनैव तात्पर्यवृत्त्याधिकारे विशेषो हिरण्मयप्राप्त्यनुकूलयज्ञवत्त्वं तमादाय तत्र मूर्तौ । तथेति । न हिरण्मयपुरुषो जीवत्वेन प्रकारेण विशिष्टो जीवः । न च तात्पर्यवृत्तौ किं गमकमिति वाच्यम् । यथा क्रतुरितिश्रुतौ यत्प्रकारकः क्रतुरिति क्रतौ प्रकारसामान्यस्यैव गमकत्वात् । हिरण्मयत्व- प्रकारकमननस्य हिरण्मयप्राप्तीच्छोरधिकारकृतत्वात् । अधिकरणयोः शेषशेषिभावमाहुः एवं चेति । पूर्वेति पूर्वाधिकरणसंगतिराक्षेपरूपा तामाक्षिप्य पूर्वाधिकरणे जीवाक्षेपस्य पूर्वपक्षीकृतस्य वारणे- ऽप्यत्रोपक्रमबलीयस्त्वमादाय जीववाक्यत्ववदुपक्रमगतसर्वपदेन जडस्योक्तावपि मनोमयत्वादीनां जीवेष्वसंभवादुपक्रमबलीयस्त्वमादाय जीववाक्यत्वमित्याक्षिप्येत्यर्थः । तं निवार्य आक्षेपं निवार्य । पूर्वोक्तं ब्रह्मवाक्यत्वं दृढीक्रियते । एवं पूर्वाधिकरणेषूपसंहारोक्ताववाक्यनादरोऽयोर्जीवेष्वसंभवात् ब्रह्मवाक्यत्वं दृढीकृतम् । शेष इति तेन प्रसङ्गसंगतिरेवेति भावः ॥ ५ ॥ स्मृतेश्च ॥ ६ ॥ श्रुतेरिति छन्दविशेषेणासंदिग्धेपि निरपेक्षस्वरूपश्रुतेर्ध्वान्तपुस्तपदैः 469
४७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ६ 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इति । ननु सर्ववेदानां यन्निः- श्वासत्वं तस्य भगवतो वाक्यं कथं स्मृतिरिति । उच्यते । 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति श्रुतेः केवलौपनिषद्वेद्यं ब्रह्म, न प्रमाणान्तरवेद्यम् । ततश्चार्जुनस्य शिष्यरूपेण प्रपन्नस्य पुष्टिभक्तत्वाभावाद् भगवद्वाक्ये निर्विचिकित्सविश्वा- साभावाद् रथित्वेनैव स्थाप्यत्वान्न तादृशाय तादृशदेशकालयोरुपनिषदामवक्त- व्यत्वाद् गुरुरूपतादृशरूपं निःश्वसितवेदोद्गमजनकं स्मृत्वा तदर्थमपि स्मृत्वा भगवान् पुरुषोत्तमो वाक्यान्युक्तवान् स्मृतिरूपाणि । भाष्यप्रकाशः । रामानुजादयो भगवन्तं श्रीकृष्णं पुरुषोत्तमत्वेन परब्रह्मत्वेन वदन्तो गीतावाक्यान्येवात्र स्मृति- त्वेनोदाहरन्तोऽप्येतत्स्वरूपं न विचारितवन्त इति तत्स्वरूपं तदुपन्यासादिप्रयोजनं च निर्णतुं विषयवाक्यस्य स्मृतित्वं व्युत्पादयन्ति ननु सर्वेत्यादि । शिष्यरूपेणेति शिष्यणीयरू- पेण । 'शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्' इति वाक्यात् । निर्विचिकित्सविश्वासाभावादिति अपरं भवतो जन्मेत्यादिरूपात् संशयबोधकवाक्यात् तथेत्यर्थः । रथित्वेनेत्यादि । अग्रिम- कार्यकारणार्थं साहंकारताया आवश्यकत्वाद्रथित्वेनैव स्थाप्यत्वान्न तादृशाय साहंकाराय । तादृशदेशकालयोरिति दारुणे देशे काले चेत्यर्थः । गुरुरूपतादृशरूपमिति यो वै वेदांश्च रश्मिः । र्बहुभिरेकस्य हिरण्मयश्रुतेरकिंचित्करत्वात् संदिग्धत्वेपि लिङ्गादयमात्मन् पुरुष इति पुरुषपदसामर्थ्यात् । अभीति अभिमानोऽविद्या सोस्यास्तीत्यभिमानी । पुरुष इति श्रुतौ पुरि देहे शेत इति व्युत्पत्तेर्जी- वप्रत्यायनादेवकारः । नन्वयोगव्यवच्छेदकत्वेऽनन्वयोगव्यवच्छेदेनैवकारव्याकरणे किं बीजमिति चेन्न अयोगव्यवच्छेदाङ्गीकारे जीवन्मुक्तो व्यावर्ततातो योजना भाष्यसूचितैव । जीवान्यसामान्ये अभिमानित्वयोगव्यवच्छेदो जीवे चाभिमानित्वं प्रतीयते इति । रामानुजेति । आदिपदेन मध्वाचार्यो भगवन्निम्बार्कश्च । एतदिति गीतारूपम् । तदुप्येति आदिपदेन चिन्तनम् । व्युदिति सौत्रत्वाय व्युत्पादयन्ति । स्मेति शेषः । व्युत्पादनस्य भूतनिबन्धनपरोक्षार्थवृत्तित्वात् । लटो वर्तमानकाले विधानात् । भाष्ये । ननु स्मृतिपदेन मन्वादिस्मृत्युपस्थितेः सूत्रे गीतास्मृतीनां कुत उपादानमिति प्रश्न उत्तरमाहुः तं त्विति । तथा च मन्वादिस्मृत्यवेद्यत्वात् तद्वाचकस्मृ- तिपदप्रयोगस्य श्रीव्यासस्यानभिप्रेतत्वेनोपनिषत्तुल्ये स्मृतिपदं प्रयुक्तमिति भावः । स्मरणात्स्मृति- रुच्यते इति स्मृतिपदप्रयोगप्रयोजकस्मरणं व्युत्पादयन्ति स्म ततश्चेति । प्रपन्नस्येति प्रपत्ति- मार्ग प्राप्तस्य । स च 'जगन्नाथे विट्ठलेशे श्रीरङ्गे वेङ्कटे तथा । यत्र पूजाप्रवाहः स्यात्तत्र तिष्ठेत तत्परः' ॥ इति निबन्धोक्तः तिष्ठेदिति प्राप्ते 'प्रकाशनस्थेयाख्यायोश्च' इति सूत्रेणात्मनेपदम् । अर्जुनस्य प्रकाशस्य स्फुटत्वादीदृशपूजाप्रवाहे स्थितत्वान्न प्रपत्तिमार्गनिष्ठत्वमत एव गुरूपसत्त्यादिसाधनपरत्वात् मर्यादाभक्तिनिष्ठत्वान्न पुष्टिभक्तत्वाभावः । प्रकृते । अपरमिति इदं वाक्यं प्रपत्त्या प्रवृत्तस्यार्जु- नस्य । अग्रिमेति युद्धरूपाग्रिमकार्यकारणार्थम् । रथित्वेनेति 'ये यथा मां प्रपद्यन्ते' इति वाक्यात् । तादृशायेति प्रपत्त्या प्रपन्नायापीत्यर्थः । श्रुतौ प्रहिणोति हि गतिबुद्धयोः शादिः परस्मैपदी प्रकर्षेण 470
! Just अधिकारेति!
Let's check line 5 of Prakasha: सोऽधिकारविशेषदेशकाल... -> अधिकारविशेष... -> Rashmi: अधिकारेति!
Then: 'ब्राह्मणेन निष्कारणः षडङ्गो वेदो ध्येयो
Wait, ध्येयो or ज्ञेयो?
Look at line 17: 'ब्राह्मणेन निष्कारणः षडङ्गो वेदो ध्येयो
Line 18: ज्ञेयश्च' इति श्रुतौ ब्राह्मणोऽधिकारी स्वाध्यायोऽध्येतव्य इति देशकालादिविशेषो हि त्रिषु वर्णेषु ब्राह्म-
Ah! ध्येयो ज्ञेयश्च'!
Wait, the Mahabhashya quote is "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च". Here it is printed:
'ब्राह्मणेन निष्कारणः षडङ्गो वेदो ध्येयो
ज्ञेयश्च' इति श्रुतौ -> yes!
* Line 18:
`ज्ञेयश्च' इति श्रुतौ ब्राह्मणोऽधिकारी स्वाध्यायोऽध्येतव्य इति देशकालादिविशेषो हि त्रिषु वर्णेषु ब्राह्म-`
Let's verify line 18:
`ज्ञेयश्च' इति श्रुतौ ब्राह्मणोऽधिकारी स्वाध्यायोऽध्ये
४७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० २ अ० १ सू० ६ ततो ब्रह्मविचारे तान्यप्युदाहृत्य चिन्त्यन्ते । पुनश्च भगवाँस्तदधिकारेण ब्रह्मविद्यां निरूप्य स्वकृपालुतया, सर्वगुह्यतममित्यादिना भक्तिप्रपत्ती एवोक्त- वान् । अतोऽङ्गत्वेन पूर्वं सर्वनिर्णया उक्ता इत्यध्यवसेयम् । तथैवार्जुनविज्ञानात्, भाष्यप्रकाशः। रूपभेदस्य शीघ्रं बुद्धावारोहान्मर्यादाप्रतिपादकं वेदवदक्षरात्मकं रूपं वेदार्थं तत्तात्पर्यं च स्मृत्वा तत उत्तमोऽपि भगवाँस्तत्सदृशवाक्यान्युक्तवानतः स्मृतिरूपत्वं तेषामुपपन्नमिति । एवं स्वरूपं विचार्योपन्यासप्रयोजनमाहुः तत इत्यादि । वेदान्तार्थनिश्चायकत्वात् तद्विचारोऽपि युक्त एवेति तान्यपि चिन्त्यन्त इत्यर्थः । नन्वेकार्थत्वं सामानाधिकरण्यप्रयोजकम् । तच्चिह न दृश्यते । वेदे मुख्यतया ज्ञानविज्ञानयोस्तत्र च तथा भक्तिप्रपत्त्योः प्रतिपादनेनार्थभेदादित्यत आहुः पुनरित्यादि । तदधिकारेणेति भक्तिघटितेनाधिकारेण । तथाचाधिकारभेदस्य वेदेऽपि रश्मिः। वेदार्थमिति सरस्वतीमाविवासेमधीतिमिरिति श्रुत्युक्ताधीतिभिर्विविधोपचारैः सरस्वतीं परिचरेमेति दुर्गाचार्या निरुक्तटीकायां वेदार्थमाहुः वेदार्थः सुपर्णारूढः । सुपर्णः काल इति तृतीयसुबोधिन्यामस्ति तर्हि वेदे गूढे भक्तिप्रपत्ती अत्र स्मृतिषु स्फुटे कुत उच्येते अत आहुस्तात्पर्यं चेति । ततः ऋषिम्य उत्तमः । तादृशानि स्मृतिरूपाणि 'स्मरणात्स्मृतिरुच्यते' इति वाक्यात् स्मृतिरूपत्वम् । वेदान्तेति । ननु किं प्रकारकः क्रतुरत्र निश्चितेषु ऋतुषु हिरण्मयविषयको हृदि कार्य इत्यत आहुः वेदान्तेति । तदुक्तं वेदेषु संदेहे गीता निर्णायिका इति । वेदाः श्रीकृष्णवाक्यानीत्यस्य निबन्धस्य टीकायाम् । तानीति प्रसङ्गात्सर्वापि गीता चिन्त्यते इति बहुवचनान्तानीति । सर्वे क्रतवो निश्चिताः परं खमेते यः स वक्ष्यतेऽत्रैवाग्रे । एकार्थत्वं वेदान्तगीतयोः । सामानाधिकरण्यं भिन्नप्रवृत्तिनिमित्तत्वे सति एकार्थबोधकत्वं तस्य प्रयोजकं पर्यायत्वं कारणम् । इहेति वेदान्तगीतयोः । वेद इति क्रिया- प्रतिपादनेपि वेदे 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति श्रुत्या ज्ञानेच्छोत्पादनान्न मुख्यत- या प्रतिपादनं किं तु ज्ञानस्य सत्यं ज्ञानमिति श्रुतेस्तदपि तद्विषयकं तरति शोकमात्मविदिति सर्वा- त्मभावप्रकरणे छान्दोग्यश्रुतेः अभेदज्ञानं च 'तत्त्वमसि' इति श्रुतेः माहात्म्यज्ञानं च 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेर्भक्तनिष्ठं च । विज्ञानस्य 'सत्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतेर्मु- ख्यतया प्रतिपादनं विज्ञानं जीवोपि 'विज्ञानं यज्ञं तनुते' इति श्रुतेः । अत्र गीतायां सप्तमेऽध्याये ज्ञानविज्ञानाख्ये 'भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत्' ॥ इत्यत्र प्रकृतिद्वयज्ञानं विज्ञानपदवाच्यम् । ज्ञानं तु 'अहं कृत्स्नस्य जगतः' इत्याद्युक्तं ज्ञानि- भक्तनिष्ठम् । 'तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते' इति वाक्याद् भगवद्विषयकम् । अत्रैवाग्रे 'चतुर्विधा भजन्ते माम्' इत्यादिना भक्तिः । 'बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः' ॥ 472
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७३ भाष्यप्रकाशः । सिद्धत्वाद् वेदोऽपीदमेव द्वयं तादृशाधिकार्यर्थं निरूपयति । अत एव ब्रह्मवाक्येषु सुखादि- रश्मिः । इत्यत्र 'वासुदेवः सर्वमिति' 'ज्ञानवान् मां प्रपद्यते' इति प्रपत्तिः । एतेन प्रपञ्चावव्यभेदज्ञानं सगुणप्रपञ्चनिवृत्तये व्याख्यातम् । तेन वासुदेवः सर्वमिति प्रपद्यते इति नान्वयः । ननु तथेत्यनेन मुख्यतयेत्यर्थकेन भक्तिप्रपत्त्योर्मुख्यतया प्रतिपादनोक्तेर्ज्ञानविज्ञानयोगाध्याये ज्ञानविज्ञानयोर्मुख्यतया प्रतिपादनं न भक्तिज्ञानयोरिति चेत्सत्यम् । मुख्यतया शेषतया प्रतिपादनसत्त्वात् । एकभक्तिर्विशिष्यते इति वाक्याज्ज्ञानवान् मां प्रपद्यत इति वाक्याच्च । अन्यच्च । उपक्रमोपसंहाराभ्यामर्थो निर्णीतो भाष्ये पूर्वतन्त्रोक्तोपक्रमोपसंहारयोः पूर्वसूत्र उक्तत्वात् । अत्रोपक्रमे त्वां प्रपन्नमिति प्रपत्तियुक्तत्व- कथनेनाधिकारिणं प्रति उपसंहारे 'मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे । सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः' ॥ इति श्लोकद्वयेन भक्तिप्रपत्ती उक्ते । अत्र मन्मना भवेति मानसी सेवा मद्भक्त इत्यनेन तनुज- वित्तजसेवे 'यथा मय्येश्वरे मनः' इति वाक्यात् । एतच्च भक्तियोगारूढस्याध्यक्ष 'मय्यावेश्य मनः'इत्यत्रापि मद्याजी कामनायां सत्यां ज्ञेयः । मुख्यस्यार्हणकर्ता वा वेदोपयोग उक्तः । वेदे ह्येव सुमतीत्यादिषु सेवाप्रकारसत्त्वात् महीधर्यां स्पष्टमिदम् । मां नमस्कुर्विति वन्दनं न पूजायामन्तर्भवति । एकाद- शसुबोधिन्याः । अतोत्र पृथगुक्तम् । सेवायाः प्रकाराय सिद्धान्तमुक्तावल्याम् 'तस्माच्छ्रीकृष्ण' इत्य- नेन स्मरणमुक्तम् । प्रकाराणां बाहुल्यादधिकारिणां च । तथापि फलाव्यभिचारिसाधनं कर्तव्यमिति सुबोधिन्यामुक्तत्वादाचारसंप्राप्तं कर्तव्यम् । इत्येवं मुख्यतया प्रतिपादनमेव हि भक्तिप्रपत्त्योः । पुनरित्यादीति पन स्तुतौ बहुलकादरः । अस्य उकारः 'पुनरप्रथमे' इत्यमरः । तृतीयाया लुक् अप्रथमेन भक्तिघटितेनाधिकारेणेत्यर्थः । प्रथमाधिकारेण तु शोकापनोदनवान् स चकारेण समु- चितः अतोपि तृतीयाया लुक् प्रथमाधिकारेणेत्यर्थः । तथाहि । भाष्ये प्रपत्तिरधिकारिशरीरेति प्रपन्नस्येत्यत्राधिकारो योग्यता स प्रपत्तिघटितो जातोऽतो मुमुक्षुर्वे शरणमनुव्रजेदिति श्रुत्या प्रपन्नस्य मुमुक्षुत्वसत्त्वात् अर्जुनाधिकारो मोक्षयोग्यता तेन ब्रह्मविद्या गीताशास्त्रं इति श्रीमद्भगवद्गीतासूप- निषत्सु ब्रह्मविद्यायामिति कथनात् । निरूप्येत्यन्वयः । ननु प्रथममर्जुनाधिकारेण ब्रह्मविद्या निरूपिता भक्तिप्रपत्त्योर्निरूपणे को हेतुरित्याकाङ्क्षायामाहुः स्वेति । अप्रथमेन भक्तिघटितेनाधिकारेण स्वेत्यादिः । ब्रह्मविद्यायां साधनचतुष्टयं वैराग्यादिमतोऽधिकाराद्भक्तिघटितोधिकारो नान्त्रेति । स्वस्य कृपालुतयेति हेतौ तृतीया भक्तिरूपव्यापारमन्तरेण स्वकृपालुतयाप्याजामिलवन्मोचनसंभवात् न करणे तृतीया व्यापारनियतत्त्वात्तस्याः । कृपालुत्वं तु 'कृष्णायाऽक्लिष्टकारिणे' इति गोपालतापनीयश्रुतेः । 'सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति' इति पञ्चमाध्याये । सिद्धत्वादिति पूर्वतन्त्रे षष्ठाध्याये वेदोक्तकर्माधिकारिणां 'शान्तो दान्त उपरतस्तितिक्षुः' इति श्रुतौ वेदान्तोक्ताधिकारिणां च सिद्धत्वात् । द्वयमिति भक्तिप्रपत्तिरूपार्थद्वयम् । तादृशेति भक्तिघटिताधिकार्यर्थम् । अत एवेति द्वयनिरू- 473
माहुः
- चकारादित्यादि ।
- ननु भवत्वत्रैवं,
- तथापि क्वचित् क्वचिद् व्यास- Matches completely!
Line 6:
चरणैः पुराणवाक्यान्यप्युदाहृत्य चिन्त्यन्ते, तत्र को हेतुरित्याकाङ्क्षायामाहुः व्यासस्यापी-
Check:
- चरणैः पुराणवाक्यान्यप्युदाहृत्य चिन्त्यन्ते,
- तत्र को हेतुरित्याकाङ्क्षायामाहुः (आकाङ्क्षायामाहुः - wait, is it ङ्क्षा or ङ्क्ष? आकाङ्क्षायामाहुः)
- व्यासस्यापी- Matches completely!
Line 7:
त्यादि । बुद्धादिवारणाय, ज्ञानांशत्वादिति । तथाचोक्तस्मृत्या हृदयस्य भगवदाधारत्वेन निर्णीत-
Check:
- त्यादि ।
- बुद्धादिवारणाय,
- ज्ञानांशत्वादिति ।
- तथाचोक्तस्मृत्या
- हृदयस्य भगवदाधारत्वेन
- निर्णीत- Matches completely!
Line 8:
त्वाच्च तद्बलेन ब्रह्मवाक्यत्वपर्यवसानं युज्यत इत्यर्थः ॥ ६ ॥
Check:
- त्वाच्च
- तद्बलेन
- ब्रह्मवाक्यत्वपर्यवसानं
- युज्य
उपक्रमबलीयस्त्वमाशङ्क्य परिहरति । अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥ ननु व्यापकस्येश्वरस्य हृदयदेशस्थितिरयुक्ता, व्रीह्यादिरूपत्वं च । अतोऽ- र्भकमल्पकमोको हृदयस्थानं यस्य तत्त्वाद् व्रीह्यादितुल्यत्वान्न परमात्मा वाक्यार्थ इति चेन्न । निचाय्यत्वात् । पूर्वं प्रथमदूषणं परिहरति । हृदये ज्ञातुं शक्यत इति तदायतनत्वेन प्रतिपाद्यते । निदिध्यासनानन्तरं हि साक्षात्कारस्तदन्तःकरण एवेति निचाय्यत्वम् । अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥ इदं सूत्रमवतारयन्ति उपक्रमेत्यादि । असंजातविरोधत्वेन तथाऽऽशङ्क्येत्यर्थः । सूत्रं व्याकुर्वन्त आशङ्कांशं व्युत्पादयन्ति नन्वित्यादि । तथाचेश्वरधर्मविरुद्धस्य जीवधर्मस्य बोधनात् स्मृतिरयोग्यत्वादोषदुष्टेति न सा निर्णायिकेत्यर्थः । समाधानांशं व्याकुर्वन्ति पूर्वमित्यादि । तदिति हृदयम् । तथाच वृत्तिलाभस्थानत्वादायतनत्वव्यपदेशः । अत्रान्ये दृष्टान्तमपि वदन्ति । यथा, सर्वलोकपतिरप्ययोध्यापतिरिति । कथं वृत्तिलाभस्थानत्वमित्यत आहुः निदिध्यास- नेत्यादि । हिर्हेतौ । तदन्तःकरण इति जीवान्तःकरणे । तथाच 'मनसैवानुद्रष्टव्यः' इति- अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥ तथेति प्रथमाया 'अव्ययादाप्सुपः' इति सूत्रेण लुक्, उपक्रमबलीयस्त्वम् । स्मृतिरिति 'ईश्वरः सर्वभूतानाम्' इत्यादिः । योग्यतेति अर्थावबोधे योग्यता सा दोषस्तेन दुष्टा । भाष्ये । व्रीह्या- दीति व्रीह्यादिभिर्विशेषेणापहीनं तौल्यमीश्वराय दिश्यते दीयते इति तद्व्यपदेशस्तत्तौल्यं तस्मात् व्रीह्यादिजडतौल्यं चेतनतौल्यादीनम् । दिश अतिसर्जनेऽतिसर्जनं दानं छन्दोवत्सूत्राणि भव- न्तीत्यतिदेशादेवं व्याख्यानम् । अन्यत्र व्यपदेशः कथनं 'उपसर्गेण धात्वर्थः' इति सिद्धान्तकौमुद्या तिङन्तस । प्रकृते । तदिति तदित्यस्य हृदयमित्यर्थ इत्यर्थः । तथा चेति ईश्वरस्य वृत्तिर्वर्तनम् तस्या लाभस्य स्थानं तत्त्वात् । अन्य इति शंकराचार्या एव । निदिध्यासनेति 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यत्र श्रुतौ पाठक्रममनादृत्य निदिध्यासनानन्तरमित्यादिः । हिरिति शब्दानुकरणत्वान्न विभक्तेर्लुक् । प्रतिपाद्यत इति पूर्वोक्तप्रतिपादने हेतुः । जीवेति । निदिध्यासनं तैलधारावदविच्छिन्नं ध्यानं परेषामस्माकं तु ह्यसंप्रज्ञातसमाधिरिति पादोपारम्भे उक्तम् । अतस्तन्निदिध्यासनं जीवान्तःकरण इत्यर्थः । न तच्छब्दार्थो जीवः । तत्रैव मनसेवेत्यर्थः । निचा- य्यत्वम् । अत्र 'पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु' इति पाणिनीयसूत्रात् ण्यत् छन्दोवत्सूत्राणि भवन्तीति महाभाष्यात् आयादेशः धात्वादेः कुत्वाभावो वैयासकसूत्रेण क्रियते निचाय्यो जगन्निवासो भगवान् निधीयतेऽस्मिन्जगदिति व्युत्पत्तेस्तस्य भावः तत्तन्मावश्यके ण्यः इति ण्यै- त्वायादेशो दुर्लभः सौत्रो वा इति पाणिनीयम् । अतो द्रष्टव्यत्वम् । व्यापकरूपं नितरां चाय्यमवयवैः संयोज्यं मनस्येव 'स मानसीन आत्मा जनानाम्' इति श्रुतेः । बुद्धेभ्यो विचिनोति फलनीलम्
४७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ७ भक्तौ तु बहिरपीति विशेषः । द्वितीयं परिहरति । एवं व्योमवत् । एवं व्रीह्या- दितुल्यतया यत्प्रतिपादनं चतुर्विधभूतान्तरत्वख्यापनाय । यथा चत्वार उपरवाः प्रादेशमात्रा इति तथा तद्वद्धृद्याकाशे प्रकटस्य सचिदानन्दस्वरूपसर्वतःपाणिपा- दान्तस्य तत्स्वरूपमिति । भाष्यप्रकाशः । श्रुतेस्तत्रैव निचाय्यत्वमिति तस्य प्रशंसया स्थानत्वव्यपदेशोऽतो न स्मृतेरयोग्यतादोषघटितत्व- मित्यर्थः । ननु यदि हृदयमेव दृष्टिलाभस्थानं, नेतरत् तदा तस्य व्यापकतापि दुर्घटा । प्रत्य- क्षापेक्षया शब्दस्य दुर्बलत्वादित्यत आहुः भक्तौ त्वित्यादि । तथाच साधनविशेषेण बहिरपि निचायनान्न शब्दस्य नैर्बल्यमित्यर्थः । द्वितीयं परिहरतीति । ननु मास्तु स्थानविरोधस्तथापि परिमाणविरोधस्तु स्यादेवेत्यतो द्वितीयं परिमाणविरोधरूपं दूषणं परिहरतीत्यर्थः । व्योमव- दिति दृष्टान्तं विवृण्वन्ति यथेत्यादि । उपरवा नाम हविर्धाने खाता बिलविशेषाश्चत्वारः । ‘दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽर्धं चतुर उपरवानवान्तरदेशेषु प्रादेशान्तरालान् करोति’ इति कल्पे विहिताः । तैर्बिलैर्यथाकाशस्य प्रादेशमात्रं स्वरूपमभिव्यक्तीक्रियते, किमत्र भद्रमित्या- दिमन्त्रैरध्वर्युयजमानयोः परस्परहस्तग्रहणाय । तथात्र व्रीह्यादितुल्यतया प्रतिपादनं चतुर्विध- भूतहृदयाकाशे प्रकटस्योक्तविधस्य ब्रह्मण एव तत्स्वरूपमिति बोधनाय । तैत्तिरीये, ‘अतः परं नान्यदणीयस५ हि परात् परं यन्महतो महान्तम्’ इत्येकस्यैव नानापरिमाणभावात् । तथाच रश्मिः । विभागानुकूलो व्यापारश्चिनोतेरर्थः । अस्मिन् पक्षे व्यापकं रूपं हृदा विभज्य द्रष्टव्यम् । घटेना- काशं विभज्येव । तस्य प्रशंसयेति तस्य हृदयस्य प्रशंसया ईदृग् हृदयं यत्रात्मा भातीति किं चात्मलाभस्थानमिति प्रशंसा तस्य ब्रह्मण इति नार्थः । हृदयस्य स्थानत्वव्यपदेश इत्यत्रान्वये हृदयाध्याहारापत्तेः । शाब्दस्येति ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यत्र ब्रह्मशब्दस्य । भक्तौ त्विति तदुक्तम् ‘अपि संराधन’ सूत्रे तृतीयस्य द्वितीयपादे । निचायनादिति निचायनं विभजनं तस्मात् सर्वाङ्घ्रिभजनं कृत्वा दर्शनात् निचायनावृद्देश्यस्य बहिरपि संयोजनात् नीचीयतेऽस्मिन् धान्या- दिरिति निकाय्यपदव्युत्पत्तेः । नैर्बल्यमिति प्रत्यक्षेणापि संराधनसूत्रोक्तेनाप्युपष्टम्भादिति भावः । व्योमवदिति एवं व्योमवदिति भाष्यम् । तत्रैवं पूर्वपरामर्शे व्योमवदिति षष्ठ्यन्ताद्वतिः । पूर्वं तु व्रीहिर्वा यवो वेति व्रीह्यादितुल्यतया परिमाणप्रतिपादनं तच्चतुर्विधभूतान्तरत्वस्य वृद्धि- ह्राससूत्रोक्तस्य स्थापनाय चतुर्विधभूतानि जरायुजस्वेदजाण्डजोद्भिज्जानि । एवमेवं पदं भाष्ये व्याकृतं तत्र दृष्टान्तं व्योमवदिति दृष्टान्तमित्यर्थः संवेति शेषः । विवरणस्य भूतत्वात् । हविरिति हविर्धानमण्डपे । हविरिति हविर्धीयतेऽस्मिन्निति हविर्धानं शकटं तच्च हविर्धानमण्डपे दक्षिण- मुत्तरं चेति तत्र दक्षिणस्य शकटस्याधस्तादित्यर्थः । तदुक्तं पूर्वतन्त्रे द्वादशेऽध्याये सप्तमाधिकरणे ‘हवि- र्धाने मण्डपे हविर्धानाख्ये शकटे स्थापित’ इति । भद्रं शकटं लक्षीकृत्य पुरोग्रे अवान्तरदेशेष्ववका- शप्रदेशेषु प्रादेशान्तरालान् प्रादेशो वितस्तिभेदः । कल्पे कल्पसूत्रे । उक्तेति भाष्योक्तविधस्य न्यायकस्य । नानेति ‘समो मशकेन समो नागेन’ इत्यादिश्रुत्यैकार्थतया नानापरिमाणभावात् 476
यहाँ दी गई पृष्ठ-छवि का शुद्ध देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । \hfill ४७७ पूर्वपक्षसिद्धान्तयोश्चकारद्वयमेतादृशवाक्यान्तरे पूर्वपक्षसिद्धान्तयोराधि- क्येोपपत्तिसमुच्चयार्थम् । तेन, अत एव प्राण इतिवदधिकरणान्तरमपि सूचि- तमिति ॥ ७ ॥ भाष्यप्रकाशः। न परिमाणविरोधोऽपीत्यर्थः । एवं समाधानांशं व्याकृत्य चकारप्रयोजनमाहुः पूर्वपक्षे- त्यादि । तथाचाधिक्यं पूर्वाधिकरणापेक्षया वैलक्षण्यं तत्र या उपपत्तिस्तयोरुक्तयोः स्फोरणा- र्थमित्यर्थः । तत्सूचितमर्थमाहुः तेनेत्यादि । तत्रेदमूदाह्रियते । तैत्तिरीये महानारायणोपनि- षद्याम्नायते । 'आदित्यो वा एष एतन्मण्डलं तपति । तत्र ता ऋचस्तदृचां मण्डलं स ऋचां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोकोऽथ य एष एत- स्मिन् मण्डलेऽर्चिषि पुरुषस्तानि यजूंषि स यजुषां लोकः सैषा त्रय्येव विद्या तपति य एषो- ऽन्तरादित्ये हिरण्मयः पुरुषः' इति । अत्र संशयः—हिरण्मयः पुरुषः किं जीवो ब्रह्म वेति । तद्बीजं तु विधेयत्वानिर्देशः । तत्रादित्यो वेत्युपक्रम आदित्यस्य मण्डलतप्ताकत्वमुक्त्वोपसं- हारे तत्तापकत्वं त्रय्यामुपसंहृतम् । तेनादित्यह्यधीश्वरः सिद्धः । शरीरस्य चान्तस्तदभिमा- न्येव युक्तः । मण्डलस्य हृदयापेक्षया महत्त्वेऽपि परममहत्परिमाणापेक्षयाल्पत्वेन तत्र जीव- रश्मिः । चकारेति चकारयोः प्रयोजनम् । पूर्वपक्षेत्यादीति चकारद्वयं पुनरग्रे प्राथम्यार्थकं तत् स्वल्पाक्षर- मिति सूत्रलक्षणविरुद्धमतश्चकारद्वयं व्यर्थं सत्किञ्चिज्ज्ञापयति एतादृशवाक्यान्तरे पूर्वपक्षसिद्धान्तयो- राधिक्ये वैलक्षण्ये या उपपत्तिस्तस्याः समुच्चयं ज्ञापकसिद्धं फलम् । ॰॰॰॰॰भाष्यम् । पूर्वाधिकरणेति अन्तस्तद्धर्मोपदेशाधिकरणापेक्षया न तु प्रकृताधिकरणापेक्षया एतदधिकरणापेक्षयेति संस्कृतात्पतेः । तत्रेति वैलक्षण्य इत्यर्थः । न तु पूर्वाधिकरण इत्यर्थः । त्यदादीनामव्यवहितपूर्वपरामर्शित्वात् । तयोरुपपत्तिवैलक्षण्ययोः । अत्र भाष्ये पूर्वपक्षसिद्धान्तयोरिति प्रयोगस्तत्र यद्यपि पूर्वं सिद्धान्तपदमपेक्षितं 'अल्पाच्तरं पूर्वम्' इति पाणिनिसूत्रात् तथापि राजदन्तादेराकृतिगणत्वात् 'राजदन्तादिषु परम्' इति सूत्रेण पूर्वप्रयोगार्हस्य परनिपातः । तत्सूचितमिति पूर्वाधिकरणापेक्षया उपपत्तिवैलक्षण्ययोः स्फोरणात् सूचितम् । तेनेत्यादीति उपपत्तिवैलक्षण्ययोः स्फोरणेन । यथा 'अत एव प्राणः' इत्य- धिकरणे सत्यपि 'प्राणस्तथानुगमात्' इत्यधिकरणान्तरम् । पूर्वोक्तस्य सर्वस्याप्यर्थस्य निगमनान्नात्र व्यासघातम् । तद्वत् सप्तम्यन्ताद्धेतिः । 'अन्तस्तद्धर्मोपदेशात्' इत्यधिकरणे सत्यपि शब्दविशेषात् इत्यधिकरणान्तरमपीति सूचितमित्यर्थः । तत्रेदमिति तत्र किमेतादृशवाक्यान्तरं की पूर्वपक्षसिद्धान्तौ किमाधिक्यं कोपपत्तिरित्याकाङ्क्षायामिदं वक्ष्यमाणमुदाह्रियते इत्यर्थः । विधेयत्वेति ब्रह्मजीव- योर्विधेयत्वानिर्देशः । 'हिरण्मयः पुरुष' इत्यत्र पदद्वयमपि ब्रह्मजीवसाधारणमिति भावः । त्रय्या- मिति 'त्रय्येव विद्या तपति' इत्येवकारेणादित्यव्यवच्छेदात् । तेनेति उपक्रमोपसंहाराभ्यामेकार्थ- प्रतिपादननियमेन त्रय्यादित्ययोश्च सामानाधिकरण्यनियमेन च सिद्ध इति । यद्यपि त्रयी वेदः स चात्मा प्रातिशाख्ये उक्तस्तथाप्यत्र विद्वांस्तां प्रतिपाद्यप्रतिपादकभावसत्त्वात्सामानाधिकरण्यासम्भवः तथा- चेदमुपक्रमोपसंहारयोरेकार्थपरत्वमिति भावः । स्मृतेश्चेति सूत्रम् । ननु न्वादिले विद्यमानत्वाद्रादित्या- भिमानो युक्त इत्याहुः स्मृतेश्चेत्यवतार्य 'ज्योतिषां रविरंशुमान्' इति स्मृतेरित्यर्थमित्वा रवावादित्ये द्वातस्य विद्यमानत्वमवेत्यनेनादित्ये स्थितिरित्यादित्ये विद्यमानत्वं नाभिमानिप्रयोजकमित्येवं सह्यार्थ- कास्तदन्तास्तस्यात्कर्मलोकस्तदङ्गत्वेनार्थनाम्। शरीरस्येति । हृदयेति आदिपदेन भगः । मनुष्याणामिति मनु \hfill 477 \hfill
४७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ७
भाष्यप्रकाशः । सैव मानात् । पुरुषपदेन पूर्वोक्तार्चिर्गतयजुःपुरुषस्यैव व्यपदेशाच्च । नच हिरण्मयत्वविरोधः । तस्योपासनाफलत्वायानुवादात् । नचात्रोपासनाबोधकपदाभावान्नैवमिति शङ्क्यम् । अत्रापेक्षि- तगुणान्तरबोधके, ‘आदित्यो वै तेज ओजः’ इत्यव्यवहितोत्तरानुवाके, य एवं वेदेत्युपसंहारेण तस्या उक्तत्वात् । अतो नेदं ब्रह्मवाक्यमिति सूत्रांशेनाशङ्कयांशान्तरेण सिद्धान्तमाह न, निचाय्यत्यादि । यथा हृदये निचाय्य एवमादित्येऽपि । स यश्चायं पुरुषे यश्चासावादित्ये स एक इति श्रुत्यन्तरात् । नच तत्र जीवो वक्तुं युक्तः । तदग्रे, स य एवंविदित्यादिना विदो जीवस्य वेद्याद् भेदेन निर्देशात् । ‘अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः । एकस्तद्वेद
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७९ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥ बाधकमाशङ्क्य परिहरति । यदि सर्वेषां हृदये भगवाञ्जीववत् तिष्ठेत् तदा जीवस्येव तस्यापि सुखदुःखसाक्षात्कारस्तत्साधनादिपरिग्रहश्च प्राप्नोतीति चेन्न । वैशेष्यात् । विशेषस्य भावो वैशेष्यं तस्मात् । सर्वरूपत्वमानन्दरूपत्वं स्वकर्तृत्वं विशेषः । तद्भावो ब्रह्मणि वर्तते, न जीवे इति जीवस्यैव भोगो, न ब्रह्मण इति । वैशेष्यपदादयमर्थः सूचितः । अपेक्षित एव भोगो, नानपेक्षित इति । न तु तस्य भाष्यप्रकाशः । संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥ बाधकमिति जीवतुल्यतापत्तिरूपं बाधकम् । सम्यग् अभिनिवेशेन भोगः संभोगः, सम्यग्भोगो यस्मादिति वा संभोगः । तयोः प्राप्तिर्जीवतौल्यमापादयतीति तदाशङ्क्य परिहरतीत्यर्थः । अग्रिमाधिकरणविरोधादिति । अग्रिमाधिकरणत्रयविषयवाक्येषु भोगप्रतिपादनात् तदनङ्गीकारे तद्विरोधादित्यर्थः। बहुव्रीहिविग्रह मङ्गीकृत्याहुः तत्साधनादिपरिग्रहश्चेति । अपेक्षित एवेत्यादिनियमे दृष्टान्तमुखेन मानमाहुः रश्मिः । पवित्रयुक्तत्वेन ब्रह्मधर्मस्य वैलक्षण्यं सिद्धान्ते । एतादृशवाक्यान्तरे तूपपत्तावुपक्रमस्यापि सत्त्वा- द्ब्रह्मधर्मस्य वैलक्षण्यम् । पूर्वपक्षे 'अथ य एषोन्तरादित्ये हिरण्मयः पुरुषः' ब्रह्मशरीरं पूर्वाधिकरणे । अत्राधिकरण उपक्रमेण जीवस्यैवाङ्गुष्ठमात्रस्यान्तर्हृदये प्रतिपादकमिदं वचनमित्युपपत्तिः । अतो जीवप्रतिपादकमेवेदं वाक्यमिति वैलक्षण्यम् । एतादृशवाक्यान्तरे तु पूर्वपक्षे त्रयीशरीरादित्यस्यो- भिमानो जीवो हिरण्मयः पुरुष इत्युपपत्तिः । अभिमानिप्रतिपादकमिति वैलक्षण्यम् । न च शरीरस्य चान्तस्तदभिमान्येव युक्त इति अर्भकौकस्त्वसूत्राशङ्काग्रन्थो न शब्दविशेषादिति सूत्रे पूर्वपक्षग्रन्थ इति चेन्न शब्दविशेषसूत्रपूर्वपक्षग्रन्थस्यार्भकौकस्त्वसूत्रोक्तशङ्काग्रन्थेनुवादाङ्गीकारादतिरिक्तपूर्वपक्षाङ्गीकारे गौरवात् । तथाच भाष्यं पूर्वपक्षसिद्धान्तयोरित्यर्भकौकस्त्वसूत्रस्य । न चाधिकरणयोर्विषयवाक्या- वधारणे विनिगमनाविरह इति वाच्यम् । पूर्वाधिकरणेन्तःपदात् तद्घटितश्रुतेर्द्वागुपस्थितेरय य एषोन्तरादित्य इत्यस्याः श्रुतेर्विषयवाक्यत्वावधारणं शब्दविशेषादित्यधिकरणे तु अन्तःपदाभावा- दपहतपाप्मपदघटितश्रुतेः पूर्वाधिकरण एव गतत्वात् हिरण्मयशब्दविशेषघटितश्रुतेरवधारणम् ॥ ७ ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥ तत्साधनेत्यादि । वक्ष्यमाणभाष्या- दाहुः सम्यग्भोग इति । वेति विकल्पे । सुखदुःखसाक्षात्कारस्तत्साधनादिपरिग्रहश्चेति भाष्यात् । भाष्ये चकारः पुनरर्थे न तु समुच्चये । तत्साधनेति सुखदुःखसाधनानि चक्षुरादीनि आदि- पदेन तद्विषयाश्च तेषां तत्साधनत्वेन परिग्रहः । व्यापकस्येन्द्रियसंबन्धसत्त्वात् । तथा चानभिनि- र्वेशवादः । भाष्ये । विशेष इति सर्वरूपत्वं सर्वानुकारित्वेन सर्वेषु रूपाण्यस्येति स्वमात्मा तस्य कर्तृत्वं 'स आत्मानं स्वयमकुरुत' इति श्रुतेः तस्य भावः सत्ता स ब्रह्मणि वर्तते अन्यथा सर्वेषु रूपाणि न स्युः आनन्दाश्च सर्वेषु न भवेयुः सर्वाणि रूपाणि न स्युः 'योऽन्यथा सन्तमात्मानमन्यथा प्रति- पद्यते' इति श्रुतेः । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेः जीवासक्त्यकिं- चित्त्वात् । न च विशेषादित्येव सूत्रे हेतुरस्तु सत्ताभावे 'नासतो विद्यते भावः' इति स्मृतेः । कार्यरूपाणि कार्यानन्दाः कार्यं च न स्यात् । अत एव कार्ये व्यष्टौ न व्याख्यातः न च ६१ ब्र० सू० २० 479
४८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ८
रश्मिः ।
प्रकृतिजन्यबोधे प्रकारो भावः इति वृत्तिस्थानापन्नग्रन्थातिक्रमः शङ्क्यः । सत्ताया एव प्रकृतिजन्यबोधे प्रकारत्वात् । न च विशेषत्वघटत्वादीनां प्रकृतिजन्यबोधे प्रकारत्वं न सत्ताया इति वाच्यम् । भावे त्वतलोर्विधानाद्विशेषत्वघटत्वादीनां विशेषघटादिसत्तानतिरेकात् । अनवच्छिन्नत्वं विशेष इति न ध्याकृतम् । मायिनं तु महेश्वरमिति श्रुतेः, 'विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम्' इति वाक्याच्च मायानवच्छिन्नत्वाभावात् । 'इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतौ मायेन्द्रियाणि इति निबन्धेस्ति । न चेन्द्रियानवच्छिन्नत्वं विशेषः प्रकृतेस्त्विति शङ्क्यम् । चक्षुषश्चक्षुरित्यादिश्रुतेः । अत्र चक्षुराद्यभिन्नं ब्रह्मेति प्रथतया प्रतिपादनादनवच्छिन्नत्वं सुस्थिरमिति शङ्क्यम् । कर्णशष्कु- ल
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८१ भोगाभाव एव । अग्रिमाधिकरणविरोधात् । यथेन्द्रियाधिष्ठातृदेवानाम् । तत्त्व- मस्यादिवाक्येन जीवस्यापि तथात्वे तस्यापि तद्द्देव भविष्यति ॥ ८ ॥ इति प्रथमाध्याये द्वितीयपादे द्वितीयं शब्दविशेषाधिकरणम् ॥ २ ॥ भाष्यप्रकाशः । यथेत्यादि । तथाचानुमानमेव मानमिति भोगप्राप्तावपि न जीवतौल्यापत्तिरित्यर्थः । नन्वेवं सति जीवस्य कुत उभयभोग इत्यत आहुः तत्त्वमसीत्यादि । तथाच ब्रह्मभावाभावेन कामकर्मा- दिवशगतत्वाद् बन्धदशायां तथेत्यर्थः । तथाच तदभावायैव साधनानां विधानमिति भावः । तदेतत्रासङ्गिकमुक्तम् । अन्यच्च पूर्वाधिकरणेऽन्तर्हृदयवर्तमानस्यान्तर्यामित्वे निश्चायितेऽपि पुनरस्मिन्नधिकरणे यत्तत्तात्वप्रतिपादनं तत्तदाकारनिश्चायनार्थम् । यथा कौण्डपायिनां सत्रे, मासमग्निहोत्रं जुहोतीत्य- त्राग्निहोत्रशब्देन नित्याग्निहोत्रधर्मा अतिदिश्यन्ते । तथा, हिरण्मयः पुरुष इति शब्दाभ्यामन्तस्त- रश्मिः । इति वाक्यात्तथा च नृसिंहोत्तरतापनीयश्रुतिः आनन्दभुग् इति । बृहदारण्यकेपि 'यद्य- देवास्सृजत तत्तदत्तुमप्रियत सर्वं वा अत्तीतीति नैवेह किंचनाग्र आसीत् मृत्युनैवेदमावृतमासीत्' इत्युपक्रमेऽग्रपदेन 'कालोस्मि लोकक्षयकृत्प्रवृद्धः' इति गीतोक्तकालेऽभावसत्त्वं नासीदित्यनेनोक्तवे- दपदवाच्याश्रयश्चोक्तः । तन्मनोकुरुतेति श्रुतौ त्यदादीनामुत्सर्गत्तः प्रधानपरामर्शकत्वात् 'ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति श्रीगीतातोग्रपदवाच्यकालात्मकं ब्रह्म तत्पदेनोच्यते इह पदवाच्याश्रयो वोच्यते न मृत्युरूपतृण्वार्थग्रहणाच्च । अपेक्षित एवेत्यादीति । इदं न प्रती- कम् । नियम इति । अपेक्षित एवेत्यवधारणे । यथेत्यादीति 'अन्तर्याम्यधिदैवादिषु तद्धर्म- व्यपदेशात्' इति वक्ष्यमाणाधिकरणे इन्द्रियाधिष्ठातृदेवानां भोगो वक्ष्यते । तथा चेति वैशेष्यादिति हेतुप्रकारेण यथेत्यादिभाष्योक्तदृष्टान्तप्रकारेण चेत्यर्थः । प्रकारवचने थाल् तच्छब्दात् । अनुमानं तु ब्रह्म अपेक्षितभोगवत् सर्वरूपादिमत्त्वात् इन्द्रियाधिष्ठातृदेववदित्यत्र पक्षे साक्षाद्धेतुस्साध्ये दृष्टान्ते तु इन्द्रियाधिष्ठातृदेवेषु परंपरयेति विवेकः । एवं सतीति हृदयदेशे वर्तमानत्वे ब्रह्मां- शत्वे च सति उभयसापेक्षितानपेक्षितस्य । व्यतिरेकमुखेन भाष्यं व्याचख्युः तथा चेति । तथेति उभयभोगवत्त्वप्रकारेण । जीवस्यापि तथात्वे ब्रह्मभावे ब्रह्मवदेव भोगो भविष्यतीति भाष्यार्थः । तदभावायेति बन्धदशाभावाय । अधिकरणार्थमुपसंहरन्ति स्म तदेतदिति । अधिकरणम् । वाक्यान्तरेपीदं सूत्रं योज्यम् । यत्पूर्वसूत्रसमासावेवं चाणुत्वबोधकैरित्यादिना सूत्रस्य पूर्वशेषत्वमुक्तं तदन्येषां सूत्राणामुभयाधिकरणशेषत्वमाह नाधिकरणप्रयोजनमाहातस्तदाहुः अन्यच्चेति । पूर्वाधिकरण इत्यन्तस्तद्धर्मोपदेशादित्यधिकरणे । तत्तदेति तस्यान्तर्यामिण आकारनिश्चा- यनार्थम् । कौण्डपायिनामिति अन्तस्तद्धर्माधिकरणविषयवाक्योक्तस्य हिरण्मयपुरुषस्य य आकारस्त- स्यातिदेशार्थम् । एतच्च सप्तमस्य तृतीयपादे पूर्वतन्त्र उक्तम् । 'क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्यात्' इत्यधिकरणे चिन्तितम् । अग्निहोत्रशब्दो न नामधेयं किं तु प्राथमिकामिहोत्रधर्माणामतिदेशक इति अग्नये होत्रं यस्मिन् कर्मणि तत्कर्माग्निहोत्रम् । अत्राकारसमर्पकं तु पूर्वाधिकरणभाष्यमेव तस्मादानन्दरूपप्राणशरीररूपो वाक्यार्थ इति । अन्तस्तद्धर्मोपदेशादित्यधिकरणभाष्यं च । अनन्त- 481
४८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ८ भाष्यप्रकाशः । धर्माधिकरणविषयवाक्योक्तहिरण्मयपुरुषाकारातिदेशार्थमिदमधिकरणमिति मम प्रतिभाति । यदत्र शैवः, प्रसिद्धोपदेशाधिकरणं द्विसूत्रमङ्गीकृत्य अविनाभावरूपादैतोपगमेन विशिष्टा- द्वैतवादं चानुसृत्य, सर्वं खल्विदं ब्रह्मेति वाक्येक्तोपासनायां ब्रह्मणः सर्वात्मकत्वोपपादनायाऽथ- र्वशिरोवाक्यानि 'अहमेकः प्रथममासं वर्तामि च भविष्यामि च, नान्यः कश्चिन्मत्तो व्यतिरिक्तः' इत्यादीन्युदाहृत्य ब्रह्माहमित्यादिना विश्वरूपत्वमात्मन प्रपञ्चयित्वा विश्वरूपत्वे सोऽन्तरादन्तरं प्राविशदित्यनुप्रवेशमेव हेतुत्वेनाह । तदसङ्गतम् । एको ह वै नारायण आसीन्न ब्रह्मा न ईशान इति रश्मिः । मित्यनन्तमूर्तिता च प्रतिज्ञातेति । शैव इति भगवानिति शेषः । अविनेति 'अहमेकः प्रथममासे' इत्यादिश्रु- तिविचारेण सिद्धमविनाभावरूपादैतं तस्योपगमेन । 'अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सन्निरुद्धः' 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' । इत्यादिश्रुतिषु अचिद्वस्तुचिद्वस्त्वीश्वराणां यथायथं भोग्यत्वभोक्तृत्वनियन्तृत्वैः स्वरूपविवेकात्त्रयोपि भिन्नाः, माया च तमोरूपा । तमः परे देव एकीभवतीत्यविभागापत्तिदशायां विभागव्यपदेशानर्हरूपेण ब्रह्मण एवावस्थानाद् विशिष्टाद्वैतवादं चानुसृ- त्येत्यर्थः । तृतीयाधिकरणे प्रथमपादे रामानुजमतनिरूपण उक्तम् । तथापि शैवस्तु रामानुजमतसैव चौरो माध्वमतस्य क्वचित्क्षुद्रुद्रांशामेव श्रुतिमुदाहरन् भिन्नं प्रस्थानमभिमन्यते इति चतुर्थाधिकरणप्रकाशादे- तन्मतेप्यविरुद्धम् । विरुद्धा वा श्रुतिस्तद्भाष्ये द्रष्टव्या आसमासीदिति क्वचित्पाठः वर्तामीति पदव्य- त्ययश्छान्दसः अत्र धातुत्रयमुत्पत्त्यर्थकमिति प्रहस्ते मध्यमवादे इत्यादीनीति । आदिपदेन इति सोन्तरादन्तरं प्राविशत् दिशोन्तरं प्राविशदिति श्रुतिसंग्रहः । ब्रह्माहमित्यादिनेति । नन्वयं प्रकाशो- शोभनः । अथर्वशिरसि सोहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्माब्रह्मेतिश्रुतौ अब्रह्मेतिपदच्छेदादिति चेन्मैवम् । अत्राब्रह्माहमित्यकाराभावो लेखकप्रमादात् अब्रह्माहमित्यादि सोहं नित्यानित्यो व्यक्ता- व्यक्तो ब्रह्मेति तदब्रह्माहमित्यादि । अब्रह्माहमित्यादि यस्य तदब्रह्माहमित्यादि तदब्रह्माहमित्यादि च तदब्रह्माहमित्यादि च तयोः समाहारः तदब्रह्माहमित्यादि तेन तदब्रह्माहमित्यादिना सरूपैक्यशेषः तस्मात् । यद्वा सोहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्मा अत्र ब्रह्म आ इति च्छेदः अब्रह्मपदार्थस्याभावात् । न च प्रायपाठविरोधः । सावित्र्यहमित्यादौ मिथुनाभावात् न च आ ब्रह्मेति पदच्छेदः 'आब्रह्म- भुवनाल्लोकाः पुनरावर्तिनोर्जुन' इतिवाक्ये तादृशपददर्शनादिति वाच्यम् । तथा सति ब्रह्मव्याप्या- हमित्यर्थो भवति तदर्थस्याङोऽभावेपि प्रत्ययाद्गौरवात् । ब्रह्माहमित्यादिनेति भाष्यप्रकाशाच्च । तथा च सोहं यः प्रवेशकर्ता सोहं नित्यो सोऽपि अनित्यश्च तथा सोऽ व्यक्तः ब्रह्म आ । नित्यः स्वरूपतः अनित्य आविर्भावतिरोभाववान् 'आविर्भावतिरोभावौ शक्ती वै मुरारिणः' इति वाक्यात् व्यक्तो भक्तेच्छया प्रकटागणितानन्दः 'अव्यक्तोक्षर इत्युक्तः' इतिगीतावाक्यात् अक्षरवाचकाव्यक्त- पदसमभिव्याहारात् 'अक्षरादपि चोत्तम' इतिवाक्याच्च अव्यक्तोक्षर उक्तवाक्यात् ब्रह्म आ इति श्रुतिस्मरणे आ तदुक्तं श्रीभागवते 'सत्यं ज्ञानमनन्तं यद्ब्रह्म ज्योतिः सनातनम्' 'इति रसो वै सः' इति श्रुतिश्च । एतद्विश्वरूपत्वपृथक् । 'यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात् संभवतीह विश्वम्' ॥ इति । मुण्डकेऽक्षरस्योर्णनाभिदृष्टान्तैरुक्तरूपत्वात् वक्ष्यते चादृश्यत्वादिगुणको धर्मोक्तेरित्यधिकरणे । ननु सोहमित्यभेदमभ्यन्तरा भूतग्रामवदिति सूत्रविरुद्धसोपादानात् ज्ञानमार्गीयाक्षररतस्य विस्रम्भिस- 482