अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
न सम्भवति आत्मसृष्टत्वादिति उच्यते च “आत्मसृष्टेर्न वैषम्यं नैर्घृण्यं चापि विद्यते” इत्याचार्याः॥ ।। भगवल्लीला ।। किमु भगवल्लीलायाः मायिकत्वमुत न वेति विचारे भगवत्येकनिष्ठत्वात् सच्चिदानन्दात्मके ब्रह्मण्यनन्यत्वेन स्थितत्वात् स्वरूपात्मकत्वान्न मायिकत्वमिति। भगवल्लीला किमपि प्रयोजनमधिकृत्य न प्रचलति “न प्रयोजनवत्त्वात्” (ब्र.सू. २।१।३२) इति सूत्रन्यायेन। किन्तु “लोकवत्तु लीला कैवल्यम्” (ब्र.सू. २।१।३३) इति सूत्रात् सा लीलैव कैवल्यं मोक्षः। तस्याः कीर्त्तनेऽपि मोक्षः। इति भाष्ये प्रतिपादनाल्लीलायाः स्वरूपात्मकत्वाद्भगवत्कृतत्वादलौकिकत्वाच्च न सर्वथा मायिकत्वमिति वाच्यम्। अस्याः लीलायाः लक्षणं यथा सुबोधिन्याम् = “कौतुकाधिष्ठितेन अनायासत्वेन क्रियमाणं कर्म लीला” यद्वा “अनायासेन हर्षात्क्रियमाणा चेष्टा लीला” इति। नन्विहैव दृश्यमानगिरिगह्वरकाननादि- सम्बन्धि लीलायाः प्रपञ्चमध्यपातित्वादनित्यत्वमिति चेन्न । “प्रपञ्चोभगवत्कार्यः” इत्याचार्यवचनात् प्रपञ्चस्य भगवत्कार्यत्वेन भगवत्कार्यरूपप्रपञ्च- सम्बन्धिनीनां लीलानां — “जयति जननिवासो देवकी जन्मवादो यदुवरपरिषदस्वैर्दौर्भिरस्यन्नधर्मम् । स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ (भागवते १०।९०।४८) इति चतुर्थप्रस्थानश्रीभागवतप्रमाणात्—श्लोके ‘जयतीति’ वर्तमानप्रयोगेणातीतानां व्रजलीला-नामपि वर्त्तमानत्वं बोधयन् श्लोकसमाप्तौ ‘वर्धयन्निति’ पदेन’ शतृप्रत्ययेन तस्मिन्कथाकाले तस्मिन् क्षणे तत्रैव सर्वपरोक्षलीलानां स्थितिः उच्यते। तथा च भगवतः नामकरणप्रसङ्गे भागवते गर्गवाक्येनापि भगवल्लीलानां त्रिकालातीतत्वं नित्यवर्त्तमानत्वं प्रवर्त्तमानत्वञ्च ज्ञाप्यते। “बहूनि सन्ति नामानि रूपाणि च सुतस्य ते। गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ (भागवते १०।८।१५) इत्यत्र ‘सन्तीति’ पदप्रयोगदर्शनाल्लीलानां नित्यवर्त्तमानत्वं स्पष्टमेव। ननु लोके पाचकपाठकवद् भवतु नाम, यथा पाठनकार्ये अप्रवृत्तेऽपि पाठकोऽयमिति प्रयोगदर्शनादत्रापि तथैवास्त्विति चेन्नैतत्। लोकासिद्धत्वादलौकिकीलीलालोकसम्बन्धिन्यपि लोकदृष्टान्तेन न साधनीया। लोके तु भीरुपुरुषेऽपि नरसिंहवीरखरेत्यादिनामनिदर्शनान्न तथा। अत्र तु गर्गवाक्यानुसारेण यथा नाम, तथा गुणाः, यथा च कर्म तथा रूपमिति। तच्च गां lviii
पालयतीति गोपालः, मुक्तिं ददातीति मुकुन्दः इत्यादिः। तथा हि नामकरणसमये लीलानाम्भावित्वाल्लीलानुसारिनामकरणमसम्भवमिति न शङ्क्यम्, भगवल्लीलायाः नित्यत्वान्नित्यप्रवर्त्तमानत्वाच्चेति । एवं पूतनाशकटभञ्जनकालियदमनादिलीलानां पूर्वमेव सिद्धत्वादपि भगवदिच्छयाऽनाविर्भावः। अतः भगवल्लीलानां नित्यसिद्धत्वात्कालाद्यनवच्छिन्न- त्वात्सर्वत्रैकत्र च सर्वरूपेण भिन्नभिन्नरूपेण च यथा तथा भगवदिच्छयैव स्थितत्वान्न कदापि मायिकत्वमिति । ननु भवतु नाम अलौकिकीनां भगवल्लीलानामायिकत्वं किन्तु लोकवल्लीलानां तु मायिकत्वं भवति न वेति प्रश्ने सर्वथा तदपि नेत्युत्तरम् । "तत्त्वभावे सन्ध्यवदुपपत्तेः" (ब्र.सू. ४।४।१३) इति सूत्रन्यायेन भगवानासुर्व्यामोहनार्थं स्वस्य प्राकृतत्वं प्रदर्शयति न तु तथा भवति । तत्र दूषितदृष्टीनामासुराणां कृते, यथा—श्रीमद्भगवद्गीतायाम्—"मामात्म- परदेहेषु प्रद्विषन्तोऽभ्यसूयकाः" (१६।१८) इत्यत आरभ्य "ततो यान्त्यधमां गतिम्" (१६।२०) इत्यन्तमुक्तम् । एतेषामासुरत्वेन मुक्त्यनधिकारादिति । एवं भगवल्लीलायां दोषदर्शने उपपत्तिमुक्त्वा अग्रिम सूत्रेण गुणदर्शने उपपत्तिमाह "भावे जाग्रद्वत्" (ब्र.सू. ४।४।१४) इति सूत्रन्यायेन लौकिकवद्भासमाने भगवल्लीलापदार्थे लीलायाञ्च भक्तानां यद्दर्शनं तत्त्वलौकिकत्वेनैव। यथा मोहनिवृत्तस्य पुरुषस्य सत एवार्थस्य दर्शनम् । एवं भगवान् स्वेच्छयैव भक्तानां मायापसारणेन तत्तद्रसानुभवार्थं तत्तल्लीलां तथा तथा करोति । तथा च कुत्रचित् मोहलीलामपि करोति यथा सौभयुद्धे। तथा चासुराणां व्यामोहनार्थं लोकवल्लीलां करोतीति । अत्र भाष्ये = "अत एव लीलाया अनेकरूपत्वाद् ब्रह्मणश्च श्रुतौ सैन्धवदृष्टान्तेनैकरसत्वनिरूपणाच्छुद्धब्रह्मधर्मत्वं न सम्भवतीति शङ्कानिरासाय ("लोकवत्तु लीला कैवल्यम्") कैवल्यमित्युक्तम् । साक्षी चेता केवलो निर्गुणश्चेत्यादिश्रुतिषु याऽन्यधर्मराहित्यलक्षणा केवलतोक्ता सा लीलात्मिकैव लीलावशिष्टमेव शुद्धं परं ब्रह्म, न कदाचित् तद्रहितमित्यर्थः पर्यवस्यति । तेन स्वरूपात्मकत्वं लीलायाः पर्यवस्यति । तेन च नित्यत्वम् ।" (ब्र.सू. ४।४।१४ भाष्ये) एवं यथा पृथिव्यामेव गन्धरूपेणाविर्भावः न जलादौ । एवमेवाविर्भावतिरोभावाभ्यां भगवल्लीलायाः अनुभवः अननुभवश्च भक्तानामभक्तानाञ्च कृते भवतः। अधुनाऽपि क्वचिद् क्वचिद् भगवदिच्छया कृपया च तादृशे भक्ते परोक्षलीलानामनुभवः श्रूयते । एवं भगवांस्तु नित्यलीलाविशिष्ट एव सर्वदा सर्वत्र विराजते । श्रीगोवर्धनधरः भक्तमनोरथपूरणार्थमिच्छया कृपया चाविर्भवति तिरोभवति च। तस्माल्लीलायाः कदापि मायिकत्वं सर्वथा नेति सिद्धान्तः। "प्रभोरेव फलत्वं निर्दोषत्वञ्च वर्ण्यते । लीलानित्यवतः पूर्णगुणत्वं च ततोऽखिलम् ।।" (इत्याचार्यकारिका) lix
।। भक्तिनिरूपणम् ।। भक्तेर्लक्षणमाचार्यचरणैरुक्तं निबन्धे — "माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहोभक्तिरिति प्रोक्तस्तयामुक्तिर्न चान्यथा ।। (शा.प्र.का. ४५) अनया कारिकया आचार्यैः भक्तिस्वरूपमुक्तम् । स्नेहो भक्तिः। स्नेहस्तु भगवत्यात्मत्वेन ज्ञाते भवति । "गौणश्चेन्नात्मशब्दात्" (ब्र.सू. १।१।५) इति सूत्र न्यायेन गुण युक्तत्वाद्वौणः इति न वक्तव्यम्, आत्मशब्दात् । अत्र भाष्ये—"आत्मशब्दः पुनः सर्वेषु वेदान्तेषु निर्गुणपरब्रह्मवाचकत्वेनैव सिद्धः। तस्यैव जगत्कर्तृत्वं श्रुतिराह ।" इति वचनात् निर्गुणसाकारपरब्रह्म एव जगत्कर्त्ता स एवात्मा स एव भगवान् श्रीकृष्णः। "कृषिर्भूवाचकः शब्दो णश्च निर्वृति वाचकः तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते" इति गोपालतापनीयश्रुतेः भगवतः श्रीयशोदोत्सङ्गलालितस्य श्रीकृष्णस्यैव परब्रह्मत्वं श्रुतिस्मृत्यादिशास्त्रेषु सर्वत्र उद्घोष्यतेऽतः भक्तिपदं श्रीकृष्णस्नेहे मुख्यमन्यत्र तु तत्प्रयोगो भक्त इति। सच्चिदानन्दात्मकं परब्रह्म त्रिविधं जगति क्रीडति । तत्र आधिभौतिकं जगत् । आध्यात्मिकं अक्षरब्रह्म। आधिदैविकं परं ब्रह्म "पुरुषश्चाधिदैवतम्" इति स्मृतेः। एवमेव रमणार्थं मार्गत्रयम्—आधिभौतिकमार्गः कर्म, आध्यात्मिकमार्गो ज्ञानम्, आधिदैविको मार्गो भक्तिः। तत्र प्रथमः आधिभौतिकः कर्ममार्गः लोकपर्यवसायी, द्वितीयो ज्ञानमार्गः अक्षर पर्यवसायी, तृतीयो भक्तिमार्गः पुरुषोत्तम (परब्रह्म) पर्यवसायीति। ज्ञानिनस्तु अक्षरब्रह्मैव परमफलत्वेन मन्यन्ते । भक्तास्तु अक्षरब्रह्म परब्रह्मपूर्णपुरुषोत्तमस्य धामेति स्वीकुर्वन्ति । तत्र प्रमाणम् — अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्त्तन्ते तद्धाम परमं मम ।। (गीता ८।२१) तथा च — यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।। (गीता १५/१८) इत्यादि प्रमाणैर्वेदादिशास्त्राणामर्थो भक्तिरिति ज्ञायते । ननु वेदादि शास्त्राणामर्थो भक्तिरिति कथमप्रतिपाद्यते भवद्भिरिति चेदुच्यते । "यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति, स भूमा स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीडआत्ममिथुन आत्मानन्दः स स्वराड् भवति" "परं ब्रह्मैतद्ध्यो ध्यायति रसति भजति सोऽमृतो भवति" "नाहं वेदैर्न तपसा न दानेन न चेज्यया, शक्य एवं विधो दृष्टुं दृष्टवानसि मां यथा"। "भक्त्या त्वनन्यया शक्यः०" "अहं भक्तपराधीनो" "भक्त्या तुतोष भगवान् गजयूथपाय०" इत्यादि श्रुतिस्मृतिप्रमाणैर्भक्तिरेव प्रतिपाद्यते । एतेन सर्वात्मभावरूपा भक्तिरेवोच्यते । छान्दोग्ये सनत्कुमारनारदसंवादे भूमविद्यायां यत्र
नान्यत्पश्यतीत्यादिनाऽन्यदर्शनादिराहित्यस्योक्तत्वाद्भगवद्विरहावस्थायां प्रपञ्चविस्मृतिपूर्विका या परमाऽऽसक्तिस्तया विगाढभावेन सर्वत्र भगवत्स्वरूपमेव स्फुरतीति स एवोच्यते “स एवाधस्तात्स एवोपरिष्टात्सपश्चादित्यादि" तदनन्तरं भगवद्विरहभावगतस्फूर्तिरूपाणां ज्ञानानां व्यभिचारिभावत्वेनानियतत्वं ज्ञापयितुमहंकारादेशः “अहमेवाधस्तादहमेवोपरिष्टादित्यादिः” तत आत्मादेशः इति । “आत्मैवाधस्तादात्मोपरिष्टादित्यादिः”। तथा चाग्रे आत्मरत्यादि पदैः “आत्मरतिः आत्मक्रीड आत्ममिथुन” इत्यादिभिः रसरूपं भगवन्तं भक्तो भजति । अत्रात्मशब्देन सिद्धान्ते पूर्णपुरुषोत्तम एवोच्यते। नत्वक्षरं जीवो वेति । “गौणश्चेन्नात्मशब्दादिति” सूत्रन्यायेन परमकाष्ठापन्नं यद्वस्तु तदेव सर्वत्र वेदान्तेषु मुख्यतया प्रतिपाद्यम् । अनेन परब्रह्मणि सर्वात्मभावरूपा व्यसनात्मिका भक्तिः सैव मुख्या । सा च भगवदनुग्रहैकसाध्या । तच्चोक्तम् श्रुतौ — “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनुं स्वाम्” ।। (का. १।२।२३) अत्र आत्मशब्दः पुरुषोत्तमवाचकः, प्रवचनेन नाम सस्वरवेदाध्ययनेनेति । अनेन पुष्टिभक्तेः केवलं भगवद्वरणलभ्यत्वमेव । अत्र स्वपदस्यात्मीयवाचकत्वेन स्वीयत्वेन वरणे सर्वात्मभावरूपा पुष्टिभक्तिः प्रयच्छति । भाष्ये च “निसर्गतः सर्वेषां जीवानां भगवान् भवत्येव प्रभुर्यद्यपि तथापि यं स्वीयत्वेन वृणुते तस्य विवाहितः पतिरिव भर्त्ता सन् वरणस्नेहातिशयेन भक्तेनापि ध्रियमाणः सन्, स भक्त इव स्वयमपि तं स्वस्मिन् बिभर्ति”। (अ.भा. ४।४।१५) इत्यनेन भक्तौ स्नेहस्यप्राधान्यादयोगोलकादि दृष्टान्तं विहाय प्रदीप दृष्टान्त- मुक्तवान् व्यासः “प्रदीपवदावेशस्तथा हि दर्शयति” (४।४।१५) । स स्नेहस्तु व्रजसीमन्तिनीनां रतिस्थायिभावत्वेन मुख्यत्वाच्छ्रंगार एव भक्तिरसः इति वक्तुं शक्यते । स चालौकिक एव । तस्य च संयोगविप्रयोगात्मकत्वम् । अलौकिक शृंगारस्य लौकिकसदृशत्वेऽपि न लौकिकत्व- मलौकिकप्रमाणप्राप्तत्वाल्लौकिकप्रमाणाप्राप्तत्वाच्च । वस्तुतस्तु अत्र लौकिकत्वशङ्का निरर्थका इति । वात्स्यायनादिऋषिभिरपि भगवद्भावभावनार्थमेव शास्त्रप्रणयनम् । न तु ऋषीणां कदापि लौकिके तात्पर्यं भवति। अत एवोक्तम्—“तदेतद् ब्रह्मचर्येण परमेण समाधिना विहितो लोकयात्रार्थं न रागार्थोऽस्य संविधिः, रक्षन् धर्मार्थकामांस्त्रीन् सम्पश्यंल्लोकवर्तिनाम्। अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः”। इति लौकिके तापर्ये सति शास्त्रकारः जितेन्द्रियभवनरूपफलं न वदेत् । अर्थोयम् लिङ्गभूयस्त्वाधिकरणे, ऋतुवज्ज्यायस्त्वाधिकरणे च विस्तरेण प्रपञ्चितमाचार्यैर्भाष्ये, श्रीपुरुषोत्तमचरणैः प्रकाशे श्रीगोपेशचरणैश्च रश्मौ । ननु भक्तेः शृंगाररसरूपत्वात् शृंगारस्य च संयोगविप्रयोगात्मकत्वाद्विप्रयोगस्य विरहात्मकत्वेन lxi
दुःखरूपत्वात्कथं सुखरूपत्वमिति चेदुच्यते भूम्नश्च । “यो वै भूमातत्सुखं” इति श्रुतेः सुखरूपत्वमेव । सर्वत्र वेदान्तेष्वपि मुक्तेः सुखरूपत्वमेव । पुष्टावपि भगवत्स्वरूप- स्यानन्दमयत्वात्तल्लाभे परमानन्दलाभ एव न तु दुःखलाभ इति । अत्र = रश्मिकाराः योगिगोपेश्वरा आज्ञापन्ति = “अस्यैव चोपपत्तेरूष्मेति सूत्रभाष्ये । तथाहि अस्यानन्दा- त्मकरसरूपस्य भगवतः एवायं धर्मः। ऊष्मा विरहतापः। व्यापकस्य भगवतः सर्वत्र सत्त्वेऽपि मायया तिरोधानात्तद्विरहः सर्वसाधारणस्तथापि, न सर्वानुभवगोचरोऽपि तु यस्य हृदि रसरूपभगवदाविर्भावो भवति तस्यैव तदप्राप्तिजतापानुभवो गोचरीभवतीत्यन्वयव्यतिरेक रूपोपपत्तेः। तथा च रसरूपस्य वस्तुन एव तथात्वात् स तापोऽपि रसात्मक एवेति”। अनेन सिद्धयति यत् अस्य दुःखस्य न कर्मजन्यत्वम्, कर्मजन्यत्वे सति अस्य मोक्षसुखमपि विलुप्येत। अत एवोक्तम्—“न पश्यो मृत्युं पश्यति न रोगं नोत् दुःखतामिति” श्रुत्या तादृशभक्तेः दुःखादिरूपत्वं निषिध्यते अतोस्य दुःखहेतुत्वेऽप्यनन्यलभ्यसाक्षात्पुरुषोत्तमा- नन्दप्राप्तिहेतुत्वेन सुखरूपत्वमेवेति । अन्यथा वियोगावस्थायां चित्तेस्फुरायमाणमानन्दत्वमिति न वदेत् । “को ह्येवान्यात्कः प्राण्यादि’ति, श्रुतेः वियोगावस्थायां हृदिविराजमानस्य भगवद्रूपस्यैव जीवनहेतुत्वमिति । तथैव श्रीभागवतेऽपि — “ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः । मामेव दयितं प्रेष्ठमात्मानं मनसा गताः । ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम् ।। (भा. १०।४६।४) अतः स्वपरमप्रियभगवद्दत्तं भगवत्सम्बन्धि यत्किमपि भक्तैः प्राप्यते तत्सर्वं सुखरूपमेव भवत्यतः भगवदलौकिकरसवार्त्तानभिज्ञस्य तव कृते तु कण्टकवेधदृष्टान्तवत्कामिनीकुचकुम्भे प्रणयप्रसङ्गे रसोत्कर्षे प्रियकृतनखवेधस्यापि दुःखहेतुत्वं भविष्यतीत्यलं प्रलापेन । एवं “यो वै भूमा तत्सुखं नाल्पे सुखमस्तीति” श्रुत्या परब्रह्मण एव सूखरूपत्वात्प्रतीयमानं प्रियत्वादि ब्रह्मण्येव पर्यवस्यति । वस्तुतः जीवस्य प्रियं ब्रह्म एव। एतदेव श्रीभागवते उक्तम् — “अहमात्माऽऽत्मनां धातः प्रेष्ठः सन् प्रेयसामपि । अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रिय ।।इति।। अत्रेदं बोध्यम् । सिद्धान्ते रसात्मकं विरुद्धधर्माश्रयं साकारमेव परब्रह्म । “आत्मैव पूर्वमासीत् पुरुषविध” इति श्रुतेः । फलं च ब्रह्मानन्दः । तथा च “परं ब्रह्मैतद्धो ध्यायति रसति भजति सोऽमृतो भवति” इत्यस्य प्रत्येकं सम्बन्धो ज्ञेयः। इयं च भक्तिः फलरूपा । तल्लक्षणं तु परब्रह्मश्रीकृष्णस्नेहत्वमिति । तत्र “यमेवैष वृणुते तेनलभ्यः” इति वरणश्रुत्या वरणस्य मर्यादा पुष्टिभेदेन द्वैविध्यम् । मर्यादापक्षे विहितानि साधनानि शास्त्रेषु बहूनि सन्ति तेषां कायिकवाचिकमानसिकरूपप्रभेदाः । पुष्टौ तु वरणमेव साधनमिति । पुष्टौ भगवदनुग्रहेणैव सर्वपापक्षयः । lxii
तच्चोक्तम् — "स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः" ॥ (भा. ११/५/४२) "प्रविष्ट कर्णरन्ध्रेण स्वानां भावसरोरुहम् धुनोति शमलं कृष्ण पद्मपत्रमिवाम्भसा'' ॥ एवं वरणेनैव पुष्टिभक्तेः प्राप्तिः। पुष्टिभक्तेः वरणैक लभ्यत्वात्। एवं भक्तिमार्गेण भक्ताः भगवत्समीपं गच्छन्ति। तत्र भगवत्प्राकट्ये रसानन्दप्राप्तिः। सर्वैरिन्द्रियैर्भगवत्स्वरूपेण सह संयोगादिलाभः। अतएवोक्तम् भागवते "अक्षण्वतां फलमिदं न परं विदामः"। स च सर्वो मनोरथः भगवता पूर्यते। "ब्रह्मैव सन् ब्रह्माप्येति" "सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा" इत्यादि श्रुतेः। अयं रसानुभवः श्रेष्ठः। "ब्रह्मानन्दात्समुद्धृत्य भजनानन्दयोजने" इत्याचार्यवाक्यात् अक्षरब्रह्मानन्दस्य गणितानन्दत्वात् भजनानन्दस्य चागणितानन्द- त्वादिति। अनयोः ज्ञानभक्त्योः तारतम्ये भक्तिः श्रेष्ठा। (१) भक्तौ कृपानन्दरसपानं च फलम्। ज्ञाने दुःखाभावमात्रं फलम्। (२) भक्तौ पूर्णानन्दानुभवः फलम्। ज्ञाने स्वरूपेण प्रकर्षतो लयः फलम्। (३) भक्तौ भगवत्कृतद्वैतस्थित्यानन्दानुभवः फलम्। ज्ञाने भेदाभावस्थितेरानन्दानुभवो न संगच्छते। (४) भक्तौ प्रारम्भतः एव निरतिशयानन्दः। ज्ञाने प्रथमतः कष्टमन्ते गणितानन्दप्राप्तिश्च। (५) भक्तौ पूर्णपुरुषोत्तमप्राप्तिः। ज्ञाने अक्षरप्राप्तिः। एवं ज्ञानभक्त्योः तारतम्ये भक्तेः अतिशयितत्वमिति। आत्मारामाश्च मुनयः निर्ग्रन्था अप्युरुक्रमे। कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः॥ (भा. १/७/१०) अतः ब्रह्मभावादनन्तरमपि परा भक्तिरनुष्ठातुं शक्यते। इदमेव भगवतः पूर्णपुरुषोत्तमस्य श्रीकृष्णस्य अनवगाह्यमाहात्म्यम्। भक्तेरुत्कृष्टत्वञ्च। अत एव विद्वांसः रसज्ञाः भावुकाः भक्त्यैवात्मानं भगवते श्रीगोपीजनवल्लभाय समर्प्य रसानन्दनिमग्नाः भवन्ति। अतः "सर्वधर्मान्परित्यज्य" इति वाक्याद्भगवान्नेव शरणीकरणीयः। भगवान् स्वानुग्रहेणैव भक्तानां सर्वं साधयति। अत एवोक्तं श्रीभागवते—"पोषणं तदनुग्रहः" इति पुष्टेर्लक्षणम्। पुष्टिमार्गे भगवदनुग्रहस्यैव नियामकत्वम्। भक्तिः मर्यादापुष्टिभेदेन द्विधा भवति। मर्यादाभक्तिः भगवच्चरणारविन्दभक्तिः। पुष्टिभक्तिः भगवन्मुखारविन्दभक्तिः। मर्यादा भक्तिः अस्वतन्त्रा। पुष्टि भक्तिः स्वतन्त्रा। lxii
मर्यादाभक्तौ फलं सायुज्यम् । पुष्टौ साक्षाद्भगवान् । एवं यस्मिन् भगवत्कृपा भवति स पुष्टौ आयाति । सा च कृपा तन्मार्गरुच्यादिभिरनुमीयते । सा रुचिः भक्तिरेव । शुद्धपुष्टिभक्तिफलं तु नित्यलीला प्रवेशः पुरुषोत्तमलाभश्च । इत्यादिकं श्रीमदणुभाष्ये आचार्यैः विस्तरेण प्रतिपादितं पुरुषोत्तमचरणैश्च तत्रप्रकाशे विस्तरेणालोडितं गोपेश्वरचरणैश्च तत्रप्रकाशरश्मौ अतिविस्तरेण विवरितम् । अतः तत्रतोऽवगन्तव्यम् । अधुनात्र ब्रह्मणः मूलम् स्वरूपं विविच्य समाप्यते । तत्र — “कृषिर्भूवाचकः शब्दो णश्च निर्वृति वाचकः तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ ॐ तत्सत्परं ब्रह्म कृष्णात्मको नित्यानन्दैकस्वरूपः ।। इति श्रुतेः तथा च — परिपूर्णतमः कृष्णो वैकुण्ठो गोकुलः स्वयम् । चतुर्भुजश्च वैकुण्ठे गोकुले द्विभुजः स्वयम् ।। (ब्रह्मवैवर्त्त पु०) अत एव परमानन्दः पूर्णपुरुषोत्तमः परब्रह्म श्रीकृष्ण एव । अतः निखिलनिगमा- गमाधिगम्यमानस्वरूपः परब्रह्मश्रीकृष्ण एव प्रापणीयोऽयमेव परमपुरुषार्थः शुद्धाद्वैत- ब्रह्मवाद इति । तत्प्राप्तिः भक्त्या विना नेति । “नायमात्मा बलहीनेन लभ्यः” इति श्रुतेः। अत्र बलं भक्तिः। अतः शुद्धपुष्टिभक्तौ स्नेह एव नियामकः। निरुपधिस्नेहात्मिका भक्तिरेव सर्वात्मभावः। अयमेव पूर्णपुरुषोत्तमप्राप्तौ मुख्यं कारणम् । यस्मिन् भगवत्कृपा भवति स एव पुष्टिमार्गाधिकारी भवति । तस्मात् श्रीमदाचार्यचरणैः पुष्टिमार्गस्थापनाय प्रमाणानुरुद्धः प्रमेयमार्गः प्रकटीकृतः। अतः श्रीमदाचार्यानुगृहीतेन पुष्टिपथेनानुसर्तव्यमिति । “जानीत परं तत्त्वं यशोदोत्सङ्गलालितम् । तदन्यदिति ये प्राहुरसुरांस्तानहो बुधाः ॥ (श्रीप्रभुचरणाः भाष्ये) ।। श्रीमदाचार्यचरणानां वेदश्रद्धा ।। भाष्येऽस्मिन् पुष्टिभक्तिमाहात्म्यमतीव विस्तरेण वर्णितं तथा च वेदविषये भाष्यकृद्भिः निरतिशया श्रद्धाऽपि स्थापिता । श्रीवल्लभाचार्याः वेदस्याक्षरमात्रस्याप्यन्यथाकल्पनम्, वेदेऽर्थवादं च नाङ्गीकुर्वन्ति । “उत्तरं पूर्वसन्देहवारकं परिकीर्तितम्” इति न्यायेन पूर्वपूर्वप्रस्थान- सन्देहवारकत्वमुत्तरोत्तरप्रस्थानस्येति वर्णयन्त्याचार्याः । यथा वेदे - “अपाणिपादो जवनो ग्रहीता” इत्यत्र किं ब्रह्म प्राकृतपाणिपादरहितं यद्वा सामान्यनिषेधः, इति सन्देहे “सर्वतः पाणिपादान्तम्” इत्यादि गीतावाक्यं सन्देहवारकम् । गीतायाञ्च “नित्यः सर्वगतः स्थाणु०” “ममैवांशो जीवलोके” इत्यादौ सन्देहे “उत्क्रान्ति- गत्यागतिभिः” “अंशो नानाव्यपदेशात्” इत्यादि सूत्रैर्निर्णयः। तथा च तत्वसूत्रे “जन्माद्यस्य यतः० इत्यत्र ब्रह्मणः जगत्कारणत्वं निमित्तत्वेनोपादानत्वेन वा इति सन्देहे “अन्वयव्यतिरेकाभ्यां lxiv
यः स्यात्सर्वत्र सर्वदा'' इत्यादि श्रीमद्भागवतवाक्यान्निर्णयः। एवं चतुर्णां प्रस्थानानामेक- वाक्यत्वम्। अत्राचार्यैः समग्रस्य वेदस्योभयकाण्डात्मकस्य प्रामाण्यं स्वीकृतम् न तु 'वेदान्तो नाम उपनिषत्प्रमाणम्' इतिवत् केवलस्य उपनिषद् भागस्येति ज्ञेयम्। "वेदस्याक्षरमात्रस्यान्यथा कल्पनेऽपि दोषः स्यात्" इत्याचार्याः। तथा च — वेदोक्तादणुमात्रेऽपि विपरीतं तु यद्भवेत्। तादृशं वा स्वतन्त्रं च उभयं मूलतो मृषा॥ (अ. भा. का.) तथा च — यज्ञरूपो हरिः पूर्वकाण्डे ब्रह्मतनुः परे। अवतारी हरिः कृष्णः श्रीभागवत ईर्यते॥ (शा.प्र. ११) अग्निहोत्रं तथा दर्शपूर्णमासः पशुस्तथा। चातुर्मास्यानि सोमश्च क्रमात् पञ्चविधो हरिः॥ (तत्व. २।२) असन्दिग्धोऽपि वेदार्थः स्थूणाखननवन्मतम्। मीमांसानिर्णयः प्राज्ञे दुर्बुद्धेस्तु ततो द्वयम्॥ जैमिनिः कर्मतत्त्वज्ञो निर्णयं पूर्व उक्तवान्। व्यासः स्वयं हि सर्वज्ञ उत्तरे निर्णयं जगौ॥ (तत्व. २।२९-३०) पुराणविषये आचार्याणां श्रद्धा — पुराणं वेदवत् पूर्वसिद्धं सर्वोपयोगि तत्' (तत्व. २।४८) महाभारतविषये — "सर्वनिर्द्धारणार्थाय व्यासो भारतमुक्तवान्" (तत्व. २।५७) ज्योतिषविषये — "दर्शादिकालनिर्द्धारो ज्योतिः शास्त्रफलं स्मृतम्" (तत्व. २।७५) व्याकरणविषये — "व्याकृतिः पाणिनीयं हि प्रातिशाख्यं तु शब्दगम्" (तत्व. २।७७) lxv
आयुर्वेदादिविषये — "आरोग्ये धर्मसिद्धिः स्याद्रक्षा च धनुषो भवेत् उद्वेगहानिर्गान्धर्वे स्थापत्यं च गृहादिषु । काव्यादीनामसत्यत्वान्नोपयोगः कथञ्चन । धर्मे कर्तुः क्वचित् कीर्त्तिर्नैपुण्यं पाठतः क्वचित् । (तत्व. २।७९-८०) रामायणविषये — "रामायणमनन्तं हि पुराणमिव सन्मतम् व्यासः पूर्वमनेकोक्तो वाल्मीकिः साम्प्रतं किल । समाधिभाषया प्राह प्रमाणं सर्वथैव तत् । (सर्व.प्र. ८१) एवं सर्वशास्त्राणां विषये श्रीवल्लभाचार्याणां मतमुपरि संक्षेपेण स्पष्टीकृतम् । संन्यासविषये—कलिदोषात्कर्ममार्गे ज्ञानमार्गे च संन्यासो न कर्त्तव्यः, किन्तु पश्चात्तापनिवृत्यर्थं भक्तिमार्गे कर्तव्यः। भगवद्विरहानुभवैकार्थः परित्यागः प्रशस्यते । इत्यादिकं सर्वं आचार्यैः स्वकृतसन्यासनिर्णयग्रन्थे विस्तरेण विवृतम् । एवं कर्मज्ञानमार्गापेक्षया भक्तिमार्गे आचार्याणां समादरः विशेषः सिद्ध्यति । भाष्येऽस्मिन् आचार्याणां मायावादि खण्डने अतीव निर्बन्धः। बौद्धमतखण्डनप्रसङ्गेऽपि मायावादिखण्डनं निर्दिश्यते । ब्रह्मसूत्रे अन्ये आचार्याः (१) "अथातो ब्रह्मजिज्ञासा" (२) "जन्माद्यस्य यतः" (३) "शास्त्रयोनित्वात्" (४) "तत्तु समन्वयात्" इति सूत्रचतुष्टयात्मिकां चतुःसूत्रीं स्वीकुर्वन्ति । तथाहि श्रीवल्लभाचार्याः (१) अथातो ब्रह्मजिज्ञासा (२) जन्माद्यस्य यतः शास्त्रयोनित्वात् (३) तत्तु समन्वयात् इति सूत्रत्रयात्मिकां त्रिसूत्रीं स्वीकुर्वन्ति । श्रीवल्लभाचार्याणां मते 'जन्माद्यस्य यतः शास्त्रयोनित्वात्' इत्यभिन्नमेव सूत्रं वर्तते । इदमणुभाष्यम् तृतीयाध्यायद्वितीयपादस्य चतुःत्रिंशत् (३४) सूत्रतः प्राक् श्रीमद्वल्लभाचार्य- रचितम् । तदनन्तरं श्रीविठ्ठलनाथानां कृतिः। प्राक्तनभाष्येऽपि 'आनन्दमयाधिकरणे' द्वितीयवर्णकं श्रीविठ्ठलेशरचितमेव । इत्यत्र भाष्यप्रकाशरचयितॄणां श्रीपुरुषोत्तमानामुक्तिरेव प्रमाणम् । तथा हि—"इत आरभ्य प्रभूणामिति (श्रीविठ्ठलेशानाम्) प्रतिभाति" इति "स्थानविशेषा- त्प्रकाशादिवत्" (ब्र.सू. ३।२।३४) इति सूत्रभाष्यप्रकाशेऽल्लिखितम् । तथा च "साम्प्रतं तु प्रभुचरणैः" इत्यानन्दमयाधिकरणे । तथाहि—चतुर्थाध्यायसमाप्ति श्लोके — "भाष्यपुष्पाञ्जलिः श्रीमदाचार्यचरणाम्बुजे । निवेदितस्तेन तुष्टा भवन्तु मयि ते सदा ।। इत्यत्र भाष्यप्रकाशे श्रीपुरुषोत्तमाः—"गुणोपसंहारपादमारभ्य सार्द्धाध्यायस्य स्वयं करणात्तदा
श्रीवल्लभाचार्यचरणयोः समर्पितमिति । अत्र केचिद्विद्वांसः सम्पूर्णं भाष्यमाचार्यकृतमेवेति मन्यन्ते । तत्र श्रीमदाचार्यचरणाम्बुजमित्यस्यार्थो व्यासाचार्यचरणाम्बुजमिति ग्राह्यम् । “व्यासोऽस्माकं गुरुः” इत्याचार्यवाक्यात् । एवमेवान्यत्रापि समादधते । अन्यच्च श्रीमदाचार्याणामन्यदेकं बृहद्भाष्यमस्ति तन्मध्यस्थोऽनतिविस्तृतो भागोऽधुना नोपलभ्यते तस्यैव भाष्यस्य संक्षेपभूतमिदं भाष्यमित्यपि केचिद् वदन्ति । वस्तुतस्तु श्रीपुरुषोत्तमचरणैः प्रकाशे यदुक्तं तदेवास्त्यविचिकित्सितमिति । या या कृतिः श्रीवल्लभाचार्याणामस्ति तत्र तत्र श्रीपुरुषोत्तमानां टीकादिकमपि वर्तते । यत्र यत्र पुरुषोत्तमानां टीकादिकं किमपि नास्ति सा कृतिः श्रीवल्लभाचार्याणामस्ति नवेति सन्दिग्धोऽर्थः। भाष्येऽस्मिन् चत्वारः अध्यायाः। ते च क्रमशः स्वरूपमतान्तरनिराससाधन- फलप्रतिपादकाः। तत्रापि प्रत्येकाध्याये पादचतुष्टयम् । अत्र प्रथमाध्याये ब्रह्मस्वरूपबोधक- वेदान्तवाक्यानां विचारः। तत्रापि प्रथमपादे—कार्यप्रतिपादकानि वाक्यानि, द्वितीयपादे— अन्तर्यामिप्रतिपादकानि वाक्यानि, तृतीयपादे—उपास्यरूपप्रतिपादकानि वाक्यानि, तथा चतुर्थपादे—प्रकीर्णानि वाक्यानीति । इत्येवं प्रथमाध्यायपदार्थसंग्रहः। द्वितीयाध्याये मतान्तरनिराकरणम् । विना मतान्तरनिराकरणेन साधनफलयोरनुपयो- गादिति । तत्रपि द्वितीयाध्यायस्य प्रथमपादे—श्रुतिस्मृत्योः अविरोधः प्रदर्श्यते । द्वितीयपादे— न्यायमायावादादिमतानां निराकरणम् । तृतीयपादे श्रुतिवाक्ययोः परस्परविरोधपरिहारः। चतुर्थपादे—जीवशरीरमध्यवर्त्तिप्राणादीनां विचारः। इति द्वितीयाध्यायपदार्थसंग्रहः । तृतीयाध्यायः साधनाध्यायः। तत्र प्रथमपादे—जीवस्य ब्रह्मज्ञानोपयोगिजन्मविचारः। द्वितीयपादे—जीवस्य मुक्तियोग्यता, अत्रैव विरोधपरिहारेण ब्रह्मस्वरूपनिरूपणञ्चेति । तृतीयपादे—गुणोपसंहारः। चतुर्थपादे—कर्माङ्गविचारः। इति तृतीयाध्यायपदार्थसंग्रहः । चतुर्थोऽध्यायः फलाध्यायः। तत्र प्रथमपादे—श्रवणादेर्विचारः। द्वितीयपादे— सर्वेन्द्रियलयादि विचारः। तृतीयपादे—क्रममुक्तिमार्गादिनिरूपणम् । चतुर्थपादे—पुष्टिमर्यादाभेदेन फलस्य लीलानित्य-त्वादिकस्य च निरूपणम् । अथ प्रतिपदमधिकरणानि वर्ण्यन्ते — तत्र प्रथमाध्यायस्य प्रथमपादे दशसंख्यात्मकान्यधिकरणानि । तत्र प्रथमाध्यायस्य द्वितीयपादे अष्टसंख्यात्मकान्यधिकरणानि । तत्र प्रथमाध्यायस्य तृतीयपादे त्रयोदशसंख्यात्मकान्यधिकरणानि । तत्र प्रथमाध्यायस्य चतुर्थपादे नवसंख्यात्मकान्यधिकरणानि । द्वितीयाध्यायस्य प्रथमपादे द्वादशसंख्यात्मकान्यधिकरणानि । द्वितीयाध्यायस्य द्वितीयपादे अष्टसंख्यात्मकान्यधिकरणानि । द्वितीयाध्यायस्य तृतीयपादे षोडशसंख्यात्मकान्यधिकरणानि । द्वितीयाध्यायस्य चतुर्थपादे दशसंख्यात्मकान्यधिकरणानि । तृतीयाध्यायस्य प्रथमपादे अष्टसंख्यात्मकान्यधिकरणानि । तृतीयाध्यायस्य द्वितीयपादे एकादशसंख्यात्मकान्यधिकरणानि । lxvii
तृतीयाध्यायस्य तृतीयपादे चतुर्विंशतिसंख्यात्मकान्यधिकरणानि । तृतीयाध्यायस्य चतुर्थपादे नवसंख्यात्मकान्यधिकरणानि । चतुर्थाध्यायस्य प्रथमपादे सप्तसंख्यात्मकान्यधिकरणानि । चतुर्थाध्यायस्य द्वितीयपादे षष्ठसंख्यात्मकान्यधिकरणानि । चतुर्थाध्यायस्य तृतीयपादे पञ्चसंख्यात्मकान्यधिकरणानि । चतुर्थाध्यायस्य चतुर्थपादे पञ्चसंख्यात्मकान्यधिकरणानि । इत्येवमतिसंक्षेपेण भाष्यपदार्थसंग्रहः प्रतिपादमधिकरणानि च वर्णितानि । ।। श्रीमद्वल्लभाचार्याणां संक्षिप्तचरितम् ।। दक्षिणप्रदेशे तैलङ्गदेशे 'कांकरवाड' नाम्निग्रामे दीक्षितसंज्ञासंज्ञितकृष्णयजुर्वेदीय- तैत्तिरीयशाखिनां प्रथितं कुलमासीत् । तस्मिन्कुले सर्वे कुलपुरुषाः सोमयाजिनः बभूवुः। अस्य कुलस्य मूलपुरुषाः श्रीनारायणयज्ञाः। अस्मिन्नेव कुले श्रीलक्ष्मणभट्टाः प्रादुर्बभूवुः। ते स्वपत्न्या सह एकवारं काशीयात्रार्थमगच्छन् । तदैव मार्गमध्ये मध्यप्रदेशे चम्पारण्यस्थले तत्पत्न्याः इल्लमगारोः कुक्षौ । (वि.सं. १५३५) वैशाखकृष्णैकादश्यां श्रीवल्लभाचार्याणां प्राकट्यमभवत् । तदा भवतां पितृचरणाः श्रीलक्ष्मणभट्टाः भार्यापुत्राभ्यां सह द्वादशवर्षाणि यावत् काश्यामवसन् । तदा काश्यामेव श्रीवल्लभाचार्याणां यज्ञोपवीतादयः संस्काराः अभवन् । श्रीवल्लभः निखिलान् वेदान् सर्वशास्त्राणि च झटिति अधीतवान् । ततः स्वदेशमागतास्ते त्रयः। ततः श्रीलक्ष्मणभट्टाः दिवं याताः। ततः पुनः श्रीवल्लभाचार्याः तीर्थयात्रार्थं प्रस्थिताः। तदा तीर्थयात्रायां श्रीवल्लभाचार्याणां बहुभिर्विद्वद्भिः सह शास्त्रचर्चा जाता यत्र विद्वांसः पराजिताः । आचार्याः त्रिवारं पृथ्वीपरिक्रमां विधाय स्वसिद्धान्तप्रचारं कृतवन्तः तत्रैव विजयनगरे श्रीकृष्णदेवरायनृपतेः राजसभायां सर्वान् वादीन् पराजित्य विधिवत् 'शुद्धाद्वैतब्रह्मवादनिर्गुणपुष्टिमार्गाभिधं स्वसिद्धान्तं संस्थापितवन्तः । तत्र यात्रा मध्य एव श्रीगोवर्धनपर्वते श्रीनाथजीत्यपरपर्यायः परब्रह्म भगवान् श्रीकृष्णः श्रीवल्लभाचार्यसन्निधौ स्वेच्छया स्वयं प्रादुर्भूयात्मानं दर्शयामास । स्वसेवाकरणार्थमाज्ञाप- यच्च । स एव पुष्टिमार्गः श्रीवल्लभाचार्यैः प्रवर्तितः। तत्रैव तीर्थयात्राप्रसङ्गे श्रीवल्लभाचार्यचरणाः भगवतः पाण्डुरंगविठ्ठलनाथस्याज्ञया काश्यां च स्वमातुरनुमत्या च स्वजातीय मधुमंगलनामक- तैलङ्गविद्वान्ब्राह्मणस्य सुयोग्यकन्यया सह विधिपूर्वकं विवाहं चक्रुः । तत्र श्रीगोपीनाथ- विठ्ठलनाथाख्यौ द्वौ सुतौ यथाक्रमं (वि.सं. १५६८ आश्वि. कृ. १२ तथा वि.सं. १५७२ मि.पौ.कृ. ९) जन्म लेभाते । एवमाश्रमत्रयं प्रोत्तीर्य सर्वशास्त्रसम्मतं त्रिदण्डसंन्यासं परिगृह्य काश्यां हनुमानघाटेति प्रसिद्धस्थले वि.सं. १५८७ मि. आषा.शु. २ रविवासरे मध्यान्ह काले सुरसरित्प्रवाहे आत्मानं प्रवेशयामासुः। एवमासुराणां व्यामोहनार्थं स्वशरीरत्यागं कृतवन्तः। वस्तुतस्तु ते साक्षाद्भगवद्धाम प्रापुः । जगद्गुरुश्रीवल्लभाचार्यविरचिताः अनेके ग्रन्थाः सन्ति । ते च बृहद्ग्रन्थलघुग्रन्थभेदेन द्विविधाः। तत्र बृहद् ग्रन्थाः - (१) ब्रह्मसूत्राणुभाष्यम् । (२) तत्त्वदीपनिबन्धः। (३)
निबन्धप्रकाशः। (४) श्रीमद्भागवतसुबोधिनी। (५) पूर्वमीमांसाभाष्यम्। (६) गायत्रीभाष्यम् इत्यादयः । लघु ग्रन्थाः - (१) श्रीयमुनाष्टकम्। (२) बालबोधः। (३) सिद्धान्तमुक्तावली। (४) पुष्टिप्रवाहमर्यादाभेदः। (५) सिद्धान्तरहस्यम्। (६) नवरत्नम्। (७) अन्तःकरणप्रबोधः। (८) विवेकधैर्याश्रयः। (९) कृष्णाश्रयः। (१०) चतुःश्लोकी। (११) भक्तिवर्द्धिनी। (१२) जलभेदः। (१३) पञ्चपद्यानि। (१४) संन्यासनिर्णयः। (१५) निरोधलक्षणम्। (१६) सेवाफलम्। तथा च = पुरुषोत्तमसहस्रनाम। परिवृढाष्टकम्। पत्रावलम्बनम्। त्रिविधनामावली। शिक्षाश्लोका इत्यादयः । श्रीमद्वल्लभाचार्यविरचितं श्रीमद्भगवद्गीताभाष्यमनुपलब्धम्। कालवशाद्वा कस्माच्चि- त्कारणल्लुप्तमिति मन्यन्ते ऐतिहासज्ञाः । श्रीमद्वल्लभाचार्याणां प्रथमपुत्राः श्रीगोपीनाथाः। तेषामेक एव सुतः श्रीपुरुषोत्तमाः। तदग्रे वंशविस्तारो नास्ति। आचार्याणां द्वितीयसुताः श्रीविठ्ठलेशाः। एतेषां ग्रन्था :- अणुभाष्योत्तरार्धः। विद्वन्म- ण्डनम्। शृङ्गाररसमण्डनम्। सुबोधिनी टिप्पणी। भक्तिहंसः। भक्तिहेतुनिर्णयः। इत्यादयः। एतेषां सप्तसुताः। ते च क्रमशः श्रीगिरिधराः, श्रीगोविन्दरायाः, श्रीबालकृष्णाः, श्रीगोकुलनाथाः, श्रीरघुनाथाः, श्रीयदुनाथाः श्रीघनश्यामाश्च। श्रीमद्विट्ठलेश्वर तृतीय सूनु श्रीबालकृष्णातः पुरुषगणनया चतुर्थवंशयश्रीपीताम्बर- गोस्वामिनामात्मजाः श्रीपुरुषोत्तमचरणाः दशदिगन्तविजयिनः स्वपितृव्याणां श्रीश्यामसुत- व्रजरायजीमहाराजानामुत्सङ्गे गताः। एतेषां श्रीपुरुषोत्तमचरणानां जन्म वि.सं. १७२४ मि.भा.शु. ११ अभूत्। एषां टीकाग्रन्थेषु सर्वश्रेष्ठः अणुभाष्यप्रकाशाभिधनिबन्धः। एषः निबन्धः अद्वितीयः । श्रीपुरुषोत्तमचरणसदृशाः विद्वांसः सुदुर्लभाः। एतद्विरचिताः ग्रन्थाः। नवलक्षश्लोकपरिमिताः सन्ति। तत्र केचित्कथयन्ति यन्नवलक्षसंख्यकाः ग्रन्थाः सन्ति। किन्त्वधुना तेषु अधिकग्रन्थाः लुप्ताः । श्रीपुरुषोत्तमचरणरचितेषु ग्रन्थेषुसुबोधिनीप्रकाशः, उपनिषद्दीपिका, आवरणभङ्गः, प्रस्थानरत्नाकरः, सुवर्णसूत्रम्, षोडशग्रन्थविवृतिः, वादावलिः इत्यादयः बहवो ग्रन्थाः पाण्डित्यपूर्णतया निबद्धाः एतेषां विषये साम्प्रदायिकौ श्लोकौ प्रसिद्धौ - श्रीमद्वल्लभदीक्षिताह्वयहरेर्वन्द्यान्वयेसप्तम- स्तत्कारुण्यसुधाभिषेकविकसत्सौभाग्यभूमोदयः । दृप्यद्दुर्मदवादिविद्विभदुकूटोक्तिकुम्भस्थली- सद्योभञ्जनकेलिकेसरपतिः पीताम्बरस्यात्मजः ॥१॥ नासीद्येन समः समस्तनिगमस्मृत्यादि तत्त्वार्थविद् वक्ता चाप्रतिमः सदःसु विदुषामद्यापि भूमौ बुधः ।
यः सर्वं नवलक्षपद्यकमितप्रौढप्रबन्धं व्यधात् स श्रीमान् पुरुषोत्तमो विजयतामाचार्यचूडामणिः ॥२॥ एवमेतेषां विस्तृतं चरित्रं 'पुरुषोत्तमदिग्विजय' द्रष्टव्यं विशेषजिज्ञासायाम् । एतादृशाः, उत्कृष्टविद्वांसः सम्प्रदायान्तरे भूतलेऽपि च विरला एवेति । अणुभाष्यप्रकाशोपरि 'रश्मि' विवृति लेखकाः श्रीयोगिगोपेश्वराः श्रीविठ्ठलेशतृतीय- सूनुवंशोद्भवाः परन्तु श्रीविठ्ठलेशद्वितीयसूनुश्रीगोविन्दरायवंशे दत्तकत्वेन समागताः विद्वद्वरेण्याः। एते प्रसिद्धा पण्डिताः। एभिः भाष्यप्रकाशोपरि रश्मिनामिका भाष्यात्मिका ग्रन्थाकारा वा टीका निरमायि, सा विद्वन्मान्या । श्रीगोपेश्वरचरणानां स्ववंशपरम्परा दत्तकवंशपरम्परा च संक्षेपेणात्र प्रदर्श्यते—श्रीमद्विठ्ठलेश्वरतृतीयसूनु श्रीबालकृष्णानां चतुर्थपुत्राः श्रीपीताम्बराः तस्यान्वये क्रमेण श्रीश्यामलजितः, तत्पुत्राः श्रीव्रजरायजितः तद्दत्तकपुत्राः श्रीपुरुषोत्तमचरणाः दशदिगन्तविजयिनः तद्दत्तकपुत्राः श्रीपुरुषोत्तमाः (गो.आ.तृ.गृ.१ से) तत्पुत्राः श्रीगोवर्धनशजितः (द्वि०) तद्दत्तकपुत्राः श्रीगोकुलोत्सवजितः (गो. आये द्वि.गृ.१.से) तत्पुत्राः श्रीयोगिगोपेश्वराः पण्डितप्रवराः रश्मिकाराः (गो.गये.द्वि.गृ.१. में विठ्ठलेशरायजी के) तत्पुत्राः श्रीकृष्णरायमहाभागाः। इति योगिगोपेश्वराणां स्ववंशावलिः। अतः परं तेषां दत्तकवंशपरम्परा—श्रीमद्विठ्ठलेश्वर द्वितीयसूनुश्रीगोविन्दरायाः तत्पुत्राः श्रीकल्याणरायाः तत्पुत्राः श्रीहरिरायाः शिक्षापत्ररचयितारः तद्दत्तकपुत्राः श्रीगिरिधरजीमहोदयाः (गो.आये.प्र.गृ.१. से.) तत्पुत्राः श्रीरघुनाथजितः तत्पुत्राः श्रीगोविन्दरायजितः (द्वि.) तत्पुत्राः श्रीविठ्ठलेशरायजितः तद्दत्तकपुत्राः श्रीयोगिगोपेश्वर महाभागाः विद्वत्प्रवराः (गो. आये. तृ.गृ.२.से. प्रा.वि.सं. १८४५ मि.ज्ये.शु. ८) इति श्रीयोगिगोपेश्वराणां दत्तकवंशपरम्परा । किं चैभिः' भक्तिमार्त्तण्डादयः अन्येऽपि ग्रन्थाः सारगर्भिताः लिखिताः। ब्रह्मसूत्रमिदं समग्रवेदान्तानां आकरग्रन्थः। ब्रह्मसूत्रेद्रं कदा निर्मितमित्यतिचिरन्तनवृत्त- त्वाद्यद्यपि निश्चयेन वक्तुं न शक्यते तथापि महर्षिबादरायणव्यासरचितत्वादस्य रचनाकालः द्वापरयुगस्यान्तिमो भागः कलिकालस्य च प्रारम्भः अतः सम्भवतः पञ्चसहस्रवर्षाणि यावत् पूर्वमस्य कालः निश्चेतुं शक्यते । ब्रह्मसूत्ररचनाकालः अतिप्राचीनः इति प्राज्ञां मतम् । आधुनिकपाश्चात्यानामतानुसारेणास्य रचनाकालः चतुः शती ई०पू० वर्तते । अस्माकमैतिह्यानुसारेण श्रीमद्भागवतप्रथमस्कन्धोपारख्यानेन ज्ञायते यच्छ्रीमद्भागवतनिर्माणतः पूर्वमेव रचितमिति । श्रीमद्भागवते भगवतः श्रीकृष्णस्य लीलावर्णनमस्ति भगवान् श्रीकृष्णस्योद्भवः किञ्चिदधिक पञ्चसहस्राब्देभ्यः पूर्वतने काले आसीदिति । अतः श्रीवेदव्यासरचित- ब्रह्मसूत्रस्यापि कालः स एवेति निश्चीयते । एवमेव श्रीमद्भगवद्गीतायामपि "ब्रह्मसूत्रपदैश्चैव" इत्यादि श्लोके ब्रह्मसूत्रस्य नामोल्लेखात्स्पष्टं निश्चीयते यत्तत्सूत्रस्य रचनाकालः श्रीभगवद्गीतातः अपि पूर्वमस्तीति । ब्रह्मसूत्रेऽस्मिन् सूत्रसंख्याऽपि विविधा तत्तद्भाष्यकारैर्निर्णिक्ता । तत्र प्रमुखमतानि — सू.सं. अधि.सं. (१) भाष्यकाराः आचार्यशङ्कराः ५५५ १९९ lxx
(२) भाष्यकाराः आचार्यरामानुजाः ५४५ १६० (३) भाष्यकाराः आचार्यमाध्वाः ३६४ २२३ (४) भाष्यकाराः आचार्यनिम्बार्काः ५४९ १६१ (५) भाष्यकाराः आचार्यवल्लभाः ५५४ १७१ एवं जगद्गुरुश्रीमदाचार्यचरणैकदर्शितः साकारब्रह्मवादापरपर्यायः “शुद्धाद्वैतब्रह्म- वादनिर्गुणपुष्टिमार्गो” नाम सन्मार्ग इत्यविचिकित्सितम् । श्रीमदाचार्यचरणैः श्रीमत्प्रभुचरणैश्च प्रदर्शितरीत्या तत्कृपयैव तत्सिद्धान्तसरणिमनुसृत्य श्रीमद्ब्रह्मसूत्राणुभाष्यस्य प्रकाशरश्मि- सहितस्योपोद्घातोऽयं मया विलिखितः । अत्र निर्मत्सराः विद्वांसः गच्छतः स्खलनन्यायेन प्राप्तामशुद्धिं संशोध्य पठन्तु, मयि चोपकुर्वन्विति । ।। धन्यवाद ज्ञापनम् ।। भगवतः श्रीयशोदोत्संगलालितस्य श्रीगोपीजनवल्लभस्य श्रीमुकुन्दप्रभोः श्रीगोपालप्रभोश्च परमानुग्रहेण परमगहनस्यास्य तत्त्वसूत्रस्याणुभाष्यप्रकाशरश्मिरूपत्रिवेणीसङ्गमस्वरूपबृहद्ग्रन्थस्य पुनः प्रकाशने प्रयतमानाः सतनूवित्तदत्तचित्ताः श्रीहरिश्चन्द्रमहोदयः, श्रीसरोजकुमारगोयलः (एतौ दिल्लीवास्तव्यौ) श्रीदेवकुमार अग्रवालमहोदयः, श्रीघनश्यामजीशाहमहोदयः (एतौ काशीवास्तव्यौ) एते सर्वे शतशः धन्यवादर्हाः। इत्यलं विस्तरेणेति ॥ lxxi
प्रस्तुत पृष्ठ पूर्णतः रिक्त (blank/white) है, इसमें कोई पाठ (text) दिखाई नहीं दे रहा है।
कृपया सही अथवा स्पष्ट पृष्ठ की छवि पुनः साझा करें।
श्रीकृष्णाय नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । शुद्धाद्वैतब्रह्मवादिनिर्गुणभक्तिमार्गप्रवर्तकाचार्यचक्रचूडामणि- श्रीमद्वल्लभाचार्यचरणप्रणीतम् । दशादिगन्तविजयिश्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणप्रणीत- भाष्यप्रकाशसंपूर्णवेत्तृश्रीमद्गोस्वामिश्रीगोपेश्वर- जिचरणप्रणीतभाष्यप्रकाशरश्मिपरिवृंहितम् । प्रथमाध्यायप्रथमपादस्यादिमसूत्रत्रयात्मकम् ( त्रिसूत्रीभाष्यम् ) ‘भगवद्धर्मपरायणस्वर्गीयगोवर्धनदास सुन्दरदास’ इत्यस्य पुष्टिमार्गीय- संस्कृतसाहित्यसमुद्धारार्थं निर्दिष्टद्रव्यसंबद्धतः ‘प्रातर्भगवत्स्म- र्त्तृमूलचन्द्र तुलसीदास तेलीवाला, बी. ए., एल्एल्. बी., वकील, हाईकोर्ट’ इत्येतेषां सुहृद्भिः संशोध्य ‘निर्णयसागर’ मुद्रणालये मुद्रयित्वा प्रकटीकृतम् । श्रीवल्लभाब्दाः ४५७. संवत् १९९२. मार्गशीर्ष कृष्ण ९. मूल्यं सपादद्वयरूपकम् ।
Printed by Ramchandra Yesu Shedge, at the 'Nirnaya Sagar' Press, 26-28, Kolbhat Lane, Bombay 2. Published by Dhirajlal Vrajdas Sanklia, B. A., LL. B., Advocate at Khakhar Building, C. P. Tank, Bombay 4.
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ प्रथमोऽध्यायः । प्रथमः पादः भाष्यप्रकाशः। ॥ श्रीकृष्णाय नमः ॥ संगीतं श्रुतिमूर्धभिस्तदविदां वागाद्यतीतं विदां रश्मिः । श्रीकृष्णाय नमः । साकारब्रह्मवादस्थापकेभ्यः श्रीमदाचार्येभ्यो नमः । उद्धर्तुं ज्ञानरहितान् मादृशान्पराधीनः । कृतश्रम इवाभासि यतस्त्वं विठ्ठलेश्वरः ॥ १ ॥ जयति जगति वाणी वेदवेदान्तयुक्ता विविधमहिमशुद्धाद्वैतविद्याकृतेऽलम् । प्रभवति खलु वादे मायिनीतीह यस्य जयति विजितमायः श्रीमदाचार्यवर्यः ॥ २ ॥ पितृचरणोदितसरणी साकारब्रह्मस्थापिकायां तु । आदिमूर्तिभजनेषु प्रतिनिधीन् विठ्ठलान् नमामि ॥ ३ ॥ गुणत्रयातीतगुणाम्बुगेहे कृष्णाश्रयाद्याः सुरवर्यवृक्षाः । तदन्तरा मूलसुखार्थसारं शाखाद्विषद शब्देसहस्रपर्णम् ॥ ४ ॥ मुक्तालिवृन्दैरभितः स्तुतं च जुष्टं रसाकाङ्क्षिशुकादिभक्तैः । दिव्यं पुराणं च सहस्रनामकल्पद्रुमं नौमि रसार्थकामी ॥ ५ ॥ श्रीवल्लभाचार्यपदान्बुजयुग्मसंशोधिताशेषविशेषबुद्धिः । वेदान्तिहृत्पद्मविकासनेऽलं भाष्यप्रकाशे वितनोमि रश्मिम् ॥ ६ ॥ विविधदुरितपाशं व्याहतीकृत्य नस्त्वं प्रवि
मिति ।"
Line 26: "सदेत्यत्राप्यन्वेति । परतरमिति । 'पुरुषाश्न परं किंचित्सा काष्ठा सा परा गतिः' इति श्रुतेः ।" Wait, "पुरुषाश्न" or "पुरुषान्न"? 'पुरुषान्न परं किंचित्' (Katha Upanishad 1.3.11: पुरुषान्न परं किञ्चित्). In print: 'पुरुषान्न' or 'पुरुषाश्न'? The letter is 'न्न' (na + na).
Line 27: "श्रीकृष्णदेवमिति । एतच्च फलाध्यायतृतीयपादे 'समान एवं चाभेदात्' इति सूत्रे उपपादितम् ।"
Line 28: "अतिधृतिरत्र जातिः । शार्दूलविक्रीडितं छन्दः । 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति"
Line 29: "तलक्षणात् । दासक्लेशहरमितिपेदेनाभिव्यज्यमानस्य भक्तनिष्ठभावस्य ग्रन्थकर्तृभावपोषणात् ।" Wait: "इतिपेदेनाभिव्यज्यमानस्य" or "इतिपदेनाभिव्यज्यमानस्य"? It has 'प' with no e-matra: "इतिपदेनाभिव्यज्यमानस्य".
Line
भाष्यप्रकाश-रश्मि-परिवृंहितम् । भाष्यप्रकाशः । वेदान्तार्थविकासकाद्भुतपदं शास्त्रं गुणैकोज्ज्वलम् ॥ २ ॥ एवं सर्वहितं चरन्नपि यदाखिद्यत्तदा नारदात् तत्रोपायमवेत्य खेदहतये दृष्ट्वा समाधौ हरिम् । श्रीमद्भागवतेन संशयमहन् भक्तिप्रचारोधत- र्तं कृष्णं मुनिमानमामि करुणं ज्ञानावतारं हरेः ॥ ३ ॥ सर्गादौ स्वमतं समस्य विधये यं ब्रह्मवादं जगौ कौन्तेयोद्धवयोः प्रकाश्य च पुनर्वेदान्तसारं हरिः । तं व्यासास्यगोचरं प्रथयितुं यैर्भाष्यमाविष्कृतं तानाचार्यवरान्नमामि करुणान् श्रीवल्लभाख्यान् प्रभून् ॥ ४ ॥ श्रीवल्लभप्रतिनिधिं तेजोरारिं दयार्णवम् । गुणातीतं गुणनिधिं श्रीगोपीनाथमाश्रये ॥ ५ ॥ श्रीविट्ठलेशपादाब्जनखचन्द्ररुचः सदा । [L