अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
संस्कृतटीका-भाषाटीकासहिता । ( ६७ ) अनन्तर पुरुष कर्म्मफलका भोक्ता नहीं होयहै । जन्म नहीं होनेमें यह श्रुति प्रमाणहै ( “नं स पुनरावर्त्तते” ) ॥ ९२ ॥ स्वप्नदेहोयथाध्यस्तस्तथैवायं हि देह- कः ॥ अध्यस्तस्य कुतोजन्म जन्मा- भावे हि तत्कुतः ॥ ९३ ॥ सं. टी. पूर्वोक्तं दृष्टांतं विवृण्वन्सकारणजन्माभावे युक्तिमाह स्वप्नेति जन्माभावे तत्प्रारब्धं कुतः स्पष्ट मन्यत् ॥ ९३ ॥ भा. टी. स्वप्नके देहकी तरह यह देह अध्यस्त ( विनष्ट ) है फिर जन्म किसप्रकार होसकै है इससे किसप्रकार प्रारब्ध अर्थात् पूर्व जन्मके कर्म्मफलको भोगसकै है । क्योंकि जब जन्महोय तौ कर्म्म भोगै जन्मही नहीं तौ कर्म्म कहां ॥ ९३ ॥ उपादानं प्रपंचस्य मृद्भांडस्येवकथ्य- ते ॥ अज्ञानं चैववेदांतैस्तस्मिन्नष्टेक्व विश्वता ॥ ९४ ॥ सं. टी. ननु देहादिप्रपंचस्य यतोवेत्यादिश्रुतेः सत्य ब्रह्मजन्यत्वात्कथंप्रातिभासिकत्वमितिचेदुच्यते उपा- दानमिति अत्र कारणं द्विविधं निमित्तोपादानभेदात् तत्र निमित्तं नामोत्पत्तिमात्रकारणं उपादानंतूत्प- त्तिस्थितिलयकारणं तत्र वेदांतैः ‘ मायां तु प्रकृतिं वि
( ६८ ) अपरोक्षानुभूतिः। द्यात् ' इत्यादिभिः प्रपंचस्योपादानमज्ञानं पठ्यते च- काराद्ब्रह्मापि अत्रायंभावःनकेवलं ब्रह्मैव जगत्कारणंनि र्विकारत्वात् नापि केवलमज्ञानं जडत्वात् तस्मादुभयं मिलित्वैव जगत्कारणंभवतीति "सत्यानृते मिथुनी- करोति " इत्यादिश्रुतेः तत्रदृष्टांतभांडस्य कटकरका- देर्मृदिव मृत्पिंडइव तत्र जलस्थाने ब्रह्म पिंडीकरण- सामर्थ्यसाम्यादज्ञानं तु मृत्तिकास्थाने आवरकत्वसा- म्यात् तत्र ब्रह्मणोऽविनाशित्वाद्ब्रह्मज्ञानेन तस्मिनज्ञा- न एव नष्टेसति विश्वता जीवजगदीश्वरात्मकजगद्भावः क्व नक्काप्यस्तीत्यर्थः ॥ ९४ ॥ भा. टी. जैसे घटके मृत्तिका और जल दो उपादान कारणहैं इसी प्रकार प्रपञ्चकेभी ब्रह्म और अज्ञान दो उपादान कारणहैं ऐसा वेदान्त शास्त्रोंके प्रमाणसे जाना जायहै और जब उपादान स्वरूप अज्ञानहीका नाश होगया तौ फिर संसार कहां और जब संसार नहीं तौ कर्म्मभोगभी नहीं ॥ ९४ ॥ यथारज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ॥ तद्वत्सत्यमविज्ञाय जगत्प- श्यति मूढधीः ॥ ९५ ॥ सं. टी. मिथुनीभावस्यैव जगत्कारणत्वं सदृष्टांतं प्रपंचयति यथारज्जुमिति ॥ ९५ ॥ भा. टी. जैसे भ्रम वशसे रज्जुमें सर्पका ज्ञान होजाय और सर्पमें रज्जुज्ञान होनेसे मूढ पुरुष सर्पको पकडलेय हैं
संस्कृतटीका-भाषाटीकासहिता । ( ६९ ), तिसी प्रकार सत्यस्वरूप ब्रह्मको नहीं जानके जगत्को सत्य- रूप मानै है और फँसरहै है ॥ ९५ ॥ रज्जुरूपेपरिज्ञाते सर्पखंडंनतिष्ठति ॥ अधिष्ठानेतथाज्ञाते प्रपंचः शून्यतां गतः ॥ ९६ ॥ सं० टी० इदानीं यदुक्तं तस्मिन्नष्टे क्वविश्वतेति तत प्रपंचयन् पूर्वोक्तं प्रारब्धाभावं सदृष्टांतमुपसंहरति सार्द्धेन रज्जुरूपइति स्पष्टम् ॥ ९६ ॥ भा० टी० जैसे रज्जुमें रज्जुका ज्ञान होनेसे सर्पज्ञाननहीं रहै है तिसी प्रकार प्रपञ्चके अधिष्ठान भूत परमात्माके ज्ञान होने पर प्रपञ्च मिथ्या मालूम होयहै ॥ ९६ ॥ देहस्यापि प्रपंचत्वात्प्रारब्धावस्थितिः कुतः ॥ अज्ञानिजनबोधार्थं प्रारब्धं वक्तिवै श्रुतिः ॥ ९७ ॥ सं० टी० किंच देहस्येति ननु जीवन्मुक्तस्य ज्ञानिनः प्रारब्धाभावेसति “ अत्र ब्रह्मसमश्नुते” इत्यादिश्रुतिः प्रारब्धं किमर्थं वक्तीति चेदुच्यते अर्द्धेन अज्ञानीति श्रुतिः अज्ञानिजनबोधार्थं प्रारब्धं वक्तीत्यर्थः ज्ञानेन सर्वव्यवहारकारणेऽज्ञाने नष्टेसति ज्ञानिनः कथंव्यवहार इत्यज्ञानिभिराशंकिते प्रारब्धादिति तद्वोधार्थमिति शेषं स्पष्टम् ॥ ९७ ॥
( ७० ) . अपरोक्षानुभूतिः । भा.टी. देहभी प्रपञ्चस्वरूपहै और प्रपञ्चके अध्यस्त होनेसे पूर्व जन्मके कर्म्म कहां यदि कहो साक्षात् श्रुति कर्म्मभोगको कहै है तहां ऐसा जानना कि जिनको तत्त्वज्ञान नहीं हुआहै अज्ञानी हैं उनके बोध न करानेके वास्ते श्रुति कहेहै॥९७॥ क्षीयंतेचास्यकर्म्माणि तस्मिन्दृष्टेपरा- वरे॥ बहुत्वंतन्निषेधार्थं श्रुत्यागीतंचय- त्स्फुटम् ॥ ९८ ॥ सं. टी. किंतर्हि ज्ञानिबोधार्थं वक्ति श्रुतिरितिचेदु- च्यते क्षीयंतइति “भिद्यते हृदयग्रंथिश्चिद्यंते सर्वसंश- याः॥ क्षीयंते चास्य कर्माणि तस्मिन्दृष्टे परावरे” इतिश्रु- त्या कर्माणीति बहुत्वं यत् स्फुटं गीतं तत्तन्निषेधार्थं प्रारब्धाभावप्रतिपादनार्थं अन्यथा संचितक्रियमाणा- पेक्षया कर्मणीति द्वित्वं गेयं तथा न गीतमतो ब्रह्मा- त्मसाक्षात्कारात् चिज्जडग्रंथिभेदेन संचितक्रियमाण- प्रारब्धाख्यत्रिविधकर्मक्षयांते परमपुरुषार्थं ज्ञानिबोधार्थं श्रुतिर्वक्तीतिभावः ॥ ९८ ॥ भा. टी. जो कर्म्म श्रुतिनें प्रतिपादन कियाहै वह सम्पूर्ण परात्पर परमात्माके दर्शन करनेसे अर्थात् तत्त्वज्ञान होनेसे नष्ट होजाता है सञ्चित, क्रियमाण, प्रारब्ध, तीन प्रकारका कर्म्म श्रुतियोंमें कहागयाहै सो कर्म्मका अभाव प्रतिपादन करनेके अर्थ बहुत्व दरसाया ॥ ९८ ॥
संस्कृतटीका-भाषाटीकासहिता । (७१) उच्यतेऽज्ञैर्बलाच्चैत्तदानर्थद्वयागमः॥ वेदांतमतहानं च यतोज्ञानमिति श्रु- तिः ॥ ९९॥ सं० टी० उक्तवैपरीत्येबाधकमाह उच्यतइति एत त्प्रारब्धमज्ञैः श्रुतितात्पर्यान्भिज्ञैर्बलादविवेकसामर्थ्या- च्चेदुच्यते यथार्थतय प्रतिपाद्यते चकारादद्वयात्मा- नं नपश्यंति तदाऽनर्थद्वयागमो दोषद्वयप्राप्तिः तत्र प्रारब्धरूपस्य द्वैतस्यांगीकारे अनिर्मोक्षप्रसंग एको दोषः मोक्षाभावे ज्ञानसंप्रदायोच्छेदरूपोद्वितीयो दोषइ तिनकेवलं दोषद्वयस्यैव प्राप्तिरपितु वेदांतमतहानंच वेदांतमतस्याद्वैतस्य हानं त्यागो भविष्यति प्रारब्ध ग्रहणरूपस्य द्वैतस्य याथार्थ्यादित्यर्थः तर्हि किंप्रति- पत्तव्यमित्यत आह यतइति यतो यस्याः सकाशात् ज्ञानंभवति तादृशी सा श्रुतिर्ग्राह्येति शेषः सा श्रुतिस्तु “ तमेवधीरोविज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ॥ नानुध्याया द्बहूञ्छब्दान् वाचोविग्लापनंहितत्” इति एतदभिप्रायः क इति चोल्लिख्यते धीरो विवेकी ब्राह्मणो ब्रह्मभावितु मिच्छुस्तमेव वेदांतप्रसिद्धमात्मानं विज्ञायाऽऽदावुपदे- शतः शास्त्रतश्च ज्ञात्वाऽनंतरंप्रज्ञां शास्त्राचार्योपदिष्टवि- षयामपरोक्षानुभवपर्यंतां जिज्ञासापरिसमाप्तिकरीं कुर्वीत बहून् कर्मोपासनाप्रतिपादकान् शब्दान् वाक्यसंदर्भा-
(७२) अपरोक्षानुभूतिः। न्नानुध्यायान्नांचिंतयेत् तर्हि तान् ब्रूयात्किनेत्याहवाचइति तद्वैतच्छास्त्रपठनं वाचोविग्लापनं विशेषणश्रमकरं हीति सर्वानुभवसिद्धमित्यलं पल्लवितेन ॥ ९९ ॥ भा. टी. यदि अनभिज्ञ अर्थात् अज्ञानी पुरुष बलात्कार करके कर्म अर्थात् प्रारब्धको स्वीकार करें तब उनको दो दोष आवेंगे एक तौ मोक्षका अभाव दूसरे मोक्ष न होनेसे ज्ञानका अभाव और इस प्रकार वेदान्त मत (अद्वैतवाद) की भी हानिहै इस हेतु प्रारब्धरूप द्वैत स्वीकार करना पड़ेगा अद्वैतवाद तौ होही नहीं सकेगा अब जिस श्रुतिसे ज्ञानलाभ होय ऐसी श्रुति कहनी होगी यदि श्रुति नहीं कहोगे तौ और कोई ज्ञानलाभका उपाय नहीं है ॥ ९९ ॥ त्रिपंचांगान्यथोवक्ष्ये पूर्वोक्तस्यहि ल- ब्धये ॥ तैश्चसर्वैः सदाकार्यं निदि- ध्यासनमेवतु ॥ १०० ॥ सं. टी. तदेवमेतावता ग्रंथसंदर्भण मुख्याधिकारिणो वैराग्यादिसाधनचतुष्टयपूर्वकं वेदांतवाक्यविचारएवप्र- त्यगभिन्नब्रह्मापरोक्षज्ञानद्वारा मुख्यं मोक्षकारणमित्य- भिहितं इदानीमसकृद्विचार्थापि बुद्धिमांद्यविषयास- क्त्यादिप्रतिबंधेनापरोक्षज्ञानं यस्य न्जायते तस्य मंदा- धिकारिणो निर्गुणब्रह्मोपासनमेव मुख्यं साधनमित्यभि-
संस्कृतटीका-भाषाटीकासहिता । ( ७३ ) प्रेत्यससाधनं ध्यानयोगं प्रतिजानत आचार्याः त्रिपं- चेति अथोशब्दोधिकारिभेदार्थः क्वचिदत इति पाठस्त- स्मिन् पक्षे यतो मंदाधिकारी विचारं न लभतेऽतो हे- तोरित्यर्थः त्रिपंच त्रिगुणितानि पंच पंचदशेत्यर्थः तत्संख्याकान्यंगानि निदिध्यासनांगिसाधकसाधनवि- शेषान् यज्ञसाधकप्रयाजादिवदित्यर्थः वक्ष्ये वक्ष्यामि तैर्वक्ष्यमाणैः सर्वैरंगैर्निदिध्यासनमेवकार्यं नतु तूष्णी- मवस्थानमुचितमित्यर्थः निदिध्यासनकर्तव्यप्रतिज्ञाप्र- योजनमाह पूर्वोक्तस्येति पूर्वोक्तस्य स्वरूपावस्थान लक्षणमोक्षस्य सिद्धय इति हीति वेदांतप्रसिद्धौ तुशब्दः पातंजलवैलक्षण्यलक्षणेन मोक्षस्य सिद्धय इति अनेना- ष्टांगप्रतिपादकं पातंजलमवैदिकत्वाद्वैशेषिकादिवदना- देयमिति ध्वनितम् ॥ १०० ॥ भा. टी. इसके अनन्तर पूर्व कहे हुए ज्ञानलाभके अर्थ १५ पन्द्रह निदिध्यासनके अङ्ग कहूँगा उन्हीं अङ्गोंके द्वारा सदा निदिध्यासन करना चाहिये ॥ १०० ॥ नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदा- त्मनः॥तस्माद्ब्रह्मनिदिध्यासेज्जिज्ञा- सुः श्रेयसेचिरम् ॥ १०१ ॥ सं. टी. मंदाधिकार्यन्यत्सर्वं कर्म सगुणोपासनविचा- ४
( ७४ ) अपरोक्षानुभूतिः । रहरूपं साधनं च विधाय श्रद्धयाचार्योक्तप्रकारेण निर्गुणं ब्रह्मैव निदिध्यासेदित्याह नित्येति स्पष्टम् ॥ १०१ ॥ भा. टी. निदिध्यासनके विना सच्चिदानन्द ब्रह्मकी प्राप्ति नहीं होयहै इसकारण ब्रह्मज्ञानके जाननेकी इच्छा करनेवाला बहुतकालतक मङ्गलके अर्थ निदिध्यासन करै ॥ १०१ ॥ यमोहिनियमस्त्यागो मौनंदेशश्चका- लता ॥ आसनं मूलबंधश्च देहसाम्यं च दृक्स्थितिः ॥ १०२ ॥ प्राणसंयमनं चैव प्रत्याहारश्च धारणा ॥ आत्म- ध्यानं समाधिश्च प्रोक्तान्यंगानि वै क्रमात् ॥ १०३ ॥ सं.टी. ननु कानि तान्यंगानि यैः सह निदिध्यासनं कर्त्तव्यमित्यपेक्षायां तानि निर्दिशति यमइति द्वाभ्याम् उत्तानाथावुभावपि श्लोकौ ॥ १०२ ॥ १०३ ॥ भा. टी. यम, नियम, त्याग, मौन, देश, काल, आसन, मूलबन्ध, देहसाम्य, दृक्स्थिति, प्राणसंयमन, प्रत्याहार, धारण, आत्मध्यान, समाधि, यह सम्पूर्ण अङ्ग क्रमसे कहे हैं ॥ १०२ ॥ १०३ ॥ सर्वं ब्रह्मेति विज्ञानादिंद्रियग्रामसंय- मः ॥ यमोयमिति संप्रोक्तोऽभ्यसनी- योमुहुर्मुहुः ॥ १०४ ॥ -
संस्कृतटीका-भाषाटीकासहिता । . ( ७५ ) सं. टी. इदानीमेतेषां प्रत्येकं निर्देशक्रमेण स्वाभि- मतानि लक्षणान्याह सर्वमित्याद्येकविंशत्या तत्र प्र- थमोद्दिष्टं यमं तावद्दर्शयति सर्वमिति सर्वमाकाशादि- देहांतं जगद्ब्रह्म बाधसामानाधिकरण्यद्वारा स्थाणुपुरुषा- दिवदित्यर्थः इति विज्ञानान्निश्चयाद्धेतोरिंद्रियाणां श्रो- त्रादीनामेकादशकरणानां ग्रामः समूहस्तस्य संयमः सम्यक् शब्दादिविषयाणां विनाशित्वसातिशयत्वदुः- खदत्वादिदोषदर्शनात् यमो विषयेभ्यो निवारणम् अयं यम इतिसंप्रोक्तः नतु केवलमहिंसादिरित्यर्थः ततश्च किमतआह अभ्यसनीय इति अयं मुहुर्मुहुरभ्यसनीय इति ॥ १०४ ॥ भा. टी. सम्पूर्ण जगत ब्रह्म है इस प्रकार निश्चय करके सम्पूर्ण इन्द्रियोंका निग्रह करना है सो 'यम' कहावै है इसका अभ्यास पुरुषको बारम्बार करनायोग्य है ॥ १०४ ॥ सजातीयप्रवाहश्च विजातीयतिरस्कृ- तिः ॥ नियमोहिपरानन्दो नियमात्क्रि- यतेबुधैः ॥ १०५ ॥ सं. टी. एवं यमंलक्षयित्वा नियमंलक्षयति सजाती- येति सजातीयं प्रत्यगभिन्नं परंब्रह्म तदेकाकारोवृत्तिप्र- वाहः सजातीयप्रवाहः यद्वा सजातीयानामसंगोहमवि- क्रियोहमित्यादिप्रत्यगभिन्नब्रह्मप्रत्ययानांप्रवाहः चपुनः
(७६) अपरोक्षानुभूतिः। विजातीयतिरस्कृतिर्विजातीयं ब्रह्मात्मविलक्षणं जग- त्पूर्वसंस्काराज्जायमाना तदाकारावृत्तिरित्यर्थः । तस्य तिरस्कृतिर्दोषस्मृत्याऽधिकोपेक्षाऽनादरइत्यर्थः अयंनिय- मइत्यर्थः। नतु केवलं शौचादिरित्यर्थः। हीत्युपनिषत्प्र- सिद्धौ। नन्वनयोरुपनिषत्प्रसिद्धया कः पुरुषार्थ इतिचे दतआह परानंदइति ततश्च किमत आह नियमादित्या- दिसुगमम् ॥ १०५ ॥ भा. टी. सजातीय प्रवाह अर्थात् मैं ब्रह्महूं इस प्रकार ज्ञानका प्रवाह और विजातीयतिरस्कृति अर्थात् ब्रह्मसे अति- रिक्त सम्पूर्ण संसार मिथ्या है इस प्रकार ज्ञानको नियम कहे हैं ॥ १०५ ॥ त्यागः प्रपंचरूपस्य चिदात्मत्वावलो- कनात् ॥ त्यागोहि महतां पूज्यःसद्यो मोक्षमयो यतः ॥ १०६ ॥ सं. टी. इदानीं तृतीयं त्यागं लक्षयति त्यागइति प्रपंचरूपस्य प्रपंचो नामरूपलक्षणो रूप्यते घटोयं पटोयमित्यदि नामरूपतो निरूप्यते व्यवह्रियते प्रकाश्यते येन तत्प्रपंचरूपं सर्वाधिष्ठानभूतं पदार्थ- स्फुरणं तस्य चिदात्मत्वावलोकनाच्चिदजडं स्वतएव प्रकाशमानं ब्रह्म तदात्मास्वरूपं यस्य तद्भावस्तस्या- वलोकनमनुसंधानं तस्माद्धेतोर्यस्त्यागः नामरूपोपे-
संस्कृतटीका-भाषाटीकासहिता । ( ७७ ) क्षा स एव त्यागस्त्यागशब्दवाच्यः "ईशावास्यमिदंस- र्व्वम्"इत्यादिश्रुतेः हीति विद्वदनुभवप्रसिद्धौ नन्वयं त्या- गो नकुत्रापि प्रसिद्ध इत्याशंक्याह महतांपूज्यइति तत्रहेतुः सद्यइति यतोयं त्यागः सद्योनुसंधानकालएव मोक्षमयः परमानंदस्वरूपावस्थानरूपः अतएवात्मत्- त्वविदामिष्टत्वादतिप्रसिद्धोयं त्यागइत्यर्थः । तस्मा- दयमेव मुमुक्षुणा कर्त्तव्यो नान्यः केवलस्वकर्मार्थ्यक- रणरूप इतिभावः एवमग्रेप्यूह्यम् ॥ १०६ ॥ भा. टी. चैतन्यस्वरूप तत्त्वको अवलोकन करके जो प्रपंचका अर्थात् घट पटादि नामसे व्यवहृत पदार्थोंका त्याग करना है सो त्याग कहावे है इसका महात्मा लोग बडा आदर करैं हैं इस कारण यह शीघ्रही मोक्षको देय है ॥ १०६ ॥ यस्माद्वाचोनिवर्तंते अप्राप्य मनसा सह ॥ यन्मौनंयोगिभिर्गम्यं तद्भवे- त्सर्वदा बुधः ॥ १०७ ॥ सं. टी. अथ मौनं लक्षयति यस्मादिति शब्दप्रवृत्ति- निमित्तजातिक्रियादेरभावात् मनोवाचामगोचरं यन्मौनं वक्तमशक्यं यद्ब्रह्म तथापि योगिभिर्गम्यं ज्ञानयोगिभिः प्रत्यगभिन्नत्वेन प्राप्यं तत्प्रसिद्धमेव ब्रह्मरूपंमौनं सर्वदा बुधो विवेकी भवेत्तदहमस्मीत्यनुसंदध्यादित्यर्थः १०७॥
( ७८ ) अपरोक्षानुभूतिः। भा. टी. जिसको वाणी और मन नहीं प्राप्त होसके हैं और योगी लोगोंको लब्धहोय है ऐसे परब्रह्मकाही नाम मौन है पण्डित जन तिस ब्रह्मका मैं ब्रह्महूं इस प्रकार अनुस- न्धान करे ॥ १०७ ॥ वाचो यस्मान्निवर्त्तंते तद्वक्तुंकेनशक्य- ते ॥ प्रपंचो यदि वक्तव्यः सोपिश- ब्दविवर्जितः ॥ १०८ ॥ इतिवातद्भवे- न्मौनं सतांसहजसंज्ञितम् ॥ गिरामौ- नंतुबालानां प्रयुक्तंब्रह्मवादिभिः ॥१०९॥ सं. टी. नन्विदं प्रत्यगभिन्नब्रह्मानुसंधानं ध्यानरूपं चतुर्दशमंगं प्रतीयते इत्याशंक्य स्वारस्यात्प्रकारांतरे- ण मौनमेव लक्षयति सार्द्धेन वाचइति अयम्भावः शब्दप्र- वृत्तिनिमित्ताभावाद्ब्रह्म यथावागविषयं तथानामरूप- जात्यादिप्रपंचोपि सदसदादिविकल्पासद्दत्वाद्वागतीतः ॥ १०८ ॥ इतीति इत्युक्तप्रकारेण ब्रह्मजगतोर्विवा- दत्यागरूपंवा तन्मौनं भवेत् केषामित्याकांक्षायां सतां चेदं प्रसिद्धमित्याह सतामिति सत्पुरुषाणां सहजस्थि- तिनाम्ना प्रसिद्धमित्यर्थः । ननु वाङ्नियमनमेव प्रसिद्धं मौनमितिचेदतआहार्द्धेन गिरेति ॥ १०९ ॥ भा. टी. जिसको वाणी नहीं प्राप्त होय उसकी वर्णना कौन करसके है अर्थात् कोई नहीं यदिः प्रपञ्चकी वर्णना
संस्कृतटीका-भाषाटीकासहिता । (७९) करी जाय तौ वहभी शब्दरहित है अर्थात् प्रपञ्चमेंभी सत् असत् नाना प्रकारके पदार्थ मालूम होय हैं इसकारण प्रपंच- काभी वर्णन नहीं होसके है । इसकोभी मौन कहे है यह मौन साधुपुरुषोंको स्वभावसिद्ध होय है ब्रह्मवादी लोग बालकके मौनको मौन कहें हैं ॥ १०८ ॥ १०९ ॥ आदावंतेच मध्ये च जनोयस्मिन्न वि- द्यते ॥ येनेदं सततं व्याप्तं सदेशोविज- नःस्मृतः ॥ ११० ॥ सं. टी. इदानीं देशंलक्षयति आदाविति अत्र जन- स्य त्रैकालिकाभाव आनुभविकः स्वप्रतीत्याज्ञेयः नतु- लौकिकशास्त्रीयप्रतीतिभ्यां विरोधादिति भावः स्पष्ट- मन्यत् ॥ ११० ॥ भा. टी. जहाँ आदि, अन्त, मध्यये कहींभी जन न होय जिस करके निरन्तर संसार व्याप्त रहै उस देशका नाम निर्जन देश है सदा जनशून्य स्थानही योगसाधनके अर्थ उपयुक्त होय है ॥ ११० ॥ कलनात्सर्वभूतानां ब्रह्मादीनां निमे- षतः ॥ कालशब्देन निर्दिष्टो ह्यखंडा- नंदअद्वयः ॥ १११ ॥ सं. टी. अथ कालं लक्षयति कलनादिति निमेष-
( ८० ) अपरोक्षानुभूतिः । तआरभ्य कलनात्सर्गस्थितिप्रलयाधारत्वादित्यर्थः शेषं स्पष्टम् ॥ १११ ॥ भा. टी. जिसके निमेषमात्रमें ब्रह्मादि सर्वभूतोंका कलन (सृष्टि, स्थिति, प्रलय, ) होयहै इस कारण अखण्ड आनन्द- स्वरूप अद्वय ब्रह्मही काल शब्द करके कहाजायहै ॥ १११ ॥ सुखेनैवभवेद्यस्मिन्नजस्रंब्रह्मचिंतनम् ॥ आसनं तद्विजानीयान्नेतरत्सुखनाश- नम् ॥ ११२ ॥ सं. टी. आसनं लक्षयति सुखेनैवेति यस्मिन्सुखे सुखरूपे ब्रह्मणि चिंतनं कर्त्तव्याकर्त्तव्यचिंता नैवभवेत् तद्ब्रह्मासनं विजानीयादित्यन्वयः कीदृशं ब्रह्म अजस्रं कालत्रयावस्थायीत्यर्थः सुगममन्यत् ॥ ११२ ॥ भा. टी. जिसमें सदा भलीप्रकार सुखसे ब्रह्म विचार होय उसको आसन कहैं हैं उससे अतिरिक्तमें ब्रह्म विचार नहीं होय है इस कारण आसनसे अन्य सुखकारक नहीं होय है किन्तु सुख नाश होयहै । सो आसन पद्म स्वस्तिकादिक जानना ॥ ११२ ॥ सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानम- व्ययम् ॥ यस्मिन् सिद्धाः समाविष्टा- स्तद्वै सिद्धासनंविदुः ॥ ११३ ॥
संस्कृतटीका-भाषाटीकासहिता । ( ८१ ) सं. टी. प्रसंगादासनविशेषं लक्षयति सिद्धमिति सिद्धंच तदासनंचाथवासिद्धानामासनं सिद्धासनमिति कर्मधारयतत्पुरुषसमासाभ्यां ब्रह्मैवेत्यर्थः ॥ ११३॥ भा. टी. जिससे सिद्धपुरुष सिद्ध कहलावें हैं और जिसमें सिद्ध पुरुष लीन रहें हैं और जो विश्वका अधिष्ठान स्वरूप अव्यय है वह सिद्धासन कहावे है ॥ ११३ ॥ यन्मूलं सर्वभूतानां यन्मूलं चित्तबंध- नम् ॥ मूलबंधः सदासेव्यो योग्योऽसौ राजयोगिनाम् ॥ ११४ ॥ सं. टी. अथ मूलबंधं लक्षयति यन्मूलमिति आ- काशादिसर्वभूतानां यन्मूलमादिकारणं ब्रह्म तथा चित्त- बंधनं चित्तस्य बंधकारणं मूलाऽज्ञानं तदपि यन्मूलं यदाश्रयं पृथक्सत्ताशून्यत्वादिति यद्वा चित्तस्य बंधनं एकत्रलक्ष्ये निग्रहस्तदपि यन्मूलं यस्य ब्रह्मणः प्राप्ति- निमित्तमित्यर्थः स मूलबंध इत्यन्वयः राजयोगिनां व्यवहारेप्यविक्षिप्तचित्ततालक्षणो राजयोगस्तद्वतां ज्ञान- परिपाकयुक्तानामित्यर्थः शेषंस्पष्टम् ॥ ११४ ॥ भा. टी. आकाशादिपञ्चभूतोंका आदि कारण और जो चित्तैकाग्र्यका मूल है सो मूलबन्ध कहावे है यह मूलबन्ध राजयोगियोंको सदा सेवन करना योग्य है ॥ ११४ ॥
(८२) अपरोक्षानुभूतिः। अंगानां समताँविद्यात्समे ब्रह्मणि ली- यते ॥ नोचेन्नैवसमानत्वमृजुत्वंशुष्क- वृक्षवत् ॥ ११५ ॥ सं. टी. इदानीं देहसाम्यं लक्षयति अंगानामिति अंगानां ब्रह्मण्यध्यस्तानां स्वभावविषमानामधिष्ठान- समत्वदृष्टया समतां विद्याज्जानीयात् चेत्समे ब्रह्मणि अंगवैषम्यमित्यत्राध्याहारः तच्चेत्रोलीयते समब्रह्मरूप- तया न तिष्ठतीत्यर्थः तर्हीत्यत्रशेषः शुष्कवृक्षवदंगाना- मृजुत्वंसरलत्वमचंचलत्वं च यत्तत्समानत्वं नैव भवेदि- तिसंबंधः अंगानां विषमस्वभावत्वादितिभावः ॥११५॥ भा. टी. सब प्राणियोंमें समदृष्टि करके जो समान ब्रह्ममें लीन होयहै सो देहसाम्य कहावे है सूखेहुए काष्ठकी तरह समान वस्तुको समता नहीं कहे हैं ॥ ११५ ॥ दृष्टिं ज्ञानमयीं कृत्वा पश्येद् ब्रह्ममयं जगत् ॥ सादृष्टिः परमोदारा न नासा- ग्रावलोकिनी ॥ ११६ ॥ सं. टी. इदानीं दृक्स्थितिं लक्षयति दृष्टिमिति ब्रह्मणिफलव्याप्यत्वाभावेपिवृत्तिव्याप्यत्वात् दृष्टिमंतः करणवृत्तिं ज्ञानमयीमखंडब्रह्माकारां कृत्वा जगत्सर्वं ब्रह्ममयं पश्येत् ब्रह्मैवेदं सर्वमित्येतावन्मात्रैववृत्तिः का- र्येति भावः । स्पष्टमन्यत् ॥ ११६ ॥
संस्कृतटीका-भाषाटीकासहिता । (८३) भा. टी. दृष्टिको ज्ञानमय करके उस दृष्टिके द्वारा ब्रह्ममय जो जगत्को देखनाहै यही दृष्टि परम उदार मङ्गलकी देनेवाली है नासाके अग्रभागमें देखनेको दृष्टि नहीं कहे हैं ॥ ११६ ॥ दृष्टिदर्शनदृश्यानां विरामो यत्रवाभ- वेत् ॥ दृष्टिस्तत्रैवकर्त्तव्या न नासाग्रा- वलोकिनी ॥ ११७ ॥ सं. टी. ननु तथापि ब्रह्मणि वृत्तिप्रवृत्तिनिमित्त- जात्याद्यभावादिंद्रियादिप्रत्यक्षविषयस्य जगतो ब्रह्म- रूपत्वेन दर्शनं कथं स्यादित्याशंक्य स्वारस्यात्पक्षां- तरेणाह दृष्टीति वा शब्दः पक्षांतरे दृष्टीत्यादिना श्रो- त्रादिसर्वत्रिपुटीनामुपलक्षणं यत्र यस्मिन् ब्रह्मस्वरूपे दृष्ट्यादिसर्वत्रिपुटीनां विरामो लयो भवेत्तत्र तस्मि- न्नेव प्रपंचातीते दृष्टिरंतःकरणवृत्तिः कर्तव्या न नासि- काग्रावलोकिनीत्यर्थः ॥ ११७ ॥ भा. टी. और जिसमें दृष्टि दर्शन दृश्यका विराम होय है उसकोभी दृष्टि कहें हैं वहीदृष्टि करना योग्य है नासाके अग्र- भागमें देखना मात्ररूप जो दृष्टि है सो योग्य नहींहै ॥११७॥ चित्तादिसर्वभावेषु ब्रह्मत्वेसर्वभावना- त् ॥ निरोधःसर्ववृत्तीनां प्राणायामःस- उच्यते ॥ ११८ ॥
( ८४ ) अपरोक्षानुभूतिः । सं. टी. अथ प्राणायामं लक्षयति चित्तादीति मनो- धीनत्वात्प्राणस्य मनोनिरोधेनैव प्राणनिरोधः नतु- प्राणनिरोधेनैव पातंजलाभिमतेन मनोनिरोधस्तदधीन- त्वाभावादिति फलितार्थः ॥ ११८ ॥ भा. टी. चित्तको आदिले सब प्रकारके पदार्थोंमें जो ब्रह्म भावना कर सब प्रकारकी इन्द्रियोंकी वृत्तियोंका जो रोकनाहै सो प्राणायाम कहावे है ॥ ११८ ॥ निषेधनं प्रपंचस्य रेचकाख्यः समीर- णः ॥ ब्रह्मैवास्मीति यावृत्तिः पूरकोवा- युरीरितः ॥ ११९ ॥ सं. टी. अमुं प्राणायामं स्वाभिमतेन रेचकादिवि- भागत्रयेण लक्षयति सार्द्धेननिषेधनमितिस्पष्टम् ११९॥ भा. टी. प्रपञ्चका निषेध अर्थात् मिथ्यात्वको रेचकनाम प्राणायाम कहे हैं एक ब्रह्मही सर्व रूपहै ऐसी जो वृत्तिहै सो पूरकनाम प्राणायाम कहावै है ॥ ११९ ॥ ततस्तद्वृत्तिनैश्चल्यं कुंभकः प्राणसं- यमः ॥ अयंचापिप्रबुद्धानामज्ञानांघ्रा- णपीडनम् ॥ १२० ॥ सं. टी. तत इति अनात्मोपेक्षाऽऽत्मानुसंधानतद्दा- र्ढ्यानि रेचकादिशब्दवाच्यानीति भावार्थः । नन्वयं त्रिविधोपि प्राणायामो न कुत्रापि श्रुत इत्यपेक्षायामा-
विषयेष्वात्मतां दृष्ट्वा मनसश्चिति म-
संस्कृतटीका-भाषाटीकासहिता । ( ८५ ) धिकारिणमाहार्द्धेन अयमिति अयमुक्तलक्षणः प्राणा- यामश्चकाराद्भेदत्रययुक्त इत्यर्थः । प्रबुद्धानां प्रकर्षेणा- संभावनादिरहितत्वेन बुद्धानामात्मबोधयुक्तानां निः- संदेहाऽपरोक्षज्ञानिनामित्यर्थः । योग्यइत्यध्याहारः त- र्ह्यज्ञानां कीदृश इत्यत आह अज्ञानामिति ॥ १२० ॥ भा. टी. अनन्तर निश्चलतासे एक ब्रह्मही सर्व स्वरूपहै ऐसा निश्चय होताहै सो कुम्भक प्राणायाम कहावे है । इस प्रकार रेचक, पूरक, कुम्भक, ज्ञानियोंके प्राणायाम होय हैं अज्ञानी पुरुष वायु रोककर नासिकाको पीड़ा देनेको प्राणा- याम कहें हैं ॥ १२० ॥ विषयेष्वात्मतां दृष्ट्वा मनसश्चिति म- ज्जनम् ॥ प्रत्याहारः स विज्ञेयोऽभ्यस- नीयो मुमुक्षुभिः ॥ १२१॥ सं. टी. इदानीं प्रत्याहारं लक्षयति विषयेष्विति । विषयेषु घटादिषु यद्वा शब्दादिषु अन्वयव्यतिरेका- भ्यामात्मतां सत्तास्फुरत्ताप्रियतामात्रतां दृष्ट्वानुसंधाय मनसोंतःकरणस्य चितिमज्जनं नामरूपक्रियानुसंधान- राहित्येन चित्स्वरूपतयावस्थानं स प्रत्याहारः ततः किमतआह अभ्यसनीयइति ॥ १२१ ॥ भा. टी. विषयोंके विषे आत्मत्वको देखकर अर्थात् सर्व जगत्को ब्रह्ममय देखकर और चैतन्यस्वरूप आत्मामें चित्तको
( ८६ ) . अपरोक्षानुभूतिः। लगानाहै सो प्रत्याहार कहावे है मोक्षकी इच्छा करने- वाले पुरुषोंको यह प्रत्याहार अवश्य अभ्यास करने योग्यहै ॥ १२१ ॥ यत्रयत्रमनो याति ब्रह्मणस्तत्रदर्शना- त् ॥ मनसो धारणं चैव धारणासापरा मता ॥ १२२ ॥ सं० टी० धारणां लक्षयति यत्रेति यत्रयत्र यस्मिन् यस्मिन् पदार्थे मनोयाति गच्छति तत्रतत्र ब्रह्मणः स- त्तादिमात्रस्य नामाद्युपेक्षया दर्शनादनुसंधानान्मन- सोधारणं ब्रह्मण्येव स्थिरीकरणं धारणेत्यर्थः । नन्वा- धारादिषट्चक्रमध्ये एकत्र मनसो धारणं धारणेति प्रसिद्धमतआह सेति साऽत्रोक्तलक्षणा धारणा परोत्कृष्टा मता तत्त्वबोधवतामित्यर्थः । अन्या तु पातंजला- भिमता प्राणायामादिवदपरेतिभावः च एवेत्यव्ययद्वयं वेदांतविद्वदनुभवप्रसिद्धिं द्योतयति ॥ १२२ ॥ भा० टी० जहांजहां मन जाय तहां तहां ब्रह्मस्वरूप दर्शन पूर्वक जो मनको निश्चल करनाहै सो सबसे उत्कृष्ट धारणा कहावे है ॥ १२२ ॥ ब्रह्मैवास्मीतिसद्वृत्त्या निरालंबतया स्थितिः ॥ ध्यानशब्देनविख्यातापर- मानंददायिनी ॥ १२३ ॥