बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
| ९८ | बौधायन-धर्मसूत्रम् | [ अभक्ष्याणि |
|---|
अनु०—गो का अपेय दूध पीने पर तीन (दिन और) रात्रि उपवास करे॥१३॥
द्वयमेतद्बुद्धिपूर्वविषयम्। अबुद्धिपूर्वे तु पूर्वस्मिन् त्रिरात्रं गव्ये तूपवासः। आह च मनुः—'शेषेषूपवसेदहः' इति ॥ १३ ॥
पर्युषितं शाकयूषमाससर्पिश्श्रुतधानागुडदधिमधुसक्तुवर्जम् ॥ १४ ॥
अनु०—शाक, यूष, मांस, घृत, भूने गये अन्न, गुड़, दही और सत्तू इन तैयार खाद्य वस्तुओं के अतिरिक्त अन्य बासी अन्न नहीं खाना चाहिए ॥ १४ ॥
टि०—पर्युषित का अर्थ है उषःकालान्तरित; उषाकाल से पहले का, रात्रि का, बासी।
पर्युषितमुषःकालान्तरितम्। शाकयूषादिवर्जं पक्वं पर्युषितमभक्ष्यमिति सम्बन्धः ॥ १४ ॥
'शुक्तानि ॥ १५ ॥
अनु०—खट्टी बनी हुई खाद्य वस्तुएं अभक्ष्य होती हैं ॥ १५ ॥
टि०—दधि खट्टा होने पर भी भक्ष्य होता है।
शुक्तानि च दधिवर्जम्। आह च मनुः—
दधि भक्ष्यं तु शुक्तेषु सर्वं च दधिसम्भवम् ।
यानि चैवाऽभिषूयन्ते पुष्पमूलफलैश्शुभैः ॥ इति ॥ १५ ॥
तथाजातो गुडः ॥ १६ ॥
अनु०—इसी प्रकार खट्टा हुआ गुड़ अभक्ष्य होता है ॥ १६ ॥
टि०—'भक्ष्य अभक्ष्य' का निर्देश करके भोजन की शुद्धि का नियम बताया गया है; भोजन की शुद्धि से ही सत्त्व अर्थात् आत्मा की शुद्धि होती है। आत्मा की शुद्धि से स्थिर स्मृति उत्पन्न होती है और उससे वेदाध्ययन का अधिकार होता है—गोविन्द। इसी प्रसंग में अगला सूत्र है।
सथाजातश्शुक्तत्वेन जात इत्यर्थः। गुडस्य पृथक्करणं अपक्वस्याऽपीक्षुरसस्य शुक्तस्य प्रतिषेधार्थम् ॥ १६ ॥
अभक्ष्याभक्ष्यप्रकरणेनाऽऽहारशुद्धिरुक्ता। तच्छुद्धौ हिं² सत्त्वशुद्धिर्भवति। सत्त्वशुद्धौ च ध्रुवा स्मृतिर्जायते। अतश्चाऽध्ययनेऽधिकार इत्यत आह—
१. शुक्तानि तथाजातो गुडः, इत्येकसूत्रतया चकारवर्जं पठितं मूलपुस्तकेषु ।
२. आहारशुद्धौ सत्वशुद्धिः। सत्वशुद्धौ ध्रुवा स्मृतिः, इति स्मरणात् ।
त्रयोदशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः ३९
श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्य तैष्यां माघ्यां वोत्सृजे- युरुत्सृजेयुः ॥ १७ ॥
**अनु०—**श्रावण या आषाढ मास की पौर्णमासी को वेदाध्ययन आरम्भ करने की उपाकर्म क्रिया कर तिष्य नक्षत्र से युक्त पौर्णमासी को या माघ की पौर्णमासी को वेदाध्ययन का उत्सर्ग करे ॥ १७ ॥
इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने दशमः खण्डः ॥ १२ ॥
श्रवणेन नक्षत्रेण श्रविष्ठया वा युक्ता पौर्णमासी श्रावणी । श्रावणशब्दोऽत्र नक्षत्रद्वयप्रदर्शनार्थः । तथाऽऽह —
चित्रादितारकाद्वन्द्वैः पूर्णपर्वेन्दुसङ्गतः । मासाश्चैत्रादिका ज्ञेयाः त्रिद्विषष्ठान्त्यसप्तमैः ॥
इति । एवमेव द्वादश पौर्णमास्यो द्रष्टव्याः । उपाकर्मोत्सर्जनं च गृह्य ( ३. १. ) एवोक्तम् ॥ १७ ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते पञ्चमोऽध्यायः
अथ षष्ठोऽध्यायः
एवं तावत्पुरुषार्थतया शौचाधिष्ठानमुक्तम् , अथेदानीं क्रत्वर्थतयाऽऽह—
शुचिमध्वरं देवा जुषन्ते ॥ १ ॥
**अनु०—**देवता पवित्र यज्ञ को ही ग्रहण करते हैं ॥ १ ॥
अध्वर इति यज्ञनाम । ध्वरः हिंसाकर्म तत्प्रतिषेधोऽध्वरः । जुषन्ते सेवन्ते । देवग्रहणं पितॄणामप्युपलक्षणार्थम् ॥ १ ॥
किमित्येवम् ?
शुचिकामा हि देवाश्शुचयश्च ॥ २ ॥
**अनु० —**क्योंकि देवता पवित्रता चाहते हैं और स्वयं पवित्र होते हैं ॥ २ ॥
हिशब्दो हेतौ शुचिकामत्वात् शुचित्वाच्चेत्यर्थः ॥ २ ॥
¹प्रपञ्चोऽयं भूयः तत्संग्रहार्थः—
²शुची वो हव्या मरुतश्शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः । ऋतेन सत्यममृतसाप आयंश्शुचिजन्मानश्शुचयः पावका इति ॥ ३ ॥
१. पंक्तिरियं ग. पुस्तके नास्ति ।
२. ऋ. सं. ५. ४. २४. २.
| १०० | बौधायन-धर्मसूत्रम् | [ शुद्धयावश्यकता |
|---|
**अनु०—**यह इस ऋचा में कहा गया है, हे मरुतों, पवित्र तुम लोगों के लिए पवित्र हव्य है; पवित्र तुम्हारे लिए मैं पवित्र यज्ञ अर्पित करता हूँ। पवित्र यज्ञ का सेवन करने वाले, पवित्र जन्म वाले, दूसरों को पवित्र करने वाले=मरुतों या देव गणों ने ऋत द्वारा सत्य को प्राप्त किया ॥ ३ ॥
**टि०—**उपर्युक्त अर्थ गोविन्दस्वामी के अनुसार है। 'ऋतेन यज्ञेन सत्यं परं पुरुषार्थम् अमृतस्वरूपं स्वर्गापवर्गाख्यम् प्रायन् प्राप्नुयुः'—गोविन्द । ब्यूलर ने इसका अर्थ इस प्रकार किया है—'उचित प्रकार से सत्यनिष्ठ (यज्ञकर्ता) के पास आये।' यह ऋचा ऋग्वेद ७. ५६. १२ है तथा तैत्तिरीय-ब्राह्मण २.८.५.५ में भी आता है। अन्तिम वाक्य की व्याख्या सायण ने इस प्रकार की है।
ऋगेषा देवानां शुचित्वमभिवदतीति विनियते। वसिष्ठस्यार्षं त्रिष्टुप्छन्दः। मरुतो देवताः। हे मरुतः ! वो युष्माकं शुचीनां सतां हव्यान्यपि शुचीनि योग्यानि भवन्ति। तस्मात् शुचिभ्यो युष्मभ्यं शुचिमेवाऽध्वरं यज्ञं प्रहिणोमि प्रतनोमि । यस्मादेवं वयं. मरुतां कृतवन्तस्तस्मात्तेऽपि मरुतः ऋतेन यज्ञेन सत्यं परं पुरुषार्थममृतस्वरूपं स्वर्गापवर्गाख्यं आयन् प्राप्नुयुः। किंविशिष्टास्ते ? ऋतसापः शुचिजन्मानश्शुचयः पावकाश्च; ऋतसापः यज्ञसेविनः। उक्तं च 'शुचिं हिनोम्यध्वरम्' इति। शुचि जन्म येषां ते शुचिजन्मानः स्वयं शुचयः पावनहेतवश्च द्रव्याणाम् । तथा चोक्तम्—'चण्डालपतितस्पृष्टं मारुतेनैव शुध्यति' ( १, ९. ८ ) इति ॥ ३ ॥
अहतं वाससां शुचि तस्माद्यत्किञ्चेज्यासयुक्तं स्यात्सर्वं तदहतेन वाससा कुर्यात् ॥ ४ ॥
**अनु०—**नये, पहले न. धारण किये गये वस्त्रों को पहनने पर यज्ञकर्ता पवित्र रहता है, अत एव जो कुछ यज्ञिय कर्म करना हो उसे नये वस्त्र धारण कर करना चाहिए ॥ ४ ॥
अहतमनुपभुक्तं अभिनवं शुचि स्यादित्यध्याहारः । इज्या यागः यत्किञ्चिदिति वीप्सावचनात् इष्टिपशुचातुर्मास्यादीनाम् ॥ ४ ॥
'अहतेन वाससा कुर्यात्' इत्युक्तम्, तत्रानहतस्य वाससः साक्षात् करणार्थं न स्यात्, तन्निराकरणायाऽऽह—
प्रक्षालितोपवातान्यक्लिष्टानि वासांसि पत्नीयजमानाऋत्विजश्च परिदधीरन् ॥ ५ ॥
त्रयोदशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः १०१
अनु०—यजमान, उसकी पत्नी और यज्ञ कराने वाला ऋत्विज् ये सभी धोये गये, वायु से सूखे हुए तथा न फटे हुए वस्त्र पहने ॥ ५ ॥
टि०—गोविन्द स्वामी के अनुसार सूत्रस्थ ‘च’ शब्द से यज्ञक्रिया देखने वालों के लिए भी उपर्युक्त प्रकार के वस्त्र धारण करने का नियम समझना चाहिए।
तत्र संस्कारेणाऽनहतवाससोऽपि करणत्वमित्यभिप्रायः। उपवातानि शोषितानीत्यर्थः। अक्लिष्टानि अच्छिन्नानि अच्छिद्राणि वा। तानि च शुक्लानि भवन्ति, उत्तरत्र लोहितवास इति विशेषश्रवणात्। चशब्दादुपद्रष्ट्रादयोऽप्येवं-भूतानि वासांसि परिदधीरन्निति गम्यते ॥ ५ ॥
एवं प्रक्रमादूर्ध्वम् ॥ ६ ॥
अनु०—प्रक्रम ( आरम्भिक ) क्रियाओं के बाद इस प्रकार से किया जाता है ॥ ६ ॥
आपवर्गादिति शेषः। प्रक्रम उपक्रमः। उपक्रमादारभ्याऽऽपवर्गादेवंभूतै-र्वासोभिर्भवितव्यमित्यभिप्रायः ॥ ६ ॥
दीर्घसोमेषु सत्रेषु चैवम् ॥ ७ ॥
अनु०—दीर्घ सोमयज्ञों तथा सत्रों में भी इसी प्रकार किया जाता है ॥ ७ ॥
^१दीर्घसोमास्सत्राणि च प्रसिद्धानि। चशब्द एकाहाहीनोपसङ्ग्रहार्थः। एवमित्यतिदेशः। 'यत्किञ्चेन्वासंयुक्तम्' इत्यस्य विस्तरोऽयम् ॥ ७ ॥
किमेष एवोत्सर्गः ? नेत्याह—
यथा समाम्नातं च ॥ ८ ॥
अनु०—अन्य अवसरों पर उस अवसर के नियम के अनुसार अन्य प्रकार के वस्त्र धारण करने चाहिए ॥ ८ ॥
शुक्लाद्वाससोऽन्यदपि यद्यथा समाम्नातं तथा कर्तव्यमिति ॥ ८ ॥
१. उक्थ्यषोडश्यतिरात्रसंस्थाः दीर्घसोमपदवाच्याः। तासां प्रकृतिभूताग्निष्टो-मापेक्षयाऽधिककालसाध्यत्वात् । अनेकदिनसाध्याः सोमयागास्सत्राहीनपदवाच्याः। तत्र द्विरात्रप्रभृत्येकादशदिनसाध्यऋतुपर्यन्ता अहीनाः। त्रयोदशरात्रप्रभृति सहस्र-संवत्सरान्तास्सत्राणि। द्वादशरात्रस्तु सत्राहीनोभयात्मकः। तत्र सत्रे सर्वे यजमाना एव सप्तदशावरा मिलित्वा यजमानकार्यमृतृत्विक्कार्याणि च कुर्युः। अत एव तत्र दक्षि-णाऽपि नास्ति। एकाहस्तूक्तः।
| १०२ | बौधायन-धर्मसूत्रम् | [ वस्त्रशुद्धिः |
|---|
तदाह— यथैतदभिचरणीयेष्विष्टिपशुसोमेषु लोहितोष्णीषा लोहितवासस-इचत्विजः प्रचरेयुः चित्रवाससश्चित्रासङ्गाः वृषाकपाविति च ॥ ९ ॥
अनु०—जैसे आभिचारिक इष्टियों में, पशुयज्ञों तथा सोमयज्ञों में ऋत्विज् लाल रंग की पगड़ी और लाल रंग के वस्त्र धारण कर क्रियाओं का सम्पादन करे। वृषाकपि के मन्त्रों का उच्चारण करते समय अनेक रंग वाले वस्त्र तथा बहुरंगी उत्तरीय धारण करे ॥ ९ ॥
टि०—'विहिसोतोरसृक्षत' आदि ऋग्वेद १०-८६ के मन्त्र वृषाकपि द्वारा दृष्ट हैं। चित्रासङ्ग 'आसङ्ग' अर्थात् उत्तरीय। गोविन्द के अनुसार सूत्रस्थ 'च' से अन्य प्रकार की आभिचारिक क्रियाओं का भी ग्रहण होता है।
अभिचरणयेषु अभिचारसाधनेषु उष्णीषं शिरोवेष्टनं वासः परिधानं चित्रं नानावर्णं आसङ्ग उत्तरीयम्। अभिचरणीया इष्टयः—¹ 'आग्नावैष्णवमे-कादशकपालं निर्वपेदभिचरन्' इत्याद्याः। पशवः² 'ब्राह्मणस्पत्यं तूपरमालभेत' इत्याद्याः। सोमाः श्येनादयः। वृषाकपिः 'विहि सोतोरसृक्षत' इति सूक्तम्। इतिशब्दचशब्दौ 'अभिचरन् दशहोतारं जुहुयात्' इत्येवमादीनामुपसङ्ग्रहणा-र्थौ ॥ ९ ॥
अग्न्याधाने क्षौमाणि वासांसि तेषामलाभे कार्पासिकान्यौर्णानि वा भवन्ति ॥ १० ॥
अनु०—अग्न्याधान के समय (यजमान और उसकी पत्नी) रेशमी वस्त्र धारण करे, उनके न मिलने पर कपास के या ऊन के वस्त्रों का प्रयोग होता है ॥ १० ॥
पत्नीयजमानयोरेतद्विधानम् ॥ १० ॥
'अहतं वाससां शुचि' ( १. १३. ४ ) इत्युक्तम्। इदानीमुपहतान्यपि वासांस्यभ्य³नुजानन् तेषां मूत्रादिसर्गे शौचमाह—
मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां मृदाऽद्भिरिति प्रक्षालनम् ॥११॥
१. इयमाग्नावैष्णवेष्टिः 'आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्स्र्स्वतया-ज्यभागा स्यात् बार्हस्पत्यश्चरुः' इति विहिता वेदितव्या। सा च द्वितीयद्वितीये नवमानुवाके तैत्तिरीयसंहितायाम्।
२. तूपरः शृङ्गरहितः पशुः।
३. अभ्यनुज्ञातुम् ग. पु.।
त्रयोदशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः १०३
अनु०—मूत्र, मल, रक्त, रेतस् आदि अमेध्य द्रव्यों से अशुद्ध हुए वस्त्रों को मिट्टी जल आदि से धोना चाहिए ॥ ११ ॥
इतिशब्दः प्रकारवचनो गोशकृदादीन्यपि प्रदर्शयति । पुरुषार्थेषु वासस्स्वेतत् यथासम्भवं द्रष्टव्यम् ॥ ११ ॥
वासोवत्तार्प्यवृकलानाम् ॥ १२ ॥
अनु०—तृपा नाम के वृक्ष की छाल से तथा वृकल से बने वस्त्रों का (अपवित्र होने पर) मिट्टी जल आदि से प्रक्षालन करे ॥ १२ ॥
तृपानाम वृक्षास्स्रन्ति तेषां त्वचा निर्मितमाच्छादनं तार्प्यमित्युच्यते । वृकलाश्शककाः (वृक्षविशेषाः) । एतेषामपि मृदाऽद्भिरिति प्रक्षालनम् ॥ १२ ॥
वल्कलवत्कृष्णाजिनानाम् ॥ १३ ॥
अनु०—काले मृगचर्म की शुद्धि वल्कल वस्त्र के समान होती है ॥ १३ ॥
वल्कलशब्देनाऽप्याच्छादनविशेष उच्यते, 'चीरवल्कलधारिणाम्' इत्येवमादिषु दर्शनात् । तद्वत्कृष्णाजिनानामपि यथाशौचं वेदितव्यम् । ननु वल्कलानां शौचं नोक्तम्, अतः कथं तद्वदित्यतिदेशः ? उच्यते—इदं 'वल्कलवत्कृष्णाजिनानाम्' इत्युपमिते सति कृष्णाजिनवद्वल्कलानामित्ययमर्थ उपमानोक्त्याऽत्र विधित्सितः । अत एव तद्वदिति वतिप्रत्ययस्य षष्ठ्या सह व्यत्ययः कृष्णाजिनवद्वल्कलानामिति । 'यथा 'सह शाखया प्रस्तरं प्रहरति' इत्यत्र द्वितीयातृतीययोः । एवं च वल्कलानामपि बिल्वतण्डुलैरेव शुद्धिः ॥ १३ ॥
इदं चाऽन्यत्—
न परिहितमधिरूढमप्रक्षालितं प्रावरणम् ॥ १४ ॥
अनु०—उस उत्तरीय को जिसे कटि के नीचे पहना गया हो या जिसके ऊपर सोया या लेटा गया हो, बिना धोए ऊपर न ओढे ॥ १४ ॥
भवेदिति शेषः । परिहितं कौपीनप्रदेशे । अधिरूढं तल्पास्तरणार्थे । एतदुभयमप्रक्षालितं प्रावरणमुत्तरीयं न कुर्यात् ॥ १४ ॥
१. दर्शपूर्णमासयोर्वेद्यां हविरासादनार्थमास्तरितस्य प्रस्तराख्यस्य दर्भमुष्टिविशेषस्य कर्मान्तेऽग्निप्रक्षेपणरूपं प्रहरणं विहितं 'सूक्तवाकेन प्रस्तरं प्रहरती'ति । तेन प्राप्तेप्रहरणे 'प्रस्तरेण सह साहित्यं शाखाया विधीयते'—सह शाखया प्रस्तरं प्रहरति इति । तत्र प्रस्तरेण सह शाखां प्रहरेत् इति वक्तव्ये शाखया सह प्रस्तरं प्रहरतीति यथोक्तं तद्वदित्यर्थः । शाखा वत्सापाकरणोपयुक्ता पलाशशाखा ।
| १०४ | बौधायन-धर्मसूत्रम् | [ द्रव्यशुद्धिः |
|---|
नाऽपल्पूलितं मनुष्यसंयुक्तं देवत्रा युञ्ज्यात् ॥ १५ ॥
अनु०— देवता के कार्य में मनुष्य द्वारा काम में लायी गयी वस्तु को शिला के ऊपर हाथ से पीटे बिना प्रयुक्त न करे ॥ १५ ॥
पल्पूलितं हस्तेन शिलायां ताडितम् । अपल्पूलितमनेवंभूतं वासश्चर्मादि मनुष्यैरुपयुक्तं देवत्रा देवेषु न कुर्यात् । देवतार्थेषु कर्मस्विति यावत्¹। यथाऽधिषवणचर्मादि । तन्न ह्नाहतं चर्म इत्यवचनात् मनुष्यैरुपयुक्तमपि पल्पूलितं चेदुपस्तार्यमित्येव ॥ १५ ॥
अधुना देशशुद्धिमाह—
घनाया भूमेरुपघात उपलेपनम् ॥ १६ ॥
अनु०— कठोर भूमि के दूषित होने पर उसको (गोबर से) लीपने पर शुद्धि हो जाती है ॥ १६ ॥
महावेदिनिर्माणावस्थायामिति शेषः । तत्र हि 'वेदिकारा वेदिं कल्पयन्ते' इति शौचं नोक्तम् । शिलातलतया घनायाः मूत्राद्युपघाते गोमयेनोपलेपनं शौचम् ॥ १६ ॥
सुषिरायाः कर्षणम् ॥ १७ ॥
अनु०— भुरभुरी मिट्टी वाली भूमि के अशुद्ध होने पर उसको जोतने से शुद्धि होती है ॥ १७ ॥
तस्मिन्नेव विषये सुषिरायाः सच्छिद्राया मृद्व्या उपघाते कर्षणाच्छुद्धिः॥१७॥
क्लिन्नायाः मेध्यमाहृत्य प्रच्छादनम् ॥ १८ ॥
अनु०— अपवित्र गीली मिट्टी की शुद्ध मिट्टी लाकर उससे प्रच्छादन करने पर शुद्धि होती है ॥ १८ ॥
क्लिन्ना आर्द्रा। तस्या उपघाते तृणादिना मृदा च प्रच्छादनं कार्यम् । किमर्थम् ? दग्धुम् । एवं हि कृते² सत्यादौ भूसंस्कारो भवति ॥ १८ ॥
चतुर्भिश्शुद्ध्यते भूमियोंमिराक्रमणात्खनाद्दहनादभिवर्षणाच्च ॥ १६ ॥
१. सोमलतातो रसनिष्कासनमभिषवकर्म। तदर्थं कृष्णाजिने सोमलतां निक्षिप्याऽऽहन्युः चूर्णीभावाय । तच्चर्माऽधिषवणचर्मोच्यते ।
२. तस्या दाहसंस्कारो भवति ग. पु. ।
त्रयोदशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः १०५
अनु०--भूमि चार प्रकार से शुद्ध होती है-गायों के पैर पड़ने, खोदने, आग जलाने तथा वर्षा होने से ॥ १९ ॥
अत्यन्तोपहताया भूमेरेतच्छौचम् । तत्र वेदिविमानकाले सन्निकर्षविप्रक- र्षापेक्षयोपघातविशेषापेक्षया चाऽभिवर्षणादीनां व्यस्तसमस्तकल्पना ॥ १९ ॥
अथेदानौमत्यन्तोपहताया आह—
पञ्चमाच्चोपलेपनात् षष्ठात्कालात् ॥ २० ॥
अनु०--पांचवे, गाय के गोबर से लीपने से तथा छठे, समय बीतने से स्वतः भूमि की शुद्धि होती है ॥ २० ॥
उपलेपनमुक्तम् । सोमसूर्यांशुमारुतैर्या शुद्धिः सा कालात् शुद्धिः ॥ २० ॥
असंस्कृतायां भूमौ न्यस्तानां तृणानां प्रक्षालनम् ॥ २१ ॥
अनु०--( जल आदि को छिड़क कर ) शुद्ध न की गयी भूमि पर रखे गये कुशादि तृणों को धोना चाहिए ॥ २१ ॥
¹प्रोक्षणादिसंस्कारविहीनायां भूमौ न्यस्तानामत्यन्ताल्पानां तृणानां बर्हि- रादीनां प्रक्षालनं कार्यम् ॥ २१ ॥
परोक्षोपहतानामभ्युक्षणम् ॥ २२ ॥
अनु०--परोक्ष में अशुद्ध हुए कुशादि तृणों पर जल छिड़कना चाहिए ॥ २२ ॥
तृणानामेव यज्ञार्थं समुपहतानामेतत्² ॥ २२ ॥
एवं क्षुद्रसमिधाम् ॥ २३ ॥
अनु०--इसी प्रकार इन्धन के छोटे-छोटे टुकड़ों को भी इसी विधि से शुद्ध करना चाहिए ॥ २३ ॥
क्षुद्रसमिधोऽङ्गुलिपरिमितः अनिध्मा इति यावत् ॥ २३ ॥
महतां काष्ठानापमुपघाते प्रक्षाल्याऽवशोषणम् ॥ २४ ॥
अनु०—लकड़ी के बड़े टुकड़ों के दूषित होने पर उन्हें धोकर सुखाने से शुद्धि होती है ॥ २४ ॥
टि०—गोविन्द स्वामी के अनुसार यज्ञोपयोगी लकड़ी के विषय में ही यह नियम है ।
१. उपलेपादीनामन्यतमेनासंस्कृतायाम् ग. पु. । २. शूद्रोपहतानामिति ग. पु. ।
१०६ | बौधायन-धर्मसूत्रम् | [ द्रव्यशुद्धिः
याज्ञिकानामेव काष्ठानां 'अथाऽभ्यादधातीध्मं प्रणयनीम्, औदुम्बरान् महापरिधीन्' इत्येवमादावुपयोक्तव्यानां पादादिभिरुपहतानामेतत् ॥ २४ ॥
बहूनां तु प्रोक्षणम् ॥ २५ ॥
अनु०—किन्तु लकड़ी के टुकड़ों का ढेरी पर जल छिड़क देने से ही शुद्धि होती है ॥ २५ ॥
टि०--'तेषामेव मूत्राद्युपघाते त्याग एव' मूत्रादि से दूषित होने पर उनका भी त्याग कर देना चाहिए।
इध्मादिव्यतिरिक्तानां पूर्वस्मिन् विषये प्रोक्षणं तद्वद्बहुत्वे। तेषामेव मूत्राद्युपघाते त्याग एव ॥ २५ ॥
दारुमयानां पात्राणामुच्छिष्टसमन्वारब्धानांमवलेखनम् ॥ २६ ॥
अनु०—काष्ठ के पात्रों के अपवित्र व्यक्तियों द्वारा छू लिये जाने पर उनको घिसने-रगड़ने से ही शुद्धि होती है ॥ २६ ॥
जुह्वादीनामुच्छिष्टपुरुषस्पृष्टानां दार्वादीनामवलेखनं घर्षणम्। अशुचिभिः समन्वारम्भः स्पर्शः। 'चमूर्णां स्रुक्स्रुवाणां च'इति मानवमपूर्वं वेदितव्यम्॥२६॥
उच्छिष्टलेपोपहतानामवतक्षणम् ॥ २७ ॥
अनु०—यदि काष्ठपात्र उच्छिष्ट से दूषित हो गये हों तो उसे बसुला आदि से खुरचने या गढ़ने पर शुद्धि होती है ॥ २७ ॥
तेषामेवाऽस्मिन्निमित्ते अवतक्षणं वाश्यादिनाऽयस्मयेनाऽनुकर्षणं तस्मिन् कृतेऽपि तत्पात्रं यदि स्वकार्यक्षम भवति। अक्षमस्य तु श्रौतेनोपायेन त्याग एव ॥ २७ ॥
मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानामुत्सर्गः ॥ २८ ॥
अनु०—मूत्र, मल, रक्त, रेतस् आदि अमेध्य वस्तुओं से अपवित्र हुए (काष्ठ-पात्रों) का त्याग कर देना चाहिए ॥ २८ ॥
टिप्पणी—गोविन्द के अनुसार इन अमेध्य वस्तुओं से दूषित कुश, ईंधन आदि का भी त्याग कर देना चाहिए।
इध्माबर्हिरादीनामप्ययं विधिर्द्रष्टव्यः। प्रभृतिशब्देनाऽत्र निर्दिष्ठानां द्वाद-शमळानां ग्रहणं कृतम् ॥ २८ ॥
'दारुमयानाम्' इत्यादिसूत्रद्वयस्याऽपवादमुपक्रमते—
तदेतदन्यत्र निर्देशाद् ॥ २९ ॥
त्रयोदशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः १०७
अनु०—जहां कोई विशिष्ट नियम निर्दिष्ट न हो वहां इन नियमों का पालन करना चाहिए ॥ २९ ॥
तदेतदवलेखनादिविधानं निर्देशाद् अन्यत्राऽऽहृत्य विधानादृते न भवतीत्यर्थः । न्यायसिद्धेऽर्थे सूत्रारम्भः किमर्थ इति चेत्—समुच्चयशङ्कानिवृत्त्यर्थ इति ब्रूमः । कथं पुनर्विशेषविहिते सामान्यविहितस्याऽवलेखनादेः समुच्चयशङ्का ? शौचभूयस्त्वस्याऽपेक्षितत्वात् । तद्वा कथमिति चेत् ? 'शुचिमध्वरं देवा जुषन्ते' (१३.१.) इति सूत्रद्वयस्थऋग्दर्शनस्य प्रयोजकत्वादिति ॥ २९ ॥
निर्देशमिदानीमाह— 'अथैतदग्निहोत्रे घर्मोच्छिष्टे च दधिधर्मे च कुण्डपायिनामयने चोत्सर्पिणामयने च दाक्षायणयज्ञे चैडादधे च चतुश्चक्रे च ब्रह्मौदनेषु च तेषु सर्वेषु दर्भैरद्भिः प्रक्षालनम् ॥ ३० ॥
१. अग्निहोत्रे प्रधानाहुत्यनन्तरं "अपोदङ् पर्यावृत्य प्राचीनदण्डया स्रुचा भक्षयति" ( बो. श्रौ. ३६.) इत्यग्निहोत्रहवण्याैव शेषभक्षणं विहितम् । तत्राऽग्निहोत्रहवण्या उच्छिष्टसंस्पर्शेऽपि अद्भिः प्रक्षालनादेव तस्याश्शुद्धिः। नान्यत् शुद्ध्यर्थमपेक्ष्यत इत्यर्थः । परन्तु इदमग्निहोत्रहवण्या उच्छिष्टकरणं, 'अग्निहोत्रहवण्याश्च लेहोलीढापरिग्रहः' इति कलिवर्ज्यप्रकरणे उक्तत्वात् कलौ निषिद्धम् ॥
प्रवर्ये "यावन्तः प्रवर्येत्विजस्तेषूपहवमिष्ट्वा यजमान एव प्रत्यक्षं भक्षयति' (बौ श्रौ. ९. ११. ) इति विहितं घर्मभक्षणम् । तथैव प्रवर्ग्यवति सोमे "दधिघर्मं भक्षयन्ति" ( बो. घ. १७ ) इति विहितो दधिघर्मभक्षः ॥
कुण्डपायिनामयनाख्यः संवत्सरसाध्यः यज्ञविशेषः । तत्रर्त्विजामन्तरुर्वेश्रमसैर्भक्षणं विहितम् । एवमुत्सर्पिणामयनमपि सत्रविशेष एव । तत्र "अैन्द्रं सान्नाय्यं समुपहूय भक्षयन्ति" इति सान्नाय्यभक्षणं पात्रेणैव विहितम् । (बो. श्रौ. १६-२१, २२) ।
दाक्षायणयज्ञो नाम दर्शपूर्णमासविकृतिविशेषः । तत्राऽपि "अैन्द्रं सान्नाय्यं समुपहूय भक्षयन्ति" ( बौ. श्रौ १७.५१.) इति विहितम् ।
एवं ऐडादधचतुश्चक्रावपीष्टिविशेषावेव दर्शपूर्णमासविकृतिभूतौ । इमावपि बोधायनाचार्यैस्सप्तदशप्रश्ने ( १७-५२, ५३. ) विहितौ, तत्रापि पूर्ववत् भक्षणं "ऐन्द्रं सान्नाय्यं समुपहूय भक्षयन्ति" इति विहितम् । अत्र सर्वत्राऽपि पात्रयोरुच्छिष्टसंस्पर्शेऽपि अद्भिः प्रक्षालनादेव शुद्धिरित्यर्थः । दाक्षायणैडादधचतुश्चक्रशब्दाः-कर्मनामधेयानि । जैमिनिस्त्वाचार्यः दाक्षायणशब्देन दर्शयोगे आवृत्तिरूपगुणविधिमेव मनुते । कात्यायनोऽप्येवम् । आपस्तम्बबोधायनौ तु दर्शपूर्णमासतः कर्मान्तरमेवेच्छतः । अतश्च दाक्षायणेन दृष्टत्वात् दाक्षायणयज्ञः इति । एवमिडादधस्याऽयमैडादधः । चतुश्चक्रशब्दव्युत्पत्तिस्त्वाचार्येणैव "स एष चतुश्चक्रो भ्रातृव्यवतो यज्ञः" इत्या-
१०८ | बौधायन-धर्मसूत्रम् | [ द्रव्यशुद्धि
**अनु०—**उदाहरण के लिए निम्नलिखित अवसरों पर कुश और जल से धोने से ही शुद्धि बतायी गयी है। अग्निहोत्र में घर्मोच्छिष्ट, दधिघर्म, कुण्डपायिनायन, उत्सगिणामयन, दाक्षायणयज्ञ, ऐडादध, चतुश्चक्र, ब्रह्मौदन ॥ ३० ॥
**टि०—**अग्निहोत्र में आहुति के बाद हवणी से ही शेष हवि का भक्षण किया जाता है। सोमयज्ञ में दधिघर्म का भक्षण होता है। कुण्डपायिनामयन नामका वर्ष भर का विशेष सत्र होता है उसमें ऋत्विज चमस से ही भक्षण करते हैं। उत्सर्गिणामयन भी एक विशेष सत्र है इसमें पात्र से ही सान्नाय्य अन्न का भक्षण होता है। दाक्षायणयज्ञ दर्शपूर्णमास का ही एक रूप है। उसमें भी सान्नाय्य अन्न का भक्षण होता है। ऐडादध चतुश्चक्र विशेष प्रकार की इष्टियाँ तथा दर्शपूर्णमास के ही रूप हैं इनमें भी सान्नाय्य का भक्षण होता है। इस प्रकार के भक्षण के बाद चमस या यज्ञपात्र की शुद्धि कुश और जल द्वारा प्रक्षालन करने से हो जाती है। बोधायन श्रौत सूत्र, तथा आश्वलायन श्रौतसूत्र में ये विशिष्ट यज्ञ तथा इष्टियाँ वर्णित हैं।
शौचमित्यनुवर्तते । चतुश्चक्रो नाम 'इष्टकोष्ठमध्ये वसन्ते यजन्ते । तथैडादधः । अन्यत् प्रसिद्धम् । यथैतदिति निपातावुदाहरणसूचनार्थौ । तेषु कर्मस्वग्निहोत्रहवण्यादीनामुच्छिष्टसमन्वारब्धे शेषोपघाते च दर्भैरद्भिः प्रक्षालनमेव शौचं नावलेखनादि । ब्रह्मौदनेष्विति बहुवचनमाश्वमेधिकानामुपसङ्ग्रहणार्थम् । तत्र यद्यपि ब्रह्मौदनभोजनपात्रस्य सकृद्भोजने कृते पुनः क्रतौ नोपयोगः । तथाऽपि दर्भैरद्भिः प्रक्षालनं शौचम्, नेतरत्, अद्भिः प्रक्षालनमेवेत्यभिप्रायः ॥ ३० ॥
किञ्च—
सर्वेष्वेव सोमभक्षेष्वद्भिरेव मार्जालीये प्रक्षालनम् ॥ ३१ ॥
**अनु०—**सभी सोमयज्ञों में चमस आदि का मार्जालीय पर जल से ही प्रक्षालन करना चाहिए ॥ ३१ ॥
ग्रहचमससोमभक्षेषु 'मार्जालीयेऽद्भिः प्रक्षालनं न दर्भैरिति ॥ ३१ ॥
तेषामेव—
मूत्रपुरीषलोहितरेतःप्रभृत्युत्सर्गः ॥ ३२ ॥
इति बौधायनधर्मसूत्रे प्रथमप्रश्ने त्रयोदशः खण्डः ॥ १३ ॥
दिना दर्शिता तत एवाऽवगन्तव्या । अस्यैव च वसिष्ठयज्ञः, केशयज्ञः, सार्वंसेनियज्ञः इत्यपि संज्ञान्तराणि ॥ (बौ. श्रौ. १७.५४.)
१. मार्जालीयो नाम सौमिकवेदेर्दक्षिणभागेऽवस्थितः स्थानविशेषः ॥
चतुर्दशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः १०९
अनु०--मूत्र, मल, रक्त, रेतस् आदि से दूषित होने पर इन चमसों या यज्ञ पात्रों का त्याग कर देना चाहिए ॥ ३२ ॥
उपहतानामित्यध्याहारः। प्रभृतीत्यनेन श्लेष्मादिसङ्ग्रहः। ननु ग्रहचमसानामध्येवंभूतानां जुह्वादिबदुत्सर्गे प्राप्ते किमर्थं प्रयत्नः ? उच्यते—'यथाहि-सोमसंयोगाच्चमसो मध्ये उच्यते' इति दृष्टान्तबलात्। ग्रहचमसानां मूत्रादिसंसर्गेऽपि सोमसंयोग एव शुद्धिकारणमित्याशङ्कानिराकरणार्थो यत्नः ॥ ३२ ॥
प्रथमप्रश्ने चतुर्दशः खण्डः
मृन्मयानां पात्राणाम् ॥
मृन्मयानां पात्राणामुच्छिष्टसमन्वारब्धानामवकूलनम् ॥ १ ॥
अनु०—अपवित्र व्यक्तियों के स्पर्श से अशुद्ध हुए, मिट्टी के पात्रों को कुश की अग्नि में दिखाना चाहिए ॥ १ ॥
आज्यस्थाल्यादीनामुच्छिष्टसमन्वारब्धानां अवकूलनं कुशाग्निना स्पर्शः ॥ १ ॥
उच्छिष्टलेपोपहतानां पुनर्द्दहनम् ॥ २ ॥
मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानामुत्सर्गः ॥ ३ ॥
अनु०—उच्छिष्ट के लेप से युक्त पात्रों को पुनः जलाना चाहिए ॥ २ ॥
अनु०—मूत्र, पुरीष, रक्त, रेतस् आदि से दूषित हुए मिट्टी के पात्रों को फेंक दे ॥ ३ ॥
अतिरोहितमेव ॥ २-३ ॥
तैजसानां पात्राणां पूर्ववत्परिमृष्टानां प्रक्षालनम् ॥ ४ ॥
परिमार्जनद्रव्याणि गोशकृन्मृद्भस्मेति ॥ ५ ॥
अनु०—धातु के बने पात्रों के अपवित्र व्यक्तियों द्वारा छुए जाने पर रगड़ कर धोये ॥ ४ ॥
अनु०—उसको रगड़ने में प्रयुक्त की जाने वाली वस्तुएँ हैं : गाय का गोबर, मिट्टी और भस्म आदि ॥ ५ ॥
तैजसानां हिरण्मयादीनां उच्छिष्टसमन्वारब्धानां गोशकृन्मृद्भस्मभिः परिमृज्य प्रक्षालनम् ॥ ४-५ ॥
मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां पुनः करणम् ॥ ६ ॥
| ११० | बौधायन-धर्मसूत्रम् | [ द्रव्यशुद्धिः |
|---|
**अनु०—**मूत्र, मल, रक्त, रेतस् आदि से दूषित हुए धातु के बर्तनों का फिर से ढालने या बनाने पर उनकी शुद्धि होती है ॥ ६ ॥
रुक्महिरण्मयादीनां मूत्राद्युपहतानामेतत् ॥ ६ ॥
गोमूत्रे वा सप्तरात्रं परिशायनम् ॥ ७ ॥
**अनु०—**अथवा उसे सात दिन-रात गाय के मूत्र में डुबो देना चाहिए ॥ ७ ॥
अगूढार्थमिदम् ॥ ७ ॥
अस्मिन्नेव विषये—
महानद्यां चैवम् ॥ ८ ॥
**अनु०—**अथवा एक बड़ी नदी में इसी प्रकार सात दिन-रात तक डाल देना चाहिए ॥ ८ ॥
सप्तरात्रं परिशायनमित्येव । याः स्वनाम्नैव समुद्रं गच्छन्ति ता महानद्यः । 'एते विकल्पाः सन्निकर्षविप्रकर्षापेक्षया व्यवस्थाप्याः ॥ ८ ॥
एवमश्ममयानाम् ॥ ९ ॥
**अनु०—**इसी प्रकार पत्थर के पात्रों को ( जल में डालना चाहिए ) ॥ ९ ॥
**टि०—**ब्यूहलेर ने इस सूत्र को अगले सूत्र के साथ ग्रहण कर गोवाल से घर्षण से ही शुद्धि बता दिया है। इसे अलग पढ़ने पर पूर्ववर्ती सूत्र का नियम ही अनुवर्तित होगा ।
दृषदादिष्वश्ममयेषु परिशायनं द्वितीयम् । एवमिति निर्देशेन पुनः करणमपि । यद्वा—मृन्मयशौचस्यैतदनुकर्षणम् ॥ ९ ॥
अधुना यज्ञभाजनानां फलादीनां शुद्धिः—
अलाबुबिल्वविनालानां गोवालैः परिमार्जनम् ॥ १० ॥
**अनु०—**लौकी, बिल्व, बांस के विनाल नामक पात्रों के दूषित होने पर उनको गाय के केशों के गुच्छे से रगड़ना चाहिए ॥ १० ॥
अलाबुः स्रुचां भाजनम् । बिल्वं यवमतीषु प्रोक्षणीषु यूपावटादिषु चोपयोक्तव्यानां यवानाम् । विनालं वेणुविदलमयादिकं दीर्घभाजनमुच्यते । तच्च प्रणीताप्रणयनादीनाम् । उच्छिष्टसमन्वारब्धानां चैतत् ॥ १० ॥
नलवेणुशरकुशव्यूतानां गोमयेनाऽद्भिरिति प्रक्षालनम् ॥ ११ ॥
१. एतत्स्थाने, कालः रुक्मादीनामुपयोगः कालसन्निकर्षविप्रकर्षापेक्षया व्यवस्थाप्या इति पाठो. गः पु.
चतुर्दशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः १११
अनु०—नरकुल, बांस शर और कुश से बुनकर बनाये गये उपकरणों को गाय के गोबर, जल आदि से धोना चाहिए ॥ ११ ॥
टि०—गोविन्द के अनुसार इन उपकरणों के उच्छिष्ट से दूषित होने पर ही प्रक्षालन नियम है । ‘इति’ शब्द से गोमूत्र का भी ग्रहण उन्हों ने माना है ।
इदं पुनरुच्छिष्टलेपोपहतानाम् । नलशब्दो वेत्रे भाष्यते । शेषाः प्रसिद्धाः । एतैः व्यूता ओतप्रोतभावेन समं तता इतिशब्दस्तु गोमूत्रोपलक्षणार्थः ॥ ११ ॥
अथ प्रदेयद्रव्येषु—
व्रीहीणामुपघाते प्रक्षाल्याऽवशोषणम् ॥ १२ ॥
अनु०—बिना कूटे हुए धान के दूषित हो जाने पर उसे धोकर सुखाना चाहिए ॥ १२ ॥
टि०—गोविन्द के अनुसार यह नियम चण्डाल आदि के स्पर्श से एक द्रोण से अल्प धान के दूषित होने पर समझना चाहिए । धान की मात्रा अधिक होने पर केवल जल छिड़क देना पर्याप्त होता है ।
सतुषोपलक्षणमेतत् । उपघातश्चण्डालादिस्पर्शः द्रोणादल्पतरस्येदमुक्तम् । बहूनां तु प्रोक्षणं तथाविधानामेव ॥ १२ ॥
तण्डुलानामुत्सर्गः ॥ १३ ॥
अनु०—(मूत्रादि से दूषित ) चावल को फेंक देना चाहिए ॥ १३ ॥
टि०—अधिक मात्रा हो तो जितना दूषित हुआ हो उतना निकाल कर फेंकने नियम समझना चाहिए ।
मूत्राद्युपहतानामल्पानामिति शेषः । बहूनां तावन्मात्रत्याग इति ( १. १५ १५) वक्ष्यति ॥ १३ ॥
एवं सिद्धहविषाम् ॥ १४ ॥
अनु०—इसी प्रकार तैयार हवि के दूषित होने पर भी उसका त्याग कर देना चाहिए ॥ १४ ॥
एवं चरुपुरोडाशादीनामुपघाते त्याग एवाऽर्थः । स एव च हविर्दोषो भवति ॥ १४ ॥
महतां श्वायसप्रभृत्युपहतानां तं देशं पुरुषाभमुद्धृत्य “पवमा
१. “पवमानस्सुवर्जनः पवित्रेण विचर्षणिः” इत्यादिः “जातवेदा मोर्जंयन्त्या पुनातु” इत्यन्तोऽनुवाकः तैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थप्रपाठकेऽष्टमो द्रष्टव्यः ।
११२ | बौधायन-धर्मसूत्रम् | [ द्रव्यशुद्धिः
नस्सुवर्जन” इत्येतेनाऽनुवाकेनाऽभ्युक्षणम् ॥ १५ ॥
**अन०—**अधिक मात्रा में कुत्ता, कौआ आदि द्वारा दूषित होने पर उस स्थान से पुरुष के लिये अन्न निकाल कर फेंक दे और शेष पर 'पवमानस्सुवर्जन' (तैत्तिरीय ब्रा० १. ४.८) आद अनुवाक का उच्चारण करते हुए जल छिड़के ॥ १५ ॥
टि०—'पवमानस्सुवर्जनः पवित्रेण विचर्षणिः' से 'जातवेदा मोर्जंयन्त्या पुनातु' अनुवाक है ।
अवशिष्टानामिति शेषः । प्रभृतिशब्दः पतितादिसंग्रहार्थः ॥ १५ ॥
मधूदके पयोविकारे पात्रात् पात्रान्तरानयने शौचम् ॥ १६ ॥
अनु०—(दधि, मधु, घृत, जल, धाना या लावा) से निर्मित मधूदक, दूध के बने आमिक्षा आदि अशुद्ध व्यक्ति द्वारा छुए जाने पर एक पात्र से दूसरे पात्र में रख देने पर शुद्ध हो जाते हैं ॥ १६ ॥
'‘दधि मधु घृतमापो धानाः’ इत्यत्र मधूदके । पयोविकारः आमिक्षा । एतेषां पुरुषदोषमात्रदुष्टानाम् । तच्चोच्छिष्टस्पर्शमात्रम् । अत्र तु विकारग्रहणात् पयसश्शौचान्तरं कल्प्यम् ॥ १६ ॥
तैलमपि प्रतिनिधित्वेन यज्ञेषु प्राप्तम् । यद्वा—
एवं तैलसर्पिषी उच्छिष्टसमन्वारब्धे उदकेऽवधायोपयोजयेत् ॥ १७ ॥
**अनु०—**इसी प्रकार अशुद्ध व्यक्ति द्वारा छुए गये तेल और घृत को जल में रख कर तब काम में लाना चाहिये ॥ १७ ॥
'तैलं दधि पयस्सोमो यवागूरोदनं घृतम् ।
तण्डुळा मांसमापश्च दशद्रव्याण्यकामतः ॥
इत्यभियुक्तापदेशान्मुख्य एवेति ।
पात्रान्तरानयनमिति निर्दिश्यते । उदकेऽवधानं विशेषः । स च तैलसर्पिषोर्यथाऽऽत्मविनाशो भवति तथा कार्यः ॥ १७ ॥
अथाऽग्नीनां शौचमाह—
अमेध्याभ्याधाने समारोप्याऽग्निं मथित्वा पवमानेष्टिं कुर्यात् ॥१८॥
**अनु०—**अग्नि में मूत्र, पुरीष आदि अमेध्य के पड़ जाने से अरणियों से अग्नि मन्थन कर अग्नि उत्पन्न करे और पवमान इष्टि करे ॥ १८ ॥
१. चिनेष्टिद्रव्यमिदम् ।
पञ्चदशः खण्डः ] प्रथमप्रश्ने सप्तमोऽध्यायः ११३
अमेध्यं मूत्रपुरीषादि तस्याऽग्निषु प्रक्षेपोऽभ्याधानम् । तस्मिन् सति अर- ण्योस्समारोप्य मथित्वाऽग्नीन् विहृत्य पवमानेष्टौ कृतायां तावद्दोषः परि- हृतो भवति । एकाग्नौ चैतद्द्रष्टव्यम् । तत्र च पुरोडाशस्थाने चरु- र्भवेत् ॥ १८ ॥
अथ यज्ञाङ्गानां प्राबल्यदौर्बल्यविवेकायाऽऽह—
शौचदेशमन्त्रार्थद्रव्यसंस्कारकालभेदेषु पूर्वपूर्वप्राधान्यं पूर्वपूर्व- प्राधान्यम् ॥ १९ ॥
अनु०—शुद्धता, स्थान, मन्त्र, क्रिया का क्रम, वस्तु, द्रव्य, उसका संस्कार और काल— इनमें भेद होने पर पूर्व पूर्व वाला प्रधान माना जाता है ॥ १९ ॥
इति बौधायनधर्मसूत्रे प्रथमप्रश्ने चतुर्दशः खण्डः ॥ १४ ॥
एतेषु भेदेषु विरोधेषु पूर्वस्य पूर्वस्य प्राबल्यं परस्य दौर्बल्यं चार्थविप्रकर्षा- द्वेदितव्यम् । यथाऽग्निष्टोमे प्रागुदक्प्रवणो देशो मूत्रोपहतो लभ्यते अनेवं- भूतश्च गोभिराक्रान्तोऽग्निदग्धश्च विद्यते, तयोरन्यतरस्मिन्नेव प्राचीनवंशादौ कर्तव्ये दक्षिणाप्रत्यक्प्रवणोऽपि गोभिराक्रान्तोऽग्निदग्धश्च कर्तव्यः । कस्मात् ? शौचप्राधान्यात् । तद्धि पूर्वेण सन्निकृष्टतरम् , अदुष्टत्वात् । प्रागुदक्प्रवणं पुनर्दुष्टत्वात् विप्रकृष्टम् । दिङ्मात्रमेतदुदाहरणे प्रदर्शितम् । एवं 'देशयोर्मन्त्रा- वृतोः' इत्यादि द्वन्द्वशो द्रष्टव्यम् । आवृत् प्रयोग^१प्राशुभावः ॥ ५० ॥
इति बौधायनधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने षष्ठोऽध्यायः ॥ ६ ॥
सप्तमोऽध्यायः
पुनरपि ऋत्वर्थमेव किञ्चिदुच्यते—
^२उत्तरत उपचारो विहारः ॥ १ ॥
अनु०—जिस स्थान पर यज्ञ की अग्नि हो उस स्थान पर उत्तर की ओर से जाना चाहिए ॥ १ ॥
उपचारस्सञ्चारः ऋत्विग्यजमानानाम् । विहृता अग्नयो यस्मिन् देशे स विहारः, यस्य विहारस्योत्तरत उपचारो भवति स तथोक्तः । ऋत्विग्यजमाना उत्तरतोऽग्नीनां सञ्चरेयुरिति यावत् ॥ १ ॥
१. प्राशुभावः शैघ्रयम् ।
२. cf. आपस्तम्बयज्ञपरिभाषासूत्र सं. सू. १०.
११ बौ० ध०
११४ बौधायन-धर्मसूत्रम् [ कर्माऽऽरम्भविधिः
तथाऽपवर्गः ॥ २ ॥
**अनु०—**इसी प्रकार उत्तर की ओर वहाँ से निकलें ॥ २ ॥
अयमपि बहुव्रीहिरेव । उत्तरतो निर्गम इत्यर्थः ॥ २ ॥
तदपवदति—
विपरीतं पित्र्येषु ॥ ३ ॥
**अनु०—**पित्र्य कर्मों में इसके विपरीत (दक्षिण से जाने और निकलने का) नियम होता है ॥ ३ ॥
कर्मस्विति शेषः । उपचारापवर्गो दक्षिणतः कुर्यादित्युक्तं भवति ॥ ३ ॥
पादोपहतं प्रक्षालयेत् ॥ ४ ॥
**अनु०—**पैरों के स्पर्श से दूषित पात्रादि को धोवे ॥ ४ ॥
पात्रादि ॥ ४ ॥
अङ्गमुपस्पृश्य सिचं वाऽप उपस्पृशेत् ॥ ५ ॥
**अनु०—**शरीर के अङ्ग का अथवा वस्त्र के छोर का स्पर्श करने पर जल का स्पर्श करे ॥ ५ ॥
अङ्गं शरीरम्, सिक् परिहितं वासः अत्रोपस्पर्शः स्पर्शमात्रमेव नाऽऽचमनादि ॥ ५ ॥
एवं छेदनभेदनखनननिरसनपित्र्यराक्षसनेर्ऋतरौद्राभिचरणीयेषु ॥ ६ ॥
**अनु०—**इसी प्रकार यज्ञ में किसी वस्तु को काटने, तोड़ने, खोदने या हटाने के बाद, पितरों, राक्षसों, निऋर्ति, रुद्र को आहुति देने तथा आभिचारिक क्रिया करने के बाद जल का स्पर्श करे ॥ ६ ॥
एतेष्वपि कृतेषु अपामुपस्पर्शनमिति । छेदनं '“आच्छिनत्त्याच्छेत्ता ते मारिषमिति” इत्यादि । भेदनम्² 'तस्मिन् स्फ्येन प्रहरति इत्यादिष्वदृष्टसंस्का-
१. दर्शपूर्णमासयागयोस्तदुपयोगिबर्हिषां मध्ये प्रथमलवनीयस्य प्रस्तराख्यस्य मुष्टिविशेषस्य छेदनमनेन विधीयते । तत्र 'आच्छेत्ता ते मा रिषम्' इति मन्त्रः । 'आच्छिनत्ति' इति विधिः ।
२. दर्शपूर्णमासयोरेव वेदिनिर्माणव्यापारान्तर्गतोऽयं कश्चन व्यापारः । यत्र स्थाने वेदिनिर्मातुमभिष्यते ततः पश्चिमदेशे प्राङ्मुखस्तिष्ठन् अध्वर्युः स्फ्यं ( अरत्निमात्रः
पञ्चदशः खण्डः ] प्रथमप्रश्ने सप्तमोऽध्यायः ११५
रेषु खननं १‘तं स खनति वा खानयति वा’ इत्यादि । निरसनं २‘तृणं वा निर- स्यति’ इत्यादि । तत्र पुनर्वचनम्३निरूपितदशहोत्रा (?) यौगपद्यनिवृत्त्यर्थम् । पित्र्यं ४ ‘स्वधा पितृभ्य ऊर्ध्वम्’ इत्यादि । राक्षसं ५‘रक्षसां भागोऽसि’ इत्या- दि । नैर्ऋतं६ ‘नैर्ऋतेन पूर्वेण प्रचरति’ इत्यादि । रौद्रं ७‘मन्थिसंस्रावहो- मादि । अभिचरणीयानि८ ‘यं यजमानो द्वेष्टि’ इत्येवं चोदितानि ॥ ६ ॥
खङ्गाकारः खादिरवृक्षनिर्मितस्साधनविशेषः स्फ्य इत्युच्यते ) हस्तेनाऽऽदाय वेदि- स्थाने उदीचीनाग्रं कुशं निधाय तदुपरि स्फ्येन प्रहरणमनेन वाक्येन विधीयते । तद- त्र भेदनपदेनाऽभिप्रेतमन्यच्चैतादृशम् । ( बो. श. १.११ )
१. अग्नीषोमीयादिषु पशुयागेषु पशुबन्धनार्थमपेक्षितस्य यूपस्य निखननं कर्त- व्यम् । तदर्थमभिकांक्षितस्य गर्तस्य खननमनेन विधीयते । तमवटमध्वर्युः स्वयं वा खनेदग्नीध्रेणर्त्विजा वा खानयेत् इति सूत्रार्थः ॥ ( बो.श्रौ. ४.२. )
२. दर्शपूर्णमासयोः पुरोडाशार्थं शकटे आहृतानां व्रीहीणां यवानां वाऽऽवरजम- पादाय तत्रस्थस्य तृणादेर्धान्यशूकस्य वाऽपादानमनेन विधीयते । किंशारु धान्यशूकम् । ( बो.श्रौ. १.४. ). ३. अपिरोपित इति पाठो ग. पु.
४. दर्शपूर्णमासयोरेव वेदेरिष्माबर्हिषां च प्रोक्षणं विधाय प्रोक्षणशिष्टानाम्पां वेद्यामेव निनयनं विधीयते—‘‘अतिशिष्टाः प्रोक्षणीर्निनयति दक्षिणायै श्रोणेरोत्तरो- त्तरायै श्रोणेः स्वधा पितृभ्य ऊर्ध्वं बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छतेति’’ । निनयनमिदं पित्र्यम् ॥ ( बो. श्रौ. १.२२. )
५. दर्शपूर्णमासयोरेव पुरोडाशार्थमवहतानां व्रीहीणां तुषान् तण्डुलेभ्यः पृथक्कृत्य तान् निरस्यति । तदेतत् विहितम्–इमां दिशं निरस्यति रक्षसां भागोऽसीति । तदिदं राक्षसम् । ( बो. श्रौ. १.६. ) ६. निर्ऋतियागो राजसूयादौ प्रसिद्धः ।
७. सोमयागे मन्थिग्रहो नाम कश्चन ग्रहः । तस्य प्रधानहोमानन्तरं आहव- नीयस्योत्तरार्धे एकदेशस्रावणरूपो होमो निहितः–अथ प्रतिप्रस्थातोत्तरार्ध आहवनी- यस्य मन्थिनस्संस्रावं जुहोत्ये‘‘ष ते रुद्र भागो यं निरयाचथास्तं जुषस्व विदेगौ- पत्यँ रायस्पोषँ सुवीर्यं संवत्सरीणां स्वस्तिँ स्वाहेति’’स रुद्रदेवताकत्वाद्राैद्रः । ( बो. ७.१४ )
८. सोमयागे सोमाधारभूत ( हविर्धान ; शकटस्थापनार्थं दक्षिणहविर्धानमण्डप- मध्ये चत्वारो गर्ताः क्रियन्ते । तत उद्धृतान पांसून् जनसञ्चाररहिते देशे क्षिपेत् । तत्काले यो यजमानस्य द्विषन् त मनसा ध्यायेदिति विहितम्—‘‘अप्रेतान् पांसूनक्षरे परावपत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायति’’ इति ॥ ( बो. श्रौ. ६. २८. ) तदेतदभिचरणीयम् ।
११६ बौधायन-धर्मसूत्रम् · [ दीक्षितनियमाः
'न मन्त्रवता यज्ञाङ्गेनाऽऽत्मानमभिपरिहरेत् ॥ ७ ॥
**अनु०—**यज्ञ के किसी ऐसे उपकरण को, जिसका प्रयोग मन्त्रोच्चारण के साथ किया जाता हो, अपने को बीच में कर अग्नि से दूर न करे ॥ ७ ॥
**टि०—**उपर्युक्त अर्थ गोविन्द स्वामी की व्याख्या के आधार पर है। ब्यूहलेर ने 'अपने चारो ओर न घुमाए' ऐसा अर्थ किया है। किन्तु अगले सूत्र को देखने पर गोविन्द स्वामी का अर्थ संगत प्रतीत होता है।
मन्त्रवद्यज्ञाङ्गं स्रुक्स्रुवादि। तेनाऽऽत्मानं नाऽभिपरिहरेत् आत्मनो बहिर्न कुर्यादग्नेः पात्रस्य चान्तरतस्स्वयं न भवेदिति यावत् ॥ - ॥
तत्र कारणमाह—
अभ्यन्तराणि यज्ञाङ्गानि ॥ ८ ॥
**अनु०—**यज्ञ के उपकरण ( यज्ञ से ऋत्विक की अपेक्षा ) अधिक निकट रूप से संबद्ध होते हैं ॥ ८ ॥
ऋत्विगपेक्षयेति शेषः ॥ ८ ॥
^१बाह्या ऋत्विजः ॥ ९ ॥
**अनु०—**और ऋत्विज् ( यज्ञ के उपकरणों की अपेक्षा अधिक ) दूरवर्ती होते हैं ॥ ९ ॥
प्रयोगाङ्गत्वात् यज्ञाङ्गापेक्षयेति शेषः ॥ ९ ॥
पत्नीयजमानावृत्विग्भ्योऽन्तरतमौ ॥ १० ॥
**अनु०—**यजमान और उसकी पत्नी ( यज्ञ से ) ऋत्विक् की अपेक्षा अधिक निकटतया संबद्ध होते हैं ॥ १० ॥
फलप्रतिग्रहीतृत्वादनयोः । उदाहरणानि^२ वैसर्जनानि दाक्षिणानि च ॥ १० ॥
अथेदानीममनुष्येषु बाह्याभ्यन्तरमाह—
यज्ञाङ्गेभ्य आज्यमाज्याद्धवींषि हविर्भ्यः पशुः पशोस्सोमस्सोमादग्नयः ॥ ११ ॥
१. Compare these three Sutras with आपस्तम्बयज्ञपरिभाषासूत्र ( आप. श्रौ. २४.२.१३.१४. )
२. "गार्हपत्ये आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये वैसर्जनानि जुहोति" इति विहितो होमो वैसर्जनहोमः।
पञ्चदशः खण्डः ] प्रथमप्रश्ने सप्तमोऽध्यायः ११७
अनु०—यज्ञ के उपकरणों के बाद आज्य, आज्य के बाद हवि, हवि के बाद पशु, पशु के बाद सोम और सोम के बाद यज्ञाग्नियां आती हैं ॥ ११ ॥
उत्तरवेद्यादिषु देशसङ्कटे उपस्थिते अग्नेरनन्तरं सोमस्साद्यते। तदनन्तरं मांसादि। तदनन्तरं धानाः पुरोडाशाः। तेभ्यश्चाऽऽज्यमनन्तरं स्रुवश्च स्रुक्च। ततो जुहूरिति। एवं तावत् चित्रतुरसन्निपाते च योज्यम् ॥ ११ ॥
यथा कर्मर्त्विजो न विहारादभिपर्यावर्तेरन् ॥ १२ ॥
अनु०—जब तक करने योग्य कर्म हों तब तक ऋत्विज यज्ञाग्नि के स्थान से अलग मुँह नहीं फेरेंगे ॥ १२ ॥
आवश्यकाहृते विहाराद्व्यावृत्तिश्च, तत्र चैतत् कर्मेत्यनेन कथ्यते ॥ १२ ॥
प्राङ्मुखश्चेदक्षिणमंसमभिपर्यावर्तेत ॥ १३ ॥
अनु०—यदि उसका मुख पूर्व की ओर हो तो (अग्नि को लेकर चलते समय) दाहिने कन्धे की ओर मुँह फेरेँ ॥ १३ ॥
अग्निभिस्सह गमने सत्ययं विधिः। अग्नीनां पृष्ठतः करणं मा भूदित्युपदेशः कर्तव्यः ॥ १३ ॥
प्रत्यङ्मुखस्सव्यम् ॥ १४ ॥
अनु०—यदि पश्चिम की ओर मुख हो तो बायें कन्धे पर मुख फेरेँ ॥ १४ ॥
टि०—इस प्रकार अग्नि को ले जाते समय उसकी ओर पीठ नहीं होगी। गोविन्द स्वामी का कथन है कि इन दोनों सूत्रों से यह भी अर्थ निकाला जा सकता है कि अग्नि की प्रदक्षिणा कर बाहर जाया जा सकता है।
अयमपि तथैव। यद्वा—द्वाभ्यामपि सूत्राभ्यां यथास्थितानामेव पुरुषाणां प्रदक्षिणीकृत्य निर्गमनं विधीयते ॥ १४ ॥
'उत्तरत उपचारो विहारः' (१५. १.) इत्युक्तम्। तत्र निर्गमनप्रवेशनमा-मार्गमाह—
अन्तरेण चात्वालोत्करौ यज्ञस्य तीर्थम् ॥ १५ ॥
अनु०—यज्ञ का तीर्थ अर्थात् वेदि का मार्ग चात्वाल और उत्कर के बीच से होता है ॥ १५ ॥
टि०—चात्वाल वेदि से ईशानकोण परं रहता है, वहाँ से मिट्टी उठायी जाती है। उत्कर वह स्थल है जहाँ वेदिपुरीष रखा जाता है।
उत्तरवेदिपुरीषावटं चात्वालः। वेदिपुरीषनिधानदेश उत्करः। तयोर्मध्यं