भारतकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

अष्टमः खण्डः ] चतुर्थप्रश्ने अष्टमोऽध्यायः ४०५

अष्टमः खण्डः ] चतुर्थप्रश्ने अष्टमोऽध्यायः ४०५

किंच—

प्राजापत्यमिदं गुह्यं पापघ्नं प्रथमोद्भवम् ।
समुत्पन्नान्यतः पश्चात्पवित्राणि सहस्रशः ॥ ५ ॥

**अनु०—**प्रजापति के इस पाप का विनाश करने वाले रहस्य का सबसे पहले उद्भव हुआ इसके बाद ही सहस्रों का अन्य पवित्र करने वाली क्रियाएँ उद्भूत हुईं ॥ ५ ॥

इदमष्टगणहोमकर्म प्राजापत्यं प्रजापतेस्सकाशात् प्रथमोद्भूतम् । अन्यानि तु यन्त्रान्यतः पश्चादुत्पन्नानि ॥ ५ ॥

अथाऽस्यैव कालविकल्पाः—

योऽब्दायनर्तुपक्षाहान् जुहोत्यष्टौ गणानिमान् ।
पुनाति चाऽऽत्मनो वंश्यान् दश पूर्वान् दशाऽपरान् ॥ ६ ॥

**अनु०—**जो व्यक्ति वर्ष, अयन, ऋतु और पक्ष के प्रथम दिनों को इन आठ गण होमों को करता है वह अपने वंश के दश पहले के तथा दश बाद के पुरुषों को पवित्र करता है ।

कर्तुस्तु कालाभिनियमात् फलविशेषः कल्प्यते । अब्दस्संवत्सरः । अयनं तदर्धः आदित्यस्य दक्षिणोत्तरायणगमनेन । ऋतुः अब्दषड्भागो वसन्तादिः । तदर्धः मासः । तदर्धः पक्षः शुक्लः कृष्णो वा । अहस्तु प्रसिद्धम् । एतद्वन्दादिभिरेव सम्बध्यत इति केचित् । कल्पान्तरमित्यपरे ॥ ६ ॥

अथ—

एतानष्टौ गणान् होतुं न शक्नोति यदि द्विजः ।
एकोऽपि तेन होतव्यो रजस्तेनाऽस्य नश्यति ॥ ७ ॥

**अनु०—**यदि कोई द्विज इन आठ गण होमों को करने में समर्थ न हो तो एक ही करे; उसी से उसका पाप नष्ट हो जाता है ॥ ७ ॥

तत्राऽप्यशक्तौ—

सूनवो यस्य शिष्या वा जुहुत्यष्टौ गणानिमान् ।
अध्यापनपरिक्रीतैरंहसस्सोऽपि मुच्यते ॥ ८ ॥

**अनु०—**जिसके पुत्र या शिष्य इन आठ गण होमों को करते हैं वह भी उनका अध्यापन कर उस पुण्य को खरीद लेता है और पाप से मुक्त हो जाता है ॥ ८ ॥

४०६बौधायन-धर्मसूत्रम्[ गणहोमः

अध्यापनपरिक्रीतैः तेनैवाऽध्ययनादिना ॥ ८ ॥

तदसम्भवेऽप्याह—

धनेनाऽपि परिक्रीतैरात्मपापजिघांसया ।
हावनीया ह्यशक्तेन नावसाद्यश्शरीरधृक् ॥ ९ ॥

**अनु०—**अपने पाप को नष्ट करने की इच्छा से इन गणहोमों को करने में अशक्त व्यक्ति धन से भी खरीद कर इन्हें कराये उसे (धनी होते) शरीर को कष्ट देने आवश्यकता नहीं है ।

हावनीयाः होमं कारयितव्याः । अन्येनाऽपि कारयितव्यत्वे हेतुर्नावसाद्य इति । नाऽवसाद्यो न क्लेशनीयः । धने विद्यमाने किमित्यात्मनश्शरीरशोषणं हविष्यादिभिः क्रियेतेत्यभिप्रायः । एवं च मौनव्रतान्यपि कर्तुरेव, न कारयितु; नाऽवसाद्य इति वचनात् । 'गरगिरिच सोदति' इति दोषोऽपि कर्तुरेव न कारयितुः, उपरागे वर्तमाने श्राद्धभोजनवन् ॥ ९ ॥

किञ्च—

धनस्य क्रियते त्यागः कर्मणां सुकृतामपि ।
पुंसोऽनृणस्य पापस्य विमोक्षः क्रियते क्वचित् ॥ १० ॥

**अनु०—**पुण्य कर्मों की सिद्धि के लिए भी धन का त्याग किया जाता है । कभी-कभी ऋणमुक्त होने पर भी मनुष्य अपने पाप से मुक्त हो जाता है ॥ १० ॥

अनृणस्याऽपि पुंसो ऽयं धर्मतस्त्यागः क्वचित्क्रियित इत्युच्यते । किमर्थमुक्तम् ? पुण्यानामपि कर्मणां सिद्धये । गणहोमार्थं पुनर्धनत्यागे क्रियमाणे पापस्यैव विमोक्षः क्रियते न धनस्येत्यभिप्रायः ॥ १० ॥

सोऽयं प्रशंसाप्रपञ्च आरभ्यते-द्विजः कथं रोचेत, ततोऽनुष्ठीयेतेति—

मुक्तो यो विधिनैतेन सर्वपापार्णसागरात् ।
आत्मानं मन्यते शुद्धं समर्थं कर्मसाधने ॥ ११ ॥

**अनु०—**इस विधि से पाप और ऋण के समुद्र से निकलकर वह अपने को शुद्ध मानता है और धार्मिक कर्मों के सम्पादन के लिए योग्य समझता है ॥ ११ ॥

सर्वपापसमुद्राच्चोत्तीर्णमात्मानं कर्मयोग्यं मन्यते ॥ ११ ॥

किञ्च—

'ज्ञायते चाऽमरैः द्युस्थैः पुण्यकर्मेति भूस्थितः ।


१. सूत्रमिदं सर्वेषु मूलपुस्तकेषु षष्टसूत्रानन्तरं पठितम् । परन्तु व्याख्यानानुतलेष्वत्रैव पठितमित्यत्रैव निवेशितमस्माभिः ।

अष्टमः खण्डः ] चतुर्थप्रश्ने अष्टमोऽध्यायः ४०७

अष्टमः खण्डः ] चतुर्थप्रश्ने अष्टमोऽध्यायः ४०७

देववन्मोदते भूयस्स्वर्गलोकेऽपि पुण्यकृत् ॥ १२ ॥

**अनु०—**उस व्यक्ति के पृथ्वी पर रहने पर भी स्वर्ग में रहने वाले देवता उसे पुण्यकर्मा के रूप में जानने लगते हैं। वह पुण्य करने वाले पुनः स्वर्गलोक में देवों के समान सुखों का भोग करता है ॥ १२ ॥

द्युस्थैर्देवैर्भमिष्ठोऽपि पुण्यकर्मेति ज्ञायते । तथा च श्रुतिः—'यथा वृक्षस्य सम्पुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति' इति ॥१२॥

^२सर्वपापार्णमुक्तात्मा क्रिया आरभते तु याः ।
अयत्नेनैव तास्सिद्धिं यान्ति शुद्धशरीरिणः १३ ॥

**अनु०—**सभी पापों और ऋणों से मुक्त व्यक्ति जिन क्रियाओं को आरम्भ करता है, उस शुद्ध शरीर वाले व्यक्ति की वे सभी क्रियाएं बिना परिश्रम के ही स्वयं सिद्ध हो जाती हैं ।

. प्राजापत्यमिदं पुण्यं^३मृषीणां समुदीरितम् ।
इदमध्यापयेन्नित्यं धारयेच्छृणुतेऽपि वा ॥ १४ ॥ *
मुच्यते सर्वपापेभ्यो ब्रह्मलोके महीयते ॥

**अनु०—**यह प्रजापति का पवित्र धर्मशास्त्र है जिसका उपदेश ऋषियों ने किया है। इसका नित्य अध्ययन और अध्यापन करे' इसका स्मरण करे। इसको सुनने से भी मनुष्य सभी पापों से मुक्त हो जाता है और ब्रह्मा के लोक में प्रतिष्ठित होता है ॥ १४ ॥

इदमिति धर्मशास्त्रमुच्यते । गणहोममात्रमेव वेत्यर्थः । अत्राऽध्यापनधारणश्रवणानां पूर्वं पूर्वं गरीयः ॥ १३, १४ ॥

अथ मन्त्रपुरश्चरणमाह—
यान् सिषाधयिषुर्मन्त्रान् द्वादशाऽहानि तान् जपेत् ॥ १५ ॥
घृतेन पयसा दध्ना प्राश्य निश्योदनं सकृत् ।

**अनु०—**जिन मन्त्रों से अपनी इच्छाओं को सिद्ध करना चाहता हो उनका


^२ सर्वपापविशुद्धात्मा इति ग पु. ^३ ऋषिभिः ऋषिणा इति क. इ. पु.
* 'इदमेतद्गणं होमं धारयेदथ वा जपेत् ॥ १५ ॥
शृणोतु वा विधिं स्मृत्वा सर्वपापैः प्रमुच्यते ।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥ १६ ॥ इत्यधिकः सूत्रपाठः क. पु.

४०८ बौधायन-धर्मसूत्रम् [ मन्त्रपुरश्चरणम्

बारह दिन तक जप करे। और केवल एक बार रात्रि में ओदन, घृत, दध और दधि का आहार करे ॥ १५ ॥

द्वादशाऽहानि सकृत्सकृत्प्राश्य जपेदिति सम्बन्धः । स च "मुखं व्यादाय स्वपिति" इतिवत् द्रष्टव्यः । सिषाधयिषुः साधयितुमिच्छन् । घृतेनेति घृतान्नेनेत्यभिप्रायः ॥ १५ ॥

'ऋग्यजुस्सामवेदानामथर्वाङ्गिरसामपि ।
दशावरं तथा होमः सर्पिषा सवनत्रयम् ॥ १६ ॥

अनु०—( ऋक्, यजुस्, सामवेद, अथर्वाङ्गिरस् से सम्बद्ध ) होम दशवार घृत से तीनों सवनकालों में करे । मन्त्रों के द्वारा अपने अभीष्ट कार्य की सिद्धि के लिए यही आरम्भिक पूजन विधि ( पुरश्चरण ) है ॥ १६ ॥

पूर्वसेवा भवेदेषा मन्त्राणां कर्मसाधने ॥
मन्त्राणां कर्मसाधन इति ॥ १७ ॥

इति बौधायनीये धर्मसूत्रे चतुर्थप्रश्नेऽष्टमः खण्डः ॥

वेदसम्बन्धिन्या मन्त्रसम्बन्धिन्याश्च षष्ठया 'वैश्वानर्यः' ( ४. ७. ५. ) इत्यनेन सम्बन्धः स च वैदिकानामेव मन्त्राणामेषा पूर्वसेवा पुरश्चरणं, नेतरदिति ज्ञापनार्थम् । मन्त्राणां कर्मसाधन इति । मन्त्रैरिष्टानिष्टप्राप्तिपरिहारसिद्धावित्यर्थः । तथा च शौनकः—
'पुरश्चरणमादौ तु मन्त्राणां सिद्धिकारणम्' इति ॥ १७ ॥

इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते चतुर्थप्रश्नेऽष्टमोऽध्यायः ॥

अतिलोभात् प्रमादाद्वा ॥८॥ निवृत्तः पापकर्मभ्यः ॥ समाधुच्छन्दसा रुद्राः ॥ ६ ॥ अथाऽतस्संप्रवक्ष्यामि ॥ ५ ॥ प्रायश्चित्तानि वक्ष्यामः ॥ ४ ॥ प्रायश्चित्तानि वक्ष्यामः ॥३॥ प्रायश्चित्तानि वक्ष्यामः ॥ २ ॥ प्रायश्चित्तानि वक्ष्यामः ॥ १ ॥

इति बौधायनीये धर्मसूत्रे चतुर्थप्रश्नः (गृह्यसूत्रे सप्तदशः प्रश्नः) समाप्तः ।
समाप्तं चेदं बौधायनधर्मसूत्रम् ॥


१. सूत्रार्धमिदं ई. पुस्तक एवोपलभ्यते, नाऽन्येषु, परन्तु व्याख्यात्रोपात्तमिति कृत्वा परिगृहीतमस्माभिः ।

परिशिष्टम्

'विवरण' में उद्धृत वाक्यों का सन्दर्भ-निर्देश

उद्धरणसन्दर्भपृष्ठ
अकारं चाप्युकारं चमनु. २. ७६३०२
अक्षय्यं ह व चातुर्मास्य-आप. श्रौ. ८. १. १.२७
अर्के चेन्मधु विन्देतशाबरभाष्य १. २. ३४.२४९
अङ्गादङ्गात्सम्भवसितै. मं. सं. २. १४.१७३
अङ्गुष्ठमात्रं पुरुषंमहा. भा. व. २९७. १७.२६३
अङ्गुष्ठानासिकाभ्यान्तुहारीत. स्मृ. ४. ३७५२
अग्नयेऽंहोमुचेतै. सं. ७. ५. २२.३९४
अग्नये पवमानायतै. सं. २. २. ४.३९४
अग्नये स्वाहातै. मं. सं. १. १.३४३
अग्नि जलं वाया. स्मृ. १. ९८.७२
अग्निं होतारम्ऋ. सं. ३. १. १९.२७१
अग्निश्च मा मन्युश्चयाज्ञिकी. ३९.२२४
अग्निहोतातै. आ. ३. ३.२०५
अग्नेऽभ्यावर्त्तिन्तै. सं. ४. २. १.३३६
अग्ने नयतै. ब्रा. २. ८. २.४००
अग्नेर्मन्वेतै. सं. ४. ७. १५.४००
अग्ने युक्ष्वाहिऋ. सं. ४. ५. २९.२७१
अग्ने रक्षाहःऋ. सं. ५. २. २०.२७१
अतिथिपूजाहानाच्च२७८
अतोऽन्यतममास्थायमनु. ११. ८६.१५९
अन्नाह गोरमन्वततै. ब्रा. १. ५. ८.३४७
अथ ब्रह्म वदन्ति१००
अथाऽऽचामेत्व. ध. २३. १९.२२४
अथाऽभ्यादधातीध्मंआप. श्रौ. ७. ६. ४.१०६
अथैते प्राहुऋक्संहितम्शौनकः३५४
अग्निरैव काञ्चनम्व. ध. ३. ५७.५४
अध्यापनयोजनप्रतिग्रहाःगौ. ध. ७. ३.२०१
अर्धप्रसृतिमात्रा तुदक्ष. स्मृ. ५. ७.६८
अनाश्रमी न तिष्ठेतदक्ष. स्मृ. १. १०.३४
अनिश्चयो भिक्षुःगौ. ध. ३. ११.२५१
अनुपनीतसहभोजनेगृत्समदः१०

३० बौ०ध०

४१० बौधायन-धर्मसूत्रम्

उद्धरणसन्दर्भपृष्ठ
अनुशिष्टं लोक्यम्बृ. उ. १. ५. १७२८०
अनृतसम्मिता मनुष्याःऐ. ब्रा. १. ६.२८९
अनृतञ्च समुत्कर्षवति३३५
अन्नं प्राणमन्नमपानम्तै. ब्रा. २. ८. ८.२२१
अन्नं ब्रह्मतै. उ. २. २.३०२
अन्नममृतम्तै. आ. १०. १५.२६१
अन्विदनुमते त्वम्तै. सं ३. ३. ११.४०१
अपि यत्सुकरं कर्ममनु. ७. ५२.३४२
अपो निशि न गृह्णीयात्४१
अपोऽशान कर्म कुरुतै. सं. सं. २. ६.२६१
अभावप्रत्ययालम्बनायो. सू. १. १२.२०४
अभिचरन् दशहोतारंतै. ब्रा. २. २. १.१०२
अभि त्वा शूरसाम. सं. ५. ३. १.३५९
अभिहुत्य हुत्वा भक्षयन्तितै. सं. ६. २. ११२००
अभ्यर्हितं पूर्वम्व्याक. वा. २३४.२२४
अद्भि कार्ष्णायसीम्मनु. ११. १३३३६१
अबद्धं मनो दरिद्रंतै. सं. ३. १. १.१२१
अमन्त्रिका तु कार्येयंमनु. २. ६६.८०
अमृतापिधानमसियाज्ञिकी. ५०.३४५
अमृतोपस्तरणमसियाज्ञिकी. ४७.२६१
अलाबुं दारुपात्रं वामनु. ६. ५४.२८५
अयं वाव यः पवतेतै. ब्रा. ३. ११. ७.२६९
अहंकृत्य तृचञ्चपा. सू. ३. ३. १४९२३४
अव ते हेडःतै. सं. १. ५. ११.२२५
अश्रद्धया हुतं दत्तम्भगवद्गी. १७. २८.६६
अश्रोत्रिया अननुवाक्याःब. ध. ३. १.२१०
अश्मलवणमपण्यम्ब. ध. २. २९.११
असंस्थितो हि तर्हि२५५
अज्ञानादिनियमपर्यवसानम्शाबर भा. १. १. १३५
अहरेष मित्रः रात्रिर्वरुणःतां. ब्रा. २५. १०. १०.२२९
अहमस्मिसाम. सं. पू. ६. १.३५९
अविच्छिन्नब्राह्मण्यस्सुरांतं. ब्रा. १. ३; ४.१०
आकारजानामभ्युदितानांशङ्खः६४
आग्नावैष्णवमेकादशकपालंतै. सं. २. २. ९.१०२
आग्नेयी वा एषातै. ब्रा. ३. ७. ३.३९
आचम्याग्न्यादि सलिलंया. स्मृ. ३. १३.८७
आचार्यं स्वमुपाध्यायम्मनु. ५. ९११६१

परिशिष्टम्

४११

उद्धरणसन्दर्भपृष्ठ
आचार्यकुलाद्वेदमधीत्यछा. उ. ८. १५. १.१८
आच्छाद्य चार्चयित्वामनु. ३. २७.१४०
आच्छेत्ता ते मारिषम्त. सं. १. १. २.११४
आत्मा ज्ञातव्य इत्येतत्श्लो. वा. पृ. ६६१. श्लो. १०३.२५७
आदित्यो ब्रह्मछा. उ. ३. १९. १.२२७
आदित्योऽग्निऐ. ब्रा. ४०. ५.४२
आपद्विहितैः कर्म्मभिःउशनाः३५७
आस्नानं तीर्थं क इह प्रवोचतऋ. सं. ८. ६. १७.११८
आपो हिष्ठातै. सं. ५. ६. १.२२५
आयुर्विप्रापवादेनमनु. ४. २३७.२७८
आयुर्दा देव जरसंतै. मं. सं. २. २. १.३२
आयुष्येतै. आ. २. ५.३३५
आशयेष्वन्नशेषान्बो. गृ. २. ११. ४२.२७६
आश्रमसमुच्चयं द्वितीयं२६०
आसामन्यतमां गत्वानार. स्मृ. १२. ७५.१७०
आहवनीये सभ्यावसथ्ययोःबो. श्रौ. २. ७.२९५
आहिताग्निश्चेत्व. ध. ४. ३०.२०१
आहिताग्नेर्विनीतस्यव. ध. २५. २.३७६
इतरेभ्यो बहिर्वेदिमनु. ११. ३.२१३
इतिहासपुराणंछा. उ. ७. १. २.३७७
इन्द्रं नरःसाम. सं. पू. ४. १.३५९
इन्द्राय स्वाहा यमाय३४४
इमं मे वरुणतै. सं. २. १. ११.२२५
इमं स्तोममर्हते जातवेदसेतै. मं. सं. २. ७.३२
उताऽसि मैत्रावरुणःऋ. सं. ५. ३. २४.८६
उदके मध्यरात्रे चमनु ४. १०९.१५१
उदगयन आपूर्यमाणपक्षेआश्व. गृ. १. ३. १.२०
उदुत्यम्तै. सं. १. ४. ४३३४७
उद्दीप्यस्व जातवेदःतै. मं. सं. १. १.३९
उद्यन्तमस्तं यन्तंतै. आ. २. २.२२३
उद्वयं तमसस्परितै. सं. ४. १. ७.३४७
उपासने गुरूणांआप. ध. १. १५. १.४७
उपास्मै गायता नरःसाम. सं. उ. १. २.३५९
उभयत्र दशाऽहानिवृद्धमनुः७८
उरवेऽन्तरिक्षाय३४४
ऋतञ्च सत्यञ्चयाज्ञिकी ८.२३९
ऋतुस्स्वाभाविकस्त्रीणाम्मनु. ३. ४६. ४७.१८०

४१२ बौधायन-धर्मसूत्रम्

उद्धरणसन्दर्भपृष्ठ
ऋषयो दीर्घसन्ध्यत्वात्मनु. ४. ९४.२३०
एका लिङ्गे गुदे तिस्रःमनु. ५. ३६.६८
एका लिङ्गे तिस्रो वामेव. ध. ६. १६.६८
एकोऽपि वेदवित्मनु. १२. ११३.
एतदक्षरमेताञ्चमनु. २. ७८.२२७
एतदेव व्रतं कुर्युःमनु. ११. १९७.१३४
एतदेव विपरीतंतै. आ. २. १.४७
एतत् खलु वाव तपःतै. सं. ६. १. ६.२७८
एनदद्युमन्तः प्रभूतःबौ. गृ. १. १. १.३०९
एनपा द्वितीयापा. सू. २. ३. ३१.११५
एनबन्यतरस्याम्पा. सू. ५. ३. ३५११५
एषां त्रिरात्रमभ्यासात्याज्ञ. स्मृ. ३. ३२२३९०
एष्टव्या बहवः पुत्राःबृह. स्मृ. १. २.२७९
ऐकाश्रम्यन्त्वाचार्याःगौ. ध. ३. ३६.२६१
ओंकारश्चाथशब्दश्च२२२
ओं भूः ओं भुवःयाज्ञिकी ४२.२२८
ओं होतःबो. श्रौ. १२. १६.३०१
ओमापो ज्योतिःयाज्ञिकी ४२.२२८
कराभ्यां तोयमादायव्यासः२२६
कवारितर्यदङ्घ्रिवोपतिष्ठतेतै. सं. १. ५. ९.१६५
कर्तृकर्मणोः कृतिपा. सू. २. ३. ६५.
कर्मणैव हि संसिद्धिभगवद्गीता. ३. २०.२५५
कर्मयोग्यो जनो नैव४१
कर्मादिष्वेतेर्जुहुयात्तै. आ. २. ७.३३८
कात्यायनायतै. आ. १०. १. ७.३७८
कामकारकृतेऽपिमनु. ११. ४५.१५५
कामतो ब्राह्मणवधेमनु. ११. ८९.१५५
कामं मातापितरौ चैनम्१४९
कामोदकं सपिण्डतायाज्ञ. स्मृ. ३. ४.८०
कालाध्वनोरत्यन्तसंयोगेपा. सू. २. ३. ५.३६१
(१)कुणपरेतोऽसृङ्मूत्रपुरीष-शङ्खः५६
कुमारजन्मदिवसंवृद्धमनुः७८
कुर्वन्नेवेह कर्माणिई. उ. २.२५४
कुशोदकं दधियाज्ञ. स्मृ. ३. ३१४.३८०
कुश्नक्रोशो शूद्रहत्या१३५
कृच्छ्रे, वापनं व्रतं चरेत्गौ. ध. २७. २. ३.३४१
कृत्यल्युटो बहुलम्पा. सू. ३. ४. ११३.२५२

परिशिष्टम्

४१३

उद्धरणसन्दर्भपृष्ठ
'कौपीनाच्छादनार्थम्गौ. ध. ३. १८.२५२
क्षितिस्थाश्चैवव. ध. ३. ४६.६०
क्षीयन्ते चाऽस्य कर्माणिमुण्ड. उ. २. २. ८.२५८
क्षारं च सविकारम्व. ध. २. २१.९६
'क्षुधापरीतस्तु किंचिदेवव. ध. १२. ३.३६
खड्गे तु विवदन्तेव. ध. १४. ३५.९५
ख्यापनेनानुतापेन (वशिष्ठः)मनु. ११. २२७.७७
गर्भस्थैस्सदृशो ज्ञेयः१९१
गृहस्थोऽपि विमुच्यतेया. स्मृ. ३. २०२.२५५
गोवालः परिमार्जनम्व. ध. ३. ५०.५४
ग्रीष्मे पञ्चतपास्तुमनु. ६. २३.३२०
चक्रिणेऽन्धकाय समुपजीविने२१८
(१) चण्डालाः प्रत्यवसिताःदक्ष. स्मृ. ४. २१.२८२
चतुर्धा मेदमेके२५४
चतुर्विधस्य मनुष्यजातस्यगौ. ध. ८. २.१२८
चत्वार आश्रमाःआप ध. २. २१. १.२६०
चरन्नभ्यवहार्येषुव. ध. ३. ४२.५३
चषकां शुक्कुवाणां चमनु. ५. ११७.१०६
चलतश्चैनान् स्वधर्म्मगौ. ध. ११. १११२८
चित्तिस्स्रुक्तै. आ. ३. १. १.३३९
(२) चान्द्रायणं नवश्राद्धअत्रि. स्मृ. ३०५१४७
चित्रं देवानाम्साम. सं. पू० ६. ३३५९
चित्रादितारकाद्वन्द्वैः९९
चीरवल्कलधारिणां१०३
छत्रोत्पन्नास्तुव. ध. १८. ५.१२०
छन्दसा अप उत्पुनातितै. ब्रा. ३. ३. ४.४०१
'जननेऽप्येवम्गौ. ध. १४. १३.७८
जपे होमे तथा दानेदक्ष. स्मृ. १. ११.३४
जातवेदसेयाज्ञिकी १०३७८
जातिमात्रोपजीवी चमनु. ८. २०.
जात्युक्तं पारदार्यञ्चव्याघ्रः१९७
जानश्रुतिर्ह पौत्रायणःछा. उ. ४. १.३०५
•तच्छन्दसा ब्रह्मणेन२९७
'तच्छ्रेष्ठं जन्मआप. ध. १. १. १७.१४९
'सजातीयमेवापतेत'गौ. ध. १४. ६.८३

१. शातातपीयत्वेनोक्तमिदं मस्करिणा।
२. मुद्रितशङ्खस्मृतावनीदं नोपलभ्यते।

४१४ | बौधायन-धर्मसूत्रम्

उद्धरणसन्दर्भपृष्ठ
तत् सवितुःयाज्ञिकी ४२.२२७
तद्यथेषीकातूलमग्नौछा. उ. ५. २४.२६४
तप्तकृच्छ्रं चरन्मनु ११. २१४.३८६
तस्माद्गुरुकुले तिष्ठन्श्लो. वा. १. १. १.३५
तस्मात्तद्विसः पुण्यःवृद्धमनुः७८
तस्माच्छ्रेयांसं पापीयान्तै. सं. २. ५. १. २.
तस्माच्छास्त्रं प्रमाणंभगवद्गीता १६. २४.६६
तस्मात्प्रजननं परंयाज्ञिकी ७८२५४
तस्मात्तेनोभयं पश्यतिछा. उ. १. २. ४.१२१
तस्मात्तेनोभयं संकल्पयन्तेछा. उ. १. २. ६.१२१
तस्मात्स्त्रियो निरिन्द्रियाःतैं. सं. ६. ५. ८.१८०
तस्मादन्नं ददत्याज्ञिकी. ६२.२२३
तस्माद्विनामा ब्राह्मणःतै. सं. ६. ३. १.१४९
तस्मादुपारिष्टाद्दोषधयःतैं. सं. ७. ५. १.३१५
तस्माद्ब्राह्मणाय नाऽपगुरेततै. सं. २. ६. १०१५४
तस्मद्यज्ञवास्तु नाम्बवेत्यम्तै. सं. ३. १. ९.११८
तस्मिन् स्फेयेन प्रहरतिआप. श्रौ. २. २६. ५, बौ. श्रौ. १. ११.११४
तस्मै हितम्पा. सू. ५ १. ५.३५१
तं यज्ञपात्रैर्दहन्ति२५४
तं स खनति खानयति वाबौ. आ. ४. २. (पृ. ११०. पं. ९.)११५
तस्य वा एतस्यतै. आ. २. १५.१५१
तस्य वाचकः प्रणवःपात. सू. १. ३१.२९२
तस्याजिनमूर्ध्ववालंगौ. ध. २३. १८.१६५
तस्याऽऽश्रमविकल्पमेकेगौ. ध. ३. १.२५९
तस्यैषा भवति यत्से शिश्नंतै. आ. १. ७.४५
तस्यैवं विदुषो यज्ञस्ययाज्ञिकी. ७९.२६०
त्रीणि स्त्रियाः पातकानिव. ध. २८. ७.१७०
तृणं वा किंजारु वाबौ. श्रौ. १. ४. (पृ. ७. पं. १०)११५
तेभ्योऽभितप्तेभ्यःछा. उ. २. २३.३०२
तैलं दधि पयस्सोमः११२
त्रयो धर्मस्कन्धाछा. उ. २. २३.२१४
त्यजेत् पितरम्गौ. ध. २०. १.१६६
त्वामिद्धि हवामहेसाम. सं. पू. ३. १.३५९
दक्षिणं बाहुं जान्वन्तरागौ. ध. १. ३८.५०
दक्षिणं बहुमुद्धरतेतै. आ. २. १.४०
दधिक्राव्णःतै. सं. १. ५. ११.२२४
दधि भक्ष्यं तु शुक्तेषुमनु. ५. १०.९८

परिशिष्टम्

४१५

उद्धरणसन्दर्भपृष्ठ
दधि मधु घृतमापो धानाःतै. सं. २. ३. २.११२
दशवर्षसुखं परैस्सन्निधौगौ. ध. १२. ३४.२१३
दर्भ्या अन्नस्य जुहोतिबो. प. १. ६. १०.४०१
दारामिहोत्रसंयोगंमनु. ३. १७१.३९६
दिग्भ्यस्स्वाहातै. सं. ७. १. १५.३५४
द्विजातीनामध्ययनम्गौ. ध. १०. १.
द्विरेन्द्रवायवस्य भक्षयतिआप. श्रौ. १२. २५. २.३१
दिवाकीर्त्यमुदक्यां चमनु. ५. ८५.९०
दीक्षितश्चेदनृतं वदेत्बौ. श्रौ. २८. ९.१२०
दुहिताऽऽचार्यभार्या चनारदस्मृ. १२. ७४.१७०
देवेभ्यस्स्वाहातै. सं. ३. १. ४.२४६
देशकालवयश्शक्तिया. स्मृ. २. २७५.१३३
देशजातिकुलगौ. ध. ११. २२.१०
द्वैधे बहूनां वचनंया. स्मृ. २. ७८.१३९
द्वौ द्वौ मासौ समाहितःआप. ध. १. १३. १९.१७१
द्रव्याणि हिंस्याद्यःमनु. ८. २८८.१३३
धन्वन्निव प्रपा असितै. सं. २. ५. ११.
ध्रुवशीलो वर्षासुगो. गृ. ३. १३२५३
न कर्हिचिन्मातापित्लोःगौ. ध. २१. १५.१९२
न तस्य मायया च नऋ. सं. ६. २. ११२७१
न तिष्ठति तु यः पूर्वोंमनु. २. १०३२३१
न तु कदाचित् ज्यायसीम्व. ध. २. २८.२०३
नदीषु देवखातेषुमनु. ४. २०३२३४
न दोषो हिंसायामाहवेगौ. ध. १०. १६.१३०
नमो रुद्रायतै. ब्रा. ३. ७. ९.३२९
न पादेन पाणिमा वाव. ध. ६. ३३.२७
नमस्ते रुद्रतै. सं. ४. ५. १.३५९
नवो नवो भवतितै. सं. २. ४. १४.३४७
न श्रोत्रियप्रव्रजितगौ. ध. १२.३५.२१३
न शब्दशास्त्राभिरतस्यव. ध. १०. १४.३००
न हि प्रभायारणस्सुशेवःऋ. सं. ५. २. ६.२७७
न हीदृशमनायुष्यम्मनु. ४. १३४. १३५.२७८
नात्रिवर्षस्य कर्तव्यामनु. ५. ७०.७९
नाऽस्य कार्योऽग्निसंस्कारःमनु. ५. ६९.७९
नावेदविन्मनुतेतै. ब्रा. ३. १२. ९.२५७
न्यायार्जितधनःया. स्मृ. ३. २०५.१८०
निष्क्राम्यस्थ देवश्रुतःतै. सं. ३. १. ८.३४५
४१६बौधायन-धर्मसूत्रम्
उद्धरणसन्दर्भपृष्ठ
नित्यनैमित्तिके कुर्यात्श्लो. वा. पृ. ६७१ को. ११०.२०५
नित्यं मद्यामपेयम्गौ. ध. २. २६.११
नेन्मे वाक्प्राणैरनुषक्ता३१
नर्चंतेन पूर्वेणतै. ब्रा. १. ६. १.११५
पञ्जिग्ध्यं गवाघ्रातंमनु. ५. ११५.५९
पञ्चदशग्रासान्गौ. ध. २७. १३.३५१
पञ्चमी मातृबन्धुभ्यःव. ध. ८. ३.११
पञ्चमे व्यवहार्थसकामः१९
(१) पञ्चमे भोजनं भवेत्दक्षः२०४
(२) पञ्चमे भोजनं स्मृतम्दक्षः .२०२
पतितोत्पन्नः पतितःव. ध. १३. २०.१७४
परकीयनिपानेषुमनु. ४. २०१.२०७
परस्त्रीषु दिवा चबो. गृ. १. ११.१६३
परिषद्यं शरणस्यऋ. सं. ७. २. ६.२७७
परीक्षार्थोऽपि ब्राह्मणःआप. ध. १. २९. ७.११
पर्युषितभोजनेऽहोरात्रोपवासःसंव. स्मृ. १. १३०.१०
पवमानस्सुवर्जनःतै. ब्रा. १. ४. ८.२२५
पवित्रं नो वृततै. आ. २. ७.३३२
पशुं वेश्यां च यो गच्छेत्सं. स्मृ. १. १६४.१९६
पादावमृश्य सर्वाभिः५२
पादुकामजिनं छत्रंमनु. ६. ५४.२८४
पालाशं पद्मपत्रम्प्रजापतिः३९१
पिण्याकाचामतक्र-या. स्मृ. ३. ३२१३९०
पितुर्वा भजते शीलम्मनु. १०. ५९.१७४
पितुर्गृहे तु या कन्यालघु शाता. ६५२१९
पितृभ्यः स्वधा नमः२४७
पित्रे पितामहायशङ्ख. स्मृ. १३. ३.१८६
पिबा सोमम्साम. सं. उ. ३. १.३५९
पुनर्मा मैत्विन्द्रियम्तै. आ. १. ३०१६३
पुत्रांश्चोत्पाद्य धर्मतःमनु. ६. ३६.१८९
पुरश्चरणमादौशौनक.४०८
पूर्वार्द्धो वै देवानाम्श. ब्रा. २. ४. २. ८.२६१
पृथिवी चतै. सं. ४. २. १०३११
पृथिवी होतातै. आ. ३. २३३९
पैतृष्वसेयीं भगिनींमनु. ११. १७१११

१. २. मुद्रितशङ्खस्मृतावनीदं नोपलभ्यते।

परिशिष्टम्

उद्धरणसन्दर्भपृष्ठ
प्रच्युतः कालःयास्क २. ७. ३.३०४
प्रजातन्तुं मा व्यवच्छेत्सीःतै. उ. १. ११.२५३
प्रजानिःश्रेयसंआप. गृ. १. ८. ४. ६.१८०
प्रजातिस्त्रियाम्तै. ब्रा. २. ४, ६.१४१
प्रणष्टस्वामिकंमनु. ८. ३०.१३२
प्रचानामितरे कुर्वीरन्व. ध. ४. १९८०
प्रतिबध्नाति हि श्रेयःरघु. वं. १ ७९.२२०
प्रतिलोमं चरेयुस्ताःव. ध. २१. १४.१९४
प्रत्यग्ने मिथुनादहऋ. सं. ८. ४. ९.२७०
प्रत्यग्रहरसाहरःसा. सं. पू. १. २. ५.२७१
प्रत्यासन्नमधीयानंशातातपः७२
प्रत्युद्धारः पुत्रजन्मनाव. ध. १५. १७१६६
प्रसमित्र मर्तो अस्तुतै. सं. ४. १. ६.३०१
प्रदेशिन्यङ्गुष्ठयोर्मध्येव. ध. ३. ६१४९
प्रदेशिन्यङ्गुष्ठभ्यान्तु५२
प्रसारितं च यत्पण्यंव, ध. ३. ४५६०
प्रागुपनयनात्कामचारंगौ. ध. २. ११९
प्रागुत्तमास्त्रय आश्रमिणःगौ. ध. २८. ५०.
प्राची दिगग्निदेवतातै. ब्रा. ३. ११. ५३४४
प्राच्यै दिशे स्वाहातै. सं. ७. १. १५.३५४
प्राणस्यान्नमिदं सर्वंमनु. ५. २८. ९९४
'प्राणायामस्तथा ध्यानम्३६९
प्राणापानयाज्ञिकी ६६.३७८
प्राणे निविष्टःयाज्ञिकी, ४९.२६१
प्रायश्चित्तीयतां प्राप्यमनु. ११. ४७.२०९
बुद्धे चेत्क्षेमप्रापणंआप. ध. २. २१. १६.२५८
ब्रह्ममे तु माम्याज्ञिकी. ६३.२४९
ब्रह्मचर्यादेव प्रव्रजेत्जाबालोप. ४.२५९
ब्रह्म वै चतुर्होतारःतै. ब्रा. ३. १२. ५,३०१
ब्रह्मा देवानाम्तै. सं. ३. ४. ११.३२९
ब्राह्मणं पुरोदधीतगौ. ध. ११. १२.१२९
ब्राह्मणक्षत्रियविशांव. ध. २१. १४.१९४
ब्राह्मणश्चेत्प्रेत्त्यापूर्वंव. ध. २१. १७१९५
ब्राह्मणाभिशंसनेगौ. ध. २१. १७.१७७
ब्राह्मणेषु च विद्वांसःमनु. १. ९७.२७०
ब्राह्मणो ब्राह्मणं हत्वासुमन्तुः१५४
ब्राह्मणो धर्मान् प्रब्रूयात्व. ध. १. ४१.

४१८ | बौधायन-धर्मसूत्रम्

उद्धरणसन्दर्भपृष्ठ
ब्राह्मणस्पत्यं तूपरमालभेततै. सं. २. १. ५.१०२
ब्राह्मणस्याधिकाः प्रवचन-गौ. ध. १०. २.
भिक्षादानमप्सुपूर्वम्गौ. ध. ५. १९.२७५
भिद्यते हृदयग्रन्थिःमुण्ड. २. २. ८.२५६
भूतानां प्राणिनःश्रेष्ठाःमनु. १. ९६.२७०
भूतेभ्यो नमःयाज्ञिकी. ६७.२४६
भूमियमयज्ञियैस्तृणैःवै. ध. १२. १०.६७
भूरग्नये च पृथिव्यै चयाज्ञिकी ५.२६१
भृत्यानानुपरोधेनमनु. ११. १०.२१०
भूर्वृक्षिशिलावर्जम्व. ध. २४. ६३८३
मद्यं नित्यं ब्राह्मणःगौ. ध. २. २६.१९
मद्यभाण्डस्थिता आपःव. ध. २०. २४.१६०
मधुवाता ऋतायतेऋ. सं. १. ३. १८.२६९
मनुष्यलोकः पुत्रेणश. ब्रा. १४. ४. ३. २४.२५३
मशकैर्मक्षिकामिश्चव. ध. ३. ४५.२६३
महाहविर्होतातै. आ. ३. ५.३४०
मातरि पितर्याचार्येआप. ध. १. १०. ४१४८
माता मातृष्वसानार. १२. ७३.१६९
मानस्तोके तनयेतै. सं. ४. ५. १०.३११
मासि श्राद्धे च तामेवशङ्खः१४८
मार्जारनकुलौ हत्वामनु. ११. १३१.१३५
मूर्धानं दिवःऋ. सं. ४. ५. ९.२७०
मृतेऽपि वा सा पुनर्भूःव. ध. १७. २११९१
य इन्द्रियकामो वीर्यकामःतै. सं. २. ३. ७.१५
य उभयादत्तै. सं. २. २. ६.११
यः करोति तुमनु. १२. १२.४६
यः प्रमत्तां हन्तिआप. ध. १. २९. २.३६१
यं यजमानोबौ. श्रौ. ६. २८.११५
यं यं क्रतुमधीतेतै. आ. २. १५.२४८
यच्चाउतस्त्रिय आहुःबौ. पितृ. १. ५. १५.८७
यच्चिद्धि तेतै. सं. ३. ४. ११.२२५
यत्र यत्र कामयतेबौ. गृ. २. १२.३५
यथाकर्मर्त्विजः१२०
यथा वृक्षस्य सम्पुष्पितस्यतै. आ. १०. ११.४०७
(१) यथासम्भवमुत्स्वेदनंशङ्खः५७

१. मुद्रितशंखस्मृतावित्थं नोपलभ्यते ।

परिशिष्टम्

उद्धरणसन्दर्भपृष्ठ
यथैवका न पातव्यामनु. ११. १४.१५९
यथैव न प्राक्श्वतःछा. उ. ५. ३. ७.१५९
यथोपपादनमूत्रपुरीषःगौ. ध. २. ४.१८
यद्योतदेकस्य सतः३०९
यददीव्यन्नृणंतै. आ. २. ४.३३५
यदि पद्भ्यामेव विशेषं१४
यदि यजुष्टो भूर्स्वाहेतिऐ. ब्रा. २५. ३४.१२०
यद्देवत्यः पशुःश. ब्रा. ३. ८. ३. १.१६४
यद्देवा देवहेलनम्तै. आ. २. ३.१३९
यद्देवाःतै. ब्रा. ३. ७. १२.३५९
यद्वा उ विश्पतिःसा. सं. पू. २. १. १. ८.२७१
यन्मे मनसा वाचातै. आ. २. ६.३३८
यस्ततो जायतेतै. सं. २. ५. १.८८
यस्य चैव गृहे मूर्खोंव. ध. ३. १०.७३
यस्याग्नौ न क्रियतेआप. ध. २. १५. १३.२१५
यस्यां मनश्चक्षुषोःआप. गृ. ३. २१.१४३
यस्मिन्कर्मण्यस्य कृतेमनु. ११. २३३.५८
यां निधि समनुप्राप्यबृहस्पतिः१५०
यात्रामानप्रसिद्ध्यर्थम्मनु. ४. ३.२०१
यावज्जीवं प्रेतपत्नी१९८
यावज्जीवं जुहुयात्ई. उ. २.२५४
या वामिन्द्रावरुणातै. सं. २. ३. १३.४००
या वेदबाह्याःस्मृतयःमनु. १२. ९५.२८०
यासां राजा वरुणःतै. स. ५. ६. १.२३५
ये अप्रथेताम्तै. सं ४. ७. १५.४०१
ये चत्वारः पथयोतै. सं. ५. ७. २.२५९
ये देवाःतै. सं. १. ८. ७.३२९
येन सूर्यस्तपतितै. ब्रा. १२. ३. ९.२५७
योऽनधीत्य द्विजःमनु. २. १६८.३६४
योऽधीतेऽहन्यहन्येताम्मनु. १. ८२.२३३
योऽस्याऽऽत्मनः कारयितामनु. १२. १२.१७३
यो वा मिन्द्रावरुणातै. सं. २. ३. १३.४००
रक्षसां भागोऽसितै. सं. १. १. ५११५
रजस्वलाऋतुस्नातांव. ध. २०. ४२.१५६
रहस्यं प्रायश्चित्तंगौ. ध. २४. १.२०८
राजा तु धर्मेणाऽनुशासन्व. ध. १. ४३.१२८
राजा विजितसार्वभौमः१५५

४२०
बौधायन-धर्मसूत्रम्

उद्धरणसन्दर्भपृष्ठ
रात्रावचिरेवाऽनेदंदशे४२
रात्रिशेषे द्वाभ्यांगौ. ध. १४. ७.८४
रौरवयौधाजने नित्यंगौ. ध. २६. ९.२४९
वचनाद्दोषतो भेदाःनार. १. १५७.१३८
वरुणाय धर्मपतयेतै. सं. १. ८. १०.३२७
वर्णान्तरगमनंगौ. ध. ४. २२.१२४
वर्त्तयंस्तु सिलोञ्छाभ्याम्मनु. ४. १०.१७१
वर्षासु रथकारः१२५
वलीपलितकालेऽपि१७१
वसाऽसृङ्मज्जशुक्रमजामनु. ५. १३५५६
वाग्घोतातै. आ. ३. ६.३४०
वाचा प्रशस्तमुपयुञ्जीतवशिष्ठः६२
वानप्रस्थयतिब्रह्मचारिणांयाज्ञ. स्मृ. २. १३७२१३
वायुरन्तरिक्षस्याऽधिपतिःतै सं. ३. ४. ५.३४४
वारुणं यवमयंतै. सं. १. ८. ८.३२७
विदा मघवन्३५९
विद्यानुष्ठानसम्पन्नःलघुशाता. ५३.२०९
विधियज्ञाज्जपयज्ञःमनु. २. ८५.२४०
विधूमे सन्नमुसलेमनु. ६. ५६.२५२
विभागञ्चेत्पिता कुर्यात्याज्ञ. २. ११४१८१
विहितोरुस्रुतऋ. सं. ८. ४, १.१०२
विंशतिभागः शुल्कःगौ. ध. १०. २५१३१
विंशो भागः पणस्य७१
वित्र्यङ्गैर्हीनानांमनु. २. १८४.२२
वेदसन्यासिकानान्तुमनु. ६. ८६.३०२
वेदानधीत्य वेदौ वामनु. ३. २.१८
वेदाहमेतं पुरुषंतै आ. ३. १२.३७८
वैदिकाश वेदिं कल्पयन्ते१०४
वैश्वानराय प्रतिवेश्यायःतै. आ. २. ६.३३७
वैश्वानरो न ऊत्यातै. सं. १. ५. ११.४००
वैष्णवान् खनामितै. सं. १. ३. २.२३९
व्यभिचारेण वर्णानांमनु. १०. २४.१२४
व्यस्तस्तपाणिना कार्यंमनु. २. ७२.२३
शन्नो देवीःसा. सं. पू. १. १.३५९
शय्यासनमलङ्कारंमनु. ९. १७.१९३
शस्त्रेण च प्रजापालनम्व. ध. २. २२.१२८
शाखानां विप्रकीर्णत्वात्तं. वा. १. ३. १.

परिशिष्टम्

४२१

उद्धरणसन्दर्भपृष्ठ
शुश्रूषा शूद्रस्यआप. ध. १. १. ७१२९
श्रुष्ट्यग्ने नवस्य मेसा. सं. पू. २. १. १. १०.२७०
शूद्रश्चेद्व्राह्मणमभिगच्छेत्व. ध. २१. १.१९५
शेषेषूपवसेदहःमनु. ५. २०.९८
श्रेयासं श्रेयांसंव. ध. ११. ५.२६६
श्रोत्रं त्वक्चक्षुषीमनु. २. ९०.१७२
श्वभिः खादेयद्राजागौ. ध. २३, १४.१३३
श्वेताश्च मृगा वन्याःव. ध. ३. ४४६०
षड्भिः परिहार्यो राजागौ. ध. ८. १२.१३२
षष्ठीं चितिम्तै. सं. ५. ४. २. २.३८५
सकामेन सकामायाम्१४३
सखिभार्यां समाहृत्यसंव. स्मृ. १. १६४.१५
सङ्ग्रामे संस्थानंगौ. ध. १०. १५.२८३
सचित्रचित्रंऋ. मं. ४. ५. ८.३४७
सति प्रभूते पयसि२३४
सत्येन शापयेद्विप्रम्मनु. ८. ११३.७२
सद्यः पतति मांसेनव. ध. २. ३१.३६४
सन्ध्यायां गायत्र्या अभितै. आ. २. २.२२६
सन्न्यस्य दुर्मतिः कश्चित्संवर्त. स्मृ. १७१.२८२
सन्धिनीक्षीरमवत्साक्षीरंव. ध. १४. २९९७
स पापिष्ठो विवाहानांमनु. ३. ३४.१४२
सपिण्डाः पुत्रस्थानीया वाव. ध. १७. ७२.८२
सपिण्डे तु त्रिरात्रं१४७
सम्मार्जनेनाऽञ्जनेनमनु. ५. १२४.४३
सम्यग्दर्शनसम्पन्नःमुण्ड. उ. २. २.२५६
संवीतं मानुषंतै. आ. २. १.४७
स य इदमविद्वान्छा. उ. ५. २४. १.२६४
सवर्णाग्रे द्विजातीनांमनु. ३. १२.१२२
सव्याहृतिं सप्रणवांव. ध. २५. १३.२२८
सर्वे एते पुण्यलोका भवन्तिछा. उ. २. २३. १.
सर्वत एवाऽऽत्मानं गोपायेत्गौ. ध. ९. ३५.१६२
सर्वं हि विचरेद्ग्रामम्मनु. २. १८५.२२
सर्वान्परित्यजेदर्थान्मनु. ४. १७.७४
सर्वेषामपि चैतेषाम्मनु. ६. ८९.२५९
सशिखं वपनं कृत्वापरा. स्मृ. ८. ३९.१८३
सह शाखया प्रस्तरंआप. श्रौ. ३. ३. ६.१०३
सहोवाच किं मेऽन्नंछा. उ. ५. २. १.९४

४२२ | बौधायन-धर्मसूत्रम्

उद्धरणसन्दर्भपृष्ठ
साऽस्य देवतापा. सू. ४. २. २४३४४
सान्तानिकं यक्ष्यमाणंमनु. ११. १. २.२१२
सार्ववर्णिकं भैक्षाचरणंगौ. ध. २. ४२.२२
सिंहे मे मन्युःबौ. श्रौ. २. ५.४०२
सिंहे व्याघ्र उततै. ब्रा. २. ७. ७.३३६
सुकृतं यत्त्वया किञ्चित्याज्ञ. २. ७५.१३७
सुरां पीत्वा द्विजःमनु. ११. ९०१५८
सुवर्णस्तेयकृद्विप्रःमनु. ११. ९९.१५९
सुप्तां मत्तां प्रमत्तां वामनु. ३. ३४.१४२
सूर्ये ते चक्षुःतै. आ. ३. ४.३४०
सूर्यश्च मा मन्युश्चयाज्ञिकी. २४. २५.२२४
सृष्टीरुपदधातितै. सं. ५. ३. ४.१६३
सोमाय पितृपीतायबौ. गृ. १. ८. ८.२७१
स्तेनो हिरण्यस्य सुरांछा. उ. ५. १०. ९.१५९
स्तेनस्य श्वपदः कार्यःमनु, ९. २३७,१३२
स्नातकव्रतलोपे चमनु. ११. २०३.२१७
स्त्रीषु चान्तं१९७
स्त्रीभ्यस्सर्ववर्णेभ्यःआप. ध. २. २९. १६.८७
स्त्रीष्वनन्तरजातासुमनु. १०. ६.१२२
स्त्रीशूद्रविट्क्षत्रवधःमनु. ११. ६६.१३४
स्वधर्मो राज्ञः परिपालनंव. ध. १९. १.१२८
स्वधा पितृभ्यःतै. सं. १. १. ११.११५
स्वप्ने सिक्त्वामनु. २. १८१.३८३
स्वमातुलसुतां प्राप्यतं. वा. १. ३. ३.
स्वमांसं परमांसेनमनु. ५. ५२.७५
स्वरादित्योभवतिनिरु. २. ४. २.२२७
स्वादिष्ठयाऋ. सं ६. ७. १६.३५९
स्वाध्याय एवोत्सृजमानःआप. ध. .१. २६. ११.२८९
हन्तिजातानजातांश्चमनु. ८. ९९.१३८
हिरण्यवर्णाःतै. सं. ५. ६. १.२२५
हिरण्यशृङ्गं वरुणंयाज्ञिकी. उ. १. ७.२२४
हिंसानुग्रहयोःगौ. ध. ३. २५.३००

सूत्रों में आये हुए नामों एवं विषयों की अनुक्रमणिका

( संख्याएँ इस ग्रन्थ के पृष्ठ का निर्देश करती हैं । )

अक्षर ( ओम् ), २६४अश्विन् देव २७७
अगम्या १९९अष्टका होम २७६
अग्नि १९७, ४०४, वैश्वानर २८८, ३२१, ३३८, उपसमाधान ३५२आग्नीध्र ११९
अग्निहोत्र २८८, ३१७, २८७, में धर्मोच्छिष्ट १०८, के मन्त्र २९९, ३३९आचमन ४८, २२१, २३६, २६३, २७५, २९६, ३३०
अग्निहोत्री २६७, ३९२आचार्य ४०४
अग्न्याधेय २०३आत्मयज्ञ २९६
अघमर्षण ३२३, ३५९, ३७२, ३७५, ३७९आत्मयाजी २५९
अङ्ग १४आत्रेयी १३४, १५६ का वध १३५
अतिकृच्छ्र १७८, १९४, १९९, १५५, ३६२, ३८५आदित्य २३२
अथर्ववेद ३७७, ३८२आमिक्षा ११२, ३३४
अथर्वशिरस् ३५९आयोगव १२३, १२६
अथर्वाङ्गिरस् ४०८आरट्ट प्रदेश, १४
अधोवीत ४७आर्यावर्त १२
अनशनपारायण ३५१आर्ष, तीर्थ ४८, विवाह १४१
अन्तर्वास ३५आवसथ्य अग्नि २९५
अन्वाहार्यपचन २९५आसुर, विवाह १४१
अपचमानक ३१५आहवनीय ११९, २८६, २८८, २९५, ३०६
अपविद्धपुत्रइन्द्र २७९
अभिजित् ३४९इन्द्रकील २१५
अभ्युक्षण ६४उग्र १२३
अम्बष्ठ १२३उत्तरीय ३५, २२१
अरणी ३४१उत्सर्पिणामयन १०८
अर्घ्य २२०उदयनीय ३२
अलाबु ११०उन्मज्जक ३१८
अवकीर्णी १६३उपनयन १५६, दुबारा १५९
अवन्ति १४उपनिषद् ३५९
अवभृथ १५४, ३२३, ३७५उपवास २६७
अश्व ३६१उपाकर्म ९९
अश्वमेध १५४, ३२३, ३५८, ३७५उपावृत् १४
उशनस् २०५, ३५४
ऋक् ३८२, ४०८
४२४बौधायन-धर्मसूत्रम्
ऋग्वेद ३७२, ३९२गङ्गा १३
ऋण २७८गणिका ३२८
ऋतुममती, कन्या ३६६, पत्नी ३६७गान्धर्व १४१, १४३
ऋत्विज ८२गायत्री २०, २२६, ३७०, ३८०, ३९३, ३९४
ऐडावध १०८गार्हपत्य अग्नि १२०, २९५, ३०६
ऐष्टिक यज्ञ २९८गूढज १८७
ओंकार ३७०, ३७२, ३७६, ३९४गोमय ३८६, ३९१
औपजंघनि १८९गोमूत्र ३८६, ३९१, ३९५
औरस पुत्र १८४गौ, दान ३२२, ३४६
कन्या अपरण ३६७गौतम १०, २०१
कपिञ्जल ९६ग्रीष्म १९
कमण्डलु ३५ आदिचक्रचर ३०३
कलिङ्ग १४, १५चण्डाल १२३, १२६, २००
कश्यप १४५चतुश्चक्र १०८
कास्य २८चमस ४४, ५७
कानीन, अविवाहिता का पुत्र १८७चान्द्रायण १३४, १५५, १९४, १९९, ३४१, ३६२, ३८८
कापोता वृत्ति ३०४, ३१३, ३९२चारण की पत्नी १९३
कारस्कर प्रदेश १४चिलिचिम, मत्स्य ९६
कारु ५९, ७१जगती २०
कुक्कुट १२३, १२७जघन्यसंवेशी २२
कुण्डपायिनामयन १०८जनक १९०
कुम्भीधान्य ३तक्र ३८९
कुलुङ्ग ९५तप्तकृच्छ्र १७७
कुशीलव ७१तरत्समन्दीय २०८, ३७१
कुशोदक ३८७तित्तिर ९६
कुसीद ७०तिल ३६१, ३९५, ४०३
कूष्माण्ड १३९, १७६, ३५९, ३७८, ३९९तीर्थ २२३, ३६०
कृच्छ्र १५५, १५९, १६०, १७६, १९४, १९९, ३३४, ३६२तुलापुमान् ३८९
कृच्छ्रातिकृच्छ्र १७८, ३८५तोयाहार ३१८
कृत्रिम पुत्र १८७त्रिष्टुप् २०
कौशली वृत्ति, ३०४, ३१०त्रैधातवीय ३०५
क्षत्ता १२३, १२६दक्षिणापथ १४
क्षत्रिय १९, का वध दण्ड १३३, उपनयन १९, वर्ण १२१, से कमण्डलु ७१, पत्नियां १२२, का पुत्र १२५, कर्त्तव्य १२८, आपत्काल में २०१दण्ड २९३
क्षेत्रज १८६दत्तपुत्र १८६
खुर ९७दधिचर्म १०८
दर्श पूर्णमास ३६, १०७
दाक्षायण १०८
दार्बीहोम २७८, ३७३