भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
| ६०४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. २७ |
|---|
णममानं जगतः कारणमिति स्थितम् । शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति । कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति निरवयवत्वात् । यदि ब्रह्म पृथिव्यादिवत्सावयवमभविष्यत्, ततोऽस्यैकदेशः पर्यणंस्यदेकदेशश्चावास्थास्यत । निरवयवं तु ब्रह्म श्रुतिभ्योऽवगम्यते- 'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्' ( श्वे० ६।१९ ), 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः' मु० २।१।२), 'इदं महद्भूतमनन्तमपारं विज्ञानघन, एवं ( बृ० २।४।१२ ), 'स एष नेति नेत्यात्मा' ( बृ० ३।९।२६), 'अस्थूलमनणु' ( बृ० ३।८।८ ) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः । ततश्चैकदेशपरिणामासंभवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत । द्रष्टव्यतोपदेशानर्थक्यं चापद्येत, अयत्नदृष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य च ब्रह्मणोऽसंभवात्, अजत्वादिशब्दकोपश्च । अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत, तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुप्येयुः । सावयवत्वे चानित्यत्वप्रसङ्ग इति । सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति ॥ २६ ॥
श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥
तुशब्देनाक्षेपं परिहरति । न खल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति । न तावत्कृ-
भामती
मेकम् ॐ । यद्यपि श्रुतिशतावेकान्तिकाद्वैतप्रतिपादनपरात् परिणामो वस्तुतो निषिद्धस्तथापि क्षीरादिवेवतादृष्टान्तेन पुनस्तद्द्वास्तव्यप्रसङ्गं पूर्वपक्षोपपस्त्व्वा सर्वथाऽयं पक्षो न घटयितुं शक्यत इत्यपवाद्य "श्रुतेस्तु शब्दमूलत्वात्", "आत्मनि चैवं विचित्राश्च हि" इति सूत्राभ्यां विवर्त्तदृढीकरणेनेकान्तिकाद्वयलक्षणः श्रुत्यर्थः परिशोध्यत इत्यर्थः । ॐ तस्मादस्त्यविकृतं ब्रह्म ॐ तत्त्वतः । ॐ ननु शब्देनापि ॐ इति चोद्यमविद्याकल्पितत्वोद्घाटनाय । नहि निरवयवत्वसावयवत्वाभ्यां विधांन्तरमस्त्येकनिषेधस्येतरविधाननान्तरीयकत्वात् । तेन प्रकारान्तराभावान्निरवयवत्वसावयवत्वयोश्च प्रकारयोरनुपपत्तेर्ग्रावप्लवनाद्यर्थवादवदप्रमाणं शब्दः स्यादिति चोद्यार्थः । परिहारः सुगमः ॥ २६–२७ ॥
भामती-व्याख्या
सकता, अतः इस अधिकरण का आरम्भ सम्भव नहीं ।
समाधान—उक्त शङ्का का निराकरण करने के लिए भाष्यकार ने कहा है—'चेतनमेकमद्वितीयम्' । यद्यपि ऐकान्तिकाद्वैतपरक अनेक श्रुतियों के द्वारा परिणाम की वास्तविकता निराकृत की गई है । तथापि क्षीर और देवादि दृष्टान्तों के द्वारा परिणाम की वास्तविकता सिद्ध करके पूर्वपक्ष ने यह आक्षेप किया कि निरवयव ब्रह्म का परिणाम सर्वथा असङ्गत है—ऐसा कह कर "श्रुतेस्तु शब्दमूलत्वात्" ( ब्र. सू. २।१।२७ ) और "आत्मनि चैवं विचित्राश्च" ( ब्र. सू. २।१।२८ ) इन दो सूत्रों के द्वारा विवर्तवाद का दृढीकरण करते हुए ऐकान्तिक अद्वैतवाद को परिशुद्ध किया जाता है ।
"तस्मादस्ति अविकृतं ब्रह्म"—इस भाष्य का आशय यह है कि मायामय ( विशिष्ट ) ब्रह्म विकारी होने पर भी तात्त्विक ( विशुद्ध ) ब्रह्म अविकारी ही है । "ननु शब्देनापि न शक्यते विरुद्धोऽर्थः प्रतिपादयितुम्"—इस आक्षेप का उद्देश्य ब्रह्मगत परिणामित्व या सावयवत्व में अविद्या-कल्पितत्व प्रकट करना है, क्योंकि आक्षेपवादी का आशय यह है कि निरवयव और सावयवत्व—इन दो विधाओं को छोड़ कर कोई तीसरी विधा है नहीं, अतः उक्त दोनों विधाओं में से एक का निषेध करने पर दूसरी विधा का विधान अवश्यंभावी है । निरवयत्व और सावयत्व—इन दोनों प्रकारों की अनुपपत्ति होने पर उभय-प्रकार-प्रतिपादक आगम प्रमाण वैसे ही अप्रमाण है, जैसे "ग्रावाणः प्लवन्ते"—यह वाक्य । परिहार-भाष्य
निरवयवस्य कृत्स्नत्वम् ] हिन्दीसहितभामतीसंवलितम् ६०५
त्स्नप्रसक्तिरस्ति । कुतः ? श्रुतेः यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयत, एवं विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते, प्रकृतिविकारयोर्भेदेन व्यपदेशात्, 'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' (छा० ६।३।२) इति, 'तावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' (छा० ३।१२।६) इति चैवंजातीयकात्, तथा हृदयायतनत्ववचनात् सत्संपत्तिवचनाच्च । यदि च कृत्स्नं ब्रह्म कार्याभावेनोपयुक्तं स्यात्, 'सता सोम्य तदा संपन्नो भवति' (छा० ६।८।१) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात्, विकृतेन ब्रह्मणा नित्यसंपन्नत्वादविकृतस्य च ब्रह्मणोऽभावात् । तथेन्द्रियगोचरत्वप्रतिषेधाद् ब्रह्मणो विकारस्य चेन्द्रियगोचरत्वोपपत्तेः तस्मादस्त्यविकृतं ब्रह्म । नच निरवयवत्वशब्दव्याकोपोऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् । शब्दमूलं च ब्रह्म शब्दप्रमाणकं नेन्द्रियादिप्रमाणकं तद्यथाशब्दमभ्युपगन्तव्यम् । शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयत्यकृत्स्नप्रसक्तिं निरवयवत्वं च । लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते । ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते-अस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति । किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत । तथा चाहुः पौराणिकाः- 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥' इति । तस्माच्छन्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः ।
ननु शब्देनापि न शक्यते विरुद्धोऽर्थः प्रत्याययितुं निरवयवं च ब्रह्म परिणमते, न च कृत्स्नमिति । यदि निरवयवं ब्रह्म स्यान्नैव परिणमेत । कृत्स्नमेव वा परिणमेत । अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति रूपभेदकल्पनात्सावयवमेव प्रसज्येत । क्रियाविषये हि 'अतिरात्रे षोडशिनं गृह्णाति', 'नातिरात्रे षोडशिनं गृह्णाति' इत्येवंजातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति, पुरुषतन्त्रत्वाच्चानुष्ठानस्य । इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः संभवति, अपुरुषतन्त्रत्वाद्वस्तुनः । तस्माद् दुर्घटमेतदिति । नैष दोषः, अविद्याकल्पितरूपभेदाभ्युपगमात् । नह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यते । नहि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति । अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते । पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते । वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयवत्वं ब्रह्मणः कुप्यति । न चेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात् । सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिपत्तौ फलावगमात् । 'स एष नेति नेत्यात्मा' इत्युपक्रम्याह-'अभयं वै जनक प्राप्तोऽसि' (बृ० ४।२।४) इति । तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति ॥ २७ ॥
भामती-व्याख्या
में आगम-प्रामाण्य का सामञ्जस्य ब्रह्मगत सावयवत्व को अविद्या-कल्पित मानकर ही किया गया है—"अविद्याकल्पितरूपभेदाभ्युपगमात् । न ह्यविद्याकल्पितेन रूपभेदेन सावयवत्वं वस्तु सम्पद्यते" ॥ २६-२७ ॥
| ६०६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. २९ |
|---|
आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥
अपि च नैवात्र विवदितव्यं—कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति । यत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते—'न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते' (बृ० ४।३।१०) इत्यादिना । लोकेऽपि देवादिषु मायाव्यादिषु च स्वरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते । तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति ॥ २८ ॥
स्वपक्षदोषाच्च ॥ २९ ॥
परेषामप्येष समानः स्वपक्षे दोषः । प्रधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः । तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति, निरवयवत्वाभ्युपगमलोपो वा । ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते, सत्त्वरजस्तमांसि त्रयो गुणाः, तेषां साम्यावस्था प्रधानं तैरेवावयवैस्तत्सावयवमिति । नैवंजातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते । यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् । एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति समानत्वात्स्वपक्षदोषप्रसङ्गस्य । तर्काप्रतिष्ठानात्सावयवत्वमेवेति चेत्, एवमप्यनित्यत्वादिदोषप्रसङ्गः । अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा
भामती
अनेन स्फुटितो मायावादः । स्वप्नदृगात्मा हि मनसैव स्वरूपानुपमर्देन रथादीन् सृजति ॥२८॥
चोदयति ॐ ननु नैव इति ॐ । परिहरति ॐ नैवंजातीयकेन इति ॐ । यद्यपि समुदायः सावयवस्तथापि प्रत्येकं सत्त्वादयो निरवयवाः । नह्यस्ति सम्भवः सत्त्वमात्रं परिणमते न रजस्तमसी इति । सर्वेषां सम्भूयपरिणामाभ्युपगमात् । प्रत्येकं चानवयवानां कृत्स्नपरिणामे मूलोच्छेदप्रसङ्गः, एकदेश-
भामती-व्याख्या
"आत्मनि चैवं विचित्राश्च हि" - इस सूत्र के द्वारा सूत्रकार ने वेदान्त का मुख्य सिद्धान्त 'मायावाद' स्फुटित किया है । सूत्रस्थ आत्मा स्वप्न-द्रष्टा विवक्षित है, क्योंकि वहाँ अपने स्वरूप को जैसे-का-तैसा अक्षुण्ण रख कर रथादिरूप विचित्र प्रपञ्च का सर्जन कर लेता है ॥ २८ ॥
आक्षेपवादी कहता है—'ननु नैव तैर्निरवयवम्" । अर्थात् सूत्रकार ने जो "स्वपक्षदोषाच्च" कह कर दोष दिया, वह सांख्य-पक्ष में तभी लागू हो सकता है, जब कि प्रधान (प्रकृति) निरवयव हो, किन्तु सत्त्व, रज और तम — इन तीन लड़ियों से बटी हुई प्रकृतिरूप रज्जु निश्चितरूप से सावयव है, सांख्याचार्यों ने भी कहा है—"सावयवं परतन्त्रम्" (सां० का० १०) ।
उक्त आक्षेप का परिहार है—'नैवं जातीयकेन सावयवत्वेन" । अर्थात् सत्त्व रज और तम का समूह यद्यपि सावयव है, तथापि प्रत्येक गुण निरवयव है, अव्यक्त है । "तद्विपरीतमव्यक्तम्" (सां. का. १०) ऐसा कह कर उसमें सावयवत्व का विपर्यय (निरवयवत्व) सिद्ध किया गया है । ऐसा कभी सम्भव नहीं कि अकेला निरवयव सत्त्व गुण परिणत हो, रजो गुण और तमो गुण परिणत न हों । तीनों गुण मिल कर ही किसी कार्य के रूप में परिणत होते हैं, जैसा कि ईश्वर कृष्ण ने कहा है—"अन्योऽन्यजननमिथुनवृत्तयश्च गुणाः" (सां. का. १२) । प्रत्येक निरवयव गुण यदि समग्रतया परिणत होता है, तब गुणरूप मूल तत्त्व का उच्छेद हो जायगा
निरवयवस्य स्रष्टृत्वम् ] हिन्दीसहितभामतीसंवलितम् ६०७
इत्यभिप्रायः, तास्तु ब्रह्मवादिनोऽप्यविशिष्टाः । तथाणुवादिनोऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्वदि कात्स्न्र्येन संयुज्येत, ततः प्रथिमानुपपत्तेरणुमात्रत्व- प्रसङ्गः । अथैकदेशेन संयुज्येत, तथापि निरवयवत्वाभ्युपगमकोप इति स्वपक्षेऽपि समान एष दोषः । समानत्वाच्च नान्यतरस्मिन्नेव पक्ष उपक्षेप्तव्यो भवति । परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः ॥ २९ ॥
भामती
परिणामे वा सावयवत्वमनिष्टं प्रसज्येत । ॐ तथाणुवादिनोऽपि इति ॐ । वैशेषिकाणां ह्यणुभ्यां संयुज्य द्व्यणुकमेकमारभ्यते, तैस्त्रिभिर्द्व्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया । तत्र द्वयोरण्वोरनवयवयोः संयोगस्तावन्न व्याप्यानव्याप्नुवन्वा तत्र न वर्त्तेत । नह्यस्ति सम्भवः स एव तदानीं तत्र वर्त्तते न वर्त्तते चेति । तथा चोपर्यधःपार्श्वस्थाः षडपि परमाणवः समानदेशा इति प्रथिमानुपपत्तेरणुमात्रः पिण्डः प्रसज्येत । अव्यापने वा षडवयवः परमाणुः स्यादित्यनवयवत्वव्याकोपः । अशक्यञ्च सावयवत्वमुपेतुं, तथा सत्यनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिणामत्वप्रसङ्गः, तस्मात् समानो दोषः । आपा- तमात्रेण साम्यमुक्तं परमार्थतस्तु भाविकं परिणामं वा कार्यकारणभावं वेच्छतामेष दुर्वारो दोषो न पुनरस्माकं मायावादिनामित्याह ॐ परिहृतस्तु इति ॐ ॥ २९ ॥
भामती-व्याख्या
और यदि उसका अवयवशः परिणाम माना जाता है, तब सावयवत्व की आपत्ति होती है, जो कि अनिष्ट है ।
"तथाऽणुवादिनोऽपि"— इस भाष्य के द्वारा वैशेषिक-पक्ष में भी समानदोषता की प्रसक्ति की गई है, क्योंकि उनके मत की प्रक्रिया यह है कि दो परमाणु परस्पर संयुक्त होकर एक द्व्यणुक और तीन द्व्यणुक संयुक्त होकर एक त्र्यणुक आरम्भ करते हैं । वहाँ निरवयव- भूत दो परमाणुओं का संयोग दोनों परमाणुओं एवं एक परमाणु का अपनी ( पूर्व, पश्चिम, उत्तर, दक्षिण, ऊपर और नीचे की ) छहों दिशाओं में विद्यमान छः परमाणुओं के साथ संयोग सभी परमाणुओं को व्याप्त करेगा । व्याप्त किए विना संयोग सम्भव नहीं, क्योंकि व्याप्त न करने का अर्थ है—सम्बन्धित न होना और संयुक्त होने का अर्थ—सम्बन्धित होना है । दोनों विरुद्ध घटनाएँ एक साथ घटित नहीं हो सकतीं । विभिन्न देशों ( छः दिशाओं ) में विद्यमान परमाणुओं से संयुक्त परमाणु के छः अवयव मानने होगे । इस सावयवत्वापत्ति से बचने के लिए यह मानना होगा कि द्व्यणुक-निर्माणार्थ जिन दो परमाणुओं एवं त्र्यणुक- रचनार्थ जिन छः परमाणुओं या तीन द्व्यणुकों का संयोग माना जाता है, वे सभी परमाणु एक ही देश में विद्यमान हैं । तब द्व्यणुक और त्र्यणुकादि सभी पिण्ड अणु परिमाण के ही रहेंगे, उनका मध्यम या महत्परिमाण न हो सकेगा, जैसा कि आचार्य वसुबन्धु कहते हैं—
षट्केन युगपद् योगात् परमाणोः षडंशता ।
षण्णां समानदेशत्वे पिण्डः स्यादणुमात्रकः ॥ (विंशति० १२)
इस प्रकार वैशेषिकों के पक्ष में परमाणु को सावय मानना सम्भव नहीं, निरवयव परमाणु का समग्रतया संयोग मानने पर प्रथिमा (महत्परिमाण) उपपन्न नहीं होती और अवयवशः संयोग मानने पर सावयवत्वापत्तिरूप समान दोष प्रसक्त होता है । अनन्त अवयव-परम्परा मानने पर सुमेरु पर्वत और सरसों के एक दाने का समान परिमाण का प्रसङ्ग दिखाया जा चुका है । भाष्यकार ने यहाँ पर सिद्धान्तों में दोष-साम्य का अभिधान आपाततः ही कर दिया है, वस्तुतः जो लोग परिणामवाद और आरम्भवाद को पारमार्थिक मानते हैं, उन्हीं
| ६०८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. ३१ |
|---|
( १० सर्वोपेताधिकरणम् । सू० ३०-३१ )
सर्वोपेता च तद्दर्शनात् ॥ ३० ॥
एकस्यापि ब्रह्मणो विचित्रशक्तियोग उपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् । तत्पुनः कथमवगम्यते विचित्रशक्तियुक्तं परं ब्रह्मेति ? तदुच्यते — सर्वोपेता च परा देवतेत्यभ्युपगन्तव्यम् । कुतः ? तद्दर्शनात् । तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः — 'सर्वकर्मा सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः' ( छा० ३।१४।४ ), 'सत्यकामः सत्यसंकल्पः' ( छा० ८।७।१ ), 'यः सर्वज्ञः सर्ववित्' ( मुण्ड० १।१।९ ), 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ( बृ० ३।८।९ ) इत्येवंजातीयका ॥ ३० ॥
विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥
स्यादेतत्,-विकरणां परां देवतां शास्ति शास्त्रम् — अचक्षुष्कमश्रोत्रमवागमनः' ( बृ० ३।८।८ ) इत्येवंजातीयकम् । कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् ? देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्यकरणसंपन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्ते । कथं च 'नेति नेति' (बृ० ३।९।२६) इति प्रतिषिद्धसर्वविशेषायाः सर्वशक्तियोगः संभवेदिति चेत्-यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम् ।
भामती
विचित्रशक्तित्वमुक्तं ब्रह्मणस्तत्र श्रुत्युपन्यासपरं सूत्रम्— "सर्वोपेता च तद्दर्शनात्" ॥ ३० ॥
एतदाक्षेपसमाधानपरं सूत्रम्— "विकरणत्वान्नेति चेत्तदुक्तम्" ।
कुलालादिभ्यस्तावद् बाह्यकरणापेक्षेभ्यो देवादीनां बाह्यानपेक्षाणामान्तरकरणापेक्षसृष्टीनां प्रमाणेन दृष्टो यथा विशेषो नापह्नोतुं शक्यः । यथा तु जाग्रत्सृष्टेर्बाह्यकरणापेक्षायास्तदनपेक्षान्तरकरणमात्रसाध्या दृष्टा स्वप्ने रथादिसृष्टिरशक्यापह्नोतुमेवं सर्वशक्तेः परस्या देवताया आन्तरकरणानपेक्षाया जगत्सृर्जनं श्रूयमाणं न सामान्यतोदृष्टमात्रेणापह्नवमर्हतीति ॥ ३१ ॥
भामती-व्याख्या
के मत में कथित दोष प्रसक्त होते हैं, हम मायावादी वेदान्तियों के मत में नहीं, यही भाष्यकार ने कहा है — "परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः"॥ २९ ॥
संशय — समन्वयाध्याय में माया शक्ति-समन्वित ब्रह्म से जगत् की सृष्टि प्रतिपादित है, वह युक्ति-विरुद्ध है ? अथवा नहीं ?
पूर्वपक्ष — लोक में सभी मायाकार ( जादूगर ) शरीरधारी ही होते हैं, शरीर-रहित ब्रह्म का मायावी होना सम्भव नहीं, अतः "मायी सृजते विश्वम्" ( श्वेता. ४।९ ) इत्यादि वेदान्त-वाक्यों का ब्रह्म में समन्वय युक्ति-विरुद्ध है ।
सिद्धान्त — मायारूप विचित्र शक्ति से सम्पन्न ब्रह्म के प्रतिपादक श्रुति-वाक्यों का निदर्शक सूत्र है— "सर्वोपेता च तद्दर्शनात्" । इससे उक्त पूर्वपक्ष का सम्यक् समाधान हो जाता है । सूत्रकार का कहना है कि जैसे दण्ड, चक्रादि बाह्य सामग्री-सापेक्ष कुलालादि की अपेक्षा बाह्य सामग्री-निरपेक्ष देव, पितर और ऋष्यादि की जिस विशेषता का दर्शन किया जाता है, उसका अपलाप नहीं किया जा सकता जाग्रत्सृष्टि की अपेक्षा स्वाप्न सृष्टि की दृष्ट विशेषता भी नकारी नहीं जा सकती । वैसे ही शरीरादि बाह्य एवं आन्तर साधन-निरपेक्ष सर्वशक्ति-सम्पन्न ब्रह्म की श्रूयमाण जगत्कर्तृता केवल सामान्यतो दृष्ट अनुमान के द्वारा निरस्त
| लीलामात्रं सृष्टिः ] | हिन्दीसहितभामतीसंवलितम् | ६०९ |
|---|
श्रुत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम् । नच यथैकस्य सामर्थ्यं दृष्टं तथाऽन्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीति । प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः संभवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव । तथा च शास्त्रम् — 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः' (श्वे० ३।१९) इत्यकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति ॥ ३१ ॥
( ११ नप्रयोजनवत्त्वाधिकरणम् । सू० ३२--३३ )
न प्रयोजनवत्त्वात् ॥ ३२ ॥
अन्यथा पुनश्चेतनकर्तृत्वं जगत आक्षिपति । न खलु चेतनः परमात्मेदं जगद्विम्बं विरचयितुमर्हति कुतः ? प्रयोजनवत्त्वात्प्रवृत्तीनाम् । चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनीमारभमाणो दृष्टः, किमुत गुरुतरसंरम्भाम् ? भवति च लोकप्रसिद्धद्यनुवादिनी श्रुतिः — 'न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति' (बृह० २।४।५) इति । गुरुतरसंरम्भा चेयं प्रवृत्तिर्यदुच्चावचप्रपञ्चं जगद्विम्बं विरचयितव्यम् । यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तत्वं
भामती
न तावदुन्मत्तवदस्य मतिविभ्रमाज्जगत्प्रक्रिया, भ्रान्तस्य सर्वज्ञत्वानुपपत्तेः । तस्मात् प्रेक्षावतानेन जगत् कर्तव्यम् । प्रेक्षावतश्च प्रवृत्तिः स्वपरहिताहितप्राप्तिपरिहारप्रयोजना सती नाप्रयोजनाल्पायासापि सम्भवति, किं पुनरपरिमेयानेकविधोच्चावचप्रपञ्चजगद्विम्बविरचना महाप्रयासा । अत एव लीलापि परास्ता । अल्पायाससाध्या हि सा न चेयमप्यप्रयोजना, तस्या अपि सुखप्रयोजनवत्त्वात्तदर्थ्येन वा प्रवृत्तौ
भामती-व्याख्या
नहीं की जा सकती । [ न्यायसूत्रकार ने अनुमानों के तीन भेद बताए हैं — 'पूर्ववत्, शेषवत्, सामान्यतोदृष्टं च' (न्या. सू. १।१।५) । इनमें किन्हीं दो विशेष धर्मों का कहीं सहचार देख कर सामान्य धर्म के द्वारा अनुमान करना सामान्यतोदृष्ट अनुमान कहलाता है, जैसे भौतिक प्राणियों में स्रष्टृत्व और शरीरित्व का सहचार देख कर 'स्रष्टृत्व' हेतु के द्वारा शरीरित्व का अनुमान — 'ईश्वरः शरीरी, जगत्स्रष्टृत्वात्, कुलालादिवत्' । यह अनुमान आगम प्रमाण से बाधित है — 'अशरीरं शरीरेषु' (कठो. १।२।२१) ] ॥ ३०-३१ ॥
संशय — सर्वथा परितृप्त और निष्काम स्रष्टा का जगत्सृजन युक्ति-विरुद्ध है ? अथवा नहीं ?
पूर्वपक्ष — निष्काम ब्रह्म जगत् की रचना यदि वैसे ही करता है, जैसे कोई उन्मत्त (विक्षिप्त) व्यक्ति अपने मति-विभ्रम से कुछ बना डालता है, तब वह सर्वज्ञ नहीं हो सकता अतः ईश्वर को वैसे ही जगत् का सर्जन करना चाहिए, जैसे प्रेक्षावान् (प्रज्ञावान्) पुरुष कार्य करता है । प्रज्ञाशील पुरुष की प्रवृत्ति सदैव सभी के हित की प्राप्ति एवं अहित की निवृत्ति को ध्यान में रख कर ही होती है, उसकी प्रवृत्ति का लेशमात्र भी निष्प्रयोजन नहीं होता । जगद्रचना-जैसी महनीय एवं अनन्त उच्चावच विविधताओं और विषमताओं से परिपूर्ण रचना निष्प्रयोजन नहीं हो सकती । अत एव इसे किसी की लीला या क्रीड़ा भी नहीं कहा जा सकता, क्योंकि क्रीड़ा के लिए इतने बड़े प्रयास (प्रयत्न) की अपेक्षा नहीं होती । दूसरी बात यह भी है कि क्रीड़ा भी निरर्थक नहीं होती, उसका मनोरञ्जनादि-जनित सुख-
७७
६१० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. ३२
परमात्मनः श्रूयमाणं बाध्येत । प्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात् । अथ चेतनोऽपि सन्नुन्मत्तो बुद्ध्यपराधादन्तरेणात्मारम्भप्रयोजनं प्रवर्त्तमानो दृष्टस्तथा परमा- त्मापि प्रवर्तिष्यत इत्युच्येत, तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत । तस्मादश्लिष्टा चेतनात्सृष्टिरिति ॥ ३२ ॥
लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥
तुशब्देनाक्षेपं परिहरति । यथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किंचित्प्रयोजनमनभिसंधाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति, यथा चोच्छ्वासप्रश्वासादयोऽनभिसंधाय बाह्यं किंचित्प्रयोजनं स्वभावादेव सम्भवन्ति, एवमीश्वरस्याप्यनपेक्ष्य किंचित्प्रयोजनान्तरं स्वभावादेव केवलं लीला- रूपा प्रवृत्तिर्भविष्यति । न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा सम्भवति । न च स्वभावः पर्यन्ुयोक्तुं शक्यते । यद्यप्यस्माकमियं जगद्विम्बविरचना
भामती
तदभावे कृतार्थत्वानुपपत्तेः परेषां चोपकार्याणामभावेन तदुपकाराय अपि प्रवृत्तेरयोगात् । तस्मात् प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता तदभावेऽनुपपन्ना ब्रह्मोपादानतां जगतः प्रतिक्षिपतिरिति प्राप्तम् ॥ २ ॥
एवं प्राप्तेऽभिधीयते— लोकवत्तु लीलाकैवल्यम् ।
भवेदेतदेवं यदि प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता भवेत्तत्तन्निवृत्तौ निवर्तेत, शिंशपात्वमिव वृक्षतानिवृत्तौ, न त्वेतदस्ति प्रेक्षावतामननुसंहितप्रयोजनानामपि यादृच्छिकीषु क्रियासु प्रवृत्तिदर्शनात् । अन्यथा 'न कुर्वीत वृथा चेष्टाम्' इति धर्मसूत्रकृतां प्रतिषेधो निर्विषयः प्रसज्येत । न चोन्मत्तान् प्रत्येतत् सूत्रमर्थवत्तेषां तदर्थबोधतदनुष्ठानानुपपत्तेः । अपि चादृष्टहेतुकोत्पत्तिका श्वासप्रश्वासलक्षणा प्रेक्षावतां
भामती-व्याख्या
प्राप्ति प्रयोजन होता है । जगद्रचना का सुख-प्राप्ति भी प्रयोजन नहीं हो सकता, क्योंकि जगत् की उत्पत्ति से पहले सुख का भी अभाव होता है । जिन प्राणियों का हित-साधन करने के लिए जगद्रचना अभिलषित है, उनका भी पहले अभाव होता है, अतः परोपकारार्थ भी प्रपञ्च-रचना सम्भव नहीं । फलतः प्रज्ञाशील पुरुष की प्रवृत्ति प्रयोजनवत्ता से व्याप्त होती है, अतः प्रयोजन के अभाव में प्रवृत्ति उपपन्न नहीं हो सकती । इस प्रकार जगद्रचना की प्रवृत्ति अनुपपन्न होकर ब्रह्मगत जगदुपादानत्व का निराकरण कर देती है ॥ ३२ ॥
सिद्धान्त—सूत्रकार ने "लोकवत्तु लीलाकैवल्यम्" कह कर सिद्धान्त की स्थापना करते हुए यह स्पष्ट कर दिया है कि यदि प्रेक्षावान् पुरुष की प्रवृत्ति प्रयोजनवत्ता से व्याप्त होती, तब अवश्य ब्रह्मगत जगत्कर्तृत्व पर आघात आ सकता था कि व्यापकीभूत प्रयोजन- वत्ता की निवृत्ति से ब्रह्मनिष्ठ जगदुपादानता की निवृत्ति वैसे ही हो जाती, जैसे वृक्षत्व की निवृत्ति हो जाने से शिंशपात्व की निवृत्ति हो जाती है, किन्तु प्रज्ञावान् पुरुषों की भी कुछ प्रवृत्तियाँ बिना उद्देश्य एवं बिना प्रयोजन की देखी जाती हैं । यदि ऐसा न हो, तब निष्प्रयोजन प्रवृत्ति पर धर्म-शास्त्रकार ऐसा अंकुश न लगाते—"न कुर्वीत वृथा चेष्टाम्" (मनु. ४।६३) । उन्मत्त व्यक्तियों की प्रवृत्ति को रोकने के लिए उक्त मनु-वचन की सार्थकता नहीं मानी जा सकती, क्योंकि इस वचन के द्वारा भी उन्हें व्यर्थ चेष्टा से उपरत नहीं किया जा सकता, उन्हें न तो इस वचन का अर्थ-बोध होगा और न वे इस आज्ञा का पालन ही करेंगे ।
दूसरी बात यह भी है कि प्रेक्षावान् व्यक्तियों की भी श्वास-प्रश्वास क्रिया ऐसी है, जो बिना किसी प्रयोजन के केवल अदृष्टानुप्राणित हो स्वभावतः ही सञ्चारित है । 'चेतनात्मा
लीलामात्रं सृष्टिः ] हिन्दीसहितभामतीसंवलितम् ६११
गुरुतरसंरम्भेवाभाति, तथापि परमेश्वरस्य लीलैव केवलमेयम्, अपरिमितशक्तित्वात् । यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत, तथापि नैवात्र किंचित् प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकामश्रुतेः । नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा; सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च । न चेयं परमार्थविषेया सृष्टिश्रुतिः, अविद्याकल्पितनामरूपव्यवहारगो-
भामती
क्रिया प्रयोजनानुसन्धानमन्तरेण दृष्टा न चास्यां चेतनस्यापि चैतन्यमनुपयोगि, सम्प्रसादेऽपि भावादिति युक्तं प्राज्ञस्यापि चैतन्याप्रच्युतेरन्यथा मृतशरीरेऽपि श्वासप्रश्वासप्रवृत्तिप्रसङ्गात् । यथा च स्वार्थपरार्थ-सम्पदासादितसमस्तकामानां कृतकृत्यतयाऽनाकुलमनसामकामानामेव लीलामात्रात्स्वध्यमुनिष्पादिनि प्रयोजने नैव तदुद्देशेन प्रवृत्तिरेवं ब्रह्मणोऽपि जगत्सर्जने प्रवृत्तिर्नोपपन्ना । दृष्टञ्च यदल्पबलवीर्यबुद्धी-नामशक्यमतिदुष्करं वा तदन्येषामनल्पबलवीर्यबुद्धीनां सुशकमीषत्करं वा न हि वानरैर्मारुतिप्रभृतिभि-र्लङ्घेनं बद्धो नीरनिधिरगाधो महासत्त्वानाम् । न चैष पार्थेन शिलीमुखेनं बद्धो न चायं न पीतः संक्षिप्य चुलुकेन हेलयेव कलशयोनिना महामुनिना । न चाद्यापि न दृश्यन्ते लीलामात्रविनिर्मितानि महाप्रासाद-प्रमदवनानि श्रीमन्मृगनरेन्द्राणामन्येषां मनसापि दुष्कराणि नरेश्वराणाम् । तस्मादुपपन्नं यदृच्छया वा स्वभावाद्वा लीलया वा जगत्सर्जनं भगवतो महेश्वरस्येति । अपि च नेयं पारमार्थिकी सृष्टिये॑नानुयुज्येत प्रयोजनम्, अपि त्वनाद्यविद्यानिबन्धना, अविद्या च स्वभावत एव कार्यान्मुखी न प्रयोजनमपेक्षते, नहि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति । न च तत्कार्या विस्मयभयकम्पादयः स्वोत्पत्तौ प्रयोजनमपेक्षन्ते । सा च चैतन्यविविच्छुरिता जगदुत्पादहेतुरिति चेतनो जगद्योनिरित्याप्यंत इत्याह ॐ न चेयं परमार्थविषया इति ॐ । अपि च न ब्रह्म जगत्कारणमपि तत्त्वया विवक्षन्त्यागमा अपि तु
भामती-व्याख्या
का चैतन्य भी उस क्रिया में उपयोगी नहीं, क्योंकि सुषुप्त (प्राज्ञ) आत्मा में चैतन्य न होने पर भी श्वास-प्रश्वास क्रिया प्रवाहित रहती है'—ऐसा कहना युक्ति-युक्त नहीं, क्योंकि प्राज्ञात्मा में भी चैतन्य अक्षुण्ण रहता है, अन्यथा मृत शरीर में भी श्वासादि क्रिया होनी चाहिए ।
जिन व्यक्तियों के सभी स्वार्थ और परार्थ सिद्ध हो चुके हैं, ऐसे कृत-कृत्य प्रशान्तमनस्क और निष्काम पुरुषों की भी लीलामात्र से जब सभी प्रयोजन अपने-आप निष्पन्न हो जाते हैं, अतः उनकी प्रवृत्ति जैसे सर्वथा निष्प्रयोजन होती है, वैसे ही ब्रह्म की जगद्रचनारूप प्रवृत्ति उपपन्न हो जाती है । लोक में तो यह देखा ही जाता है कि जो कार्य अल्प बलवीर्य वाले व्यक्ति के लिए अत्यन्त अशक्य या दुष्कर होता है, वही कार्य महाशक्ति-सम्पन्न पुरुषों के लिए सुकर या ईषत्कर होता है । विशालकाय प्राणियों के लिए भी अगाध और अपार समुद्र में भी हनुमान्-जैसे वानरपुङ्गवों ने क्या महापर्वतों द्वारा सेतु बन्ध का निर्माण नहीं कर दिया था ? महाधनुर्धर अर्जुन ने क्या बाणों की अद्भुत वर्षा से सागर को पाट नहीं दिया था ? महर्षि अगस्त ने क्या महासागर को एक चुल्लू में भर की पी नहीं लिया था । नृप नरेश के सङ्कल्पमात्र से निर्मित गगन-चुम्बी अट्टालिकाएँ और मोहक प्रमद-वन क्या आज भी नहीं देखे जाते हैं ? फलतः ब्रह्म की जगद्रचना को चाहे याद्दच्छिक, चाहे स्वाभाविक या लीलामात्र कहा जाय, सर्वथा उपपन्न और युक्ति-संगत है ।
दूसरी बात यह भी है कि यह सृष्टि पारमार्थिकी नहीं मानी जाती कि जिसके प्रयोजन का प्रश्न उठता । अनादि अविद्या की देन यह सृष्टि है, अविद्या स्वभावतः विभ्रम कार्य को जन्म दे डालती है, किसी प्रयोजन की अपेक्षा नहीं करती, जैसे कि न तो द्विचन्द्र, अलातचक्र, गन्धर्वनगरादि विभ्रम किसी प्रयोजन को उद्देश्य करके उत्पन्न होते हैं और
६१२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ २ पा. १ सू. ३४
परत्वात् ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेत्येतदपि नैव विस्मर्तव्यम् ॥ ३३ ॥
( १२ वैषम्यनैर्घृण्याधिकरणम् । सू० ३४-३६ )
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ ३४ ॥
पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते, स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय । नेश्वरो जगतः कारणमुपपद्यते । कुतः ? वैषम्यनैर्घृण्यप्रसङ्गात् । कांश्चिदत्यन्तसुखभाजः करोति देवादीन्, कांश्चिदत्यन्तदुःखभाजः पश्वादीन्, कांश्चिन्मध्यमभोगभाजो मनुष्यादीनित्येवं विषमां सृष्टिं निर्मिमाणस्येश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः । श्रुतिस्मृत्यवधारितस्वच्छत्वाद्यीश्वरस्वभावविलोपो प्रसज्येत । तथा खलजनैरपि जुगुप्सितं निघृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत । तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते ब्रूमः—
भामती
जगत्ति ब्रह्मात्मभावं, तथा च सृष्टेरविवक्षायां तदाश्रयो दोषो निर्विषय एवेत्याशयेनाह ॐ ब्रह्मात्मभाव इति ॐ ॥ ३३ ॥
अतिरोहितोऽत्र पूर्वः पक्षः, उत्तरस्तूच्यते । उच्चावचमध्यमसुखदुःखभेदवत्प्राणभृत्प्रपञ्चं च सुखदुःखकारणं सुधाविषादि चानेकविधं विरचयतः प्राणभृद्दोषासत्पापपुण्यकर्माश्रितसहायस्यात्र भवतः परमेश्वरस्य न वैषम्यनैर्घृण्ये प्रसज्येते । न हि सभ्यः सभायां नियुक्तो युक्तवादिनं युक्तवाद्यसीति चायुक्तवादिनमयुक्तवाद्यसीति ब्रुवाणः सभापतिर्वा युक्तवादिनमनुगृह्णन्नयुक्तवादिनञ्च निगृह्णन्ननुरक्तो द्विष्टो
भामती-व्याख्या
न उनसे जनित विस्मय, भय और कम्पादि कार्य ही किसी प्रयोजन की अपेक्षा करते हैं। वह अविद्या चिदात्मा से तादात्म्य स्थापित करके ही जगत् की रचना करती है, अतः चेतन तत्त्व जगत् का उपादान कहा जाता है। भाष्यकार भी यही कह रहे हैं—"न चेयं परमार्थ-विषया"। वस्तुतः सृष्टि-प्रतिपादक वेदान्त-वाक्यों का परम तात्पर्य ब्रह्मात्मभाव के प्रदर्शन में है। सृष्टि अविवक्षित होने के कारण सृष्टिविषयक दोष निर्विषयक हैं—"ब्रह्मात्मभावप्रतिपादनपरत्वात्" ॥ ३३ ॥
संशय—निर्दोष ब्रह्म में सृष्टि-प्रतिपादक वेदान्त-वाक्यों का जो समन्वय किया गया, वह न्याय-विरुद्ध है ? अथवा नहीं ?
पूर्वपक्ष—ब्रह्म को यदि जगत् का रचयिता माना जाता है, तब उसमें वैषम्य और नैर्घृण्य (क्रूरभाव) प्रसक्त होता है, क्योंकि देवादिरूप सात्त्विक और सुखी सृष्टि के प्रति राग, मनुष्यादिरूप राजस एवं दुःखाक्रान्त प्राणियों से द्वेष, पशु-पक्ष्यादि तामस जगत् के निर्माण एवं प्रलयार्थ अतिक्रूरत्व अपेक्षित है ।
सिद्धान्त—यद्यपि भगवान् ने उच्च-नीचादि-भेद-भिन्न विश्व का निर्माण किया, जिसमें कोई सुखी और कोई दुःखी है, अमृत और विष-जैसी विषमताएँ हैं। तथापि उसमें किसी प्रकार का राग, द्वेष और क्रूरत्व नहीं, क्योंकि प्राणियों की अनादि कर्म-वासनाओं को अपने उदर में समेटे महाअविद्या विविधताओं और विषमताओं को जन्म देती जा रही है, भगवान् का क्या दोष ? जैसे किसी सभा में नियुक्त साक्षी या अध्यक्ष युक्तवादी का अनुमोदन और अयुक्तवादी का प्रतारण करता हुआ भी राग-द्वेषपूर्ण या पक्षपाती नहीं होता,
लीलामात्रं सृष्टिः ] | हिन्दीसहितभामतीसंवलितम् | ६१३
वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते । कस्मात् ? सापेक्षत्वात् । यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते, स्यातामेतौ दोषौ—वैषम्यं नैर्घृण्यं च, न तु निरपेक्षस्य निर्मातृत्वमस्ति । सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते । किमपेक्षत इति चेत्, धर्माधर्मावपेक्षत इति वदामः । अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिरिति नायमीश्वरस्यापराधः । ईश्वरस्तु पर्जन्यवद् द्रष्टव्यः । यथा हि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति, व्रीहियवादिवैषम्ये तु तत्तद्बीजगतान्येवासाधारणानि सामर्थ्यानि कारणानि भवन्ति, एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं भवति । देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्ति, एवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति । कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति ? तथा हि दर्शयति श्रुतिः—'एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते' एष उ एवासाधु कर्म कारयति तं यमधो निनीषते' (कौ० ब्रा० ३।८) इति । 'पुण्यो वै पुण्येन
भामती
वा भवत्यपि तु मध्यस्थ इति वीतरागद्वेष इति चाख्यायते, तद्वदीश्वरः पुण्यकर्माणमनुगृह्णन्नपुण्यकर्माणञ्च निगृह्णन्मध्यस्थ एव नामध्यस्थः । एवं ह्यसावमध्यस्थः स्याद्यद्यकल्याणकारिणमनुगृह्णीयात्कल्याणकारिणञ्च निगृह्णीयान्न त्वेतदस्ति । तस्मान्न वैषम्यदोषोऽत एव न नैर्घृण्यमपि संहरतः समस्तान् प्राणभृतः । स हि प्राणभृत्कर्माशयानां वृत्तिनिरोधसमयस्तमतिलङ्घ्यन्नयनेऽयमयुक्तकारी स्यात् । न च कर्मापेक्षायामीश्वरस्य ऐश्वर्यव्याघातः । न हि सेवाविकर्मभेदापेक्षः फलभेदप्रदः प्रभुरप्रभुर्भवति न च "एष ह्येव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीषते एष एवासाधु कर्म कारयति तं यमधो निनीषते" इति श्रुतेरीश्वर एव द्वेषपक्षपाताभ्यां साध्वसाधुनी कर्मणी कारयित्वा स्वर्गं नरकं वा लोकं नयति । तस्माद्वैषम्यदोषप्रसङ्गान्नेश्वरः कारणमिति वाच्यम् ; विरोधात् । यस्मात् कर्म कारयित्वेश्वरः प्राणिनः सुखदुःखिनः
भामती-व्याख्या
अपितु तटस्थ और वीतराग ही माना जाता है। वैसे ही परमेश्वर भी पुण्यवान् पर अनुग्रह और पापी का निग्रह करता हुआ भी मध्यस्थ ही सिद्ध होता है। हाँ, वह तब अमध्यस्थ या पक्षपाती कहा जा सकता था, जब कि अकल्याणकारी पर अनुग्रह और कल्याणकारी का निग्रह करता, किन्तु ऐसा नहीं, अतः उसमें वैषम्य दोष नहीं। इसी प्रकार समस्त प्राणियों का संहार कर देने पर भी वह निर्घृण (क्रूर) नहीं कहा जा सकता, क्योंकि वह प्रलय अवस्था है, जिसमें सभी प्राणियों के कर्म-बीज अवगुण्ठित एवं कार्याक्षम हो जाते हैं, अदृष्टों की इस कुब्ज मर्यादा का उल्लङ्घन करके यदि ईश्वर संसृति-सृजन करने लग जाता, तब अवश्य उसे अयुक्तकारी कहा जा सकता था। अपनी सृष्टि-क्रिया में उन अदृष्टों की अपेक्षा करने मात्र से ईश्वर का ऐश्वर्य वैसे ही व्याहत नहीं होता, जैसे भृत्यों की सेवा के अनुरूप पुरस्कार या भृति प्रदान करनेवाले गृहस्वामी का स्वातन्त्र्य समाप्त नहीं होता।
शङ्का— "एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष एवासाधु कर्म कारयति, तं यमधो निनीषते" (कौ. ब्रा. ३।८) यह श्रुति स्पष्ट कहती है कि ईश्वर ही जिस जीव को देव-लोक में ले जाना चाहता है, उससे साधु (पुण्य-प्रद) कर्म एवं जिसको नरक लोक में ले जाना चाहता है, उससे असाधु (पाप-प्रद) कर्म कराता है। इस प्रकार ईश्वर में स्वयं अपनी राग-द्वेष-युक्तता सिद्ध होती है—'ईश्वरो रागादिमान्, विषमस्सृष्टृत्वात्'।
समाधान— ईश्वर में स्वतः विषम-स्रष्टृत्व का अनुमान करना आगम प्रमाण से सर्वथा विरुद्ध है, क्योंकि उक्त आगमने ईश्वर में स्वतः विषम-स्रष्टृत्व का निराकरण करने के
| ६१४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. ३५ |
|---|
कर्मणा भवति पापः पापेन' (बृ० ३।२।१३) इति च। स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतृत्वं निग्रहीतृत्वं च दर्शयति—'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्' (भ० गी० ४।११) इत्येवंजातीयका ॥ ३४ ॥
न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥
भामती सृजति इति श्रुतेरवगम्यते। तस्मान्न सृजतीति विरुद्धमभिधीयते। न च वैषम्यमात्रमत्र ब्रूमो न त्वीश्वरकारणत्वं व्यासेधाम इति वक्तव्यं किमतो यद्येवं, तस्मादीश्वरस्य सवासनक्लेशापरामर्शमभिवदन्तीनां भूयसीनां श्रुतीनामनुग्रहायोन्निनीषतेऽधो निनीषत इत्येतदपि तज्जातीयपूर्वककर्माभ्यासवशात् प्राणिन इत्येवं नेयम्, यथाहुः—
जन्मजन्मयदभ्यस्तं दानमध्ययनं तपः।
तेनैवाभ्यासयोगेन तच्चैवाभ्यसते नरः॥
इत्यभ्युपेत्य च सृष्टेस्तात्त्विकत्वमिदमुक्तमनिर्व्वाच्या तु सृष्टिरिति न प्रसक्तवैषम्यमत्रापि तथा च मायाकारस्येवाङ्गसाकल्यवैकल्यभेदेन विचित्रान् प्राणिनो दर्शयतो न वैषम्यदोषः, सहसा संहरतो वा न नैर्घृण्यमेवमस्यापि भगवतो विविधविचित्रप्रपञ्चमनिर्व्वाच्यं विश्वं दर्शयतः संहरतश्च स्वभावाद्वा लीलया वा न कश्चित् दोषः ॥ ३४ ॥
इति स्थिते शङ्कापरिहारपरं सूत्रम्—न कर्माविभागादिति चेन्नानादित्वात् शङ्कोत्तरे अतिरोहि-
भामती-व्याख्या लिए 'कर्म कारयित्वा सृजति'—ऐसा कहा है, अर्थात् प्राणियों के अदृष्टों का अनादि प्रवाह माना जाता है, ईश्वर जीवों से उनके पूर्व-पूर्व अदृष्ट के अनुसार ही शुभ या अशुभ कर्म कराता है, अपने-आप किसी से कुछ नहीं कराता। जीवों के शुभाशुभ कर्मों से जनित अदृष्टों के अनुरूप ही ईश्वर सृष्टि और प्रलय करता है, फिर वह दोषी क्यों होगा? यदि कहा जाय कि जगत् में ईश्वरकारणकत्व का निषेध नहीं किया जाता, केवल वैषम्य की सिद्धि की जाती है। तब प्रश्न उठता है कि इससे क्या होगा? ईश्वर सर्वथा अविद्यादि क्लेश और उनकी वासनाओं (संस्कारों) से रहित है, जैसा कि महर्षि पतञ्जलि कहते हैं—"क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः" (यो. सू. १।२४)। इस प्रकार के रागादि-रहित ईश्वर की प्रतिपादिका अनन्त श्रुतियों के अनुरोध पर यह मानना होगा कि ईश्वर में कतिपय प्राणियों की जो उन्निनीषा या अधोनिनीषा उत्पन्न होती है, वह उन प्राणियों के ही पूर्वकर्म की प्रेरणा से ही होती है, स्वतः नहीं जैसा कि कहा गया है—
जन्मजन्मयदभ्यस्तं दानमध्ययनं तपः।
तेनैवाभ्यासयोगेन तच्चैवाभ्यसते नरः॥
अर्थात् जीव ने जो अपने पूर्व जन्म में दान, अध्ययन और तप किया है, उसी के संस्कारों का पाथेय लेकर वह इस जन्म में आया है, अतः वैसा ही अभ्यास (पुनरावर्तन) करता रहता है। ईश्वर तो केवल प्राणियों के सामूहिक अदृष्टों के आधार जगत् का सर्जन कर देता है, उसकी विषमता में तो कर्मों के संस्कार ही प्रयोजक होते हैं। यह समाधान तो सृष्टि को तात्त्विक मान कर किया गया है। वस्तुतः सृष्टि मायामयी अनिर्वचनीया है, अतः मायाकार (जादूगर) के समान सकल (सर्वाङ्ग पूर्ण) और विकल (अपूर्ण) प्राणियों की रचना करने पर भी ईश्वर में न तो किसी प्रकार की विषमता सिद्ध होती है और न समग्र प्राणियों का संहार कर देने पर नैर्घृण्य (निष्ठुरत्व) ॥ ३४ ॥
पूर्व सूत्र में "कर्मजं लोकवैचित्र्यम्" (अभि. को. ४।१) की जो स्थापना की गई, उस
अनादिः संसारः ] हिन्दीसहितभामतीसंवलितम् ६१५
'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' (छा० ६।२।१) इति प्राक्सृष्टेर्- विभागावधारणान्नास्ति कर्म, यदपेक्ष्य विषमा सृष्टिः स्यात् । सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभाग इतीतरेतराश्रयत्वं प्रसज्येत । अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्त्ततां नाम । प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत्, नैष दोषः, अनादित्वात्संसारस्य । भवेदेव दोषो यद्यादिमान् संसारः स्यात् । अनादौ तु संसारे बीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते ॥ ३५ ॥ कथं पुनरवगम्यतेऽनादिरेष संसार इति ? अत उत्तरं पठति - उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥ उपपद्यते च संसारस्यानादित्वम् । आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्ता- नामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृताभ्यागमप्रसङ्गश्च, सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात् । न चेश्वरो वैषम्यहेतुरित्युक्तम् । न चाविद्या केवला वैषम्यस्य कार-
भामती
तार्थेन भाष्यग्रन्थेन व्याख्याते ॥ ३५ ॥ अनादित्वादिति सिद्धवदुक्तं तत्साधनार्थं सूत्रम् - "उपपद्यते चाप्युपलभ्यते च" ॥ ३६ ॥ अकृते कर्माणि पुण्ये पापे वा तत्फलं भोक्तारमध्यागच्छेत् तथा च विधिनिषेधशास्त्रमनर्थकं भवेत् प्रवृत्तिनिवृत्त्यभावादिति मोक्षशास्त्रस्य चोक्तमानर्थक्यम् । न चाविद्या केवलेति लयाभिप्रायम् । विक्षेप- लक्षणाविद्यासंस्कारस्तु कार्यत्वात् स्वोत्पत्तौ पूर्वं विक्षेपमपेक्षते, विक्षेपश्च मिथ्याप्रत्ययो मोहापरनामा
भामती-व्याख्या
पर शङ्का उठाई गई कि द्वितीयादि सृष्टियों में पूर्व कर्म-जन्यत्व सम्भव होने पर भी प्रथम सृष्टि में कर्म-प्रयुक्तत्व क्योंकर सम्भावित होगा ? क्योंकि "सदेव सोम्येदमग्र आसीत्" (छा० ६।२।१) यह श्रुति प्रथम सृष्टि से पूर्व कर्त्ता, कर्म और करणादि-विभाग का निषेध करती है। इस शङ्का का समाधान है - "अनादित्वात्" । अर्थात् संसार अनादि है, इसकी कभी आदि (प्रथम) सृष्टि मानी ही नहीं जाती, अतः पूर्व-पूर्व कर्मों के आधार पर उत्तरोत्तर सृष्टि का उच्चावचभाव सम्पन्न हो जाता है ॥ ३५ ॥ 'अनादित्व' हेतु को सिद्ध समझ कर उद्धृत कर दिया गया, वस्तुतः वह सिद्ध नहीं किया गया, अतः उसकी सिद्धि करने के लिए कहा गया है - "उपपद्यते चाप्युपलभ्यते च"। यदि संसार को अनादि न मानकर आदिमान् माना जाता है, तब प्रथम सृष्टि के पहले पुण्य- पापादि रूप कर्मों के न रहने पर इस जन्म में जीव को सुख-दुःखादि रूप फल का लाभ जो मिलता है, वह अकृताभ्यागम (कर्म किए बिना ही फल की प्राप्ति) है। कर्म किए बिना ही जब उनका फल मिल जाता है, तब विधि-निषेधात्मक शास्त्र निरर्थक और अप्रमाण हो जाते हैं, क्योंकि शास्त्रों के द्वारा न किसी की प्रवृत्ति होती है और न निवृत्ति । केवल विधि-निषेधा- त्मक कर्मकाण्ड का ही आनर्थक्य नहीं होता, अपि तु मोक्ष-शास्त्र (वेदान्त-शास्त्र) भी व्यर्थ हो जाता है, क्योंकि कर्मों के बिना ही यदि संसार होता है, तब मुक्त पुरुषों को भी संसरण (जन्म-मरणादिरूप बन्धन) प्राप्त हो जायगा, यही भाष्यकार ने कहा है - "मुक्तानामपि संसारोद्भूतिप्रसङ्गः" । भाष्यकार ने जो कहा है - "न चाविद्या केवला वैषम्यस्य कारणम्।" वह प्रलय-प्रयोजिका अविद्या को ध्यान में रखकर कहा है, क्योंकि विक्षेप (सृष्टि) की प्रयो- जिका अविद्या कार्य (जन्य) होने के कारण अपनी उत्पत्ति में नियमतः अपने पूर्व संसाररूप विक्षेप की अपेक्षा करती हैं। विक्षेप नाम है-मिथ्या ज्ञान का, जिसकी दूसरी संज्ञा है-
६१६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. २ पा. १ सू. ३६
णम्, एकरूपत्वात् । रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् । न च कर्मान्तरेण शरीरं सम्भवति, न च शरीरमन्तरेण कर्म सम्भवतीतीतरेतराश्रय-त्वप्रसङ्गः । अनादित्वे तु बीजाङ्कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति । उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः । श्रुतौ तावत् 'अनेन जीवेनाऽऽत्मना' ( छा० ६।३।२ ) इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्नादिः संसार इति दर्शयति । आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखेऽभिलप्येत ? न च धारयिष्यतीत्यतोऽभिलप्येत; अनागताद्धि सम्बन्धादतीतः सम्बन्धो बलवान् भवति, अभिनिष्पन्नत्वात् । 'सूर्याचन्द्रमसौ धाता
भामती
पुण्यापुण्यप्रवृत्तिहेतुभूतरागद्वेषनिदानं, स च रागादिभिः सहितः स्वकार्ये शरीरं सुखदुःखभोगायतन-मन्तरेण सम्भवति । न च रागद्वेषावन्तरेण कर्म, न च भोगसहितं मोहमन्तरेण रागद्वेषौ, न च पूर्वं-शरीरमन्तरेण मोहादिरिति पूर्वपूर्वशरीरापेक्षो मोहादिरेवं पूर्वपूर्वमोहाद्यपेक्षं पूर्वपूर्वशरीरमित्यनादितेवात्र भगवती चित्तमनाकुलयन्ति । तदेतदाह ॐ रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्याद् इति ॐ । रागद्वेषमोहा रागादयस्त एव हि पुरुषं संसारदुःखमनुभाव्य क्लेशयन्तीति क्लेशास्तेषां वासनाः कर्मप्रवृत्त्यनुगुणास्ताभिराक्षिप्तानि प्रवर्त्तितानि कर्माणि तदपेक्षा लयलक्षणाऽविद्या । स्यादेतत्—भविष्यताऽपि व्यपदेशो दृष्टो यथा पुरोडाशकपालेन तुषानुपवपतीत्यत आह ॐ न च धारयिष्यतीत्यतः इति ॐ । तदेव-
भामती-व्याख्या
मोह । मोह सदैव पुण्य-पापरूप प्रवृत्ति के हेतुभूत राग और द्वेष का कारण होता है । रागादि कार्यों से युक्त मोह सुख-दुःखरूप भोग के आयतनभूत शरीर के बिना नहीं हो सकता । राग-द्वेष के बिना पुण्य-पापात्मक कर्म, कर्मों ( अदृष्टों ) के बिना शरीर, राग-द्वेष और पूर्व शरीर के बिना मोहादि उत्पन्न नहीं हो सकते, अतः पूर्व-पूर्व शरीर की अपेक्षा उत्तरोत्तर मोहादि एवं पूर्व-पूर्व मोह की अपेक्षा उत्तरोत्तर शरीर का लाभ—इस प्रकार बौद्ध सम्मत अविद्यादि बारह पदार्थों के समान अनादि भाव-परम्परा का अनुसरण करना आवश्यक है [ जैसा कि वसुबन्धु ने भी कहा है—"क्लेशकर्म हेतुकं जन्म, तद्धेतुकानि पुनः क्लेशकर्माणि, तेभ्यः पुनर्जन्मेत्यनादि भवचक्रकं वेदितव्यम्" ( अभि. को. भा. पृ. १३० ] । भाष्यकार यही कह रहे हैं—"रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात्" । भाष्यस्थ रागादि पद से राग, द्वेष और मोह का ग्रहण किया गया है, क्योंकि वे ही जीव को संसार-रूपी दुःख का अनुभव कराकर क्लेशित ( दुःखी ) करने के कारण क्लेश कहे जाते हैं । उन क्लेशों की जो वासनाएँ ( संस्कार ) हैं, उनके द्वारा आक्षिप्त ( प्रवर्तित ) कर्मों से युक्त होकर ही लयात्मिका अविद्या विश्व की विषमताओं को जन्म देती है । "अनेन जीवेनात्मना" ( छा. ६।३।२ ) इस श्रुति में 'जीव प्राणधारणे' धातु से निष्पन्न 'जीव' पद के द्वारा जो आत्मा का व्यवहार किया गया है, वह अतीत सृष्टि-कालीन प्राण-धारण के निमित्त से ? अथवा भावी सर्ग के प्राण-धारण को दृष्टि में रखकर ? ऐसा सन्देह होने पर पूर्वपक्षी कहता है कि अतीत सृष्टि मानने की आवश्यकता नहीं, भावी प्राण-धारण को वैसे ही निमित्त बनाया जा सकता है, जैसे "पुरोडाशकपालेन तुषानुपवपत्ति"—यहाँ पर भावी पुरोडाश-पाकादिरूप सम्बन्ध को लेकर 'पुरोडाशकपाल' शब्द का व्यवहार है, जैसा कि महर्षि जैमिनि कहते हैं—"अर्थाभिधान-कर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते" ( जै. सू. ४।१।२६ ) । उक्त पूर्वपक्ष का खण्डन करते हुए भाष्यकार ने कहा है—"अनागताद्धि सम्बन्धादतीतः सम्बन्धो बलवान्" ।
निर्गुणस्य स्रष्टृत्वम् ] हिन्दीसहितभामतीसंवलितम् ६१७
यथापूर्वमकल्पयत्' (ऋ० सं० १०।१९०।३) इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्श- यति । स्मृतावप्यनादित्वं संसारस्योपलभ्यते—'न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा' (गी० १५।३) इति पुराणे चातीतानागतानां च कल्पानां न परिमाणमस्तीति स्थापितम् ॥ ३६ ॥
——o——
( १३ सर्वधर्मोपपत्त्यधिकरणम् । सू० ३७ )
सर्वधर्मोपपत्तेश्च ॥ ३७ ॥
चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्वि- लक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यः। इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्स- माणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति । यस्मादस्मिन् ब्रह्मणि कारणे परिगृह्य- माणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते 'सर्वज्ञं सर्वशक्ति महामायं च ब्रह्म'
भामती मनादित्वे सिद्धे सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति प्राक् सृष्टेरविभागावधारणं समुदाचरद्रूप- रागादिनिषेधपरं न पुनरेतान् प्रसुप्तानप्याकरोतीति सर्वमवदातम् ॥ ३६॥
अत्र ☸सर्वज्ञमिति☸ दृश्यते सर्वस्य चेतनाधिष्ठितस्यैव लोके प्रवृत्तिरिति लोकानुसारो दर्शितः। ☸ सर्वशक्ति इति ☸ सर्वस्य जगत उपादानकारणं निमित्तकारणं चेत्युपपादितम्। ☸महामायम् इति☸
भामती-व्याख्या कर्म और सृष्टि का बीज-वृक्ष के समान अनादि हेतु-हेतुमद्भाव सिद्ध हो जाने पर जो “सदेव सोम्येदमग्र आसीत्”—इस श्रुति के बल पर कर्मादि के विभाग का निराकरण किया गया है, वह केवल प्रवर्तमान (स्थूल या सक्रिय) कर्मादि का ही निषेध है, प्रसुप्त (सूक्ष्म या संस्काररूपेण अवस्थित) कर्मादि का नहीं ॥ ३६ ॥
——oo——
संशय—निर्गुण ब्रह्म में जगदुपादानत्व युक्तिविरुद्ध है? अथवा नहीं ?
पूर्वपक्ष—लोक में मृत्तिकादि सगुण पदार्थ ही घटादि पदार्थों के उपादान कारण देखे जाते हैं, रसादि निर्गुण पदार्थ किसी के भी उपादान नहीं होते, अतः 'ब्रह्म न जगत् उपादानम्, निर्गुणत्वाद्, रसादिवत्'—इस अनुमान के द्वारा निर्गुण ब्रह्म में उपादानत्व का समन्वय बाधित हो जाता है।
सिद्धान्त—[ ब्रह्म में परिणामित्वरूप उपादानत्व अवश्य युक्ति-विरुद्ध है, विवर्तोपादानत्व नहीं, क्योंकि ज्वरित व्यक्ति को मधुर रसरूप निर्गुण पदार्थ में भी कटुत्वादि का भ्रम हो जाता है, अतः कटुत्वादि की विवर्तोपादानता रसादि में सम्भव हो जाती है। ब्रह्म में अभिन्ननिमित्तोपादानत्व सिद्ध किया जा चुका है, उसकी पूर्ण योग्यता श्रुति-प्रतिपादित है, क्योंकि वह सर्वज्ञ सर्वशक्तिक और महामाया का आश्रय है ] यहाँ 'सर्वज्ञ' शब्द के द्वारा निमित्त कारणता प्रदर्शित की है, क्योंकि लोक में कुलालादिरूप विज्ञ (चेतन) व्यक्तियों से अधिष्ठित मृदादि पदार्थ ही घटादि निर्माणार्थ प्रवृत्त होते हैं, अतः कुलालादि के समान ही ब्रह्म जगत् का निमित्त कारण माना जाता है। 'सर्वशक्ति' पद के द्वारा 'शक्तस्य शक्यकारणात्'—इस न्याय के अनुसार ब्रह्म में जगत् की उपादानता प्रदर्शित है। 'महामायम्'—इस पद के द्वारा समस्त अनुपपत्तियाँ परास्त की गई है, क्योंकि माया के द्वारा ब्रह्म में सभी धर्म
७८
६१८ ब्रह्मसूत्रशाङ्करभाष्यम् [अ. २ पा. १ सू. ३७
इति, तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति ॥ ३७ ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यशङ्करभगवत्पूज्यपादकृतो शारीरक-
मीमांसाभाष्ये द्वितीयाध्यायस्य सांख्यादिप्रयुक्ततर्कैश्च वेदान्त-
समन्वयविरोधपरिहाराख्यः प्रथमः पादः समाप्तः ॥ १ ॥
——०——
भामती
सर्वानुपपत्तिशङ्का परास्ता । तस्माज्जगत्कारणं ब्रह्मेति सिद्धम् ॥ ३७ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादशारीरकभाष्यविभागे भामत्यां
द्वितीयाध्यायस्य प्रथमः पादः समाप्तः ॥
भामती-व्याख्या
उपपन्न हो जाता है—"न हि मायायां काचिदनुपपत्तिः" (ब्र. सि. पृ. २०)। आचार्य गौडपाद भी कहते हैं—
"स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥" (आगम. २।३२)
स्वामियोगीन्द्रानन्दोदासीनविरचितायां भामतीव्याख्यायां
अविरोधाख्यस्य द्वितीयाध्यायस्य
प्रथमः पादः समाप्तः ।
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह एक रिक्त (कोरा) पृष्ठ है।
इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ (blank page) है।
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह केवल एक चित्रमय/पैटर्न वाला पृष्ठ (कवर/एंडपेपर) है।