दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
६० दशकुमारचरितम् । [ पूर्वपीठिकायां
६० दशकुमारचरितम् । [ पूर्वपीठिकायां सारताम्बूलादिनानाजातिवस्तुनिचयेन पूजां तस्मै कारयामास । राजवा- हनोऽप्येवमचिन्तयत्—'नूनमेषा पूर्वजन्मनि मे जाया यज्ञवती । नो चेदेतस्यामेवंविधोऽनुरागो मन्मनसि न जायेत । शापावसानसमये तपो- निधिदत्तं जातिस्मरत्वमावयोः समानमेव । तथापि कालजनितविशेष- सूचकवाक्यैरस्या ज्ञानमुत्पादयिष्यामि' इति । (१२) तस्मिन्नेव समये कोऽपि मनोरमा राजहंसः केलीविधित्सया तदुपकण्ठमगमत् । समुत्सुकया राजकन्यया मरालग्रहणे नियुक्तां बालच- न्द्रिकामवलोक्य समुचितो वाक्यावसर इति सम्भाषणनिपुणो राजवाहनः सलीलमलपत्-'सखि, पुरा शाम्बो नाम कश्चिन्महीवल्लभो मनोवल्लभया सह विहारवाञ्छया कमलाकरमवाप्य तत्र कोकनदकदम्बसमीपे निद्राधीन- अवन्तिसुन्दरी । जाया पत्नी । शापावसानसमये—यदा शापस्य समाप्तिर्भविष्यति तदा। तपोनिधिना तापसेन येन पूर्वं शापो दत्तस्तेन दत्तं विहितम् । जातिस्मरत्वं पूर्वजन्मस्मरणम् । कालेन दीर्घसमयेन जनित उत्पादितो यो विशेषस्तस्य सूचकानि प्रकाशकानि यानि वाक्यानि तैः । (१२) तस्या अवन्तिसुन्दर्या उपकण्ठं समीपम् । समुचितो योग्यः । वाक्या- वसरः अस्मिन्नेव समये किञ्चिद्वक्तव्यमित्यर्थः । महीवल्लभो राजा । मनोवल्लभया स्वप्रियया । कमलाकरं सरोवरम् । कोकनदानां रक्तोत्पलानां कदम्बं समूहस्तस्य समीपे । निद्राधीनमानसं निद्रया आक्रान्तम् । विसगुणेन मृणालतन्तुना । तस्य हुआ और कामदेवके जीतनेवाले राजवाहनको योग्य आसन पर बैठाया तथा सखियोंके हाथोंसे गन्ध, पुष्प, माला, चन्दन, कर्पूर, ताम्बूल आदि विविध प्रकारकी वस्तुओंसे पूजा करायी। कुमार राजवाहनने अपने मनमें विचार किया—यह कुमारी पूर्व जन्ममें अवश्य ही मेरी भार्या यज्ञवती थी यदि वह न होती तो मेरे मनमें इतना प्रेमांकुर न उत्पन्न होता । यद्यपि पूर्व जन्ममें मुनिप्रदत्त शापके अन्तमें मुनि का वरदान था कि हम लोगोंको पूर्ववृत्तकी स्मृति रहेगी । वे बातें भी इसमें घटती है, मुझमें और इस कुमारीमें समान भावसे पूर्व जन्म स्मृति है तथापि मैं बात-चीतके सिल-सिलेमें इसे पूर्व जन्मकी स्मृति दिलाना उचित सम- झता हूँ । क्योंकि हम लोगोंमें यह ज्ञान बहुत दिनोंके पश्चात् आया है—न इसके दर्शन होते न ज्ञान उत्पन्न होता । (१२) इतनेमें ही क्रीड़ा करते-करते एक मनोहर राजहंस हंसिनीके पीछे-पीछे अवन्ति- सुन्दरीके पास आ गया । जिसे देखकर राजकुमारी उत्सुक हो गयी और बालचन्द्रिकाको उसे पकड़नेके लिए भेजा। वार्तालापमें प्रवीण राजवाहनने एकान्त पाकर बात करनेका अवसर
पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६१ मानसं राजहंसं शनैर्गृहीत्वा बिसगुणेन तस्य चरणयुगलं निगडयित्वा कान्तामुखं सानुरागं विलोकयन्मन्दस्मितविकसितैककपोलमण्डलस्ताम- भाषत—'इन्दुमुखि, मया बद्धो मरालः शान्तो मुनिवदास्ते । स्वेच्छयानेन गम्यताम्' इति । (१३) सोऽपि राजहंसः शाम्बमशपत्—'महीपाल, यदस्मिन्नम्बुज- खण्डेऽनुष्ठानपरायणतया परमानन्देन तिष्ठन्तं नैष्ठिकं मामकारणं राज्यगर्वे- णावमानितवानसि तदेतत्पाप्मना रमणीविरहसन्तापमनुभव' इति । वि- षण्णवदनः शाम्बो जीवितेश्वरीविरहमसहिष्णुर्भूभौ दण्डवत्प्रणम्य सवि- नयमभाषत—'महाभाग, यदज्ञानेनाकरवं तत्क्षमस्व' इति । स तापसः हंसस्य । निगडयित्वा बद्ध्वा । मन्दस्मितेन ईषद्धसितेन विकसितं प्रफुल्लमेकं कपोलमण्डलं गण्डस्थलं यस्य सः । तां स्वकान्ताम् । अनेन हंसेन । (१३) अम्बुजखण्डे कमलसमुदाये । अनुष्ठाने ध्यानादिकरणे परायणः प्रवृत्तः तस्य भावस्तया । नैष्ठिकं ब्रह्मचारिणम् । अवमानितवान् अवज्ञावान् । पाप्मना पापेन अपराधेनेति यावत् । रमण्या दयिताया विरहस्य विच्छेदस्य सन्तापं क्लेशम् । असहिष्णुः सोढुमशक्नुवन् । करुणया आकृष्टं चेतो यस्य सः दयापरवशचित्तः । शा- पफलाभावः—शापस्य फलं न भविष्यतीत्यर्थः । अमोघतया अन्यर्थतया । भाविनि उचित समझकर बात-चीत छेड़ दी । उन्होंने लीलापूर्वक कहा—हे प्रिये ! प्राचीन कालमें शाम्ब नामका एक महीपति अपनी जायाके साथ जलविहार करनेकी अभिलाषासे एक सरो- वरके तटपर गया । वहांपर कमलोंके मध्यमण्डलमें सोता हुआ एक राजहंस दीख पड़ा । उसे पकड़कर उसने धीरेसे उसके चरणोंमें कमलदण्डका सूत्र बाँध दिया। प्रेमसे प्रफुल्लित कपोलमण्डल करके अपनी प्रियतमाके मुखको मन्दस्मितके साथ देखकर बोला- हे चन्द्रमुखि ! मैंने इस राजहंसको बाँध दिया है। यह मुनिके समान स्थिरचित्त हो गया है । अच्छा अब इसे छोड़ ही देता हूँ ! यह चाहे जहाँ विचरे । यह कहकर उसने उसे छोड़ दिया । (१३) उस राजहंसने राजा शाम्बको उसी समय शाप दिया कि, हे राजन् ! इस कमलवनमें राजहंसके रूपमें मैं परब्रह्मके ध्यानमग्न समाविस्थ था और परमानन्द सुखभोग रहा था । ऐसे नैष्ठिक तथा निरपराधी मुनिका राज्यमदसे अपमान तुमने स्व-प्रियाके अनुरं- जनार्थ किया है अतः इस अपराधका दण्ड तुम्हें अपनी 'भार्याका वियोग' भोगना पड़ेगा । इसपर राजाका मुख म्लान हो गया और अपनी प्रियाके विरहको सहन करनेमें अशक्त होकर उसने ऋषिवरके चरण छुए तथा प्रार्थना की कि, हे महाभाग ! अज्ञानवश मुझसे यह अप- राध हो गया, कृपया क्षमा करें । करुणाद्रंचित्त उन तपस्वीने राजा शाम्बसे कहा-हे राजन् ! मेरी वाणी सत्य है । अतः तुम्हें यह शाप इस जीवनमें न होकर अन्य जीवनमें अवश्य प्राप्त
६२ दशकुमारचरितम्। [ पूर्वपीठिकायां
६२ दशकुमारचरितम्। [ पूर्वपीठिकायां करुणाकृष्टचेतास्तमवदत्—'राजन्, इह जन्मनि भवतः शापफलाभावो भवतु । मद्वचनस्यामोघतया भाविनि जनने शरीरान्तरं गतायाः अस्याः सरसिजाक्ष्या रसेन रमणो भूत्वा मुहूर्त्तद्वयं मच्छरणयुगलबन्धकारितया मासद्वयं शृङ्खलानिगडितचरणो रमणीवियोगविषादमनुभूय पश्चादनेक- कालं वल्लभया सह राज्यसुखं लभस्व' इति । (१४) तदनु जातिस्मरत्वमपि तयोरन्वगृह्णात् । 'तस्मान्मरालबन्धनं न करणीयं त्वया' इति । सापि भर्तृदारिका तद्वचनाकर्णनाभिज्ञातस्वपुरा- तनजननवृत्तान्ता 'नूनमयं मत्प्राणवल्लभः' इति मनसि जानती रागपल्ल- वितमानसा समन्दहासमवोचत्—'सौम्य, पुरा शाम्बो यज्ञवतीसन्देशपरि- पालनाय तथाविधं हंसबन्धनमकार्षीत् । तथा हि लोके पण्डिता अपि दाक्षिण्येनाकार्यं कुर्वन्ति' इति । कन्याकुमारावेवमन्योन्यपुरातनजनन- भविष्यति । जनने जन्मनि । ( जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भव इत्यमरः ) । शरीरान्तरङ्गतायाः अन्यदेहं प्राप्तायाः। रसेन अनुरागेण । रमणो वल्लभः। मुहू- र्त्तैति-त्वया तु मुहूर्त्तद्वयमेव मच्छरणयुगलस्य बन्धनं कृतं तेन पुनर्मासद्वयं तत्फलं त्वया भोक्तव्यमित्यर्थः । शृङ्खलया निगडितौ बद्धौ चरणौ यस्य सः । अनेककालं दीर्घकालं यावत् । (१४) अन्वगृह्णात् अनुज्ञातवान् । तद्वचनस्य राजवाहनवाक्यस्य आकर्णनेन श्रवणेन अभिज्ञातः स्मृतः स्वपुरातनजननस्य निजपूर्वजन्मनो वृत्तान्तो यया सा । रागेणानुरागेण पल्लवितं प्रफुल्लं मानसं यस्याः सा । दाक्षिण्येन परच्छन्दानुरोधेन । अकार्यमनुचितम् । कन्याकुमारौ अवन्तिसुन्दरीराजवाहनौ । एवमित्थम् । अन्यो- होगा । उस समय तुम दोनोंको इस जीवनकी स्मृति भी बनी रहेगी तथा मुझे दो मुहूर्त्त बाँधा है अतः तुम्हें दो मास शृङ्खलाबद्ध होकर रमणीवियोग अवश्य सहना पड़ेगा । तत्पश्चात् उस रमणीके साथ अति कालतक राज्यसुख भोगोगे । (१४) फिर तुरत ही उन तपस्वीने एक और वरदान देकर कहा 'जाओ तुम लोगोंको जाति-स्मरत्व' रहे ( पूर्वजन्मकी बात याद रहे )। अतः हे राजपुत्री ! आपसे कहता हूँ कि आप राजहंसको न बाँधें । राजकुमारीको भी राजकुमारकी बातें सुन- कर पूर्व जीवनकी स्मृति हो आई और दृढ़ प्रतीति हो गयी कि ये ही मेरे प्राणप्रिय उस जीवनके हैं । निश्चयानन्तर उसका मुख-कमल विकसित हो गया तथा वह प्रेमसे हँसकर कहने लगी-हे सौम्य ! उस समय राजा शाम्बने रानी यज्ञवतीके आदेशानुसार राजहंसको पकड़कर बाँधा था । इससे विदित होता है कि
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६३ नामधेये परिचिते परस्परज्ञानाय साभिज्ञमुक्त्वा मनोजरागपूर्णमानसौ बभूवतुः । (१५) तस्मिन्नवसरे मालवेन्द्रमहिषी परिजनपरिवृता दुहितृकेली- विलोकनाय तं देशमवाप । बालचन्द्रिका तु तां दूरतो विलोक्य ससम्भ्रमं रहस्यनिर्भेदभिया हस्तसंज्ञया पुष्पोद्भवसेव्यमानं राजवाहनं वृक्षवाटिका- न्तरितगात्रमकरोत् । सा मानसारमहिषी सखीसमेताया दुहितुर्नानाविधां विहारलीलामनुभवन्ती क्षणं स्थित्वा दुहित्रा समेता निजागारगमनायो- द्युक्ता बभूव । मातरमनुगच्छन्ती अवन्तिसुन्दरी 'राजहंसकुलतिलक, विहारवाञ्छया केलिवने यदन्तिकमागतं भवन्तमकाण्ड एव विसृज्य मया समुचितमपि जनन्यनुगमनं क्रियते-तदनेन भवन्मनोरागोऽन्यथा मा न्येति-परस्परपूर्वजन्मनामनी । परस्परज्ञानाय परस्परप्रतिबोधनाय । साभिज्ञं सप्रमाणम् । मनोजः कामः रागोऽनुरागस्ताभ्यां पूर्णं मानसं ययोस्तौ । (१५) तां महिषीम् । ससम्भ्रमं सत्वरम् । रहस्यनिर्भेदभिया राजमहिषी यदि तथाविधं राजपुत्रं पश्येत्तदा रहस्यं निर्भिद्येतेति शङ्कया । हस्तसंज्ञया हस्तचेष्टया । वृक्षवाटिकायां गृहोद्याने अन्तरितं गोपितं गात्रं शरीरं यस्य तथाविधम् । राजहंस- कुलतिलकेति सम्बोधनं श्लिष्टं, राजहंसस्य पक्षिविशेषस्य कुले मण्डले तिलक इवेति, पक्षे-राजहंसस्य तदाख्यनृपस्य कुले वंशे तिलको भूषणभूत इवेति चार्थद्वययोगात् । विहारवाञ्छया विहर्तुमिच्छया । अकाण्डे असमये सहसेति यावत् । समुचितमिति कर्त्तव्यमिति हेतोः । भवन्मनोरागः भवतो मनोवृत्तिः । अन्यथा विपरीतं । मयि हैं कि पण्डित लोग भी संसारमें कभी कभी भोलेपनसे अनुचित कर्म कर बैठते हैं। फिर पूर्वजन्मकी अन्य बातोंका स्मरण करते-कराते वे दोनों कामदेवके वशीभूत हो गये । (१५) इसी अवसरपर मालवेशकी पटरानी अपने बहुतसे परिजनोंसे परिवृत होकर अपनी राजसुताके खेलोंको देखनेके लिए उस उपवनमें पधारीं । दूरसे ही बालचन्द्रिकाने उन्हें आते देख लिया और रहस्य-भेदन न हो इस भयसे जल्दीसे राजवाहनके समीप दौड़कर आयीं और हाथके संकेतसे पुष्पोद्भवके साथ-साथ राजकुमार राजवाहनको घने वृक्षोंके निकुं- जोंमें छिप जानेको कह दिया । राजा मानसारकी पटरानी वहाँपर कुछ देर रहीं और बालि- काकी क्रीड़ाएँ देखकर उसे साथ लेकर राजमहल जाने लगीं । माताकी अनुवर्त्तिनी होकर जाती हुई राजकुमारी अवन्तिसुन्दरीने कहा-हे राजहंस-कुलतिलक ! तुम इस उपवनमें मेरे साथ रमणके लिए आये थे किन्तु मैं असमयमें ही तुम्हें छोड़कर जा रही हूँ । परन्तु यह जाना उचित और अनिवार्य है क्योंकि माताकी आज्ञा अलङ्घनीय होती है परन्तु मेरे इस
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
६४ दशकुमारचरितम् । [ पूर्वपीठिकायां
६४ दशकुमारचरितम् । [ पूर्वपीठिकायां भूत्' इति मरालमिव कुमारमुद्दिश्य समुचितालापकलापं वदन्ती पुनः पुनः परिवृत्तदीननयना वदनं विलोकयन्ती निजमन्दिरमगात् । ( १६) तत्र हृदयवल्लभकथाप्रसङ्गे बालचन्द्रिकाकथिततदन्वयनाम- धेया मन्मथबाणपतनव्याकुलमानसा विरहवेदनया दिने दिने बहुलपक्ष- शशिकलेव क्षामक्षामाहारादिसकलं व्यापारं परिहृत्य रहस्यमन्दिरे मल- यजरसक्षालितपल्लवकुसुमकल्पिततल्पतलावर्तिततनुता बभूव । ( १७ ) तत्र तथाविधावस्थामनुभवन्तीं मन्मथानलसन्तप्तां सुकुमारीं कुमारीं निरीक्ष्य खिन्नो वयस्यागणः काञ्चनकलशसञ्चितानि हरिचन्दनो- कोपं मा कार्षीरित्यर्थः । मरालमिवेति-यथा राजहंसकुलतिलक इत्यनेन मराल .उद्दिष्टस्तथा कुमारोऽपीत्यर्थः । परिवृत्ते विवृत्ते दीने विषण्णे नयने यया सा । वदनं मुखं राजपुत्रस्येति शेषः । मन्दिरं गृहम् । ( १६) तत्र निजमन्दिरे । बालचन्द्रिकया कथिते प्रकाशिते तदन्वयनामधेये राजपुत्रस्य कुलनामनी यस्यै सा । दिने दिने प्रतिदिनम् । बहुलपक्षे कृष्णपक्षे या शशिकला ज्योत्स्ना सेव । अतिक्षीणेत्यर्थः । क्षामक्षामा अतिकृशा । रहस्यमन्दिरे निर्जनगृहे । मलयजरसेन चन्दनद्रवेण क्षालितः सिक्तैः पल्लवः किसलयैः कुसुमैश्च कल्पितं रचितं यत् तल्पतलं तत्र आवर्त्तिनी लुठन्ती तनुलता यस्याः सा । ( १७) खिन्नो विषण्णः । वयस्यागणः सखीवर्गः । हरिचन्दनं चन्दनविशेषः । उशीरं नलदं घनसारः कर्पूरं तैर्मिलितानि मिश्रितानि । तस्या अवन्तिसुन्दर्या- व्यवहारपर आप कुपित नहीं हों और मेरा अनुराग आपपर नहीं यह न समझें तथा मुझपर अनुराग भी कम न करें । इस रीतिसे राजहंसके बहाने राजकुमारसे विनय करती हुई वह राजकुमारी दीनतापूर्ण नेत्रोसे राजवाहनको देखती हुई अपने भवनमें माताके साथ चली गयी । ( १६ ) घरपर आनेके पश्चात् बालचन्द्रिकाके आनेपर, उसकी बहुत बुरी दशा हो गयी । जब उसने बालचन्द्रिकाके मुखसे अपने हृदयेश्वरके नाम तथा वंश आदिकी ख्याति सुनी तब तो वह कामबाणोंसे पूर्ण विद्ध हो गयी और मनमें बड़ी व्याकुल हुई । उसकी देहकान्ति कृष्णपक्षके चन्द्रके समान बराबर क्षीणप्रभ होने लगी । भोजन तथा शयनादि सभी व्यापार उसके अव्यवस्थित हो गये । वह एकान्तमें एक कमरेमें चन्दन-वासित जलसे सींची जाती, तथा पुष्पों और पत्रोंकी शय्यापर लोटती हुई पड़ी रहती । (१७) सुकुमारी राजकुमारीको कामदेवपीड़ित सन्तप्त दशाओंमें देखकर उसकी सखियाँ अत्यन्त खिन्नमुखी तथा दुखी हुईं । वे लोग एक सुवर्णके घड़ेमें मलयगिरि चन्दन, खस,
शीरघनसारमिलितानि तदभिषेककल्पितानि सलिलानि बिसतन्तुमयानि वासांसि च नलिनीदलमयानि तालवृन्तानि च सन्तापहरणानि बहूनि संपाद्य तस्याः शरीरमशिशिरयत् । तदपि शीतलोपचरणं सलिल- मिव तप्ततैले तदङ्गदहनमेव समन्तादाविश्चकार। किंकर्त्तव्यतामूढां विष- ण्णां बालचन्द्रिकामीषदन्मीलितेन कटाक्षवीक्षितेन बाष्पकणाकुलेन वि- रहानलोष्णनिःश्वासग्लपिताधरया नताङ्ग्या शनैः शनैः सगद्गदं व्य- लापि—'प्रियसखि, कामः कुसुमायुधः पञ्चबाण इति नूनमसत्यमुच्यते । इयमहमयोमयैरसंख्यैरिषुभिरनेन हन्ये । सखि, चन्द्रमसं वडवानलाद- तितापकं मन्ये । यदस्मिन्नन्तःप्रविशति शुष्यति पारावारः, सति निर्गते
अभिषेकाय स्नानाय कल्पितानि स्थापितानि । बिसतन्तुमयानि मृणालसूत्र- रचितानि । अशिशिरयत् शीतलीचकार । सलिलमिव तप्ततैले-तप्ततैले जल निक्षेपाद् यथा तैलस्याधिकतप्तता जायते तद्वत् तस्याः शरीरे कृतेन शीतलोपचारेण तस्या दाहाधिक्यमेव जातमिति भावः । दहनम् अग्निम् । किंकर्त्तव्यतामूढामधुनाकिंकर्त्त- व्यं तन्निश्चेतुमशक्नुवानाम् । विरह एवानलस्तस्योष्मनिःश्वासेन ग्लपितः म्लानोऽ- धरो यस्यास्तया । काम इति—कामस्य आयुधानि कुसुमानि, तस्य बाणा अपि पञ्च- संख्यका एवेति यदुच्यते तन्मिथ्या । यतोऽयोमयैर्लोहनिर्मितैरसंख्यैः संख्यातुमश- क्यैः इषुभिर्बाणैः अनेन कामेन हन्ये हतास्मि । अहमिति शेषः । यस्मिन्निति । यस्मिन् चन्द्रमसि । अस्तसमये चन्द्रः पारावारे प्रविशति तदा पारावारस्य वृद्धिनं भवति, उदयसमये तु पारावारस्य वृद्धिर्भवति-अतो ब्रवीमि चन्द्रस्यान्तः स्थित्या पारावारः शुष्यति निर्गमेण च वर्धत इति । अत एव च वाडवाग्नेरधिकतापकरः हिम-
कर्पूर आदि मिश्रित जल उसके स्नानार्थ ले आयीं । कमालतन्तुओंके वस्त्र तथा कमलके पत्रोंके पंखे और सन्तापहरण करनेवाला बहुतसी वस्तुएँ लाकर उसके शरीरपर उपचार करने लगीं परन्तु वे शीतलोपचारकी वस्तुएं उसे और दाहक प्रतीत होने लगीं और शीतलता न दे सकीं । वे वस्तुयें तपे तेलमें पानीके बिन्दुके समान हुई अर्थात्-तापको शान्त न कर सकीं । किं- कर्त्तव्यविमूढ़ा, दुःखी बालचन्द्रिकाको उसने आँखोंमें आँसू भरे नेत्रोंसे देखा । उस समय विरहव्यथाग्निसे उसका मुख उदास हो गया था तथा सर्वाङ्ग मुरझा गये थे । विलाप करती हुई वह गद्गदस्वरमें बोली—हे प्रिय सखी ! संसारी पुरुषोंकी यह बात सर्वथा असत्य हं कि कामदेवके पाँचों बाण पुष्प-निर्मित हैं वह तो मुझे असंख्य लोहेके तीरोंसे छेद रहा है— मारे डाल रहा है । हे सखी, जिस चन्द्रमाको लोग हिमराशि कहते हैं वह मुझे वाडवाग्निसे भी अधिक सन्तापप्रद मालूम पड़ रहा है । यदि ऐसा नहीं होता तो क्योंकर समुद्र इसके
६६ दशकुमारचरितम् । [ पूर्वपीठिकायां
६६ दशकुमारचरितम् । [ पूर्वपीठिकायां तदैव वर्धते । दोषाकरस्य दुष्कर्म किं वर्ण्यते मया । यदनेन निजसोदर्याः पद्मालयाया गेहभूतमपि कमलं विहन्यते । ( १८ ) विरहानलसंतप्तहृदयस्पर्शेन नूनमुष्णीकृतः स्वल्पीभवति मल- यानिलः । नवपल्लवक्लृप्तं तल्पमिदमनङ्गाग्निशिखापटलमिव सन्तापं तनोस्तनोति । हरिचन्दनमपि पुरा निजयष्टिसंश्लेषवदुरगरदनलिप्तोल्ब- णगरलसंकलितमिव तापयति शरीरम् । तस्मादलमलमायासेन शीतलो- पचारे । लावण्यजितमारो राजकुमार एवागदंकारो मन्मथज्वरापहरणे । सोऽपि लब्धुमशक्यो मया । किं करोमि' इति । (१६) बालचन्द्रिका मनोज्ज्वरावस्थापरमकाष्ठां गतां कोमलाङ्गीं तां
प्रकर इति । दोषां रात्रिं करोतीति दोषाकरश्चन्द्रः, दोषाणामाकरश्च । निजसोदर्याः स्वभगिन्याः । लक्ष्मीचन्द्रौ समुद्राज्जाताविति प्रसिद्धिः । विहन्यते मुकुलीक्रियते । ( १८ ) विरहानलेन सन्तप्तस्य हृदयस्य स्पर्शेन उष्णीकृत उत्तप्तीकृतो मलयानिलः स्वल्पीभवति नूनं मन्ये । उष्णवस्तुसंसर्गादन्योऽपि शुष्यति अतः स्वल्पीभाव उष्णत्वञ्च तस्य भवतीति भावः । नवपल्लवकॢप्तं नूतनकिसलयरचितम् । पुरा प्राक् । निजयष्ट्याः स्वशाखायाः संश्लेषवतः सम्पर्किणः उरगस्य सर्पस्य रदनेन दन्तेन लिप्तं युक्तं यदुल्बणं तीव्रं गरल विशं तेन संकलितं व्याप्तम् । चन्दनतरौ सर्पाणां वासः प्रसिद्धः । हरिचन्दनमपि विषलिप्ततया शरीरस्य तापजनकत्वेनोत्प्रेक्ष्यते । तस्मादिति—युष्माभिर्यद् यत् शीतलयोपन्यस्यते तत्सर्वमेव मे सन्तापदायकं भवति—अतो निरर्थकमेव—युष्माभिर्निर्वर्त्यताम् इति भावः । अगदंकारश्चिकित्सकः । ( १९) परमकाष्ठाम् अतिशयम् । अनन्यशरणामनन्यगतिकाम् । स्मरणीयां
(चन्द्रके ) कृष्णपक्षमें प्रवेश करनेपर सूखने लगता है । और शुक्लपक्षमें इसके बाहर आ जानेपर पुनः बढ़ने लगता है । मैं इस चन्द्रके दुष्कर्म कहाँ तक कहूँ । यह अपनी सगी बहिन लक्ष्मीके आधारभूत कमलोंको भी मुकुलित कर देता है। ( १८ ) मेरी वियोगरूपी अग्निके द्वारा सन्तप्त हृदयके स्पर्शमात्रसे उष्ण होकर मलय पवन भी अल्प हो जाता है । नवीन पल्लवों द्वारा रचित मेरी शय्या तथा बिछौने कामाग्नि के शिखा-समूहके समान मेरे शरीरको जलाये डाल रहे हैं । चन्दनके वृक्षोंपर लिपटे सर्पों के दाँतोंके द्वारा गलित विष साक्षात् मूर्त्तिमान होकर चन्दनके लेपके रूपमें मुझे सन्तप्तित कर रहा है । अतः इन शीतलोपचारवाली वस्तुओंसे मेरा उपचार वृथा है । अपने सौन्दर्य से कामदेवको जीतनेवाले राजवाहन ही इस कामज्वरको हटानेमें समर्थ हैं । परन्तु खेद है, कि वे अप्राप्य हैं । हाय अब क्या करूँ ? (१९) जब बालचन्द्रिकाने देखा कि राजकुमारी सखी अवन्तिसुन्दरी कोमलांगी
यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:
पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६६ ( २१ ) इति पठित्वा सादरमभाषत-‘सखि, छायावन्मामनुवर्तमा- नस्य पुष्पोद्भवस्य वल्लभा त्वमेव तस्या मृगीदृशो बहिश्चराः प्राणा इव वर्तसे । त्वच्चातुर्यमस्यां क्रियालतायामालवालमभूत् । यत्तवाभीष्टं येन प्रियामनोरथः फलिष्यति तदखिलं करिष्यामि । नताङ्ग्या मन्मनःकाठि- न्यमाख्यातम् । यदा केलीवने कुरंगलोचना लोचनपथमवर्तत तदैषापहृ- तमदीयमानसा सा स्वमन्दिरमगात् । सा चेतसो माधुर्यकाठिन्ये स्वय- मेव जानाति । दुष्करः कन्यान्तःपुरप्रवेशः । तदनुरूपमुपायमुपपाद्य श्वः परश्वो वा नतांगीं संगमिष्यामि । मदुदन्तमेवमाख्याय शिरीषकुसुमसुकु- माराया यथा शरीरबाधा न जायेत तथाविधमुपायमाचर’ इति । (२२) बालचन्द्रिकापि तस्य प्रेमगर्भितं वचनमाकर्ण्य संतुष्टा कन्या-
(२१) छायया तुल्यं छायावत् यथा छाया पुरुषं सर्वथा अनुसरति तद्वदि- त्यर्थः । अनुवर्तमानस्य अनुसरतः सर्वदैव मां सेवमानस्येत्यर्थः । बहिश्चराः प्राणाः द्वितीयमिव जीवितम् । क्रिया कार्यं मत्प्रयोजनमित्यर्थः । सैव लता तस्याम् । आल- वालं जलसेकभूमिः । ( आलवालं विना लतायाः पुष्टिर्यथा न भवति तथा त्वच्चा- तुर्यं विना मत्प्रयोजनमपि न सेत्स्यतीति भावः ) । मम मनसः काठिन्यं कठोरता । अपहृतं चोरितं मदीयं मानसं चित्तं यया सा । माधुर्यं कोमलता च काठिन्यं कठो- रता च ते । उपपाद्य कृत्वा श्वः आगामिदिने । परश्वः-द्वितीयदिने । (२२) प्रेम्णा गर्भितं प्रेमपूर्णम् । तत्रोद्याने । चकोरस्येव दीर्घे लोचने यस्याः
( २१ ) इस पत्रोत्तरमें राजवाहनने उससे आग्रहके साथ कहा-हे सखि ! पुष्पोद्भव छायाके समान मेरे पास रहता है । उस पुष्पोद्भवकी वल्लभा तुम हो और उस मृगनयनी मेरी प्यारीकी सखी हो तथा उसके बाहरी प्राणोंके सदृश इतस्ततः परिभ्रमण करती हो । इस कार्यरूपी लतामें तुम्हारी चतुरता अलवाल (थाले) का काम करती है । अतः आपकी जो अभिलाषा होगी तथा जो अभीष्ट होगा उसे मैं पूर्णतया सफल करूँगा । यद्यपि वह सुकुमारी मेरे मनको कठोर कहती है परन्तु, मैने जिस समय उस नतांगीको उस उपवनमें देखा था उसी समयसे वह मेरे मनको चुराकर अपने घर भाग गयी ! वह नतांगी हृदयकी कठिनता तथा मृदुता खूब जानती है । अस्तु कन्याके अन्तःपुरमें प्रविष्ट होना अति दुष्कर हैं । अतः वहाँ जानेका कोई सरल उपाय सोचकर मैं कल या परसों उनसे मिलूँगा । इस रीति से मेरे वृत्तान्तोंको उसे सुनाकर तुम ऐसी युक्ति करो जिससे शिरीषकुसुमके समान कोमल अङ्गोंवाली इस राजपुत्रीको कोई कष्ट न होवे । (२२) वह बालचंद्रिका राजवाहनके इस प्रेमपूर्ण सन्देशको वहनकर प्रसन्नचित्त होकर
१८० दशकुमारचरितम्। [ पूर्वपीठिकायां
१८० दशकुमारचरितम्। [ पूर्वपीठिकायां पुरमगच्छन् । राजवाहनोऽपि यत्र हृदयवल्लभावलोकनसुखमलभत तदु- द्यानं विरहविनोदाय पुष्पोद्भवसमन्वितो जगाम । तत्र चकोरलोचनाव- चितपल्लवकुसुमनिकुरम्बं महीरुहसमूहं शरदिन्दुमुख्या मन्मथसमाराध- नस्थानं च नतांगीपदपङ्क्तिचिह्नितं शीतलसैकततलं च सुदतीभुक्तमुक्तं माधवीलतामण्डपान्तरपल्लवतल्पं च विलोकयंल्ललनातिलकवलोकन- वेलाजनितशेषाणि स्मारंस्मारं मन्दमारुतकम्पितानि नवचूतपल्लवानि मदनाग्निशिखा इव चकितो दर्शदर्शं मनोजकर्णेजपानामिव कोकिलकीर- मधुकराणां कूजितानि श्रावंश्रावं मारविकारणैः क्वचिदप्यवस्थातुमंसहिष्णुः परिवभ्राम । (२३) तस्मिन्नवसरे धरणीसुर एकः सूक्ष्मचित्रनिवसनः स्फुरन्मणि- सा तथा। अवचितानि छिन्नानि पल्लवानां कुसुमानाञ्च निकुरम्बाणि समूहा यस्य तम्। नताङ्ग्या अवन्तिसुन्दर्याः पदपङ्क्त्या चरणचिह्नेन चिह्नितम्। सुदत्या आदौ भु- क्तमुपभुक्तं पश्चान्मुक्तं त्यक्तम्। माधवीलतामण्डपस्यान्तरे मध्ये यत्पल्लवतल्पं किस- लयशय्या तत् । ललनातिलकस्य कामिनीभूषणभूताया अवन्तिसुन्दर्या विलोकन- वेलायां दर्शनसमये जनित उत्पादितः शेषो येषां तथाभूतानिव वाक्यानीति शेषः। मनोजस्य कामस्य कर्णेजपा मन्त्रिणः सहायास्तेषाम् । कमोद्दीपकानामित्यर्थः । (२३) धरणीसुरो ब्राह्मणः । सूक्ष्मं श्लक्ष्णं चित्रं नानावर्णं निवसनं वासो राजपुत्रीके अन्तःपुरमें वापस आ गये। राजपुत्र राजवाहन वहांसे उठकर वियोगजनित व्यथाके निवारणार्थ केलिवनके उस स्थानपर मनोरञ्जनार्थ चले गये जहाँपर राजकुमारीके प्रथम-प्रथम दर्शन हुए थे और उन्हें आनन्द मिला था। पुष्पोद्भवभी उस समय उनके साथ था। वहाँ चकोर के समान नयनोंवाली अपनी प्रियतमा अवन्तिसुन्दरी द्वारा इकट्ठे किये हुए पुष्पों, पत्त्रों और वृक्षोंके समूहोंको देखकर उस चन्द्रवदना द्वारा कियां हुआ काम- पूजनका स्थान देखा। फिर उस नतांगी कुमारीके पदचिह्नोंसे विभूषित वालुकामय प्रदेश तथा उस सुन्दर दाँतवाली कुमारीके द्वारा उपभुक्त माधवी लतामण्डपके आभ्यन्तरिक स्थान में पड़ी पत्त्रोंकी शय्याको देखा। तब प्रथम दर्शनपर उस सर्वश्रेष्ठ सुन्दरी द्वारा किये गये हाव-भावोंको संस्मरण करके मन्द-मन्द बहनेवाली हवाके झोकोंसे काँपते हुए आम्रोंको देखा। इन नवीन पेड़ोंके पत्तोंको कामाग्निकी ज्वाला जानकर तथा कामदेवके गुप्तचर कोयल सुग्गे और भौंरोंकी ध्वनियोंको सुनता हुआ वह आश्चर्यान्वित होकर कामदेवकी व्यथासे व्यथित होकर विह्वल हो गया और उस उपवनमें विश्राम करनेमें अशक्त होकर इतस्ततः पर्यटन करने लगा । (२३) उसी अवसरपर महीन तथा रंगीन वस्त्रधारी एक विप्र वहाँ आ पहुंचा। उसके
पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १०१ कुण्डलमण्डितो मुण्डितमस्तकमानवसमेतश्चतुरवेषमनोरमो यदृच्छया समागतः समन्ततोऽभ्युल्लसत्तेजोमण्डलं राजवाहनमाशीर्वादपूर्वकं ददर्श । राजवाहनः सादरम् 'को भवान्, कस्यां विद्यायां निपुणः' इति तं पप्रच्छ । स च 'विद्येश्वरनामधेयोऽहमैन्द्रजालिकविद्याकोविदो विविधदेशेषु राजमनो- रञ्जनाय भ्रमन्नुज्जयिनीमद्यागतोऽस्मि' इति शशंस । पुनरपि राजवाहनं सम्यगालोक्य 'अस्यां लीलावनाँ पाण्डुरतानिमित्तं किम्' इति साभि- प्रायं विहस्यापृच्छत् । पुष्पोद्भवश्च निजकार्यकरणंतर्कयन्नेनमादरेण बभा- षे—'ननु सतां सख्यस्याभाषणपूर्वतया चिरं रुचिरभाषणो भवानस्माकं प्रियसख्यो जातः । सुहृदामकथ्यं च किमस्ति ? । केलीवनेऽस्मिन्वसन्तम- होत्सवायागताया मालवेन्द्रसुताया राजनन्दनस्यास्य चाकस्मिकदर्शनेऽ- न्योन्यानुरागातिरेकः समजायत । सततसंभोगसिद्धयुपायाभावेनासावीदृ- शीमवस्थामनुभवति' इति । विद्येश्वरो लज्जाभिरामं राजकुमारमुखमभि- यस्य सः । मुण्डितं मस्तकं यस्य तादृशेनापरेण मानवेन समेतो युक्तः । यदृच्छया अकस्मात् । कोविदः पण्डितः । लीलाव नौ उद्यानभूमौ । पाण्डुरताया निःश्रोकताया निमित्तं कारणं किम् 'विहारभूमौ तिष्ठन्नपि पाण्डुवदनं किमर्थं बिभर्षि' इति राज- वाहनं प्रत्यैन्द्रजालिकस्य प्रश्नः । साभिप्रायं साभिनिवेशम् । सख्यस्य मित्रतायाः । आभाषणं पूर्वं यस्मिंस्तस्य भावस्तया । आभाषणमात्रेणैव सतां मैत्री भवतीति भावः । चिरं दीर्घसमयं यावत् । सुहृदां मित्राणां सकाशे । अकथ्यं अप्रका- श्यम् । अन्योन्यानुरागातिरेकः परस्परप्रमातिशयः । असौ राजवाहनः । लज्जया कानोंमें मणिमय कुण्डल लटक रहे थे तथा एक और मनुष्य मुण्डन किये हुए उसके साथमें था । देखनेसे ही वह पटु पुरुष ज्ञात होता था तथा उसकी वेश-भूषा भी भली थी । उसके चेहरेसे उसका तेजःपुंज झलक रहा था । उसने राजवाहनके समीप आकर उसे आशीर्वाद दिया । राजवाहनने भी बड़े विनीतभावसे उससे पूछा-आप कौन हैं तथा आप किस विद्याके पण्डित हैं ? उत्तरमें उसने कहा-मेरा नाम विद्येश्वर है । मैं प्रसिद्ध ऐन्द्रजालिक हूँ । अनेक देशोंके राजे महाराजोंका मनोविनोद कराता हुआ, आज ही आपकी नगरी उज्जयिनीमें भ्रमण करता हुआ, आया हूँ । तत्पश्चात उसने राजवाहनको एक बार अच्छी रीतिसे देखा तथा हँसते हुए पूछा-इन केलिवनोंमें आप पाण्डुवदन क्यों दीख रहे हैं ? पुष्पोद्भवने, उसके द्वारा अपने काममें सहायता मिलनेकी कामनासे प्रेरित होकर बड़े आदर तथा आग्रहके साथ कहा-हे प्रभो ! भद्र पुरुष पहले ही वार्ता शुरू करते हैं । अत एव आप हमारे मित्र हैं क्योंकि आपने पूर्वसे ही मधुरालाप हमसे प्रारम्भ किया है । जब आप सुहृद् हैं तो फिर आपसे गोप-
१०२ दशकुमारचरितम् । [ पूर्वपीठिकायां वीक्ष्य विरचितमन्दहासो व्याजहार—'देव, भवदनुचरे मयि तिष्ठति तव कार्यमसाध्यं किमस्ति । अहमिन्द्रजालविद्यया मालवेन्द्रं मोहयन् पौरजन- समक्षमेव तत्त नयापरिणयं रचयित्वा कन्यान्तःपुरप्रवेशं कारयिष्यामीति वृत्तान्त एष राजकन्यकायै सखीमुखेन पूर्वमेव कथितव्यः' इति । संतुष्टमना महीपतिरनिमित्तं मित्रं प्रकटीकृतकृत्रिमक्रियापाटवं विप्रलम्भ- कृत्रिमप्रेमसहजसौहार्दवेदिनं तं विद्येश्वरं सबहुमानं विससर्ज । ( २४ ) अथ राजवाहनो विद्येश्वरस्य क्रियापाटवेन फलितमिव मनो- रथं मन्यमानः पुष्पोद्भवेन सह स्वमन्दिरमुपेत्य सादरं बालचन्द्रिकामुखेन निजवल्लभायै महीसुरक्रियमाणं संगमोपायं वेदयित्वा कौतुकाकृष्टहृदयः अभिरामं मनोज्ञदर्शनम् । व्याजहार उवाच । अनिमित्तं निष्कारणम् । प्रकटीकृतं प्रकाशीकृतं कृत्रिमक्रियायां इन्द्रजालकर्मणि पाटवं चातुर्यं येन तम् । विप्रलम्भः प्रतारणं कृत्रिमप्रेम कपटानुरागः सहजसौहार्दं निष्कपटमित्रता—तानि वेत्तीति तं सबहुमानं बहुसत्कारपूर्वकम् । ( २४ ) क्रियापाटवेन कार्यकौशलेन । फलितमिव सिद्धप्रायम् । महीसुरेण ब्राह्मणेन ऐन्द्रजालिकेनेत्यर्थः क्रियमाणमनुष्ठीयमानम् । वेदयित्वा ज्ञापयित्वा । क्षपां नीय कोई बात नहीं रहनी चाहिये । अतः आप सुनें—एक दिन इस केलिवनमें मालवेशपुत्रा राजकुमारी अवन्तिसुन्दरी आयी थी । वसन्तमहोत्सवके निमित्त वह आयी थी तथा मेरे ये सखा राजवाहन भी दैववश उसी समय उपवनमें आ गये । परस्पर अवलोकन करते हुए इन दोनोंमें प्रेम हो गया किन्तु आगे कोई उपाय नहीं दिखलायी पड़ता है जिससे ये दोनों दीर्घ कालिक सुख-भोग प्राप्त कर सकें । इसी हेतु इनकी यह क्षीण दशा हो रही है । लज्जासे मनोज्ञ राजकुमारके मुखको देखकर मन्द-मन्द मुसकानसे विद्येश्वरने कहा—हे देव ! आपका अनुचर मैं उपस्थित हूँ फिर आपको किस बातकी चिन्ता । संसारमें क्या असाध्य है— कुछ भी नहीं । आप किसी सखी द्वारा उस राजपुत्रीके समीप यह कहलादें कि-मैं इन्द्र- जाल विद्या द्वारा मालवेश मानसारको मोहित करके समस्त पुरवासियोंके समक्ष तुम्हारे साथ विवाह करके तुम्हारे मन्दिरमें प्रविष्ट होऊंगा । ऐन्द्रजालिककी बातोंपर प्रसन्न होकर राजवाहनने उस निष्कारण मित्र तथा कृत्रिम क्रिया-कुशलज्ञ, विप्रलम्भ कृत्रिम प्रेम तथा सहज सौहार्द आदि क्रियाओंको जाननेवाले उस विप्रको सम्मानके साथ विदा किया । ( २४ ) तदनन्तर विद्येश्वरकी कला-कुशलतासे मानो राजवाहनकी मनोकामना पूर्ण हो गयी ऐसा सोचकर राजवाहन अपने घर पुष्पोद्भवके साथ-साथ लौटा तथा वहाँपर बाल- चन्द्रिकाको बुलवाया और उस विप्रद्वारा उपदेशित वे सब युक्तियाँ बता दीं । फिर उत्सुकतापूर्ण
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १०३ 'कथमिमां क्षपां क्षपयामि' इत्यतिष्ठत्। परेद्युः प्रभाते विद्येश्वरो रसभा- वरीतिगतिचतुरस्तादृशेन महता निजपरिजनेन सह राजभवनद्वारान्तिक- मुपेत्य दौवारिकनिवेदितनिजवृत्तान्तः सहसोपगम्य सप्रणामम् 'ऐन्द्रजा- लिकः समागतः' इति द्वाःस्थैर्विज्ञापितेन तद्दर्शनकुतूहलाविष्टेन समुत्सुका- वरोधसहितेन मालवेन्द्रेण समाहूयमानो विद्येश्वरः कक्षान्तरं प्रविश्य स- विनयामाशिषं दत्त्वा तदनुज्ञातः परिजनताड्यमानेषु वाद्येषु नदत्सु, गाय- कीषु मदकलकोकिलामञ्जुलध्वनिषु, समधिकरागरञ्जितसामाजिकमनो- वृत्तिषु पिच्छिकाभ्रमणेपु, सपरिवारं परिवृत्तं भ्रामयन्मुकुलितनयनः क्षण- मतिष्ठत्। तदनु विषमं विषमुल्यणं वमन्तः फणालङ्करणा रत्नराजि- रात्रिम् । क्षपयामि यापयामि । रसाः शृङ्गारादयः, भावोऽभिप्रायादयः, रीतिगतयः इन्द्रजालक्रियाः तत्र चतुरः । तादृशेन तत्तद्गुणवता । दौवारिकैः द्वारपालैर्निवेदि- तः प्रकाशितो निजवृत्तान्तः स्वपरिचयो येन सः । समुत्सुकः द्रष्टुमुत्कण्ठितोऽवरोधो राजस्त्रियस्तेन । मालवेन्द्रेण मानसारण । नदत्सु ध्वनत्सु । मदकलानां मदमत्तानां कोकिलानासिव मञ्जुलो मनोहरु ध्वनिर्यासां तासु । गायकीविशेषणमेतत् । स- मधिकेनातिशयितेन रागेणानुरागेण रञ्जिता आकृष्टा सामाजिकानां सभ्यानां मनो- वृत्तियेंन तेषु । पिच्छिकाभ्रमणेध्वित्यस्य विशेषणम्, पिच्छिका ऐन्द्रजालिकानामुप क- रणभूताः मयूरपिच्छगुच्छाः । ऐन्द्रजालिकाः पिच्छिकां भ्रामयित्वा जनान् मोहय- न्तीति प्रसिद्धम् । परिवृत्तं मण्डलाकारम् । मुकुलितनयनो मुद्रितलोचनः । उल्बणं तीव्रम् । वमन्तः उद्गिरन्तः । फणा फटा अलंकरणं भूषणं येषां ते । रत्नराजिभिः हृदयोंसे विचार करते हुए उन दोनोंने वह रात व्यतीत की। दूसरे दिन प्रभातकालमें रस- भाव-रीति-व्यवहार में कुशल वह विप्र विद्येश्वर अपने अनेकों परिजनोंके साथ राजभवनके द्वारपर आ पहुँचा। द्वारपालके द्वारा अपने आगमनकी सूचना उसने महाराजके समीप भेजी । द्वारपालने जाकर राजासे प्रणाम करके कहा-हे देव ! दरवाजेपर एक ऐन्द्रजालिक अपने चतुर पात्रोंके साथ आया है और जादूके खेल दिखलाना चाहता है। राजा मानसार तथा रानियों ने बड़ी कुतूहलताके साथ उसे बुलवाया। वह राजाके समीप गया तथा दूसरे कक्षको लांघकर उसने राजा मानसारको आशीर्वाद दिया । उसी समय विद्येश्वरकी आज्ञासे उसके दक्ष पात्र कई प्रकारके बाजे बजाने लगे और गानेवाली मत्तवाले सुरीले कोकिल कण्ठसे चुटीले गीत गाने लगीं । विद्येश्वर स्वयं मोरपंखों के मूर्च्छलको मन्त्र पढ़-पढ़कर घुमाने लगा जिससे दर्शकोंकी चित्तवृत्तियाँ उसकी ओर अनुरञ्जित हो जावें । वह आँखे बन्दकर मौन होकर घड़ी भर बैठ गया तथा उसके साथी उसकी परिक्रमा करने लगे। तत्र भोड़के समक्ष Nepal Sanskrit University, Balmeeki Campus, Kathmandu
१०४ दशकुमारचरितम् । [ पूर्वपीठिकायां
१०४ दशकुमारचरितम् । [ पूर्वपीठिकायां नीराजितराजमन्दिराभोगा भोगिनो भयं जनयन्तो निश्चेरुः । (२५). गृध्राश्च बहवस्तुण्डैरहिपतीनादाय दिवि समचरन् । ततोऽग्र- जन्मा नरसिंहस्य हिरण्यकशिपोर्दैत्येश्वरस्य विदारणमभिनीय महाश्चर्या- न्वितं राजानमभाषत—'राजन्, अवसानसमये भवता शुभसूचकं द्रष्टुमुचि- तम् । ततः कल्याणपरम्परावाप्तये भवदात्मजाकारायास्तरुण्या निखिल- लक्षणोपेतस्य राजनन्दनस्य विवाहः कार्यः' इति । तदवलोकनकुतूहलेन महीपालेनानुज्ञातः स संकल्पितार्थसिद्धिसंभावनसम्फुल्लवदनः सकलमो- हजनकमञ्जनं लोचनयोर्निक्षिप्य परितो व्यलोकयत् । सर्वेषु 'तदैन्द्रजालि- कमेव कर्म' इति साद्भुतं पश्यत्सु रागपल्लवितहृदयेन राजवाहनेन पूर्व- शिरःस्थितरत्नश्रेणिभिः नीराजित उज्ज्वलीकृतो राजमन्दिरस्याभोगः प्रदेशो यैस्ते । भोगिनः सर्पाः । निश्चेरुः चरन्ति स्म । (१२) गृध्राः पक्षिद्विशेषाः । तुण्डैर्मुखैः । अहिपतीन् सर्पश्रेष्ठान् । दिवि गगने । अग्रजन्मा ब्राह्मणः । विदारणं नखैश्छेदनम् । अभिनेय दर्शयित्वा । अवसानसमये क्रीडासमाप्तौ । कल्याणानां परम्परा श्रेणिस्तस्या अवाप्तये प्राप्तये । भवत आत्मजा नन्दिनी तस्या आकार इवाकारो यस्यास्तस्याः भवतकन्यासदृश्या इत्यर्थः । निखिल- लक्षणोपेतस्य सर्वसुलक्षणयुक्तस्य । अनुज्ञात आदिष्टः । सकल्पितस्य अभीष्टस्य उसने बड़े-बड़े साँपोंको सहसा निकालना शुरू किया उन सांपोंके मुखोंसे विष निकल रहा था उनके मस्तकपर रखी मणियाँ राजमन्दिरके आँगनको देदीप्यमान बना रही थीं । उन सर्पोंको सभी दर्शक डर गये और कुछ-कुछ दूर हट गये । (२५) दर्शकोंको भयान्वित देखकर उस विद्येश्वरने बड़े-बड़े गृध्र उत्पन्न किये जो अपने बड़े बड़े चंगुलोंमें उन विषधर सर्पोंको पकड़कर आकाशमें उड़ने लगे । फिर उसने नृसिंह भगवान्को उत्पन्न कराया तथा उनके द्वारा हिरण्यकशिपुदैत्येश्वरके विदारणका अति आश्च- र्यकारी रूपक दर्शकोंको दिखाकर मुग्ध किया और राजासे कहा—इन्द्रजालके सभी खेलोंके पश्चात् एक मांगलिक रूपक देखना सर्वथा उचित है । इस शुभ परम्परासूचक खेलकी कल्याण परम्परामें मैं आपकी पुत्रीके समान स्वरूपवाली युवतीका विवाह सभी तरहके राजलक्षणोंसे युक्त एक राजकुमारसे कराऊंगा । उस रूपकको देखनेकी राजा मानसारको प्रबल उत्कंठा हुई । अपनी पूर्वसंकल्पित मनोभिलाषाको पूर्ण करनेवाली राजाज्ञा प्राप्त करके विद्येश्वर प्रसन्न चित्त हो गया और मुख चमक उठा । तत्काल ही उसने डिब्बीसे समस्त जनोंको मोहित करनेवाला अंजन निकाला और उसे अपनी दोनों आँखोंमें लगा लिया तथा चारों ओर देखने लगा । सब लोग यह समझने लगे कि यह भी कोई जादूका कार्य है तथा विस्मित होकर उसे देखने लगे । रागपल्लवित राजवाहन द्वारा पहलेसे संकेतित राजकुमारी बहुत तरहके आभूषणों
पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १०५ संकेतसमागातामनेकभूषणभूषिताङ्गीमवन्तिसुन्दरीं वैवाहिकमन्त्रतन्त्रनैपु- ण्येनग्निं साक्षीकृत्य संयोजयामास। क्रियावसाने सति 'इन्द्रजालपुरुषाः, सर्वे गच्छन्तु भवन्तः' इति द्विजन्मनोच्चैरुच्यमाने सर्वे मायामानवा यथायथमन्तर्भावं गताः। राजवाहनोऽपि पूर्वकल्पितेन गूढोपायचातुर्ये णैन्द्रजालिकपुरुषवत्कन्यान्तःपुरं विवेश। मालवेन्द्रोऽपि तदद्भुतं मन्यमा- नस्तस्मै वाडवाय प्रचुरतरं धनं दत्त्वा विघ्नेश्वरम् 'इदानीं साधय' इति विसृज्य स्वयमन्तर्मान्दरं जगाम। ततोऽवन्तिसुन्दरी प्रियसहचरीचरप- रिवारा वल्लभोपेता सुन्दरं मन्दिरं ययौ । एवं दैवमानुषबलेन मनोरथ- साफल्यमुपेतां राजवाहनः सरसमधुरचेष्टाभिः शनैः शनैर्हरिणलोचनाया अर्थस्य प्रयोजनस्य (अवन्तिसुन्दरीराजवाहनयोर्विवाहरूपस्येत्यर्थः) सिद्धेः सम्भा- वनेन सम्भवतया संफुल्लं हर्षविकसितं वदनमाननं यस्य सः। सकलमोहजनकं सर्वेषां द्रष्टृणां भ्रमोत्पादकम्। अञ्जनं कज्जलम्। लोचनयोः स्वनेत्रयोः। परितः सम- न्तात्। पूर्वसंकेतेन प्राक्सूचनानुसारेण समागतामुपस्थिताम्। वैवाहिका विवाहस- म्बन्धिनो ये मन्त्र-तन्त्रास्तेषु यन्नैपुण्यं पाटवं तेन । यथाविधीत्यर्थः । मायामानवाः कल्पितपुरुषाः । अन्तर्भावमदृश्यताम्। वाडवाय ब्राह्मणाय। 'द्विजात्यग्रजन्मभूदे- ववाडवा' इत्यमरः। साधय गच्छ। दैवमदृष्टजनितं मानुषमैन्द्रजालिकविहितं च यद्वलं तेन । अपनयन् दूरीकुर्वन् । उपनयन् प्रापयन् । रहः निर्जने । विश्रम्भं विश्वा- सम्। संलापे इति शेषः। संलापः परस्परालापः। तदनुलापेति-तस्या अनुलाष एव तथा वस्त्रोंको पहनकर आयी हुई थी। उसके साथ वैवाहिक मन्त्रको पढ़ते हुए अग्निको साक्षी कराकर राजवाहनका विवाह अवन्तिसुन्दरीसे कर दिया। इन्द्रजालके इस विवाहरूपी प्रहसनकी समाप्तिपर उस विप्रने कहा- 'हे ऐन्द्रजालिक पात्रो ! आप लोग अब जायें।' यह सुनकर वे सभी मायावी मानव धीरे धीरे अदृश्य हो गये। पहलेसे निश्चित तथा गुप्त वेशधारी एवं छिपनेकी कलामें प्रवीण राजवाहन भी मायावी पुरुषके समान कन्याके अन्तः- पुरमें चले गये। मालवनाथ मानसारने उस ऐन्द्रजालिकके अद्भुत कार्योंकी प्रशंसा की तथा उसे प्रचुर धन देकर कहा- हे ऐन्द्रजालिक अब आप जायें। आपके खेल अद्भुत थे। फिर मानसार भी अपने राजप्रसादमें चले गये। तब अपनी प्रिय सखियोंके साथ अवन्तिसुन्दरी कुमारी भी अपने प्राणेश्वरको साथ लिये अन्तःपुरमें आ गयी। इस रीतिसे दैवी और मानुषी पराक्रमद्वारा अपना मनोरथ साधकर अपनी सरस और सुललित क्रियाओं द्वारा राजवाहनने धीरे-धीरे उस मृगलोचनाकी लज्जाको दूर कर दिया। फिर एकान्त में रतिसुखका आनन्द लेते हुए वार्तालाप द्वारा उसके चित्तमें अपने प्रति विश्वास उत्पन्न कराया। तदनन्तर उस ८ द० कु०
१०६ दशकुमारचरितम् । [ पूर्वपीठिकायां
१०६ दशकुमारचरितम् । [ पूर्वपीठिकायां
लज्जामपनयन्सुरतरागमुपनयन् रहोविश्रम्भमुपजनयन् संलापे तदनुलाप- पीयूषपानलोलश्चित्रचित्रं चित्तहारिणं चतुर्दशभुवनवृत्तान्तं श्रावयामास । इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽवन्तिसुन्दरीपरिणयो नाम पञ्चम उच्छ्वासः । इति पूर्वपीठिका
पीयूषममृतं तस्य पाने सानुरागाकर्षणे लोलश्चञ्चलः । चित्रचित्रम् अत्याश्चर्यजन- कम् । चतुर्दशानां भुवनानां वृत्तान्तमाख्यायिकाम् श्रावयामास । अवन्तिसुन्दरी- मिति शेषः । आख्यायिकाश्रवणे युवतीनां बलवती स्पृहा भवतीति ध्येयम् । इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां दशकुमारचरितव्याख्यायां पञ्चमोच्छ्वासः । समाप्ता पूर्वपीठिका
राजपुत्रीकी सुधारूपी मधुर वचनावली एवं बहुत तरहकी मीठी बातोंको जिज्ञासासे सुना। फिर उसे चित्तहारी चौदहों भुवनोंकी मनोहर आख्यायिकाएँ सुनायीं-और समयोचित आनन्द करने लगा । इस प्रकारसे दशकुमारचरितके पञ्चमोच्छ्वासकी बालक्रोड़ा नामक हिन्दी टीका समाप्त हुई । पूर्वपीठिका समाप्त ।
उत्तरपीठिकायाम्
॥ श्रीः ॥ दशकुमारचरितम् उत्तरपीठिकायाम् प्रथमोच्छ्वासः (१) श्रुत्वा तु भुवनवृत्तान्तमुत्तमाङ्गना विस्मयविकसिताक्षी सस्मि- तमिदमभाषत-‘दयित, त्वत्प्रसादादद्य मे चरितार्था श्रोत्रवृत्तिः। अद्य मे मनसि तमोपहस्त्वया दत्तो ज्ञानप्रदीपः। पक्वमिदानीं त्वत्पादपद्मपरिचर्या- फलम्। अस्य च त्वत्प्रसादस्य किमुपकृत्य प्रत्युपकृतवती भवेयम्। अभवदीयं हि नैव किञ्चिन्मत्सम्बद्धम्। अथवास्त्येवास्यापि जनस्य (१) उत्तमा निखिलनायिकागुणभूषिता अङ्गना कामिनी अवन्तिसुन्दरीति शेषः। विस्मयेन नानाविधाख्यायिकाश्रवणजनिताश्चर्यरसेन विकसिते प्रफुल्ले अक्षिणी नयने यस्याः सा। सस्मितं सहासम्। चरितार्था सफला। श्रोत्रवृत्तिः श्रवणेन्द्रियमित्यर्थः। तमः अपहन्तीति तमोपहोऽज्ञाननाशकः। ज्ञानमेव प्रदीपः। तव पादपद्मयोश्चरणकमलयोः परिचर्यायाः सेवायाः फलम् परिपाकः। त्वत्प्रसादस्य भुवनवृत्तान्तश्रावणरूपस्येत्यर्थः। किमुपकृत्य कीदृशमुपकारं कृत्वा। प्रत्युपकृ- तवती कृतप्रत्युपकारा। अभवदीयं न भवदीयम्। मत्सम्बद्धं मदीयम्-यतोऽहमपि भवत एवातो यदेव मदीयं तदपि भवदीयमेवेति भावः। अथवा पक्षान्तरे पूर्वाप- रितोषे इत्याशयः। अस्यापि जनस्य ममेत्यर्थः। क्वचित् कुत्रापि। प्रभुत्वं (१) समस्त लोकोंके सुन्दर वृत्तान्तोंको श्रवण कर उस परमसुन्दरी महिलाके नयन विस्मयान्वित हो गये और उस महिलाने मुसकुराकर कहा-‘हे दयित ! आपकी दयासे आज मेरे कर्ण सफल हो गये—मैंने आपकी सभी बातें सुन लीं। आपने आज मेरे अन्धकाराच्छन्न हृदयमें ज्ञानका दीपक जला दिया है। आपकी चरणसेवा का फल आज परिपक्व हुआ। आपने इस जनपर जो कृपा की है उसका प्रत्युपकार मैं क्या कर सकती हूँ। मेरे समीप कोई भी ऐसी वस्तु नहीं बची है जिसके स्वामी आप न होवें। परन्तु, अन्वेषणपूर्ण दृष्टिसे देखनेपर मुझे यह ध्यान हो आया कि मेरा प्रभुत्व भी किसी वस्तुपर ८ द० कु० उ०
क्वचित्प्रभुत्वम् । अशक्यं हि मदिच्छया विना सरस्वतीमुखग्रहणोच्छेष- गीकृतो दशनच्छद एष चुम्बयितुम् । (२) 'अम्बुजासनास्तनतटोपभुक्तमुरःस्थलं चेदमालिङ्गयितुम्' इति प्रियोरसि प्रावृडिव नभस्युपास्तीर्णगुरुपयोधरमण्डला प्रौढकन्दलीकुड्म- लमिव रूढरागरूषितं चक्षुरुल्लासयन्ती बर्हिबर्हावलीविडम्बयता कुसुम- चन्द्रकशारेण मधुकरकुलव्याकुलेन केशकलापेन स्फुरदरुणकिरणकेसर- करालं कदम्बमुकुलमिव कान्तस्याधरमणिमधीर साचुचुम्ब । स्वातन्त्र्यम्-मदाज्ञया विना तत्तद्भवतापि कर्तुं न शक्यत इति भावः । तदेव वि- शदीकरोति-अशक्यमित्यादिना । सरस्वत्या वाण्या मुखग्रहणेन आननाधिकारेण उच्छेषणीकृत उच्छिष्टीकृतः । दशनच्छदस्य विशेषणम् । सरस्वत्या तु प्रागेव भव- तो वदनकमलमधिकृतम्-मुखमधिष्ठाय सा वसतीत्यर्थः । दशनच्छद ओष्ठः । चुम्बयितुमिति णिजन्तम् । अन्यया कामिन्येति शेषः । (२) अम्बुजासना लक्ष्मीस्तस्याः स्तनतटाभ्यां पयोधराभ्यामुपभुक्तं समा- लिङ्गितमित्यर्थः । उरःस्थलं वक्षःस्थलं राजवाहनस्येत्यर्थः । आलिङ्गयितुमित्यपि णिजन्तम्-अन्ययेति शेषः । इति उक्तेवेति शेषः । प्रावृट् वर्षाः तद्वत् । नभसि आकाशे । उपास्तीर्णं विस्तारितमिति प्रावृट्पक्षे अवन्तिसुन्दरीपक्षे तु स्थापितं गुरु विशालमुभयत्र समानम् पयोधरमण्डलमेकत्र मेघसमूहोऽन्यत्र स्तनयुगलं यया सा । प्रौढायाः पुष्टायाः कन्दल्या द्रोणपर्णीति प्रसिद्धायाः कुड्मलं मुकुलमिव । रूढः उत्पन्नो यो रागो रक्तिमा अनुरागश्च तेन रूषितं भूषितम् । चक्षुर्विशेषणमिदम् । तादृशं चक्षुरुल्लासयन्ती विशदीकुर्वाणा; बर्ही मयूरस्तस्य बर्हावलीः पिच्छपंक्तीः विडम्बयता अनुकुर्वता । कुसुमानि शिरःस्थितपुष्पाण्येव चन्द्रिका मेचकास्तैः शारेण विचित्रेण । मधुकरकुलव्याकुलेन कुसुमामोदलुब्धभ्रमरव्याप्तेन । सर्वने- अवश्य है । वह वस्तु क्या आपके होठ हैं जिन्हें सरस्वती देवीके अतिरिक्त अद्यावधि कोई भी नहीं उच्छिष्ट कर सका है । उन अधरोष्ठोंको मेरे अतिरिक्त कोई भी महिला नहीं चूम सकती है-क्योंकि उनपर मेरा आधिपत्य है । (२) तथा च लक्ष्मीजीके कुचोंसे संस्पर्शित आपके इस वक्षःस्थलका आलिंगन मेरे अतिरिक्त अन्य कोई भी नहीं कर सकता है ।' इतना कहकर उस बालाने श्रावणमासके साथ वर्षाकालके समान उन्नत स्तनोंवाली अपनी छाती उसके अन्तस्तलपर चिपका दी तथा द्रोणपर्णीके कोंपलोंके सदृश प्रेमातिरेकसे कुछ-कुछ रक्तिमापूर्ण नेत्रोंसे एकटक उसे देखने लगी । उसके केशकलापोंमें जो पुष्प गुम्फित थे वे मोरपंखोंके समान चमकीले लग रहे थे । लोलुप मधुपोंका झुण्ड उन पुष्पोंके परागोंके पानार्थ मँडरा रहा था । इसी
( ३ ) तदारम्भस्फुरितया च रागवृत्त्या भूयोऽप्यावर्ततातिमात्रचित्रो- पचारशीफरो रतिप्रबन्धः । सुरतखेदसुप्तयोस्तु तयोः स्वप्ने बिसगुणनि- गडितपादो जरठः कश्चिज्जालपादोऽदृश्यत । प्रत्यबुध्येतां चोभौ । ( ४ ) अथ तस्य राजकुमारस्य कमलमूढशशिकिरणरज्जुदामनिगृ- तत्केशकलापस्य विशेषणम् ! केशकलापेनेति उपलक्षणे तृतीया । तथाविधकेशपाशो- पलक्षिता अवन्तिसुन्दरीत्यर्थः । स्फुरदिति—स्फुरन्तः शोभमाना अरुणा रक्तवर्णाः किरणा एव केसराणि किञ्जल्कास्तैः करालं दन्तुरम् । अतएव कदम्बसाम्यमस्य । अधरमणेर्विशेषणमेतत् । कदम्बमुकुलं नीपकलिकामिव । कान्तस्य दयितस्य राजवाहनस्येत्यर्थः । अधरो मणिरिव तम् अधरमणिमधरबिम्बम् । अधीरमवशं यथा तथा आचुचुम्ब चुम्बितवती । ( ३ ) तदारम्भेति—तस्यारम्भस्तदारम्भस्तेन चुम्बनारम्भेण स्फुरितया उद्दीप्तया । रागवृत्त्या अनुरागसमृद्धया । भूयोऽपि बाहुल्येनेति भावः । आवर्त्तत प्रवृत्तोऽभवत् । अतिमात्रमत्यर्थं चित्रेण नानाविधेन विस्मयोत्पादकेन वा उपचारेण सुरतसाधनेन शीफरो रमणीयः । सुरतस्य खेदः श्रमस्तेन सुप्तयोः निद्रितयोः । तयोः अवन्तिसुन्दरीराजवाहनयोः । स्वप्ने स्वप्नावस्थायाम् । बिसगुणेन मृणालत- न्तुना निगडितौ बद्धौ पादौ चरणौ यस्य सः । जरठो वृद्धः । जालपादो हंसः । अदृश्यत ताभ्यां दृष्टोऽभवदित्यर्थः । प्रत्यबुध्येतां जागरितौ । ( ४ ) अथ हंसदर्शनानन्तरम् । कमलेन पद्मेन मूढो भ्रान्तो यः शशी चन्द्र- स्तस्य किरणा एव रज्जुदाम गुणसमूहस्तेन निगृहीतं बद्धमिव—इदं कमलमिवि भ्रान्त्या चन्द्रः स्वमयूखजालेन रज्ज्वा चरणयुगलं बबन्धेति भावः । चन्द्रपद्मयोः क्षण भावावेशसे विह्वला होकर उसने कदम्बकी कोंपलोंके सदृश लाल-लाल अपने प्रियतमके अधरोष्ठोंको चूम लिया । ( ३ ) इस चुम्बन-क्रियासे उसकी कामवासना जागृत हो गयी और उसने उसके साथ आमोद-प्रमोद करना प्रारम्भ कर दिया । दीर्घ समयतक भोग-विलास करके श्रान्त हों जानेपर जब वे दोनों सो गये तो उन लोगोंने स्वप्नमें एक बूढ़े हंस पक्षीको देखा जिसके दोनों पाँव मृणाल-तन्तुसे परिवद्ध थे । उसी समय उन लोगोंकी आँखे खुल गयीं—वे जाग पड़े । ( ४ ) राजकुमारने उठकर देखा कि कमलके भ्रमसे चन्द्रमाकी किरणोंके तुल्य चाँदीकी जंजीरोंसे उसके दोनों पाँव बँधे हुए हैं। राजकुमारीने अपने वल्लभको ज्योंही ऐसी दुर्दशामें देखा त्योंही वे चिल्लाकर चीत्कार करने लगी । उस चीत्कारके कोलाहलसे
११० दशकुमारचरितम् । [ उत्तरपीठिकायां
११० दशकुमारचरितम् । [ उत्तरपीठिकायां हीतमिव रजतशृङ्खलोपगूढं चरणयुगलमासीत् । उपलभ्यैव च 'किमेतत्' इत्यतिपरित्रासविह्वला मुक्तकण्ठमाचक्रन्द राजकन्या । येन च तत्सकल- मेव कन्यान्तःपुरमग्निपरीतमिव पिशाचोपहतमिव वेपमानमनिरूप्यमा- ·णतदात्वायतिविभागमगण्यमानरहस्यरक्षासमयमवनितलविप्रविध्यमान- गात्रमाक्रन्दविदीर्यमाणकण्ठमश्रुस्रोतोऽवगुण्ठतकपोलतलमाकुलीबभूव । ( ५ ) तुमुले चास्मिन्समयेऽनियन्त्रितप्रवेशाः 'किं किम्' इति सह- वैरं तु प्रसिद्धम् । रजतशृङ्खलया उप वेष्टितम् । उपलभ्य ज्ञात्वा । किमेतत् ? एतत् किं जातमिति अतिपरित्रासेन अत्यन्तभयेन विह्वला व्याकुला । मुक्तकण्ठ- मुच्चैः । आचक्रन्द रुरोद । येन आक्रन्देन । कन्यान्तःपुरं कन्यानिवासः । अग्निना अनलेन परीतं व्याप्तम् । पिशाचेनोपहतं भूताविष्टम् । वेपमानं कम्पमा- नम् । अनिरूप्येति—न निरूप्यमाणो न निर्णीयमानः तदात्वस्य तत्कालस्य आय- तेरुत्तरकालस्य च विभागः कृत्यं येन तत् । 'तत्कालस्य तदात्वं स्यादुत्तरः काल आयतिरि'त्यमरः । न गण्यमानः न विचार्यमाणः रहस्यस्य निर्जनोत्पन्नस्य विष- यस्य रक्षायाः समयो व्यवस्था येन तत्—रहस्यरक्षार्थं केनापि न यत्यत इति भावः । अवनितले भूतले विप्रविध्यमानं ताड्यमानं गात्रं शरीरं यस्य तत् । आक्रन्दनेन रुदितेन विदीर्यमाणः भिद्यमानः कण्ठो यस्य तत् । सर्वमेतत्कन्यान्तः- पुरमित्यस्य विशेषणम् । आकुलीबभूव व्याकुलं सञ्जातम् । ( ५ ) तुमुले संकुले । न नियन्त्रितो निवारितः प्रवेशो येषां ते—अनिवारित- प्रवेशाः । अन्तर्वंशिकपुरुषाः अन्तःपुराधिकृताः । 'अन्तःपुरे त्वधिकृतः स्यादन्त- समस्त अन्तःपुर चिन्ताकुल हो गया तथा ऐसा हो-हल्ला मचा जैसे कहीं आग लग गयी हो, अथवा भूत-प्रेत-पिशाचोंकी भयावनी विशाल सेनाने लोगोंपर आक्रमण कर दिया हो । वहांपर सब लोग मारे भयके कांपने लगे । उस समय न लोगोंको यही सूझ रहा था कि क्या करना चाहिये, न वे यही सोच पाते थे कि इसके आगे क्या करना होगा । उन लोगोंको राजकुमारीको इस लान्छनसे बचानेका कोई उपाय भी नहीं सूझ रहा था । ऐसे व्याकुल तथा भयावने समयमें सब लोग गला फाड़-फाड़कर चिल्लाने लगे तथा नेत्रों से आँसू गिराने लगे । उनके आँसू इतनी तेजीसे बह रहे थे कि उन लोगोंके गण्डस्थल एक- दम भीग गये थे । ( ५ ) पूर्वोक्त प्रकारका कोलाहल मचनेपर सभी प्राचीन दास-दासी यह पूछते हुए भीतर घुस आए—'क्यों हल्ला हो रहा है—क्या बात है ?' और भीतर आकर उन लोगोंने
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १११ सोपसृत्य विविशुरन्तर्वंशिकपुरुषाः । ददृशुश्च तदवस्थं राजकुमारम् । तद- नुभावनिरुद्धनिग्रहेच्छास्तु सद्य एव ते तमर्थं चण्डवर्मणे निवेदयाञ्चक्रुः । ( ६ ) सोऽपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्यो- त्पन्नप्रत्यभिज्ञः 'कथं स एवैष मदनुजमरणनिमित्तभूतायाः पापाया बाल- चन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य पुष्पोद्भू- वस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविप्रलम्भोपायपाटवार्जि- तमूढपौरजनमिथ्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढ- पापशीलश्चपलो ब्राह्मणब्रुवः । वंशिको जन' इत्यमरः । तदवस्थमिति—सा अवस्था यस्येति विग्रहः, शृङ्खलित- चरणयुगलमित्यर्थः । तदनुभावेति-तस्य राजकुमारस्य अनुभावेन प्रतापेन निरुद्धा प्रतिहता निग्रहेच्छा पराभवाभिलाषो येषां ते । ते अन्तर्वंशिकपुरुषाः । अर्थं विषयम् । ( ६ ) सोऽपि चण्डवर्माऽपि । निर्दहन्निव भस्मीकुर्वन्निव । दहनोऽग्निर्गर्भे मध्ये यस्यास्तया । दृशा नेत्रेण । निशाम्य अवलोक्य । उत्पन्ना प्राप्ता प्रत्यभिज्ञा सोऽयमित्याकारिका स्मृतिर्यस्य सः । मदनुजस्य दारुवर्मणो मरणस्य मृत्योर्निमित्त- भूतायाः कारणभूतायाः। पत्युः स्वामिनः । अति अतिशयेन अभिनिविष्ट उत्पन्नो वित्तदर्पो धनगर्बो यस्य तथाभूतस्य । मित्रं सखा । नैकविधेषु नानाप्रकारेपु विप्र- लम्भस्य परवञ्चनस्योपायेषु यत्पाटवं कौशलं तेनावर्जितो वशीकृतो मूढोऽज्ञो यः पौरजनस्तेन मिथ्यारोपितो वितथो निष्फलो देवतानुभावो देवप्रभावो यस्मिन् सः । कपटं छलमेव धर्मकञ्चुकमावरणं यस्य सः । निगूढपापशीलः यः खलु गुप्तरूपेण पापमाचरतीत्यर्थः । ब्राह्मणब्रुवो ब्राह्मणाधमः । बन्धनसे परिवद्ध राजपुत्रको देख लिया । राजपुरुषोंका साहस उस राजकुमारको पकड़नेका तो न हुआ किन्तु वे लोग दौड़कर चण्डवर्माके समीप गये और उससे समस्त वृत्तान्त ज्ञापित कर दिया । ( ६ ) ज्योंही उसने यह वृत्तान्त सुना त्योंही वह क्रुद्ध होकर अन्तःपुरमें आ धमका तथा अग्निको उगलती हुई लाल-लाल आँखोंसे वहाँकी सारी परिस्थिति देखते ही समझ गया । उसी आवेशमें उसने कहा—'क्या यह वही दुरात्मा है जिसके कारण मेरा अनुज मारा गया है । क्या यही उस बालचन्द्रिकाके पति पुष्पोद्भव वणिक्का मित्र है, जिसे अपनी सम्पत्तिपर बड़ा अहंकार था ? क्या यही अपनेको श्रेष्ठ कलाकार समझनेवाला व्यक्ति है ? क्या इसीने अनेक छलोंके द्वारा अज्ञ पुरवासियोंमें अपनेको देवता सिद्ध किया है ? क्या इसीने धर्मके कपटाडम्बरसे जन-साधारणको धोखा दिया है ? क्या यही