भारतकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

६० • गन्धर्वतन्त्रे । ऋजुकायो वसेद्योगी वीरासनमितीरितम् । इडयां कर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ ५६ ॥ धारयेत् पूरितं योगी चतुःषष्ट्या च मात्रयाꕤ । सुषुम्नामध्यगं सम्यग् द्वात्रिंशन्मात्रया शनैः ॥ ५७ ॥ नाड्या पिङ्गलया चैवं रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः ॥ ५८ ॥ भूयोभूयः क्रमात्तस्य व्यत्यासेन समाचरेत् । मात्रावृद्धिक्रमेणैव सम्यग् द्वादश षोडश ॥ ५६ ॥ जपध्यानादिभिर्युक्तं सगर्भं तद्विदुर्बुधाः । त[दु?द]पेतं विगर्भं च प्राणायामं परं विदुः ॥ ६० ॥ क्रमादभ्यसतः पुंसो देहे स्वेदोद्गमोऽधमः । मध्यमः क[ल्प?म्प]संयुक्तो भूमित्यागः परो मतः ॥ ६१ ॥ उत्तमस्य गुणावाप्तिर्यच्छीलनकमिष्यते । इन्द्रियाणां विचरतां विषयेषु निराकुलम् ॥ ६२ ॥ बलादाहरणं तेभ्यः प्रत्याहारोऽयमीरितः अङ्गुष्ठगुल्फजानुषु सी[म?व]नीलिङ्गनाभिषु ॥ ६३ ॥ हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि ।१ भ्रूमध्ये स्तनके मूर्ध्नि द्वादशान्ते यथाविधि ॥ ६४ ॥ धारणं प्राणमरुतोर्धारणेति निगद्यते । समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ ६५ ॥ १ 'मण' क पाठ । २ 'से' ख पाठ । ꕤ मात्रालक्षण यथाह नारद - कालेन यावताऽभीक्ष्णो हस्त स्व जानुमण्डलम् । पर्येति मात्रा तुल्या स्यात् स्वया श्वासैकमात्रयेति ॥ तथा फेत्कारिणीतन्त्रे—जानु प्रदक्षि- णीकृत्य न द्रुत न विलम्बितम् । क्रियते चाङ्गुलिस्फोट सा मात्रा परिकीर्तितेति ॥

षष्ठः पटलः । ६१ आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते । समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ ६६^१॥ समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् । इति ते कथितं देवि कामादिषट्कनाशनम् ॥ ६७ ॥ दुर्लभं विषयासक्तैः सुलभं संयमात्मनाम् । समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ॥ ६८ ॥ यदि जीवः पराद्भिन्नः कार्य्यतामेति सुव्रते । [स्व?अ]चित्वं च प्रसज्येते घटवत् परमेश्वरि ॥ ६६ ॥ विनाशित्वं भयं चैव द्वि[त?ती]या[वि?दि]ति ते श्रुतिः । नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥ ७० ॥ एकः सन् भिद्यते भ्रान्त्या मायया न स्वरूपतः । तस्माद् द्वैतं न मे चास्ति न प्रपञ्चो न सं[स्मृ?सृ]तिः ।७१। यथाकाशो घटाकाशो महाकाश इतीरितः । तथा भ्रान्तिर्द्विधा प्रोक्ता ह्यात्मने^३ जीवेश्वरात्मना ॥ ७२ ॥ नाहं देहो नच प्राणो नेन्द्रियाणि तथैव च । न मनो नैव बुद्धिश्च नैव चित्तमहंकृतिः ॥ ७३ ॥ नाहं पृथ्वी न सलिलं नच वह्निस्तथानिलः । नचाकाशो न शब्दश्च नच स्पर्शस्तथा रसः ॥ ७४ ॥ नहि गन्धो न रूपं च न मायाहं न संसृतिः । सदा साक्षिस্বরূপत्वाद् ब्रह्म चैवास्मि केवलः ॥ ७५ ॥ सोऽहं ब्रह्म न संसारी न मत्तोऽन्यत् कदाचन । १ 'ज्यैव' ख. पाठः । २ 'स्म' क. पाठः । ३ 'प्याह्वा' क. ख पाठः ।

६२. गन्धर्वतन्त्रे । इति विद्यात् स्वमात्मानं समाधिः परिकीर्तितः ॥ ७६ ॥ समाधौ स्वस्वरूपोऽसौ तुरीयस्वर एव हि । तुरीयांशः पराशक्तिर्बिन्द्वात्मा ब्रह्म केवलम् ॥ ७७ ॥ प्रज्ञात्मानं वदन्त्येके एकेऽपि ब्रह्म केवलम् । जीवमीश्वरभावेन विद्यात् सोऽहमिति ध्रुवम् ॥ ७८ ॥ यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः । समुद्रे लीयते तद्वज्जगदात्मनि लीयते ॥ ७९ ॥ यस्यैवं परमात्मा [स?स्वा]पृथग्भूतः प्रकाशितः । स याति परं भावं स्वयं साक्षात् परामृतम् ॥ ८० ॥ यदा मनसि चैतन्यं भाति सर्वात्मकं सदा । योगिनोऽव्यवधानेन तदा संपद्यते स्वयं ॥ ८१ ॥ यदा भूतानि सर्वाणि स्वात्मन्येवाभिपश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते [स?त]दा ॥ ८२ ॥ यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणासौ तदा भवति केवलः ॥ ८३ ॥ यदौ जन्मजरादुःखव्याधीनामेव भेषजम् । केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा <sup></sup>शिवः ॥ ८४ ॥ तस्माद्विज्ञानतो मुक्तिर्नान्यथा भवकोटिभिः । मन्त्रौषधिबलैर्यद्वज्जीर्यते भक्षितं विषम् ॥ ८५ ॥ तद्वत् सर्वाणि कर्माणि जीर्यन्ति ज्ञानिनः क्षणात् । देहाभिमाने गलिते विदिते परमात्मनि ॥ ८६ ॥ १ 'प्रिये' ख पाठ । २ 'सदा' क. पाठ. ।

षष्ठः पटलः । ६३ यत्र यत्र मनो याति तत्र तत्र समाधयः । अहं ब्रह्मे नचान्योऽस्मि मुक्तोऽहमिति भावयेत् ॥८७॥ सच्चिदानन्दरूपोऽहं नित्यं मुक्तस्वभाववान् । एवं समाधियुक्तो यः समाधये स कल्पते ॥ ८८ ॥ सदाशिवोऽहमित्युक्त्वा स्वेच्छया विहरेद्यतिः । लिप्यते न स पापेन बध्यते नच कर्मणा ॥ ८६ ॥ यथाग्निविद्रुतं स्वर्णं मालिन्यं दहति क्षणात् । तथा ब्रह्मार्पितात्मासौ सर्वकर्माणि दह्यति ॥ ६०॥ आत्मस्थां देवतां त्यक्त्वा बहिर्देवान्विचि[न्व?नु]ने । करस्थं कौस्तुभं त्यक्त्वा भ्रमते काचतृष्णया ॥ ६१॥ न योगेन न यन्त्रेण न मन्त्रेण विना हि सः [?] । द्वयोरभ्यासयोगेन ब्रह्म संसिद्धिकारकम् ॥ ६२॥ तमःपरिवृते गेहे घटो दीपेन दृश्यते । एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः ॥ ६३ ॥ एतत्ते कथितं देवि ब्रह्मज्ञानमिदं महत् । विज्ञाय गुरुतो जप्त्वा संसारसागरं तरेत् ॥ ६४ ॥ यत्र यत्र मृतश्चायं गङ्गायां श्वपचालये । ब्रह्मविद् ब्रह्मभूयाय कल्पते नान्यथा प्रिये ॥ ६५ ॥ विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं प्रिये । चन्द्रसूर्याग्नितोजोभिर्जीवब्रह्मैकरूपकम् ॥ ६६ ॥ तिस्रः कोट्यस्तदर्धेनै शरीरे नाडयो मताँः । १ 'देवि' ख पाठ । २ 'हत्य' क पाठः । ३ 'स्व' क पाठ । ४ 'हृद्य' क, पाठ । ५ दै' क पाठ । ६ 'त ' क पाठ. ।

६४ गन्धर्वतन्त्रे । तासु मुख्या दश प्रोक्तास्तासु तिस्रो व्यवस्थिताः ॥६७॥ प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्निरूपिणी । शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा ॥ ६८ ॥ इडा वामे स्थिता नाडी शुक्ला तु चन्द्ररूपिणी । पिङ्गलाख्या च या दक्षे पुंरूपा सूर्यविग्रहा ॥ ६९ ॥ दाडिमीकुसुमप्रख्या विषारूपा चापरा मता । मेरुमध्यस्थिता या तु मूलादाब्रह्मरन्ध्रगा ॥ १०० ॥ सर्वतेजोमयी सा तु सुषुम्ना बह्निरूपिणी । तस्या मध्ये विचित्राख्या अमृतस्त्राविणी शुभा ॥ १०१ ॥ सर्वदेवमयी सा तु योगिनां हृदयङ्गमा । विसर्गाद्विन्दुपर्यन्तं व्याप्य तिष्ठति तत्त्वतः ॥ १०२ ॥ मूलाधारे त्रिपुराख्ये इच्छाज्ञानक्रियात्मके । मध्ये स्वयंभूलिङ्गं तु कोटिसूर्यसमप्रभम् ॥ १०३ ॥ तदूर्ध्वे तत्तुरोयं तु ध्यायेद्वन्धूकसंनिभम् । तदूर्ध्वे तच्छिखाकारा कुण्डली रक्तविग्रहा ॥ १०४ ॥ सा एव हि परा सूक्ष्मा महात्रिपुरसुन्दरी । चैतन्यं सर्वभूतानां शब्दब्रह्म यदुच्यते ॥ १०५ ॥ तत्प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् । सर्वतेजोमयं तत्तु सच्चिदानन्दमव्ययम् ॥ १०६ ॥ तद्बाह्ये हेमवर्णाभं [र?व]सवर्णा ॐ चतुर्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥ १०७ ॥ १ 'म्णा' क. पाठ. । २ 'र्दे' क पाठ. ३ 'द्धैं' क पाठ. ।

  • बादिसान्तवर्णोपेतमित्यर्थः ।

षष्ठः पटलः । ०६५ तदूर्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् । बादिलान्तषडर्णेन युक्तं स्वाधिष्ठानसंज्ञकम् ॥ १०८ ॥ मूलमाधारषट्कानां मूलाधारं ततो विदुः । स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ १०६ ॥ तदूर्ध्वे नाभिदेशे तु मणिपूरं महत् पुरम् । हेमाभं वैद्युताभं च बहुतेजोमयं तथा ॥ ११० ॥ मणिवद्भिन्ं तत्पूरं मणिपूरं ततो विदुः । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ १११ ॥ विष्णुनाधिष्ठितं पद्मं विश्वालोकनकारणम् । तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसंनिभम् ॥ ११२ ॥ कादिठान्ताक्षरैरर्कपत्रैश्च समलंकृतम् । तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ ११३ ॥ शब्दब्रह्ममयः शब्दोऽनाहतस्तत्र दृश्यते । अनाहताख्यं तत्पद्मं योगिभिः परिकीर्त्यते ॥ ११४ ॥ आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् । तदूर्ध्वे तु विशुद्धाख्यं दलैः षोडशभिर्युतम् ॥ ११५ ॥ स्वरैः षोडशकैर्युक्तं धूम्रवर्णं महत्प्रभम् । विशुद्धिं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ ११६ ॥ विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् । आज्ञाचक्रं तदूर्ध्वे तु आत्मनाधिष्ठितं परम् ॥ ११७ ॥ १ ' नून ' ख पाठ । २ ' क्त ' क पाठ । ३ ' तत्पुर मणिवद्भिज्ञ ' ख पाठः । ४ ' न्तदलै ' क पाठ । ५ ' ब्दो ' क पाठः ।

६६ • गन्धर्वतन्त्रे । हक्षादिद्विदलं पद्मं चन्द्रेणाधिष्ठितं तु तत् । आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्तितम् ॥ ११८ ॥ कैलासाख्यं तदूर्ध्वे तु बोधिनी तु तदूर्ध्वतः । सहस्राराम्बुजं देवि बिन्दुस्थानं तदूर्ध्वतः ॥ ११९ ॥ आदौ पूरकयोगेन स्वाधारे योजयेन्मनः । गुदमेढ्रान्तरे शक्तिं तामाकुञ्च्य प्रबोधयेत् ॥ १२० ॥ लिङ्गभेदक्रमेणैव बिन्दुस्थानं समानयेत् । शंभुना तां परां शक्तिमेकी(भाव?भूतां)विचिन्तयेत् ॥१२१॥ तदुद्भवमृतं वक्त्रद्रुतं लाक्षारसोपमम् । पाययित्वा च तां शक्तिं परोक्षां योगसिद्धिदाम् ॥१२२॥ षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया । आनयेत्तेन मार्गेण मूलाधारं पुनः सुधीः ॥ १२३ ॥ यातायातकमेणैव तत्र कुर्यान्मनोलयम् । एवमभ्यस्यमानं तु अहन्यहनि पार्वति ॥ १२४ ॥ जरामरणादुःखायैर्मुच्यते भवबन्धनैः । इत्युक्तं परमं योगं योनिमुद्राप्रबन्धनम् ॥ १२५ ॥ अथापरं प्रवक्ष्यामि समाधिं भवनाशनम् । अथवा परमेशानि यथोक्तध्यानयोगतः ॥ १२६ ॥ हृत्पद्मकर्णीकामध्ये ध्यायेद्देवीमनन्यधीः । त्रिपुरात्मकमात्मानं भावयेन्न्यस्तविग्रहः ॥ १२७ ॥ ऐक्यं संभावयेन्नित्यं स्वगुरुदेवतात्मनाम् । १ 'दे' क पाठ । २ 'लि' ख पाठ' ।

षष्ठः पटलः । -६७ अहं देवो नचान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ॥१२८॥ सच्चिदानन्दरूपोऽहं शुद्धबुद्धेस्वभाववान् । प्रणवं पूर्वमुद्धृत्य तदिति परतस्ततः ॥ १२६ ॥ सदिति तु समालोच्यं कर्म कुर्याद्विचक्षणः । स्मरणात् कर्मणामाद्ये ब्रह्मभूयाय कल्पते ॥ १३० ॥ सर्वमङ्गलसंपन्नो बहिर्निर्गत्य साधकः । त्य(क्र?क्त्वा)मूत्रपुरीषे च करपादौ विशोधयेत् ॥ १३१ ॥ मुखं प्रक्षाल्य देवेशि नासारन्ध्रद्वयं ततः । नेत्राञ्जनं विधायैव शुद्धस्थानं समाश्रयेत् ॥ १३२ ॥ नेत्राञ्जनमकृत्वैव यः पश्येत् सौरमण्डलम् । जन्माजितफलं नश्येत् का कथा तस्य दुर्मतेः ॥१३३॥ त्रितत्त्वेन त्रि(धा?रा)चम्य दन्तधावनमाचरेत् । दन्तकाष्ठम(था?खा)दित्वा पूजयेद्यस्तु देवताम् ॥ १३४ ॥ तत्पूजा विफला देवि मृते च नरकं व्रजेत् । क्लीमात्मकं कामदेवं सर्वान्ते जनमाँलिखेत् ॥ १३५ ॥ प्रियाय हृदयान्तोऽयं मनुर्दन्तौँविशुद्धये । चतुर्दशस्वरैर्वक्त्रं क्षालयेच्छुँद्धिहेतवे ॥ १३६ ॥ इति गन्धर्वतन्त्रे श्रीपार्वतीश्वरसंवादे कर्मयोगादिक्रमनिरूपणं नाम षष्ठः पटलः ॥ ६ ॥ १ 'द्वि' क पाठ । २ 'भाष्य' ख पाठ । ३ 'वंञ्जनमथा' ख. पाठ । ४ 'देंह' ख. पाठ । ५ 'स्सि' ख पाठ ।

सप्तमः पटलः । शंकर उवाच प्रातः स्नानं ततः कुर्यात् त्रैपुरं योजयन् क्रमम् । सुगन्धिसलिलैः शुद्धैः कुलतीर्थेऽथवा पुनः ॥ १ ॥ नद्यादौ विधिवत् स्नायात् कुलदर्भविधा(य?र)कः । रौप्यं दक्षिणतर्जन्यामनामा हेमसंयुता ॥ २ ॥ वामकनिष्ठिका हेमैः कुलदर्भोऽयमीरितः । एष एव भवेद्दर्भो न दर्भो वनसंभवः ॥ ३ ॥ अशून्यं तु करं कुर्याद्रहीन्द्वर्कप्रतिष्ठया । सर्वभूतवशी स स्यान्मुद्रया चातिशोभया ॥ ४ ॥ त्रितत्त्वेन त्रि(धा?रा)चम्य संकल्प्य पापनुत्तये । कुलपात्रे सरत्नं च सतिलं सजलं ततः ॥ ५ ॥ गृहीत्वा कुलदेवस्य प्रीतये स्नानमाचरेत् । अस्नातस्य फलं नास्ति तथातर्पयतः पितॄन् ॥ ६ ॥ इदं विष्णुर्भैरवं तु विचक्रम इतीरितम् । मृदालम्भनकृत्ये च नित्यमेवमुदीरयेत् ॥ ७ ॥ कुलचक्रं जले न्यस्य कुलमुद्रां विधाय च । एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ ८ ॥ आवाहयामि देवि त्वां स्नानार्थमिह सुन्दरि । आवाह्याम्भसि संयोज्य सोमसूर्याग्निमण्डलम् ॥ ६ १ ' रम ' ख पाठ ।

सप्तमः पटलः । ६६ संचिन्त्य मन्त्री तन्मध्ये ध्यायेत् त्रिपुरसुन्दरीम् । गायत्र्या वै महादेव्याः सुन्दरीमाह्वयेच्छिवाम् ॥ १० ॥ त्रिवारम(जनौ?ज्जने)वारि मूलमन्त्रेण मन्त्रयेत् । अभिषिञ्चेत् ततो मूर्ध्नि² मूलमन्त्रं हृदि स्मरन् ॥ ११ ॥ त्रिभिस्तु त्रिपुराबीजैस्त्रिधा मज्जनमाचरेत् । तस्मादुत्थाय देवेशि निर्मुक्ताशेषविग्रहः ॥ १२ ॥ त्र्यक्षरीं च समुच्चार्य दुकूले परिधापयेत् । सकेशं मूषिकाक्रान्तमधौतं भग्नमम्बरम् ॥ १३ ॥ मलिनं परकीयं च पर्युषितं च वर्जयेत् । तिलकं कुलरूपं च कृत्वाचम्य विधानतः ॥ १४ ॥ ततः संध्यामुपासीत पापहानाय साधकैः³ । स्नानं च त्रिविधं प्रोक्तं संध्या च त्रिविधा स्मृता ॥१५॥ आन्तरं च भवेद्देवि बाह्यं मानसमेव च । मानसं वै भवेत् स्नानं यः सदा शुद्धमानसः ॥ १६ ॥ स्पर्शते पादुके देवि⁴ निर्विकल्पः सदैव हि । बाह्यं मन्त्रैश्च⁵ संप्रोक्तमान्तरं शृणु सांप्रतम् ॥ १७ ॥ प्रागुक्तक्रमयोगेन प्राणायामपरो बुधः । शक्तिं पराशिवेनैव संगमय्य विधानतः ॥ १८ ॥ तदुद्भवामृते शश्वन्निमज्य पुनरेव हि । स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते ॥ १६ ॥ १ ‘ङ्ख्याश्च’ क पाठ । २ ‘र्द्धि’ क पाठ । ३ ‘हा येन साधना’ क. पाठः । ४ ‘स्पर्शलेपादिकेवापि ख पाठ ५ ‘ह्ममन्त्रैव’ ख पाठ । ६ ‘मार्थ’ क पाठ. ।

७० गन्धर्वतन्त्रे । बिन्दुतीर्थेऽथवा स्नात्वा पुनर्जन्म न विद्यते । आत्मानं सर्वदा सम्यग् ध्यायेद्ध्यानपरायणः ॥ २० ॥ देवताभेदतः संध्या मानसीयं परा प्रिये । शिवशक्त्योः समायोगो यस्मिन् काले प्रजायते ॥ २१ ॥ सा संध्या कुलनिष्ठानां समाधिस्थैः प्रतीयते । अपरां कथयाम्यत्र सर्वपापविनाशिनीम् ॥ २२ ॥ उपविश्य शुचौ देशे त्रितत्त्वेन त्रिराचमेत् । प्राणायामत्रयं कृत्वा त्रिभिर्बीजैस्त्रिधावि(ध?धि)म् ॥ २३ ॥ वामहस्ते जलं गृह्य गलितोदकबिन्दुभिः । सप्तधा प्रोक्षणं कुर्यान्मूर्ध्नि³ मन्त्रमनुस्मरन् ॥ २४ ॥ अवशिष्टोदकं दक्षहस्ते संगृह्य साधकः । नासामाश्लिष्य तोयेन ततस्तेनाघमर्षणम् ॥ २५ ॥ इडयाकृष्य देहान्तः क्षालितैः पापसंचयैः । कृष्णवर्णं तदुदकं दक्षनाड्या विरेचितम् ॥ २६ ॥ दक्षहस्ते तु तन्मन्त्री पापरूपं विचिन्त्य वै । पुरतो वज्रपाषाणे प्र⁵क्षिप्तेदस्त्रमन्त्रतः ॥ २७ ॥ इत्यघमर्षणं कृत्वा पुनराचमनं तथा । अभिषिञ्चेत् ततो मूर्ध्नि विधिना साधकोत्तमः ॥ २८ ॥ ओं आपो देवी रसोऽमृतं पूतं ब्रह्म पुनीमहे । जलाञ्जलित्रयं भूमौ मार्तण्डभैरवाय च ॥ २६ ॥ ऊर्ध्वबाहुस्ततो मन्त्री मार्तण्डं समुपाश्रयेत् । १ ‘धा’ क पाठ. । २ ‘धा’ ख पाठ । ३ दृष्ट्वि’ क पाठ । ४ ‘वाम’ क पाठ । ५ ‘स्तयेत’ ख पाठ । ६ ‘नि’ ख पाठ ।

सप्तमः पटलः । ७१ ओं उदुत्यं जातवेदसं देवं वहन्ति केतवः ॥ ३० ॥ दृशे विश्वाय मार्तण्डशेषे भैरवमीरयेत् । सूर्यमण्डलमध्ये तु कुलचक्रं विचिन्तयेत् ॥ ३१ ॥ बाल्योचितं स्पृहन्तीं वै बालिकां चक्रमध्यतः । बालार्कमण्डलाभासां भानुवह्नीन्दुलोचनाम् ॥ ३२ ॥ पाशाङ्कुशौ शरांश्चापं धारयन्तीं शिवां स्मरेत् । मध्याह्ने चिन्तयेद् देवीं नवयौवनशोभिताम् ॥ ३३ ॥ सायाह्ने चिन्तयेद् देवीं त्रैलोक्यैकप्रभामयीम् । सर्वयौवनसंपन्नामुज्ज्वलां परमां कलाम् ॥ ३४ ॥ तामेव चिन्तयेद्रात्रौ भोगी भोगपरायणाम् । अष्टोत्तरशतावृत्त्या गायत्रीं च जपेत् सुधीः ॥ ३५ ॥ रविमण्डलगां देवीं प्रणिपत्य समापयेत् । एवं संध्यां समाप्याथ हृदि विद्यां परामृ(षे?शे)त् ॥३६॥ अथवा परमेशानि सदैनां परिचिन्तयेत् । देव्युवाच इदानीं श्रोतुमिच्छामि कथमत्राधिकारिता ॥ ३७ ॥ वेदव्रतविहीनानां व्रात्यादीनां कृतागसाम् । तथैवानुपनीतानां स्त्रीशूद्राणां भवेच्छिव ॥ ३८ ॥ कथमेते महादेव मुक्तिं गच्छन्त्यनुत्तमाम् । न विना ब्राह्मणं मुच्येद्देहब(न्ध्या?न्धा)दिति श्रुतिः ॥३६॥ ईश्वर उवाच १ 'सूर्य मार्तण्डशेषे देवेशि भैरवं पदमीरयेत' ख पाठः । २ 'का' ख. पाठः ।

७२ गन्धर्वतन्त्रे । देवदारुवने पूर्वं ब्राह्मणानतिदुर्धियः । विलोक्य भगवान् विष्णुर्मामभ्येत्याभिवाद्य च ॥ ४० ॥ उपविष्टस्तदा देवः कारुण्यद्रुतचेतसा । पृष्टवान् मां महादेवि तेषां मुक्तेर्हि कारणम् ॥ ४१ ॥ भगवानुवाच इमे दुर्मतयः सर्वे वेदाचारबहिष्कृताः । अन्यायमैथुने (श?स)क्ताः सुरापानपरायणाः ॥ ४२ ॥ आत्मज्ञानविहीनानां योगाभ्यासावहेलिनाम् । कथमेषां भवेन्मुक्तिस्तदुपायं वद प्रभो ॥ ४३ ॥ शूद्रादीनां कथं देव दीक्षायामधिकारिता । ईश्वर उवाच अपि कृत्वा दुराचारान् पतितो वेदवर्जितः ॥ ४४ ॥ नारी शूद्रोऽथवा बालो यां ज्ञात्वा ब्राह्मणो भवेत् । यया विज्ञायते ब्रह्म सच्चिदानन्दमव्ययम् ॥ ४५ ॥ तामेव कथयाम्यद्य तवैव हृदि संस्थिताम् । चतुर्विंशतितत्त्वेन निर्मितां तत्स्वरूपिणीम् ॥ ४६ ॥ त्रिकारं चम्पकापीतं ब्रह्मविष्णुशिवात्मकम् । १ शतपत्रासनारूढं ध्यायेत् पद्मासनस्थितम् ॥ ५७ ॥ पुकारं चिन्तयेद्देवमतसीपुष्पसंनिभम् । पद्ममध्यस्थितं सौम्यमुपपातकनाशनम् ॥ ४८ ॥ रकारं कपिलं नित्यं कमलासनसंस्थितम् । ध्येयेच्छान्तं सुरश्रेष्ठ महापातकनाशनम् ॥ ४६ ॥ १ 'क्ति' क पाठ । २ 'ता' क पाठ । ३ 'य्यी' क पाठ ।

सप्तमः पटलः । ७३ सुकारं चिन्तयेद्देवमिन्द्रनीलसमप्रभम् । निर्दहेत् सर्वदुःखानि ग्रहरोगोद्भवानि च ॥ ५० ॥ न्दकारं वह्निदीप्ताभं चिन्त(ना?ये)त् पुरुषर्षभ । भ्रूणहत्याकृतं पापं तत्क्षणादेव नश्यति ॥ ५१ ॥ (रि?यै)कारं विमलं ध्यायेद् ब्रह्महत्याविनाशनम् । (रि?वि)कारं चिन्तयेद्विद्वान् शुद्धस्फटिकसंनिभम् ॥५२॥ पापं नश्यति तत्क्षिप्रमगम्यागमनोद्भवम् । (सु?ह्म)कारं चिन्तयेद्योगी शुद्धस्फटिकसंनिभम् ॥ ५३ ॥ अभक्ष्यभक्षणं पापं तत्क्षणादेव नश्यति । हेकारं तारकावर्णांमिन्दु(शेष?शीर्ष)विभूषितम् ॥ ५४ ॥ योगिनां वरदं ध्यायेद् ब्रह्महत्याविनाशनम् । काकारं कृष्णवर्णं च नीलमेघसमप्रभम् ॥ ५५ ॥ ध्यात्वा पुरुषशार्दूल पापं नाशयति ध्रुवम् । मेकारं रक्तवर्णं च कमलासनसंस्थितम् ॥ ५६ ॥ गोहत्यादिकृतं पापं नाशयत्येव तत्क्षणात् । श्वकारं परमं ध्यायेत् तप्तकाञ्चनसंनिभम् ॥ ५७ ॥ कमलासनमासीनं मन्त्री हत्याविमोचनम् । (रि?यै)कारं शुक्लवर्णं तु जातीपुष्पसमप्रभम् ॥ ५८ ॥ गुरुहत्याकृतं पापं ध्यात्वा दहति तत्क्षणात् । धीकारं चिन्तयेच्छुक्लं कुन्दपुष्पसमप्रभम् ॥ ५६ ॥ पितृमातृवधात् पापान्मुच्यते नात्र संशयः । १ 'य' क पाठ ।

७४ गन्धर्वतन्त्रे । मकारं पद्मरागाभं चिन्तयेद् दीप्ततेजसम् ॥ ६० ॥ पूर्वजन्मार्जितं पापं तत्क्षणादेव नश्यति । हिकारं शङ्खवर्णं तु पूर्णचन्द्रसमप्रभम् ॥ ६१ ॥ अशेषपापदहनं ध्यायेन्नित्यमिहाच्युत (?) । तत्कारं पाण्डुरं ध्यायेत् पद्मस्योपरि संस्थितम् ॥ ६२ ॥ प्रतिग्रहकृतं पापं स्मरणादेव नश्यति । नःकारं रक्तवर्णं तु इन्द्रगोपसमप्रभम् ॥ ६३ ॥ ध्यात्वा प्राणिवधं पापं निर्दहेज्जगदीश्वर । क्लिन्कारं रक्तवर्णं तु स्मरेद्द्वज्रसमप्रभम् ॥ ६४ ॥ निर्दहेत् सर्वपापानि नान्यैः पापैः प्रलिप्यते । नेकारं तु मुखं पूर्वमुद्यदर्कसमप्रभम् ॥ ६५ ॥ सकृद्ध्यात्वा सुरश्रेष्ठ स गच्छेदू ब्रह्मणः पदम् । नीलोत्पलदलश्यामं प्रकारं दक्षिणाननम् ॥ ६६ ॥ सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेद्वैष्णवं पदम् । सौम्यं गोरोचनापीतं चोकारं चोत्तराननम् ॥ ६७ ॥ सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेद्रुद्रतां पुनः । शरच्चन्द्रनिभं शान्तं दकारं पश्चिमाननम् ॥ ६८ ॥ सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेदैश्र्वरं पदम् । यात्कारं च शिरः प्रोक्तमूर्ध्वाननमितीरितम् ॥ ६९ ॥ सकृद् ध्यात्वा सुरश्रेष्ठ सदाशिवपुरं व्रजेत् । अक्षराणां तु सर्वेषां वक्ष्यन्ते देवताः क्रमात् ॥ ७० ॥ १ 'र्द्धा' क पाठ ।

सप्तमः पटलः । ७५ अग्निवायुसूर्यविद्युद्यमा वरुण एव च । बृहस्पतिस्तु पर्जन्य इन्द्रो गन्धर्व एव च ॥ ७१ ॥ पूषा शिवश्च त्वष्टा च वैसवश्च मरुत्तथा । सोमोऽङ्गिरा विश्वेदेवा अश्विनौ च प्रजापतिः ॥ ७२ ॥ सर्वदेवश्च रुद्रश्च ब्रह्मा विष्णुश्च देवताः । जपकाले चिन्तयित्वा तासां सायुज्यमाप्नुयात् ॥ ७३ ॥ ललितायास्त्रिभिर्बीजैस्त्रिपदीयं त्रयीमयी । एतज्ज्ञात्वा तु मेधावी जपहोमं करोति यः ॥ ७४ ॥ षडङ्गमविधायादौ ध्यायं(तां?स्तां)परदेवताम् । न भवेत् सूतकं तस्य मृतकं च न विद्यते ॥ ७५ ॥ यश्चैवं तु न जानाति गायत्रीं च यथाविधि । कथितं सूतकं तस्य मृतकं च मयानघ ॥ ७६ ॥ नैव दानफलं तस्य नच यज्ञफलं लभेत् । नच तीर्थफलं प्रोक्तं तस्यैवं सूतके सति ॥ ७७ ॥ गायत्र्येषा समाख्याता त्रैपुरी सर्वसिद्धिदा । गायन्तं त्रायते यस्माद् गायत्री तेन चोच्यते ॥ ७८ ॥ महापातकयुक्तोऽपि प्रजपेद् दशधा यदि । सत्यं सत्यं महादेवि मुक्तो भवति तत्क्षणात् ॥ ७९ ॥ अष्टोत्तरसहस्रं वै जपेदेनामनन्यधीः । सर्वपापविनिर्मुक्तो भवेत् पूजाधिकारवान् ॥ ८० ॥ जीवन्मुक्तो जामदग्न्यः शिष्यो मे घोरपातकैः । १ ‘तितु’ क पाठ । २ ‘वा’ ख पाठ । ३ ‘स्त्रीपदे’ ख पाठः । ४ ‘शतावृत्त्या गायत्री जपते यदि’ ख पाठ ।

७६ गन्धर्वतन्त्रे विमुक्तो मातृहत्याद्यैर्मीननाथस्तथा परः ॥ ८१ ॥ जेगीषव्यश्च चन्द्रश्च वासवश्च विमोचितः । गुरुतल्पगमनाद्यैस्तथागस्त्यः प्रमोचितः ॥ ८२ ॥ अभक्ष्यभक्षणात् पापादनयैव विमोचितः । चाण्डालगमनाद्यैश्च वशिष्ठश्चापि मोचितः ॥ ८३ ॥ दत्तात्रेयः सुरापानाज्ज्वलनः सर्वभक्षणात् । त एव ब्रह्मणाः सर्वे विष्णुना प्रभविष्णुना ॥ ८४ ॥ अनयैव महादेवि सर्व एव प्रमोचिताः । देव्युवाच धन्या चानुगृहीतास्मि त्वया नाथेन शंकर ॥ ८५ ॥ निःसंशयास्मि देवेश भ्रमो द्वैतश्च मे हतः । कतिधा सा भवेद् देव तदिदानीं वद प्रभो ॥ ८६ ॥ ईश्वर उवाच एकैव सा महादेवि बहुधा भिन्नतां गता । सौरी च वैष्णवी चैव शाक्ती ब्राह्म्यथ शांभवी ॥ ८७ ॥ तत्तन्त्रे ताः प्रयोक्तव्यास्त्रैपुरीयं प्रकाशिता । तर्पणं च त्रिधा प्रोक्तं सांप्रतं तच्छृणु(ख?ष्व)मे ॥८८॥ सोमार्कानलसंघट्टात् स्खलितं यत् परामृतम् । तेनामृतेन दिव्येन तर्पयेत् परदेवताम् ॥ ८६ ॥ आन्तरं तर्पणं ह्येतन्मानसं शृणु सांप्रतम् । आत्मानं तन्मयं स्मृत्वा सदा संतर्पितात्मवान् ॥ ६० ॥ सर्वदा सर्वकार्येषु संतुष्टः स्थिरमानसः । उपविश्य शुचौ देशे ततस्तर्पणमारभेत् ॥ ६१ ॥

सप्तमः पटलः । ७७ तर्पयित्वा गुरूनादौ मूलदेवीं च तर्पयेत् । बीजद्वयं ततो विद्या हुतभुग्दयितान्विता ॥ ६२ ॥ ततो देव्याः स्वनामान्ते तर्पयामि नमःपदम् । देवान् पितॄन् ऋषींश्चैव तर्पयेत् कुलवारिणा ॥ ६३ ॥ तर्पणादौ प्रयुञ्जीत तृप्यतां वृद्धभैरवः । तथैव परमेशानि विष्णुं रुद्रं प्रजापतिम् ॥ ६४ ॥ एवं ऋषीन् प्रतर्प्याथ पितॄनपि च भैरवान् । तृप्यतां सुन्दरी माता पिता भैरवस्तृप्यताम् ॥ ६५॥ आदौ त्रिपुरपूर्वं च तर्पणे विनियोजयेत् । श्राद्धे विवाहे दाने च स्नाने चानङ्गपूजने ॥ ६६ ॥ सर्वदा सर्वकार्येषु तान्त्रिके वैदिके तथा । त्रिपुरभैरवं चैव स्मरेत् त्रिपुरसुन्दरीम् ॥ ६७ ॥ स्वविद्यां संस्मरन् कुर्यात् क्रियां सर्वत्र चोदिताम् । द्विजातीनां च संस्कारो वेदोक्तः समुदाहृतः ॥ ६८ ॥ तेषां तु तत्र तत्रापि विद्यया विधिमाचरेत् । अन्येषामपि वर्णानां विद्ययैव समापयेत् ॥ ६९ ॥ विद्यया संस्कृतो यस्तु स एव ब्राह्मणो मतः । निघ(नो?ने)विद्यया दाहो विद्ययान्यत् समाचरेत् ॥१००॥ तेनैव तन्मयी सिद्धिः सर्वत्र भवति ध्रुवम् । यावन्न दीयते देवि सूर्यायार्घ्यं विधानतः ॥ १०१ ॥ विधिना विहिता पूजा तावत् केन प्रगृह्यते । मार्तण्डभैरवायार्घ्यं दूर्वाभिः सिततण्डुलैः ॥ १०२ ॥ १ 'यात्' क पाठः । २ 'शि' क पाठ. ।

७८ गन्धर्वतन्त्रे । रक्तपुष्पैश्चन्दनैश्च सगणाय निवेदयेत् । ‡ शिवबीजं वह्निसंस्थं वामनेत्रविभूषितम् ॥ १०३ ॥ नादबिन्दुकलायुक्तं हंसःपदमथो लिखेत् । मार्तण्डभैरवायेति प्रकाशशक्ति चालिखेत् ॥ १०४ ॥ सहितायेति चोक्त्वा वै इदमर्घ्यमतः परम् । वह्निजायान्वितं कृत्वा सूर्यायार्घ्यं निवेदयेत् ॥ १०५ ॥ न दद्याद्भास्करायार्घ्यं शंखतोयैर्महेश्वरि । सर्वदेवमयं सूर्य्यं सर्वदेवनमस्कृतम् ॥ १०६ ॥ पूजयित्वा विधानेन प्रदक्षिणमनुव्रजन् । प्रणम्य भगवन्तं वै सर्वपापैः प्रमुच्यते ॥ १०७ ॥ यः सदा पूजयेद् देवं दृष्ट्वा वा प्रणमेत् प्रभुम् । पूजितं दैवतत्वेन ब्रह्माण्डान्तरगोचरम् ॥ १०८ ॥ तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां यदुदाहृतम् । सकृत् प्रदक्षिणां देवि दद्यात् तत्फलमञ्जसा ॥ १०६ ॥ तीर्थानां दर्शने यद्यत् तत्तद्भास्करदर्शनात् । सर्वतीर्थामृतैः स्नातो स सदा सूर्यरश्मिभिः ॥ ११० ॥ अथ त्रिपुरगायत्र्या देव्यै चार्घ्यं निवेदयेत् । सूर्यमण्डलसंस्थायै पूर्वोक्तध्यानयोगतः ॥ १११ ॥ चक्रराजं हृदि ध्यात्वा तत्र देवीं समानयेत् । अष्टोत्तरशतावृत्त्या जपन् विद्यामनन्यधीः ॥ ११२ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे स्नानसंध्योपासनादिविधिर्नाम सप्तमः पटलः ॥ ७ ॥ १ 'य' ख पाठ । ‡ शिवेत्यादिना ह्रींबीजोद्धार कृत । § गुप्तदीक्षाविषये इद बोध्यम् ।

अष्टमः पटलः । ईश्वर उवाच ततो मौनी विशुद्धात्मा हृदि विद्यां परामृ(षे?शे)त् । अबहिर्मानसो योगी यागभूमिमथाविशेत् ॥ १ ॥ केशकीटादिसंयुक्ता न स्निग्धा नातिपिच्छला । न रूक्षा नातिनीचा वै नात्युच्चाँ न वनान्विता ॥ २ ॥ न च वायुभिराच्छन्ना नान्यप्राणिसमाकुला । धूलिकर्दमसंयुक्ता पशुभिर्न विलोकिता ॥ ३ ॥ वृक्षादिभिरनाकीर्णा द्रवर्वारिसमाकुला । अनावृता चतुर्दिक्षु मनसँस्तुष्टिकारिणी ॥ ४ ॥ ऊषरे कृषिसंयुक्ते स्थाने पुण्येऽपि नार्चयेत् । यागभूमिर्निषिद्धैषा विहिता कथ्यतेऽधुना ॥ ५ ॥ वापीकूपसमीपस्था सुमनोद्यानमध्यगा ❄ । विचित्रमण्डपैर्युक्ता शुद्धवेदिपरि(स्कृ?ष्कृ)ता ॥ ६ ॥ पताकाध्वजसंकीर्णा लाक्षारुणपरिच्छदा । पुष्पप्रकरसंकीर्णा घण्टाचामरभूषिता ॥ ७ ॥ दीपदर्पणसंयुक्ताँ वितानोपपरिष्कृताँ । पेयैर्भक्ष्यैः समायुक्ता कर्पूरागुरुधूपिता ॥ ८ ॥ बालार्कसदृशी रम्या मनःसंतोषकारिणी । तत्तदायुधपूर्णान्तर्विभूषितप्रपूजिता ॥ ६ ॥ १ 'रु' क पाठ । २ 'ष्ण्या' ख पाठ । ३ 'द्रा' ख पाठ.। ४ 'सोतु' क. पाठः । ५ 'क्त' क पाठ । ६ 'ता' क पाठ' । ७ 'स्कृ' क पाठ । * सन्धिरेशः ।