भारतकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

दशमः पटलः । १०५ पीठमुज्जयिनीं चैव क्षीरिकापीठमेव च ॥ ८६ ॥ हस्तिनापुरकं पीठं पीठमुड्डीशमेव च । प्रयागं चैव षष्ठीशं मायापुरजलेश्वरौ ॥ ६० ॥ मलयं च महापीठं श्रीशैलमथवापि वै १ । मेरुं गिरिं महेन्द्रं च वामनं चापि विन्यसेत् ॥ ६१ ॥ हिरण्यपुरकं पीठं महालक्ष्मीपुरं च वै । उड्डीयानं महापीठं छायापुर २ मतः परम् ॥ ६२ ॥ षोढान्यासस्त्वयं प्रोक्तः सर्वपापहरः सदा । षोढान्यासविहीनो यः प्रणमेद्देवि सुन्दरीम् ॥ ६३ ॥ सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते । एवं न्यस्तशरीरस्तु भवेद् गङ्गाधरः स्वयम् ॥ ६४ ॥ मन्त्री नचात्र संदेहो निग्रहानुग्रहक्षमः । न तस्य पूज्यो लोकेऽस्मिन् पितृमातृमुखो नरः ॥६५॥ स्वयं च साधकश्रेष्ठो यं कंचन न (विन्दति?वन्दते) । स म(र्थो?र्त्यो)मृत्युमाप्नोति नात्र कार्या विचारणा ॥६६॥ नमस्कारं न कुर्वीत ज्येष्ठस्यापि कदाचन । गुरोरपि न पश्येतै म्रियते नात्र संशयः ॥ ६७ ॥ तस्मात् सर्वप्रयत्नेन नमस्कारं विवर्जयेत् । कामं क्रोधं तथा लोभं मायाहंकारमेव च ॥ ६८ ॥ संकल्पं भोजनालापं न कुर्यात् केनचित्सह । भोक्तव्यं योषिता सार्धं यत्किंचित् तत्तैयैव हि ॥ ६६॥ १ 'च तथा प्रिये' ख पाठ. । २ 'पीठ' ख. पाठ । ३ 'वन्देत' क पाठः । ४ 'म्म' क पाठ. ।

१०६ गन्धर्वतन्त्रे । विन्यसेद्देवि युक्तात्मा त्रिकालं च दिवा निशि । यथा साभ्यासयोगेन सामर्थ्यं तद्वदाम्यहम् ॥ १०० ॥ यत्रायं निवसेद्देवि षोढान्यासी च साधकः । दिव्यं क्षेत्रं भवेत्तत्र समन्ताच्छतयोजनम् ॥ १०१ ॥ देवाः सर्वे नमस्यन्ति तं नमामि न संशयः । कृत्वा न्यासमिमं देवि यत्र गच्छति साधकः ॥ १०२ ॥ तत्र यद्विषये चैव यन्मानं¹ पुरुषैः सह । द्यावान्तरिक्षभूशैलजललाररायनिवासिनः ॥ १०३ ॥ भूतप्रेतपिशाचाश्च यक्षकूष्माण्डराक्षसाः । पश्यन्ति पावकारूढं ये चान्ये हिंसका जनाः ॥ १०४ ॥ शत्रुसंहतिसंकीर्णे² संग्रामेऽथापदेषु च । न भयं विद्यते तस्य परत्र शिवतां व्रजेत् ॥ १०५ ॥ ये केचित् पापसंघाताः सप्तजन्मान्तरोद्भवाः । नश्यन्ति न्यासमात्रेण भास्करेण तमो यथा ॥ १०६ ॥ सतताभ्यासयोगेन षण्मासेन च मानवे³ । दह्यते सर्वपापानि ब्रह्महत्यादिकानि च । किंचातिबहुनोक्तेन मम तुल्यो भवेद् ध्रुवम् ॥ १०७ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे षोढान्यासक्रमनिरूपणं दशमः पटलः ॥ १० ॥ १ 'षण्मा' क पाठः । २ 'र्णे' क पाठ । ३ 'व' क पाठ. ।

एकादशः पटलः । —०— ईश्वर उवाच करशुद्धिर्ऋषिन्यास आसनं च ततः परम्¹ । कराङ्गयोः षडङ्गानि वशिन्याद्यमतः परम्³ ॥ १ ॥ न(र? [व])योनिचतुर्व्यूहतत्त्वन्यासादिकं तथा । मूलवर्णादिविन्यासः संमोहनाख्य एव च ॥ २ ॥ एतदेव हि नित्यं स्यात् काम्यं चान्यत् प्रकीर्तितम् । करशुद्धिकरीपूर्वं ⊛ त्रिपुरेति पदं ततः ॥ ३ ॥ अमृतार्णवशब्देऽपर्यासनाय नमो मनुः । पादयोर्विन्यसेत् पश्चाद्धालान्ते त्रिपुरेश्वरी ॥ ४ ॥ पोताम्बुजासनायान्ते नमो जानुनि विन्यसेत् । ह्रींक्लींसौस्त्रिपुरेत्युक्त्वा सुन्दरीति पदं ततः ॥ ५ ॥ डेन्तमात्मासनायान्ते नम(उच्चार्य?ऊर्वोः प्र)विन्यसेत् । आद्यं मध्यं तथान्तं च(श?कु)मार्याः शिवसंयुक्तम् । ॥६॥ त्रिपुरवासिनीत्युक्त्वा चक्रासनाय हृत्ततः । कटिद्वये प्रविन्यस्य शिवं सोमयुतं कुरु ॥ ७ ॥ एतस्या एव विद्याया ‡ त्रिपुरँश्रीपदं ततः । सर्वमन्त्रासनायान्ते नमो गुह्ये प्रविन्यसेत् ॥ ८ ॥ १ 'भूत' ख पाठ । २ 'पीठन्यास तथैवच' ख पाठ । ३ 'मातृकान्यासमेव च' ख पाठ । ४ 'द्री' क पाठ । ५ 'दि' क पाठ । ६ 'देशे' क पाठ । ७ '२' क पाठ । ⊛ अआसौ. इति करशुद्धिकरीविद्या । † बालाया बीजत्रये शिवेनि हकारेण सयुतम् । ‡ समनन्तरोक्तविद्याया एव बीजत्रये शिवो हकार सकारेण युत ।

१०८ गन्धर्वतन्त्रे । † परा च कामबीजं च वारुणां त्विन्द्रसंयुक्तम् । योनियुक्तं सबिन्दुं च त्रिपुरमालिनी ततः ॥ ६ ॥ साध्यासनाय मूले च नम इति प्रविन्यसेत् । ‡ मायाबीजं रमाबीजं कुमार्याश्च तृतीयकम् ॥ १० ॥ तथा त्रिपुरसिद्धान्ते साध्यसिद्धासनं ततः नाभिदेशे प्रविन्यस्य हृदये च प्रविन्यसेत् ॥ ११ ॥ § शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् । कामराजं कुमार्यास्तु शिवचन्द्रान्वितं कुरु ॥ १२ ॥ पृथ्वीबीजात्ततो वह्निं शक्तिबीजे ततः परम् । शिववह्नी नियोज्यैव हित्वा सर्गं तु बैन्दवम् ॥ १३ ॥ संयोज्य परमेशानि त्रिपुराम्बापदं ततः । प[र्वण?र्यङ्क]शक्तिपीठाय नमो हृदि प्रविन्यसेत् ॥ १४ ॥

  • वदन्याशेषबीजान्ते महात्रिपुरभैर[व?वी] । सदाशिवमहाप्रेतपद्मासनाय चालिखेत् ॥ १५ ॥ नम इत्यज[बंधे?रन्ध्रे]तु विन्यसेत् साधकोत्तमः । ‡‡ वह्निर्वरुणशक्रं च षष्ठस्वरविभूषितम् ॥ १६ ॥ - नादबिन्दुकलायुक्तं वशिनीति पदं ततः । १ 'त्रिपुर' क पाठ. । † परा ह्रीं कामबीजं क्लीं । वारुण व इन्द्रः ल योनि ए सबिन्दु तेन व्ले । ‡ माया ह्रीं रमा श्रीं बालायास्तृतीय सौः । § शिवचन्द्रौ हकारसकारौ वह्नीति रकारारूढौ वाग्भवं ऐं तेन ह्सरैं । कामराजशक्तिबीजयोरपि उक्त- वर्णाम्योजनया बीजान्तरे बोध्ये केवलमन्त्यकूटे विसर्गस्थाने बिन्दु स्थाप्य । तेन हसकलरीं । ह्सरौ इति । * वदन्त्येति संपत्प्रदामैश्वीविद्या सा यथा ह्सैं हसकलरीं ह्सौः इति । ‡‡ वह्नि र वरुणो व शक्रं ल षष्ठस्वर. नादादियुक्तः ऊ तेन रव्लूं इति वशिनीवाग्देवताविद्या इति ।

एकादशः पटलः । १०६ वाग्देवता चतुर्थ्यन्ता नमः स्वरैः प्रविन्यसेत् ॥ १७ ॥ † मादनं शक्रमारूढं महामाया ततः परम् । इयं कामेश्वरी ज्ञेया कवर्गॆण ललाटके ॥ १८ ॥ § धान्तं वरुणमिन्द्रं च चतुर्थस्वरबिन्दुकम् । एषैव मोदिनी देवी भ्रुवोर्मध्ये चवर्गेके ॥ १९ ॥ ‡ वायुं पुरन्दरं देवि षष्ठस्वरविभूषितम् । नादबिन्दुकलायुक्तं विमलेयं समीरिता ॥ २० ॥ न्यस्तव्या कण्ठदेशे तु टवर्गेणैव पार्वति ।

  • ष्टान्तं भान्तं च ज्वलनं तुरीयस्वरबिन्दुकम् ॥ २१ ॥ अरुणेयं तु वाग्देवी तवर्गेण हृदि स्मृता । जयिनी च ततो देवि ☿ नकुलिः सोमशक्रकम् ॥ २२ ॥ ¶ वारुणं वायुबीजं च षष्ठस्वरविभूषितम् । नाभिदेशे समाख्याता पवर्गॆण वरानने ॥ २३ ॥ ऽ जान्तं भान्तं ततो रेफं वायुबीजसमन्वितम् । षष्ठस्वरसमायुक्तं नादबिन्दुकलायुतम् ॥ २४ ॥ सर्वेश्वरी(ष?य)वर्गेण स्वाधिष्ठानाख्यपङ्कजे । ∥ संवर्तकं महेशानि कालबीजोपरिस्थितम् ॥ २५ ॥ वह्निबीजं ततो माया नादबिन्दुकलान्विता । † मादन क शक्रोति लकारारूढ महामाया ह्री इति कामेश्वरी । § धान्तं न वरुण व इन्द्र ल चतुर्थस्वर ई तेत नवली । ‡ वायुः य पुरन्दर ल तेन ल्यूँ ।
  • ष्टान्त ज भान्त म ज्वलन र तुरीयेति चतुर्थस्वर. ईं तेन ज्रीं । ☿ नकुलि ह सोमशक्रोति सकारल्लकारौ । ¶ वारुण व वायु. य तथा षष्ठस्वर. तेन हसलवयूँ इति । ऽ जान्त क भान्त म रेफ र वायु य तथा षष्ठः स्वरः तेत क्ष्मर्यू इति । ∥ संव- र्तक क्ष कालो म वह्नि र माया ईं तेन क्ष्मीं इति ।

११० गन्धर्वतन्त्रे । मूलाधारे शवर्गेण कौलिनी परिकीर्तिता ॥ २६ ॥ एता वाग्देवता देवि वशिनीवत् प्रविन्यसेत् । मूलविद्याद्विरावृत्त्या सर्वाङ्गुलितलेषु च ॥ २७ ॥ ङेन्तेषु परमेशानि न्यसेदङ्गानि षट् क्रमात् । नमः स्वाहा वषड् वौषड् हुं फडिति षडङ्गकम् ॥ २८ ॥ करयोरथ विन्यस्य षडङ्गेषु तथा न्यसेत् । नमोऽन्तं हृदयं ङेन्तं स्वाहान्तं च तथा शिरः ॥ २६ ॥ शि[खरे?खा व]षट् चतुर्थ्यन्ता हुं ङेन्तं कवचं ततः । नेत्रत्रयं च वौषट् च अस्त्रं फडन्तमीश्वरि ॥ ३० ॥ *हृदयं मध्यमानामातर्जनीभिः स्मृतं शिरः । मध्यमातर्जनीभ्यां स्यादङ्गुष्ठेन शिखा प्रिये ॥ ३१ ॥ दशभिः कवचं प्रोक्तं तिसृभिर्नेत्रमीरितम् । तथैवोक्ताङ्गुलीभ्यां च सशब्दमस्त्रमीरितम् ॥ ३२ ॥ पूजा तपोऽर्चनं होमः सिद्धमन्त्रकृता अपि । अङ्गविन्यासविधुरा न दास्यन्ति फलान्यमी ॥ ३३ ॥ वशिनीप्रमुखान् देवि विन्यसेत्तदनन्तरम् । १ मूलकूटत्रयेणैवं स्थानेष्वेष्ठु क्रमान्न्यसेत् ॥ ३४ ॥ § कर्णयोश्चिबुके चैव शङ्खयोर्वदने पुनः । नेत्रयोर्नासि विन्यस्य अंसयोर्जठरे ततः ॥ ३५ ॥ पुनः कुर्परयोः कुचौ जानुनोर्लिङ्गमूर्धनि । १ 'ये' क पाठः । २ 'त शिव' क पाठः । ३ 'अश' क पाठः ।

  • हृदयमित्यादिना षडङ्गन्यासमुद्रा निर्देशति । § नवयोनिन्यासमाह कर्ण- योरिति । मूलबीजत्रयेणैवाय कार्य ।

एकादशः पटलः । १११ पादयोर्गुह्यदेशे च पार्श्वयोर्हृदयाम्बुजे ॥ ६३ ॥ स्तनयोः कण्ठदेशे च न्यसेदेवं विधानतः । चतुर्व्यूहं ततो देवि न्यसेत् पीठसमन्वितम् ॥ ३७ ॥ *मूलवाग्भवमुच्चार्य अग्निचक्रेपदं ततः । कामगिर्यालये पश्चान्मित्रेशपदमुद्धरेत् ॥ ३८ ॥ नाथात्मकेपदं पश्चात् कामेश्वरी पदं ततः । रुद्रात्मशक्तिशब्दाच्छ्रीपादुकायै नमो न्यसेत् ॥ ३६ ॥ आधारे परमेशानि हृदये च ततः परम् । मूलद्वि[त?ती] यमुच्चार्य सूर्यचक्रेपदं ततः ॥ ४० ॥ जालन्धरपदात् पीठे षष्ठीशनाथशब्दतः । आत्मकेपदमाभाष्य वज्रेश्वरीपदं ततः ॥ ४१ ॥ विष्ण्वात्मशक्तिशब्दान्ते पूर्ववच्च तदीरितम् । शक्तिकूटं समुच्चार्य सोमचक्रेपदं ततः ॥ ४२ ॥ पूर्णगिरिपदान्ते च पीठेपदमतः परम् । उड्डीशपरतो देवि नाथात्मकेपदं ततः ॥ ४३ ॥ तदन्ते योजयेद्देवि भगपूर्वा च मालिनी । ब्रह्मात्मशक्तिशब्दान्ते पूर्ववद् द्विद्ले न्यसेत् ॥ ४४ ॥ तुर्यबीजमथोच्चार्य ब्रह्मचक्रेपदात् ततः । तथैवोड्रयानपीठे तु [व?च]र्यानाथात्मकेपदम् ॥ ४५ ॥ तदन्ते परमेशानि महात्रिपुरसुन्दरी । १ 'श्री' क पाठ । २ 'मी' क पाठ ।

  • स्पष्टं यथा ऐं अग्निचक्रे कामगिर्यालये मित्रेशनाथात्मके कामेश्वरीरुद्रात्मशक्ति- श्रीपादुकायै नम आधारे । एवमग्रेऽपि बोध्यम् ।

११२ गन्धर्वतन्त्रे । परंब्रह्मात्मशक्त्यन्ते पूर्ववद् ब्रह्मरन्ध्रके ॥ ४६ ॥ विन्यस्यैवं महेशानि तत्त्वन्यासं समाचरेत् । मूलादिब्रह्मरन्ध्रान्तं मूलान्तं पुनरेव हि ॥ ४७ ॥ मूलवाग्भवमुच्चार्य आत्मतत्त्वपदं ततः । [स्वा?ख्या]पिकायै चतुर्थ्यन्ता महात्रिपुरसुन्दरी ॥ ४८ ॥ नम इति प्रविन्यस्य कामराजमतः परम् । विद्यातत्त्वपदात् पूर्वं पूर्ववद् हृदयावधि ॥ ४६ ॥ न्यसे(त्वात्मी?त्तार्ती)यबीजान्ते शिवतत्त्वस्वरूपिणीम् । मूलादिब्रह्मरन्ध्रान्तं तदादिभ्रूलतावधि ॥ ५० ॥ ततो न्यसेन्महादेवि विद्याकूटत्रयं पृथक् । करयोर्मूलमध्याग्रमूलहृद्गुह्युगान्तरे ॥ ५१ ॥ मूलविद्यात्रयावृत्त्या स्थानेष्वेषु क्रमान्न्यसेत् । ब्रह्मरन्ध्रे तुरीयं च तेनैव व्यापकं न्यसेत् ॥ ५२ ॥ ब्रह्मरन्ध्रे तथाधारे हृदि नेत्रत्रये तथा । कर्णयोर्मुखवृत्ते च भुजयोः पृष्ठदेशके ॥ ५३ ॥ जानुद्वये तथा नाभौ मूलवर्णान् प्रविन्यसेत् । स्वयं मन्त्रतनुर्भूत्वा देवीं मन्त्रमयीं यजेत् ॥ ५४ ॥ त्रैलोक्यमरुणं ध्यायञ् श्रीविद्यां मनसि स्मरेत् । योनिमुद्रां महेशानि ब्रह्मरन्ध्रे प्रविन्यसेत् ॥ ५५ ॥ ललाटे च प्रविन्यस्य भ्रुवोर्मध्ये च विन्यसेत् । मुखे कण्ठप्रदेशे तु हृदये तामनुक्रमात् ॥ ५६ ॥ १ 'र' क पाठ । २ 'प्र' क पाठ ।

एकादशः पटलः । ११३ न्यासः संमोहनाख्योऽयं त्रैलोक्यमोहनक्षमः । श्रीदेव्युवाच अन्तर्यागविधिं ब्रूहि बहिर्यागविधिं तथा ॥ ५७ ॥ ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यजनं चान्तरं महत् । मनोजीवात्म(नः?नोः)शुद्धिः प्राणायामेन जायते ॥५८॥ अन्तर्गतं यच्च मलं तच्च शुद्धं प्रजायते । प्राणायामैर्विना देवि कृतं कर्म निरर्थकम् ॥ ५६ ॥ प्राणायामात्परं तत्त्वं प्राणायामात् परं तपः । प्राणायामात् परं ज्ञानं प्राणायामात् परं पदम् ॥ ६० ॥ प्राणायामात्परं योगं प्राणायामात्परं धनम् । नास्ति नास्ति पुनर्नास्ति कथितं तव सुव्रते ॥ ६१ ॥ वत्सराभ्यासयोगेन ब्रह्म साक्षाद्द्भवेद् ध्रुवम् । चैतन्यावरणं यद्भूत् क्षीयते नात्र संशयः ॥ ६२ ॥ प्राणायामं विना मुक्तिमार्गो नास्ति मयोदितम् । प्राणायामेन मुनयः सिद्धिमापुर्नचान्यथा ॥ ६३ ॥ प्राणायामपरो योगी न योगी शिव एव सः । गमनागमनं वायोः प्राणस्य धारणं तथा ॥ ६४ ॥ प्राणायाम इति प्रोक्तो योगशास्त्रविशारदैः । प्राणो वायुरिति ख्यात आयामस्तन्निरोधनम् ॥ ६५ ॥ प्राणायाम इति प्रोक्तो योगिनां योगसाधनम् । बाह्यादापूरणं वायोरुदरे पूरको भवेत् ॥ ६६ ॥


१ 'हु' क पाठ ।

११४ गन्धर्वतन्त्रे । संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् । बहिर्यद्रेचनं वायोरुदराद्रेचको भवेत् ॥ ६७ ॥ पूरकं च यथाशक्त्या कुम्भकं तच्चतुर्गुणम् । कुम्भकार्धं भवेद्रचेः प्राणायामोऽयमीरितः ॥ ६८ ॥ ☸ कनिष्ठानमिकाङ्गुष्ठैर्यन्नासापुटधारणम् । प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ ६६ ॥ वामया पूरयेद्वायुं शनैः शनैस्तु मध्यया । धारयेद्दक्षया³ मुञ्चेदपरं तत् क्रमोत्क्रमात् ॥ ७० ॥ यावच्छक्यं नियम्यासून् मनसैव स्मरन् पराम् । मन्त्रस्य मुखबीजं वा समस्तं वा जपन् प्रिये ॥ ७१ ॥ मूलाधारे त्रिकोणाख्ये कोटिसूर्यसमप्रभे । ध्यायेत् कुण्डलिनीं नित्यं कालानलँशिखोपमाम् ॥ ७२ ॥ रक्तां सूक्ष्मां च विश्वस्य सृष्टिस्थितिलयात्मिकाम् । विश्वातीतां ज्ञानरूपां चिन्तयेदूर्ध्ववाहिनीम् ॥ ७३ ॥ हूङ्कारोच्चारणेनैव समुत्था(य?प्य)परां शिवे । षट्चक्रं च विनिर्भिद्य प्रापयित्वा परं शिवम् ॥ ७४ ॥ परानन्देन⁴ संयोज्य परमानन्दरूपिणीम् । तदभेदसमापन्नामनाकुलमनाः स्मरेत् ॥ ७५ ॥ [श्रा?स्त्रा]वयित्वा सु[रा?धा]धारां प्रापयेच्छक्तिमण्डलम् । तेनैव चक्रभेदेन मूलाधारं समानयेत् ॥ ७६ ॥ १ 'क' क पाठ । २ 'म' क पाठ । ३ 'वामया' क पाठ । ४ 'कामानन्द' क पाठ । ५ 'रमा' क पाठ । ☸ प्राणायाममुद्रा निर्दिशति कनिष्ठेयादिना ।

एकादशः पटलः । ११५ मूलाद्ब्रह्मरन्ध्रान्तं बिसतन्तुस्वरूपिणीम् । उद्यत्सूर्यसहस्राभां ध्यायेन्मन्त्रात्मदेवताम् ॥ ७७ ॥ कुण्डलीं त्रिविधां तत्र तथा बीजत्रयं त्रिधा । तुरीयां कुण्डलीं मूर्ध्नि महात्रिपुरसुन्दरीम् ॥ ७८ ॥ वाग्भवं मूलदेशे च द्रुतस्वर्णनिभं स्मरेत् । मूलादिहृदयं यावद् वह्निकुण्डलिनीं तथा ॥ ७९ ॥ हृदये कामराजं च सूर्यकोटिसमप्रभम् । सूर्यकुण्डलिनीं तत्र सूर्यकोटिसमप्रभाम् ॥ ८० ॥ हृदयाद्गलपर्यन्तं ध्यायेदनाकुलः शिवे । भ्रूमध्ये शक्तिबीजं तु चन्द्रकोटिसमप्रभम् ॥ ८१ ॥ भ्रूमध्याद् ब्रह्मरन्ध्रान्तं चन्द्रकुण्डलिनीं शिवे । चन्द्रकोटिसमप्रख्यां (भ्र?स्र)वदमृतविग्रहाम् ॥ ८२ ॥ बीजत्रयमयीं बिन्दौ तुर्यां बिन्दुत्रयात्मिकाम् । देशकालानवच्छिन्नां सर्वतेजोमयीं स्मरेत् ॥ ८३ ॥ तुर्यकुण्डलिनीं तद्वत्केवलं ज्ञानविग्रहाम् । एवं ध्यात्वा पुनर्विद्यां संपूर्णां मनसा स्मरेत् ॥ ८४ ॥ चिदानन्दमयीं स्वच्छामेकात्मकतया प्रिये । सुधावृष्ट्याभिपतन्त्या तर्पयेत् परदेवताम् ॥ ८५ ॥ ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सहजानन्दविग्रहाम् । बिन्दु(श्रु?स्रु)तसुधाभिस्तुं तर्पयेच्च पुनः पुनः ॥ ८६ ॥ अन्तर्याग इति प्रोक्तो जीवतो मुक्तिदायकः । १ 'रीया' क पाठ । २ 'द्भिस्तु' ख पाठ ।

११६ गन्धर्वतन्त्रे । मुनीनां च मुमुक्षूणामधिकारोऽत्र केवलम् ॥ ८७ ॥ प्रातः सायं चरेन्नित्यं षोडश प्राणसंयमान् । नाशयेत् सर्वपापानि तृणराशिमिवानलः ॥ ८८ ॥ सर्वेषामेव पापानां प्रायश्चित्तमिदं स्मृतम् । स्वदेहस्थं यथा सर्पश्वर्मोत्सृज्य निरामयः ॥ ८६ ॥ प्राणायामात्तथा मुञ्चेदविद्याकामकर्मकम् । परोपपापजं पापं परद्रव्यापहारजम् ॥ ६० ॥ परस्त्रीमैथुनोत्पन्नं प्राणायामशतं दहेत् । महापातकजातानि ब्रह्महत्यादिकानि च ॥ ६१ ॥ सर्वाण्येतानि दह्यन्ते प्राणायामचतुःशतैः । (नमः१मनः)शक्तिः समाख्याता पञ्चास्योः२ पञ्च देहगाः ६२ एकरूपं शिवं कृत्वा तदङ्के तां निवेशयेत् । शून्यरूपे परे स्थाप्य तावुभौ सममास्थितौ ॥ ६३ ॥ चिन्तयेत् साधको नत्वा नादरूपं तयोः क्रमात् । तदन्तर्मनसात्मानं ज्योतीरूपं सनातनम् ॥ समाधिना समागत्य त्यजेत् संसारबन्धनम् ॥ ६४ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे नित्यन्यासान्तर्यागविधिनिरूपण- मेकादशः पटलः ॥ ११ ॥ १ 'मम्' क पाठ । २ 'स्या पञ्च गे' क पाठः ।

द्वादशः पटलः। —०— ईश्वर उवाच अथवा परमेशानीं लीलाकलितविग्रहाम् । हृत्पुण्डरीकमध्यस्थां निगृह्येन्द्रियमान(सः१सम् ) ॥ १ ॥ तन्मनाः साधकवरो मनसा पूजयेच्छिवाम् । वामकरस्य तर्जन्यां दक्षिणस्य कनिष्ठया ॥ २ ॥ तथा दक्षिणतर्जन्यां वामाङ्गुष्ठेन योजयेत् । उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः ॥ ३ ॥ अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च । वामस्यै पितृतीर्थेन मध्यमानामिके तथा ॥ ४ ॥ अधोमुखे तु ते कुर्याद्दक्षिणस्य करस्य च । रक्तपुष्पं गृहीत्वैवं विधाय पाणिकच्छपम् ॥ ५ ॥ कुर्यात्तद् हृदयासन्नं निमील्यै नयनद्वयम् । समकायशिरोग्रीवं कृतासनपरिग्रहः ॥ ६ ॥ पश्यन्निव ततो देवीमेकाग्रमनसा ततः । प्रत्यक्षीकृ[त?त्य,!हृदये मानसैरुपचारकैः ॥ ७ ॥ षोडशानां प्रकारैस्तु हृदिस्थां पूजयेच्छिवाम् । आसनं प्रथमं दद्याद्रत्नसिंहासनं शुभम् ॥ ८ ॥ पाद्यं चरणयोर्दद्याच्छिरस्यर्घ्यं निवेदयेत् । परमामृतपानीयं भावपुष्पैः सुवासितम् ॥ ६ ॥ १ 'न्या' क पाठ । २ 'श्या' क पाठ । ३ 'लि' क पाठ ।

११८ गन्धर्वतन्त्रे । स्वर्णपात्रे जलं कृत्वा दद्यादाचमनं मुखे । मधुपर्कं ततो दद्यात् पुनराचमनं ततः ॥ १० ॥ स्ववामे मण्डलं कृत्वा पर्यङ्कं परिभावयेत् । श्रीरत्नपादुके दत्त्वा नीत्वा तां स्नानमन्दिरे ॥ ११ ॥ भद्रासनोपविष्टाया उद्वर्तनं समाचरेत् । घृतेनोद्वर्तनं कृत्वा मनसा परिभावयेत् ॥ १२ ॥ कर्पूरागुरुकस्तूर्या¹ तथा मृगमदेन च । रोचनाकुङ्कुमैर्मिश्रैर्नानागन्धसमन्वितैः ॥ १३ ॥ सुगन्धिदिव्यतैलैश्च स्नापयेत् परमेश्वरीम् । देवकन्यासहस्रैस्तु स्वर्णकुम्भसहस्रकैः ॥ १४ ॥ नदीभिर्नदराजैश्च अप्सरोगणपन्नगैः । सिञ्चता वारिणा स्नातां चिन्तयेत् परदेवताम् ॥ १५ ॥ दुकूलैर्मार्जितं गात्रं दुकूले परि(धेतथा?धाप्य च) । कंकतीकेशसंस्कारो विधिवद्बन्धनं तथा ॥ १६ ॥ सूत्रावलीं² केशपाशे सिन्दूरं केशमध्यमे । ललाटे तिलकं दद्यादलक्तं रदनच्छदे ॥ १७ ॥ नेत्रेषु ह्यञ्जनं³ कृत्वा गन्धैर्गात्रानुलेपनम् । काञ्चनाञ्चितकञ्चुलीशोभनं हृदयोपरि ॥ १८ ॥ विभूषणं ततो दद्यात् सुवर्णरजतादिना । शिरःकर्णग्रीवादोषसूज्ज्वैलाभरणानि⁴ च ॥ १९ ॥ नूपुरौ च ततो दद्यान्मुकहारं समुज्ज्वलम् । १ 'स्तर्या' क पाठ । २ ली०' क पाठ । ३ 'रञ्जन' क पाठ । ४ 'दीतिउज्ज्व' क पाठः । ५ 'नूपुरौ ततो दद्यादानन्दहार' क पाठ ।

द्वादशः पटलः । ११६ अन्यदाभरणं चैव यत्र येन विराजते ॥ २० ॥ श्रीरत्नपादुके दत्त्वा चक्रमध्ये समानयेत् । गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ॥ २१ ॥ हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् । कपिलाघृतसंयुक्तं नानाव्यञ्जनसंयुतम् ॥ २२ ॥ भक्ष्यं भोज्यं तथा लेह्यं पेयं चोष्यं तथैव च । क्षीरपानीयसंयुक्तं दधिमधुसमन्वितम् ॥ २३ ॥ सकर्पूरं च ताम्बूलं मानसं परिकल्पयेत् । मनसापि महादेव्यै नैवेद्यं दीयते यदि ॥ २४ ॥ यो नरो भक्तिसंयुक्तः स दीर्घायुः सुखी भवेत् । माल्यं पद्मसहस्रस्य मनसा यः प्रयच्छति ॥ २५ ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । स्थित्वा तव पुरे श्रीमान् सार्वभौमो भवेत् क्षितौ ॥ २६ ॥ मनसा तु महादेव्यै यः कुर्याच्च प्रदक्षिणम् । स दक्षिणां यमगृहं नरकान्नैव पश्यति ॥ २७ ॥ नमनं मानसं देव्या यो भक्त्या कुरुते नरः । सोऽपि लोकान्विजित्यैव नरलोके महीयते ॥ २८ ॥ महामायां महादेवीं समर्पयामि शक्तितः । नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः ॥ २९ ॥ नैवेद्यं देहि नितरामिति यो भाषते मुहुः । सोऽपि लोकान् विभिद्यैव देवीलोके महीयते ॥ ३० ॥ १ 'पुन श्रीर' क पाठ. । २ 'द्ययं' क पाठ. । ३ 'नि न' क पाठ ।

१२० गन्धर्वतन्त्रे । बहिर्ध्वचक्रपूजां च मनसैव समाचरेत् । नवावरणशक्तीनां पूजनं मनसैव हि ॥ ३१ ॥ इत्थमन्तः समाराध्य मनसैव जपेन्मनुम् । तदा भवति सिद्धीशो देववद्विहरेत् क्षितौ ॥ ३२ ॥ एवमेव महेशानि पूजयामि महेश्वरीम् । योगिनो मुनयश्चैव पूजयन्ति सदा प्रिये ॥ ३३ ॥ केवलं मानसेनेव नैव सिद्धो भवेद्गृही । सबाह्येन तु तेनैव गृहस्थो मुनिपुङ्गवः ॥ ३४ ॥ पार्वत्युवाच ध्यानयोगं महादेव श्रोतुमिच्छामि हे प्रभो । संपूर्णां कथयेशान येन सिद्धो भवेत् परैः ॥ ३५ ॥ ईश्वर उवाच विना न्यासैर्विना पूजां विना जप्यैपुरस्क्रियाम् । ध्यानयोगाद्भवेत् सिद्धो नान्यथा खलु पार्वति ॥ ३६ ॥ ध्यानयोगादहं सिद्धो विष्णुश्चापि पितामहः । ध्यानयोगात् परं सिद्धौ मानवा अपि पापिनः ॥ ३७ ॥ सर्वतन्त्रेषु यद्गुह्यं सर्वसिद्धिप्रदायकम् । विना येन न सिध्यन्ति वर्षकोटिशतैरपि ॥ ३८ ॥ ध्यानयोगं प्रवक्ष्यामि सर्वतत्त्वप्रदायकम् । एकान्ते विजने रम्ये कृतासनपरिग्रहः ॥ ३६ ॥ निवृत्ताखिलचिद्वृत्तिर्मुद्रामुद्रितविग्रहः । कारणानन्दसंदोहैर्बहिरन्तःप्रपूरितः ॥ ४० ॥ १ 'नर' क. पाठ. । २ 'य्ये.' क पाठः । ३ 'द्धो' क पाठः ।

द्वादशः पटलः । १२१ गुरून् नत्वा विधानेन सोऽहमित्युपरोधतः । ऐक्यं संभावयेद्धीमाञ्जीवस्य ब्रह्मणोऽपि च ॥ ४१ ॥ कारणे सर्वभूतानां तत्त्वान्यपि च चिन्तयेत् । बीजभावेन लीनानि व्युत्क्रमात् परमात्मनि ॥ ४२ ॥ एवं विचिन्त्य देवेशि पार्थिवांशं जले गतम् । जलं तेजसि लीनं च तेजो वायौ विचिन्तयेत् ॥ ४३ ॥ आकाशे संहृतं वायुं खं च मनसि लीयते । मनोऽहंकारवशगं तथाहं महति स्थितम् ॥ ४४ ॥ महान्तं प्रकृतौ लीनं चिन्तयेत् परमेश्वरि । मुमुक्षुश्चिन्तयेल्लीनां प्रकृतिं परमात्मनि ॥ ४५ ॥ नाहो न रात्रिर्न संध्या न सूर्यो नैव चन्द्रमाः । इदं तमोमयं सर्वमासीद्भुवनवर्जितम् ॥ ४६ ॥ अप्रज्ञातमलक्ष्यं च प्रसुप्तमिव सर्वतः । चिन्तयित्वा महेशानि न किंचिदपि भावयेत् ॥ ४७ ॥ एकमासीत् परं ब्रह्म नित्यं सूक्ष्ममतीन्द्रियम् । नित्यानन्दमयं धाम तेजोरूपं सनातनम् ॥ ४८ ॥ तदेव प्रकृतिः सा तु तेजोरूपा सनातनी । नित्यानन्दवपुर्देवी तद्रूपा तत्प्रकाशिनी ॥ ४९ ॥ तयोर्योगार्दभूद्वृष्टिः परमामृतरूपिणी । परिपूर्णमिदं देवि समस्तं प्लावयेत् तथा ॥ ५० ॥


१ ‘तिप’ क पाठ । २ ‘जलं च तेजसो रूपं तेजोरूपं विचिन्तयेत् । निर्वाणवायुना वह्नि वायुनात्र विचिन्तयेत् ॥’ इति क पाठः । ३ ‘तथा वै मनसि’ क पाठ ।

१२८ गन्धर्वतन्त्रे । तत्राम्भसि स्वमात्मानं चिन्तयेत् साधकोत्तमः । बुद्बुदं चिन्तयेत्तत्र प्रकृतिं चिन्तयेत् पराम् ॥ ५१ ॥ प्रकृतिर्हि महान्तं वै अहं च महतस्तथा । अहङ्कारान्मनश्चैव मनसः खं समुत्थितम् ॥ ५२ ॥ आकाशाद्वायुमुत्कृष्य वायोस्तेजः समुत्थितम् । तेजसो जलमासाद्य जलाच्च पृथिवीं स्मरेत् ॥ ५३ ॥ बहिष्कृत्य यथास्थानं निवेश्य विधिना ततः । हैमं ब्रह्माण्डमेभिः स्याद् भूबीजेन दृढं स्मरेत् ॥ ५४ ॥ प्रणवेन द्विधा कृत्वा जलौघैः परिपूरयेत् । ब्रह्माण्डाभ्यन्तरे तोयं तदधो भेकमव्ययम् ॥ ५५ ॥ तस्य पृष्ठे महादेवि कालाग्निरुद्ररूपकम् । आधारशक्तिं तत्रैव मूलप्रकृतिरूपिणीम् ॥ ५६ ॥ ब्रह्मशिलांसमारूढां कूर्माकारां शशिप्रभाम् । पद्मद्वयधरां देवीं मूर्धनि कूर्मधारिणीम्^२ ॥ ५७ ॥ नीलाभं चिन्तयेत् कूर्ममनन्तं कुन्दसंनिभम् । तस्य मूर्ध्नि स्थितं देवि श्वेतं वाराहरूपकम् ॥ ५८ ॥ तमालशामलां दन्ते धारयन्तं वसुन्धराम्^१ । तां च संचिन्तयेत्तत्र नीलेन्दीवरधारिणीम् ॥ ५९ ॥ चिन्तयेत् सलिलैः पूर्णां चतुःसागरमेखलाम् । तन्मध्ये चिन्तयेद्देवि सुधासागरमद्भुतम् ॥ ६० ॥ रक्ताभममृतं तत्र शुद्धलाक्षारसोपमम् । १ 'माकृ ख पाठ । २ 'कूर्मे च मूर्ध्नि धारिणीम्' क पाठ ।

द्वादशः पटलः । १२३ तन्मध्ये चिन्तयेद्देवि द्वीपं विद्रुमसंनिभम् ॥ ६१ ॥ गिरिराजशताकीर्णं परितश्चुवनं महत् । गिरौ स्वर्णगिरिं चैव कल्पोद्यानं गिरेस्तटे ॥ ६२ ॥ चम्पकाशोकपुन्नागपाटलैः कुटजैस्तथा । लवङ्गमाधवीबिल्व-देवदारुनमेरुभिः ॥ ६३ ॥ मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः । सर्वतोऽलंकृतं दिव्यैर्नित्यपुष्पफलद्रुमैः ॥ ६४ ॥ चन्दनैः कर्णिकारैश्च मातुलुङ्गैः करञ्जकैः । द्राक्षेक्षुरम्भाजम्बूभिर्मधुकैराम्रकैरपि ॥ ६५ ॥ दाडिमीचूतपनसैः पूगैः कर्पूरकैरपि । कदलीकुन्दखर्जूरनारिकेलैरलंकृतम् ॥ ६६ ॥ कदम्बैः करवीरैश्च तगरैर्नागकेसरैः । १सै२वन्तीस्वर्ण३यूथीभिर्वज्रैर्दमनकैरपि ॥ ६७ ॥ मालतीमल्लिकाजातीकेतकीशतपत्रकैः । अन्यैः सुगन्धिपुष्पाद्यैः शोभितं यूथिकादिभिः ॥ ६८ ॥ अन्योन्यासक्तवल्लीभिर्वृक्षखण्डैश्च मण्डितम् । सर्वर्तुकुसुमोपेतैर्नमद्भिरुपशोभितम् ॥ ६९ ॥ मन्दमारुतसंभिन्नकुसुमामोददिङ्मुखम् । उत्फुल्लकुसुमामोदप्रहृष्यद्भृङ्गसंकुलम् ॥ ७० ॥ कूजत्कोकिलसंघेन४ वाचालितदिगन्तरम् । कालमेघसमालोकन्नृत्यद्बर्हिकदम्बकम् ॥ ७१ ॥ १ 'ऐश पाठ । २ 'पा' ख पाठ । ३ 'थि' क पाठ । ४ 'हेन' क. पाठ ।

१२४ गन्धर्वतन्त्रे । शारिकाशुकबहुलैः कूजत्कलरवैर्युतम् । द्वन्द्वभावं प्रकुर्वद्भिर्मृगैर्नानाविधैरपि ॥ ७२ ॥ सरित्सरोभिरच्छोदैः शोभितं कुमुदोत्पलैः । तेषु सरःसु विपुलं महारसरसामृतम् ॥ ७३ ॥ सर्वतोऽलंकृतं दिव्यं लसत्काञ्चनपङ्कजम् । मत्तषट्पदनि(र्य्य?र्जु)ष्टं शकुन्तैश्च कलस्वनैः ॥ ७४ ॥ हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि । तन्महासरःपुलिने रत्नसोपानमण्डिते ॥ ७५ ॥ महारसरसान्दोलवीचिविक्षेपशीतले । सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् ॥ ७६ ॥ मौक्तिकैः कुसुमैः स्रग्भिर्दु कूलैः स्वर्णतोरणैः । स्मरेत् कल्पतरुं तत्र तदधो रत्नभूमिकाम् ॥ ७७ ॥ विस्तीर्णां सुमनोध्यासां तन्मध्ये रत्नमण्डपम् । परितः पारिजाताढ्यं भास्वरं शशिशीतलम् ॥ ७८ ॥ उदयदित्यसंकाशं रत्नसोपानमण्डितम् । शतयोजनविस्तीर्णं चतुर्द्वारसमन्वितम् । ७६ ॥ द्वार्षु विद्रुमदेहल्याभातं वज्रकवाटकम् । रत्नसंक्लृप्तसंशोभिकवाटाष्टकसंयुक्तम् ॥ ८०॥ नानारत्नविशोभाढ्यै३रत्नप्राकारमण्डितम् । नवरत्नसमाक्लृप्ततुङ्गप्राकारतोरणम् ॥ ८१ ॥ तत्रतत्र विनिःक्षिप्तनानारत्नोपशोभितम् ।


१ 'श' क पाठ । २ 'महद्रया' क पाठ । ३ 'ड्य' क पाठ ।