भारतकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ २६ ॥ कौमारि सर्वविद्येशि कुमारक्रीडने परे । कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३० ॥ वैष्णवि विष्णुरूपासि सर्वविघ्नविनाशिनि¹ । कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३१ ॥ वाराहि वरदे देवि परमानन्दरूपिणि² । कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३२ ॥ इन्द्राणि वरदे देवि गजस्कन्धस्थिता ह्यसि³ । कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३३ ॥ चामुण्डे मुण्डमालास्स्रक्चर्चिते भयनाशिनि⁴ । कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३४ ॥ महालक्ष्मि महामोहँक्षोभसंतानहारिणि । कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ३५ ॥ ⁶मितिमातृमयि⁷ देवि ⁸मितिमातृवहि(स?ष्)कृते । एके बहुतरे देवि विश्वरूपे नमोऽस्तु ते ॥ ३६ ॥ एतत् स्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः । विद्वग्धाश्चं समालोक्य तस्य विघ्नं न जायते ॥ ३७ ॥ आचम्य मुखवासेन ताम्बूलं च निवेदयेत् । ततो दद्यात् पुनर्माल्यं गन्धचन्दनपङ्किलम् ॥ ३८ ॥


पाद-टिप्पणी: १ ‘विष्णुरूपधरे देवि विनतासुतवाहिनि’ ख पाठ । २ ‘दृष्टे दृष्टवसुन्धरे’ ख पाठः । ३ ‘शक्ररूपधरे देवि शक्रादिसुरपूजिते’ ख पाठ । ४ ‘विघ्ननाशिनि’ ख. पाठ. । ५ ‘महोत्साहे’ ख पाठ । ६ ‘इ’ क पाठ । ७ ‘ये’ क पाठ । ८ ‘स’ क पाठ । ९ ‘ग्धा वा’ ख पाठ’ ।

त्रयोविंशः पटलः । २२३ यदि क्रीडापरास्तास्तु भवन्ति भाग्ययोगतः । क्री(डाय?डये)त् क्रीडनैः सर्वाः क्रीडारसपरायणः ॥३६॥ तस्मात् सर्वप्रयत्नेन रक्षितव्याः सदा प्रिये । यथा तु नमिताः प्राज्ञे भक्तिभावपरायणैः ॥ ४० ॥ स्वेच्छाऋतुमती या स्याद्गृहीत्वा रक्तमुत्तमम् । रोचनाचन्द्रकाश्मीरकस्तूर्यगुरुसंयुतम् ॥ ४१ ॥ स्वयंभूकुसुमं दिव्यं फलं वा दिव्यमेव च । गृहीत्वा पूजयेद् देवीं महात्रिपुरसुन्दरीम् ॥ ४२ ॥ कुण्डगोलोद्भवं वापि नान्यत्र कुसुमं भवेत् । मद्यं मांसं मुद्रा शक्तिः स्वयंभूकुसुमं तथा ॥ ४३ ॥ एभिरेव महेशानि प्रत्यक्षीक्रियते परा । द्रव्यसंशोधनं कृत्वा शक्तिशोधनसंभवैः ॥ ४४ ॥ संपूज्य त्रिपुरां देवीमसाध्यमपि साधयेत् । अन्या यदि न गच्छन्ति निजकन्याऽनुजाऽत्मनैः ॥४५॥ अग्रजा मातुलानी तु माता वा तत्सपत्निका । वयसा.जातितो वापि हीना रक्ष्याः स्वसा यथा ॥ ४६ ॥ पूज्याः कुलवरैः सर्वैर्निजाऽहंकारवर्जितैः । स्वयमक्षोभितो भूत्वा मूलयोग न चाचरेत् ॥ ४७ ॥ मूलयोगकृतामायुःसिद्धोऽपि नश्यति ध्रुवम् । सर्वाभावे ह्येकतरा पूजनीया प्रयत्नतः ॥ ४८ ॥ संस्कृतासंस्कृता वापि बन्धकी वाथ निष्पतिः । १ 'त्मजा' क पाठ. ।

२२५ गन्धर्वतन्त्रे । पूर्वाभावे परा ज्ञेया तदंशा योषितो यतः ॥ ४६ ॥ एका चेत् कुलशास्त्रज्ञा लभ्या¹ कुलविशारदैः । पूजार्हा सा त(रा?दा)देवि भोगमोक्षप्रसाधिका ॥५०॥ एका च युवती यत्र पूजिता चावलोकिता । तदा देव्यश्च सर्वाश्च पूजितं सर्वदैवतम् ॥ ५१ ॥ इति ते कथितं देवि न प्रकाश्यं कदाचन । -------------------❦------------------- इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे कुमारीपूजनविधाननिरूपणं त्रयोविंशः पटलः ॥ २३ ॥


१ 'भ्यते' क. पाठः ।

चतुर्विंशः पटलः । ईश्वर उवाच एवं यः कुरुते पूजां नित्यं भक्तियुतो बुधः । कन्दर्पसदृशः स्त्रीषु गौरीपतिरिवापरः ॥ १ ॥ स एव सुकृती लोके स एव कुलभूषणम्१ । धन्या च जननी तस्य धन्यस्तस्य पिता खलु ॥ २॥ दैवी कला भवेत् तत्र मम तुल्यो महामतिः । अणिमाद्यष्टसिद्धीशो जायते नात्र संशयः ॥ ३ ॥ वह्निरिव रिपोर्हन्ता इन्दुरिव सुखप्रदः । पितृदेवसमः शास्ता शुचौ शुचिसमः खलु ॥ ४ ॥ बृहस्पतिसमो वक्ता धरणीसदृशः क्षमी । वक्त्रे सरस्वती तस्य लक्ष्मीस्तस्य सदा गृहे ॥ ५ ॥ तीर्थानि तस्य देहे वै नच तस्य पुनर्भवः । धनेन धननाथः स्यात् तेजसा भास्करोपमः ॥ ६ ॥ बलेन पवनो ह्येष दानेन वासवोपमः । गानेन तुम्बुरुः साक्षान्नित्यं येन समर्चिता ॥ ७ ॥ एकाहमपि देवेशि महात्रिपुरसुन्दरीम् । न पूजयेत्तथा(नस्यात्? तस्मात्) प्रायश्चित्तं समाचरेत् ॥ ८ ॥ उपोष्यैव चाधिवासं कृत्वा पूजां परेऽहनि । १ 'ण' ख पाठः ।

२२६ गन्धर्वतन्त्रे । गुरुं संपूज्य विधिवत् तदा पूजां समापयेत् ॥ ९ ॥ कुमार्यै भोजनं दत्त्वा विप्रानपि च भोजयेत् । अत ऊर्ध्वं पुनर्दीक्षां लज्जजापं समाचरेत् ॥ १० ॥ महात्रिपुरसुन्दर्या योगिनीनां तथैव च । द्व्यहं वाथ त्र्यहं वापि पूजाशून्यं करोति यः ॥ ११ ॥ सिद्धिहानिर्भवेत् तस्य योगिनीशापमालभेत् । चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ॥ १२ ॥ तस्य मांसं च शुक्रं च रूपशोणितमेव च । अभीष्टानपि कामांश्च हिंसन्ति योगिनीगणाः ॥ १३ ॥ बन्धुभिः कलहो घोरः कलत्रैश्च विशेषतः । सस्यशून्या भवेदुर्व्वी विघ्नस्तस्य पदे पदे ॥ १४ ॥ सत्यं सत्यं भवेद्रोगी दरिद्रश्चोपजायते । इहैव दुःखमाप्नोति त्रिविधं लोमहर्षणम् ॥ १५ ॥ परे स्वर्गात् परिभ्रष्टः क्षितौ क्षितिप[ला?ना]यकः । अतुलां भक्तिमासाद्य कैवल्यं लभते ततः ॥ १६ ॥ ब्रह्मचिन्ताप्रवृत्तो यः सोऽपहाय च दैवतम् । विना(ल?न)या प्रवर्तेत ब्रह्मघाती स एव तु ॥ १७ ॥ जपध्यानपरो मन्त्री योगक्षेमपरायणः । स्वयं यदि भवेन्मूढो गुरुं तत्र नियोजयेत् ॥ १८ ॥ ज्ञानकर्मपरः शुद्धः सर्वदेवमयः प्रभुः । सिद्धयः सकलास्तस्य गुरुर्यस्य हिते रतः ॥ १६ ॥ मासतो वर्षतो वापि स्वयं पुण्याहयोगतः ।

चतुर्विंशः पटलः । २२७ कुर्याद्वै महतीं पूजां संपन्नाङ्गविभूषिताम् ॥ २० ॥ उपहारैर्बहुविधैरलंकृतसुविग्रहाम् । नित्यमेवार्चनं देव्या नित्यमेव समाचरेत् ॥ २१ ॥ नित्याचारपरो मन्त्री नैमित्तिकवि(धं?धिं) चरेत् । नित्यनैमित्तिकपरः साधुः काम्यं विचिन्तयेत् ॥ २२ ॥ काम्यान्नैमित्तिकं नित्यं नित्यं नैमित्तिकात् परम् । नित्याचारविलोपी यः काम्यं नैमित्तिकं च वा ॥ २३ ॥ करोति स च दुर्मेधा नाप्नोति तस्य तत्फलम् । नित्याचारमनादृत्य यदन्यत्तु समीहते ॥ २४ ॥ निष्फलं तस्य तत्कर्म वन्ध्यास्त्रीमैथुनं यथा । अपि पुष्पफलैर्वापि पूजयेच्चक्रदेवताः ॥ २५ ॥ अङ्गहीनं तु पुरुषो न सम्यग्याज्ञिको भवेत् । अङ्गहीना तथा पूजा न सम्यक्फलदायिनी ॥ २६ ॥ ध्यानं पूजा जपो होम इति हस्तचतुष्टयम् । शरीरं न्यासजालं तु आत्मा तज्ज्ञानमेव च ॥ २७ ॥ भक्तिः शिरोऽत्र हृच्छ्रद्धा कौशलं नेत्रमीरितम् । एवं यज्ञशरीरं तु मत्वा साधकसत्तमः ॥ २८ ॥ यज्ञं समापयेन्नित्यं साङ्गमेवं खलु प्रिये । अङ्गहीने महान् दोषस्ततोऽङ्गं नावधीरयेत् ॥ २६ ॥ सर्वाङ्गपूर्णपुरुषो यज्ञाख्यः सर्वसिद्धिदः । तत्तदीहापरा शक्तिः सिद्धिः संयोगतस्तयोः ॥ ३० ॥ १ 'कर्मेव वा' ख पाठः । २ 'साङ्गेनैव' ख. पाठः । ३ 'पूर्णयज्ञः' क. पाठः ।

२२८ गन्धर्वतन्त्रे । श्रीमत्त्रिपुरसुन्दर्याः पूर्णो यज्ञशरीरके । अङ्गबाधे यथा दोषो नान्यस्य हि तथा भवेत् ॥ ३१ ॥ स्वविभवा(न्न?नु)रूपा वै पूजा कार्या विभूतये । व्यतिक्रमात् तु हीनः स्याद् ब्रह्महत्यामवाप्नुयात् ॥ ३२ ॥ नाधिकं नैव च न्यूनमुभयं पापदायकम् । चतुर्दश्यामथाष्टम्यां पूर्णायां मासमध्यतः ॥ ३३ ॥ महाभूतदिने वापि यजेद् विभवविस्तरम् । कृष्णायाथ चतुर्दश्या युक्तं कुजदिनं यदा ॥ ३४ ॥ महाभूतदिनं तत्तु सर्वभूतवशंकरम् । यदि पुष्यो¹ भवेत् तत्र तदानन्तफलप्रदम् ॥ ३५ ॥ मन्त्रं यदि श्मशाने तु शवोपरि यथाविधि । अथवा प्रजपेद् देवीं मातृकां नीलरूपिणीम् ॥ ३६ ॥ कृत्वा जप्त्वा तदा कुर्याद् भूतप्रेतपिशाचकान् । तान् वशीकृत्य तल्लोके तथेह तैः सहा(स?ग)तः ॥ ३७ ॥ वशीकृत्य श्रिया युक्तो मोदते पुत्रपौत्रकैः । यथा तथा गृहे बाह्ये कृत्वा जप्त्वा नरो बुधः ॥ ३८ ॥ राक्षसान् किंनरान् कृत्वा तल्लोके च तथेह च । तैश्च प्रमुदितो भोगी भोगान् भुङ्क्ते यथेच्छया ॥ ३६ ॥ निजगृहे सदा यस्तु पवित्रे सुमनोहरे । कृत्वा जप्त्वा नरः प्राज्ञो यक्षान् सर्वान् वशं नयेत् ॥ ४० ॥ भुक्त्वा च मुदितो लोके धनी धनविशारदः ।


१ ' ष्या ' ख पाठ ।

चतुर्विंशः पटलः । २२६ धनप्राणो धनात्मा च सुखं तदनुचिन्तनात् ॥ ४१ ॥ अनुभूय तदानन्दं तदिहापि विराजते । नदीनद्समीपे तु पितृपीठेऽथवा प्रिये ॥ ४२ ॥ कृत्वा जप्त्वा च तल्लोके तथैह तैः प्रमोदितः । कामात्मा कामरूपी च कामी काममनोहरः ॥ ४३ ॥ कामयित्वाखिलान् कामान् कामराज इवापरः । राजते सततं राजा राजभिश्चैव वाजिभिः ॥ ४४ ॥ पुण्यक्षेत्रे महापीठे पुण्यवृक्षसमीपके । कृत्वा जप्त्वा नरो मानी मान्योऽयं यमलोकराट् ॥४५॥ सर्वदा[युञ्जते?यं जयो]लोके राजते सिद्धिं¹भूमिषु । मानुषत्वं विना सिद्धिः पुनः परमदुर्ल[भं?भा] ॥ ४६ ॥ यस्मात् तत् सर्वलोकानां भोगप्रत्यक्षदायकम् । प्रफुल्लकुसुमाकीर्णे उद्यानेऽतिमनोहरे ॥ ४७ ॥ प्रफुल्लकुन्दसंमोदप्रपूरितदिगन्तरे । वृक्षमूलेऽथवा जप्त्वा कृत्वा हस्तं स्वमस्तके ॥ ४८ ॥ गन्धर्वरूपवान् भूत्वा गीतनृत्यविशारदः । गन्धर्वान् किंनरान् कृत्वा तल्लोके च तथैह तैः ॥ ४६ ॥ आनन्दं परमं लब्ध्वा गीतनृत्यादिगोचरम् । तदानन्दमये रम्ये मोदते तत्प्रसादतः ॥ ५० ॥ नागलोकसंधिभूमौ वने गिरिगुहासु च । कृत्वा जप्त्वा सदा देवीं नागान् सर्वान् वशं नयेत् ॥५१॥ १ 'द्ध' ख पाठ. ।

२३० गन्धर्वतन्त्रे । तैः सह मुदितः प्राज्ञस्तल्लोके च तथेह च । भुङ्क्ते बहुविधान् भोगान् नागलोकप्रतिष्ठितान् ॥ ५२ ॥ परकीये यदा यत्र पश्यन्नच्छविलोकिते(?) । कृत्वा जप्त्वा नरो धर्मादाक्षरं लोकमाप्नुयात् ॥ ५३ ॥ तानेव वशगान् कृत्वा तल्लोके च तथेह च । मोदते सततं वीरः सुरासुरविचेष्टितैः ॥ ५४ ॥ यत्र कुत्र महापीठे सौरे सूर्यविलोकने । कृत्वा जप्त्वा महातेजा भवरोगतमोपहः ॥ ५५ ॥ उदेति सविता सूर्यः सूर्यलोके तथेह च । वने सर्वान् वशे कृत्वा वशी वशं नयेज्जगत् ॥ ५६ ॥ पुण्यनद्यां जलान्ते यस्तदन्तर्वा निरन्तरम् । सदा पुण्यज(न?ल)स्नायी तत्पायी तद्विहारवान् ॥ ५७ ॥ कृत्वा जप्त्वा नरः प्राज्ञो ब्रह्मर्षिलोकसंज्ञके । ब्रह्मर्षिभिर्मुदा तत्र तथेह तँत्प्रसादतः ॥ ५८ ॥ भोगान् भुङ्क्ते सै विप्रर्षिब्रह्मघोषपुरःसरान् । महत्या च(प्रि?श्रि)या युक्तो ब्राह्मया चैवातिशुद्धया ॥५६॥ राजते सततं राजा (रा?वा)जिराजविहारवान् । देवतायतने [ध?पु]ण्ये नित्यपूजागृहे तथा ॥ ६० ॥ देवताः प्रतिगृह्णन्ति देवतायतने कृ[ताः?ताम्] । उद्याने स्वस(मां?मी)पस्थे गृहे चातिमनोहरे ॥ ६१ ॥

१ 'तै स प्रमु' ख पाठ । २ 'पुण्यानदी' ख पाठः । ३ 'न्ते वा ' ख पाठः । ४ 'ते प्र' ख पाठ । ५ 'भक्ते सविप्र भोगान्' ख. पाठः । ६ 'ब्राह्मया' ख पाठ ।

चतुर्विंशः पटलः । २३१ नित्यमावाहयेत् तत्र मधुपर्कादिभिर्यजेत् । देवांस्तत्र विजानीयात् तेषां सांनिध्ययोगतः ॥ ६२ ॥ देवताभवनैस्तुल्ये शोभिते देवशोभया । निर्जने चातिशुद्धे च गन्धधूपोत्करे शुभे ॥ ६३ ॥ दीपदर्पणघण्टादिकुसुमोत्करभूषिते । देवपीठे महापुण्ये मह(दु?त्यु)च्चग्रहे तथा ॥ ६४ ॥ कृत्वा जप्त्वा नरो देवि कारयेद्वशगान् सदा । भावनावशसंपन्नो नरो दि(व्यो?वि)तथेह च ॥ ६५ ॥ दीव्यते देववद् देवो देवभोगीविहारवान् । दिव्यदर्शी दिव्यरूपी दिव्यभोगविहारवान् ॥ ६६ ॥ देवैः संमानितो मानी देववद्विहरेत् क्षितौ । विमानगामिभिर्यानैर्गजवाजिपुरःसरैः ॥ ६७ ॥ शिवालये शिवक्षेत्रे शिवलिङ्गसमीपके । कृत्वा जप्त्वा शिवामोदी शिवलोके तथेह च ॥ ६८ ॥ मोद्ते सततं योगी युक्तः शिवद्किंकरैः । विष्णुक्षेत्रे महापुण्ये विष्णुगेहे तदन्तिके ॥ ६९ ॥ वैष्णवं भावमाश्रित्य कृत्वा जप्त्वाथ साधकः । वैष्णवान् वशगान् कृत्वा विष्णुलोके तथेह च ॥ ७० ॥ मोदते सततं शुद्धः स्वयं विष्णुरिवापरः । विष्णूपीठे परा सिद्धिः सद्यो देवत्वदायिनी ॥ ७१ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे कुमारीपूजामहिम-प्रयोगादिमाहात्म्य- निरूपणं चतुर्विंशः पटलः ॥ २४ ॥ १ 'गी' क पाठ ।

पञ्चविंशः पटलः । —❧— ईश्वर उवाच पुण्यक्षेत्राणि वक्ष्यन्ते शृणु प्राधान्यतो मम । पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् ॥ १ ॥ तीर्थप्रदेशाः सिन्धूनां संगमः पावनं वनम् । उद्यानानि विविक्तानि बिल्वमूलं तटं गिरेः ॥ २ ॥ तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् । अश्वत्थामलकीमूलं गोशाला जलमध्यतः ॥ ३ ॥ देवतायतनं कूलं समुद्रस्य निजं गृहम् । गुरूणां संनिधानं च चित्तैकाग्र्यस्थलं तथा ॥ ४ ॥ सर्वेषामुत्तमं प्रोक्तं निर्जनं पशुवर्जितम् । यत्र तत्र नरः पूजां निर्जने कुरुते तु यः ॥ ५ ॥ तस्यै दत्ते शुभं देवि पत्रं पुष्पं फलं जलम् । श्रद्धाभ[क्त्रा?त्त्यो]श्च बाहुल्यात् पूजाद्रव्यस्य विस्तरात् ।६। देव्याः संनिधिरत्र स्यान्निर्जने पूजनात् तथा । वाराणस्यां सदा पूजा सम्पूर्णफलदायिनी ॥ ७ ॥ ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसंनिधौ । ततोऽपि द्विगुणा प्रोक्ता द्वारवत्यां विशेषतः ॥ ८ ॥ सर्वक्षेत्रेषु पीठेषु पूजा द्वारवतीसमा । विन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा ॥ ६ ॥

पञ्चविंशः पटलः । २३३ आर्यावर्ते मध्यदेशे ब्रह्मावर्ते$^१$ तथैव च । विन्ध्यवत् फलदा पूजा प्रयागे पुष्करे तथा ॥ १० ॥ ततश्चतुर्गुणा प्रोक्ता करतोयानदीजले । तस्माच्चतुर्गुणफला नन्दिकुण्डे च पार्वति ॥ ११ ॥ ततश्चतुर्गुणा प्रोक्ता जल्पीशेश्वरसंनिधौ । तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा मता ॥ १२ ॥ ततश्चतुर्गुणा प्रोक्ता लौहित्यनदपाथसि । तत्समा कामरूपे च सर्वत्रैव जले स्थले ॥ १३ ॥ सर्वश्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्वोत्तमा यथा । देवीपूजा तथा शस्ता कामरूपे सुरालये ॥ १४ ॥ देवीक्षेत्रं कामरूपं विद्यतेऽन्यन्न तत्समम् । अन्यत्र विरला देवी कामरूपे गृहे गृहे ॥ १५ ॥ ततः शतगुणा प्रोक्ता नीलकूटस्य मस्तके । ततोऽपि द्विगुणा प्रोक्ता हारके शिवलिङ्गके ॥ १६ ॥ ततोऽपि द्विगुणा प्रोक्ता दाक्षायण्याः स्वयोनिषु । ततः शतगुणा प्रोक्ता$^३$ कामाख्यायोनिमण्डले । कामाख्यायां महादेवीपूजां यः कृतवान् सकृत् ॥ १७ ॥ स चेह लभते कामान् परत्र शिवरूपता(म्) । न तस्य सदृशोऽन्योऽस्ति रिपुस्तस्य न विद्यते ॥१८॥ वाञ्छितं समवाप्नोति चिरायुरभिजायते । वायोरिव गतिस्तस्य भवेदन्चैरबाधिता ॥ १६ ॥ १ ‘ह्मदेशे’ क. पाठ. । २ ‘ल्ले’ ख पाठ. । ३ ‘र्णां प्रोक्त’ ख पाठ ।

२३४ गन्धर्वतन्त्रे । संग्रामे शास्त्रवादे च दुर्जयः स हि जायते । मूलमूर्तिर्महादेव्या योनिरूपा निगद्यते ॥ २० ॥ तत्र संपूज्य तां देवीं पुनर्जन्म न विद्यते । पुण्यक्षेत्रमिति प्रोक्तं न प्रकाश्यं कदाचन २१ देव्युवाच संग्रामे सूतके चैव रोगभीतौ तथापदि । तदा किं स्यान्महादेव तदिह कथयस्व मे ॥ २२ ॥ ईश्वर उवाच अशौचं साधकेन्द्राणां नास्ति रोगभयं तथा । शुचीनां धर्मचर्याणामापदामुद्भवः कुतः ॥ २३॥ यदि विघ्नो भवेद् देवि पूर्वकर्मनिबन्धनात् । तदैवं परमेशानि विधिं कुर्याद्विचक्षणः ॥ २४ ॥ गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च । एतैर्हीना तु या पूजा न सा कल्याणदायिनी ॥२५॥ पुष्पाञ्जलिं विधायाथ पूजयेच्चक्रदेवताः । अष्टकोणं त्रिकोणं वा बैन्दवं परिपूजयेत् ॥ २६ ॥ एवं कृत्वा जपेद्विद्यां समर्प्य च विसर्जयेत् । कुमार्यै भोजनं दत्त्वा संपूर्णफलभाग् भवेत् ॥ २७ ॥ अथवाऽद्वैतभावेन आत्मानं तन्मयं स्मरेत् । अद्वैतभावसंपन्नास्त्रिपुरीकृतविग्रहैः ॥ २८ ॥ आत्मन्येव यजेद् देवीमुपचारैर्यथाविधि । १ 'हे' ख पाठ ।

पञ्चविंशः पटलः । २३५ निजदेहाख्ययन्त्रं तु सर्वयन्त्रात् परं शिवम् ॥ २६ ॥ आनन्दहृदयं कृत्वा स(दोन्ना?दा न्या)सेन मानवः । गुरून् नुत्वा विधानेन जपेद्विद्यामनन्यधीः ॥ ३० ॥ सुगन्धिपुष्पमालाभिः स्वर्णांलंकारभूषणैः । स्निग्धं सुमधुरं यन्त्रं कामरूपं मनोहरम् ॥ ३१ ॥ कृत्वा सुमङ्गलं देहे मृदुभाषणसस्मितम् । अहिंसावृत्तमाश्रित्य सर्वप्राणिहिते रतः ॥ ३२ ॥ निजभावे सदा तिष्ठेद् देववद्विहरेत् क्षितौ । दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ॥ ३३ ॥ वीतरागभयक्रोधो मनोऽहंकारवर्जितः । योषिदन्ते पुरश्चर्या कार्या रात्रौ नचान्यथा ३४ मनस्तुष्टौ समुत्पा(न्ने?ते) सिंहव्याघ्रसमाकुले ! परसैन्यागमे वापि कुर्यान्मानसपूजनम् ॥ ३५ ॥ कारागारनिबन्धे वा पूजाद्रव्यविहीनकः । इदं रहस्यं परममिदं स्वस्त्ययनं महत् ॥ ३६ ॥ मन्त्रवेदमयं शुद्धं पूजाक्रममनुत्तमम् । गोपयेद् यत्नतो दिव्यं सर्वसिद्धिप्रदायकम् ॥ ३७ ॥ ज्ञानदं कामदं श्रेष्ठं सद्यः प्रत्ययकारकम् । यस्मै कस्मै न दातव्यं नास्तिकाय कदाचन ॥ ३८ ॥ एतज्ज्ञानात् परं ज्ञानी सद्यो भवति तत्क्षणात् । देव्युवाच कथं तन्मानुषे लोके लोकानां दर्शनं भवेत् ॥ ३६ ॥

२३६ गन्धर्वतन्त्रे । तत्कथय महादेव लोकदेशविभेदतः । ईश्वर उवाच मानुषे¹ भारतं श्रेष्ठं तत्र च पुण्यदेशकम् ॥ ४० ॥ लोकाः पुण्यपराः श्रेष्ठास्तेषां ज्ञानी विशिष्यते । ज्ञानपुण्यविहीनास्तु पिशाचा भोगतत्पराः ॥ ४१ ॥ पशुप्रायजना म्लेच्छाः प्रेतलोकनिवासिनः । तदस्तीति प्रमाणेन जानाति² न समीहते ॥ ४२ ॥ भुङ्क्ते बहुविधान् भोगान् भूतलोकप्रमाणकः । भक्ष्याभक्ष्यं न जानन्ति कार्याकार्यमथापि वा ॥ ४३ ॥ वर्तन्तेऽविधिना यज्ञे भोगैर्मधुपुरस्कृतैः । ते पुनरिह देवेशि निशाचरप्रमाणकाः ॥ ४४ ॥ जीवनं धनमेवात्र धनचिन्तारापयणैः³ । धनसंचयकारी च दानभोगवहिष्कृतः ॥ ४५ ॥ शिश्नोदरसुखै यस्तु केवलं वर्तते जनः । यक्षलोकप्रमाणी च यक्षलोके महीयते ॥ ४६ ॥ सदाचारमये देशे सदाचारविहारवान् । अरोगो रूपवान् भोगी पितृलोके महीयते ॥ ४७ ॥ मध्यदेशे महापुण्ये देवनदीसमन्विते । पूज्यपूजकभावेन यज्ञायज्ञविशारदः ॥ ४८ ॥ शुद्धान्तःकरणो विज्ञो मानुषैलोकसूचकः । १ ‘ष’ ख. पाठ । २ ‘नन्ति’ ख पाठ. । ३ ‘णा.’ ख. पाठ. । ४ ‘सु’ क. पाठ. । ५ ‘षो’ ख पाठ ।

पञ्चविंशः पटलः । २३७ भोगमोक्षप्रदे शुद्धे कृष्णमृगविचेष्टिते ॥ ४६ !॥ कर्तव्यमिति सर्वाणि श्रुतिस्मृतिमयानि च । कुरुते सततं भोगी दानभोगपरायणः ॥ ५० ॥ देववद् विहरेल्लोके देवलोकप्रमाणकः । अथ त्रिगुणरूपिण्याः पीठे त्रैगुण्यहारिणि¹ ॥५१॥ महादेव्या महापुण्ये गुह्ये वा प्रकटेऽपि च । निरानन्दैरथानन्दैर्दक्षिणोत्तररूपकैः ॥ ५२ ॥ अतदात्मा तदात्मा च योगी वा भोगसंयुतः । निस्त्रैगुण्यो भवेद् देवि महादेवीप्रसादतः ॥ ५३ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पुण्यपीठ-आपत्कालपूजादिविधि- निरूपणं पञ्चविंशः पटलः ॥ २५ ॥ १ 'निस्त्रैगुण्यदायके' क पाठः । २ 'थवा' क. पाठः ।

षड्विंशः पटलः । देव्युवाच कीदृशो वा भवेच्छिष्यः कीदृशो वा भवेद्गुरुः । कीदृशी वा भवेद् दीक्षा कथं कुर्याद्वद प्रभो ॥ १ ॥ ईश्वर उवाच अथ दीक्षां प्रवक्ष्यामि मन्त्रिणां हितकाम्यया । विनानया न चैव स्यात् सर्वमन्त्रफलं यतः ॥ २ ॥ ज्ञानं दिव्यं यतो दद्यात् कुर्यात् पापक्षयं यतः । अतो दीक्षेति सा प्रोक्ता गुरुशिष्यौ वदामि ते ॥६३॥ आदौ विद्यावतारोऽयं दक्षिणामूर्तिरव्ययः । गुरुर्भूत्वैव भगवान् महाविद्यां ददानि वै ॥ ४ ॥ दिव्यो गुरुऋषिः सोऽथ दिव्यां विद्यां प्रकाश्य च । दिव्यौघान् अकरोच्छिष्यान् वक्ष्येऽथ शृणु पार्वति । प्रकाशोऽथ विमर्शो(र्शे)ऽन्यस्त्वानन्दोऽपर इत्यपि ॥ ५॥ नामभेदादहं लोकेऽकल्पयं दिव्यरूपतः । त्रयस्तेभ्यः समुत्पन्नाः सिद्धाश्च त्रय एव ते ॥ ६ ॥ ज्ञानं सत्यं पूर्ण इति श्रीमुखास्ते समीरिताः । दिव्या मदन्तिके नित्यं सिद्धा भूमाविहापि च ॥ ७॥ निवसन्ति ततस्तेभ्यः समभूवंस्त्रयस्तथा । खभावः प्रतिभस्तद्वैत सुभगश्चेति नामतः ॥ ८ ॥ १ 'स्व' क पाठ ।

षड्विंशः पटलः । २३६ ते भूमावेव सततं निवसन्ति मदात्मकाः । प्रसन्नवदनाः सर्वे वराभयकरान्विताः ॥ ९ ॥ द्विनेत्रा द्विभुजा एते ललिताकारसंयुताः । मायालक्ष्म्यादिकास्तद्दारूया आनन्दनाथगाः ॥ १० ॥ नवानां नवनामानि नवार्णानि पृथक् पृथक् । तानि सप्ताक्षरीयोगात् प्रत्येकं षोडशाक्षरम् ॥ ११ ॥ नित्याषोडशरूपाणि तानि ज्ञेयान्यनुक्रमात् । विमला जयिनी मध्ये पूज्या एवं वरानने ॥ १२ ॥ नाम पर्यायतः प्राप्तं कालावाप्तमिति द्वयम् । प्रसिद्धं बाह्यतोऽन्यच्च त्रीणि नामानि साधके ॥ १३ ॥ मनुष्यरूपसंप्राप्तः सर्वतन्त्रार्थतत्त्ववित् । मन्त्रतन्त्रावता(वोध?राय)विचराम्यहमेव सः ॥ १४ ॥ गुरुः शाक्तो भवेद् ऋद्धयै तदन्यो विपरीतदः । गुरुः सर्वगुणोपेतो दोषैरस्पृष्टमानसः ॥ १५ ॥ अरोगी नातिवृद्धश्च(स?सु)वचा मि(स्व?ष्ट)भाषणः । सुन्दरः सुमुखः स्वच्छस्त्वलोभी बहुमन्त्रवित् ॥ १६ ॥ असंशयः संशयच्छिन्निन्रग्रहानुग्रहे प्रभुः । निर्द्वन्द्वो निरहंकारः सत्यवादी दृढव्रतः ॥ १७ ॥ आश्रम्याश्रमधर्मज्ञो मात्सर्यरहितः शुचिः । अबहुमन्त्रदो वाग्मी जपपूजापरायणः ॥ १८ ॥ सर्वतन्त्रार्थवेत्ता च दयावान् नच हिंसकः । १ ' सुलभो ' ख पाठ ।

२४० गन्धर्वतन्त्रे । यदृच्छालाभसंतुष्टः शान्तो नियमवानृजुः ॥ १६ ॥ स्मेरपूर्वाभिभाषित्त्वं स्वच्छताऽजि(च?ह्म)वृत्तिता । संतोषित्त्वमगर्वित्वमलोभित्वमनिन्दिता ॥ २० ॥ अपक्वत्वमवित्तेच्छा गुरुत्वं हितवादिता । एवंविधो गुरुर्ज्ञेयस्त्वितरः शिष्यदुःखदः ॥ २१ ॥ यथायोग्यगुणैः पूर्वैर्युक्तश्चातिप्रियंवदः । विशुद्धदेहवदनः शुद्धाम्बरधरः शुचिः ॥ २२ ॥ विमुखः परनिन्दासु देवतादर्शनेषु च । परान्नवनिभूमिपीडासु विगतस्पृहः ॥ २३ ॥ दयान्वितः सर्वजने प्रेक्षाकारी जितेन्द्रियः । आस्तिको गुरुभक्तश्च शुद्धि(वा?मा)न् सुस्थिराशयः ॥ २४ ॥ अलुब्धः स्थिरमैत्रश्च गुरुवाक्यप्रमाणकः । सर्वदा दृढभक्तिश्च गुरौ मन्त्रे सदैवते ॥ २५ ॥ एवंविधो भवेच्छिष्यस्त्वितरो दुःखकृद्गुरोः । दीक्षाकालं विनिश्चित्य मुहूर्ते दोषवर्जिते ॥ २६ ॥ गुरुं समाश्रयेच्छिष्यः प्रसादाय समाहितः । , प्रसीद नाथ देवेति तथेति च कृतादरः ॥ २७ ॥ प्रणम्योपविशेत् पार्श्वे तथा गच्छेद्वनुज्ञया । मुखावलोकी सेवेत कुर्यादादिष्टमादरात् ॥ २८ ॥ असत्यं न वदेदग्रे न बहु प्रलपेदपि । कामं क्रोधं तथा लोभं मानं प्रहसनं स्तुतिम् ॥ २६ । १ ' नैरपेक्ष्य ' क पाठः ।

षड्विंशः पटलः । २४२ चापलानि च जि(ह्मा?ह्ला)नि कार्याणि परिदेवनम् । ऋणदानं तथादानं वस्तूनां क्रयविक्रयम् ॥ ३० ॥ न कुर्याद् गुरुणा सार्धं शिष्योऽपि च कदाचन । यतो गुरुः शिवः साक्षात्तं स्तुवन् प्रणमन्(त्य?भ)जेत् ॥३१॥ यथा देवे तथा मन्त्रे यथा मन्त्रे तथा गुरौ । यथा गुरौ तथा चात्मन्येवं भक्तिक्रमः प्रिये ॥ ३२ ॥ अवमन्य गुरोर्वाक्यं स्वबुद्ध्या कुरुते तु यः । न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्देवप्रपूजनैः ॥ ३३ ॥ मन्त्रेण तस्य नियतं पूजां कुर्याद्यथोदितम् । आसनं शयनं वस्त्रं भूषणं पादुकां तथा ॥ ३४ ॥ छायां कलत्रमन्यच्च यद् गुरोस्तत् प्रपूजयेत् । गु[रु?रोः]शय्यासनं पीठमुपानच्छत्रपादुकाम् ॥ ३५ ॥ स्नानोदकं तथा छायां लङ्घयेन्न कदाचन । गुरुं दृष्ट्वा भवेद् हृष्टः परमानन्दनिर्भरः ॥ ३६ ॥ भीतभीतः पदाम्भोजं पश्येच्चकितलोचनः । (उो?उ)पदीकृत्य सर्वस्वं तदादिष्टं मुदान्वितः ॥ ३७ ॥ कुर्यात् सर्वप्रयत्नेन यथा तुष्टो भवेत् तु सः । सकृत् प्रणम्य दण्डवदिष्टदेवधिया गुरुम् ॥ ३८ ॥ पुलकाश्रितसर्वाङ्गः पूजाकोटिफलं लभेत् । यद्यत् प्रियतमं वस्तु भक्त्या तस्मै निवेदयेत् ॥ ३६ ॥ अदत्त्वा गुरवे वस्तु यत्किंचिदिह भूतले । आत्मसात् कुरुते यस्तु स भवेद्योगिनीप(तिः?शुः) ॥ ४० ॥