भारतकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पञ्चविंशः पटलः । २३७ भोगमोक्षप्रदे शुद्धे कृष्णमृगविचेष्टिते ॥ ४६ !॥ कर्तव्यमिति सर्वाणि श्रुतिस्मृतिमयानि च । कुरुते सततं भोगी दानभोगपरायणः ॥ ५० ॥ देववद् विहरेल्लोके देवलोकप्रमाणकः । अथ त्रिगुणरूपिण्याः पीठे त्रैगुण्यहारिणि¹ ॥५१॥ महादेव्या महापुण्ये गुह्ये वा प्रकटेऽपि च । निरानन्दैरथानन्दैर्दक्षिणोत्तररूपकैः ॥ ५२ ॥ अतदात्मा तदात्मा च योगी वा भोगसंयुतः । निस्त्रैगुण्यो भवेद् देवि महादेवीप्रसादतः ॥ ५३ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पुण्यपीठ-आपत्कालपूजादिविधि- निरूपणं पञ्चविंशः पटलः ॥ २५ ॥ १ 'निस्त्रैगुण्यदायके' क पाठः । २ 'थवा' क. पाठः ।

षड्विंशः पटलः । देव्युवाच कीदृशो वा भवेच्छिष्यः कीदृशो वा भवेद्गुरुः । कीदृशी वा भवेद् दीक्षा कथं कुर्याद्वद प्रभो ॥ १ ॥ ईश्वर उवाच अथ दीक्षां प्रवक्ष्यामि मन्त्रिणां हितकाम्यया । विनानया न चैव स्यात् सर्वमन्त्रफलं यतः ॥ २ ॥ ज्ञानं दिव्यं यतो दद्यात् कुर्यात् पापक्षयं यतः । अतो दीक्षेति सा प्रोक्ता गुरुशिष्यौ वदामि ते ॥६३॥ आदौ विद्यावतारोऽयं दक्षिणामूर्तिरव्ययः । गुरुर्भूत्वैव भगवान् महाविद्यां ददानि वै ॥ ४ ॥ दिव्यो गुरुऋषिः सोऽथ दिव्यां विद्यां प्रकाश्य च । दिव्यौघान् अकरोच्छिष्यान् वक्ष्येऽथ शृणु पार्वति । प्रकाशोऽथ विमर्शो(र्शे)ऽन्यस्त्वानन्दोऽपर इत्यपि ॥ ५॥ नामभेदादहं लोकेऽकल्पयं दिव्यरूपतः । त्रयस्तेभ्यः समुत्पन्नाः सिद्धाश्च त्रय एव ते ॥ ६ ॥ ज्ञानं सत्यं पूर्ण इति श्रीमुखास्ते समीरिताः । दिव्या मदन्तिके नित्यं सिद्धा भूमाविहापि च ॥ ७॥ निवसन्ति ततस्तेभ्यः समभूवंस्त्रयस्तथा । खभावः प्रतिभस्तद्वैत सुभगश्चेति नामतः ॥ ८ ॥ १ 'स्व' क पाठ ।

षड्विंशः पटलः । २३६ ते भूमावेव सततं निवसन्ति मदात्मकाः । प्रसन्नवदनाः सर्वे वराभयकरान्विताः ॥ ९ ॥ द्विनेत्रा द्विभुजा एते ललिताकारसंयुताः । मायालक्ष्म्यादिकास्तद्दारूया आनन्दनाथगाः ॥ १० ॥ नवानां नवनामानि नवार्णानि पृथक् पृथक् । तानि सप्ताक्षरीयोगात् प्रत्येकं षोडशाक्षरम् ॥ ११ ॥ नित्याषोडशरूपाणि तानि ज्ञेयान्यनुक्रमात् । विमला जयिनी मध्ये पूज्या एवं वरानने ॥ १२ ॥ नाम पर्यायतः प्राप्तं कालावाप्तमिति द्वयम् । प्रसिद्धं बाह्यतोऽन्यच्च त्रीणि नामानि साधके ॥ १३ ॥ मनुष्यरूपसंप्राप्तः सर्वतन्त्रार्थतत्त्ववित् । मन्त्रतन्त्रावता(वोध?राय)विचराम्यहमेव सः ॥ १४ ॥ गुरुः शाक्तो भवेद् ऋद्धयै तदन्यो विपरीतदः । गुरुः सर्वगुणोपेतो दोषैरस्पृष्टमानसः ॥ १५ ॥ अरोगी नातिवृद्धश्च(स?सु)वचा मि(स्व?ष्ट)भाषणः । सुन्दरः सुमुखः स्वच्छस्त्वलोभी बहुमन्त्रवित् ॥ १६ ॥ असंशयः संशयच्छिन्निन्रग्रहानुग्रहे प्रभुः । निर्द्वन्द्वो निरहंकारः सत्यवादी दृढव्रतः ॥ १७ ॥ आश्रम्याश्रमधर्मज्ञो मात्सर्यरहितः शुचिः । अबहुमन्त्रदो वाग्मी जपपूजापरायणः ॥ १८ ॥ सर्वतन्त्रार्थवेत्ता च दयावान् नच हिंसकः । १ ' सुलभो ' ख पाठ ।

२४० गन्धर्वतन्त्रे । यदृच्छालाभसंतुष्टः शान्तो नियमवानृजुः ॥ १६ ॥ स्मेरपूर्वाभिभाषित्त्वं स्वच्छताऽजि(च?ह्म)वृत्तिता । संतोषित्त्वमगर्वित्वमलोभित्वमनिन्दिता ॥ २० ॥ अपक्वत्वमवित्तेच्छा गुरुत्वं हितवादिता । एवंविधो गुरुर्ज्ञेयस्त्वितरः शिष्यदुःखदः ॥ २१ ॥ यथायोग्यगुणैः पूर्वैर्युक्तश्चातिप्रियंवदः । विशुद्धदेहवदनः शुद्धाम्बरधरः शुचिः ॥ २२ ॥ विमुखः परनिन्दासु देवतादर्शनेषु च । परान्नवनिभूमिपीडासु विगतस्पृहः ॥ २३ ॥ दयान्वितः सर्वजने प्रेक्षाकारी जितेन्द्रियः । आस्तिको गुरुभक्तश्च शुद्धि(वा?मा)न् सुस्थिराशयः ॥ २४ ॥ अलुब्धः स्थिरमैत्रश्च गुरुवाक्यप्रमाणकः । सर्वदा दृढभक्तिश्च गुरौ मन्त्रे सदैवते ॥ २५ ॥ एवंविधो भवेच्छिष्यस्त्वितरो दुःखकृद्गुरोः । दीक्षाकालं विनिश्चित्य मुहूर्ते दोषवर्जिते ॥ २६ ॥ गुरुं समाश्रयेच्छिष्यः प्रसादाय समाहितः । , प्रसीद नाथ देवेति तथेति च कृतादरः ॥ २७ ॥ प्रणम्योपविशेत् पार्श्वे तथा गच्छेद्वनुज्ञया । मुखावलोकी सेवेत कुर्यादादिष्टमादरात् ॥ २८ ॥ असत्यं न वदेदग्रे न बहु प्रलपेदपि । कामं क्रोधं तथा लोभं मानं प्रहसनं स्तुतिम् ॥ २६ । १ ' नैरपेक्ष्य ' क पाठः ।

षड्विंशः पटलः । २४२ चापलानि च जि(ह्मा?ह्ला)नि कार्याणि परिदेवनम् । ऋणदानं तथादानं वस्तूनां क्रयविक्रयम् ॥ ३० ॥ न कुर्याद् गुरुणा सार्धं शिष्योऽपि च कदाचन । यतो गुरुः शिवः साक्षात्तं स्तुवन् प्रणमन्(त्य?भ)जेत् ॥३१॥ यथा देवे तथा मन्त्रे यथा मन्त्रे तथा गुरौ । यथा गुरौ तथा चात्मन्येवं भक्तिक्रमः प्रिये ॥ ३२ ॥ अवमन्य गुरोर्वाक्यं स्वबुद्ध्या कुरुते तु यः । न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्देवप्रपूजनैः ॥ ३३ ॥ मन्त्रेण तस्य नियतं पूजां कुर्याद्यथोदितम् । आसनं शयनं वस्त्रं भूषणं पादुकां तथा ॥ ३४ ॥ छायां कलत्रमन्यच्च यद् गुरोस्तत् प्रपूजयेत् । गु[रु?रोः]शय्यासनं पीठमुपानच्छत्रपादुकाम् ॥ ३५ ॥ स्नानोदकं तथा छायां लङ्घयेन्न कदाचन । गुरुं दृष्ट्वा भवेद् हृष्टः परमानन्दनिर्भरः ॥ ३६ ॥ भीतभीतः पदाम्भोजं पश्येच्चकितलोचनः । (उो?उ)पदीकृत्य सर्वस्वं तदादिष्टं मुदान्वितः ॥ ३७ ॥ कुर्यात् सर्वप्रयत्नेन यथा तुष्टो भवेत् तु सः । सकृत् प्रणम्य दण्डवदिष्टदेवधिया गुरुम् ॥ ३८ ॥ पुलकाश्रितसर्वाङ्गः पूजाकोटिफलं लभेत् । यद्यत् प्रियतमं वस्तु भक्त्या तस्मै निवेदयेत् ॥ ३६ ॥ अदत्त्वा गुरवे वस्तु यत्किंचिदिह भूतले । आत्मसात् कुरुते यस्तु स भवेद्योगिनीप(तिः?शुः) ॥ ४० ॥

२४२ गन्धर्वतन्त्रे । यंदेव लभ्यते वस्तु भिक्षया वान्यचेष्टया । तन्निवेद्य तदादिष्टं स्वयं भुञ्जीत सादरम् ॥ ४१ ॥ इदमेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतिः । येन विशुद्धभावेन सर्वथात्मार्पणं गुरौ ॥ ४२ ॥ गुरुता शिष्यता चैव तयोर्वत्सरकालतः । दापयेत् स्वकृतं दोषं पत्नी पापं स्वभर्तरि ॥ ४३ ॥ तथा शिष्यार्जितं पापं गुरुमाप्नोति निश्चितम् । सद्गुरुः स्वाश्रमे शिष्यं वर्षमेकं परीक्ष्य वै ४४ दीक्षाकालं ततः प्राज्ञो भावयेत् सुसमाहितः । शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा ॥ ४५ ॥ फाल्गुने मार्गशीर्षे च ज्येष्ठे दीक्षा च मध्यमा । आषाढो माघमासश्च कनिष्ठौ सद्भििरादृतौ ॥ ४६ ॥ निन्दितः श्रावणश्चैत्रः पौषो भाद्रपदस्तथा । निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा ॥ ४७ ॥ विषुवायनयोर्द्वन्द्वे आषाढे मदनोत्सवे । ग्रहणेऽर्कस्य चेन्दोर्वा दिनं तत्फलदं भवेत् ॥ ४८ ॥ मन्त्रारम्भं सुधीः कुर्याच्छुक्लपक्षे शुभेऽहनि । रवौ गुरौ सिते सोमे कर्तव्यं बुधवासरे ॥ ४९ ॥ पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा । त्रयोदशी च दशमी प्रशस्ता सर्वकामदा ॥ ५० ॥ पञ्चाङ्गशुद्धदिवसे स्वोदये राशितारयोः । १ 'दै' क पाठ ।

षड्विंशः पटलः । २४३ गुरुशुक्रोदये शुद्धे लग्ने द्वादशशोभिते ॥ ५१ ॥ चन्द्रतारानुकूले च स्थिरे दीक्षा शुभा प्रिये । त्रिविधा सा भवेद् दीक्षा मान्त्री शाक्ती च शांभवी ॥५२॥ मन्त्रार्चनासनस्थानध्यानयोगादिभिः कृता । मान्त्री दीक्षा च सा प्रोक्ता यथाशास्त्रोक्तरूपिणी ॥५३॥ सिद्धैः स्वशक्तिमालोक्य तया केवलया शिशोः । निरुपायकृता दीक्षा शा[केयो?क्रीयं]परिकीर्तिता ॥५४॥ अभिसंधिं विनाचार्यशिष्ययोरुभयोरपि । देशिकानुग्रहेणैव शिवताव्यक्तिकारिणी ॥ ५५ ॥ शिष्टा तु शांभवी दीक्षा शिवावेशनकारिणी । अज्ञानाद् विश्वविज्ञानं त्राणं संसारबन्धनात् ॥ ५६ ॥ यतः करोति संसिद्धयै मन्त्र इत्युच्यते तदा । भूमेः परिग्रहं कुर्याद्यथोक्तं ते मया पुरा ॥ ५७ ॥ शल्यादिशोधनं कुर्याद् याज्ञे विधिविधानतः । विप्राशि[रा?षा] वेदघोषैर्मङ्गलाचारपूर्वकम् ॥ ५८ वास्तोर्बलिं प्रकुर्वीत मण्डलं रचयेत् तथा । सर्वमङ्गलसंपत्त्यै विदध्यादङ्कुरार्पणम् ॥ ५६ ॥ गुरुः कालं विनिश्चित्य प्रागेव सप्त वासरान् । शिष्यानुकूलमन्त्रेण पूजयेत् परदेवताम् ॥ ६० ॥ प्रणवाद्यैर्नमोऽन्तैश्च रात्रौ रात्रीशनामभिः । प्रो(क्त?क्तान्)बलींस्तु तेषां वै वितरेद्विधिना गुरुः ॥६१॥ १ 'शेषं' क पाठः । २ 'याज्ञी' क पाठ ।

२४४ गन्धर्वतन्त्रे । पूजां रात्रौ प्रकुर्वीत दिक्पालानपि पूजयेत् । तत्तद् ध्वजमधिष्ठाय तत्तद्वर्णविराजितम् ॥ ६२ ॥ पायसान्नैर्बलिं तेभ्यो दत्त्वा तान् प्रार्थयेद् गुरुः । धारायुक्तं वारिपात्रं तत्तन्मन्त्रानुमन्त्रितम् ॥ ६३ ॥ शिरस्याधाय देवेशि प्रदक्षिणमनुव्रजेत् । यज्ञं संरक्षयेद् दिव्यमादौ गुरुरनन्यधीः ॥ ६४ ॥ शक्रादिसहिता देवाः पूजितास्तर्पितास्तथा । म(थं?खं)रक्षन्तु संतुष्टा लोकपाला नमोऽस्तु वः ॥ ६५ ॥ म(थे?ख)ग्रहणपूर्वेद्युः सायमेव निवासनेम् । गुर्वादिসহিতो वासो रात्रौ नियमपूर्वकम् ॥ ६६ ॥ विधिवन्मण्डपं चारुवेदिकामध्यशोभितम् । पताकाध्वजसंकीर्णं वितानादिविभूषितम् ॥ ६७ ॥ निर्धूमशान्तसंबुद्धदीपावलिभिरञ्चितम् । पुष्पाक्षतफलैः कुम्भैर्लाजैरर्चिर्भिरर्चितम् ॥ ६८ ॥ तरुपल्लवमालाभिः सर्वतः समलंकृतम् । संवृतं कदलीस्तम्भैः पूगोपेतैरैरंकृतम् ॥ ६६ ॥ पञ्चगव्येन तद्गेहं चक्रराजं शिशुं तथा । शोधयेन्मूलमन्त्रेण मन्त्रितेन वरानने ॥ ७० ॥ समानं पञ्चगव्यानां कृत्वा भागं विशोधयेत् । मूलमन्त्रेण संमन्त्र्य कुशाग्रेणैव शोधयेत् ॥ ७१ ॥ तेन सर्वविशुद्धिः स्यात् सर्वपापनिकृन्तनम् । १ 'रवि' ख. पाठः । २ 'न्तै.' ख. पाठ. । ३ 'पात्रै' ख पाठ ।

षड्विंशः पटलः । २४५ महापातकजातानि कृत्वा गव्यं पिबेद्यदि ॥ ७२ ॥ नाशयेत् पानमात्रेण इत्याहुर्वेदवेदिनः । सुस्नातं शुद्धवेशं च शिष्यं सुस्थिरमानसम् ॥ ७३ ॥ आरात् (स्थोऽयं?संस्थाप्य)विधिवद् यजेदनुदिनं गुरुः । होमयेत् संस्कृते वह्नौ पायसैर्मधुराप्लुतैः ॥ ७४ ॥ आचार्यः कुण्डे विधिवत् सपूज्य परदेवताम् । मूलेनैव शिखां बद्ध्वा ततः शय्यागतं शिशुम् ॥ ७५ ॥ स्वप्नमानवमाश्रित्य (स्वाद?स्वाप)येत् पूर्वमस्तकम् । तारो हिलिद्वयं शूलपाणये द्वि(ज?ठ) ईरितः ॥ ७६ ॥ स्वप्नमानवमन्त्रोऽयं शयने परिकीर्तितः । नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने ॥ ७७ ॥ रामाय विश्वरूपाय स्वप्नाधिपतये नमः । स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः ॥ ७८ ॥ क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर । मन्त्रेण स्वापकाले तु देवं प्रार्थ्य ततः स्वपेत् ॥ ७९ ॥ स्वप्ने शुभाशुभं दृष्टं पृच्छेत् प्रातः शिशुं गुरुः । गुरुणां वार्चनं कृत्वा उपवासी जितेन्द्रियः ॥ ८० ॥ दर्भशय्यागतो रात्रौ दृष्ट्वा स्वप्नं निवेदयेत् । कन्यां छत्रं रथं दीपं प्रासादं (मङ्क?कम)लं नदीम् ॥ ८१ ॥ कु(कुमंकुषयं?अरं वृषभं)माल्यं स्वर्णं च फलिनं द्रुमम् । पर्वतं च हयं मेध्यमाममांसं सुरासवम् ॥ ८२ ॥ १ 'वा' क पाठ. । २ 'स्वपि' ख पाठः

१४६ गन्धर्वतन्त्रे । एवमादीनि सर्वाणि [स्पृ?दृ]ष्ट्वा सिद्धिमवाप्नुयात् । चाण्डालं गर्दभं काकं गर्तं शून्यममङ्गलम् ॥ ८३ ॥ तैलाभ्यक्तं नरं नग्नं शुष्कवृक्षं सकण्टकम् । प्रासादम[ङ्गी?त]लं दृष्ट्वा नरो रोगमवाप्नुयात् ॥ ८४ ॥ दृष्ट्वा दुःस्वप्नकं चैव होमात् सिद्धिमवाप्नुयात् । शुभे शुभं वदेत् तस्य जुहुयादशुभे[शुभ?]शतम् । अस्त्रेणेति क्रमात् प्रोक्तो विधिः शिष्योऽधिवास[र?ने ॥ ८५॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे गुर्वादिलक्षणदीक्षानिरूपणं षड्विंशः पटलः ॥ २६ ॥ १ 'शख्या' क पाठ ।

सप्तविंशः पटलः ईश्वर उवाच अथ पूर्वानुसारेण नित्यं प्रातः समाप्य च । देवान् पितॄन् समभ्यर्च्य वस्त्रालंकारभूषणैः ॥ १ ॥ आचार्यं वृणुयाद् भक्त्या ब्राह्मणानपि तोषयेत् । शिष्यः [सा?स्व]लंकृतो मौनी पुष्पचन्दनभूषितः ॥ २ ॥ नानामङ्गलवाद्यैश्च ब्रह्मघोषपुरःसरम् । नारीणां मङ्गलाशीर्भिर्ब्राह्मणानां तथैव च ॥ ३ ॥ जयशब्दान्वितैः स्तोत्रैः संतुष्टः शुद्धमानसः । दीपमालावलीरम्यं नानाधूपप्रधूपितम् ॥ ४ ॥ मण्डपं विधिवद् देवि पूर्ववत् प्रविशेद् गुरुः । पूर्ववदपरं कृत्वासने समुपविश्य च ॥ ५ ॥ तथापरं च निर्वर्त्य कुङ्कुमेन वरानने । वेदिकायां वरारोहे सिन्दूररजसाथवा ॥ ६ ॥ चक्रराजे² तु लिखिते³ तन्मध्ये दर्भविस्तृते । सौवर्णं राजतं ताम्रं मणिकं⁴ च सुलक्षणम् ॥ ७ ॥ द्वात्रिंशदङ्गुलं कुम्भं विस्तारोन्नतिशालिनम् । क्षालयित्वास्त्र(तं?म)न्त्रेण कुम्भं सम्यक् सुरेश्वरि ॥ ८ ॥ चन्दनागुरुकर्पूररोचनाकुङ्कुमैरपि । १ 'भू' क पाठ । २ 'ज' क पाठ । ३ 'त' क पाठ । ४ 'मार्तिकं' क पाठ. ।

२४८ गन्धर्वतन्त्रे । दिव्यैर्द्रव्यैस्तु संपूर्णं वासोयुग्मेन वेष्टितम् ॥ ९ ॥ नूतनं नेत्ररम्यं च पुष्पमालाद्यलंकृतम् । दधिचन्दनसंलिप्तं द्वि(प्ता?प्त्वा)न्तर्नवरत्नकम् ॥ १० ॥ मदयन्तीं सहदेवीं दूर्वां भस्म तथैव च । मृत्तिकाः सप्त विन्यस्तं पल्लवैः पञ्चभिर्युतम् ॥ ११ ॥ परितो वेष्टितं सूत्रै रक्तैश्चातिमनोहरैः । यवानास्तीर्य पुष्पाणि[स?सु]रद्रुमधिया गुरुः ॥ १२ ॥ मूलमन्त्रेण संस्थाप्य यजेदाधारपूर्वकम् । वह्निमण्डलरूपं तं कलाभिः सह पूजयेत् ॥ १३ ॥ तथा सूर्यमयं कुम्भं कलाभिस्तत्र पूजयेत् । जलं सोममयं तद्वत् कलाभिश्च समर्च्चयेत् ॥ १४ ॥ तेजस्त्रयमिदं प्रोक्तं ज्वलत्तदात्मकं स्मृतम् । पुष्पैर्(आल?अलि)मापूर्य तस्मिन्नेव प्रदापयेत् ॥ १५ ॥ पश्चिमोत्तररुद्रेन्द्रे पुष्पपातः शुभोऽशुभे । अष्टोत्तरशतं शान्त्यै जुहुयादस्त्रमन्त्रतः ॥ १६ ॥ अथ प्रागुक्तविधिना यथाक्रममनुत्तमम् । कृत्वा संपूज्य विधिवदिष्ट्वा देवधिया गुरुः ॥ १७ ॥ अङ्गावृतीः समभ्यर्च्य श्रपयित्वा चरुं ततः । भागमेकं महादेव्यै शेषमग्नौ हुनेत्ततः ॥ १८ ॥ अष्टोत्तरशतं साज्यं मधुरत्रितयान्वितम् । समिद्धेऽग्नौ महादेवीं ध्यात्वा सम्यक् प्रधानतः ॥ १६ ॥ योऽनर्चिषि जुहोत्यग्नावसमिद्धे च मानवः ।

सप्तविंशः पटलः । २४६ स मन्दाग्निः सामयो वा अल्पायुश्चोपजायते ॥ २० ॥ तस्मात् समिद्धे होतव्यं नासमिद्धे कथंचन । आरोग्यमिच्छतायुश्च श्रियमात्यन्तिकीं तथा ॥ २१ ॥ तथाबुधः सधूमे च जुहुयाद्यो हुताशने । यजमानो भवेदन्धः सपुत्रश्च विनश्यति ॥ २२ ॥ अ(थ?प्र)दीप्ते न होतव्यं मध्यमे नाप्यनेधिते । प्रदीप्ते लेलिहानेऽग्नौ होतव्यं कर्मसिद्धये ॥ २३ ॥ हुत्वा सा(ज्ञा?ङ्गां) महेशानीं समाप्य तदनन्तरम् । कर्म पूर्वोक्तमा(चा?च)र्य्य तरुणोल्लासवान् गुरुः ॥ २४ ॥ शिष्यमाहूय यत्नेन वाससाच्छाद्य तन्मुखम् । विशे(ष्या?षा)र्घ्योदकेनैव तमवोक्ष्य विधानतः ॥ २५ ॥ कारुण्या(विनये?म्बुनिधे)देवि सर्वसंपत्तिसंश्रये । शरण्ये वत्स(लो?ले)मातः कृपामस्मिन् शिशौ कुरु ॥ २६ ॥ (अशि?आण)वप्रमुखैः पाशैः पाशितस्य सुरेश्वरि । दीनस्यास्य दयाधारे कुरु कारुण्यमीश्वरि ॥ २७ ॥ ऐहिकामुष्मिकैर्भोगैरभिसं(बु?ब)द्ध्यतामसौ । स्वभक्तिः सकला चास्मै दीयतां निष्कलाश्रये ॥ २८ ॥ एवं प्रार्थ्य महादेवीमु(द्रा?द्वा)स्य हृदयाम्बुजे । शिष्याय श्रावयेद् दिव्यः शिवोऽहमिति भावयन् ॥ २९ ॥ अन्तस्तमोपहं दिव्यं सिद्धान्तं श्रावयेद् गुरुः । (यत् ? षट्)त्रिंशत्तत्त्वभ(वि?रि)तं विश्वं स्थावरजङ्गमम् । ३०। १ ‘त्रे’ क. पाठ. ।

२५० गन्धर्वतन्त्रे । शरीरं चापि त(त्रो?त्वो)त्थं तस्मिन्नेव द्विधा शिवः । कञ्चुकितः शिवो जीवो निष्कञ्चुकः परः शिवः ॥ ३१ ॥ आत्मज्ञानमात्मविद्भिः पुरुषार्थः समीरितः । वर्णात्मकं महेशानि नित्याः शब्दाः प्रकीर्तिताः ॥ ३२ ॥ अचिन्त्यस्त्विह मन्त्राणां प्रभावः समुदाहृतः । संप्रदायपरिज्ञानं गुरूणां सिद्धिदायकम् ॥ ३३ ॥ विश्वासाद्गुरुवाक्यानां सर्वसिद्धिरीरिता । प्रामाण्यं चात्र स्वनिष्ठं विश्वासः समुदाहृतः ॥ ३४ ॥ गुरूणां चैव मन्त्राणां देवानामापि पार्वति । मनःपवनयोश्चैवमेकत्वेन विभावनात् ॥ ३५ ॥ अन्तरात्मपरिज्ञानमिति जानीहि पार्वति । आनन्दं ब्रह्मणो रूपं तच्च देहे³ विभावयेत् ॥ ३६ ॥ तस्याभिव्यञ्जकाः पञ्च मकाराद्याः प्रकीर्तिताः । तैरेव यजनं तस्य गुप्त्या सिद्धिर्नचान्यथा ॥ ३७ ॥ प्राकट्यांच्च(व?भ)यं यस्माद् गोपयेन्मातृजारवत् । अभेदभावनादार्थ्यादाज्ञासिद्धिः समीरिता ॥ ३८ ॥ न निन्देद् दक्षिगं वामं न निन्देद् दर्शनानि च । निन्दाद्रोहादिकर्तॄणां गणनां नैव कारयेत् ॥ ३६ ॥ रहस्यकथनं देवि सच्छिष्यैएव नापरे । सदा विद्यानुसंधानं शिवभावेन तत्परः ॥ ४० ॥ कामं क्रोधं तथा लोभं मदमोहौ तथैव च । १ ‘ह’ क पाठः । २ ‘प्रक्टा’ च क पाठ । ३ ‘ध्यायै’ ख पाठ. ।

सप्तविंशः पटलः । २५२ हिंसां स्तेयं च मात्सर्यं यल्लोकेषु विगर्हितम्¹ ॥ ४१ ॥ स्त्रीविद्वेषादिकं चैव वर्जयेन्मतिमान् सदा । एक एव गुरुर्देवस्तस्यैवोपासनं सदा ॥ ४२ ॥ असंशयस्तु सर्वत्र निष्परिग्रहता मता । फलविरहितं कर्म त्यजेदनित्यमेव तत् ॥ ४३ ॥ पञ्चानामप्यलाभे तु नित्यं क्रमविम[र्ष?र्श]नम् । निर्भयत्वं च सर्वस्माज्ज्ञेयं सर्व ह[रि?विः]प्रिये ॥ ४४ ॥ स्वयमेव हि होतात्र आत्मा शिवस्तु पावकः । आत्मलाभात्परं नास्ति फलं क्वापि च सुव्रते ॥ ४५ ॥ सैषाङ्गा परमा शैवी कथिता तव पार्वति । वेदादिसकला विद्या वेश्या इव प्रकाशिताः ॥ ४६ ॥ सर्वेषु दर्शनेष्वेव विद्येयं खलु गोपिता । धीमांस्तत्रैव दीक्षेत सर्वथात्मविभूतये ॥ ४७ ॥ अथ शिष्यशिरोदेशे [वरु?चर]णां रक्तशुक्लयोः । भावयित्वा वपुस्तस्य क्षालितं मांसबृंहितम् ॥ ४८ ॥ तदमृतैः[श्र?स्र]वद्भिश्च कुर्याद् गुरुरुदारधीः । मूलादिब्रह्मरन्ध्रान्तं ज्वलन्तीं ज्वलनच्छविम् ॥ ४९ ॥ प्रतीषषहरीं[?]कोटिसूर्यप्रकाशिनीं पराम् । चन्द्रकोटिप्रभां शुद्धामज्ञानेन्धनदाहिकाम् ॥ ५० ॥ तत्तद्रश्मिभिरेवास्य पापपाशांस्तु संदहेत् । शिवोऽहमिति निश्चित्य वीक्षेत करुणया दृशौ³ ॥ ५१ ॥ १ 'श' क पाठ । २ 'मा' ख पाठ. । ३ 'त्तं करुणादृशा' ख पाठ । १

२५२ गन्धर्वतन्त्रे । सर्वपापविनिर्मुक्तं सर्वदोषविवर्जितम् । पुनः स्वयं शिवो भूत्वा असंदिग्धमना गुरुः ॥ ५२ ॥ शिवहस्तेन शिष्यस्य मन्त्रं शिरसि संस्पृशेत् । जपोक्तक्रमतो योगी शिष्यदेहं प्रविश्य तु ॥ ५३ ॥ गृहीत्वा तस्य चात्मानमात्मना योजयेद् गुरुः । स्वयं मन्त्रतनुर्भूत्वा संक्रामेन्मन[सा]दरात् ॥ ५४ ॥ ह्रूसौःवर्णकर्णिके शि[ष्य? ष्यं]स्वरद्वन्द्वाष्टकेसरे । दिगष्टकस्थितवंठावर्गाष्टयुक्तदिग्दले ॥ ५५ ॥ चतुरस्रासने शुद्धे मातृकायन्त्रराजके । निवेश्य सादरं देवि कलशामृतधारया ॥ ५६ ॥ स्नपयेन्मूलविद्याभिस्त्रि[भङ्गो? रङ्गेः] देशिकोत्तमः । परिधाप्य दुकूले च चन्दनाद्यैर्विलेपयेत् ॥ ५७ ॥ अलंकृत्य यथालाभं समानं शिष्यपुत्रकम् । प्रसन्नं शान्तचित्तं च पार्श्वे निवेश्य देशिकः ॥ ५८ ॥ तदङ्गे मातृकां न्यस्य विद्याङ्गन्यासमाचरेत् । विमुक्तमुखवस्त्रस्य हस्ते तस्य गुरुः स्वयम् ॥ ५६ ॥ यथाधिकारमालोच्य द्रव्यभेदान् प्रकाशयेत् । अन्यथा सर्वहानिः स्यादयोग्येषु प्रकाशनात् ॥ ६० ॥ भोजनं तत्त्वमन्त्रैस्तु कारयेद् ग्रा[म? स]मुद्रया । अथ गुरुः प्रसन्नात्मा पूर्वोक्तामात्मनः पराम् ॥ ६१ ॥ बालान्वितां विधायादौ पादुकां विनिवेदयेत् । १ 'का' क. पाठः । २ 'स्त्रा' क पाठ ।

सप्तविंशः पटलः । २५३ दक्षकर्णे दिशेद्बालां पश्चादिष्टं निवेदयेत् ॥ ६२ ॥ स्वकीयचरणं मूर्ध्नि शिशोर्निधाय पार्वति । सर्वान् मन्त्रान् सकृद्वापि क्रमेणैव यथाविधि ॥ ६३ ॥ यथाधिकारमावर्त्य स्वाङ्गेषु च शिशोः करम् । स्पर्शयित्वा किमप्यङ्गं तदङ्गमातृकादिकम् ॥ ६४ ॥ द्व्यक्षरं त्र्यक्षरं वापि चतुरक्षरमेव वा । आनन्दनाथशब्दान्तं नाम कुर्याद्गुरुः पिता ॥ ६५ ॥ आचाराननुशिष्यार्थं हृच्चैतन्यं परामृ(ष?शे)त् । त्रिभिः कूटैस्तदङ्गं च त्रिः^२ प्रमृज्य गुरुः स्वयम् ॥ ६६ ॥ परिरभ्य तथा मूर्ध्नि समुपा[घ्रा?ग्रा]य सादरम् । आत्मरूपं ततः कृत्वा शिष्यं पूर्णं विभावयेत् ॥ ६७ ॥ अष्टोत्तरसहस्रं स्वशक्तिहान्यनवाप्तये । प्रसन्नात्मा जपेद्विद्यां ततो गुरुरुदारधीः ॥ ६८ ॥ कृतार्थः कृतकृत्यस्तु यथाविभवविस्तरैः । वित्तशाठ्यं परित्यज्य दम्भमोहौ च जि[म्भ?ह्म]ताम् ॥ ६६ ॥ हस्त्यश्वरथयानाद्यैर्दासदासीभिरेव च । गोभूमिहिरण्यवस्त्राद्यैस्तोषयेद् गुरुमात्मनः ॥ ७० ॥ कुम्भादिकर्णे यद् द्रव्यं सर्वमण्डप एव च । अर्थं प्राणांश्च शरीरं च सर्वं तस्मै निवेद्य च ॥ ७१ ॥ पतित्वा पादयोर्मूले दण्डवद् भुवि मानवः । नमस्ते भगवन्नाथ शिवाय गुरुरूपिणे ॥ ७२ ॥ १ 'न्वाशिष्यर्थं क. पाठ' । २ 'विप्र' क पाठ । ३ 'ष्य, पूणी' क पाठ ।

२५४ गन्धर्वतन्त्रे । प्रसीद करुणाधाम[न्]मयि दीनत्वतापिते । कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम ॥ ७३ ॥ प्रसन्नास्तु परा देवी भोगमोक्षविधायिनी । तन्मना भव हे पुत्र [त्वा?ता]मेव त्वं सदा स्मर ॥ ७४ ॥ द्वैतभाव च ते मास्तु पूर्णानन्दमयो भव । (वक्तैः?उक्त्वो)त्तिष्ठेति पीयूषवचोभिरभि(व?न)न्द्य तम् ७५ हस्ताभ्यां च समुत्थाप्य प्रसन्नोऽहं सदा प्रिये । सिद्धयः सकलास्तूर्णं सन्तु ते मत्प्रसादतः ॥ ७६ ॥ प्रसन्नात्मा तथा शिष्यो विदिताखिलवेद्यकः । भक्तिश्रद्धासमायुक्तो भोजयेद् वै (द्वमावि?कुमारि)काः७७ ब्राह्मणान् परितोष्याथ दीनान्धकृपणानपि । पक्वान्नैरातिमिष्टैश्च ज्ञातीनापि च भोजयेत् ॥ ७८ ॥ गन्धैर्नानाविधैः पुष्पैर्माल्यैरपि च तोषयेत् । तेभ्य आशिष आदाय समर्थीयाँ जयावहाँः ॥ ७९ ॥ सद्गुरोराहितदीक्षो महाविद्याधरो महान् । सर्वमन्त्राधिकारी स्यात् सर्वज्ञो भुवि जायते ॥ ८० ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे दीक्षाविधानानिरूपणं सप्तविंशः पटलः ॥ २७ ॥ १ 'प्रदा' ख पाठ । २ 'ये' ख पाठ । ३ 'यान्' क पाठ । ४ 'ह' क पाठ ।

अष्टाविंशः पटलः । देव्युवाच —=:!!:— पुरश्चर्याविधिं ब्रूहि विद्यासिद्धिर्भवेद्यथा । ईश्वर उवाच अथ वक्ष्ये विधानानि पौरश्चरणके विधौ ॥ १ ॥ विना येन न सिद्धः स्यान्मन्त्रो वर्षशतैरपि । यथाविधि गुरोर्दीक्षां गृहीत्वा साधकोत्तमः ॥ २ ॥ तथैव तु यजेद् देवीं नित्यं प्रातरनन्यधीः । आत्मानं तन्मयं स्मृत्वा भक्तिश्रद्धासमन्वितः ॥ ३ ॥ अष्टोत्तरसहस्रं वा लक्षार्धं यावदेव हि । तावदेव मनुं जप्त्वा पुरश्चर्यां समाचरेत् ॥ ४ ॥ न्यूनातिरिक्तदोषाणां शान्तावष्टाधिकं जपेत् । गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः ॥ ५ ॥ यत्नात् पुरस्क्रिया॑ कुर्यात् स्वविद्यासिद्धिकाङ्क्षया । सर्वेषामेव मन्त्राणां विद्यानां चैव पार्वति ॥ ६ ॥ गुरोराज्ञैव मूलं स्यात् सिद्धिर्यस्मात् तदाज्ञया । अश्रद्धा चैव नास्तिक्यं पूर्वजन्मकृतोशुभम् ॥ ७ ॥ १ 'ता' ख, पाठः ।

२५६ गन्धर्वतन्त्रे । प्रतिबन्धत्रयं देवि मन्त्रसिद्धौ निगद्यते । यत्नात् पुरश्चरेन्मन्त्री प्रतिबन्धविनाशने ॥ ८ ॥ लक्ष्मीमदादनादृत्य मन्त्रं भोगपरायणः । नैवार्चां कुरुते मन्त्री तथा नैव पुरस्क्रियाम् ॥ ६ ॥ स मन्त्रस्य ऋणी ज्ञेयो भेजनं तस्य शान्तये । जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ १० ॥ पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः । तत् कुर्यात् सर्वथा मन्त्री गुरुं वा कारयेद्बुधः ॥ ११ ॥ गुरोरभावे विप्रोऽस्य सर्वप्राणिहिते रतः । शुद्धान्तःकरणः स्निग्धो वासोभिश्च विशेषतः ॥ १२ ॥ कुलज्ञः कुलशास्त्रज्ञः पुनर्गुरुः पुरस्क्रियाम् । कारयित्वा पुनर्विद्यां लब्ध्वा तैं विनियोजयेत् ॥ १३ ॥ आदौ पुरस्क्रियां कर्तुं पुण्यक्षेत्रं समाश्रयेत् । चतुर्दश्यामथाष्टम्याममावस्यामुहूर्तके ॥ १४ ॥ देव्याः पुरस्क्रियारम्भः कर्तव्यः साधकोत्तमैः । अथ पूर्वमुपोष्यथ कृतनित्यक्रियः शुचिः ॥ १५ ॥ द्विजान् देवान् गुरून् भक्त्या संपूज्य परमेश्वरि । गणेशं मातृकांश्चैव पितॄंश्चैव प्रपूजयेत् ॥ १६ ॥ ग्रामे वा नगरे देशे पुरे वा पत्तने तथा । क्षेत्राधिपस्य नाम्ना तु दीपस्थानं विचारयेत् ॥ १७ ॥ १ 'य' ख पाठ । २ 'हो' क. पाठः । ३ 'ति' क पाठ । ४ 'म.' क पाठः । ५ 'का चै' क पाठ ।