गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
३३६ गन्धर्वतन्त्रे । गुणत्रयमयी सा तु बिन्दुत्रयस्वरूपिणी । अधः कृत्वा तु पुरुषं हकारार्धस्वरूपिणी ॥ ८ ॥ विपरीतेन रमते वह्नीन्द्वर्कस्वरूपिणी । अशिरस्कहकारान्त्यमशेषाकारसंस्थितम् ॥ ६ ॥ अन्तश्चरमजस्रं तं स्वमात्मानमुपास्महे । बिन्दुत्रये महादेव सर्गमेतत् प्रतिष्ठितम् ॥ १० ॥ ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् । पञ्चभूतमयं विद्धि चासत्यं सत्यवद्भ्रमः ॥ ११ ॥ पृथिवीयं महादेव प्रांकृती नतु (कस्तुरी ? वास्तव्री) । ब्राह्मणी नैव चाण्डाली नैव दैवी न मानुषी ॥ १२ ॥ रसमात्रं जलं विद्धि न द्विजं नच पुक्कसैम् । रूपमात्रं तु यत्तेजस्तत्र किं जातिकल्पना ॥ १३ ॥ स्पर्शमात्रं तु यद्वायुर्नोत्तमो नाधमः खलु । शब्दमात्रं यदाकाशं विभोस्तस्य महात्मनः ॥ १४ ॥ नीचतां कल्पते देवि मूढोऽज्ञानविजृम्भितः । एभिः पञ्चभिरारब्धं देहं स्थावरजङ्गमम् ॥ १५ ॥ पञ्चानां संनिपातं यत् न ब्राह्मणं न पुक्कसैम् । तदसत्यं विजानीयात् सत्यं ब्रह्म न तन्न तत् ॥ १६ ॥ देहाद्भिन्नः शिवो देही परमानन्दरूपवान् । तद्ब्रह्मेति च यो विद्यात् स एव ब्राह्मणो मतः ॥ १७ ॥ यदिदं लक्ष्यते देव पञ्चभूतात्मविग्रहे । वायुभिरिन्द्रियग्रामे प्रेरिते पञ्चभिः शिवम् ॥ १८ ॥ १ 'न्त्यमे' क पाठ.। २ 'प्र' क पाठः । ३ 'शम्' क पाठ । ४ 'श' क पाठ । ५ 'क्षसे' क पाठ ।
ऊनचत्वारिंशः पटलः । ३३७ कर्तृत्वमात्मनो देव तदविद्याभ्रमो महान् । व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् ॥ १६ ॥ दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी । आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः ॥ २० ॥ स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः । देहेन्द्रियगुणान् कर्माण्यमले सच्चिदात्मनि ॥ २१ ॥ अध्यासत्यात्माविवेकेन गगने नीलतामिवै । अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि ॥ २२ ॥ कल्प्यन्तेऽम्बुगते चन्द्रे चलनादिर्यथाम्भसः । रागेच्छासुखदुःखादि (वृ ? बु) द्धौ सत्यां प्रवर्तते ॥ २३ ॥ सुषुप्तौ नास्ति तन्नाशे तस्माद् बुद्धेस्तु नात्मनः । प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोषष्णता ॥ २४ ॥ स्वभावैः सच्चिदानन्दनित्यनिर्मलतात्मनः । आत्मनः सच्चिदंशश्च बुद्धेर्वृ (द्धि ? त्ति) रिति द्वयम् ॥ २५ ॥ संयोज्य चाविवेकेन जानामीति प्रवर्तते । आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति ॥ २६ ॥ जीवः सर्वमलं ज्ञात्वा कर्ता द्रष्टेति मुह्यति । रज्जुसर्पवदात्मानं ज्ञात्वा जीवो भयं वहेत् ॥ २७ ॥ नाहं जीवः परात्मेति ज्ञातश्चैं निर्भयो भवेत् । आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाणि हि ॥ २८ ॥ दीपो घटादिवत् स्वात्मजौतैस्तैर्नावभास्यते । स्वबोधे नान्यबोधेच्छा बोधरूपस्य चात्मनः ॥ २६ ॥ 'विवेकी चा' क पाठ । २ 'न्मवि' क पाठ । ३ 'वत्' क पाठ । ४ सत्या, ख पाठ । 'वस' क पाठ । ६ 'जीव सवमय ज्ञात्वा ज्ञात्वा दृ' क पाठ । ७ श्चेन्नि क, पाठ । धश्च' क पाठ । ६ 'पंस्तथा' क पाठ. :
३३८ गन्धर्वतन्त्रे । न दीपस्यै तु दीपेच्छा यथा स्वात्मप्रकाशने । निषिध्य निखिलोपाधिं नेति नेतीति वाक्यतः ॥ ३० ॥ विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः । आविद्यकं शरीरादि दृश्यं बुद्बुदवत् क्षणम् ॥ ३१ ॥ एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम् । देहोऽन्यम विभिन्नत्वान्न मे जन्मजरादयः ॥ ३२ ॥ शब्दादिविषयैः सङ्गो निरिन्द्रियतया नच । अमनस्त्वान्न मे दुःखरागद्वेषभयादयः ॥ ३३ ॥ अप्राणो ह्यमनाः शुद्ध इत्यादिश्रुतिशासनात् । निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरञ्जनः ॥ ३४ ॥ निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः । नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम् ॥ ३५ ॥ सत्यं ज्ञानमयं यत्तत् परं ब्रह्माहमेव तत् । एवं निरन्तरं कृत्वा ब्रह्मैवास्मीति वासना ॥ हरत्यविद्याविक्षेपान् रोगानिव रसायनम् ॥ ३६ ॥ शंभुरुवाच देहाद्भिन्नः कथं ह्यात्मा कीदृशः कुत्र संस्थितः । कथं वा ज्ञायते ब्रह्म तन्मे वद जगन्मयि ॥ ३७ ॥ जगन्मय्युवाच अवच्छिन्न इवाज्ञानात् तन्नाशे सति केवलः । स्वयं प्रकाशते ह्यात्मा मेघापायेऽंशुमानिव ॥ ३८ ॥ अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् । कृत्वाज्ञानं स्वयं नश्येजलं कतकरेणुवत् ॥ ३६ ॥ १ 'पतया' क पाठ । 'स्यान्त्य' ख पाठ.। २ 'देहात्यत्वान्न' मे जन्मजराकार्श्यलयादय.' ख पाठ । ३ 'अ' ख पाठ । ४ 'राभ्यस्ता, ख. पाठ.' ।
ऊनचत्वारिंशः पटलः । ३३६ संसारः स्वप्नतुल्यो हि रागद्वेषादिसंगतः । अबोधे सत्यवद्भाति सुबोधेऽसत्यवद्भवेत् ॥ ४० ॥ तावत् सत्यं जगद्भाति शुक्तिकारजतं यथा । यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥ ४१ ॥ सच्चिदात्मन्यनुस्यूता नित्ये विष्णौ प्रकल्पिताः । व्यक्तयो विविधाः सर्वा हाटके कटकादिवत् ॥ ४२ ॥ यथाकाशो हृषीकेशो नानोपाधिगतो विभुः । तद्भेदाद्भिन्नवद्भाति तन्नाशे लैकवद्भवेत् ॥ ४३ ॥ नानोपाधिवशादेव जातिवर्णाश्रमादयः । आत्मन्यारोपितास्तोये रसवर्ण्णाविभेदवत् ॥ ४४ ॥ पञ्चीकृतमहाभूतसंभवं कर्मसंचितम् । शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ ४५ ॥ पञ्चप्राणमनोबुद्धिदशेन्द्रियसमान्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ ४६ ॥ अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते । उपाधित्रितयादन्यदात्मानमवधारयँ ॥ ४७ ॥ सर्वभूतस्थमात्मानमहमेव तथात्मनि । सर्वभूतानि संचिन्त्य चिन्तयस्वैकमेव हि ॥ ४८ ॥ उत्पत्तिप्रलयाभ्यां च न सदिदं निशामय । मनः करोति पापानि मनः पापेन लिप्यते । मनस्युन्मननीभूते न धर्मो नच पातकम् ॥ ४६ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शिवस्य देवीकृतज्ञानोपदेशवर्णनं नामोनचत्वारिंशः पटलः ॥ ३६ ॥ १ 'संकुल' ख पाठ । २ स्वकाले' ख पाठ । ३ प्र' ख पाठ । ४ 'सति केवल' ख पाठ । ५ 'र्णादि' ख पाठ । ६ 'मा' ख पाठ । ७ 'येत्' ख पाठ ।
चत्वारिंशः पटलः । —=०•❀•०=— शंभुरुवाच कथ्यतां देवदेवेशि व्यक्तीभूतावुभौ कथम् । शिवशक्तिमयं ज्ञानं कथं वा जायते तथा ॥ १ ॥ जगन्मय्युवाच पुंभावः शिव ईत्याहुः स्त्रीभावः प्रकृतिः परा । शिवो ज्ञानमयो देहे शक्तिर्बुद्धिमयी परा ॥ २ ॥ शुक्लं शिवो महामेदः शक्तिः कुण्डलिनी त्विति । लिङ्गं शिवस्तथा शक्तियोंनिर्जगति दृश्यते ॥ ३ ॥ इत्येवं त्रिपुरा शक्तिरित्येवं त्रिपुरः शिवः । नानयोर्विद्यते भेदो या शक्तिः स शिवो ध्रुवम् ॥ ४ ॥ न शिवेन विना शक्तिर्न शक्तिरहितः शिवः । न तद्भूतस्तयोर्भेदश्चन्द्रचन्द्रिकयोरिव ॥ ५ ॥ एवं तौ सर्वभूतेषु द्विधाभूतौ व्यवस्थितौ । तस्मान्नास्ति तयोर्भिन्नं जगदेतच्चराचरम् ॥ ६ ॥ पिता माता सुतश्चेति भावोऽयं विविधो (मु? मृ)षा । स्वाँविद्यासुदृढाभ्यासाद् दृढीभूतो हृदि स्थितः ॥ ७ ॥
१ 'मि' क. पाठ. । २ 'व' क पाठ । ३ 'क्त्यावा' क पाठ । 'स्व' क पाठ. ।
चत्वारिंशः पटलः । ३४१ गुरुवाक्येन तं विद्याद् दृढाभ्यासेन मानवः । जीवन्मुक्तः सर्वभूतमयो भवति वै ध्रुवम् ॥ ८ ॥ शरीरं विविधाङ्गं मे कथ्यते शृणु सादरम् । ब्रह्मैवाहं नचान्योऽस्मि शरीरमेतदेव हि ॥ ९ ॥ चैतन्यं सर्वभूतानां शब्दब्रह्मस्वरूपकम् । वर्णरूपेण तद्व्यक्तं मन्त्रविद्यादिभेदतः ॥ १० ॥ कुङ्कुमागुरुकस्तूर्या रोचनाचन्दनेन्दुभिः । प्रकाश्य तव पीठे तु शक्त्यन्तःस्थं यथा भवेत् ॥ ११ ॥ तत्र पूजा सदा कार्या तत्तद्धर्मविधानतः । सर्वेषामेव देवानां मन्त्रमाद्यं शरीरकम् ॥ १२ ॥ पूजयेत्तद् गुरुमन्त्रदेवतात्मस्वरूपतः । द्वितीयं कथ्यते देव यत्पुनर्ध्यानगोचरम् ॥ १३ ॥ कृत्वा रत्नमयं रूपं शुद्धकाञ्चननिर्मितम् । प्रत्यहं पूजयेद्देवममुत्र मासि मासि च ॥ १४ ॥ वार्षिकं त्वथ वा कुर्यान्महोत्सवमनुत्तमम् । विमुखो दम्भमाश्रित्य द्रव्यनाशैवशादुत ॥ १५ ॥ महोत्सवाविधौ यो मे (स्व ? स ) स्याद्भग्नमनोरथः । विमुखास्तस्य दुर्बुद्धेः पितरः सौमरा गणाः ॥ १६ ॥ तस्मात्परदिने४ प्राप्ते बोधयित्वा विधानतः । प्रत्यहं पूजयेद्भक्त्या पूर्णं५ तस्या महोत्सवम् ॥ १७ ॥ तृतीयं कथ्यते यन्त्रं रौत्नं६ वा हेमनिर्मितम् । मद्भावरूपमात्रं तु विदित्वा सद्गुरोर्बुधः ॥ १८ ॥ . 'हर्मन्त्री' क पाठः । २ 'दोषो नाश्य' क पाठ । ३ 'समरा' क पाठ । ४ 'न' ख पाठ । ५ 'पूर्णान्त स्यान्म' क पाठ । ६ 'र' ख पाठ ।
३४२ गन्धर्वतन्त्रे । पूजयेद्गन्धपुष्पाद्यैर्मदात्मा मद्गभेदतः । चन्दनागुरुकस्तूर्या रोचनाचन्द्रकुङ्कुमैः ॥ १६ ॥ कुलपुष्पैश्च संलिख्य त्वदुक्तविधिना यजेत् । वाराहस्कन्धजैर्दम्भैरनुलेपं विघर्षयेत् ॥ २० ॥ वाराहदेहजैर्दम्भैः कुर्यान्मलविघर्षणम् । प्रीतिर्मे जायते तत्र पूर्णा द्वादशवार्षिकी ॥ २१ ॥ सुगन्धिस্পর্শसुखदैः कुसुमैररुगैरपि । अशून्यं सर्वदा कुर्याच्छून्ये विघ्नाद्यनेकround: विघ्नाद्यनेकशः ॥ २२ ॥ अत्यन्तसुखदैर्वस्त्रैराच्छाद्य भवनान्तरे । त्वल्लिङ्गेनातिशुद्धेन शुक्लेन चित्तहारिणा ॥ २३ ॥ स्थापयेत्पूजयेत्सार्धं यतो नाहं त्वया विना । नैव त्वमपि हे देव प्रभुर्देवो मया विना ॥ २४ ॥ तस्मादावां सदैवार्त्र स्थापयेत्सिद्धिमिच्छुकः । विद्रुममौक्तिकाम्यां वा यो जपेन्मन्त्रमुत्तमम् ॥ २५ ॥ समयाचारयोगेन त्वयोक्तेनैव शंकर । पूजां यः कुरुते नित्यं भक्तिश्रद्धासमन्वितः ॥ २६ ॥ चतुर्धा कालरूपैश्च हस्तैरालिङ्ग्य तं शिवम् । मामक्या कलया युक्तं करोमि पुरनायकम् ॥ २७ ॥ तुरीयं मे परं रूपं गुप्तं यज्जगतीतले । तत्र पूजा सदा कार्या कुलयागविधानतः ॥ २८ ॥ सर्वापायेषु सर्वत्र कौलो धर्मः परो महान् । सुगमा निगमाः सर्वे कौलो धर्मस्तु दुर्गमः ॥ २६ ॥ १ 'स्वा' क पाठ. ।
चत्वारिंशः पटलः । ३४३ निसर्गदुर्गमः कौलः सुगम इव भात्यसौ । ब्रह्मविष्णुशिवादीनां प्रभवो यत्र कीर्तितः ॥ ३० ॥ तद्रूपं मे परं धाम ब्रह्मणो व्यक्तजन्मनः । सद्गुरोः कृपया लब्धौ तत्र पूजा महोदया ॥ ३१ ॥ ब्रह्मप्रकाशकं तत्त तन्निष्ठं ब्रह्म चोच्यते । स्वयं प्रकाशते ब्रह्म यस्य दर्शनतः शिवः ॥ ३२ ॥ स्पर्शनात्पूजयेद्य॑स्य ब्रह्मरायेव निमज्जति । आनन्दाब्धौ निमज्ज्येव भवाब्धि स न पश्यति ॥ ३३ ॥ कौलो धर्मस्त्वया प्रोक्तस्तमासाद्य कुलं यजेत् । मद्रूपा परमा शक्तिर्लिङ्गरूपी भवान् प्रभुः ॥ ३४ ॥ शुक्रं शिवो रजः शक्तिरिति जानीहि शंकर । त्वया मया जगदिदं परिपूर्णं महेश्वर ॥ ३५ ॥ एकैवाहं परं ब्रह्म शिवशक्तीति भेदतः । संप्रभिन्नं जगदिदं भ्रम एवात्र कारणम् ॥ ३६ ॥ त्वमहं चेति यत्प्रोक्तं तदविद्या(श्र?भ्र)मो महान् । तत्त्वमसि स एवाहं न त्वं नाहं तदेव यत् ॥ ३७ ॥ आवयोर्नहि भेदोऽस्ति युक्त्या बुध्यस्व शंकर । मदन्तेस्त्वयि संलीने त्वमेवाहं भवान् प्रभुः ॥ ३८ ॥ आवयोः सरलाकारमभून्मिलितयोः शिव । तन्महामोक्षमाप्नोति भोगेनैव महेश्वर ॥ ४६ ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । पूजनान्नहि मे प्रीतिर्यदिहान्यप्रकारतः ॥ ४० ॥
१ 'व' क पाठ । २ 'तम्' क पाठ. । ३ 'रुध्वा' क पाठ । ४ 'ना' ख पाठ । ५ 'त्वा' क पाठ ।
३४४ गन्धर्वतन्त्रे । मांसझारैर्न मे प्रीतिर्न तथा मद्यसागरैः । यथा मे जायते प्रीतिर्भगलिङ्गामृतैः शिव ॥ ४१ ॥ अहमेव महादेव स्त्रियः सर्वा जगत्स्वह । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ४२ ॥ ये देवा मद्गतप्राणा मद्दासा मद्दिभूषणाः । स्वधर्मानपरित्यज्य मामेव शरणं गताः ॥ ४३ ॥ ते पुनर्भोगिनो मुक्ता जीवन्तोऽपि महीतले । मदङ्गस्पर्शमात्रेण चात्मानं ज्ञातुमर्हसि ॥ ४४ ॥ मयि प्रविश विश्वेश मां भजस्व सनातनीम् । जहि शङ्कां महादेव त्वमात्मानं न विस्मर ॥ ४५ ॥ विष्णुः पिबत्यसौ वामं ब्रह्मा मे दक्षिगं स्तनम् । त्वं पिबस्व महादेव ममाधर (श्रु ? स्रु) तामृतम् ॥ ४६ ॥ स्त्रियं गच्छन् स्पृशन्पश्यंस्ताभिरेव विहारवान् । ध्यानं पूजां जपं चैव कुर्यान्मे साधकोत्तमः ॥ ४७ ॥ शक्त्यायुक्तः सदा मन्त्री न तया रहितो भवेत् । तया विरहितो देवः सर्वकर्मसु न क्षमः ॥ ४८ ॥ पतिहीना यथा नारी सर्वकर्मविवर्जिता । शक्तिहीनस्तथा मन्त्री तस्माच्छक्तियुतो भव ॥ ४६ ॥ एका चेद्दशगा साध्वी तस्याः कुँष्टिर्भवाय च । दुष्टभार्या (कुला ? करा) कुष्टिर्विनाशायैव केवलम् ॥ ५० । कुलभेदौ नदीतीरे कोषागारं यथा शिव । भगलिङ्गसमायोगाद्यदानन्दः प्रजायते ॥ ५१ ॥ १ 'त' क पाठ । २ 'वतो' क पाठ । ३ 'स्याकृ' क पाठ । ४ 'दि' क पाठ. ।
चत्वारिंशः पटलः । ३४५ ब्रह्मैव तद्विजानीयादनन्तं मोक्षसाधनम् । गुरुपूजा कराकृष्टिर्विघ्नोत्सारणकर्मकृत् ॥ ५२ ॥ रहस्याख्यानकं कर्णे ह्यासनं गण्डचुम्बनम् । भूतशुद्धिः परीरम्भः संतोपेन्द्रियनिग्रहः ॥ ५३ ॥ प्राणायामः स्तनाकृष्टिन्यासमन्र समीरितम् । नखदन्तक्षतादीनि धूपदीपप्रदापनम् ॥ ५४ ॥ चाटुकानि रतान्ते च सुपुष्पा²शय्य³ङ्गसंगमम् । दर्शनं स्पर्शनं योनेर्विकाराल्लिङ्गघर्षणम् ॥ ५५ ॥ अधरामृतपानं च स्वयमावेशनं तथा । विक्षेपोत्क्षेपणं चैव पतनोत्पतनं तथा ॥ ५६ ॥ तर्पणाद्युपचारं तु मथनं हवनं तथा । सीत्कारो मन्त्रजपनं ब्रह्मार्पणैकचित्तता ॥ ५७ ॥ कूजनं गायनं स्तोत्रं¹ रेतःपातो विसर्जनम् । इत्थमेव महादेव पूजनं मे समीरितम् ॥ ५८ ॥ एकंस्या बहुरूपिण्याः प्रत्यहं यः समाचरेत् । जीवन्मुक्तः स्वयं देवोऽप्यसाध्यमपि साधयेत् ॥ ५६ ॥ भोगैश्च मधुपर्काद्यैर्वामाभावे स्थितो यजेत् । ˙श्रुतिस्मृत्युदितं कर्म त्यजन् वाथ समाश्रयन् ॥ ६० ॥ तत्तत्कर्मपरित्यागाद् (ध्यानं ? हीनं) जातिषु जायते । ततो बहु सुखं भुक्त्वा परेषां च सुदुर्लभम् ॥ ६१ ॥ विद्याभ्यासप्रसादेन भोगेन मोक्षमाप्नुयात् । एवं बहुविधान् भोगी भोगान्वै सुमनोहरान् ॥ ६२ ॥ १ स्तुह्य' ख पाठ । २ 'काया' क पाठ । ३ 'शय्य' क पाठ ।
३४६ गन्धर्वतन्त्रे । समासाद्य च तांस्तांस्तु वैराग्ये वनमाविशेत् । असारांश्च तथा सारान्निःसारांश्च तथा परान् ॥ ६३ ॥ नानाविधैर्विवेकाद्यैर्विविच्य साधकस्तथा । सारभूते परे तत्त्वे मन आधाय योगवित् ॥ ६४ ॥ निःसारमसदाद्यन्तं जगदेतच्चराचरम् । सत्यं किमपि तत्रैव वस्तु सान्द्रान्निरन्तरम् ॥ ६५ ॥ तदानन्दमयं ब्रह्म विदित्वात्मनि साधकः । एकान्तविजने रम्ये मृदौ²कोमल आसने ॥ ६६ ॥ आसीनश्चिन्तयेद्ब्रह्म परमानन्दनिर्भरः । ब्रह्मचिन्तापरामोदी³ भोगेषु विगतस्पृहः ॥ ६७ ॥ एकां भार्यां समादाय योगिनीं सहचारिणीम् । असाध्यं साधयेद्योगी योगिन्येव सहायिनी ॥ ६८ ॥ यथा त्वं मयका नाथ पार्वत्या परमेश्वर । मोहयित्वा पुनर्देवी शंकरं प्राह पार्वती ॥ ६६ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शिवश- क्तिमयज्ञान-कुलयागवर्णनं नाम चत्वारिंशः पटलः ॥ ४० ॥ १ 'न आ' क. पाठः । २ 'दु' ख पाठः । ३ 'दभो' क पाठ ।
एकचत्वारिंशः पटलः । —=-: ֍ :-=— अतुलैकरसानन्दं कैवल्यायतनं शिवम् । नत्वा शिष्येव सानन्दा तमुवाच परा शिवा ॥ १ ॥ पार्वत्युवाच प्रसीद परमानन्दमय संशान्तविग्रहे¹ । यद्यदेव परं तत्त्वं तत्त्वतो विदितं मया ॥ २ ॥ त्वया देव समाख्याताः सर्वे मन्त्राः क्रियाः पराः । योगाः समाधयो ज्ञानं तथा चान्ये मदीप्सिताः ॥ ३ ॥ तेषां हि कारणं तत्त्वं यदीश परतः परम् । वक्तुमर्हसि तत्त्वेन शांभवं चाप्यनुत्तरम् ॥ ४ ॥ वाच्यस्वरूपठ्याप्तित्वं ज्ञातुमिच्छामि तत्त्वतः । प्रकाशो विमर्शाधीन इति.सत्यं यदि प्रभो ॥ ५ ॥ ममाधीनस्त्वमेवाँसि³ यथोक्तं वद् शंकर । शंभुरुवाच अतिगुह्यतमं सूक्ष्ममवाङ्मनसगोचरम् ॥ ६ ॥ मया यत्नेन गुप्तं तन्न तत्कस्यापि कथ्यते । अहमेव त्वमप्यँस्मि³ खलूक्तेति च मे मतिः ॥ ७ ॥
१ 'सशक्तिविग्रह ' क पाठ.। २ 'व स्यात्' क पाठ । ३ 'प्यस्य' क. पाठ ।
३४८ गन्धर्वतन्त्रे । त्वमप्येवं स्मरस्यस्मात् त्वयापि विदितं प्रिये । सच्चित्संयोगसंसिद्धिस्त्वद्द्दश्या मम सा यतः ॥ ८ ॥ तदेव चोत्तरं प्राहुः सत्यं सत्यं मयोदितम् । तदेव चित्सदाद्यन्तावैक्येन संस्थितं यदा ॥ ९ ॥ तदा शांभवमित्याहुर्मुनयस्तत्त्ववित्तमाः । तदेवाहमितींभावपूर्णानन्दो यदा भवेत् ॥ १० ॥ तदैव शंभुभावः स्यादुक्तमेतत्पदत्रयम् । शक्रोस्त्रिशूली सर्गोऽन्तं तैरेवालंकृता यदि ॥ ११ ॥ सैव हि श्रीपरेत्युच्चैर्मुनिभिः परिकीर्त्तिता । प्रकाशानन्दसंदोहकैवल्यमहमोश्रया ॥ १२ ॥ मत्परत्वान्महासिद्धयै सा परेति च कथ्यते । ये मन्त्राः परमेशानि तेनादावपि संयुताः ॥ १३ ॥ ते जीवन्ति च मन्त्रेभ्यो ह्यन्योन्यमिति मे मतिः । सप्तषष्टिप्रकृत्यर्णा जगत्सृष्ट्यादिकर्तृकाः ॥ १४ ॥ एतेषां जीवभूतत्वादनुत्तरमिदं जगत् । पार्वत्युवाच सकला निष्कलाश्चैव मुक्तिमार्गप्रबोधकाः ॥ १५ ॥ मन्त्रास्तु बहवः सन्ति वद तेषामनुत्तरम् । शंभुरुवाच केषांचिदस्मदुक्तानामेतेऽप्यनर्थदर्शर्णा (?) ॥ १६ ॥ आवयोर्देवदेवेशि मनूनां कारणं मनोः । सर्वेषामेव मन्त्राणां प्राप्यावावां महेश्वरि ॥१७ ॥ आवयोरपि तत्प्राप्यमनुत्तरमिति स्मृतम् । अप्येतदक्षरावृत्तेर्गम्यागम्यतया स्थितम् ॥ १८ ॥ १ 'द्धिमम वश्या मवसायत ' क. पाठः । २ 'ऋत्रि' क. पाठः । ३ 'दा' क पाठ. ।
एकचत्वारिंशः पटलः । ३४६ अगम्यकारणत्वाच्च गम्यावावांमिति प्रिये । इदन्तयाऽहन्तया वा सर्वेषामन्तरात्मनि ॥ १९ ॥ प्रतीयमानस्त्वर्थो यस्तदेव शिवनिर्णयम् । पूर्णाहन्तास्वभावेन कृत्रिमाहन्तया विना ॥ २० ॥ बहिरन्तोरिदं विश्वं यः पश्यति स·पश्यति । अहन्तायां महादेवि त्वमेव प्राणिनां प्रिया ॥ २१ ॥ अज्ञानामपि चात्मा त्वं सर्वे तेऽनुत्तरप्रियाः । पार्वत्युवाच त्वया पूर्वोपदिष्टं यत्तत्त्वं श्रीमत्परामयम् ॥ २२ ॥ तदेव निर्वाणपदमिति प्रोक्तं तया मया । इदानीमतिगुह्यानां तदेवार्थमनुत्तरम् ॥ २३ ॥ प्रशंससे परानन्दविमर्शाविष्टविग्रह । एतस्मिन्नेव कैवल्ये चेतःश्लेषो न मे विभो ॥ २४ ॥ शभुरुवाच सत्यमेव त्वयाख्यातमुभयं तव सुन्दरि । परया त्वपि तत्प्राप्यं पूर्वोदितमनुत्तमम् ॥ २५ ॥ यत् संमतं तथाप्येतत् तयोरप्यन्तरं महत् । परा तु सप्तविंशत्या अन्तर्वाह्यक्रियागणैः ॥ २६ ॥ पूज्या चास्त्मकलांशेति केषांचिद्योगिनीमतम् । मानरूपक्रियोपाधिविहीनत्वान्महेश्वरि ॥ २७ ॥ पराया अपि तत्प्राप्यं पूर्वोदितमनुत्तरम् । पार्वत्युवाच अस्य माहात्म्यमेवोक्तं त्वया मे बहुधा विभो ॥ २८ ॥ १ 'वा मूत्ति' क पाठ । २ 'द' क पाठ. । ३ 'स्मान' क. पाठं । ४ 'द्या' क पाठ । ५ 'ष' क पाठ. ।
३५० गन्धर्वतन्त्रे । उपायेनामुना पश्ये¹ येद्युक्तं नैव जातुचित् । यदिष्टं सर्वमाख्यातं यदप्युक्तमनुत्तरम् ॥ १९ ॥ नैव शक्नोमि निर्णेतुं तत्त्वतः कथयस्व मे । शंभुरुवाच अत्यन्ताभावतो भेदादावयोः परमार्थतः ॥ ३० ॥ इदमीदृशमित्युक्तं पुरेवाहमुपाँधितः² । संप्राप्ता स्वर³देवता नैव कार्या विचारणा ॥ ३१ ॥ यद्यन्यभावस्थैर्येण प्राप्तव्यं गुणकार्यतः । तर्हि भूयोऽपि वक्ष्यामि मयोक्तार्थस्य निर्णयम् ॥ ३२ ॥ मनोवाग्विषयातीतं पूर्वोक्तं यदनुत्तरम् । तन्त्रिधा भेदमायाति बिन्दुनादाख्यबीजतः ॥ ३३ ॥ तान्येव सच्चिदानन्दभेदेन वैभै⁴वानि तु । मत्स्वरूपो हि यो⁵ बिन्दुस्तस्मान्नादस्त⁶ भामिनि ॥ ३४ ॥ द्वयोः समरसीभावादुक्तं बीजाख्यमावयोः । ऐक्यज्ञानपथे चैनां देवि शांभववाचके ॥ ३५ ॥ वर्णक्रमेण संभाव्य कुर्यान्मैथुनभावनाम् । एवं क्रमे महेशानि तामनुत्तरतां व्रजेत् ॥ ३६ ॥ वह्निवत् काष्ठसंबद्धे समुन्नद्धो⁷ऽवनिं तरेत्⁸ । व्यै⁹ञ्जने मथनोद्भूते तां तु शक्तिपदामिकाम् ॥ ३७ ॥ व्रतहोमेन संभाव्यं¹⁰ स्वभावं स्वयमाचरेत् । प्रकाशान्तै¹¹र्विमर्शान्तस्तस्मादेवाप्रकाशकम् ॥ ३८ ॥ १ 'श्ये युक्तं नैव तु' क पाठ । २ 'दितम्' क पाठ । ३ 'वि' क पाठ । ४ 'यद्' क पाठ. । ५ 'विनि क पाठ । ६ 'साभाव मुख बीजा' क पाठ । ७ 'मथ' क पाठ । ८ 'र' क. पाठ. । ९ 'वार्ज्जने' क पाठ । १० 'ध्ये' क पाठ । ११ 'न्त' क पाठ ।
एकचत्वारिंशः पटलः । ३५१ उत्तरोत्तरमेकैकं नयामि तत् क्रमोत्क्रमात् । संकोचः सविकासश्च स्वरूपौ सूर्यसंगतौ ॥ ३९ ॥ तत्तु यागतया स्यातां प्रकाशानन्दमन्दिरौ । सच्चिन्मयौ क्रियासारावधूतात्मकियापरौ ॥ ४० ॥ एतयोरावयोर्यत्तत्कारणं स्यादनुत्तरम् । हृद्यानलेभार्यान्तं¹ शिवदण्डीविलं² फलम् ॥ ४१ ॥ अन्तः प्रतीयमानं तदमेयं सर्वतोमुखम् । आदिमध्यान्तनिर्मुक्तं निस्तरङ्गाब्धिसंनिभम् ॥ ४२ ॥ सन्मात्रं चैव चिन्मात्रं तयोरैक्यरसावृतम् । तमःप्रकाशहीनं यदणोर्बहुतरं परम् ॥ ४३ ॥ महतां च महत्त्वाच्च ब्रह्मसंज्ञमनुत्तरम् । तदेवावाहितेन त्वं स्वान्तेन परिभावय ॥ ४४ ॥ अनेन भाववानाशु मन्त्रस्तन्मयतां व्रजेत् । यदा तन्मयसिद्ध्यादि विश्वं त्वयि विभावयेत् ॥ ४५ ॥ तेन विश्रान्तभावेन तदै³क्यानन्दमाप्स्यति⁵ । आकाशे निर्मले यद्यै⁴त्ससहसा घनसंकुलम् ॥ ४६ ॥ उत्पत्य लीयते तद्वज्जगदात्मन्यनुत्तरे । इत्येवं प्रत्यभिज्ञानसिद्धिः स्यात्तव सुव्रते ॥ ४७ ॥ स्वसंवेद्यं सुखं पश्चान्नैव शक्नोमि वेदितुम् । परा त्वं परमार्द्धिः स्यान्नत्वस्य विहितं यतः ॥ ४८ ॥ इतः परं न जानामि त्वयाहं बहुधा शपे । एतच्छ्रुत्वा महादेव्या ह्येतदर्थविमर्शनम्⁶ ॥ ४९ ॥ १ 'नभार्यान्ता' क पाठ । २ 'लम्बितम्' ख पाठ । ३ 'दैका' क पाठ. । ४ 'थ' क-पाठ । ५ 'द्ध' ख पाठ । ६ 'र्पणम्' क पाठ ।
३५२ गन्धर्वतन्त्रे । प्रकाशितं तदेवाशु विस्मयाविष्टचेतसा । महदाश्चर्यमेतन्मे सम्पूर्णोऽयं यदास्थितः ॥ ५० ॥ इति संचिन्त्य देवस्य पादमाश्लिष्य सुन्दरी । त(व?दा)चान्योन्यमथनात्सान्द्रानन्दाभिनन्दिता ॥ ५१ ॥ यत्प्रकाशात्मकं सर्वं तत्त्वं केवलतां गतम् । विमर्शावनि²संप्राप्तमित्येषा तात्त्विकी स्थितिः ॥ ५२ ॥ अवधानैकभावानां मतिः सा साच्चिरूपिणी । तत्प्रमाणैः वरार्कैः³ किं तैश्चिदेवाप्रमाणका ॥ ५३ ॥ नहि वैकर्तनं ज्योतिर्दीपालोकमपेक्षते । आदर्शे विमलाभोगे यथा सर्वं प्रकाशते ॥ ५४ ॥ इत्थं चिदात्मकं विश्वं षट्त्रिंशत्तत्त्वभेदनम् । आदौ शुद्धात्मकं तत्त्वं पञ्चधा तमसः परम् ॥ ५५ ॥ शिवः शक्तिश्च सादाख्य ईशो विद्येति भिद्यते । हृक्षादिशान्तवर्णात्मा निरमायि यदा शिवे ॥ ५६ ॥ कलाविद्या रागकालौ नियतिर्वर्म⁴ उच्यते । मायापूर्वो वकारादियकारान्ताक्षरात्मकम् ॥ ५७ ॥ प्रधानं⁵ पुंमनो बुद्धिरहंकृन्मादिपञ्चकम्⁶ । श्रोत्रादिपञ्चकं ताँदि⁷ टादि वार्गादिपञ्चकम् ॥ ५८ ॥ तन्मात्रपञ्चकं चाँदि⁸ भूम्यादि कादिपञ्चकम् । सिसृक्षोः प्रथमः स्पन्दः शिवतत्त्वं प्रभोः स्मृतम् ॥ ५६ ॥ इच्छैवास्यापरम्लाना शक्तितत्त्वमुदङ्कुशम् । स्वेच्छया सूचितं विश्वमाच्छाद्याहन्तया¹² स्थितः ॥ ६० ॥ १ 'मृश्या' ख पाठः । २ 'र्षमवनि पा' क पाठः । ३ 'कैस्तैश्चिर्देवा' प्रमाणकः' के पाठः । ४ 'र्वन्ध' ख पाठ । ५ 'प्रमाणं च मनो' क पाठ. । ६ 'हहृ' क पाठ. । ७ 'लादिवादि' क पाठ । ८ 'मादि ज्ञादि' क पाठ. । ९ 'स्य' क पाठ' । १० 'त्त्वं मद' क पाठ । ११ 'त्व' क पाठ । १२ 'श्च मन्' क पाठध
स एव तत्त्वं सादाख्यं सर्वानुग्रहणोन्मुखम् । स एवैश्र्वरतत्त्वं स्यात् पश्यन् विश्र्वमिदन्तया ॥ ६१ ॥ अहन्तेदन्तयोरैक्यं सा विद्येति निगद्यते । स्वाङ्गभूतेषु भावेषु मायांतत्त्वं विभेदधीः ॥ ६२ ॥ मायागृहीतसंकोचः शिवः पुंस्तत्त्वमुच्यते । अयमेव हि संसारी जीवो भोक्तेति दृश्यते ॥ ६३ ॥ ज्ञत्वंकर्तृत्वपूर्णत्वमित्यंस्वायाश्च शक्तयः । तत्संकोचात्संकुचिताः कलाविद्यादिनाँ स्थिताः ॥ ६४ ॥ मायात्मनः कला नाम किंचित्कर्तृत्वलक्षणम् । विद्या किंचिज्ज्ञताहेतू रागोऽभिष्वङ्गकारणम् ॥ ६५ ॥ कालः परिच्छेदको वा नियतिश्चेदमेव मे । कर्तव्यं नान्यदित्येषा व्यवस्थायन्त्रणाकृतिः ॥ ६६ ॥ प्रकृतिर्गुणसाम्यं स्यादहंकारादिजन्मभूः । अह॑ममेदमित्येतद्बुद्धिहेतुरहंकृतिः ॥ ६७ ॥ बुद्धिरध्यवसायस्य कारणं निश्चयात्मनः । संकल्पस्य विकल्पस्य बीजं मन उदीर्यते ॥ ६८ ॥ वचनादेश्च शब्दादेर्वागादि श्रवणादिकम् । करणं श्रवणादीनां ग्राह्यं तन्मात्रपञ्चकम् ॥ ६९ ॥ आकाशाद्यवकाशादिकारणं भूतपञ्चकम् । परापराशक्तिमये शुद्धे विद्यादिपञ्चकम् ॥ ७० ॥ १ 'हमेद' क पाठः । २ 'क्यम' क पाठ' । ३ 'त्वविभेदिनी' क. पाठः । ४ 'ज्ञता' क पाठ. । ५ 'च्छु' क पाठः । ६ 'द्यात्मनया स्थिता' कं पाठः । ७ 'भियोग' क पाठ । ८ 'अहिंसा मदमि' क पाठ । ९ 'र्नियतात्मनं' क. पाठं. । १० 'द्यवसानादि' क. पाठः ।
३५४ गन्धर्वतन्त्रे । तदन्यद्वपराशक्तिर्विद्योतत्तत्त्वमुदीरितम् । अर्थे देवी पराशक्तिः शुद्धाशुद्धाध्वैस्वरूपिणी ॥ ७१ ॥ पृथिव्यादीनि तत्त्वानि यँदा लीनानि कारणे । तदा कारणमात्राणि शक्तिरुद्गमँते बहिः ॥ ७२ ॥ अनुत्तरेच्छे उन्मेष आनन्देशनमूनता । क्रियेच्छाज्ञानशक्तीनां स्वराणां मूलता च षट् ॥ ७३ ॥ इच्छेशानां ततो रूढा स्फुटास्फुटजगन्मयी । चत्वारः षण्डवर्णाः स्युः शुद्धात्मानः प्रचोदिताः ॥ ७४ ॥ अनुत्तरानन्दशक्ती इच्छाशक्तौ नियोजिते । त्रिकोणमथ षट्कोणमिच्छायां रूढिमा गते ॥ ७५ ॥ अनुत्तरानन्दशक्ती त्रिकोणद्वययोगतः । तथैवोन्मेषयोगेन क्रियाशक्तेः स्फुटं वपुः ॥ ७६ ॥ उक्तत्रिशक्तिसंघातात् त्रिशूलं द्वैतघस्सरम् । परस्पराविरोधेन कार्येषु प्रविरोहति ॥ ७७ ॥ न कथंचिदुपाधेयमासां रूपमिदं भवेत् । बिन्दुर्वेद्यस्य संस्कारो विमर्शैः सर्ग इत्यसौ ॥ ७८ ॥ कलाषोडशकाकारा शक्तिर्बीजायते परा । तिथयः प्रतिपत्पूर्वाः पञ्चदश्यन्तिमा यथा ॥ ७६ ॥ सूर्याचन्द्रमसौ स्वान्तश्चरन्तौ स्थितिहेतवे । तथा विमर्शवपुषः सर्गस्याद्याः कलाः स्मृताः ॥ ८० ॥ द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता । नित्यप्रवृत्तशृङ्गाटवपुर्विश्वस्य जन्मभूः ॥ ८१ ॥ १ 'रिति' ख पाठ । २ इयं' ख पाठ । ३ 'द्धैरिणी' क पाठ । 'गर्भिणी' ख पाठ । ४ 'स' क पाठ । ५ 'द्र' क पाठ । ६ 'परतो वर्णा षण्डा' ख पाठ । ७ 'ष' क पाठ । ८ 'के' क पाठ । ९ 'मुदीप्तवपुर्विश्वस्य चैव' क. पाठ ।
हृदयं बीजमेतस्याः संविदो यत्परं महः । वटबीजे यथा वृक्षस्तद्वत् संनिहितं जगत् ॥ ८२ ॥ विचार्यमाणो यो नैव कारणादतिरिच्यते । मृदादेः कलशादीनां तत्त्वं नान्यन्निरूपणे ॥ ८३ ॥ इत्याहुस्तत्त्ववादिन्यः श्रुतीनामन्तिमा गिरः । इदं सर्वं सदेवासीदग्र इति विनिश्चयात् ॥ ८४ ॥ सत्तावाचिनि बीजेऽस्मिन् क्ष्मादिमायान्तिमं जगत् । विलुप्तप्रत्ययाकारमेतत् स परिशिष्यते ॥ ८५ ॥ ततो ज्ञानक्रियासारा विद्येश्वरसदाशिवाः । शक्तौ त्रिशूले लीयन्ते चतुर्दशकलात्मनि ॥ ८६ ॥ ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनमतः परम् । इत्थं परस्यां संवित्तौ साँ विसर्गचितिः क्रमात् ॥ ८७ ॥ अथ वाञ्जनसातीते यत्र क्वापि निरञ्जने । षट्त्रिंशत्तत्त्वलहरीकलहातीतगोचरे ॥ ८८ ॥ विश्वात्मनि महामन्त्रे स्वभावे सा विलीयते । कुतश्चिन्मथिते धाम्नि दीप्ते केनापि हेतुना ॥ ८९ ॥ सर्वं हविरिदं जुह्वन्न दारिद्र्येण पीड्यते । पञ्चपञ्चात्मकं देवि पञ्चस्पन्दविजृम्भितम् ॥ ६० ॥ संकोचयन् परामर्शी सामान्यस्पन्दकेवलम् । अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः । पराक्रमपरो भुङ्क्ते स्वभावमशिवापहम् ॥ ६१ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादेऽनुत्तरज्ञानप्र- क्रियानिरूपणं नामैकचत्वारिंशः पटलः ॥ ४१ ॥ १ 'वेद' क पाठ. । २ 'वाह नासीत्' क वान्यन्नासीत्' ख पाठ. । ३ 'शक्तिशूलिनि' क 'लिन्याम' ख. पाठ. । ४ 'सर्वसंकुचित' क. पाठ. । ५ 'फल' क. पाठः । ६ 'दमप्र' क. पाठः ।