भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

सानुवाद-मिताक्षरावृत्तिसहितानि १८५

योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव यः ।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ इति ।
'सायं प्रातरशनान्यभिपूजयेत्' इति वसिष्ठः । तदकरणमनर्चितमित्यन्ये ॥ २१ ॥

जो अन्न बिना मांगे दिया गया हो वह अभोज्य होता है ॥ २१ ॥

गोश्च क्षीरमनिर्दशायाः सूतके ॥ २२ ॥

सूतकं प्रसवः । प्रसूताया अनतिक्रान्तदशाहायाः गोः क्षीरमभोज्यम् ॥ २२ ॥

जिस गौ को ब्याए हुए दस दिन पूरे न हुए हों उसका दूध पीने योग्य नहीं होता ॥ २२ ॥

अजामहिष्योश्च ॥ २३ ॥

अजामहिष्योः सूतकेऽनिर्दशाहयोः क्षीरमपेयम् ॥ २३ ॥

इसी प्रकार बकरी और भैंस का (दूध) भी ब्याने के दस दिन से पूर्व पेय नहीं होता ॥ २३ ॥

नित्यमाविकमपेयमौष्ट्रमैकशफं च ॥ २४ ॥

नित्यग्रहणान्न केवलमनिर्दशाहमेव । अविरेवाविकः । उष्ट्रः प्रसिद्धः । एकशफा एकखुरा अश्वादयः । अविकादीनां संबन्धि क्षीरं नित्यमपेयम् ।
मनुस्तु—आरण्यानां तु सर्वेषां मृगाणां महिषं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वभु (शु)क्तानि चैव हि ॥ इति ॥ २४ ॥

मेंड़, ऊँटनी और एक खुर वाले (मादा) पशुओं का दूध नित्य ही अपेय होता है ॥ २४ ॥

स्यन्दिनीयमसूसंधिनीनां च ॥ २५ ॥

यस्याः स्तनेभ्यः क्षीरं स्यन्दते सा स्यन्दिनी । यमसूर्युग्मवत्सप्रसूतिका । या गर्भिणी दुग्धे सा संधिनी । एककालदोहनेत्यन्ये । एवंभूतानां गवादीनां क्षीरमपेयम् ॥ २५ ॥

जिसके थन से दूध टपकता हो, जो जुड़वाँ बछड़े देती हो, और जो गर्भिणी होने पर भी दूध देती हो (अथवा एक समय दूध देती हो) ऐसी गायों का दूध अपेय होता है ॥ २५ ॥

१८६ | गौतमधर्मसूत्राणि

विवत्सायाश्च ॥ २६ ॥

वत्सेन वियुक्ता विवत्सा । तस्याश्च गवादेः क्षीरमपेयम् । अत्र प्रकरणे प्रतिषिद्धविकारस्यापि दध्यादेः प्रतिषेधमिच्छन्ति । आचारस्त्वनिर्दशायां तथाऽन्यत्रानियतः ॥ २६ ॥

जिस गाय का बछड़ा न हो उसका भी दूध अपेय होता है ॥ २६ ॥

इदानीं स्वरूपत एवाभक्ष्यानाह—

पञ्चनखाश्चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः ॥ २७ ॥

अभक्ष्या इत्युत्तरत्र वक्ष्यति । येषां पाणिपादेषु पञ्चोक्षा नखास्ते पञ्चनखा वानरादयोऽभक्ष्याः । शल्यादीन्वंर्जयित्वा । शल्यको वराहविशेषो यस्य नाराचाकाराणि लोमानि । शशः प्रसिद्धः । श्वावित्कल्पको यस्य चर्मणा तनुत्राणं क्रियते । गोधा कृकलासाकृतिर्महाकायः । खड्गो मृगविशेषः । शृङ्गमृत्युः । कच्छपः प्रसिद्धः । अत्र पठन्ति—

अभक्ष्याणां तु यन्मूत्रं तदुच्छिष्टं तथैव च ।
अभोज्यमिति निर्दिष्टं विष्ठा चैव प्रयत्नतः । इति ॥ २७ ॥

शल्यक ( विशेष प्रकार का सूअर ), खरगोश, श्वावित्, गोह, खड्ग, और कच्छप को छोड़कर पाँच नखवाले ( वानर इत्यादि ) पशु अभक्ष्य होते हैं ॥ २७ ॥

उभयतोदत्केश्यलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः ॥ २८ ॥

उभयतोदन्ता अश्वादयः । दद्भाव आर्षः । केशिनः केशातिशययुक्ताश्चमर्यादयः । अलोमानः सर्पादयः । एकशफा एकखुराः । अनुभयतोदन्तार्थमिदम् । कलविङ्को ग्रामचटकः । प्लवः शकटबिलाख्यः पक्षी । हंसचक्रवाकौ प्रसिद्धौ । एते चाभक्ष्याः ॥ २८ ॥

जिसके मुख में ऊपर-नीचे दोनों ही जबड़ों में दाँत हों ( अश्व आदि ), अत्यन्त केश वाले ( चमरी आदि ), जिनके शरीर पर केश नहीं होते ( सर्प आदि ), एक खुरवाले पशु, ग्रामचटक, शकटविल और हंस, चक्रवाक पक्षी—ये अभक्ष्य होते हैं ॥ २८ ॥

काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डा ग्राम्यकुक्कुटसूकराः ॥ २९ ॥

काकादयः प्रसिद्धाः । जलजा अपि पक्षिण एव काकादिसंनिधानात् । तेषां विशेषणं रक्तपादतुण्डा इति । ग्रामे भवो ग्राम्यः । उत्तरयोश्चैतद्विशेषणं ग्राम्यकुक्कुटो ग्राम्यसूकर इति । आरण्ययोरप्रतिषेधः ॥ २९ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १८७

कौआ, कंक, गृध्र और श्येन, जल में रहने वाले, लाल पैरों एवं लाल चोंच वाले पक्षी तथा पालतू कुक्कुट एवं सूकर अभक्ष्य होते हैं ॥ २९ ॥

धेन्वनडुहौ च ॥ ३० ॥

धेनुः पयस्विनो गौः । अनड्वाननोवहनयोग्यो बलीवर्दः । द्वंद्वेऽ- चतुरेतियादिसमासान्तनिपातनाद्धेन्वनड्वाहाविति[ न ] प्राप्नो[ ती ]ति तदनादृतम् । अपपाठो वा । धेन्वनडुहौ चाभक्ष्यौ । आपस्तम्बीये तु गोत्राभ्यां( या )मांसं भक्ष्यमुक्त्वा धेन्वनडुहो( हयो )र्भक्ष्यं मेध्यमान- डुहमिति वाजसनेयकमित्युक्तम् । आनडुहं न केवलं भक्ष्यं किं तर्हि मेध्यमपीत्यर्थः । बह्वृचब्राह्मणेषु श्रूयते—तद्यथैवादो मनुष्यराज आगतेऽ- न्यस्मिन्वाऽर्हत्युक्षाणं वा वेहतं वाऽक्षदन्त इति । तत्रातिथेर्भक्ष्यमन्ये- षामभक्ष्यमिति । वधोऽपि किल तत्रानुज्ञातः 'दाशगोध्नौ संप्रदाने' गौर्यस्मै हन्यते स गोध्नोऽतिथिरिति । एवं किल पूर्वमाचारः । इदानीं गन्धोऽपि ( ? ) ॥ ३० ॥

गौ और बैल अभक्ष्य होते हैं ॥ ३० ॥

अपन्नदन्नवसन्नवृथामांसानि ॥ ३१ ॥

अपन्नदन्नपतितदन्तः । सोऽप्रतिषिद्धोऽपि न भक्ष्यः । 'यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवति' इति बह्वृचब्राह्मणम् । योऽपन्न- दन्मलं तत्पशूनामिति विज्ञायत इत्यापस्तम्बः । अवसन्नो व्याधितः। वृथामांसं वृथान्नेन व्याख्यातम् । पुनः प्रतिषेधस्तु मांसस्य प्रायश्चित्त- गौरवार्थः ॥ ३१ ॥

जिन पशुओं के दूध के दाँत न गिरे हों, जो रोगी हों और जिन्हें किसी धार्मिक प्रयोजन से न मारा गया हो, ऐसे पशुओं का मांस नहीं खाना चाहिए ॥ ३१ ॥

किसलयक्याकु( किम्पाक )लशुननिर्यासाः ॥ ३२ ॥

किसलयः पल्लवोऽग्रप्ररोहः । क्याकु( किम्पाक )श्छत्राकः । लशुनं प्रसिद्धम् । निर्यासो वृक्षत्वग्भूतो घनीभूतो रसो हिङ्ग्वादिः । किसलया- दयोऽप्यभक्ष्याः ॥ ३२ ॥

पल्लव, छत्राक ( कुकुरमुत्ता ), लहसुन और वृक्ष की छाल से बाहर निकला हुआ ( हींग आदि ) पदार्थ अभक्ष्य होते हैं ॥ ३२ ॥

लोहिता व्रश्चनाः ॥ ३३ ॥

वृक्षादिषु वृक्णप्रदेशे भवा व्रश्चना निर्यासास्ते लोहिताश्चेन्न भक्ष्याः ।

१८८ गौतमधर्मसूत्राणि

स्वयं सूना निर्यासा लोहिता अलोहिताश्चाभक्ष्याः । व्रश्चनप्रभवास्तु लोहिता एव । मनुस्तु—लोहितान्वृक्षनिर्यासान्ब्रश्चनप्रभवांस्तथा । इति ।

केचित्तु लोहितशब्दं किसलयादिष्वपि पठन्ति । हिङ्गुस्तु निर्यासो व्रश्चनप्रभवो न वेति चिन्त्यम् । सर्वथा शिष्टा अपि भक्षयन्ति । कर्पूरस्तु न निर्यासो न व्रश्चनप्रभवो न लोहितस्तस्माद् भक्ष्य एव ॥३३॥

वृक्षादि के कटे हुए स्थान से निकले हुए लाल रंग के पदार्थ का भक्षण नहीं करना चाहिए ॥ ३३ ॥

निचुदारुबकबलाकाशुकमद्गुटिट्टिभमास्थालनक्तंचरा अभक्ष्याः ॥ ३४ ॥

निचुदारुर्दार्याघाटः । मद्गुर्जलवायसः । मास्थालो वाग्वदः । नक्तंचरा उलूकादयः । अन्ये प्रसिद्धाः । अभक्ष्या इति पञ्चनखा इत्यारभ्य संबध्यते ॥ ३४ ॥

कठफोड़वा, बलाका, सारस, तोता, पनकौआ, टिटिहरी, वल्गुल तथा रात्रि में उड़ने वाले (उल्लू आदि) पक्षी अभक्ष्य होते हैं ॥ ३४ ॥

भक्ष्याः प्रतुदविष्किरजालपादाः ॥ ३५ ॥

तुण्डेन प्रतुद्य प्रतुद्य ये भक्षयन्ति ते प्रतुदाः । ये पादाभ्यां विकीर्य भक्षयन्ति मयूरादयस्ते विष्किराः । जालाकारौ पादौ येषां ते जालपादाः । एते भक्ष्याः । यद्यप्यभक्ष्येयूक्तेष्वन्ये भक्ष्या इति गम्यते तथाऽपि भक्ष्या इत्युपादानमनुक्तानामापद्येव भक्षणं [ यथा ] स्यादनापदि मा भूदिति ॥ ३५ ॥

चोंच से तोड़-तोड़ कर खाने वाले, पैरों से तोड़कर खानेवाले पक्षी (मयूर आदि) तथा जालीदार पैरों वाले पक्षी भक्ष्य होते हैं ॥ ३५ ॥

मत्स्याश्चाविकृताः ॥ ३६ ॥

विकृता मनुष्यशिरस्कादयस्तद्विपरीता अविकृता भक्ष्या इति ॥ ३६ ॥

जो मछलियां विकृत स्वरूप वाली नहीं होती है, वे भक्ष्य होती हैं ॥ ३६ ॥

वध्याश्च धर्मार्थे ॥ ३७ ॥

ये भक्ष्या उक्तास्ते न केवलं स्वयं मृता अन्यहता वा भक्ष्या अपि तु वध्याश्च । धर्मार्थेऽतिथिपूजादौ । अपरश्चाऽह-ये धर्मार्थे यज्ञादौ वध्या ह...तिषा अपि भक्ष्या अनुत्विजामपीति । धर्मार्थे इति वचनादवकीर्णिपशोर्मासमभक्ष्यम् । तस्य प्रायश्चित्तार्थत्वात् ॥ ३७ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १८९

जिन पशुओं को भक्ष्य बताया गया है (वे न केवल मरने पर, दूसरों द्वारा मारे जाने पर भक्ष्य होते हैं अपितु) वे धर्म के लिए (अतिथि-सत्कार आदि में) मारे भी जा सकते हैं॥ ३७॥

व्यालहतादृष्टदोषवाक्प्रशस्तानभ्युक्ष्योपयुञ्जीतोपयुञ्जीत ॥३८॥

अतिथीनप्याशयेद्भक्षयेच्च । न तु श्वादेरुच्छिष्टमिति वर्जयेत् । मनुरप्याह–श्वा मृगग्रहणे शुचिरिति । द्विरुक्तिरुक्ता । अत्र मनुः—

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफलम् ॥ इति ।

अप्रतिषिद्धेष्वपि भक्ष्यान्निवृत्तिरेव ज्यायसीत्यर्थः ॥ ३८ ॥

किसी शिकार करने वाले पशु द्वारा मारे गये पशु-पक्षी को, यदि उसमें कोई दोष न हो और ब्राह्मण के वचन के अनुसार वह भोज्य हो तो उसे धोकर खाया जा सकता है ॥ ३८ ॥

इति श्रीगौतमयोवृत्तौ हरदत्तविरचितायां मिताक्षरायां द्वितीयप्रश्नेऽष्टमोऽध्यायः ॥ ८ ॥

अथ नवमोऽध्यायः

अथ स्त्रीधर्मानाह—

अस्वतन्त्रा धर्मे स्त्री ॥ १ ॥

श्रौते गार्ह्ये च धर्मे स्त्री भर्तुरेवानुष्ठानमनुप्रविशति । व्रतोपवासादिभिरपि स्मार्तैः पौराणैश्च धर्मैर्नान्तरेण भर्तुरनुज्ञां स्वातन्त्र्येणाधिक्रियते । आह शङ्खः—न च व्रतोपवासैर्नियमैर्व्यादानधर्मो वाऽनुग्रहकरणं स्त्रीणामन्यत्र पतिशुश्रूषायाः। कर्म तु भर्तुरनुज्ञया व्रतोपवासनियमादीनामभ्यासः स्त्रीधर्म इति । नारदोऽप्याह—

स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि ।
विशेषतो गृहक्षेत्रदानाध्ययनविक्रयात् ॥
एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते ॥ इति ।

मनुस्तु—

बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ।
पुत्रस्य स्थविराभावे न स्त्री स्वातन्त्र्यमर्हति ॥
बालया वा युवत्या वा वृद्धया वाऽपि योषिता ।
न स्वातन्त्र्येण कर्तव्यं कार्यं किंचिद् गृहेष्वपि । इति ॥ १॥

( श्रौत और गार्ह्य ) धर्म में स्त्री अस्वतन्त्र होती है अर्थात् पति के ही धर्मानुष्ठान का अनुसरण करती है ॥ १ ॥


नातिचरेद्भर्तारम् ॥ २ ॥

भर्तारं नातिक्रामेद्भर्तुरन्यं मनसाऽपि न चिन्तयेत् ॥ २ ॥

स्त्री अपने पति के अतिरिक्त किसी अन्य का ( मन से भी ) चिन्तन न करे ॥ २ ॥


वाक्चक्षुःकर्मसंयता ॥ ३ ॥

यावदर्थसंभाषिणी वाक्संयता । प्रेक्षकादीनामप्रेक्षिणी चक्षुःसंयता स्वकुटुम्बार्थकर्मव्यतिरिक्तानां कर्मणामकर्त्री कर्मसंयता । एवंभूता स्यात् ॥ ३ ॥

वाणी, दृष्टि और कर्म का संयम रखे अर्थात् जितने से अर्थ निकल जाय उतना ही बोले, देखने वालों की ओर न देखे और अपने कुटुम्ब के लिए ही कर्म करे ॥ ३ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १९१

अथ नातिचरेद्भर्तारमित्यस्यापवादः—

अपतिरपत्यलिप्सुर्देवरात् ॥ ४ ॥

अनपत्याया यस्याः पतिमृतः साऽपत्यं लिप्समाना सती देवराल्लिप्सेत । पत्युर्ध्राता देवरः कनिष्ठ इत्युपदेशः ॥ ४ ॥

( सन्तानोत्पत्ति के पूर्व ही ) पति की मृत्यु होने पर देवर से सन्तान-प्राप्ति की इच्छा करे ॥ ४ ॥

तत्र प्रकारः—

गुरुप्रसूता नर्तुमतीयात् ॥ ५ ॥

गुरुभिः पतिपक्षैः पितृपक्षैर्वा नियुक्ता सती संयुज्येत । तत्रापि नर्तुमती-यावदृतुकालं नातिक्रामेत् । तत्रापि प्रथमे गमने गर्भसंभवः । श्रूयते हि तलवकाराणां ब्राह्मणे—‘यद्वा प्रथमेऽहनि रेतः सिच्यते स गर्भः संभवत्यथ यत्र तत्सिच्यते मुधैव तत्परासिच्यते’ इति । ततश्चर्तावपि सकृदेव गमनम् । अत्रौशनसो विशेषः—नियुक्ता सर्वाङ्गं घृताभ्यक्तम् । तेन सर्वाङ्गमात्मानमभ्यज्य गच्छेदिति ॥ ५ ॥

( पतिपक्ष या पितृपक्ष के ) श्रेष्ठ जनों की आज्ञा से ही देवर से सम्बन्ध करे और ऋतुकाल का अतिक्रमण न करे ॥ ५ ॥

देवराभावे क्रमेण गमनीयानाह—

पिण्डगोत्रर्षिसंबन्धेभ्यो योनिमात्राद्वा ॥ ६ ॥

पिण्डसंबन्धः सपिण्डः । गोत्रसंबन्धः सगोत्रः । ऋषिसंबन्धः समानप्रवरा हरितकुत्सादयः । एतेभ्यः क्रमेणापत्यं लिप्सेत । योनिमात्राद्वा । अत्र स्मृत्यन्तरम् । सर्वाभावे योनिमात्राद् ब्राह्मणजातिमात्रादिति ॥ ६ ॥

एक पिण्ड के, एक गोत्र के या एक प्रवर के पुरुष से अथवा इन सबके संभव न होने पर अपनी जाति के पुरुष से ( सन्तान की इच्छा करे ) ॥ ६ ॥

नादेवरादित्येके ॥ ७ ॥

एके मन्यन्ते देवरादेव लिप्सेत नादेवरादिति ॥ ७ ॥

कुछ आचार्यों का मत है कि देवर के अतिरिक्त किसी अन्य से सन्तान की इच्छा न करे अर्थात् केवल देवर से ही इच्छा करे ॥ ७ ॥

नातिद्वितीयम् ॥ ८ ॥

प्रथममपत्यमतीत्य द्वितीयं न जनयेदिति ॥ ८ ॥

१०२ | गौतमधर्मसूत्राणि

( उपर्युक्त स्थिति में ) एक सन्तान के बाद दूसरी सन्तान न उत्पन्न करे ॥ ८ ॥

अथैवमुत्पादितमपत्यं क्षेत्रिणो बीजिनो वेति विषये निर्णयमाह—

जनयितुरपत्यम् ॥ ९ ॥

जनयितुस्तदपत्यं भवति न क्षेत्रिणः। आपस्तम्बोऽपि—उत्पादियतुः पुत्र इति हि ब्राह्मणमित्यादि ॥ ९ ॥

इस प्रकार उत्पन्न पुत्र उत्पन्न करने वाले का होता है (क्षेत्री अर्थात् जिसकी पत्नी हो उसका नहीं) ॥ ९ ॥

समयादन्यस्य ॥ १० ॥

यदि ज्ञातयः समयं कृत्वा नियुञ्जते क्षेत्रिणोऽपत्यमस्त्विति यथा विचित्रवीर्यस्य क्षेत्रं सत्यवती तस्यां व्यासेनोत्पादितमपत्यमिति ॥ १० ॥

यदि नियोग के पूर्व ही निश्चय किया गया हो तो उसके अनुसार वह पुत्र क्षेत्री का भी हो सकता है ॥ १० ॥

जीवतश्च क्षेत्रे ॥ ११ ॥

यदा च जीवन्नेव क्षेत्री वन्ध्यो रुग्णो वा प्रार्थयते मम क्षेत्रे पुत्रमुत्पादयेति तदा क्षेत्रिण एवापत्यं न बीजिनः ॥ ११ ॥

क्षेत्री के जीवित रहने पर ( उसके रोगी, या बन्ध्य होने पर उसकी प्रार्थना से नियोग द्वारा पुत्र उत्पन्न किया गया हो तो ) वह क्षेत्री का ही होता है ( पुत्र उत्पन्न करने वाला का नहीं ) ॥ ११ ॥

परस्मात्तस्य ॥ १२ ॥

परस्माद्देवरादिव्यतिरिक्तात्तदनियुक्तायामप्यपत्यवत्यामनपत्यायां वोत्पन्नः पुनस्तस्यैव बीजिनो भवति न क्षेत्रिणः ॥ १२ ॥

किन्तु यदि देवर के अतिरिक्त किसी अन्य द्वारा ( बिना नियुक्त किये हुए भी ) उत्पन्न की गई सन्तान उत्पन्न करने वाले की होती है ( क्षेत्री की नहीं ) ॥ १२ ॥

द्वयोर्वा ॥ १३ ॥

एवमुत्पादितमपत्यं द्वयोर्वा भवति बीजिक्षेत्रिणोः। इदं नियुक्ताविषयम्।
तथा च याज्ञवल्क्यः—अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ॥ १३ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १९३

अथवा इस प्रकार उत्पन्न सन्तान दोनों (क्षेत्री अर्थात् स्त्री के वास्तविक पति और बीजी अर्थात् नियोग द्वारा उत्पन्न करने वाले) की होती है ॥ १३ ॥

रक्षणात्तु भर्तुरेव ॥ १४ ॥

यदि भर्ता क्षेत्र्येव रक्षणं भरणं पोषणं संस्कारादि करोति न बीजी तदा भर्तुरेव तदपत्यमिति । एवं मृते ॥ १४ ॥

यदि पति (क्षेत्री) ही भरण-पोषण और संस्कारादि करता है तो वह सन्तान उसी की होती है (नियोग द्वारा उत्पन्न करने वाले की नहीं) ॥ १४ ॥

श्रूयमाणेऽभिगमनम् ॥ १५ ॥

यदा तु भर्ता श्रूयते तस्मिन्देशे स्थित इति तदा तमभिगच्छेत् ॥ १५ ॥

(पति के कहीं अज्ञात स्थान पर चले जाने पर छः वर्ष तक प्रतीक्षा करे) पति के किसी स्थान पर होने का समाचार जानकर उसके पास जाये ॥ १५ ॥

प्रव्रजिते तु निवृत्तिः प्रसङ्गात् ॥ १६ ॥

यदि तु भर्ता प्रव्रजितो भवति मोक्षाश्रमं प्राप्तो भवति तदा सर्वस्मात्प्रसङ्गान्निवृत्तिः । स्वयमपि निवृत्तिमुखी संयतैव स्यादिति ॥ १६ ॥

यदि पति प्रव्रजित हो गया हो (मोक्षाश्रम में स्थित हो) तो सभी प्रसङ्गों से निवृत्त होकर (स्त्री को) संयम रखना चाहिए ॥ १६ ॥

द्वादश वर्षाणि ब्राह्मणस्य विद्यासम्बन्धे ॥ १७ ॥

विद्याधिगमार्थं प्रोषितस्य ब्राह्मणस्य भार्या द्वादश वर्षाणि क्षपयेत् । नापत्योत्पत्तिर्नाभिगमनम् ॥ १७ ॥

विद्याध्ययन के लिए दूसरे देश को गए हुए ब्राह्मण की पत्नी बारह वर्षों तक उसकी प्रतीक्षा करे ॥ १७ ॥

भ्रातरि चैवं ज्यायसि यवीयान्कन्याग्न्युपयमेषु ॥ १८ ॥

ज्येष्ठे भ्रातर्यकृतदारेऽनाहिताग्नौ च प्रोषिते कनीयान्भ्रातैवं द्वादश वर्षाणि प्रतीक्षेत । ततः कन्यामुपयच्छेदग्नींश्चाऽदधीत । अत्र वासिष्ठो विशेषः—अष्टौ दश द्वादश वर्षाणि ज्येष्ठं भ्रातरमनिदिष्टं न प्रतीक्षमाणः प्रायश्चित्तीयो भवतीति ।

द्वादशैव तु वर्षाणि ज्यायान्धर्मार्थयोग्यतः ।
न्याय्यः प्रतीक्षितुं भ्राता श्रूयमाणः पुनः पुनः ॥ इति च ॥ १८ ॥

(अविवाहित या बिना अग्नि का आधान किये हुए) बड़े भाई के विदेश

१३ गौ०

१९४ गौतमधर्मसूत्राणि

जाने पर छोटे भाई भी बारह वर्ष तक प्रतीक्षा करे, तदुपरान्त कन्या ग्रहण करे (अर्थात् विवाह करे) एवं अग्निहोत्र की अग्नि का आधान करे ॥ १८ ॥

षडित्येके ॥ १९ ॥

एके मन्यन्ते षडेव वर्षाणि प्रतीक्षेतेति। प्रोषिते चात्यन्तवृद्धे स्थिते चात्यन्तधर्मपर इदम् ॥ १९ ॥

कुछ आचार्यों का मत है कि (ऐसी स्त्री) छः वर्षों तक ही प्रतीक्षा करे ॥ १९ ॥

गतं प्रासङ्गिकं पुनरपि स्त्रीधर्मनाह— त्रीन्कुमारी ऋतूनतीत्य स्वयं युज्येतानिन्दितेनोत्सृज्य पित्र्या- नलङ्कारान् ॥ २० ॥

यदि कन्यां पित्रादिर्न दद्यात्ततस्त्रीनृतूनतीत्य स्वयमेवानिन्दितेन कुलविद्याशीलादियुक्तेन भर्त्रा युज्येत पित्र्यान्पितृकुलायातानलंकारानुत्सृज्य। अत्र मनुः— अलङ्कारं नाऽऽददीत पित्र्यं कन्या स्वयंवरा । मातृकं भ्रातृदत्तं वा स्तेयं स्याद्यदि किंचन ॥ इति॥ २० ॥

(यदि पिता आदि कन्या का विवाह न करें तो वह) कन्या तीन ऋतुकाल बीत जाने पर पिता के कुल से प्राप्त अलङ्कारों को त्याग कर स्वयं ही उत्तम (कुल, विद्या और शील से युक्त) वर के पास चली जाय ॥ २० ॥

अत एव— प्रदानं प्रागृतोः ॥ २१ ॥

ऋतुदर्शनात्प्रागेव देया कन्या ॥ २१ ॥

कन्या का विवाह उसके ऋतुकाल (रजोदर्शन) के पहले ही कर देना चाहिए ॥ २१ ॥

अप्रयच्छन्दोषी ॥ २२ ॥

तस्मिन्कालेऽप्रयच्छन्पित्रादिर्दोषवान्भवति । अत्र याज्ञवल्क्यः— पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थां परः परः ॥ अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृत्तौ ॥ इति ॥ ॥ २२ ॥

उक्त समय से कन्या का विवाह न करने वाले (पिता आदि) दोषी होते हैं ॥ २२ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १९५

प्राग्वाससः प्रतिपत्तेरित्येके ॥ २३ ॥

एके मन्यन्ते यदा कन्या वासः प्रतिपद्यतेऽथवा लज्जते तावदेव प्रदेयेति ॥ २३ ॥

कुछ आचार्यों का मत है कि कन्या के वस्त्र पहनने ( अथवा लज्जा करने ) की अवस्था से पूर्व ही उसका दान कर देना चाहिए ॥ २३ ॥

द्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रसंयोगे च शूद्रात् ॥ २४ ॥

द्रव्यमननुज्ञातमपि शूद्राच्चैलादिकमादेयं विवाहसिद्ध्यर्थं यावता विवाहः सिध्यति तावत् । अधिके दोषः । तथा धर्मस्य पशुबन्धादेः प्रवृत्तस्य यत्तन्त्रमङ्गमश्वादि तस्य संयोगेऽविच्छेदसिद्ध्यर्थं यावता तन्निव-( र्व ) र्तते तावदननुज्ञातमप्यादेयं शूद्रात् । अधिके दोषः ॥ २४ ॥

विवाहकार्य सम्पन्न करने लिए और किसी धार्मिक कर्म में लगे होने पर उसके लिए भी शूद्र से ( बलात् भी ) द्रव्य लिया जा सकता है ॥ २४ ॥

अन्यत्रापि शूद्राद् बहुपशोर्हीनकर्मणः ॥ २५ ॥

‘इतराभ्योऽपि दृश्यन्ते’ इति पञ्चम्यास्तल् । शूद्रादन्यतोऽपि द्रव्यमादेयं स चेद् बहुपशुस्तथा हीनकर्मा भवति । तदनुरूपं कर्म न करोति निषिद्धं वा कर्म सेवते शूद्रग्रहणं विधिरयं यथा स्यादिति । तेन शूद्रालाभे वैश्यात् । तदलाभे क्षत्रियात् ॥ २५ ॥

शूद्र के अतिरिक्त किसी ऐसे भी व्यक्ति से उपर्युक्त प्रयोजन के लिए द्रव्य लिया जा सकता है जिसके पास अनेक छोटे पशु हों और जो अपने वर्ण के अनुरूप कर्म न करता हो ॥ २५ ॥

उक्तमेवार्थमुदाहरणेन दर्शयति--

शतगोरनाहिताग्नेः ॥ २६ ॥

गोग्रहणमुपलक्षणम् । यस्तावद्द्रव्यो भवत्यग्नींश्च नाऽऽधत्ते । निषिद्धकर्मसेवी तु दण्डापूपिकया व्याख्यातः ॥ २६ ॥

अथवा सौ गायों वाले किसी ऐसे व्यक्ति से द्रव्य ले सकता है जिसने अग्नियों का आधान न किया हो ॥ २६ ॥

सहस्रगोश्चासोमपात् ॥ २७ ॥

पूर्वेण गतम् । यः सहस्रगुश्च भवति सोमं च न पिबति तस्मादिति ॥ २७ ॥

१९६ | गौतमधर्मसूत्राणि

अथवा सहस्र गायों वाले किसी ऐसे व्यक्ति से जो सोमपान न करता हो (उपर्युक्त प्रयोजन के लिए द्रव्य ले) ॥ २७ ॥

सप्तमीं चाभुक्त्वाऽनिचयाय ॥ २८ ॥

सप्तम्यर्थे द्वितीया। षट्सु वेलासु भोज्यालाभेनाभुक्त्वा सप्तम्यां वेलायां यावता वृत्तिस्तावदनुमतमप्यादेयम्। अनिचयः पुनस्तेन निचयो न कर्तव्यः श्वो भोज्यमपि नाऽऽदेयम्। अत्र मनुः—

तथैव सप्तमे भक्ते भक्तानि षडनश्नता।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणा ॥ इति ॥ २८ ॥

छः वेला भोजन न मिलने पर सातवीं वेला में भोजन मिलने पर उतना ही ग्रहण करे जितने से जीवन-वृत्ति चल सके; भोजन का दूसरे दिन के लिए संचय न करे ॥ २८ ॥


अप्यहीनकर्मभ्यः ॥ २९ ॥

अस्यामवस्थायामहीनकर्मभ्योऽप्यादेयम्। अपिशब्दः कथंचिदस्यानुज्ञातमिति दर्शयति। तेन प्राणसंशय एवेदं भवति ॥ २९ ॥

ऐसी अवस्था में अपने वर्ण के अनुरूप कर्म न करने वालों से भी ग्रहण किया जा सकता है ॥ २९ ॥


आचक्षीत राज्ञा पृष्टः ॥ ३० ॥

यद्यसावेवं कुर्वन्स्वामिभिर्गृहीतो राजसकाशं नीतस्तेन पृष्टः किमित्थमकार्षीरिति तदा स्वामवस्थामाचक्षीत। न तु मिथ्या वदेदिति ॥ ३० ॥

(यदि इस प्रकार कर्म करते हुए पकड़ा जाय और राजा के समीप ले जाया जाय तो) राजा द्वारा पूछे जाने पर अपनी दशा और अपना कर्म सही-सही बतावे ॥ ३० ॥


तेन हि भर्त्तव्यः श्रुतशीलसंपन्नश्चेत् ॥ ३१ ॥

हिञ्चार्थे। तेन च राज्ञा स न केवलमदण्ड्यः किं तर्हि तत आरभ्य भर्त्तव्यस्तवेयमवस्था मया न ज्ञातेति सान्त्वयित्वा। स चेच्छ्रुतवृत्तशीलसंपन्नो भवति। श्रुतं शास्त्रपरिज्ञानम्। शीलं तदनुकूल आचारः। इतरोऽपि न दण्ड्यः। भरणं तु तस्य तादृशं न कार्यम्। दण्डाभावः पूर्वयोरपि निमित्तयोः समानः ॥ ३१ ॥

यदि वह व्यक्ति विद्वान् और सदाचारी हो तो राजा द्वारा उसका पोषण होना चाहिए। (इस अवस्था में दूसरे का द्रव्य ग्रहण करते समय पकड़े गये व्यक्ति दण्ड्य नहीं होते.) ॥ ३१ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १९७

धर्मतन्त्रपीडायां तस्याकरणे दोषो [ ऽकरणे दोषः ] ॥ ३२ ॥

यदि पशुबन्धादौ धर्मे प्रवृत्तस्य तदङ्गं पश्वादि केनचित्पीडितं भवति हतमपहृतं वा तस्मिन्निवेदिते तदैव तस्य प्रतिविधानं कार्यं राज्ञा । अकरणे दोषो भवति । अभ्यासोऽध्यायसमाप्त्यर्थः ॥ ३२ ॥

यदि धर्म नियम में बाधा आती है और राजा अपना कर्तव्य नहीं करता है तो वह पाप करता है ॥ ३२ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां द्वितीयप्रश्ने नवमोऽध्यायः ॥ ९ ॥

अथ तृतीयप्रश्ने प्रथमोऽध्यायः

पञ्चविधो धर्मः—वर्णधर्म आश्रमधर्म उभयधर्मो गुणधर्मो नैमित्तिक-[धर्म] श्चेति । तत्र वर्णप्रयुक्तो धर्मो वर्णधर्म उपनयनं ब्राह्मणस्याष्टम इति । आश्रमप्रयुक्त आश्रमधर्मो ब्रह्मचर्यादेः समिदाधानादिरिति । उभयप्रयुक्त उभयधर्मो ब्राह्मणस्य ब्रह्मचारिणः पालाशो दण्ड इत्यादि । अभिषेकगुणयुक्तस्य प्रजापालनादिर्गुणधर्मः । ब्रह्महत्यादौ निमित्ते कर्तव्यो नैमित्तिको धर्मः प्रायश्चित्तम् । तत्र नैमित्तिकं वक्ष्यन्नुक्तमनुभाषते—

उक्तो वर्णधर्मश्चाऽऽश्रमधर्मश्च ॥ १ ॥

उभयधर्मगुणधर्मयोरप्युपलक्षणमेतत् । यद्यप्यन्यत्रोक्तं नानुभाष्यतेऽननुभाषणेऽपि वक्ष्यमाणं शक्यते वक्तुमिति तथाऽपीहानुभाष्यत आशङ्कानिवृत्त्यर्थम् । अन्यथोपरिष्टाद्दैवकानि पुनःस्तोमादीनि प्रायश्चित्तान्युदाहरिष्यन्ते तानि च शूद्रस्य न संभवन्त्यतस्तद्वदेव प्रायश्चित्तान्तराण्यपि शूद्रस्य न स्युरिति कश्चिदाशङ्केत । अपर आह—य उक्तो धर्मः स एव वर्णिनामाश्रमिणां च धर्मः । वक्ष्यमाणस्तु पुरुषमात्रधर्मः । यदाह—अथ खल्वयं पुरुष इति । किं सिद्धं भवति । प्रतिलोमानामपि प्रायश्चित्तेष्वधिकारः सिद्धो भवति । यद्यपि तेषां भक्ष्याभक्ष्यविवेको नास्ति तथाऽपि गोब्राह्मणादिवधे ब्राह्मणस्वर्णादिहरणे च प्रायश्चित्तं भवत्येव । अकुर्वाणा एव तु प्रायश्चित्तं राज्ञा वध्याः । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादिमनुष्यमात्रधर्मा न वर्णेष्व्वाश्रमेषु वा नियताः । अतस्तदतिक्रमे युक्तमेव प्रायश्चित्तम् । यत्तु पूर्वमुक्तं प्रतिलोमास्तु धर्महीना इति । तदैहिकामुष्मिकश्रेयःसाधनेषु कर्मस्वधिकारनिवृत्तिपरमिति ॥ १ ॥

वर्णों के धर्म एवं ब्रह्मचर्यादि आश्रमों के धर्म की व्याख्या (हमने) कर दी है ॥ १ ॥

प्रायश्चित्तस्य निमित्तान्याह—

अथ खल्वयं पुरुषो याप्येन कर्मणा लिप्यते यथैतदयाज्ययाजनमभक्ष्यभक्षणमवद्यवदनं शिष्टस्याक्रिया प्रतिषिद्धसेवनमिति ॥ २ ॥

अथ खल्विति वाक्यालंकारे । अयं पुरुष इति संघातवर्तिनं प्रत्यगा-

सानुवाद-मिताक्षरावृत्तिसहितानि १९९

त्मानं निर्दिशति। याप्यं कुत्सितम्। याप्येन पापेन कर्मणा लिप्यते। तज्ज- न्येनाधर्मेण लिप्यमाने कर्मणा लिप्यत इति भाक्तो वादः। याप्यस्य कर्मण उदाहरणप्रपञ्चो यथैतदित्यादि। यथेत्युदाहरणे। अयाज्याः पतिताद- यस्तेषां याजनम्। अभक्ष्या लशुनादयस्तेषां भक्षणम्। अवद्यमनृतास- भ्यादि तस्य वदनं कथनम्। शिष्टं विहितं संध्योपासनादि तस्याक्रियाऽक- रणम्। प्रतिषिद्धस्य हिंसादेः सेवनं करणम्। इति समाप्तौ। एतावदेव याप्यं कर्मेति। प्रतिषिद्धसेवनमित्येव सिद्धेरयाज्ययाजनादिग्रहणं याजनाध्यापन- प्रतिग्रहाः सर्वेषामित्यापद्यनुज्ञा तत्रापि प्रायश्चित्तार्थम्। तत्रोशना— आपद्विहितैः कर्मभिरापदं तीर्त्वा पुनस्तेषां प्रायश्चित्तं चतुर्थांशं कुर्यादिति। अभक्ष्यभक्षणग्रहणमप्यापदि व्याध्यादौ लशुनादिभक्षणविषयं च। अव- द्यवदनग्रहणं तु प्राणिनां तु वधो यत्र तत्र साक्ष्यनृतं वदेदित्यादिविषयं च। तथा यत्र ब्राह्मण इति ज्ञाते ताडयेयुरर्थं वा हरेयुस्तत्र तद्ग्रहणार्थम्। असभ्यानृतभाषणेनापि तन्निवार्य पश्चात्तामापदं तीर्त्वा प्रायश्चित्तं चतुर्थांशं चरेदिति ॥ २ ॥

इस संसार में मनुष्य बुरे कर्मों द्वारा पापयुक्त होता है यथा अयोग्य (पतित) व्यक्तियों के लिए यज्ञ करने से, लशुन आदि अभक्ष्य खाने से, असत्य या अश्लील भाषण करने से, विहित (संध्योपासनादि) कर्म न करने से तथा (हिंसा आदि) निषिद्ध कर्म करने से (पापी होता है) ॥ २ ॥

तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते ॥ ३ ॥

तत्र तस्मिन्थाप्यकर्मलोपे प्रायश्चित्तम्—

प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते।
तपोनिश्चयसंयोगात्प्रायश्चित्तमिति स्मृतम् ॥

इत्येतल्लक्षणं कर्तव्यं न कर्तव्यमिति विचारयन्ति ब्रह्मवादिनः ॥ ३ ॥

मीमांसक (ब्रह्मवादी) इस विषय पर तर्क करते हैं कि प्रायश्चित्त करना चाहिए अथवा नहीं करना चाहिए ॥ ३ ॥

तत्र केचित्—

न कुर्यादित्याहुः ॥ ४ ॥

कुछ लोगों का मत है कि प्रायश्चित्त नहीं करना चाहिए ॥ ४ ॥

तत्र हेतुः—

न हि कर्म क्षीयत इति ॥ ५ ॥

हिशब्दो हेतौ। यस्मात्कृतं कर्म पुण्यं पापं च नान्तरेणोपभोगं क्षीयत इति। तथा च शङ्खः—

२०० | गौतमधर्मसूत्राणि

यथा पृथिव्यां बीजानि रत्नानि निधयो यथा ।
एवमात्मनि कर्माणि तिष्ठन्ति प्रसवन्ति च ॥ इति ।

उत्पन्ने तु फले नश्यति यथा बीजमङ्कुरे । प्रायश्चित्तानि तु निमित्ते कर्मान्तराणि । यथा गृहदाहादौ क्षामवत्यादयः ॥ ५ ॥

क्योंकि (पुण्य और पाप) कर्म कम नहीं होते ॥ ५ ॥

कुर्यादित्यपरम् ॥ ६ ॥

कुर्यात्प्रायश्चित्तमित्यपरं दर्शनम् । नास्मात्परमस्तीत्यपरसिद्धान्तः ॥ ६ ॥

अन्य लोगों का मत है कि प्रायश्चित्त करना चाहिए ॥ ६ ॥

तत्र प्रमाणत्वेन श्रुतिवाक्यान्युदाहरति—

पुनःस्तोमेनेष्ट्वा पुनः सवनमायान्तीति विज्ञायते ॥ ७ ॥

अप्रतिग्राह्याद् ब्रह्म प्रतिगृह्य पुनःस्तोमेन यजेतेति श्रूयते । अभक्ष्यभक्षणमवद्यवदनं पुनःस्तोमेन तरतीति च । असत्प्रतिग्रहादिदोषदूषिताः पुनःस्तोमनाम्नैकाहेनेष्ट्वा पुनः सवनमायान्ति । सवनशब्देन कर्मोच्यते । पुनरपि श्रौतानि स्मार्तानि च कर्माण्वायान्त्याप्नुवन्ति । तद्योग्या भवन्ति ॥ ७ ॥

क्योंकि कहा गया है कि जो पुनःस्तोम यज्ञ करता है वह पुनःसवन प्राप्त करता है (अर्थात् श्रौत एवं स्मृतिकर्मों के योग्य होता है) ॥ ७ ॥

व्रात्यस्तोमैश्चेष्ट्वा ॥ ८ ॥

पुनः सवनमायान्तीत्यनुषङ्गः । व्रात्या यथाकालमनुपनीताः । तेषां कर्तव्याः प्रायश्चित्तयागा व्रात्यस्तोमाः । बहुवचननिर्देशाद् बहवस्ते प्रत्येतव्याः ॥ ८ ॥

व्रात्यस्तोम यज्ञ करके भी (पुनः सवन प्राप्त करता है) ॥ ८ ॥

तरति सर्वं पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते ॥ ९ ॥

इति चेति वक्ष्यमाणमपेक्ष्यते । विज्ञायत इत्यनुषङ्गः ॥ ९ ॥

कहा गया है कि जो अश्वमेध यज्ञ करता है वह सभी पापों को पार कर जाता है तथा ब्रह्महत्या के पाप से भी मुक्त हो जाता है ॥ ९ ॥

अग्निष्टुताऽभिशस्यमानं याजयेदिति च ॥ १० ॥

अग्निष्टुन्नाम्नैकाहस्तेनाभिशस्यमानं याजयेत् । अत्र पुनःस्तोमादीनां दोषनिर्घातार्थतया श्रुतत्वादुपभोगेनेव प्रायश्चित्तेनापि पापकं कर्म क्षीयते ।

सानुवाद-मिताक्षरावृत्तिसहितानि २०१.

शङ्खवचनं चाकृतप्रायश्चित्तविषयं पुण्यविषयं च। अथ कस्माद्वचनगम्येऽर्थे विचारः क्रियते। कुर्यान्न कुर्यादिति। न ह्युपनयनादावेवं विचारः कृत इति उच्यते। प्रायश्चित्तस्तुत्यर्थोऽयं विचारः ॥ १० ॥

अग्निष्टुत् (नाम के एकाह) से अभिशंसन करता हुआ यज्ञ करे ऐसा भी कहा गया है ॥ १० ॥

इदानीं येष्वाहृत्य न प्रायश्चित्तं विहितं तेषु प्रायश्चित्तान्युपदिशति—

तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ॥ ११ ॥

तस्य याप्यस्य कर्मणो जपादीनि पञ्च निष्क्रयणानि शोधनानि ॥११॥

पाप कर्म के लिए जप, तप, होम, उपवास और दान शुद्धि के साधन हैं (प्रायश्चित्त हैं) ॥ ११ ॥

तत्र जप इत्युक्तं जपानाह—

उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्यघमर्षणम- थर्वशिरो रुद्राः पुरुषसूक्तं राजतरौहिणे सामनी बृहद्रथन्तरे पुरुष- गतिर्महानाम्न्यो महावैराजं महादिवाकीर्त्यं ज्येष्ठसाम्नामन्यत- मद् बहिष्पवमानं कूष्माण्डानि पावमान्यः सावित्री चेति पावमा- नानि ॥ १२ ॥

उपनिषदो रहस्यब्राह्मणान्याध्यात्मिकानि। तद्व्यतिरिक्ता आरण्यकभागाः वेदान्ताः। सर्वच्छन्दःसु सर्वेषु प्रवचनेषु संहिता संहितापाठो न पदक्रमादिपाठः। मधूनि मधुशब्दयुक्तानि यजूंषि ब्रह्ममेतु मामित्यादीनि। अघमर्षणम् 'ऋतं च सत्यं च' इति सूक्तं षडृक्षमघमर्षणेन ऋषिणा दृष्टम्। अथर्वशिरोऽथर्ववेदे प्रसिद्धम्। देवा ह वै स्वर्गं लोकमगमन्, इत्यादि। रुद्राः 'नमस्ते रुद्र मन्यवे' इत्याद्या अनुवाका एकादश। एकशतं यजुःशाखास्तासु सर्वासु पठ्यन्ते। पुरुषसूक्तं। 'सहस्रशीर्षा' इत्यादि। राजतरौहिणे सामनी 'इन्द्रं नरो नेमधिता हवन्ते' इत्यस्यामृचि गीयेते। 'त्वामिद्धि हवामहे' इत्यस्यां बृहत्। 'अभि त्वा शूर नोनुमः' इत्यत्र रथन्तरम्। 'अहमस्मि प्रथमजा ऋतस्य' इत्यस्यां पुरुषगतिः। महानाम्न्यः 'विदामघवन्' इत्याद्या ऋचः। 'महावैराजम् पिवा सोमन्' इत्यस्यां गीतं साम। महादिवाकीर्त्यम् 'विभ्राड्बृहत्पिबतु' इत्यस्याम्। ज्येष्ठसामानि तलवकारिणाम् 'उदुत्यं चित्रम्' इत्येतयोर्गीतानि। छन्दोगास्त्वाहुः— 'मूर्धानं दिवः' इत्यस्यां गीतानि त्रीणि सामान्याज्यदोहादीनि। ब्राह्मणे

२०२ गौतमधर्मसूत्राणि

तथा श्रुतत्वात् । बहिष्पवमानम् 'उपास्मै गायता नरः' इत्येतासु गीतम् । कूष्माण्डानि तैत्तिरीयके स्वाध्यायब्राह्मणे 'यद्देवा देवहेडनम्' 'यददीव्य नृणाम्' 'आयुष्टे विश्वतोऽदधत्' इति त्रयोऽनुवाकाः । यजुष्ट्वाभिप्रायो नपुंसकनिर्देशः । तत्रैवाच्छिद्राख्ये प्रश्ने 'यद्देवा देवहेलनम्' इत्यनुवाके या ऋचस्ताः कूष्माण्ड्यः । पवमानः सोमो देवता यासां ताः पावमान्यः 'स्वादिष्ठया मदिष्ठया' इत्याद्या आ मण्डलसमाप्तेः । 'तत्सवितुर्वरेण्यम्' इत्येषा सावित्रो प्रसिद्धा । न या काचन सवितृदेवत्या । इति—शब्दः प्रकारवचनः । एवं प्रकाराण्यन्यान्यपि पावमानानीति । तत्र मनुः—

कौत्सं जप्त्वाऽप इत्येतद्वासिष्ठं च तृचं प्रति । माहित्रं शुद्धलिङ्गं च सुरापोऽपि विशुध्यति ॥ सकृज्जप्त्वाऽस्यवामीय शिवसंकल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ॥ हविष्पान्तीयमभ्यस्य न तमंह इतीति च । जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ सोमारौद्रं तु बहुना मासमभ्यस्य शुध्यति । इत्यादि ।

प्रायश्चित्तप्रकरणे पुनः पावमानानीतिवचनात्प्रायश्चित्तव्यतिरेकेणाप्युद्धिकामस्याहरहरेतानि जप्यानि ॥ १२ ॥

उपनिषद् , वेदान्त, सभी वेदों का संहितापाठ, मधु शब्द से युक्त यजुर्वेद का अंश, ('ऋतं च सत्यं च' आदि) अघमर्षण ऋषि द्वारा दृष्ट मन्त्र, ('देवा ह वै स्वर्गं लोकमगमन्' इत्यादि) अथर्वशिरस् मन्त्र, ('नमस्ते रुद्र मन्यवे' इत्यादि) रुद्र का अनुवाक, ('सहस्रशीर्षा' इत्यादि) पुरुषसूक्त, राजत और रौहिण नाम के दो सामन्, ('त्वामिद्धि हवामहे' आदि) बृहत् सामन् ('अभित्वा शूर नोनुमः' इत्यादि) रथन्तर, ('अहमस्मि प्रथमजा ऋतस्य' आदि) पुरुषगति, ('विदामघवन्' इत्यादि) महानाम्नी ऋचाएँ, ('पिवासोमम्' आदि) महावैराज साम, ('विभ्राड्बृहत्पिबतु' आदि) महादिवाकीर्त्य, ('उदुत्यं चित्रं' आदि) ज्येष्ठसामन् बहिष्पवमान सामन् ('उपास्मै गायता नरः' इत्यादि), कूष्माण्ड (नाम के तीन अनुवाक), (सोमदेवता के) पावमान्य मन्त्र ('स्वादिष्ठया मदिष्ठया' आदि) और ('तत्सवितुर्वरेण्यम्' आदि) सावित्रीमन्त्र इत्यादि पवित्र करने वाले हैं ॥ १२ ॥

जपे प्रवृत्तस्याऽऽहारनियममाह—

पयोव्रतता शाकभक्षता फलभक्षता प्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानमिति मेध्यानि ॥ १३ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि २०३

पयोव्रतता क्षीराहारता । व्रतग्रहणादुपवासन्‍यायेन । शाकं वास्तुकादि । फलं कदल्यादेः । प्रसृतया कः प्रसृतपरिमितैर्यवैः पक्व ओदनः । तत्रौशनसो विशेषः—स्नातः शुचिर्भूत्वोदितेषु नक्षत्रेषु ताम्रभाजने प्रसृतयावकं श्रपयेद्यथा यथागूर्भवति । तस्य श्रपणकाले रक्षां कुर्यात् । ‘नमो रुद्राय भूताधिपतये पर्वतानां पतये त्वमिमं रक्षस्व’ इति । शृतेऽवरोप्य देवस्य त्वा सवितुरित्यादिनोत्पूय ततोऽभिमन्त्रयेत्—

यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
निर्णेदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥
वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तनम् ।
अलक्ष्मीं कालकण्ठीं च सर्वं पुनत मे यवाः ॥
महापातकसंयुक्तं दारुणं राजकिल्बिषम् ।
बालवृत्तमधर्मं च सर्वं पुनत मे यवाः ॥
सुवर्णस्तैन्यमव्रत्यमयाज्यस्य च याजनम् ।
ब्राह्मणानां परोवादं सर्वं पुनत मे यवाः ॥
श्वसूकरावधूतं च काकाद्युच्छिष्टमेव च ।
मातापित्रोरशुश्रूषां सर्वं पुनत मे यवाः ॥
गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् ।
चोरस्यान्नं तथाऽभक्ष्यं सर्वं पुनत मे यवाः । इत्येतैः षड्भिः ।

ततो ब्रह्मा देवानामिति प्राश्य ततः प्राणाय स्वाहेत्यादिभिर्यथोक्तं सर्वं प्राश्नीयात्षड्रात्रम् । ततो नियमातिक्रमजातप्रतिषिद्धसेवनजादभक्ष्यभक्षणजाच्च सर्वस्मात्पापात्प्रमुच्यते । सप्तरात्रं पीत्वा भ्रूणहत्यां गुरुतल्पं सुवर्णस्तैन्यं सुरापानं च पुनाति । एकादशरात्र पीत्वा सर्वकृतपापं नुदति । एकविंशतिरात्रं पीत्वा गणान्पश्यति गणाधिपतिं पश्यति विद्यां पश्यति विद्याधिपतिं पश्यति । एवमहरहरनन्य्याहारो यवागूं प्राश्नीयादिति । सर्पिरादौ हिरण्यं निघृष्य प्राशनं हिरण्यप्राशनम् । घृतप्राशनं प्रसिद्धम् । सोमपानं क्रतावुक्तम् । बहिरप्यन्ये । इतिकरणाद्यच्चान्यदेवमुक्तं पञ्चगव्यशङ्खपुष्पादि तस्य प्राशनं मेध्यं विज्ञेयम् ॥ १३ ॥

केवल दूध पर रहना, केवल शाक का भोजन करना, केवल फलाहार करना, केवल जीवन धारण के लिए पर्याप्त अल्प (एक पसर या मुट्ठी) जौ के अन्न का भोजन, घी आदि में सोने को रगड़कर पीना, घृतपान, (यज्ञादि में) सोमपान, (पञ्चगव्य, शङ्खपुष्प आदि का पान करना) ये सभी पवित्र करने वाली विधियाँ हैं ॥ १३ ॥

२०४गौतमधर्मसूत्राणि

अथ जपादीनां स्थानमाह—

सर्वे शिलोञ्चयाः सर्वाः स्रवन्त्यः पुण्या हृदास्तीर्थान्यृषि-निवासा गोष्ठपरिस्कन्धा इति देशाः ॥ १४ ॥

शिलोञ्चयाः शैलाः। स्रवन्त्यो नद्यः। सर्वग्रहणात् पुण्यापुण्यविभागो नाऽऽदरणीयः। पुण्या हृदाः पुष्करिण्यादयः। प्रयागादीनि तीर्थानि। ऋषिनिवासा वासिष्ठादीनामाश्रमाः। गोष्ठं गवां स्थानम्। परिस्कन्धो देवालयः। इतिकरणान्नैमिषारण्यादीनि ॥ १४ ॥

सभी पर्वत, सभी नदियाँ, पवित्र कुण्ड, तीर्थस्थान, ऋषियों के आश्रम, गायों के रहने का स्थान और देवता का मन्दिर (ये सभी जप के स्थान हैं) ॥

व्याख्यातः सहपरिकरेण जपः। तपः स्वरूपमाह—

ब्रह्मचर्यं सत्यवचनं सवनेषूदकोपस्पर्शनमार्द्रवस्त्रताऽधःशा-यिताऽनाशक इति तपांसि ॥ १५ ॥

ब्रह्मचर्यं मैथुनत्यागः। सत्यवचनं दृष्टार्थवादित्वम्। सवनेषु प्रातर्मध्यन्दिने सायं चोदकस्पर्शनं स्नानम्। आर्द्रवस्त्रतां स्नानसमये परिहितस्य वाससतथैवापीडितस्य धारणम्। अधःशायिता स्थण्डिलशायिता। अशनमाशः। स एवाऽऽशकस्तस्याभावोऽनाशकोऽनशनम्। अत्रापीतिकरणात्प्राणायामादीनां ग्रहणम्। अत्र मनुः—

सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश।
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ इति।

होमाः कूष्माण्डगणहोमादयः प्रसिद्धत्त्वादिहानुक्ताः। तत्र श्रुतिः 'कूष्माण्डैर्जुहुयाद्योऽपूत इव मन्येत' इत्यादि। गणहोमस्तु बौधायनोक्तः—

क्षापवित्रं सहस्राक्षो मृगारांऽहोमुचौ गणौ।
पावमान्यश्च कूष्माण्ड्यो वैश्वानर्य ऋचश्च याः ॥
घृतौदनेन ता जुह्वत्सप्ताहं सवनत्रयम्।
मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥
मुच्यते सर्वपापेभ्यो महतः पातकादपि ॥ इति।

याज्ञवल्क्यः—

यत्र यत्र च संकीर्णमात्मानं मन्यते जनः।
तत्र तत्र तिलैर्होमः सावित्र्याः प्रत्यहं जपः ॥ इति।

मनुः—

न सावित्रीसमं जप्यं नाऽज्याहुतिसमं हुतम्।
नान्नतोयसमं दानं न चाहंसापरं तपः ॥ इति।