गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
२३४ उपनयनविधिः। [ २ प्रपाठके णावकस्य नाम गृह्णीयात् । एवमग्रेऽपि (३२सू०) असावित्यत्र प्रथमान्तमिति विशेषः । मन्त्रोयथा— “प्राणानाङ्ग्रन्थिरसि माविस्रसोऽन्तक इदन्ते परिददा- म्यमुम्” इति ॥ २० ॥ अस्यार्थः । हेनाभे ! अस्य ब्रह्मचारिणस्त्वं ‘मा विस्रसः’(१) मा विस्रंसिष्यसि । स्व- स्थानान्न चलिष्यसि । यस्त्वं ‘प्राणानां’ देहधारकवायूनां ‘ग्रन्थिः’ प्रतिबन्धः । ‘असि’ भवसि । तथा हे ‘अन्तक !’ यम ! ‘इदम्’ अस्य ब्रह्मचारिणः शरीरम् ‘अमुम्’ ब्रह्मचारिणञ्च ‘ते’ तुभ्यं ‘परिददामि’ समर्पयामि । त्वयि समर्पित एष रोगजरामरणादिकन्नानुप्राप्नुयादिति ॥ २० ॥ २८ ॥ उत्सृप्य नाभिदेश-‘‘महुर’’ इति ॥ २९ ॥ ( मं० ब्रा० १।६।२१ ) उत्सृप्य—नाभेरूर्ध्वङ्करन्नीत्वा नाभिदेशं-तत्समीपदेशम्(२) । जठरमिति तदर्थः । मन्त्रलिङ्गात् । अहुरशब्दस्य जठराग्निवाचकत्वाम्नानात्तमभिमृशेदित्य- नुवर्त्तते । एवमग्रेऽपि । मन्त्रस्तु— ‘‘अहुर इदन्ते परिददाम्यमुम्’’ ॥ २१ ॥ इति । अस्यार्थः । हे ‘अहुर’ जठराग्ने ! इदमित्यादिपूर्ववत् । गुणविष्णुस्तु-अहुरिर्नाम वायुः । तस्यामन्त्रणे हे अहुरे ! इत्येवं व्याख्यातं(३) ॥ २१ ॥ २९ ॥ उत्सृप्य हृदयदेशं ‘‘कृशन’’ इति ॥ ३० ॥ ( मं० ब्रा० १।६।२२ ) कृशनोहृच्छयः पुरुषः । तथाच श्रुतिः । ‘‘स चापर आत्मा हृदी-”ति । मन्त्रस्तु-‘‘कृशन इदन्ते परिददाम्यमुम्” इति ॥ २२ ॥ अर्थः पूर्ववत् ॥३०॥ दक्षिणेन पाणिना दक्षिणमंसमन्वालभ्य “प्रजापतये त्वा परिददाम्यसावि”-ति ॥ ३१ ॥ ( मं० ब्रा० १।६।२३ ) असाविति-सम्बोधनान्तनामग्रहणम् । एवमग्रेऽपि । मन्त्रार्थः स्पष्ट एव ३१ सव्येन सव्यं “देवाय त्वा सावित्रे परिदाम्यसावि-”ति ॥ ३२ ॥ ( मं० ब्रा० १।६।२४ ) ( १ ) ‘‘स्रंसुअधः पतने” ( भ्वा०आ० ) द्युतादिः । ‘‘माकि लुङ्-” ( पा० ३।३। १७५ ) सर्वलकारापवादः । ‘‘द्युभ्यो लुङि” ( पा० १ । ३ । ९३ ) इति परस्मैपदे द्युतादि- त्वात् ( पा० ३।१।५५ ) चलेरङि नलोपः ( पा० ६।४।२४ ) । ( २ ) सामीप्यलक्षणया ‘‘वटे गावः सुशेरत” इति वत्प्रयोगोऽयम् । तेन नाभ्युपरि- देश उक्तो भवति मध्यमपदलोपिसमासात् । ( ३ ) अत्र षष्ठ्यादेशे यलोपः । ( पा० ८।३।१९ ) ।
सव्यमित्यत्रांसमित्यनुषज्यते । स्पष्टमन्यत् ॥ मन्त्रार्थोऽपि स्पष्ट एव ॥३२॥ अथैनँ सम्प्रेष्यति-“ब्रह्मचार्यस्यसावि-”ति ॥ ३३ ॥ ( मं० ब्रा० १।७।२५ ) अथेति पूर्वप्रकृतार्थम् । अथ पूर्वकृतमंसयोर्गृहीतमेवैनं माणवकं सम्प्रेष्यति समादिशत्याचार्यः । कि ? “ब्रह्मचार्यस्यसावि”ति । अस्यार्थः हे असौ ! माणवक ! इतः प्रभृति त्वं 'ब्रह्मचारी' तन्नामानुरूपकर्मा(१) ‘असि’ भवसि । अतोब्रह्मचर्यनियमं मधुमांसवर्जनादिकं त्वया आ ब्रह्मचर्यपरिसमाप्तेः पाल- नीयमिति ॥ ३३ ॥ अथापरमतिदिशति— समिधमाधेह्य-पोऽशान-कर्म्मकुरु-मा दिवा स्वाप्सीरिति ॥ ३४ ॥ ( मं० ब्रा० १।६।२६ ) यत्तु वक्ष्यति अस्तमिते समिधमादधातीति । तां समिधं सायं प्रातराधेहि। अग्नयेऽर्पय । यच्च श्रुतावभिहितं “तस्माद्वा-एतदन्नमशिष्यन्पुरस्ताच्चोपरिष्टा- च्चाद्भिः परिदधा(२)ति” इति । तदिदमादिशति “अपोऽशाने”ति । अप- उदकम् । अशान-भक्षय । भोजनात्पुरस्तादुपरिष्टाच्चेत्यर्थः । मन्त्रौ तु-शाखा- न्तरादुपादेयौ “अमृतोपस्तरणमसि स्वाहे”ति पुरस्तात् । “अमृताऽपिधान- मसि स्वाहे” त्युपरिष्टात् । अन्यच्च-यत्किञ्चिद्विदितं गुरुशुश्रूषादि कर्म्मत्त- त्कुरु । इत्यपर आदेशः । दिवा-दिवसे । मा स्वाप्सीः । शयनम्मा कार्षीरिति । गुरुणा ह्येवमादिष्टो ब्रह्मचारी सर्वत्रैव “बाढमि”ति “ओमि”ति वा ब्रूयात् । एवञ्चादेशमनुपालयेदाब्रह्मचर्य्यम् । तदाहकर्म्मप्रदीपः— “ब्रह्मचारी समादिष्टोगुरुणा वृतकर्म्मणि । बाढमोमिति वा ब्रूयात्तत्तथैवानुपालयेत् ॥” इति ॥ ३४ ॥ उदगग्नेरुत्सृप्य प्राङाचार्य उपविशत्युदगग्रेषु दर्भेषु ॥३५॥ उदक्-उत्तरस्यान्दिशि । प्राङ्-प्राङ्मुखः । एवमग्रेऽपि ॥ ३५॥ प्रत्यङ् माणवकोदक्षिणजान्वक्तोऽभिमुख आचार्य्यमुदगग्रे- ष्वेव दर्भेषु ॥ ३६ ॥ माणवकस्तु-दक्षिणजान्वक्तः । दक्षिणं जानु अक्तं भूमिगतं यस्य स तथाभूतः । “अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० ) गत्यर्थत्वात्क्त- ( १ ) ब्रह्मवेदस्तदध्ययनार्थं व्रतमपि लक्षणया ब्रह्मोच्यते । तच्चरत्यनुतिष्ठतीति ब्रह्मचारी । ताच्छील्यार्थे ( पा०३।२।७८ ) णिनिप्रत्ययः । उपधावृद्धिः ( पा०७।२।११६ ) सततकरणञ्च ताच्छील्यम् । ( २ ) परिधानमिहोपस्तरणमावरणञ्च मन्त्रलिङ्गादेव ।
रिक्तः (पा० ३।४।१२) भूगतदक्षिणजानुः । आचार्याभिमुखः । प्रत्यङ्मुखः । उदगग्रेषु दर्भेषूपविशति । उदङ्-अग्नेरुत्तरत एव ॥ ३६ ॥ अथैनं त्रिः प्रदक्षिणं मुञ्जमेखलां परिहरन् वाचयति- "यं दुरु- त्परिबाधमाने-"ति । "ऋतस्य गोप्त्रीति च ॥३७॥ ( मं० ब्रा० १।६।२७-२८ ) अथ-अनन्तरमेव । उपविष्टमेव । एनं-माणवकं परिहरन्-परिवेष्टयन् कटिप्रदेशे प्रादाक्षिण्येन त्रिवेष्टयन्(१)। परिवेष्टनावृत्तावपि मन्त्रवाचनं सकृदेव "एकद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवाचनमि"-त्युपनिदर्शनान् । मन्त्रौ यथा- "इयन्दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनतीम आगात् । प्राणापानाभ्यां बलमाहरन्ती स्वसा देवी सुभगा मेखलेयम् ॥३७॥ ऋतस्य गोप्त्री तपसः परस्वी घ्नती रक्षः सहमाना अरातीः । सा मा समन्तमभिपर्येहि भद्रे ! धर्त्तारस्ते मेखले मा रिषाम" ॥२८॥ इति । अनयोरर्थः-ब्रह्मचारी ब्रूते-'इयं' प्रत्यक्षा मेखला मौञ्जी(२) 'नः' अस्मान् । 'आगात्' आगता । किङ्कुर्वती ? 'दुरुक्तात्' असम्बद्धप्रलापादितः बाल्यकृतात् 'परि' सर्वतो 'बाधमाना' निवारयन्ती । 'पवित्रम्' अपि 'वर्णं' ब्राह्मणादिकं 'पुनती' द्विजत्वसम्पादनेन पावयन्ती । तथाच स्मृतिः-"मातुर्य- दग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात्" इति । पुनश्च प्राणापनाभ्यां' प्राणापा- ( १ ) अत्र 'मेखलां बध्नीते" ( पा० २।२।८।१० ) इत्यादि परशाखीयगृह्यसूत्र- व्याख्यायां हरिहरमिश्राः । "ततोमेखलाम्मौञ्जीयादिकां वक्ष्यमाणलक्षणां बध्नीते (आ- चार्यः) कटिप्रदेशे त्रिवृतां प्रवरसंख्याग्रन्थियुतां प्रादक्षिण्येन परिवेष्टयति । इयमित्यादि- मन्त्रेण माणवकपठितेन । ( मन्त्रलिङ्गात् ) एवं गदाधरभाष्येऽपि-तत अचार्य्योमाणवक- कट्यां मेखलां रसनां बध्नीते । अत्रैवं बन्धनम् । आचार्य्यस्त्रिगुणाम्मेखलामादाय माणव- कस्य वटोः कटिप्रदेशे प्रादक्षिण्येन त्रिवेष्टयति । तृतीये वेष्टने ग्रन्थयस्त्रयः पञ्च सप्त वा का- र्याः । तदुक्तम्- "त्रिवृता मेखला कार्या त्रिवारं स्यात्समावृता । तद्ग्रन्थयस्त्रयः कार्याः पञ्च वा सप्त वा पुनः॥" इति । अत्र प्रवरसंख्यायां नियमः । त्र्यार्षेयस्य ग्रन्थित्रयं, पञ्चा- र्षेयस्य पञ्च । सप्तार्षेयस्य सप्तेति गर्गपद्धतौ । वृद्धाचारोऽप्येवमेव । आचार्य्यकर्तृकं मेखलाबन्धनं, कुमारस्य मन्त्रपाठः इति वासुदेव-मुरारिमिश्र-जयराम-हरिहराः । इत्या- दि ॥ तदित्थं कटिशब्दस्य स्कन्धपरत्वं व्यवस्थापयन्तस्तदर्थं सुधा क्लिश्यन्तः प्रति- समाहिता वेदितव्याः । ( २ ) उपलक्षणमेषा यथावर्णं मौर्व्यादेः । मेखलेति कटिप्रदेशस्थाया रसनाया नाम तथाच हेमः "मेखलाऽद्रिनितम्बे स्याद्रशनाखड्गबन्धयोरि"ति । "स्त्री कट्यां मेखला काञ्ची'त्यमरश्च । स्त्री-स्त्रीलिङ्गाभिधायि । तथाच कटिबन्धनं मेखलेति सर्वसम्मतम्॥ तत्र तच्च सप्तेति समाख्यया सप्तहस्ता सा भवति माणवकहस्तेनेति बोध्यम् । तथाच स्मर- न्त्यपि-"मेखला सप्तहस्ता स्यात्" इति ।
भ्यः(१) । 'बलम्' वीर्यम् 'आहरन्ती' आनयन्ती । ( आहृत्य स्थापयन्ती ) स्वसा' स्वसृवद्धिता(२) । 'देवी' दीप्तिमती । अत एव 'सुभगा' सौभाग्यप्रदा । सर्वलोककाम्येति गुणविष्णुः ॥ २७ ॥ हे 'भद्रे !' शोभने ! 'मेखले !' या त्वं ब्रह्मचारिसम्बन्धिनः 'ऋतस्य' सत्यस्य यज्ञस्य(३) वा 'गोप्त्री' पालयित्री 'तपसः' ब्रह्मचर्यस्य 'परस्वी' सर्व- स्वभूता(४) 'रक्षः' रक्षांसि । जातावेकवचनम् । 'घ्नती' विनाशयन्ती । अराती:(५) शत्रून् । 'सहमानाः' (६)अभिभवन्ती । सा एवम्भूतात्वं 'मा' मां 'समन्तम्' समन्तात्(७) ( सर्वतः ) 'अभिपर्येहि' आभिमुख्येनागच्छ(८) । वेष्टयेत्यर्थः। यथा 'ते' तव 'धर्त्तारः' कटौ धारयितारोवयम् केनचित् 'मा रिषाम' (९)मा हिंसिष्महि । ( हिंसिता मा भवेम ) इति ॥ २८ ॥ अथ कौपीनपरिधानं तज्ञोपवीतधारणञ्च । तत्र प्रथममाचम्य-ब्राह्मणेभ्यः सपूगयज्ञोपवीतभाण्डाष्टतयदानमाजानिकाचारात् अत्र मानमुपनिषत्सु “अष्टौ ब्राह्मणान्ग्राहयित्वा विद्या सिद्धिर्भवति” त्यसनुदाम्नायते । तदेतदत्रापि ब्राह्म- णेभ्यः पूर्वम्प्रदाय विद्यासिद्ध्यै यज्ञोपवीतधारणमिति मम प्रतिभाति । एतच्च यज्ञोपवीतधारणं सूत्रानुक्तकालमपि(१०) इदानीमेव । अन्यत्र तथादर्शनात् । तथाच मेखलाबन्धनानन्तरं जातकर्णः—“पवित्रञ्चास्मै प्रयच्छति । ( १ ) षष्ठ्यर्थे चतुर्थी ( पा० २।३।६२ ) । ( २ ) परार्थे प्रयुज्यमानाः शब्दाः सादृश्यङ्गमयन्तीति गुणविष्णुः । ( ३ ) तथाच निरुक्तम् “ऋतमिति सत्यं वा यज्ञं वे”ति ( ४।१९ ) । ( ४ ) “गौरादित्वात्” ( पा० ४।१।४१ ) ङीष् ॥ ( ५ ) तथाच श्रुतिः “या नोदूरे तदितो या अरातयोऽभिसन्ति जम्भया ता अन- नसः” ( ऋ० सं० २।६।३० ) इति । अत्रारातयः शात्रवीः सेना इति दुर्गाचार्याः । कोशे तु पुल्लिङ्गोऽपि “रिपौ वैरियसत्त्वारि…………अभिघातिपराशतिप्रत्यर्थिपरिपन्थिन” इत्यमरः । ( ६ ) “षहमर्षणे” ( भ्वा० आ० ) लटः शानच् । मर्षणं क्षमा अभिभवनचेति ( सि० कौ० ) दीक्षितचरणाः प्राहुः । ( ७ ) त्सोऽत्राऽमादेशः । ( पा०
२३८ उपनयनविधिः। [ २ प्रपाठके “यज्ञोपवीतम्परमं पवित्रमिति” इति । अपि च-“सदा मन्त्रवदाधार्यमुपवीत- न्द्विजातिभिः”।ति देवलवाक्याद् द्विजत्वसम्पत्त्यनन्तरमेवोपवीतधारणमायाति। अत्राङ्मर्यादार्थः । मर्यादयेति तदर्थः । मर्यादा तूक्ता प्राक् (२।२।१-३) द्विज- त्वञ्च मेखलाबन्धनादनन्तरमेव । तथाच याज्ञवल्क्यः— “मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजातयः ॥” इति । अत्रोक्तदेवलवचने मनौ च— “मेखलामजिनन्दण्डमुपवीतंङ्कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥” इत्येवं समन्त्रकत्वन्तद्ग्रहणे स्मर्यते । तदत्रानुपदेशा(१)च्छाखान्तरोक्त- मन्त्रमुपादद्यात् । यथा- “यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपनह्यामी”ति ! अस्यार्थः । हे उपवीत त्वं ‘यज्ञोपवीतम्’ तन्नाम ‘असि’ भवसि । अतः ‘त्वा’ त्वाम् ‘यज्ञस्य’ यज्ञसम्बन्धिना । तृतीयार्थे षष्ठी ( पा० ३।२।८५ ) ‘उपवीतेन’ ब्रह्म(२)सूत्रेण ‘उपनह्यामि’ परिदधामि । यज्ञोपवीतलक्षणमुक्तमधस्तात् । ( १।२।१-३ ) अथोक्तम् ( २।१०।९ ) अजिनमपोदानीमेव । “मित्रस्य चक्षुरि”ति तैत्ति- रीयशाखीयमन्त्रेण परिधापयेत् । तदेतत्सर्वम् “यन्नाम्नातं स्वशाखायामि”- ति कातीयपरिभाषणाद्बोध्यम् । तथाचाश्वलायनः “यज्ञोपवीतमजिनञ्चे”ति । एवञ्च द्रव्यकथनसूत्रक्रमेण नैतद्धारणम् । तत्र क्र
hyphen!
And before that: कर्त्तरि क्तान्तम् or कर्तृ क्तान्तम्?
Look at कर्तृ: क र् on तृ? No, it's कर्तृ (or कर्त्तरि).
Wait, क र् तृ क ा न् त म् -> कर्तृक्तान्तम्?
Wait, is there a ल? No.
Look at: कर्तृ - wait, does it say कर्तृ? Yes, क with र् on त and ृ under it: कर्तृ!
Wait, and then क्तान्तम्? It is क्तान्तम् without the loop? It looks like कान्तम् with a small ् or क्तान्तम्.
Wait, in line 26:
( १ ) अत्रोपसत्तिर्नाम पादोपसङ्ग्रहणम् । उपसन्न इति कर्तृक्तान्तम् । सीदतेर्गत्य-
Line 27:
र्थत्वात् "गत्यर्थाकर्मके" ( पा० ३।४।७२ ) त्यादिना क्तः ।
Footnote (२):
Line 28:
( २ ) वस्तुतस्त्वध्यापनं वेदस्य पुरःस्वयमधीत्य पश्चादन्तेवासिना सह पठने वदि-
Line 29:
ग्रह्णाय । सहानुवर्तनम् । तृतीयवारे माणवकेन सह पठन् । एतच्च शक्त्यपे- क्षयाभिधानम् । यदि माणवकोमन्दमेधस्त्वार्थ(१)थावदध्येतुन्न शक्नुयात्तदा यथाशक्त्यस्याध्यापयेत् । तथाचाश्वलायनगृह्यम् "सावित्री मन्वाह पच्छो- ऽर्द्धर्चशः सर्वशँयथाशक्ति वाचयीते"ति । अत्रेतिशब्दः क्रमप्रकार- ज्ञापनार्थः ॥ ३९ ॥ महाव्याहृतीश्च विहृता ॐकारान्ताः ॥ ४० ॥ [ मं० ब्रा० १।६।३० ] विहृताः । विकृष्य हृताः पृथक्कृताः । विहिता इतिपाठे प्रयुक्ता इत्यर्थः । विहृता इति पाठे पृथग्भूता न संहता इति यावत् । केचिद्विकृता इति पठन्ति । तत्रापि पृथग्भाव एवविकार इति तुल्योऽर्थः । ओंकारान्ताः । ओंकारः अन्ते यासान्ताः । तेन विहृतानामेवौकारान्तत्वम् । एवञ्च भूरों भुवरों स्वरों । इति प्रयोगः सिध्यति । इति नारायण-मुरारिमिश्रादयः । भवदेवभट्टस्तु ॐभूरित्ये- वम्प्रायुङ्क्त । तस्य मतेऽन्तशब्द आद्यर्थः । "पर्युक्षणान्तान्यतिहरन्" १।३।५ इत्यत्रय यथा । वीरेश्वरस्तु तदुभयमनुसरन् ॐभूरों, ॐभुवरों, ॐस्वरों, इत्येवं स्वपद्धतौ प्रायुङ्क्त । तत्र मन्त्रादौ प्रणवदानं सम्प्रदायसिद्धमन्ते च सूत्र(२)वि- हितमिति बोध्यम् ॥ ४० ॥ वार्क्षञ्चास्मै दण्डम्प्रयच्छन्वाचयति "सुश्रवः सुश्रवसम्मा कुर्वि"-ति ॥ ४१ ॥ ( मं० ब्रा० १।६।३१ ) वृक्षस्येदं वार्क्षम् । प्राप्तदण्डानुवादेन प्रदानमात्रविधानात्पार्णा(३)दिरूपमित्यर्थः । अत्र चन्द्रकान्तः । वार्क्षञ्चेतिशब्दादजिनमपीदानीमेवप्रयच्छतीतिव्याचष्टा-
( १ ) सकृन्मात्रोपदेशेन । ( २ ) यत्तु - "ब्रह्मणः प्रणवङ्कुर्यादादावन्ते च सर्वदा । क्षरत्यनोङ्कृतम्पूर्वम्परस्ताच्च विशोर्यते" इति मनुवचनन्तद्वेदपारायणविषयन्न तु महाव्याहृतेः सावित्र्या वा प्रदान- विषयम् । जपविषये तु गायत्र्या एव योगियाज्ञवल्क्येनाद्यन्तयोः प्रणवयोग उक्तः "ॐ कारः पूर्वमुच्चार्योभूर्भुवः स्वस्ततः परम् । गायत्री प्रणवश्चान्ते जप्येह्येवमु
णाद्दण्डधारणोत्तरमजिनधारणमभिप्रेति तदाचारविरुद्धम् । मनुनाऽपि “मेखला- मजिनन्दण्डम्” इति क्रमएवाभ्यधायि । एवमाश्वलायनेनापि मेखलामुपक्रम्य “यज्ञोपवीतमजिनं चे”त्युक्तमित्युक्तमनुपदम् । तमिमन्दण्डमस्मै ब्रह्मचारिणे । प्रयच्छन् — ददत् “सुश्रवः” इत्यादिमन्त्रं वाचयति ब्रह्मचारिणमेव । मन्त्रोयथा— “सुश्रवः सुश्रवसं मा कुरु । यथा त्वमग्ने सुश्रवःसुश्रवा देवे- ष्बेवमहं सुश्रवः सुश्रवा ब्राह्मणेषु भूयासम्” ॥ ३१ ॥ इति । अस्यार्थः—दण्डं गृह्णन्ब्रह्मचारी तमग्निञ्चप्रार्थयते—हे सुश्रवः ? शोभनं श्रवोयशःप्रशंसा(१)यस्य ससुश्रवात्तत्संबोधने । हे शोभनकीर्ते दण्ड ! यथात्वं वेदधारणार्थज्ञानादिना(२) लोके प्रख्यातयशाः । एवं 'मा'माम् अपि 'सुश्रवसं' सुयशसं 'कुरु' । एवन्दण्डं प्रार्थ्याग्निमपि प्रार्थयते-हे अग्ने ! 'सुश्रवः शोभन- कीर्ते !' 'यथात्वं' 'देवेषु' देवमध्ये 'सुश्रवाः' शोभनयशाः' [ सुयशाः ] असि । 'एवमहम्' अपि 'हेसुश्रवः(३) !' शोभनकीर्ते । 'ब्राह्मणेषु' मनुष्येषु(४)'सुश्रवाः' सुयशाः 'भूयासम्' भवेम । प्रशंसायामाशिषि लिङ् ॥ ३१ ॥ इति ॥ ४१ ॥ अथ भैक्षञ्चरति ॥ ४२ ॥ अथ शब्दोऽयं विशिष्टमानन्तर्यं द्योतयति—यद्दण्डमजिनञ्च प्रतिगृह्या- देशञ्च गुरोरङ्गीकृत्य भास्करमुपस्थायाग्निं प्रदक्षिणीकृत्य अथ-अनन्तरं भैक्षं भिक्षासमूहम् । “भिक्षादिभ्योऽण्” ( पा० ४।२।३८ ) इति सामूहि कोऽणादि- वृद्धिः । “भैक्षं भिक्षाकदम्बकम्” इत्यमरः । चरति-चरेत्-आहरेदित्यर्थः । तथाच मनुः— “प्रतिगृह्येप्सितन्दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निञ्चरेद्भैक्षं यथाविधि ॥” इति । उपस्थाय-अभिमुखमवस्थाय ॥ ४२ ॥ मातरमेवाग्रे, द्वे चान्ये सुहृदौ, यावत्योवा सन्निहिताः स्युः ॥४३॥ मातरम्—स्वजननीमेवाग्रे-प्रथमं, “प्रार्थयेदि”ति शेषः । सुहृदौ-स्निग्धहृ- दये । यावत्योवा योषितः । सन्निहिताः । सन्निधौ स्थिताः । स्यु-र्भवेयुः । नचैनं ( १ ) शृणोतेः कर्मण्यसुन् ( उ०४।८८) श्रूयेमहीति श्रवः । यशः प्रशंसा वा । “श्रवश्वाच्छा पशुमच्च यूथम्”। ( ऋ० सं० ३।७।११।६ ) इति । “प्रशंसाश्व यूथञ्च”ति ( ४।२४ ) निरुक्तम् । (२) दण्डस्यार्थज्ञानहेतुता व्रतसम्पादनद्वारा सौकर्यातिशयं द्योतयितुं श्रुत्याऽभिहिता। ( ३ ) पुनरामन्त्रणेन दण्डादग्नेः सुश्रवस्त्वातिशयःख्याप्यते । ( ४ ) अत्र विशेषाभिधायिनोऽपि सामान्यपरत्वं गुणविष्ण्वादिभिरुक्तम् । ३१ गो० गृ०सू०
२४२ उपनयनविधिः । [ २ प्रपाठके- विमानयेयुस्तावतीर्वा प्रार्थयेत् । तथाच मनुः- “मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं याचैनं न विमानयेत् ॥” इति । भविष्यपुराणे चोक्तमनुवचनान्ते-“सुवर्णं रजतं रत्नं सा पात्रेऽस्य विनिक्षिपेत्” इति पठ्यते । सा-भिक्षादात्री मात्रादिः । निजां-सोदर्याम् । प्रथम-मुपनयनकालिक (१) भिक्षायाम् ॥ सन्निहिता इत्युक्त्या तत्रस्था एव भिक्षेत न पुनः स्थानान्तरं गत्वेति बोद्धव्यम् । तत्प्रकारमाह-मनुः- “भवत्पूर्वञ्चरेद्भैक्षमुपनीतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥” इति । एवञ्च “भवति ! भिक्षान्देहि”-ति वाक्येन ब्राह्मणेन, “भिक्षां भवति ! देहि-”ति क्षत्रियेण । “भिक्षां देहि भवती”-ति वैश्येन भिक्षाचरण- ङ्कर्त्तव्यमित्यायाति । हारीतः- “सप्ताक्षराञ्चरेद्भिक्षां क्षाञ्च हिञ्च न वर्जयेद्”-ति । क्षाञ्च हिञ्चेत्यनेन भिक्षान्देहीति पदयोःप्रयोगोऽप्यावश्यक एवेति कल्प- तरुः । गौतमः-“आदिमध्यान्तेषु भवच्छब्दः प्रयोऽग्योवर्णाऽनुपूर्व्येण”-ति । यमः- “हस्तदत्ता च या भिक्षा सलितं व्यञ्जनानि च । भोक्ता त्वशुचितां याति दाता स्वर्गन्न गच्छति ॥” इति ॥ ४३ ॥ आचार्य्याय भैक्षं निवेदयति ॥ ४४ ॥ आचार्यायोपनेत्रे । भैक्षं-लब्धभिक्षानिचयम् । “भिक्षादिभ्योऽण्” (पा०४। २।३८) इति सामूहिकेऽणि आदिवृद्धिः । “भैक्षं भिक्षाकदम्बकम्”त्यमरः । ( १ ) शौनकः । “अप्रत्याख्यायिनमग्रेभिक्षेत् । अप्रत्यख्यायिनीं वा” इति । मनुः “गुरोःकुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वपूर्वविवर्जयेत् ॥” इति । पारस्करः “तिस्रोऽ
१० कण्डिका ] गोभिलगृह्यसूत्रे- २४३ निवेदयति । निवेदये-दर्पयेत् । निवेदनप्रकारश्च “भैक्षमभोः” इत्याचार्याय निवेद्य तद्दत्तं प्रतिगृह्णीयात् इति । आचार्येण तदानञ्च “भुङ्क्ष्वे”त्यनुज्ञान- रूपम् । अत्राचार्यः प्रथमां भिक्षां गृहीत्वा द्वितीयादिकां “भुङ्क्ष्वै”त्यभिधाय ब्रह्मचारिण एव दद्यात् । स च तामादाय धारयेत्(१) ।। ४४ ।। स्वयञ्च तद्दिने— तिष्ठत्यहः शेषं वाग्यतः ॥ ४५ ॥ अहश्शेषमासायम्मौनी तिष्ठेदित्यर्थः । वक्ष्यमाणकर्मार्थमेतत् । तेनान्य- दिने-मनुः— “समाहृत्य तु तद्भैक्षं यावदर्थममायया । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥” इति ॥ यावदिति । यावद्(२)र्थजातमुपात्तन्तदनपह्ववेन । एवञ्चाचार्या- याहृतार्थमिदन्निवेदन(३)मात्रन्न तु दानमेवेति द्रष्टव्यम् ॥ ४५ ॥ अस्तमिते समिधमादधाति “अग्नये समिधमाहार्षम्” इति ॥ ४६ ॥ ( मं० ब्रा० १।६।३२ ) अस्तमिते-अस्तङ्गते सवितरि । “अग्नये समिधम्”-ति मन्त्रेण समिध- मुक्तलक्षणम् ( १।१।७ ) आदधाति-आदध्यादग्नौ प्रक्षिपेत् । मन्त्रोयथा— “अग्नये समिधमाहार्षं बृहते जातवेदसे । यथात्वमग्ने ! समिधा समिध्य- स्येवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन धनेनान्नाद्येन समे- धिषीय स्वाहा” ॥ ३२ ॥ इति ॥ अस्यार्थः—ब्रह्मचारीब्रूते—अहम् ‘अग्नये’ ‘समिधम्’ उक्तलक्षणम् ।
( १ ) आचार्य्यश्च कर्मशेषं समापयेत् । अत्र चन्द्रकान्तभाष्ये हेतुरुक्तः । “परतोब्र- ह्मचारिण एव कर्मोपदेशाद्विदानीमाचार्यकर्मणोऽवसानावगते”रिति । अतः परञ्चाग्रिम- सूत्रमवतारयंस्तत्रैवाह-अवसितमुपनयनकर्म, प्रासङ्गिकमिदानीं ब्रह्मचारिणः कर्त्तव्य- मनुवर्त्तामहे-स खल्वयं ब्रह्मचारी-”त्यादि ॥ ( २ ) अर्थजात इति पूर्व्वव्याख्यातृभिरुक्तन्तु “जातिर्जातञ्च सामान्यमि”त्यभिधा- नविरुद्धं प्रतिभाति । अर्थशब्दोऽत्र वस्तुवचनः “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु” इत्यमरात् । “यावदवधारणे” ( पा० २।१।८ ) इत्यव्ययीभावः समास इति च पूर्व्वैर्व्या- ख्यातं, वस्तुतस्तु प्रयोजनवचनत्वेऽपि न क्षतिः । यावता गुरोः प्रयोजनन्तावत्तस्मै निवे- दनीयमकपटवृत्त्या । अवशिष्टञ्च “भुङ्क्ष्वे”-ति तेनाभ्यनुज्ञातं स्वयममक्षयेत्तथालब्धमिति तदर्थः । अत्र नान्ययीभावः किन्तु तृतीयासमासः । अत्र “यावदन्नममायये”ति पाठः कुल्लूकेन धृतः । व्याख्यातश्च तद्भैक्ष्यं बहुभ्य आहृत्य यावदन्नं तृप्तिमात्रोचितं गुरवे निवेद्य-निवेदनङ्कृत्वा अमायया न कदन्नेन सदन्नं प्रच्छाद्येवमेतद्गुरुर्ग्रहीष्यतीत्यादि- मायाव्यतिरेकेण तदनुज्ञात आचमनं कृत्वा शुचिः सम्भुञ्जीत प्राङ्मुख इति ॥ ( ३ ) निवेदनफलन्तु हितमितपथ्यालोचनं, येनास्य ब्रह्म
२४४ उपनयनावधिः। [ २ प्रपाठके- ‘आहार्षम्’ आहृतवान्। किम्भूताय? ‘बृहते’ महते ( निघं० ३।३।४ ) ‘जात- वेदसे’ जातप्रज्ञानाय—जातधनाय(१) वा। इति परोक्षमुक्त्वा प्रत्यक्षमाह—हे ‘अग्ने!’ ‘यथा त्वम्’ अनया मदाहृतया ‘समिधा’ ‘समिध्यसि’(२) दीप्यसे। ‘ए- वमहम्’ ‘आयुषा’ जीवितकालेन(३)। ‘मेधया’ धारणावत्या बुद्ध्या ‘वर्चसा’ तेजसा(४) ‘प्रजया’ पुत्रपौत्रादिरूपया सन्तत्या(५)। ‘पशुभिः’ गवादिभिः ‘ब्रह्मवर्चसेन’ ब्राह्मणतेजसा(६) ‘धनेन’ व्रीहियवादिना ‘समेधिषीय’ वृद्धि- माप्नुयाम् इति॥ ३२॥ अत्र मनुः-- “अग्न्याधानं भैक्षचर्यामधः शय्यां गुरोर्हितम्। आसमावर्त्तनात्कुर्यात्कृतोपनयन
१० कण्डिका ] गोभिलगृह्यसूत्रे- २४५ चोपरिष्टाच्चेन्धनार्थं समिद्भवतीति कात्यायनःस्मरति-- “समिदादिषु होमेषु मन्त्रदैवतवर्जिता । पुरस्ताच्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत् ॥” इति । क्षिप्रहोमोऽयमिति न न्यञ्चकरणादाति भाष्यकृतोनारायणभट्टाः प्राहुः ॥ इदञ्च समिदाधानं सन्ध्ययोः सन्ध्योपासनानन्तरमेव । तथाच का- त्यायनः- “ततः परं प्रवक्ष्यामि सन्ध्योपासनिकं विधम् । अनर्हः कर्मणां विप्रः सन्ध्याहीनोयतः स्मृतः ॥” इति । विप्र इति कर्तृमात्रोपलक्षणम् ॥ दक्षः- “सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥ इति । तदनन्तरं सन्ध्ययोरग्निमभिवाद्य गुरुमप्यभिवादयेत् । तथा च गृह्यान्तरम्-“उभयत्राग्निं समिध्य गोत्रनामनी प्रोच्याभिवाद्याचार्यमभिवाद- येद्”ति ॥ ४६ ॥ अथेदानीं ब्रह्मचारिणो भोजनकालः । “कृताग्निकार्यो भुञ्जीत वाग्यतोगुरुर्व्नुज्ञया ॥” इति स्मरणात् । स खल्वयं ब्रह्मचारी--उपनयनकर्म्मण ऊर्ध्वम्-- त्रिरात्रमक्षारलवणाशी भवति ॥ ४७ ॥ उपनीतश्चाहोरात्रत्रयमक्षारलवणं भुञ्जीतेत्यर्थः । अक्षारलवणं यथाप- रिभाषितमुक्तमधस्तात् ( २।३।१५ ) ॥ ४७ ॥ तस्यान्ते सावित्रश्चरुः ॥४८॥ तस्य--व्रतस्य । न पुनरुपनयनकर्म्मणः न वा सन्निधानात् त्रिरात्रस्य । “अ- व्यक्तं प्रधानगामी”ति न्यायात् । अन्यथा-अस्यान्त इति ब्रूयात् । तथा च गृह्यान्तरम्-- “व्रतान्ते सावित्रश्चरुर्गोदानादीन्यनुप्रवचनीयानि व्रतान्यैन्द्रस्थालीपाका- न्तानि भवन्ती”-ति । सविता देवताऽस्येति सावित्रः । (२)तेन “सवित्रे त्वा जुष्टं निर्वपामि” इति निर्धापः । “सवित्रे स्वाहे”ति प्रधानहोमः ॥ ४८ ॥ ( १ ) अत्र वीरपद्धतौ आचार्याय भैक्षसमर्पणानन्तरम्-“अथ समिदाधानं यदि तस्मिन्नेव क्षणे क्रियते तदा तत्रैवाभावाचारात्कर्तव्यम् । अथ सन्ध्यामुपास्यास्तङ्गते सवितरि यदा क्रियते तदा कुशण्डिकामनुसन्धाय व्याहृतिहोमङ्कृत्वा प्रयोग इति । तत्र प्रथमं समन्त्रां समिधमाधाय अपराँ समिधममन्त्रां क्षिपेत्ततोवामदेव्यगानन्तं तन्त्रं समापयेदिति चोक्तम् ॥ ( २ ) एतत्प्रकारश्चोक्तोऽधस्तात् । “अथोखलमुशले” इत्यादि ( १।७।१ ) तन्ना-
२४६ उपनयनविधिः। [ २ प्रपाठके- अवसिता प्रासङ्गिकी कथा प्रकृतमिदानीमुच्यते-- यथार्थम् ॥ ४९ ॥ उपनयनकर्म्मणः परिसमाप्तिरनेनोच्यते ॥ ४९ ॥ गौर्दक्षिणा ॥ ५० ॥ इति श्रीमद्गोभिलीये गृह्यसूत्रे द्वि·प्र·स्य दशमी कण्डिका ॥ २ ॥१०॥ ❀ ॥ उपनयनकर्म्मण एव। नोपनयनतन्त्रस्य। उपनयनकर्म्मणोऽनन्तरमा-“चा- र्याय वरोदक्षिणा” इति गृह्यान्तरसूत्रात्(१) “गौर्वरोब्राह्मणस्य”-( ) ति च वक्ष्यति। (२)मुरारिमिश्रास्तु-यथार्थङ्गौर्दक्षिणेत्येकमेव सूत्रं लिखन्ति- स्म। व्याचक्षत च-इयञ्चोपनयनकर्म्मदक्षिणा, न तु व्रतान्तदक्षिणा। यथा- र्थशब्दस्यानन्तरोक्तकर्म्मशेषसमापनार्थत्वात्। “कर्म्मशेषसमाप्तौ गौराचार्याय- देया ब्रह्मणे पूर्णपात्रादीनी”-ति गृह्यान्तरवचनाच्च। नारायण-शूलपाणि-प्रभृ- तयोऽप्येवम्। इति। अत्रान्ते यथार्थमित्यादेरभ्यासः प्रपाठकसमाप्तिद्योतकः पठ्यतेऽन्यत्र(३) ॥ ५० ॥ इति श्री मद्गोभिलीयगृह्यसूत्रव्याख्यामृदुलाख्यायां मुकुन्दशर्म्मकृतसङ्कलितायां द्वि·प्र·स्य दशमी कण्डिका। प्रपाठकश्चायं समाप्तः ॥ २ ॥ १० ॥ ( इत्युपनयनम् ) श्रेयोवेतिस्थाने ऊह इहाभिहितः। एवमुक्तसूत्रादष्टसूत्री। ततः पुनः “यद्युवा ( १।८।३ ) इत्यारभ्य “महाव्याहृतिभिराज्येनाभिजुहुयात्” ( १।८।१९ ) इत्यन्तम्। पुनः “हुत्वैतत्” ( १।८।१९ ) इत्यादिसूत्रद्वयं सावित्रग्रहहोमसूत्रतया मुरारिमिश्रैर्योजितम्। एतदन्ते च ततस्तन्त्रसमापनम्। व्रतान्तविहितस्याप्यस्य व्रताशक्तस्योपनयनदिन एव समावर्त्तनपक्षे तत्पूर्व्वक्षुरणं, समावर्त्तनपूर्व्वकालविहितत्वादिति द्रष्टव्यम्। पद्धतिरप्येवमित्युक्तम् ॥ ( १) अत्र चन्द्रकान्तभाष्ये-तस्माच्च गृह्यान्तराद्दक्षिणेयमाचार्याय दातव्या। त- स्माद्ब्रह्मचारिणे भैक्षदानान्तरमेवाचार्यः कर्मशेषं समापयेदिति भट्टनारायणाद्यनुमतं समीचीनमवोचाम। समिदाधानस्य प्रधानकर्म्मान्तरतयोपनयनकर्म्मानङ्गत्वत्। अहः शेषस्थितेस्तादर्थ्याच्चेत्युक्तम् ॥ ( २ ) तथाचोक्तम् “गौर्विशिष्टतमा विप्रेर्वेदेष्वपि निगद्यते। न ततोऽन्यद्वरं यस्मा- त्तस्माद्गौर्वरमुच्यते” इति। ( ३ ) चन्द्रकान्तभाष्यादौ। तत्र द्वितीयस्यार्थान्तरयोजना च क्रियते। अन्ते च- प्सन्तु सावित्रचरोः कर्म्मक्रमस्यासूत्रणाद्यथार्थमित्यस्य कर्मापवर्गपरत्वावगतेश्च पूर्वेव योजना समीचीनेति प्रतिपद्यामहे। अतिक्रान्तसम्बन्धश्चाचार्यानुमत इति चेति ततउपर- तमस्माभिः।
४. कण्डिका ] गोभिलगृह्यसूत्रे- २४७ ( अथ समावर्त्तनम् ) तृतीयप्रपाठकस्य चतुर्थीकण्डिका- ब्रह्मचारी वेदमधीत्य ॥ १ ॥ वेदमित्यावश्यकत्वाभिप्रायेण । तथा च मनुः- “वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्य्यो गृहस्थाश्रममाविशेत् ॥” इति । वेदशब्दोऽयं साङ्गस्य वेदस्याभिधायकोऽङ्गानामेव वेति स्वभाष्ये चन्द्रकान्त आहान्यमतोपन्यासेन ॥ १ ॥ उपन्याहृत्य गुरवे ॥ २ ॥ उप--गुरुसमीपे । निभृतं विनीतं (१)यथास्यात्तथा । गुरवे-गुर्वर्थम् । तादर्थ्ये चतुर्थी(२) । ( पा० १।४।४४ ) आहृत्य-आनीय । “दक्षिणाम्”-ति शेषः । अस्योत्तरेण ( दारान्कुर्वीतेत्यनेन ) सम्बन्धः ॥ अत्र मनुः- न पूर्वङ्गुरवे किञ्चिदुपकु
२४८ समावर्त्तनविधिः । [ २ प्रपाठके- इति । दारानिति(१) । स्नानात्प्रागेव कन्यां प्रार्थयेदित्यर्थः । तेन नाश्रम- क्रम(२)विरोधस्सम्भवति । तथाच कात्यायनः— “यदि दत्ता भवेत्कन्या वाचा सत्येन केन चित् । सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥” इति । अन्यथा—कन्यामप्राप्य । समावर्त्तने कृते तदुत्तरं कन्यालाभविल- म्बेऽनाश्रमित्वं स्यात्तच्चानिष्टम् । तथाच मनुः— “अनाश्रमी न तिष्ठेत दिनमात्रमपि द्विजः । आश्रमेण विना तिष्ठन्प्रायश्चित्तीयते हि सः ॥” इति । तस्माद्व्रतस्थ एव कुतश्चित्कन्यां प्राप्य पुण्यदिने स्नात्वा तदुत्तरदिने विवाहं कुर्यादिति वर्त्तुलार्थः । कात्यायनः- “अनूढे^व तु सा कन्या पञ्चत्वं यदि गच्छति । न तदा व्रतलोपः स्यात्तेनैवान्यां समुद्वहेत् ॥” अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम् । तमग्निमात्मसात्कृत्वा क्षिप्रं स्यादुत्तराश्रमी ॥” इति । तेनैव-कृतान्तिमसमिदाग्निनैव ॥ ३ ॥ कीदृशान्दारान्कुर्वीत ? इत्युच्यते— असगोत्रान् ॥ ४ ॥ गोत्रं-प्रसिद्धम् । (३)समानं गोत्रं येषान्ते सगोत्रास्तद्भिन्नान् असगोत्रान् । दारान्कुर्वीतेति गतेन सम्बन्धः । एवमग्रेऽपि ॥ ४४ ॥ मातुरसपिण्डान् ॥ ५ ॥ मातुः सपिण्डा ये न भवन्ति तान् । सापिण्ड्यमुक्तपूर्वमनुसन्धेयम् ॥ ५ ॥ नाग्निकातु श्रेष्ठा ॥ ६ ॥ नाग्निकेत्यनागतार्त्तवोच्यते । “नाग्निकाऽनागतार्त्तवे”त्यमरात् । सा तु श्रेष्ठेति तादृशान्दारानुद्वहेदिति केचिद्व्याचक्षते । नैतत्सुन्दरम् । दारानित्युपात्त- ( १ ) उक्तमपि ( २।३।१ सू० ) दारकरणमिहाज्ञातत्वाद्विरूपगुणविधानार्थम्पुनरु- च्यते । दारार्थं वा । अथवा दारान् कुर्वीत । कर्तुं प्रयतेतेत्यर्थः । तदनेन दारकरणाय प्रयत्नोविधीयते न तु दारकरणम् । तस्य दानोत्तरभावित्वात् । इत्युक्तमनुवचनादव- सीयते ॥ ( २ ) ब्रह्मचारी-गृही भूत्वा वनी भवेद्वनीभूत्वा प्रव्रजेत् इति श्रुतेः । “आश्रमा- दाश्रमं गच्छेद्”ति स्मृतेश्च ॥ ( ३ ) समानता वरगोत्रेण । “समभिव्याहृतपदेनोत्थिताकाङ्क्षा प्रधानक्रियाकर्त्रा शाम्यती”ति नियमात् । तेन “समावरं पितरं नमस्करोती”-त्यत्र नमस्कर्तृनिरूपितमेव मातृत्वमिति सिद्धम् ॥
४ कण्डिका ] गोभिलगृह्यसूत्रे- २४६
विभक्तिवचनातिक्रमात् । तस्माद्दारकरणेन सहास्य न सम्बन्धोऽपि तु- “एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । गौरीं वाप्युद्वहेद्भार्यां नीलं वा वृषमुत्सृजेत् ।” इति वचनाद्दारान्करिष्यता तावद्गौरी प्राप्तावेव यतनीयं, दातुस्तु नग्निका श्रेष्ठेति(१) सूत्रार्थः । तथाचवसिष्ठः-“तस्मान्नग्निका दातव्ये-”ति ॥ ६ ॥ अथाप्लवनम् ॥ ७ ॥ अथेत्या(२)नन्तर्यार्थम् । व्रतान्तबोधितैन्द्रस्थालीपाकादिकर्म्मानन्तरम् । ब्रह्मचारी आप्लवनम्-स्नानम् । “आप्लाव आप्लवः स्नानम्” इत्यमरात् । “कुर्यादि”-ति शेषः ॥ ७ ॥ तद्विधिविवक्षयेदमाह- उत्तरतः पुरस्ताद्वाऽऽचार्यकुलस्य परिवृतम्भवति ॥ ८ ॥
( १ ) अत्र चन्द्रकान्तः । न
२५० समावर्त्तनविधिः । [ ३ प्रपाठके- आचार्यकुलस्य-गुरुगृहस्य "कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लीवम्” इति मेदिनी । उत्तरतः । उत्तरस्यां दिशि । सार्ववि- भक्तिकस्तसिः । ( पा० ५।४।४४ वा० ) पुरस्तात्-पूर्वस्यां वा । परि-सर्वतो- भावेन [ मण्डपादिरूपेण ] वृत-मा(१)वृतमाच्छादितम्भवति । किञ्चित्स्था- नम् ॥ ८ ॥ तत्र प्रागग्रेषु दर्भेषूङ्ङाचार्य उपविशति ॥ ६ ॥ तत्र-तस्मिन्परिवृते स्थाने । उदङ्-उत्तराभिमुखः ॥ ९ ॥ तस्मिन्नेव परिवृते स्थाने-आचार्यसन्निधौ- प्राग् ब्रह्मचार्य्युदगग्रेषु दर्भेषु ॥ १० ॥ उपविशतीत्यनुवर्त्तते । प्राक्-प्राङ्मुखः ॥ १० ॥ सर्व्वौषधिविफाण्टिताभिरद्भिर्गन्धवतीभिः शीतोष्णाभिराचार्यो- ऽभिषिञ्चति ॥ ११ ॥ व्रीह्यादिसर्व्वौषधीभिः(२) सह या आपोविफाण्टिता(३) विपक्काः । उष्णी- कृता इति यावत् । ताभिर्गन्धवतीभिः । सुगन्धिद्रव्यसुवासिताभिः । शीतोष्णा- भिः । शीतोदकमिश्राभिरुष्णाभिः । यद्वा शीताश्च ता उष्णाश्चेति शीतोष्णास्ता- भिः । नातिशीताभिर्नाप्यत्युष्णाभिः । अद्भिर्ज लैः । "ब्रह्मचारिणम्” इतिशेषः । सोऽयं परमतोपन्यासः ॥ ११ ॥ स्वमतमभिधीयते— स्वयमिव तु ॥ १२ ॥ तु-शब्दात्पक्षोविपरिवर्त्तते । इवशब्द एवार्थः । स्वयमेव ब्रह्मचार्य्यात्मा- नमभिषिञ्चेन्न पुनराचार्यः । अत एव वक्ष्यति-“आत्मानमभिषिञ्चति” (३।४। १६) इति । तस्मादाचार्योऽभिषिञ्चेदित्येतत्परमतमिति तत्त्वकारादयः । मुरारिमिश्रास्तु-इवशब्देऽत्रैवार्थे । तु शब्दोवार्थे । तथाच स्वयमेववा ब्रह्मचा- र्य्यात्मानमभिषिञ्चेत् ॥ १२॥ अत्रहेतुमाह— मन्त्रवर्णोभवति ॥ १३ ॥ ( १ ) उपसर्गस्थ धातुनान्तर्भावादुपसर्गा अर्थविशेषद्योतका एवेति राद्धान्तो- व्याकृतिविदाम् ॥ उपेत्य धातून्सृजन्त्यनेकार्थान्द्योतयन्त इत्युपसर्गा उच्यन्ते । ( २ ) कात्यायनः "व्रीहयः शालयोमुद्गागोधूमाः सर्षपास्तिलाः । यवाश्चौषधयः सप्तविपदेहान्त धारिताः ॥” इति ॥ ( ३ ) ईषत्पक्कः क्वाथविशेष फाण्टम् । फणन्तेः क्तः ( पा० ३।२।१०२ ) निपातितः । तत इतचि ( पा० ५।२।३६ ) फाण्टिताईषत्कथिता आपः । अत्रौषधियोगविशेष इति ता अत्र विफाण्टिता उक्ताः ।
मन्त्रवर्णोऽभिषेकमन्त्रलिङ्गम् । तत्स्वरसादित्यर्थः । तद्यथा-“तेनाहम्माम- भिषिञ्चामि” इति । “तेनमामभिषिञ्चतम्” इति च । एवञ्च द्वितीयपक्षे हेतू- पदर्शनात् सूत्रकारसम्मति रपि तत्रैव । अतएव वीरेश्वरोपाध्यायाः स्वपद्धतौ तथैव लिखितवन्तः । वस्तुतस्तु-आचार्योऽत्रब्रह्मचारिणमभिषिञ्चति । ब्रह्मचारी वा स्वयमेवात्मानमभिषिञ्चति । इति । तथाच पठन्ति- “ब्रह्मचारी अनुज्ञातो गुरुणा गुरुरेव वा । सर्वौषधिविमिश्राभिः शीतोष्णाभिः सुगन्धिभिः” ॥ इत्येवमादि ॥ १३ ॥ अभिषेकप्रकार इदानीमभिधीयते- “येऽश्वन्तरग्नयः प्रविष्टाः” इत्यपाञ्जलिमवसिञ्चति ॥१४॥ ( मं० ब्रा० १।७।१ ) अपां प्रकृतानामेव । अञ्जलिम् । अञ्जल्यवच्छिन्ना आपः । अवसिञ्च
विकृतिङ्गमयतीति तनुदुषिः(१) : 'इन्द्रियहाः' इन्द्रियाणि हन्तीति इन्द्रियहाः ॥ १ ॥ इति ॥ १४ ॥ “यदपां घोरं यदपां क्रूरं यदपामशान्तम्”ति च ॥१५॥ ( सं० ब्रा० १।७।२ ) अस्य “अति तत्सृजामी"-ति शेषः । 'अपां' सम्बन्धि 'यद्' 'घोरं' भया- नकम् । 'यन्' च 'अपां' सम्बन्धि । 'क्रूरम्' निष्ठुरम् । 'यन्' च 'अपां' सम्ब- न्धि 'अशान्तम्' रुजाकरम् 'तत्' अतिसृजामि । उत्सृजामीत्यर्थः ॥ २ ॥ इति । अनेनाप्यपामञ्जलिमवसिञ्चति । तस्मादत्रापि भूमावेवाञ्जलिपरित्याग इति कर्मेन्द्रियापद्घोरनुषङ्गार्थश्चकारः ॥ १५ ॥ “योरोचनस्तमिह गृह्णामि” इत्यात्मानमभिषिञ्चति ॥१६॥ ( मं० ब्रा० १।७।३ ) “योरोचन” इति मन्त्रेण ब्रह्मचारी आत्मानमभिषिञ्चति । अभिषिञ्चेत् । अभीति सर्वतोभावे । अयमभिषेकः “अङ्गानां शिरः प्रधानम्”ति शिरसि कर्त्तव्यः । “अव्यक्तं प्रधाना(२)मौ”ति न्यायादप्या(३)प्लावनमित्यधिका- राच्च । अस्य “तेनाहममामभिषिञ्चामि” इतिशेषः ॥ अस्यार्थः । घोरादिषु त्यक्तेषु । 'यो' ऽन्यो 'रोचनः' तदाख्यो ऽभिप्रीतिकरः(४) । 'तं' अहम् 'इह' स्थितम् । गृह्णामि । तथाच 'तेन' जलान्तर्वर्त्तिना रोचनेन 'अहं' 'माम्' आत्मानम् 'अभिषिञ्चामि' इति ॥ ३ ॥ किमर्थमित्युत्तरेणान्वितम् ॥ १६ ॥ “यशसे तेजस” इति च ॥ १७ ॥ ( सं० ब्रा० १।७।४ ) “यशसे” इत्यादिना मन्त्रेण च पूर्ववदात्मानमभिषिञ्चति । ब्रह्मचारी । प्रकृतानामपामञ्जलिना ॥ मन्त्रोयथा— “यशसे तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय वीर्यायान्नाद्याय रायस्पोषाय त्विष्ट्यै अपचित्यै” ॥ ४ ॥
( १ ) “इक्कॄष्यादिभ्यः” (पा० ३।३।१०८ वा०) इतीकप्रत्यये गुणाभावः । दलोपः पृषोदरादित्वात् ( पा० ६।३।१०९ ) ॥ ( २ ) सन्देहे हि प्रधानानुसरणं कर्त्तव्यमिति हि न्यायाशयः । ( ३ ) यद्यपि “स्नानञ्चतुर्भिः कलशैस्त्रिभिराप्लवनं स्मृतम्” इति कात्यायनेन परिभाषितन्तथापि स्नानमात्रं जहदजहल्लक्षणया भाष्यकृद्भिरत्राप्लवनं व्याख्यातम् । तथाच मन्त्रेण बोध्यमभिषेकस्तदेवाप्लवनापरपर्यायं स्नानं प्रधानकर्मेतिप्रतिपाद- यिष्यते ॥ ( ४ ) “रुचदीप्तावभिप्रीतौच” ( भ्वा० आ० ) नन्द्यादित्वाल्ल्युः (पा० ३।१।१३४) योरनः । ( पा० ७।१।१ ) ॥
४ कण्डिका ] गोभिलगृह्यसूत्रे— २५३ इति । अस्यार्थः । अत्र सर्वत्र तादर्थ्ये चतुर्थी ( पा० १।४।४४ वा० ) 'ब्रह्मवर्चसाय'(१) याजनाध्यापनोत्कर्षजतेजसे । 'रायस्पोषाय'(२) धन- समृद्धयै । 'त्विष्यै'(३) दीप्तये । 'अपचित्ये'(४) पूजायै । अन्यत्सुगमम् ॥१७ “येन श्रियमकृणुतमि”—ति च ॥ १८ ॥ [ सं० ब्रा० १।७।५ ] “येन श्रियमि”—तिमन्त्रेण चात्मानमभिविञ्चति । मन्त्रो यथा— “येन श्रियमकृणुतं येनापामृशतं सुराम् । येनाक्षावभ्यषिञ्चतं ये चेमाम्पृथिवीम्महीम् । यद्वान्तदश्विना यशस्तेन मामभ्यषिञ्चतम्” ॥५॥ इति । अस्यार्थः—अनेन देववैद्यावश्विनौ कर्म्मणामधिष्ठातारौ संस्तूयप्रा- र्त्थ्येते हे 'अश्विना !' अश्विनौ !(५)'येन' कर्म्मणा युवां 'श्रियं' विपुलाख्याम् 'अकृणुतम्' (६)हिंसितवन्तौ । 'येन' च 'सुराम्' मदिराम्(७) 'अपामृशतं' खण्डितवन्तौ ( नेयंपातव्येति ) 'येन' वा 'अक्षान्' (८)पाशकानपि अपामृ- शतमित्येव । 'ये' येन 'च' 'इमां' 'महीं' महतीं(९) 'पृथिवीम्' भूमिम् 'अभ्य- षिञ्चतम्' अभिषिक्तवन्तौ ( शस्यप्ररोहणादिद्वारा संवर्द्धितवन्तौ ) एवं भूतं 'यद्' 'वां' युवयोः 'यशः' शोभनकर्म्म 'तेन' यशसापुरस्कृतौ युवां 'माम्'अपि 'अभ्यषिञ्चतम्' अभिषिक्तं ( संवर्द्धितं ) कुरुतम् । यथायुवाभ्यामभिषिक्तः कृतकृत्योभवानीति ॥ ५ ॥ १८ ॥ एवं मन्त्रेण त्रिः— तूष्णीञ्चतुर्थम् ॥ १६ ॥ तूष्णीम्-अमन्त्रञ्चतुर्थम्मार्जनम् कुर्यादित्यर्थः ॥ १९ ॥ ( १ ) ब्रह्मणोवर्चोब्रह्मवर्चसन्तस्मै । “ब्रह्महस्तिभ्यां वर्चसः” (पा० ५।४।७८) इति समासान्तः । ( २ ) रैतिधननाम “अर्थंरैविभवाअपि”त्यमरात् । “षष्ठ्याः पतिपुत्रपयस्पोषेषु” ( पा० ८।३।५३ ) इतिसत्वम् । ( ३ ) त्विषिर्दीप्त्यर्थः । “इक् कृष्यादिभ्यः” ( पा० ३।३।१०८ वा० ) इतीक्प्रत्य- योभावे । कित्त्वादगुणाभावः । गुणविष्णुमते त्विष्या इति पाठः। तत्र त्विषेः क्तिन् (पा० ३।३।९४ ) भावे स्त्रियां बोध्यः ॥ ( ४ ) “पूजानमस्याऽपचितिरि-”त्यमरः । ( ५ ) “सुपां सुलुक्०” ( पा० ७।१।३९ ) इत्यादिनाऔङआत् । ( ६ ) “कृविहिंसाकरणयोश्च” (स्वा० प०) लङ् । “धिन्विकृण्व्योरच्च” (पा० ३।१।८०) इत्युप्रत्ययः । ( ७ ) “सुराहलिप्रिहालापरिस्रुद्वरुणात्मजे” तिमद्यपर्यायेऽमरः । ( ८ ) “अक्षास्तुदेवनाः पाशकाश्चते” इत्यमरः ॥ ( ९ ) “पृषोदरादित्वात्” ( पा० ६।३।१०९ ) अप्शब्दकुलोपः ॥