भारतकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

१४ आचमनविधिः । [ १ प्रपाठके- नु-अक्तं भूमिगतं यस्य सः । “अञ्जव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० ) इत्यस्माद् “गत्यर्थाकर्म्मके”— (पा० ३।४।७२) त्यादिना कर्त्तरि क्तः । कुत्वं, भूततद्दक्षिणजानुः । दक्षिणेनाग्निम् । दक्षिणस्यामदूरवर्त्तिन्यां दिश्यग्नेः । अत्र “एनबन्यतरस्यामदूरेऽपञ्चम्या” (पा० ५।३।३५) इति विहितेनबन्तयोगे “एनपा द्वितीया” (पा० २।३।३१) इति द्वितीया षष्ठ्यर्थे । “उपपदविभक्तित्वात् । “उप- पदविभक्तीनां सम्बन्धोऽर्थः षष्ठ्यपवादत्वात् । “उत्सर्गसमानदेशा ह्यपवादा भव- न्ती”ति महाभाष्योक्तेः । एवमग्रेऽपि यथायथमूह्यम् । “अदिते अनुमन्यस्व” इति अनेन मन्त्रेण करणभूतेन । तेन मन्त्रं पठित्वेत्यर्थः । “मन्त्रान्ते कर्म्मादी- न्सन्निपातयेत्” ( जै०सू० १२।३।१२ ) इत्यधिकरणसिद्धान्तात् । मन्त्रार्थस्तु- हे अदिते ! देवि ! मामनुमन्यस्व अनुजानीहि । त्वयाऽनुमतः कर्म्मफलं लब्धास्मीति । एवमग्रेतनयोरपि । एताभिस्तिसृभिरनुमतः कर्म्म कुर्वाणस्तत्फ- लभाग्भवतीति आम्नायते । उदकाञ्जलिम्-उदकपूरितमञ्जलिम् । वस्तुतस्तु— अञ्जलावुदकमिति सप्तमीसमासे “राजदन्तादित्वात्” ( पा० २।२।३१ ) उद- कस्य पूर्वनिपातः । अवच्छेदकत्वरूपविषयता सप्तम्यर्थः । “गृहीत्वाचाऽऽस्य- केशेष्वि”तिवत् । अञ्जल्यवच्छिन्नमुदकमिति तदर्थः । प्रसिञ्चेत्-प्रा(१)गग्रं सिञ्चेत् ॥ १ ॥ “अनुमतेऽनुमन्यस्वे”तिपश्चात् ॥ २ ॥ पश्चात्—पश्चिमायां दिशि अग्नेः । उदकाञ्जलिं प्रसिञ्चेत् । इत्यनुवर्त्तते । उदगग्रमित्यर्थः ॥ २ ॥ “सरस्वत्यनुमन्यस्वे”त्युत्तरतः ॥ ३ ॥ उत्तरतः । उत्तरस्यान्दिशि । अग्नेः । उदकाञ्जलिं प्रसिञ्चेत्पूर्वाग्रम् ॥ ३ ॥ “देवसवितः प्रसुवे”ति प्रदक्षिणमग्निम्पर्युक्षेत्सकृद्वा त्रिर्वा । ॥ ४ ॥ “देवसवितःप्रसुवे”त्येवमादिना मन्त्रेण करणभूतेन । तथाच मन्त्रः “देव- सवितःप्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय । दिव्यो गन्धर्व्वः केतपूः केतन्नः पुनातु वाचस्पतिर्वाचं नःस्वदतु ।” इति । अस्यार्थः—हेदेव ! सवितः ! यज्ञंप्रसुव, क- र्त्तव्यतयाऽनुजानीहि । यज्ञपतिं-यजमानंमाञ्च भगाय भजनीयाय कर्म्मफलाय प्रसुव कर्म्मभागिनं कुर्व्वित्यर्थः । दिव्यो-दिविभवोगन्धर्व्वः रसानां धारयिता । केतपूः प्रज्ञाप्रदः । ( निघं० ३।९।१ ) स केतं प्रज्ञां नः पुनातु । (२)निर्मलाङ्क- ( १ ) अग्नेःखलु दक्षिणस्यामदूरवर्त्तिन्यां दिशि अयं प्रसेकः । पूर्वाभिमुखश्च कर्त्ता भवति । “प्राञ्च्युदञ्चि वा कर्म्माण्यानुतिष्ठेरन्नि”ति च ब्राह्मणम् । ( २ ) अत्रैक एवादित्यो गन्धर्व्वरूपेण प्राणरूपेण च स्तूयते । तत्र प्रथमं प्रत्यक्षकृतः । पश्चात्परोक्षकृत,इत्येवं निगमवाक्यशैली बहुत्रोपलभ्यत इतिद्रष्टव्यम् ।

रोतु । वाचस्पतिः (१) प्राणः । नोऽस्माकं वाचं स्तुतिरूपां स्वदतु स्वादयतु । देव- ताप्रीतिकरीङ्करोतु । अन्तर्भावितण्यर्थोऽत्र स्वदतिः । व्यत्ययेन पदस्यात्रोपन्य- स्तः । ( पा० ३।१.८५ ) इति । प्रदक्षिणं यथा भवति तथा अग्निं पर्युक्षेत् । परित उक्षेत् सिञ्चेत् । “उक्षसेचने” ( भ्वा० प० ) विधौलिङ् । उदकाञ्जलि- धारया प्रदक्षिणमग्निं वेष्टयेत् । इत्यर्थः । सकृद्वा त्रिवेति क्रियाविशेषणम् । वा- शब्दद्वयेन तुल्यवद्विकल्पेऽपि त्रिरावृत्तिपक्षे तद्विधेरनुष्ठानलक्षणोऽप्रामाण्यमि- या फलभूमा कल्पनीयः । अतएवाह कात्यायनः- “यत्र स्यात्कृच्छ्र भूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं ब्रुवते तत्र कृच्छ्राच्छ्रेयोह्यवाप्यते” इति ॥ ४ ॥ पर्युक्षणप्रकारमाह— पर्युक्षणान्तानव्यतिहरन्नभिपर्युक्षन् होमीयम् ॥ ५ ॥ अन्त—शब्दोऽत्रार्थः । अग्निष्टोमे द्वितीयायां धुरि “तस्यान्तेऽन्तरे सल्लँग्मे” इत्यत्र तदर्थकत्वदर्शनादिति शुभकर्मनिर्णये मुरारिमिश्राः प्राहुः । भाष्यान्तरेऽ- प्येवमेव । व्यतिहरन्—व्यतिषञ्जनप्रतिलोमीकुर्वन् । बहुवचनश्रुतिस्त्रित्वतिपक्षा- भिप्राया । तदयमर्थः । पर्युक्षणानाम्पर्युक्षणोदकधाराणा(२) मन्तान् आरम्भान् व्यतिहरन्नभ्यन्तरतः कुर्वन् । इति । अनेनैतदुक्तम्भवति—पर्युक्षणारम्भकोटि- मभ्यन्तरतोऽवसानकोटिञ्च बहिः कुर्यादिति । वीरेश्वरादयोऽप्येवमेवाहुः । हो- मीयम्—होमार्थमुपकॢप्तं व्रीह्यादि । तस्मै हितमित्यर्थे—“विभाषा हविरपूपादिभ्यः” ( पा० ५।१।४ ) इतिच्छस्तस्येयादेशः । ( पा० ७।१।१ ) अभिपर्युक्षन्—पर्युक्षण- धारयाऽभ्यन्तरतः कुर्वन् इत्यर्थः । यद्वाऽऽभिमुख्येन सिञ्चन्त्स्पर्शयन्पर्युक्षेद्- ग्निम् इति सम्बध्यते ॥ ५ ॥ अथहविष्यस्यान्नस्याग्नौ जुहुयात्कृतस्यवाऽकृतस्यवा ॥ ६ ॥ अथ—इत्यानन्तर्यार्थोविशिष्टमानन्तर्यमभिद्योतयति—पर्युक्ष्य तूष्णीं समिध- माधायाथजुहुयान् इति चन्द्रकान्तभाष्यम् । तेन हि प्रथमसूत्रे परिसमुह्येत्यस्य विच्छिन्नानग्न्यवयवानेकीकृत्यामन्त्रकमितिव्याख्यातम् । तदेतदनुमतं पूर्वषाम् । यच्चोद्धृतन्तेन— “समिदादिषु होमेषु मन्त्रदैवतवर्जिता । पुरस्ताच्चोपरिष्टाच्च इन्धनार्था समिद्भवेत्” ॥ इति कर्म्मप्रदीपवचनं तदपि पूर्वार्थापरिज्ञानविजृम्भितमितिनकिञ्चिदेतत् । हविष्यस्य—हविषि होतव्ये वस्तुनि साधोः “तत्र साधुः” ( पा०४।४।९८ ) इति

( १ ) तथाच “पुनरेहि वाचस्पते” ( ऋ० सं० १०।१६१।३।७) इति मन्त्रे वाचस्पति- पदेन प्राण एव सम्बोधितः सायणाचार्यदुर्गाचार्यादिभिः । ( २ ) तथाचात्रोक्षतेः करणे ल्युटि योरनादेशाइत्यवगन्तव्यम् ।

३६ आचमनविधिः। [ प्रपाठके १ साध्वर्थे यत्प्रत्ययः। “हविः सर्पिषि होतव्ये” इति हैमः। अन्नस्य-अदनीयस्य माषकोद्रवादि(निषिद्ध)(१)भिन्नस्य यवादेः। अवयवलक्षणाऽत्र षष्ठी। तेनाऽव- शेषोऽप्यस्योक्तोभवति। तथा चनिर्वापप्रमाण कात्यायनः— “यावता होमनिष्पत्तिर्भवेद्यः यत्र कीर्त्तिता। शेषश्चैव भवेत्किञ्चित्तावन्तं निर्वपेच्चरुम्” ॥ इति। अग्नौ-सुसमिद्धे(२) वह्नौ। जुहुयात्। हविष्याण्याह बृहस्पतिः— “हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः। कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥ १ ॥ षष्टिका कालशाकञ्च मूलकञ्चे(३)मुकेतरत्। कन्दं, (४)सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ २ ॥ (१) तथाच च्छन्दोगपरिशिष्टम्— “हविष्येषु यवा मुख्यास्तदनु व्रीहयःस्मृताः। माषकोद्रवगौरादीन्सर्वालाभेऽपिवर्जयेत्” ॥ इति। गौरो-गौरसर्षपः। आदिना कुलत्थमसूरादिपरिग्रहः। (२) तदेतदुक्तप्रायमपि प्रतिविशिष्टज्ञापनायाग्निपदोपादानमवगमयति। तदुक्तं कम्मैप्रदीपे कात्यायनेन— “योऽनर्चिषि जुहोत्यग्नौ व्यङ्ग़ारिणि च मानवः। मन्दाग्निरामयावी च दरिद्रश्चैव जायते ॥ तस्मात्समिद्धे होतव्यं नासमिद्धे कदाचन। आरोग्यमिच्छताऽऽयुश्च श्रियमात्यन्तिकीन्तथा”॥ इति। आत्यन्तिकीं-पुत्रपौत्रानुवर्त्तिनीम्। समिन्धनञ्चाग्नेर्व्यजनादिना कार्यं, मुखेनैव वेत्ये- के। तदप्याह स एव— “जुहुवंश्च हुते चैव पाणिशूर्पस्फ्यदारुभिः। न कुर्यादग्निधमनं कुर्याद्वा व्यजनादिना ॥ मुखेनैके धमन्त्यग्निं मुखादेषोऽध्यजायत। नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत्”॥ इति। जुहुवन्-होतुमिच्छन्। हुते वा पाण्यादिना वह्निसन्दीपनं न कुर्यात्। किन्तु व्यजनादिनैव कुर्यादिति पूर्ववचनार्थः। कुर्याच्चेति चकारोऽवधारणे। इत्थंहि स्वमतमभि- धाय मतान्तरमुपन्यस्यति-मुखेनैक इति। “मुखादग्निरजायते”-ति श्रुतेरग्नेर्मुखप्रभवत्वा- न्मुखेनैव दीपनम्। औचित्यात्। “नाग्निं मुखेनोपधमेदिति श्रुतेरसंस्कृताग्निविषय- त्वेन योजनादित्यर्थः। इदञ्च न स्वमतम्। “कुर्याञ्च्चव्यजनादिने”ति सिद्धान्तिते आका- ङ्क्षानिवृत्तौ मुखेनेति पुनरभिधानायोगात्। (३) क्वचि “त्कन्दं वै केसुकेतरत्” इतिपाठः। आचारचिन्तामणौ “केचुकेतरत्” इतिपठितम्। तत्र केचुकं “कञ्चु” इति मिथिलाभाषायां प्रसिद्धम्। (४) “लवणे सैन्धवसामुद्रे” इति स्मृतिसुधाकरधृतः पाठः। सामुद्रम्-समुद्रोति प्रसिद्धम्। पुरुषोत्तमक्षेत्रादौ “खरलेति” प्रसिद्धम्।

कः. In footnote 4: “कङ्गुनी”ति or “कहुनी”ति? Look closely: it has क, then a letter with no upper loop, hook below: wait, look at 'कङ्गुनी': is there an anusvara? There is a dot above: कँ? No, look at the letter: it is 'कहुनी' or 'कङ्गुनी'? It looks very much like "कङ्गुनी" or "कहुनी" - wait, in Bengali, Kangni is called "काओन", in Maithili "काउनि". In Bengali/Gaudabhasha it's also "कांगुनी" / "काँगुनी". The letter is ङ्गु or हु? It has no dot for ङ्. It looks like ह with u-matra: "कहुनी" or "कङ्गुनी"? Actually, it looks like "कहुनी"ति or "कङ्गुनी"ति. Let's look at the letter: top horizontal bar, vertical short, curve right, then curve left down, with a tail: that is 'ह'! With 'ु', it is 'हु'. But wait, in Bengali it might be misprinted for 'कङ्गुनी'. Let's look: "कहुनी"ति or "कङ्गुनी"ति.) Wait, look at ( ५ ): ( ५ ) “जिमीकन्द” इति पश्चिमोत्तरे । “ओल” इति मिथिलायां

स्मृतिदीपिकायां वामदेवोपाध्यायाः प्राहुः । अयञ्च होमः पाणिनेव कार्यः । तथा च कर्म्मप्रदीपः— “होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः । पाणिरैवेतरस्मिंस्तु स्रुचा चात्र न हूयते ॥” इति ॥ आहुतिप्रमाणमपि तत्रैव—( क० प्र० ) “पाण्याहुतिर्द्वादशपर्व्वपूरिका कंसादिना चेत्स्रुवमात्रपूरिका । दैवेन तीर्थेन च हूयते हविर्व्यङ्गारिणि स्वर्चिषि तच्च पावके ॥ इति । अत्रापि विशेषः स्मर्य्यते— “उत्तानेनैव हस्तेन अङ्गुष्ठाग्रेण पीडितम् । संहताङ्गुलिपाणिस्तु वाग्यतोजुहुयाद्धविः ॥” इति । अन्नस्येति विशिनष्टि—कृतस्य-ओदनादेः । अकृतस्य व्रीह्यादेर्वा, तदाह कात्यायनः— “कृतमोदनसक्तादि तण्डुलादि कृताकृतम् । व्रीह्यादि चाकृतम्प्रोक्तमितिहव्यं त्रिधामतम् ॥” इति । व्याख्यातौ वा शब्दौ । प्रतिनिधिरपि यथोक्तवस्त्वलाभे कात्यायनोक्त उक्तः प्राक् । ( १।१।२३ ) ॥ ६ ॥ अकृतञ्चेत्प्रक्षाल्य जुहुयात्प्रोदकं कृत्वा ॥ ७ ॥ अकृतं-व्रीह्यादि चेज्जुहुयात्तर्हि पूर्व्वमेव (१)तत् प्रक्षाल्य “त्रिर्देवेभ्यः (२)प्र- क्षालयेत्” ( १।७।५ ) इति दर्शनाद्देवार्थत्वाच्चास्य “वारत्रयमि”ति शेषः । प्रो- दकं-प्रगतोदकम् । “प्रादिभ्योधातुजस्य वाच्यो वा चोत्तरपदलोपः” ( पा० २। २।२४ वा० ) इति बहुव्रीहौ गतपदलोपः । शुष्कञ्च कृत्वा जुहुयात् ॥ ७ ॥ अथ यदि दधि पयोयवागूं वा कंसेन(३) वा चरुस्थाल्या वा स्रुवेण वैवा ॥ ८ ॥ अथ-व्रीहियवयोरलाभे यदि दधि पयोयवागूं (४)जुहुयात्तदा केन ?


( १ ) होमदिनात्पूर्व्वदिन एव तथाभूतं सम्पाद्य शुचौ भाजने स्थापयेत् । होमस- मये तत एवोद्धृत्योद्धृत्य शुष्कन्तज्जुहुयात् । सद्यः प्रक्षालने प्रगतोदकेनाप्यवक्लेदेनापचयस- म्भवादिति भावः । ( २ ) अत्र प्रक्षालनं दानस्याप्युपलक्षणम्मत्वा पुष्पाद्यपि त्रिर्देवेभ्योऽर्पयन्ति । तत्र कुच्छ्रभूयस्त्वेन फलभूमैव ( २।३।६ । ) उक्तकातीयवचनादवकल्पते । अन्येतु त्रिःप्रक्षा- लितस्य कृतप्रायतवं मन्यन्ते । मनुष्येभ्योऽपि द्विर्दानन्दध्यादेराजानिकशिष्टाचारादनुगतं दृश्यत इति ॥ वस्तुतस्तु “त्रिष्कृतमयन्देवामन्यन्ते”इति शतपथश्रुतिरेवत्रिः पुष्पादिदाने मूलमिति द्रष्टव्यम् ॥ ( ३ ) भट्टभाष्येऽनेन सूत्रद्वयं कृतम् । ( ४ ) यवागूर्भृष्टयवचूर्णैर्दुग्धपक्वम् ॥

१ कण्डिका ] गोभिलगृह्यसूत्रे- ३६ तत्राह-कंसेन। कांस्य(१)मयभाजनविशेषेण। चरुस्थाल्या चरुर्यत्रस्थाप्यते सा चरुस्थाली तया- “तिर्यगूर्ध्वं समिन्मात्री दृढा नातिबृहन्मुखी। मृन्मय्यौदुम्बरी वापि चरुस्थाली प्रशस्यते॥ इति कर्म्मप्रदीपोक्तलक्षणा। तिर्यगिति। विशालतोन्चैस्त्वाभ्यां प्रादेशप्र- माणा “प्रादेशमात्राः समिध” इत्यन्यत्राम्नानात्। मृन्मयी-मृदा निर्मिता। हस्तघटिता। न तु कुलालचक्रनिर्मितेत्यप्याह-स एव -- “कुलालचक्रघटितमासुरं मृन्मयंभवेत्। तदेव हस्तघटितं स्थाल्यादि खलु दैवतम्॥” इति॥ औदुम्बरी-ताम्रमयी। “औदुम्बरंभवेत्ताम्रे फलादौ यज्ञशाखिनः” इत्य- मयः। स्रुवेणवै वा। अत्र विषमशिष्ट(२)त्वादेवमवगम्यते-शक्त्यपेक्षयाऽत्र विकल्पो नत्वभिधानक्रमापेक्ष्येति। स्रुवोनामाऽरत्निमात्रः खादिरादिर्यज्ञकाष्ठ- मयो होमपात्रमुच्यते। तथाच कर्मप्रदीपः- “खादिरोवाऽथ पार्णोवा द्विवितस्तिः स्रुवः स्मृतः। स्रुग्बाहुमात्री विज्ञेया वृत्तस्तु प्रग्रहस्तयोः॥ स्रुवाग्रे घ्राणवत्खातं द्यङ्गुलपरिमण्डलम्। स्रुचः शराववत्खातं सनिर्व्वांहं षडङ्गुलम्॥ प्राक् शस्तेषां कुशौः कार्यः सम्प्रमार्गोऽजुहूवता। प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा॥” इति। पार्णः- पालाशः। “पलाशः किंशुकः पर्ण”इत्यमरः। तस्येदमित्यर्थे त्राण्। प्रगृह्यतेऽत्रेति प्रग्रहोदण्डः। स च तयोः स्रुवस्स्रुचोर्वृत्तोवर्त्तुलः कार्यः। घ्राण- वत्-नासास्रोतोवत्। तेन द्विपुष्करत्वमायाति। तथा चोक्तम्-“स्रुवाग्रे खननं कुर्यात्पङ्के मृगपदाकृति।” इति। अत्र विशेषमाह-श्रीदेवभाष्ये-आपस्तम्बः- “वैकङ्कत्यग्निहोत्रहवणी बाहुमात्री अरत्निमात्री वा प्रसृताकृतिरि”ति। वैक- ङ्कती-स्रुवावृक्ष-( गम्भारी-) सम्भवा। “वैकङ्कतः स्रुवावृक्षः” इत्यमरः॥ अ- ग्निहोत्रहवणी-स्रुक्। स्रुवश्च। “आकुञ्चितपाण्याकृतिर्हस्ताकृतिः स्रुव” (१) व्रीहियवयोः पाण्याहुतेरुक्तत्वात्॥ (२) स्रुवोह्यत्रोत्पत्तिशिष्टः। अन्यौ चोत्पन्नशिष्टौ। अयमर्थः। स्रुवेण वा जुहुयात् वै इति प्रसिद्धार्थकोनिपातः स्रुवस्यैवं विषेषु होमेषु प्रसिद्धिन्द्योतयति। कात्यायनोऽ- प्याह-“होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः” इति। तस्मात्स्रुवेणैवेति प्रथमः क- ल्पः। तदभावे कंसेन वा चरुस्थाल्यावेति। अभावविकल्पोऽयं तुल्यबलः। दधिपय आ- दावपि पूर्वपूर्वाभावे उत्तरत्तरोविधीयत इति।

४० आचमनविधिः। [ १ प्रपाठके- इति स्मृतिसुधाकरः(१) । सनिर्वाहं-घृतनिर्गममार्गसहितमित्यर्थः । प्राक्शः मूलमारभ्य तदग्रदेशाभिमुखम् । तेषां-स्रुवादीनाम् । संप्रमार्गः । सं- प्रमार्जनम् । जुह्वता-होतुमिच्छता । अत्र कातीयश्रौतसूत्रम्-“विपर्यस्य बर्हि- र्मूलैः” इति । तथा च पद्धतिकृतोवीरेश्वरादयोलिखन्ति-सम्मार्जनकुशानामग्रै- रन्तरतोमूलैर्बाह्यतः स्रुवं संमृज्ये-”ति । लिप्तानां घृतादिलेपवताम् । उभयोः संस्कारे प्रसक्त स्रुव एवादौ संस्कार्यः । “स वै स्रुवमेवाग्रे सम्माष्ट्र्यथेतरा स्रुचः” इति मुरारिमिश्रधृतशतपथश्रुतेः । प्रतापनञ्च सर्वेषां ( लिप्तानामलिप्ता- नाञ्च ) उक्तं चैतत्कारिकायाम्- “प्रतापयेत्ततोवह्नौ रक्षसां वारणाय च । स्रुवखाते च ये सन्ति पापिष्ठाः पापयोनयः ॥ वह्निप्रतापिताः सर्वे भस्मीभवन्ति तत्क्षणात् ॥” इति । अत एवाधोमुखस्य प्रतापनं निबन्धृभिर्लिखितं, तथासति खाततापस्य सुकरत्वात् ॥ ८ ॥ अथ सामवेदिनां सायमारभ्यैवोपासनपरिचरणस्योक्तत्वात् ( १।१।२३ ) तत्प्रकारन्तथैवाह- अग्नये स्वाहेति पूर्वा, तूष्णीमेवोत्तराम् । मध्ये चैवाऽपराजितायाञ्चैव दिशीति सायम् ॥ ९ ॥ पूर्वाम्-प्रथमामाहुतिं मध्य एवाग्नेर्जुहुयात् । इति प्रकृतमनुवर्त्तते । उत्तराम्-द्वितीयाम्-च आहुतिं तूष्णीम-अमन्त्रकमेव । मनसा प्रजापतये स्वाहेति मन्त्रदेवते अनुसन्धाय अपराजितायामैशान्यां दिशि अग्नेर्जुहुयात् । तथाच कात्यायनः- “आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥” इति । ( १ ) प्रकारान्तरं यथा-ग्रहयागपद्धतौ- “खादिरन्तु स्रुवं विद्याच्चतुर्विंशाङ्गुले बुधः । चतुर्थांशेन पाणिः स्यात्तावता कलशौ स्मृतौ ॥ सभूषणौ भागयुगे गण्डी कार्या सुवर्तुला । एकाङ्गुलोऽत्र कण्ठः स्यात्ततस्त्र्यङ्गुलहानियुक् ॥ हस्तोनिकुब्जाङ्गुलिकोमाध्यन्दिनकाराकृतिः । समीपाङ्गुलिसंलग्नाश्चतस्रोऽङ्गुलयोऽन्तरे ॥ बहिः किञ्चिद्विभिन्नाः स्युरङ्गुष्ठस्तलसंस्थितः । अनामिकामध्यपर्वाद्धोरिखा गतोभवेत् ॥ पवित्रञ्चाङ्गुरीयञ्च पाण्योस्तलगंत भवेत् । अङ्गुष्ठपृष्ठसंलग्नं पुष्करञ्चक्षतः पृथक् ॥ तन्मध्ये निखनेत्कूपं कर्षाज्यग्रहणक्षमम् । कलशौ तत्र कर्त्तव्यौ मणिबन्धे परान्तिके ॥ प्रथमेत्र्यङ्गुलं विद्याद्द्वितीयञ्चतुरङ्गुलम् । तयोः पार्श्वेषु कार्याणि कङ्कणानि विशारदैः ॥” इति । गण्डी-दण्ड। कर्षः षोडशमाषमितः ‘गुञ्जाः पञ्चाद्यमाषकाः । ते षोडशा- क्षः कर्षोऽस्त्री” इत्यमरः । मणिबन्धः पाणिप्रकोष्ठसन्धिः ।

अनादेशे द्रव्यस्य, आज्यं(१) गव्यं घृतमेव द्रव्यम् । जुहोतिषु--होमक्रि- यासु । “इक्श्तिपौ धातुनिर्देशे”(२) (पा० ३।३।१०८ वा०) इति स्मरणात् । धातुपदमंत्र तदर्थस्यापि बोधकम् । शब्दार्थयोरभेदात् । अनादेशे—इत्युत्तरार्द्धे- ऽप्यनुषज्यते । मन्त्रस्यानादेशे-प्रजापतिस्तद्देवत्योमन्त्रः “भूर्भुवःस्वरि”ति । स एव च देवता । तथाच मनुः-- “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥” इति ॥ स्थितिः शास्त्रमर्यादा । तदेतद्द्वयं-सायम् “अग्नये च प्रजापतये च सायं जुहोती”ति । “तस्मात् प्राजापत्यां मनसा जुहोति मनोहि प्रजापतिः” इति च ब्राह्मणम् । “अग्नये स्वाहा प्रजापतये स्वाहा” इति सायंम । “सूर्याय स्वाहा प्रजापतये च स्वाहे”ति च प्रातः” । इति च गृह्यान्तरम् । अत्रचन्द्रकान्तभा- ष्यम्--“ताञ्चेमां मध्य एवाग्नेर्जुहुयान्न तु दध्यादिहोमवच्छेदनेरपचयाशङ्कां कुर्यात् । इत्येवकारार्थः । स्तूष्णीमेवेत्येवकारोवाग्व्यापारप्रातषेधनियमयत्युत्त- रस्यामाहुतौ । न खलु वगूव्यापारप्रतिषेधनियमेऽपि मनसोव्यापारः प्रतिषिद्धो भवति । तस्मात्प्रजापतये स्वाहेत्ययं मन्त्रोमनसैवोच्चारणीयोहोमार्थम्”ति ॥९॥ अथ प्रातः सूर्याय स्वाहेति पूर्वा, तूष्णीमेवोत्तराम् , मध्ये चैवाप- राजितायाञ्चैव दिशि ॥ १० ॥ अथेति पूर्वप्रकृतार्थम् । येनैव हविषा सायं होमः कृतस्तेनैव प्रातरपि होतव्यमन्यत्र प्रतिनिधेरित्यवोचाम । ( १।१।२३ ) प्रातर्यथोक्तलक्षणे । अप- राजितायामैशान्याम् ॥ १० ॥ समिधमाधायानुपर्युक्ष्य तथैवोदकाञ्जलीनप्रसिञ्चे-“दन्व- मंस्था” इति मन्त्रविशेषः ॥ ११ ॥ समिधम्मन्त्रदैवतवर्जितां प्रकृतहामापवर्गविहितामिन्धनार्थमाधाय निःक्षि- प्यानौ अनुपर्युक्ष्य अग्निम् । “देवसवितरि”--त्यादिना पूर्व--(१।३।४)--प्रकृ- तेन मन्त्रेणेत्यर्थः । तथैव--तेनैव प्रकारेण ( पूर्वोक्तयैवाऽऽवृता ) उदकाञ्ज-


( १ ) आज्यलक्षणमाह-कात्यायनः ( गृ० सं० ) “अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा । चतुभिरपि यत्पूतन्तदाज्यमितरद्घृतम् ॥ घृतं वा यदि वा तैलं पयोवा यदि- यावकम् । आज्यस्थाने नियुक्तानामाज्यशब्दोविधीयते ॥ आज्यानां सर्पिरादीनां संस्कारे विधिचोदिते । अनधिश्रयणांदन्तः शेषाणां श्रपणं स्मृतम् ॥ यथा सीमन्तिनो नारी पूर्वगर्भेण संस्कृता । एवमाज्यस्यसंस्कारः संस्कारे विधिनोदितः ॥” इति । ( २ ) “आहौ प्रभूतादिभ्यः” “पृच्छतौ. सुस्नातादिभ्यः” ( पा० ४।४।३ वा० ) इत्यादौ तथा दर्शनात् ॥ ६ गो० गृ० सू०

च = चा र्वा (rvā) क् (k) + त (ta) = क्त (kta) र्प (rpa) णा (ṇā) त् (t) का (kā) - wait, त् + का = त्का यः (yaḥ) So the spelling is literally: चा - र्वा - क्त - र्प - णा - त्का - यः ! That is EXACTLY: "चार्वाक्तर्पणात्कायः" (or चार्वाक्तर्पणात्कार्यः if there's a repha)! Look at the letters: चा र्वा क्त र्प णा त्का यः! That has:

  • चा (cā)
  • र्वा (rvā)
  • क्त (kta)
  • र्प (rpa)
  • णा (ṇā)
  • त्का (tkā)
  • यः (yaḥ) Wait! The curve on top of क्त that I thought was a repha is just the top-loop of क or a blotch, or maybe the typesetter put a repha? Wait, if it's "चार्वाक्तर्पणात्कायः", it matches letter for letter! And in "कायः", is there a repha? Look at "त्कायः": above 'का', there isn't really a clear repha, it looks like त्कायः, but might be त्कार्यः where re

१ कण्डिका ] गोभिलगृह्यसूत्रे— ४३ एवमतऊर्ध्वङ्गृह्येऽग्नौ जुहुयादाऽऽजीवितावभृथात् ॥ १३ ॥ एवम् अनेन प्रकारेण । अत एतस्मादनुपदोक्ताद्धामद्वयात् । ऊर्ध्वम्— परतः । गृह्येऽग्नौ । पुनरुपादानादन्यान्यपि यानि कर्म्माणि गृह्येऽग्नौ विधीयन्ते तेष्वपि, न पुनरग्निहोत्रमात्रे । जुहुयात् । स्वयम् । सति सम्भवे । वा—अथवा ( स्वयम सम्भवे ) हावयेद्वा-पुत्रादिभिः असम्भवकारणं चोक्तं कर्म्मप्रदीपे— “सूतके च प्रवासे च अशक्तौ श्राद्धभोजने । एवमादिनिमित्तेषु हावयेदिति योजयेत् ॥” इति । यदा पुनरसमर्थोऽव्याध्यादिना हावयति । तदा यत्कर्त्तव्यन्तदप्याह—स एव-(क०प्र०) “सायं होमऽसमर्थस्य समीपमुपसर्पणम् । तत्राऽप्यशक्तस्य स

? Because the i-matra of दि was close to , making it look like हा, and the stem of was close to the curve of , making it look like two lines! Yes! It is: पाणिग्रहादिगृह्यं परिचरेत्स्वयं, पत्न्यपि वा”—त्याह । Wait, let's look at पत्न्यपि वा”—त्याह: Is it पत्न्यपि वा or पत्न्यपि वा पुत्रो? It is पत्न्यपि वा”—त्याह ।! Wait, look at वा: It has , then , and above वा are the quotes ! Wait, why does वा have a little mark? It's just वा”–त्याह ।

Wait, let's check footnote 4 and other text to make sure we don't miss anything.

Let's check Sutra 14: अथाऽप्युदाहरन्ति ॥ १४ ॥

Line 2: अथे-ति पूर्वप्रकृताऽनेनम् : अथयत्प्रकृते-हावयेदिति । तदस्यार्थस्य द्र- Wait, look at line 2: अथे-ति पूर्वप्रकृताऽनेनम् : or `अथे-ति पूर्वप्रकृताऽनेनम् ।

कण्डिका ] गोभिलगृह्यसूत्रे- ४१ निष्ष्ठिते(१)—सम्पन्ने। सायमक्यत इति सायमाशः। एवं प्रातराश्यत इति प्रातराशः। “अशभोजने” (क्र्या० प०) कर्मणि घञ्, उपधावृद्धिः। स च स चेति द्वन्द्वैकवद्भावः। तस्मिंस्तथोक्ते। अत्राऽपूर्वत्वमभिमत्य रात्रिन्दि- वभोजनाय पर्याप्तेऽन्नपाकेऽभिनिष्पन्न इति तदथ इतिचन्द्रकान्तः। तथाचात्र सायं प्रातः शब्दौ दिवारात्रिपरौ-“मुनिभिर्द्विरशनमुक्तं विप्राणाममर्त्त्यवासिनां नित्यम्। अहनि च तथातमस्विन्यां सार्द्धप्रहरयामा(२)न्तः”॥ इति कर्म्मप्रदी- पदर्शनात्। भूतम् ? निष्पन्नम् ? इति पत्नीम्। सवर्णां वा स्त्रियं पाकेऽधिकृता- मिति चन्द्रकान्तः[३]। प्रवाचयेत्। प्रश्नपूर्वकं वाचयेत्। शब्दकर्मकत्वाद्वचेः कर्मणि द्वितीया। (पा०१।४।५२) भट्टभाष्ये तु—“भूतमिति” ब्रूहीत्युक्त्वा प्रकर्षेण वाचयेत्। कः? प्रकृतत्वात् गृहपतिः। कां? पत्नीम्। अन्नपक्त्या- म्पत्न्या एवाधिकारात्। तथा च मनुः— “अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत्। शौचे धर्म्मेऽन्नपक्त्याञ्च पारिणाह्यस्य चे(वे)क्षणे”॥ इति। धनस्य संग्रहणे विनियोगे च। द्रव्यशरीरशुद्धौ भर्त्रामिश्रश्वश्रादिकेऽ- न्नपचने गृहोपकरणस्य शय्यासनकुण्डकटाहादेरवेक्षणे-एनां-पत्नीं नियोजयेत्॥ वेक्षण इति पाठेऽवस्यादिलोपो द्रष्टव्यः(४)॥ १६॥ अथ प्रवाचनस्य कालप्रकारावाह— ऋते भगया वाचा शुचिर्भूत्वा ॥ १७॥ ऋते—गते—“ऋगतौ” (भ्वा० प०) कर्त्तरिक्तः (पा० ३।४।७२) प्रकृतस्वा- दन्ने। होमार्थमग्निसंन्निधावासादिते सति-इत्यर्थः। अस्मिन्काले प्रवाचयेत्। भगया—भजनीयया(५) (सेवनीयया) वाचा। “भजसेवायां” (भ्वा०उ०) (१) “निष्ठा निष्पत्तिनाशान्ताः” इत्यमराच्छिष्टा-निष्पत्तिः सा सञ्जाता अस्येत्यर्थे (पा० २।२।२६) इतच्प्रत्ययः। पाके सम्पन्न इति फलितोऽर्थः। (३) तथाच महभाष्यमपि-“एतच्च भूतप्रवाचनं पत्न्याः-कुतश्चित्कारणादस- न्निधौ-अन्यथापि सवर्ण्या पाकेऽधिकृत्यवा कार्य्यम्। अपि वा प्रणवादि कुर्यात्। तथा- चोक्तम् (गृ० सं०)। “भूतप्रबाचने पत्नी यद्यसन्निहिता भवेत्। रजोयोगादिना तत्र कथङ्कुर्व्वन्ति याज्ञिकाः॥ महानसेऽन्नं या कुर्यात्सवर्णांन्तां प्रवाचयेत्। प्रणवाद्यपि वा कुर्यात् कात्यायनवचोयथा”॥ इति। अत्र सा यदि भूतमिति वक्तुं न शक्नोति तदान्यदूर्ध्वोंकारादि-सम्मतिप्रति- पादकं कुर्यादित्यर्थ इति रत्नाकरः। तथाच भूतप्रवाचनमिह सिद्धेऽन्ने पत्न्या भूतमिति- प्रश्नपूर्वकं वाच्यम्। (४) तथाचोक्तम्-“वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपञ्चैव हलन्तानां यथा वाचा निशा दिशे”ति। (५) चन्द्रकान्तस्तु-अभगया वाचेतिच्छित्वा पञ्चम्यर्थऋते योगे तृतीयामभि-

कर्मणि घः(१) । (पा० ३।३।१२५) “चजोरि०” ( पा० ७।३।५२ ) ति कु- त्वम् । टाप् । तथा च गृहपतिना भगया ( शोभनया(२)विस्पष्टया ) वाचा “ब्रूही”त्येवमभिहिता पत्नी-शुचिर्भूत्वा आचमनादिना । तथाभूतयैव वाचा- “भूतम्” इति “ब्रूयादिति” शेषः । गृहपतेस्तु – “आचान्तोदकेन कृत्यम्” ( १।१।२ ) इति पूर्वमभिधानाच्छुचिर्भूत्वेति पत्नीसम्बन्धविवक्षयैव सूचित- माचार्येण ॥ १७ ॥ प्रतिजप“त्योमि”त्युच्चैः । “तस्मै नमस्तन्माक्षाः” इत्युपांशु ॥ १८ ॥ इति प्रथमप्रपाठकस्य तृतीया कण्डिका ॥ १ ॥ ३ ॥ ॐ ॥ ॐ इति उच्चैः प्रतिजपति । गृहपतिः । “तस्मै नमस्तन्माक्षा” इति च उपां- शु-अव्यक्तम् यथा भवति तथा प्रतिजपतीत्यर्थः । उपांशु लक्षणमाह-रत्नाकर

१ कण्डिका ] गोभिलगृह्यसूत्रे- ४७ चतुर्थी कण्डिका । ( अथ बलिवैश्वदेवप्रकरणम् ) अथ पत्न्योपक्लृप्तस्यान्नस्य विनियोगमाचष्टे— अथ वाग्यतोबलीन्हरेत् ॥ १ ॥ अथेति-प्रकृतापेक्षार्थकम । प्रक्रान्तेनान्नेन वाग्यतः सयँतवाक् ( मौनी ) सन् बलीन्-देव-भूत-(१)पितृ-बलीन् वक्ष्यमाणान् । हरेत्-दद्यादित्यर्थः । बलिपदं चोपलक्षणं होमादेरपि(२) । “स्वशाखाविधिना हुत्वा तच्छेषेण बली- न्हरेत्” इति कात्यायनवचनात् ॥ १ ॥ अथ वाग्यत इत्यस्यापवादमाह— भाषेताऽन्नसंसिद्धिम् । अतिथिभिः कामं सम्भाषेत ॥ २ ॥ अन्नसंसिद्धिम-उपक्लृप्तस्यान्नस्य सम्यक् सिद्धिं “प्रकृत्य” इति शेषः । किमिदमन्नमुपसिक्तं न वेति भाषेत-वदेत् । एवम् अतिथिभिः(३) अभ्यागतैः सह कामम्-इच्छया सम्भाषेत । बलिहरणकालेऽपि । अतिथिगुणविशेषादिकं ज्ञात्वा इच्छया सम्भाषेत न वा सम्भाषेतेत्यनियमोऽत्र कामशब्देन दर्शितोभवति एतदुभयादन्यत्र मौनमित्यर्थः ॥ २ ॥ अथ हविष्यस्यान्नस्योद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्याग्नौ जु- हुयात्तूष्णीम्पाणिनैव ॥ ३ ॥ अथेति प्रकृतापेक्षममन्त्रकपरिसमूहनादिपर्युक्षणान्तं कर्म्म स्मारयति । क- र्म्मप्रदीपोऽप्याह— “पर्युक्षणञ्च सर्व्वत्र कर्त्तव्यमदितेऽन्विति । अन्ते च वामदेव्यस्य गानकुर्याद्विचक्षणा ॥” इति । सर्व्वत्र-सर्व्वस्मिन्होमकर्म्मणि “वामदेव्यगानं शान्त्यर्थं शान्त्यर्थम्” ( १।९।२१ ) इति । हविष्यस्यान्नस्य पूर्व्वोक्त—( १।३।६ ) रूपस्य । अवयव- लक्षणाऽत्र षष्ठी । सावशेषः खल्वेष होमोभवति । एतदवशिष्टेनैवान्नेन बलि-


( १ ) यद्यपि-कात्यायनेन “होमोदैवोबलिर्भौतः” इत्युक्तं, तथापि देवपदमिह देह- लीदीपन्यायेन पूर्व्वोत्तरयोरन्वयि द्रष्टव्यम् । एवं “पित्र्योबलिरथापि वे”त्युक्त्या तृतीयो- ऽपि । मनुष्येभ्यस्तु — हन्तेत्युक्तेर्न बलित्वेन प्रदानमभिहितमितित्रयोबल्योऽत्र ( वैश्व- देवे,) बहुवचनेनोपात्ताः । नमोऽन्तएवार्य्यबलिर्भवतीत । ( २ ) आदिनाऽतिथिभोजनम् । ततश्च स्वेभ्योऽपि । ( ३ ) न द्वितीया-तिथिरस्येति अतिथिरुच्यते । बहुवचननिर्देशात्सतिसम्भवे बह- वोऽप्यतिथयोभवन्ति इति दर्शयति ।

४८ बलिवैश्वदेवविधिः । [ १ प्रपाठके- हरणस्योक्तत्वान् । गृहमेधिनो भोजनमप्येतदवशिष्टेनेव । अमृत(१)रूपत्वादस्य अन्नस्येत्युक्त्या नात्र चरोरावृदस्तीति(२) बोध्यते । स्थालीपाके खलु चरौ ता- मावृतं वक्ष्यति । नात्र स्थालीपाकः श्रूयते । मनुरप्याह- "वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् । आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम् ॥” इति । विश्वेषां ( सर्वेषां ) देव-भूत-पितृ-मनुष्याणामिदमित्यर्थे ऽण् (पा० ४।३।१२० ) वैश्वदेवमन्नम् तस्येत्यर्थः । व्यञ्जनैरिति । क्षारलवणसंसृष्टै- रित्यर्थः । "न क्षारलवणहोमो विद्यते, तथा परान्नसंस्सृष्टस्ये"-त्यापस्तम्बस्मर- णात् । क्षारलवणसंसृष्टेन हविषा न होतव्यमिति मदनपारिजाते व्याख्या- तम् । क्षारलव(३)णमिति समाहारद्वन्द्वः । “क्षारञ्चलवणं सर्वं वैश्वदेवे विवर्ज- येत्” इति मदनपारिजातधृतस्मृतेः । तत्र क्षारगणः शुभकर्म्मनिर्णयेस्मर्य्यते- “तिलमुद्गह्रते शिम्बिसस्ये गोधूमकोद्रवौ । चीनकन्देवधान्यञ्च सर्वशाकान्तथैव च । स्विन्नधान्यन्तशौर्य्यं स्थूलं क्षारगणः स्मृतः ॥” इति । लवणं च सर्वविधं निषिद्धम् । उपसिच्य । सन्नीय । तूष्णीमिति वाग्व्यापारप्रतिषेधान्मनसा मन्त्रमुच्चारयेत्यर्थः (४) । पाणिनेवेत्येवकारः स्रुवा- दिपात्रान्तरं(५) व्यवच्छिनत्ति । अत्र (पाण्याहुतौ ) अङ्गुष्ठयोग आवश्यकः । ( १ ) यज्ञावशिष्टस्यामृतत्वमभिधीयते "अमृतं विघसोयज्ञशेषभोजनशेषयोः” इति । भगवानप्याह- "यज्ञशिष्टासृतभुजोयान्ति ब्रह्म सनातनम्” इति । एतच्चान्नं पर्यु- षितादि न ग्राह्यम् । "अन्नंपर्युषितञ्चैव परान्नं पायसन्तथा । दग्धमन्नं तथा क्षारं वैश्वदेवे विवर्जयेत्” । इति धर्मार्थधर्मप्रबोधिभ्यां प्रेमनिधिकुराः प्राहुः । ( २ ) तथाच । गृह्यपरिशिष्टे-"अथवैश्वदेवोदिवास्य प्रारम्भोनार्न्नपाकयज्ञतन्त्रमौपा- सनवचनं वा परिसमूह्य पर्युक्ष्यायतनमलङ्कृत्य सिद्धं हविष्यमधिश्रित्याद्भिः प्रोक्ष्योद्गु- द्वास्याग्नेः प्रत्यक् दर्भेषु निधाय सर्पिषाऽभ्यज्य । सव्यं पाणितलं हृदये न्यस्य सकृदवदानेन जुहुयात् । अन्नाभावे तण्डुलादिभिः कुर्यात् । अन्ने च परिसमूह्य पर्युक्षेद्देवं नात्र तन्त्र- मि”ति । अन्नम्-भक्तम् । "भित्सास्त्रीभक्तमन्धोऽन्नम्” इत्यमरः । (३) पारस्कारोऽपि-"त्रिरात्रमक्षारलवणाशिनौ स्याता म”ति वधूवरनियमप्रक्रमे पृथगेव क्षार-लवणावभिहितवान् । तत्र क्षारञ्च लवणञ्चेति हरिहरादिभाष्येषु स्पष्टम- भिहितम् । ( ४ ) "वाग्यतोबलीन्हरेदि"-( ५। ४ । १ ) ति बलिहरण एव वाग्यतत्वमुक्तमि- तीह होमे न प्राप्तोतीत्यतोऽत्रतूष्णीमित्युक्तम् । ( ५ ) तदेतद्धवनं देवतीर्थेन जानुमध्यघृतकरेण च कार्यम् । तथाच हारीतः-“मार्जना- चमनभोजनानि देवेने"-ति । बौधायनश्च-"भोजनं, हवनं दानमुपहारः प्रतिग्रहः । बहि- र्जानु न कार्याणि तद्वदाचमनं स्मृतमि-ति ।

कण्डिका १ ] गोभिलगृह्यसूत्रे- ४२

वैश्वदेवाहुतिस्तु-द्वादशपर्वपूरिका मुख्या- “पाण्याहुतिर्द्वादशपर्वपूरिका रसाहुतिश्चेत्स्रुवमात्रपूरिका । दैवेन तीर्थेन च हूयते हविः स्वङ्गारिणि स्वर्चिषि तच्च पावके ॥” इतिच्छन्दोगपरिशिष्टात् । तथा चच्छन्दोगाह्निके श्रीदत्तोपाध्यायाः प्राहुः । “क्षारं लवणं परान्नं च विहाय हविष्यमन्नं हविष्यव्यञ्जनान्वितं घृताक्तं दध्यक्तं पयोक्तं वा, असम्भवे जलाक्तमपि, दक्षिणकराङ्गुलिद्वादशपर्वपूरकं स्वङ्गा- रिणि स्वर्चिषि वह्नौ कालीकरालीप्रभृतिसप्तजिह्वा लेलिहाना ध्यायन् प्राङ्मुखो बाहुजान्वासना रूढपादॊऽकृतावसक्थिको जानुद्वयमध्यगतबाहुः साङ्गुष्ठदक्षिणेक- रात्रेण जुहुयादि”ति ॥ अत्र होमात्राक् अग्निः पूज्यः ।- तथाच वायुपुराणम्- “दानं प्रतिग्रहोहोमोभोजनं बलिरेवच । साङ्गुष्ठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत् ।” इति । “पूजयेच्च ततोवह्निं दद्यादाहुतयः क्रमात्” । इति च मार्कण्डेयपुराणात् ॥ ३ ॥ प्राजापत्या पूर्वाऽऽहुतिर्भवति । सौविष्टकृत्त्युत्तरा ॥ ४ ॥ प्राजापत्या-प्रजापतिदेवताका । पत्युत्तरपदत्त्वान्ण्यत् ( पा० ४ । १ । ८५ ) पूर्वा प्रथमा । आहुतिर्भवति । सौविष्टकृती-स्विष्टकृ-दग्नि-देवताका(१) । उत्तरा-द्वितीया ऽऽहुतिर्भवति । अत्र “प्रजापतयेस्वाहा” “अग्नये स्विष्टकृते स्वा- हा” इत्येवं होममन्त्रः पर्यवस्यति । स्वाहायोगे चतुर्थ्या ( पा० २ । ३ । १६ ) विधानात् । अत्राद्या मनसैवेत्युक्तमधस्तात् ( ) । “होमोदैव” इतिवचनादयन्तावद्देवयज्ञो-वैश्वदेव-इतिवोच्यते । एष आहिताग्नेर्विधिरुक्तः । अनाहिताग्नेस्तु कर्त्तव्यमाह-कात्यायनः- “अग्न्यादिगौतमेनोक्तो होमः शाकल एव च । अनाहिताग्नेरेवैष युज्यते बलिभिः सह ॥” इति । यःखलुअग्न्यादिहोमः “अग्ना-वग्निर्धन्वन्तरिर्विश्वेदेवाः(२) प्रजा-


( १ ) सु-शोभनमिष्टमभिलषितं करोतीति स्विष्टकृत् । यद्वा-इष्टं-यजनं शोभनं यथाविहितफलसम्पादकं करोतीति स्विष्टकृत् अग्निरुच्यते । “अग्नये स्विष्टकृते स्वाहे- त्युत्तराद्धं-पूर्वाद्धं जुहुयात्” ( १ । ८ । १४ ) इतिलिङ्गात् । “देवा वै अग्नि स्विष्टकृत- मब्रुवन् हव्यं नोवहेति । सोऽब्रवीत्किम्मे ततः स्यात् इति । यत्कामयसइत्यब्रुवन् । सोऽब्र- वीत्सर्वन्नेष्टिषु केवला सौविष्टकृतीति । तथेतिसोऽवहद्धवींषि” इति च ब्राह्मणं भवति । स देवताऽस्याङ्गत्यर्थे तस्येदमित्यर्थे वाऽण् (पा० ४ । २ । २४+४। ३ । १००) तस्मिन् “न स्वाभ्याम्”( पा० ७ । ३ । ३ )ति वृद्ध्यपवादभूत आद्यच ऐजागमः । ङीप् । ( २ ) अग्नावित्युक्तं गौतमकल्पेन लौकिकाग्नावेवेति छन्दोगाह्निके श्रीदत्तोपा- ध्यायाः । तदेतत् प्युक्षणान्नं विधाय कार्यम् । एतदन्ते पित्र्येन विधिना “ॐपितृभ्यः ७ गो० गृ० सू०

५० नित्यहोमविधिः । [ १ प्रपाठके- पतिः स्विष्टकृदिति होमाः" इत्येवं गौतमेनोक्तैः स तदुक्तैरेव बलिभिः “दिग्देवता- भ्यश्च यथास्वं द्वारेषु मरुद्भ्यो गृहदेवताभ्यः, गृहं प्रविश्य ब्रह्मणे मध्ये, अद्भ्य- उदकुम्भे, आकाशायेत्यन्तरिक्षे, नक्तञ्चरेभ्यश्च सायम्" इत्येवंलक्षणैः सहित इत्येकः कल्पः । यश्च शाकलहोमो (१) “देवकृतस्यैनसः” इत्याद्यष्टाहुत्यात्मकः स सामवेदपठितः । सचाग्निपुराणोक्तबलिभिः सहित इत्यन्यः कल्पः । तथा- चाग्निपुराण-योगियाज्ञवल्क्यौ— “अन्नं व्याहृतिभिर्हुत्वा (२) तथा मन्त्रैश्च शाकलैः । भूतेभ्यश्च बलिन्दत्त्वा (३) ततोऽश्नीयादनग्निमान्” ॥ इति । भूतेभ्यश्चेति चकारादादौ देवबलिरन्ते च पित्र्यबलिरित्याचक्षते । (४) तस्मादनग्निनाऽपि गृहोक्ता बलयोदेयाः । काम्याश्च बलयो विष्णुपुराणादौ पठितास्ते गौतम-शाकला-न्यतरकल्पं कृत्वा भूतोपकारार्थं शुचिभूमौ देयाः । ते यथा— “ततोऽन्यदन्नमादाय भूमिभागे शुचौ पुनः । दद्यादशेषभूतेभ्यः स्वेच्छया तत्समाहितः ॥” स्वधे”ति पितृबलिं हरेत् । अत्रैव वामदेव्यगानङ्केचिदिच्छन्ति । वस्तुतस्तु । काम्यबलौ क्रियमाणे तदन्त एव तत्कार्यम् । नित्यकृत्यार्णवे तु-अग्नौ गौतमकल्पेन वैश्वदेवहोमम- विधाय अथवाऽग्नेः पश्चिमतः एकत्रैव स्थाने अविकृष्टान् परस्परसंलग्नान्सर्वानेतान्बलीन् प्राच्यादिदिक्षु तथैव दद्यात् । अस्मिंश्च पक्षे उदकुम्भवलिर्भूमावेव । आकाशबलौ त्वन्त- रिक्षक्षेपेडपि-अविरोधः । ततो बलीन्नग्नौ जले वा प्रक्षिप्याचम्याग्निं प्रदक्षिणीकृत्य पात्रस्थ- मुदकशेषं भूमौ निःक्षिप्याद्भिः पात्रं प्रपूर्य ताः स्पृष्ट्वा वामदेव्यं गायेत्” इतिगौतमकल्प- इत्युक्तम् । ( १ ) काष्ठशकल-(खण्ड-)साध्योज्योतिष्टोमे होमः शाकल इत्युच्यते । अनयोः (गौ० शा०) कल्पयोः पद्धतिर्नित्यकृत्यार्णवादौ द्रष्टव्या । अत्र “मन्त्रान्ते स्वाहाकारः” ( १ । ९ । २५ ) इति सुत्रणात्स्वाहान्ततैवाऽमीषाम् । यत्तु श्रौतसूत्रम्” अष्टावष्टौ शक- लान्याहवनीये प्रहरेयुर्देवकृतस्येत्येतत्प्रभृतिभिरिकान्तैरि” ( ला० श्रौ० सू० २।११।१४ ) ति तन्मन्त्रस्वरूपज्ञापनार्थम् । तदेतदग्निस्वामिभाष्ये द्रष्टव्यम् । अयमपि अग्नौ पूर्वव- त्परिसमूहनाद्यग्निपूजान्तं कृत्वा कार्यः । ( २ ) व्यस्तैः समस्तैश्चेति चतुर्द्धा होमः । ( ३ ) स्विष्टकृद्धोमश्च शाकलाष्टहोमान्ते स्वाहान्त एव । “मन्त्रान्ते स्वाहाकार” इति ( १ । ९ । २५ ) सूत्रणात् । पितृभ्यश्च स्वधान्तः । पितृभ्यः स्वधेति । तत्र देवे- भ्योभूतेभ्यश्च नमोऽन्ता एव बलिर्भूमौ स्वाग्रे अग्नेर्जलादेर्वा तत्स्थानीयात्पश्चात् । पितृ- भ्यश्च दक्षिणस्यामपसव्येन चेति व्यक्तमन्यत्र । ततोभूतबलिस्तथाच स्कान्दे शाकलहो- मान्ते + तथास्विष्टकृदग्नये । विश्वेभ्यश्चापि देवेभ्योभूमौ दद्यात्ततो बलिम् । सर्वे- भ्यश्चापि भूतेभ्योनमोदद्यात्तदुत्तरे दक्षिणेऽपि पितृभ्यश्च प्राचीनावीतिकोददेत्” इत्यादि । ( ४ ) अत्राष्टबल्यन्ते “ॐ अग्नये स्विष्टकृते स्वाहे”-ति स्विष्टकृद्धोमोऽत्रकल्पे पूर्व- स्माद्विशेषः ।

१ कण्डिका ] गोभिलगृह्यसूत्रे- ५१ ( तत्रमन्त्राः ) “देवा मनुष्याः पशवोवयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः । प्रेताः पिशाचास्तरवः समस्ता ये चान्नमिच्छन्ति मया प्रदत्तम् ॥ पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्म्मनिबन्धबद्धाः । प्रयान्तु ते तृप्तिमिदं मयान्नं तेभ्योविसृष्टं सुखिनोभवन्तु ॥ येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न तथान्नम्स्ति । तत्तृप्तयेऽन्नम्भुवि दत्तमैतत्त्तेयान्तु तृप्तिम्मुदिता भवन्तु ॥ भूतानि सर्वाणि तथान्नमेतदहञ्च विष्णुर्न यतोऽन्यदस्ति । तस्मादहं भूतनिकायभूतमन्रं प्रयच्छामि भवाय तेषाम् ॥ चतुर्दशोभूतगणोय एष तत्र स्थिता येऽखिलभूतसङ्घाः । तृप्त्यर्थमन्नं हि मया विसृष्टं तेषामिदन्ते मुदिता भवन्तु ॥ इत्युच्चार्य नरोदद्यादन्नं श्रद्धासमन्वितः । भुविभूतोपकाराय गृही सर्वाश्रयोयतः ॥ श्वचाण्डालविहङ्गानां श्वपचां पापरोगिणाम् । वायसानाङ्कृमीणाञ्च शनकैर्निःक्षिपेद्भुवि ।” इति । अत्रान्यदन्नमादाये- त्युक्त्या काम्यबलिदानमन्येनाऽपि भवितुमर्हतीतिबोध्यते । श्वादिबलिदानञ्च यत्र तेषामुपयोगस्तत्र विधेयमिति निबन्धाराः । क्रमस्त्वत्र नाद्रियते किन्तुअन्य- त्रोक्तक्रमेण वायसबलिः श्वबलिस्ततः पतित-चाण्डाल-पापरोगि-कृमिबलयः । इदञ्च काम्यवलिदानं सर्वशाखिसाधारणं सङ्कोचे मानाभावात् । एवमेवा- चारादर्शादयः । तदत्र “देवा मनुष्या” इत्यादिकां पञ्चश्लोकीमुच्चार्य्य एकएव- बलिर्दातव्यः । इतिन। प्रकृतवाचिना पञ्चश्लोक्याः परामर्शात् । अन्नमिति चैकवचननिर्देशादिति वाचस्पतिमिथ्रादयः । एवमन्येऽपि कल्पस्तन्त्रान्तरे द्रष्टव्याः । स खल्वयं वैश्वदेवहोमो(१) लौकिकाग्नौ जलादावपि कर्त्तव्यः । शाकलकल्पेन । “लौकिके वैदिके वाऽपि हुतोच्छि(त्स्त्रु)ष्टे,(२) जलेक्षितौ ॥ (१) अत्र द्वैतपरिशिष्टे-केशवमिश्राः। यदा च नित्यश्राद्धकरणं तदा ततः प्रागेव वैश्व- देवबलिकर्म्मणी कर्त्तव्ये । यदातुपार्व्वणमेकोद्दिष्टं वा तदा पार्व्वणानन्तरं वैश्वदेवबलिकर्म्म णी । एकोद्दिष्टानन्तरन्तु वश्वदेवबलिनित्यश्राद्धन्तदानीमिति विशेष” इत्याहुः । एते पञ्च महायज्ञाः पञ्चशूनापनुत्तये विहिता इति शूद्रस्यापि कर्त्तव्या भवन्ति । “दानन्दद्याच्च- शूद्रोऽपि पाकयज्ञैर्यजेत चे”ति विष्णुपुराणात् । शूद्र इत्यनुवृत्तौ “भार्यारतः शुचिर्भृत्य- भर्त्ता श्राद्धक्रियान्वितः । नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेदि”ति याज्ञवल्क्यवच- नाच्च । भार्यारतः स्वभार्यामात्ररतः । एवञ्च होमोऽपि “ब्रह्मणे नमः” इत्यादिक्रमेण तः कार्य्येन तु स्वाहान्तदेवतानाम्नेति बोध्यम् । ( २ ) एव “हुतोत्सृष्ट” इति पाठोरत्नाकरीयः ।

५२ नित्यहोमविधिः । [ प्रपाठके १ वैश्वदेवन्तु कुर्वीत पञ्चसूनापनुत्तये । वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः । सर्वे ते वृषला ज्ञेयाः प्राप्नवेदा अपि द्विजाः ।" इति शातातपीयान् । लौकिके पाकसाधने । वैदिके आवसथ्याग्नौ । एतच्च साग्निपरं, शेषं निरग्नेः । हुतोच्छिष्टे-अन्येन हुत्वा त्यक्ते । इदं त्वन- श्नताऽपि गृहस्थेनातिथ्याद्यनुरोधेन द्विष्पाकतापत्रे द्विरवश्यङ्कार्यम । “सायं प्रातर्वैश्वदेवः कर्त्तव्योबलिरेव च । अनश्नताऽपि सततमन्यथा किल्विषी भवेत् ॥” इतिच्छन्दोगपरिशिष्टादित्याचारचिन्तामणिः । अत्र जलादावपि होमे पर्यु- क्षणमाचरन्ति प्रामाणिकाः । युक्तञ्चैतत् । पर्युक्षणं हि होमाङ्गं न वह्नयङ्गम् । तथाच वह्निबाधे तदाधानाङ्गं परिसमूहनादिकं बाध्यतां, होमाङ्गं पर्युक्षणं कथं बाध्यतेत्याचारविवेकः । वाचस्पतिमिश्रास्तु जलक्षित्योः पर्युक्षणादिकमपि नास्त्येव । अग्नावेव तदाम्नानादित्याहुः ॥ ४ ॥ अथबलीन्हरेद्वाह्यतोऽन्तर्वा सुभूमिङ्कृत्वा ॥ ५ ॥ अथेति पूर्वप्रकृतार्थम् । अथ पूर्वप्रकृतेनैवान्नेन होमावशिष्टेन । “देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलि हरेद्”ति याज्ञवल्क्योक्तेः । अपचारे च शेषस्य, अन्य दप्युपादाय बलीहरेत् । पाकासम्भवे एकादश्यादौ तण्डुलैर्वा पयोदधिघृतफलोद- कादिभिर्वा कार्य इति धर्मसिन्धुः । बाह्यतो-बलिविधानाद्वहिर्वा प्रकृतत्वादग्न्य गारस्य । तथाचाग्न्यगारान्निष्क्रम्य तस्मिंस्तस्मिन्प्रदेशे तं तं बलिं हरेत् । यो- योयस्मिन्यस्मिन्प्रदेशे समाम्नातः । अन्त-र्मध्येवाऽग्न्यगारस्यैव । एकस्मिन्ने- व प्रदेशे यथासम्भवं बलीहरेन् । सुभूमिं कृत्वा । यथासम्भवं सम्मार्जनोपलेपना- दिभिः । तथाचापस्तम्बः-“बलीनान्तस्यतस्य देशस्य संस्कारोहस्तेनोपमृज्यावो- क्ष्य न्युप्य पश्चात् परिषेचनम् ।” इति। तस्यतस्येति वीप्सातः प्रत्येकमार्जनादि । अवोक्ष्य-सिक्त्वा । न्युप्य बलिन्दत्त्वा । परिषेचनं-बलेरुपरिसेकः(१) ॥ ५ ॥ सकृदपोनिनय चतुर्द्धा बलिं निदध्यात्सकृदन्ततः परिषिञ्चेत् ॥६॥ सकृदे-कवारमप(२) उदकं निनीय-भूमौ निषिच्य चतुर्द्धा चतुर्षु स्थानेषु बलिं-(३)जातावेकवचनम् बलिचतुष्टयम् । निदध्यात्-स्थापयेत् । अत्र समा- चारात्तदन्नं बलिचतुष्टयमात्रं सकृद्गृहीत्वा चतुर्षु स्थानेषु निदध्यात् । बलिमि- त्येकवचनावृत्तैर्वेति वचनाच्च । तथाच बलिचतुष्टयार्थं सकृदेव सेकः । अन्ततः- ( १ ) परिषेचनं बलीनामुपरि उदकेन वेष्टनमिति कल्पतरुः । ( २ ) अत्र “एकस्य सकृच्च” ( पा० ५ । ४ । १९ ) इति क्रियाऽभ्यावृत्तिगणने सुचः संयोगान्तलोपः । एकशब्दस्य सकृदादेशश्चेति बोध्यम् । ( ३ ) प्रकारार्थेऽत्र धाप्रत्ययः तद्भेदश्च स्थानभेदादित्येवं व्याख्यातम् ।

कण्डिका ] गोभिलगृह्यसूत्रे- ५३

अन्ते । सार्वविभक्तिकस्तसिः । ( पा० ५ । ४ । ४४ ) उपरिष्टादपि सकृदेक- वारमेव परिषिञ्चेत्-बलीन् । बलिप्रमाणमाह कर्म्मप्रदीपः- ' न चावराद्धर्या बलयो भवन्ति महामार्जारश्रवणप्रमाणात् । एकत्र चेदविकृष्टा भवन्ति इतरेतरमसंयुक्ताश्च ॥' इति । अवराद्धर्याः । अवरस्मिन्नर्धभवा इत्यर्थे यत् ( पा० ४ । ३ । ५ ) ऊनपरिमाणा इत्यर्थः । असम्भवे त्वशुष्कामलकमाना अपि कार्याः । “आर्द्रामलकमानेन कुर्याद्धोमहविर्बलीन् । प्राणाहुतिबलिञ्चैव मृदङ्गात्र विशोधिनीम् ॥” इति छन्दोगपरिशिष्टटीकालिखितवचनादित्याचारचिन्तामणिः । एकत्र चेदित्यादिना नानास्थाने बलिदानासम्भवे एकस्मिन्नेव यदा बलयोदीयन्ते तदा अविकृष्टा अव्यवहिता इतरेतरमसंयुक्ताः परस्परम