भारतकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

१०८ श्रीहम्मीरमहाकाव्ये [सर्गः सदंशजोपनतकोटिभूषणा संलीनसायकसमुल्लसद्गुणा । दृष्टा परस्य समरे धनुलता वेश्येव कंपमतनिष्ट कस्य न ॥ ५० ॥ कस्याप्यसिर्दिरदकुंभमंडला त्पीत्वा भृशं समितिशोणितासवं । उन्मत्ततां गत इवाशु विद्विषां वक्षःस्थलीमभिनिपेतिवान्मुहुः ॥ ५१ ॥ लूनेऽग्रजन्मनि पदद्वयेऽरिणा दंतावलस्य पततः क्षितौ किल । उत्तंभनाय निजमेव दंतयो र्युग्मं बभूव किमिवान्यदीदृशं ॥ ५२ ॥ प्रत्यर्थिमुक्तशरभिन्नपुष्करो लेभे न घातसमयेपि तां किल । अग्रे स्फुरंतमपहर्तुमक्षमा लेभे त्रपां प्रतिभटं करी व्यथां ॥ ५३ ॥ दत्वा प्रहारमतिलाघवात्पुरः पृष्ठं श्रयत्यसकृदुद्धते भटे । क्रुद्धो भ्रमन् समिति तज्जिघृक्षया वात्या विनोदमभजत्परो गजः ॥ ५४ ॥ भित्वाखिलांगमपि भूजुषेषुणा हत्वा करेणुमितरोभिपांतुकं । वर्त्मेव हंसगमनाय तेनिवान् क्रौंचं पराशरसुतो गिरिं यथा ॥ ५५ ॥ कस्यापि कुंडलितचापमंडलां—तर्वर्त्तिवक्त्रकमलं बभौतमां । प्रत्यर्थिषु प्रबलबाणवृष्टये बिंबं स्फुरत्परिधिशीतगोरिव ॥ ५६ ॥ द्वेधीकृतस्य सुभटस्य कस्यचि—त्सव्येतरार्धमवलोक्य वर्ष्मणः । लब्धोद्य शंभुरुमयाविनेयधा—वंतामरेशदयितो दिशोदिशः ॥ ५७ ॥ जज्ञे तदा रणभृतां च रक्षसां यज्ञे महाहटरभरः परस्परां । एके प्रथीयसितरामसृन्मदीं चक्रुः पराणि पपुरेव तत्क्षणात् ॥ ५८ ॥ नःसंख्यसंख्यविवरातिथीभव—द्वीरातिथेयकरणैरवातुरे । द्वीपांतरं व्रजति तिग्मदीधितौ सैन्ये उभे अपि ततो विरेमतुः ॥ ५९ ॥ इति प्रथमदिनं द्वितीयदिनयुद्धम् स्वप्रसंगसमरैरनेकधा रात्रिं व्यतीत्य सुभटाः कथंचन । प्रातः पुनर्निजनिजाधिपाज्ञया संग्रामसीमनि मनो व्यनोदयन् ॥ ६०

१२] द्वितीयदिनयुद्धम् १०९ संनद्धयोरथ च सैन्ययोर्द्वयो रानद्धहेममयकंटकैर्भटैः । स्वस्मिंस्तदा समरभूरपि स्फुटं प्राचीव कांचनरूचं दधौतमां ॥ ६१ ॥ मूर्च्छामितोपि किल कोपि विद्विष—त्खड्गप्रहारवशतो रणांगणे । तं लातुमागतमरीकरामृत—स्पर्शाद्विबुध्य युयुधे भृशं पुनः ॥ ६२ ॥ उत्प्लुत्य वीरकलशेन कोपिना मुक्तेन हस्तिपककुंभभूमिदा । कुंतेन भिन्न इतरः करी बभा—वालानलंबित इवाहवांगणे ॥ ६३ ॥ लग्नप्रतीभदशनद्वयीतया संरूढसिंधुमितदंतभासुरः । स्तंबेरमो रणभुवींतरो भ्रम—न्नैरावणेन सुलभां दधौ विभां ॥ ६४ ॥ लग्नारिवाणगणसंभवव्रण—श्रेणिप्रमत्तकरिकुंभमंडलात् । धारा निपेतुरसृजो मदस्य च स्पर्धां दध्य इतरेतरामिव ॥ ६५ ॥ कस्याप्युदग्रतरवारिदारिता दंत्राणि रेजुरुदरात्पतंत्यधः । आदातुमेकपदमैव तं दिवः क्षित्ताः सुरीभिरिव पाशपंक्तयः ॥ ६६ ॥ क्रुद्धे प्रधावणाय सिंधुरे वाहानुपर्युपरि वीक्ष्य पातिनः । देवैरहासि यदहो तदेव त—न्मौलौ बभूव सुमवृष्टिरुत्कटा ॥ ६७ ॥ उत्पाट्य बाहुमभिसन्निवेशनात् कुंतव्रणोच्छलितशोणितच्छटाः । वीरश्रियेव नवकुंकुमच्छटा दत्ता भटोरुषु विरेजिरेतमां ॥ ६८ ॥ स्वारोढुरुन्नततरान्निषादिनो हंतुं सुखेन वितरन् प्रवीणतां । श्रीवृक्षकी हयवरो रणांगणे स्वामुन्नतिं प्रविदधौ फलेग्रहिं ॥ ६९ ॥ उत्प्लुत्य भूत इभकुंभमाश्रितः स्वोजोर्जिताद्रुतयशःसितद्युतिः । मेघात्ययोध्र इव तुंगभूभृतः शृंगायलीन इतरो व्यराजत ॥ ७० ॥ संग्रामभूपतितवीरमर्दनात् पादांतलग्नलसदस्रकैतवात् । क्रीडन्परः समरपल्वले करी सेवालजालमिव बिभ्रदाबभौ ॥ ७१ ॥ एकः करी समरसीम्नि सादिनं चिक्षेप कंदुकमिवाधिपुष्करं । धृत्वा करेण च कटौ परो हयं प्रास्कालयद्रजकवस्त्रवद्भुवि ॥ ७२ ॥ धाराप्रपातकृतलोककौतुक स्तेजोवितानविलसच्छतह्रदः । कस्याप्यसिर्युधि पयोधरायितो युक्तं द्विषामजनि हंसनाशकृत् ॥ ७३ ॥

११० श्रीहम्मीरमहाकाव्ये [सर्गः कस्याप्यपाकृतगणोन्नमार्गगो लक्षाय धावति तदा स्म धावतु । कोटिद्वये सति ननाम यद्धनुः सद्वंशजस्य न तदस्य सांप्रतं ॥ ७४ ॥ ज्योतिर्मयीभिरिह मूर्त्तिभी रणे व्याप्तेभितोपि गगने समिस्कृतां । नालक्षि दैवतगणैरपि क्षणं व्यक्तं सहस्रकिरणस्य मंडलं ॥ ७५ ॥ क्रोधारुणेक्षणरुचीचयाचितं कस्यापि कृष्टमरुचत् धनूरणे । कुंडं हविर्भुज इव स्फुरज्जय-श्रीकृष्टयेऽरिपपुशून् जुहूपतः ॥ ७६ ॥ क्रोधप्रधावितरथांघ्रिमर्दनात् व्युत्थत्करंकसविकाशशब्दितैः । जीवत्यहो मयि कथं भ्रमंत्यमी इत्यन्वशोत पतितः किलेतरः ॥ ७७ ॥ कुर्वद्भिरन्विह रणे पलायितान् धावद्द्रयस्खलनतां पदेपदे । वीरैर्जहे न विरुदं पलायितप्राकार इत्यनुगतं मृतैरपि ॥ ७८ ॥ संग्रामसंगमविनोदिवारण-प्रोक्षिप्तवीरवृतिलोलचेतसां । स्वर्योषितामपि तदा परस्परा माविर्बभूव दिवि दारुणो रणः ॥ ७९ ॥ प्रागेव मास्म सुरवल्लभा अमुं वृण्वन्निति स्फुरितवेगविस्तराः । आलिंग्य वल्लभमपासुमप्युर स्तन्यश्वितां प्रविविशुर्भुजाभृतां ॥ ८० ॥ छत्रैः सितांबुजमयीव कुत्रचित् कुत्रापि पल्लवमयीव पाणिभिः । कुत्रापि शैवलमयीव कुंतलै भ्रष्टै र्बभौ रणभृतां रणावनिः ॥ ८१ ॥ शस्त्रप्रहारभृशजातमूर्च्छया स्वारोहकेषु पतितेषु भूतले । हेषारवैः समिति जातगौरवै दुःखाद्विलापमिव वाजिनो व्यधुः ॥ ८२ ॥ द्विट्कुंभिकुंभविनिपातिमौक्तिक-श्रेणिप्ररूढरुचिराजिभू रभात् । वीरश्रियं प्रपरिरभ्य दोषमतां शय्येव पुष्पखचिता सुषुप्सतां ॥ ८३ ॥ वीरैर्निहत्य विनिपातिता रण-क्षोणौ बभुः करिवराः पदेपदे । सेतोः कृते हनुमतैव चालिताः शैला इवार्धपथ उज्झिता भरात् ॥ ८४ ॥ जग्मुर्मृतिं दशशतानि भटा इहेति जल्पन्निवाञ्चत करद्वितीयांगुलीभिः । नृत्यक्रियामभजतैकतरः प्रवीरः काबंधिकी महितवीरविलूनमौलिः ॥ ८५ ॥ इति तिरस्कृतभारतसारते रणभरे स्फुरिते दिवसद्वयीं । दिनकरः प्रतिवक्तुमिवावधिं चरमभूमिधराग्रमसेवत ॥ ८६ ॥

१२ द्वितीयदिनयुद्धम् १११ शौर्येण प्रतिपक्षपक्षहृदयं स्वस्वामिभक्तव्रतै- श्वेतांसि स्वविभोरसिप्रहृतिभिर्द्विद्विभिकुंभानपि । अंगैरंगणमाहवस्य विलसत्कीर्त्या च लोकत्रयीं वीरा व्यानशिरेऽत्र योद्धृविसरश्रेयस्करे संगरे ॥ ८७ ॥ एतस्मिन्समरे वीरा यवनानां महौजसः । पंचाशीतिसहस्राणि यमावासमयासिषुः ॥ ८८ ॥ म्लेच्छानामथ दोष्मतामधीशितालावात्तावधिकालपालनात्तचित्तौ । वीरेंद्रात्कथमप्यमूनिवार्य युद्धात् भेजाते शिविरं निजं निजं रयेण ॥ ८९ ॥ इति श्रीजयसिंह० वीराङ्के दिनद्वयसंग्रामवर्णनोनाम द्वादशः सर्गः ॥

अथ त्रयोदशः सर्गः अन्यदाथ क्षमानाथः स्फारशृंगारभासुर । अलंचकार शृंगारचंचरीं चतुराशयः ॥ १ ॥ निरीक्ष्य सहसा यत्रं भोभ्रांत्या स्फाटिकीः शिलाः । उत्संभार वस्त्राणि प्रक्मयनभयानकः ॥ २ ॥ रंभा ग्रावोद्भवा यत्र वीक्ष्य साक्षाज्जनं स्मरन् । फलेभ्यः स्पृहयन्नुच्चै नैकशः करमक्षिपत् ॥ ३ ॥ यत्र स्तंभेषुराजंत विचित्राः शालभंजिकाः । देव्यो नृदेवमालोक्य तद्गुणैस्तंभिता इव ॥ ४ ॥ यत्रोत्कृत्तेषु पद्मेशु सिस्वादयिषवो मधु । भृंगा निपत्य व्यर्थत्वात् हियेव शितितामगुः ॥ ५ ॥ यत्र स्फाटिकपांचाल्या—स्पेष्ध्वज्याश्रितालिषु । चकोराः शशभृद्दीक्षा—श्रदामह्व्यपूपुरन् ॥ ६ ॥ यत्कुट्टिमे पदप्रांता—रुणिमप्रतिबिंबनात् । रक्तं क्षौममिवास्तीर्णे पदन्यासाय भूभृतः ॥ ७ ॥

११२ श्रीहम्मीरमहाकाव्ये [सर्गः स्फारकर्पूरपारीकं चंदनक्षोदमेदुरं । मृगनाभिस्फुरन्नाभि यदंगणमराजत ॥ ८ ॥ नूपुरस्थेंद्रनीलाश्म—दाम यत्स्फाटिकाश्मसु । निरीक्ष्य विवितं सर्प—भ्रांत्या लोकाश्चकंपिरे ॥ ९ ॥ अधो निबद्धभूभाग—प्रतिबिंबिततामिषात् । भोगींद्राणामपि सभां विजेतुं प्रस्थितेव या ॥ १० ॥ वीरशोभानृपात्तत्र दक्षिणे चारुलक्षणः । हासंहासं सृजन् गोष्ठीं रतिपालो रतिं दधौ ॥ ११ ॥ परीतो महिमासाहि स्त्रिभिरप्यनुजन्मभिः । व्यक्तामभजत्तत्र परमात्मा गुणैरिव ॥ १२ ॥ मार्दंगिका मृदंगानि वीणामपि च वैणिकाः । अपि वैणविका वेणुं यथातालमवीवदन् ॥ १३ ॥ रणद्वेणुझणत्कारा—नुकारिप्रसरत्स्वराः । गायना वीरहम्मीरकीर्तिस्फूर्तिंमगासिषुः ॥ १४ ॥ मिथोपि स्पर्धया वर्धमानत्वादिव संयते । दृढं चोलांतरीयाभ्यां स्तनश्रोणीप्रबिभ्रती ॥ १५ ॥ वपुर्वल्लिविलासेन मूर्छयंतीव कामिनः । कूणिताक्षप्रपातेनोज्जीवयंतीव मन्मथं ॥ १६ ॥ ❳ त्रिभिर्विशेषकं प्रविश्य तत्र सभ्यानां मनसीव प्रमोदिनी । प्रवृत्ता नर्तितुं धारा देवी सोत्पश्य नर्तकी ॥ १७ ॥ तस्या लास्येन वेलंतो रेजिरे पाणिपल्लवाः । मोहनव्रततेः कामं स्फुरंतः पल्लवा इव ॥ १८ ॥ गोलकत्रितयोच्छाल—च्छलेन भुवनत्रयीं । सा जगादेव लोकानां कृतां स्वशयशायिनीं ॥ १९ ॥ अंगुल्यग्रभ्रमचक्र—दंभेन युवतीजने । रूपलावण्यसौंदर्यैः सा दधौ चकितामिव ॥ २० ॥

१३ ] नर्तकीगायनम् ११३ कर्णोपांतभ्रमच्चक्र—व्याजात्स्माहेव तां शशी । ममोपमा तवास्थस्य भ्रम एव विपश्चितां ॥ २१ ॥ कर्पूरपरमाणूनां व्याजाल्पमानि पादयोः । भ्रमिभिर्भ्रामयंतीव रेजे यूनां मनांसि सा ॥ २२ ॥ मयूरासनबंधेन नृत्यंती विलुलोप सा । वाच्यं विधेर्मयूरस्य दुःखमाधानसंभवं ॥ २३ ॥ अंगहारतयाहार—लता तस्यास्तनायतः । रराज बिसवल्लीव चक्रचंच्वग्रसंस्थिता ॥ २४ ॥ लास्येन धनुषीवास्याः पश्चाद्वपुषि संनते । पाष्णिंसंस्पार्शिनीवेणि जीवाभावमजीजिवत् ॥ २५ ॥ सभ्यानामसकृत्तस्यां दृष्टिरापादमस्तकं । चक्रेवरोहमरोहं वलत्यां वानरी यथा ॥ २६ ॥ तांडवं निर्मिमाणेति सा तालत्रुटनक्षणे । अधस्थाय शक्रेंद्राय पश्चाद्भागमदीदृशत् ॥ २७ ॥ शक्रेशस्तेन दूतात्मा सभाध्यक्षमदो वदत् । धनुर्धरः स कोप्यस्ति वेध्यमेनां तनोति यः ॥ २८ ॥ अवदत्सोदरो राजन् गुप्तौ स्थितोस्ति यः पुरा । उड्डानसिंहस्तं हित्वा नान्येनात्र प्रभूयते ॥ २९ ॥ सद्यः शक्रेशोथानाय्य भंक्त्वा निगडसंचयं । द्विधापि स्नेहदानेन तं सज्जांगमचीकरत् ॥ ३० ॥ ततः स सज्जीभूतांगो ऽनन्यसाधारणं धनुः । आदायान्हाय तां पापो विव्याध व्याधवन्मृगीं ॥ ३१ ॥ मूर्च्छामतुच्छामृच्छंती बाणघातेन तेन सा । उपत्यकायां न्यपत दिवो विद्युदिव द्युता ॥ ३२ ॥ नृपादयस्ततो लोकाः क्षण वैलक्ष्यलक्षिताः । धानुष्कतां स्तुवंतोस्य मूर्धानं दुधुवुर्मुहुः ॥ ३३ ॥ 15 k

११४ श्रीहम्मीरमहाकाव्ये [ सर्गः तन्मर्म महिमासाहि र्बिभ्रत् हृदि परेदिवि । शकेशं वेद्ध्यतां नीत्वा हम्मीरमिदमब्रवीत् ॥ ३४ ॥ यद्यादिशति भूनाथो मामिदानीं तदा रिपुं । शरसारत्तरसा कुर्वे धारामिव धनंजयः ॥ ३५ ॥ नृपोवमिहितेत्रामा रंस्येहं केन संगरे । हित्वा तं महिमासाहे जह्युड्डानं धनुर्धरं ॥ ३६ ॥ शकेशवेध्येनासाद्या देशं दूनमनास्ततः । हत्वा तं महिमासाहि र्धिगित्यौज्झद्धनुः करात् ॥ ३७ ॥ चकितस्तद्दिनाशेन सद्यः सोपि शकेश्वरः । त्यक्त्वा सरः पुरोभागं तत्पृष्ठे शिविरं न्यधात् ॥ ३८ ॥ ढौकनानि ततोभ्येत्य दायंदायमनेकधा । खिन्नोसौ दापयामास सुरंगां समयागिरिं ॥ ३९ ॥ उपलैर्मृत्तिकापूरै र्दलकैस्तृणपूलकैः । परिखां पूरयामास सोदरश्वान्यदेशतः ॥ ४० ॥ कियद्भिरप्यथो मासैः सिद्धेनौपयिकद्वये । शका दुढौकिरे योद्धुमादिष्टाः शकभूभुजा ॥ ४१ ॥ विज्ञाय चाहमानास्त त्परिखां वह्निगोलकैः । अदहन् जतुतैलं च सुरंगायां प्रचिक्षिपुः ॥ ४२ ॥ तेन तैलेन पूर्णायां सुरंगायां द्विषद्भटाः । उदच्छलन् यथा मीनाः सरस्यां ज्वलदंभसि ॥ ४३ ॥ चीत्कारान्मुमुचुः केपि कंठस्थैर्भापिता भटैः । यष्टिलोष्ठकरैर्डिंभै रिव श्वानोधुमध्यगाः ॥ ४४ ॥ तत्तैलदग्धसर्वांगा बभूवुर्द्विषतां भटाः । क्षणारुणक्रमश्याम-तप्तायोगोलसन्निभाः ॥ ४५ ॥ ज्वलदंगसमुद्भूतो-च्छलत्कीलावलिच्छलात् । तेजांस्यपि शकांगेभ्यो नेशुर्दाहभयादिव ॥ ४६ ॥

१३] वर्षाकालवर्णनम् ११५ शकाधीशः शकेरैतां सुरंगां यैरचीखनत् । अपूपुरन् द्राग्दोषमंत स्तेषामेव कलेबरैः ॥ ४७ ॥ इत्थं दुर्गजिघृक्षायै यान्यान्‌यत्नान् शकेश्वरः । असृजत्सततं तांस्ता नवकेश्यूकरोन्नृपः ॥ ४८ ॥ ततो दुर्गं शकेन्द्रोऽसौ हातुमादातुमक्षमः । दिने दिनेप्यवांसीद दुर्गो गिरिकामिव ॥ ४९ ॥ दिवानिशं स योगीवा—शेषसौख्यपराङ्मुखः । दृष्टिमेकां ददौ दुर्गे परां च क्षितिमंडले ॥ ५० ॥ दुर्गाग्रहणदुःखामिप्लुष्टमस्याय मानसं । प्रसेक्तुमिव पायोदः प्रोन्ननाम नभोगणे ॥ ५१ ॥ बर्हिणो व्यदधन्केका उन्नीयोन्नीय कंधरां । आव्हयंत इवांभोदं मिलितुं चिरमागतं ॥ ५२ ॥ वीक्ष्याभ्युन्नतमंभोदं केकाव्याजेन केकिनः । कदा गामीति पप्रच्छु हर्षार्दोक्तिभंगिभिः ॥ ५३ ॥ उद्गीते केकिभिर्गीते तूर्यते घनगर्जिते । ननर्त्त नर्त्तकीवोच्चै स्तडिद्रंगनमंडपे ॥ ५४ ॥ सांद्रोद्गमोलसन्नील—तृणश्रेणिच्छलात्क्षितिः । मेघप्रियागमप्रीता पर्यधादिव कंचुकं ॥ ५५ ॥ दधत्यंबुनिधेः स्पर्धां सरांसीह रराजिरे । त्रुटित्वा वारिभारेणा—भ्राणीव पतितान्यधः ॥ ५६ ॥ वियोगिनीनां नेत्राणि व्योम्यभ्रपटलानि च । मिथः स्पर्धां दधंतीव वर्षतिस्माधिकाधिकं ॥ ५७ ॥ किरत्सूचीसंचारा—धारावारिधरे भृशं । वियोगिनीनां लावण्यं जगालेति किमद्भुतं ॥ ५८ ॥ शंभोः परिभवात्त्यक्त—मधुचापोऽधुना स्मरः । वर्षासखस्तडिदंभा दसिभ्रममिवातनोत् ॥ ५९ ॥

११६ श्रीहम्मीरमहाकाव्ये [सर्गः वारिदेन तदासिक्ता रराजे भूरि भूरियं । कांतक्रांतोपभुक्तायाः छायान्येव मृगीदृशः ॥ ६० ॥ अंभोधरस्य ग्रीष्मर्तुं निर्जित्य विशतः सतः । स्फूर्जद्गज्जिच्छलात्प्रादु—रासंस्तूर्यस्वना इव ॥ ६१ ॥ अंगानि कानि सिक्तानि कानि सेच्यानि वा भुवः । इति विद्युतप्रकाशेन ददर्शैव घनाघनः ॥ ६२ ॥ मालतीकुटजामोद—हारी सृष्टपयःकणः । लतालास्यकलाचार्यो ववौ वर्षासमीरणः ॥ ६३ ॥ क्षेत्प्रं च सरःप्रं च गात्रस्त्राणमपि क्वचित् । चेलत्कोपं तदा वर्ष न्नाहो वंध्यं व्यधाद्धनः ॥ ६४ ॥ यथा यथा जगर्जायं स्तनयित्नुस्तथा तथा । प्रियाः शकानां चक्रंदुर्बाहुजैर्विधवीकृताः ॥ ६५ ॥ इलामधःकर्दमीलां धारा उपरिपातिनीः । विलोक्य यवनाः सेवा-व्रते वैराग्यमासदन् ॥ ६६ ॥ अमुंचंस्तुरगारंग मगच्छन्कृशतां द्विपाः । अक्षुभ्यन् स्यंदना धात्र्यां जनान्दंशा उपाद्रवन् ॥ ६७ ॥ इत्यालोक्यांबुमुक्कालं साक्षात्कालमिवागतम् । यथाकथंचित्संधान मचिकीर्षच्छकाधिपः ॥ ६८ ॥ आजुहाव ततो दूतै रतिपालं शकाधिपः । शकेशः किंकिमाहेति हम्मीरोप्यन्वमन्यत ॥ ६९ ॥ रतिपाले गते जाते संधाने चलिते शके । वृथा नो दोषभृतेत्याप रणमल्लस्तदा रुषं ॥ ७० ॥ आयाते रतिपालेऽथ स मायावी शकेश्वरः । उपावीविशदेतं स्वा—सनेभ्युत्थानपूर्वकं ॥ ७१ ॥ अरंजयच्च कूटेन मानैर्दानैरनेकधा । कूटोपजीविनः किंवा कूटे मुह्यंति कुत्रचित् ॥ ७२ ॥

१३] रतिपालशकसंवादः ११७ अपवार्य सभास्तारान् भ्रातृमात्रद्वितीयकः । रतिपालं जगादैष विस्तार्याग्रे सिचाँचलं ॥ ७३ ॥ अल्लावदीनं इत्याख्यः सोहं शककुलाधिपः । दुर्गाण्यनेकशो येन दुर्ग्राह्याण्यपि जिग्यिरे ॥ ७४ ॥ इदानीमस्वसात्कृत्वा यदि दुर्गं व्रजाम्यदः । ज्वलदग्न्युत्सवलीव तन्मे कीर्तिः कियच्चिरं ॥ ७५ ॥ स्वसात्कर्तुं बलेनैतत्सहस्राक्षोपि न क्षमः । परं भाग्यात् त्वमायासीः सिद्धमस्मत्समीहितं ॥ ७६ ॥ तद्यतस्व तथा तूर्णं यथा स्यां सत्यसंगरः । एतद्राज्यं तवैवास्तु जयेच्छुः केवलं त्वहं ॥ ७७ ॥ दुराचारो यदाचारो माया यत्सहचारिणी । अनृतं यत्पदं न्यासः क्रोधो यत्पारिपार्श्वकः ॥ ७८ ॥ अत्रांतरे कलिर्नाम लोभं कृत्वा तमग्रतः । विविशे रतिपालस्य मनोदुर्गं सुदुर्ग्रहं ॥ ७९ ॥ युग्मं रतिपालमनोदुर्गं बलाद्गृहंस्तदा कलिः । शकुन्यभूच्छकेशस्य रणस्तंभं जिघृक्षतः ॥ ८० ॥ अंतरंतःपुरं नीत्वा शकेशस्तमभोजयत् । अपीप्यत्तद्भगिन्या च प्रतीत्यै मदिरामपि ॥ ८१ ॥ प्रतिश्रुत्य शकेरोक्तं ततः सर्वं स दुर्मतिः । विरोधोद्बोधिनीर्वाचो गत्वा राज्ञे न्यरूपयत् ॥ ८२ ॥ देवाहंकारलंकेशो निजगाद शकेश्वरः । हम्मीरः किमयं मूढः पुत्रीं मे न प्रयच्छति ॥ ८३ ॥ यद्वा मापादसौ किं त्व—ल्लावदीनोस्मि नो तदा । पुत्रीमयच्छतोमुष्य नाददे यदि वल्लभाः ॥ ८४ ॥ किंवातं यद्यगुर्वीरा भूयांसोपि परासुतां । किं द्वित्रिपदभंगेपि खर्जूरो याति खंजतां ॥ ८५ ॥

११८ श्रीहम्मीरमहाकाव्ये [सर्गः किं जातं नीयते कोशो यदि निःकोशतां व्ययैः । किं शुष्यति समुद्रोपि वारिभिर्वारिदाहृतैः ॥ ८६ ॥ खरे प्रयाहि यत्कर्त्ता कर्त्ता तद्भवित्ता ध्रुवं । भर्त्सनापरसेवं तं निर्भर्त्स्याहमपीयिवान् ॥ ८७ ॥ विशंके रणमल्लोसौ रुष्टः केनापि हेतुना । तेनाज्ञायि ध्रुवं येन दृढां प्रौढिं वहत्यसौ ॥ ८८ ॥ तत्पंचषैर्जनैर्युक्तो गत्वा सायं तदालयं । तं प्रसादय सद्योपि किमात्रोसौ शकेश्वरः ॥ ८९ ॥ खरायिलेति भूकांतं रणमल्लारुरंजने । वीरमं निकषाभूय रतिपालो विनिर्ययौ ॥ ९० ॥ तदा चास्य मुखाद्गन्धः प्रससार मदोद्भवः । अंगादन्यप्रियाश्लेषसंशील्यी इवानिलः ॥ ९१ ॥ दाक्ष्यात् विज्ञायते नैनं संगतं शत्रुभूफ्तेः । नृपं विज्ञापयामास वीरमो रहसि स्थितं ॥ ९२ ॥ निर्यतोस्य मुखाद्राजन् मदगंधस्तथा ययौ । जाने यथैष पापीयान्निश्चितं संगतो द्विषः ॥ ९३ ॥ कुलं शीलं मतिर्लज्जाऽभिमानः स्वामिभक्तता । सत्यं शौचं च न क्वापि जृंभते मद्यपायिनि ॥ ९४ ॥ अकृत्यकरणागम्य—गमनाभक्ष्यभक्षणात् । मद्यं विशिष्यते यस्मादस्मात्संपद्यते त्रयं ॥ ९५ ॥ तथा हि स ऋषिः पीत्वा मधु वेश्यामरीरमत् । असिस्वदच्च गोमांसं लिंगभंगमरीरचत् ॥ ९६ ॥ असिसात् क्रियते स्वामिंस्ततो यद्येवमेव तत् । स शकेशो निष्फलांभःसद्यस्तर्हि प्रयात्यसौ ॥ ९७ ॥ वाचमाचम्य तस्येत्थं विश्रम्य क्षणमायतौ । उपाददे नृपो वाचं वंचितामृतचंचुतां ॥ ९८ ॥

१३ ] रतिपालविज्ञप्तिः ११९ उदेति काले कस्मिंश्चित्प्रतीच्यामपि भास्करः । भज्यमानं परं दुर्गं न तिष्ठेदिति मे मतिः ॥ ९९ ॥ तदस्मिन्निहते जाते दुर्गभंगे च दैवतः । लोकानिति प्रजल्पाकान्निरोद्धुं कतमः क्षमः ॥ १०० ॥ ध्रुवं सपरिवारोपि दुर्मतिर्विभुरेष नः । यदेवमविमृश्यैव रतिपालं प्रजघ्निवान् ॥ १०१ ॥ जीवत्यत्र दुर्गेस्मिन् विलसंतीति किं शकाः । पारीन्द्रे सति किं तस्य गुहायां कोपि दीव्यति ॥ १०२ ॥ हनूमदयनं यद्व दभविष्यज्जितेऽमुना । हतेत्र भविता तद्व द्रतिपालायनं क्षितौ ॥ १०३ ॥ विरम्यतां तदेतस्मा द्भाव्यमस्ति यदस्तु तत् । रावणादिभिरप्युच्चै र्न भाव्यं रुरुधे यतः ॥ १०४ ॥ उक्तेति विरते राज्ञि प्रससार पुरांतरे । वार्ता नृपं शकाधीशो यत्पुत्रीमेव याचते ॥ १०५ ॥ इतश्च राजपत्नीभि रनुशास्य प्रणोदिता । पुत्री देवलदेवीति नत्वा भूपं व्यजिज्ञपत् ॥ १०६ ॥ हाहा तात मदर्थं किं राज्यं विप्लावयस्यदः । किं कीलिकार्थं प्रासादं प्रपातयति कश्चन ॥ १०७ ॥ प्रभूता अपि पुत्राः किं कुर्युः पूर्वे तमौगजाः । परार्थमेव वर्धेत या क्षुद्रश्रीरिवान्वहं ॥ १०८ ॥ मत्प्रदानेन साम्राज्यं चिरं यत्क्रियते स्थिरं । तत्काचखंडदानेन रक्षा चिंतामणेर्न किं ॥ १०९ ॥ परासोर्येत्र कुत्रापि जीवंति तनुजा वरं । दृष्टाहि पुनरावृत्तिर्जीवतां न गतायुषां ॥ ११० ॥ नीतिः स्वहितमालोच्य व्ययं कुर्याद्विचक्षणः । तत्तात् मयि दत्तायां किं किं भावि न ते हितं ॥ १११ ॥

१२० श्रीहम्मीरमहाकाव्ये [सर्गः जामाता भूपतिस्तादृक्सुखं स्वक्षितिरक्षणं । खलूक्त्वा बहु सर्वेषां वयमेव किलोपरि ॥ ११२ ॥ त्यजेदेकं कुलस्यार्थे नीतिरित्याह वाक्पतिः । त्रातुमावर्धितं क्ष्मा मां ददतस्तव का क्षतिः ॥ ११३ ॥ तन्निधेहि धियं तत्त्वे विधेहि समयोचितं । पिधेहि मा च मद्वाक्यं शकेंद्राय प्रदेहि मां ॥ ११४ ॥ अयशःपटनिर्माणतुरीं तच्चातुरीमिति । श्रुत्वा भृशं स जज्वल नृपतिस्तर्पिताग्निवत् ॥ ११५ ॥ जगाद च सुते नैत त्ध्रुवं त्वन्मतिवल्गितं । अस्पृष्टपापपंकानां कुमारीणामधीरिरिति ॥ ११६ ॥ शिक्षयित्वेति पापिन्या त्वमिह प्रेषिता यया । छिनद्मि रसनां तस्या बिभेमि स्त्रीवधान्न चेत् ॥ ११७ ॥ त्वद्दानेन यदिष्येत प्राज्यराज्यसुखासिका । त त्किं न जीवितव्याशा पुत्रकालेयभक्षणैः ॥ ११८ ॥ त्यजेदेकं कुलस्यार्थे इति नीतिं यदभ्यधाः । शैशवात्तन्न तेद्यापि तत्परार्थे समर्थता ॥ ११९ ॥ त्याज्य एकः कुलस्यार्थे तस्माद्धीनतरः स चेत् । अहिटष्टो यथांगुष्ठः छेद्यो जिव्हापि किं तथा ॥ १२० ॥ सत्यामप्यासमुद्रोव्यां कुले सारं त्वमेव नः । न चेच्छकोपि तां हित्वा कथं त्वामेव याचते ॥ १२१ ॥ यदूचे मयि दत्तायां किंकिं भावि.न ते हितं । तदेतदपि ते बाल—लीलोन्मीलितमंगजे ॥ १२२ ॥ सर्वात्मना निकृष्टाय प्रकृष्टाय गवाशिने । शकाय त्वयि दत्तायां कुतो हंत हितार्जनं ॥ ॥ १२३ ॥ अयशःपटहो लोके परलोके च दुर्गतिः । स्वकुलाचारविध्वंसो धिक् नृणां जीवितं ततः ॥ १२४ ।

[१३] देवलदेवीकन्यासम्वादः १२१

दुर्लभं नृभवं प्राप्य द्वयमेवार्ज्जयेत्सुधीः । कीर्त्तिं धर्मं च तौ सम्य—कुलाचारप्रपालनात् ॥ १२५ ॥ पूर्वाचारं निहत्याच्चैः सुखं हंत चरंति ये । आज्ञालोपान्न किं पापै र्हतास्तैः पूर्वजा निजाः ॥ १२६ ॥ आचाहमानमप्यादौ यैर्न्नाकृत्यं कृतं पुरा । तत्कुर्वन्नधुनाऽहं तान् कथं वक्ता स्वपूर्वजान् ॥ १२७ ॥ [यतः]पितुर्युपरते यस्तु नोद्वहेत्पैतृकीं धुरं । तेन नैवोपदेष्टव्याः स्वस्य वंशस्य पूर्वजाः ॥ १२८ ॥ बद्धवाचं विधायेति प्रतीपोक्तितरंगितैः । स्वावासं प्रेषयामास सदस्यां क्षितिवासवः ॥ १२९ ॥ इतः स रतिपालोपि तूर्णं गत्वा तदालयं । कलयन्नाकुलीभावं रणमल्लमभाषत ॥ १३० ॥ भ्रातः किं सुखमासीन त्वरस्व प्रपलायितुं । सेवाहेवाकिनां शत्रुर्बद्धुमभ्येति यद्विभुः ॥ १३१ ॥ सुधांशौ विषवत्त्वस्मि न्नैतत्संभाव्यते कथं । इत्याक्षिप्तवचास्तेन रतिपालः पुनर्जगौ ॥ ॥ १३२ ॥ स पंचपैर्जनैर्युक्तो यदि सायं त्वदालयं । एति तन्मे वचः सत्य मित्युक्तासावगाद्गृहं ॥ १३३ ॥ अथ दृष्ट्वा यथादिष्ट मायांतं स क्षितीश्वरं । जातप्रतीतिरुत्तीर्य दुर्गाद्भीत्यामिलद्रिपोः ॥ १३४ ॥ उत्तीर्य रतिपालोपि दुर्गात् स्वर्गादिवोच्चकैः । शिश्राय निरयावासमिवावासं शकेशितुः ॥ १३५ ॥ तयोस्तच्चेष्टितं दृष्ट्वा कलिं धिकलयन्नयं । कोशेऽन्नं कियदस्तीति नृपः पप्रच्छ जाहडं ॥ १३६ ॥ वदामि यदि नास्तीति तदा संधिर्भवेद्ध्रुवं । भाव्यर्थभावाद्वचालेति जगौ न कियदित्यसौ ॥ १३७ ॥ 16 k

१२२ श्रीहम्मीरमहाकाव्ये [ सर्गः कुर्वन्नपि हितं मूर्खोऽहितायैव प्रगल्भते । अत्रोदाहरणं व्यक्तं किन्न पश्यत जाहडं ॥ १३८ ॥ तद्गिरा चिंतयाचांतो भूकांतोभ्येत्य मंदिरं । उच्चेंद्रे विगलत्तंद्र श्चेतसीति व्यचिंतयत् ॥ १३९ ॥ अमानैरपि सन्मानै र्दानैस्तैस्तैरनेकधा । पूजितौ सत्कृतौ शश्व द्वौ मया भ्रातराविव ॥ १४० ॥ यदि तावप्यहो स्वामिद्रोहमेवं प्रचक्रतुः । तदा स्वभावनीचानां परेषां गणनास्तु का ॥ १४१ ॥ साजात्यात्तस्य संगम्य रिपोश्चेन्मुद्गला अमी । परः प्रेममदुस्तस्य महद्भावि विडंबनं ॥ १४२ ॥ यथा कथंचिदर्हास्त द्विसृष्टुं स्वपुरादमी । परः प्रेमपरोऽप्युच्चैः परत्वं यन्न मुंचति ॥ १४३ ॥ एतस्मिन्नंतरे द्वास्थो विदग्धः कोपि मागधः । प्रत्यूषोन्मेषकं काव्य-द्वयमेतदपीपठीत् ॥ १४४ ॥ कोकीनिश्वासवातज्वलिततमतमौंगारवैभातरागा- र्चिष्मत्स्वर्व्योममूषाजठरविनिहितेपास्तनिःशेषदोषे । क्षित्वा प्रत्यूषकल्कं शशभृति विशदे पारदे कालयोगी भास्वंतं निर्मिमीते नवमिव कनकं भूषणार्थं दिनस्य ॥ १४५ ॥ आयातेन वितन्वता हृदि करस्पर्शं भृशं प्रेयसो- न्निद्रत्वं गमितापि तिग्मरुचिना यांतीव निद्रालुतां । अप्रौढेव सरोजकोशविगलद्भृंगावलीझंकृतैः सोत्कंपं वितनोति पश्य नलिनी प्रौढाप्यहो हुंकृतिं ॥ १४६ ॥ प्रीतस्तदर्थचारिणा नृपस्तत्पारितोषिकं । दत्वा क्षणमुपाक्रांस्त ब्राह्ममौहूर्तिकीं क्रियां ॥ १४७ ॥ अथ प्रातरधिश्रित्य सभां स क्षितिवल्लभः । स्वतत्सोदराध्यक्षं महिमासाहिमब्रवीत् ॥ १४८ ॥

१३] हम्मीरस्वर्गगमनवर्णनम् १२३ प्राणानपि मुमुक्षामो वयमात्मक्षितेः कृते । क्षत्रियाणामयं धर्मो न युगांतेपि नश्वरः ॥ १४९ ॥ - स एव क्षत्रियः प्राणां-तेपि यो हुंकृतौ क्षमः । कि नोदाह्रियते व्यक्त मिह राजा सुयोधनः ॥ १५० ॥ - यूयं वैदेशिकास्तद्वः स्थातुं युक्तं न सापदि । यियासा यत्र कुत्रापि ब्रूत तत्र नयामि यत् ॥ १५१ ॥ नृपस्य वचसा तेन प्रासेनेव हतो हृदि । मूर्छया प्रपतन्मुच्चै रवष्टब्ध इव क्रुधा ॥ १५२ ॥ एवमस्त्विति जल्पाको महिमाभ्येत्य मंदिरं । कुटुंबमसिसात्कृत्वा नृपं गत्वेदमब्रवीत् ॥ १५३ ॥ पाणिगृहीती त्वद्भातु र्गंतुमुत्कंठिताप्यसौ । इलाविलासिनी कांतं मामाहेति सगद्गदं ॥ १५४ ॥ कातैतावंति वर्षाणि तस्थिवांसो यदोकसि । अप्यात्मानुभवं नैवा स्माष्मं शत्रुपराभवं ॥ १५५ ॥ यस्य प्रसादैः संप्राप्त—सौख्यलक्षैर्निरंतरं । अबोधि नापि तिग्मांशुरुदितोस्तमितोपि वा ॥ १५६ ॥ - तमिदानीमदृष्ट्वैव यद्येवं नाथ गम्यते । पश्चात्तापहृतं तर्हि मनः केनोपशाम्यति ॥ १५७ ॥ प्रसाद्यागत्य तत्सद्यो मंदिरं मेदिनीपते । स्वदर्शनामृतैः पश्चा तापतप्तां निर्षिंचतां ॥ १५८ ॥ एवमभ्यर्थितस्तेन महिमासाहिना विभुः । आलंब्य तद्भुजादंडं सादरं सानुजोचलत् ॥ १५९ ॥ - आसाद्य तद्गृहं भूपो यावदंतर्विशत्यसौ । कुरुक्षेत्रमिवाद्राक्षी त्तावत्सर्वं तदंगणं ॥ १६० ॥ - अस्रक्पूरे शिरांसीह शिशूनां योषितामपि । तरंत्यवेक्ष्य मूर्च्छालः क्ष्मापालः क्ष्मातलेऽपतत् ॥ १६१ ॥ -

१२४ श्रीहम्मीरमहाकाव्ये [सर्गः

बंधूनां वीरमादीनां विमूर्छोत्थाश्रुसेवनैः । लगित्वा महिमासाहेः कंठे व्यलपदित्यसौ ॥ १६२ हा कंबोजकुलाधार हा कीर्तिकुलमंदिर । हानन्यजन्यसौजन्य हा धन्यतमविक्रम ॥ १६३ ॥ हा क्षत्रैकव्रतागार हा विश्वजनवत्सल । कथंकारं भविष्यामि प्राणदोप्यनृणस्तव ॥ १६४ ॥ मत्तो नैवाधमः कोपि त्वत्तो नैवोत्तमः परः । अद्यायं मंदधी स्तादृग्दृग्प्रेम्ण्यपि यत्त्वयि ॥ १६५ ॥ प्रातिकूल्याद्विधेर्जाता ममेयं यदि दुर्मतिः । आश्चक्रियेतत्तत् किं त्वं यदा भाव्यं हि नान्यथा ॥ १६६ ॥ पुमानात्महितं कर्तुं धियं—त्यनेकधा । सा सतीव पतिं क्वापि भवितव्यं जहाति न ॥ १६७ ॥ अन्यथैव विचार्यंते पुरुषेण मनोरथाः । दैवादाहितसद्भावा कार्याणामन्यथा गतिः ॥ १६८ ॥ विनिवृत्तस्ततो मान मन्नमालोक्य कोष्ठगं । किमेतदिति पप्रच्छ जाहडं जगतीपतिः ॥ १६९ ॥ उक्तायामथ तेनात्म-बुद्धौ प्रोवाच पार्थिवः । खन्मतौ पतताद्वज्रं यया जज्ञे कुलक्षयः ॥ १७० ॥ ततः प्रदाय पौराणां मुक्तिद्वारं स युक्तिवित् । प्रवेष्टुं ज्वलने शिष्टमतिरादिष्टवान् प्रियाः ॥ १७१ ॥ स्वयं च कृतदानादि-धर्मोऽर्चितजनार्दनः । क्षणं पद्मसरस्तीरे निषसाद विषादमुक् ॥ १७२ ॥ आरंगदेविप्रमुखो अथ ता दिव्यभूषणाः । तत्र स्नात्वा नृपं नत्वा तस्थुरूर्ध्वदमाः पुरः ॥ १७३ ॥ कस्याश्चित् कर्णयोः स्वर्ण—कुंडले रेजतुस्तमां । चक्रे इव जगज्जैत्रे रतितत्प्राणनाथयोः ॥ १७४ ॥

१३] हम्मीरराजस्वर्गगमनम् १२५ बभौ परस्याः कस्तूरी--तिलकं कलिकाकृति । स्मरेण त्रिदिवं जेतुं संहितं धनुषीष्विव ॥ १७५ ॥ नासावंशाग्रतोऽन्यस्या मुक्तं मुक्ताफलं बभौ । तिलपुष्पायतो यस्या वारिबिंदुरिव स्फुरन् ॥ १७६ ॥ कस्याश्चिदुरसि स्फारा मुक्ताहारलता बभौ । वितता हासधारेव निर्याता सृक्किणीद्वयात् ॥ १७७ ॥ रेणुसंगभयात्काम--स्पंदनांगमिवावृतं । बभौ नीलदुकूलेन कस्याश्चिच्छ्रोणिमंडलं ॥ १७८ ॥ करद्वयांगुलीयानां मयूखैर्वृत्तवर्तिभिः । परीता हरिचापाभ्या मिव काचिदराजत ॥ १७९ ॥ आच्छिद्याहितचक्रांग--याननाशभयादिव । रेजे नियंत्रणान्यस्याः पादयोनूपुरच्छलात् ॥ १८० ॥ ततस्तुष्टो नृपश्चिह्नं कबरीं स्वां वरीयसीं । मूर्त्तशृंगारसर्वस्व मिव तासां व्यशिश्रणत् ॥ १८१ ॥ पुत्रीं देवलदेवीं च दोर्भ्यामालिग्य निर्भरं । नितरां निःश्वसन् क्रंदन् कष्टेन महता जहौ १८२ ॥ ऊचे च चेद्भवेत्पुत्री भूयात्तर्हि भवादृशी । परां कोटिं ययानायि गौर्येव जनको निजः ॥ १८३ ॥ स्वर्न्नारीस्पृहलुब्धोऽसौ यदि न स्वीकरोति नः । तदास्मै प्राक् प्रतीत्यर्थ मिमां दर्शयितास्महे ॥ १८४ ॥ इति ध्यात्वेव तां वेणीं हृदि विन्यस्य सुभ्रुवः । ज्वलद्धनंजयज्वाला--करालां प्राविशंश्चितां ॥ १८५ ॥ स्वःस्त्रीरूपवशीकृतो यदि कदाप्यस्मानयं स्वप्रियाः स्वीकर्त्ता न तदा प्रतीतिमनयास्योत्पादयिष्यामहे । ध्यात्वेवेति निधाय तां स्वहृदये वेणिं विभोस्ता ज्वलत्- श्रीखंडागरुसारचंदनचितां सद्योप्यविशंश्चितां ॥ १८६ ॥

१२६ श्रीहम्मीरमहाकाव्ये [सर्ग विसृष्टौल्यांजलीन् तासां दत्वा जाजः सभूबुजा । अगात् छित्त्वा द्रुतं क्षित्वा—ष्टरुयेकां गजमस्तकः ॥ १८७ ॥ किमेतदिति राज्ञोक्ते सोऽवक्राजन् यथा पुरा । रावणः शंभुमानर्च तथाहमर्चयाम्यहं ॥ १८८ ॥ तच्छिरांसि नवैतानि रक्षोहस्तपदे पुनः । शिरो ममेदमित्युक्त्वा स्वं च शीर्षमदीदृशत् ॥ १८९ ॥ राज्यार्थी सोदरं हित्वा वीरमः स्थितवानिति । जनापवादभीतेन वीरमेण तिरस्कृतं ॥ १९० ॥ वितीर्य जाजदेवाय ततो राज्यं मुदा नृपः । द्रव्यं क्व निक्षिपामीति चिंतयन् निद्रयादृतः ॥ १९१ ॥ तदा पद्मसरः स्वप्ने ऽभ्येत्य भूपमदो वदत् । म्लेंच्छा धनं मयि क्षिप्तं लप्स्यंते नाप्यसुव्यये ॥ १९२ ॥ सर्वेऽपि रतिपालाद्या नीचा द्रोहमयासिषुः । एते भटा अहं दुर्गस्तुभ्यं द्रुह्यांति नो पुनः ॥ १९३ ॥ अथापनिद्रभूपाला—देशात्सर्वं स जाहडः । प्रक्षिप्य सारं कासारे तमूचे किं करोम्यहं ॥ १९४ ॥ उक्तो निदेशं देहीति श्रीहम्मीरेण वीरमः । कूष्मांडवच्छिरस्तस्य छित्त्वा भूमौ व्यलोडयत् ॥ १९५ ॥ अथ श्रावणमासस्य सितषष्ठ्यां रवौ निशि । दिवि कीर्तिं कलंतीं स्वां विलोकितुमिवोत्सुकः ॥ १९६ ॥ अहंकारैरिवाध्यक्षै मूर्त्तेर्वीररसैरिव । अन्वितो नवभिर्वीरै रणं शिश्राय पार्थिवः ॥ १९७ ॥ आगाद्धम्मीर इत्युक्ति—श्रुत्या व्यंजितविक्रमः । ससैन्यः शकराज्ञोऽपि भेजे तत्राभ्यमित्रतां ॥ १९८ ॥ एकस्तस्य नृपस्याग्रे वीरमौलिः स वीरमः । बभौ चंपाधिपः प्रौढः कौरवाधिपतेरिव ॥ १९९ ॥

१३] हम्मीरराजस्वर्गगमनम् १२७ विशिखान् विकिरन् भूरीन् ध्वानयंश्चापमंडलं । क्षणात्स वीरकोटीरो व्याकुलं द्विद्कुलं व्यधात् ॥ २०० ॥ श्वेडानादैर्द्विषच्चक्रं त्रासयन्नेणयूथवत् । सिंहः सिंह इवाध्यक्षो जघ्ने यन्नेत्र वैरिणां ॥ २०१ ॥ नयन्नग्निशिरोल्काभिः प्रतिवीराननंगतां । टाको गंगाधरः स्वाख्यां सत्याख्यामिह तेनिवान् ॥ २०२ ॥ चबारोपि व्यराजंत मुद्गलास्ते स्फुरद्बलाः । चतुरंगमपि द्वेषि—बलं जेतुमिवोद्यताः ॥ २०३ ॥ परान् परः शतान् प्रेत—पतेरतिथितां नयन् । परमारान्वयं चक्रे क्षेत्रसिंहोत्र सार्थकं ॥ २०४ ॥ रिपुप्राणापहाराय दंडभृत् दूतिकास्रिव । श्वेडासु वीरैर्मुक्तासु चकितं दधिरे शकाः ॥ २०५ ॥ सा कीदृगस्ति स्वःश्री यां नृपः परिणिनीषते । इति द्रष्टुमिवायासीद्वीरमः प्राग् नृपात् दिवं ॥ १०६ ॥ वीराः परेपि हम्मीरा निर्विण्णा इव जीविते । प्रभोः पूर्वं ययुः स्वर्गं स्थितिरेषा भुजाभृतां ॥ २०७ ॥ मूर्च्छितं महिमासाहिं विभाव्य रिपुपत्रिभिः । युद्धाय स्वयमुत्तस्था—वय हम्मीरभूपतिः २०८ ॥ अतिधारानिपुनस्य वर्षतः शुचिनाऽमुना । शंके द्वेषो भवेन्नोचे त्कथमस्यायमंतकृत् ॥ २०९ ॥ संयत्सेकोपि हम्मीरः परो लक्षलमाश्रयन् । व्योमासिक्तैर्द्विद्वक्त्रैः पद्माकरमिवाकरोत् ॥ २१० ॥ हम्मीराग्निशरश्रेणिपरीताः परितः शकाः । अमंसत प्रविष्टं स्वं मंडलं चंडदीधितेः ॥ २११ ॥ एकोप्यसौ जिगायाशु प्रभूतानपि वैरिणः । एणव्यूहं जयन् सिंहः किं सहायमपेक्षते ॥ २१२ ॥