हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
47 on the funeral pile When the king s daughter prepared to ascend the pile, her father was overcome with grief He embraced her and refused to separate She, however, extricated herself from the paternal embrace, and passed through the fiery ordeal When there remained nothing but a heap of ashes, the sole remains of the fair and faithful Chohanis, Hammira performed the funeral ceremonies for the dead, and cooled their manes with a last ovation of the tilánjali He then, with the remains of his faithful army, sallied out of the fort and fell upon the enemy A deadly hand to hand struggle ensued Virama fell first in the thickest of the battle, then Mahimasîhi was shot through the heart Jâja, Gangâdhar Tâk and Kshetrasingh Paramara followed them Lastly fell the mighty Ham mira, pierced with a hundred shafts Disdaining to fall with anything like life into the enemy s hands, he severed, with one last effort, his head from his body with his own hands, and so terminated his existence Thus fell Hammira, the last of the Chohâns! This sad event happened in the 18th year of his reign, in the month of Srâvana ³⁰
³⁰ The Târîkh i 'Alâî of Amîr Khusrû gives the date as 3rd Zî l ha da A H 70 (July 1301 A D ), the siege began in Rajab four months previously —Elliot and Dowson s History vol III pp 75 179 549
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है (पृष्ठ रिक्त है)।
श्रीहम्मीरमहाकाव्यम् प्रथमः सर्गः सदाचिदानंदमहोदयैक-हेतुं परं ज्योतिरुपास्महे तत् । यस्मिन् शिवश्रीः सरसीव हंसी विशुद्धिकृद्धारिणि रंरमीति ॥ १ ॥ तज्ज्ञानविज्ञानकृतावधानाः संतः परब्रह्ममयं यमाहुः । पराश्रयः कृतभवावसानः स नाभिभूर्वस्त्वरतां शिवाय ॥ २ ॥ यशोदयास्फीतशुभप्रवृत्तिर्गोपालमालाचितपादपद्मः । श्रीवत्सलक्ष्मा पुरुषोत्तमः श्री-पार्श्वः श्रियं वस्त्रनुतादतन्वीं ॥ ३ ॥ उच्चैर्वृषो दर्पकदर्पहारी शिवानुयातो विलसद्विभूतिः । शुभ्रस्थितिर्निर्दलितांधकारः श्रीशांकरो वीरविभुर्विभूतये ॥ ४ ॥ सचक्रहत्प्रीतिकरैः प्रभावि-प्रभाविशेषैः सुभगंभविष्णुः । सम्यक्प्रबोधप्रथनप्रभूष्णु र्भास्वान् सशांतिः शमयत्वघानि ॥ ५ ॥ महेशचूडामणिचुंबिपादो ऽभ्रांतस्थितिः स्फीतशुभप्रचारः । महामहाध्वस्ततमसमूहः समुद्रजन्मा शशभृच्छ्रिये स्तात् ॥ ६ ॥ लसत्कविस्तोमकृतोरुभक्ति र्नालीकसंपत्सुभगंभविष्णुः । स्वदर्शनेन त्रिजगत्पुनाना सरस्वती नो नयतात्प्रसत्तिं ॥ ७ ॥ माधांतृसीतापतिर्कर्कमुख्याः क्षितौ क्षितींद्राः कतिनाम नासन् । तेषु स्तवार्हः परमेष सत्व-गुणेन हम्मीर महीभृदेकः ॥ ८ ॥ सत्त्वैकवृत्तेः किल यस्य राज्य-श्रियो विलासा अपि जीवितं च । शकाय पुत्रीं शरणागतांश्च प्रयच्छतः किं तृणमप्यभूवन् ॥ ९ ॥ 1 A.
२. हम्मीरदेव का राज्याभिषेक व दिग्विजय
२ श्रीहम्मीरमहाकाव्ये [सर्गः अतोस्य किंचिच्चरितं प्रवक्तु मिच्छामि राजन्यपुपूषयाहं । तदीययत्तद्गुणगौरवेण विगाह्य नुन्नः किल कर्णजाहं ॥ १० ॥ क्वैतस्य राज्ञः सुमहच्चरित्रं कैषा पुनर्मे धिषणाऽणुरूपा । ततोतिमोहोद्धतयैकयैव मुग्धस्तितीर्षामि महासमुद्रं ॥ ११ ॥ गुरुप्रसादाद्यदि वास्मि शक्त स्तदीयवृत्तस्तवनं विधातुं । सुधाकरोत्सगसरंगयोगान्मृगो न खे खेलति किं सखेलं ॥ १२ ॥ श्रीचाहमानान्वयमौलिमौलि र्बभूव हम्मीरनराधिपस्सत् । ऐतह्यतो वच्मि पुरा तदीया मुत्पत्तिमुत्पादितहर्षहेलां ॥ १३ ॥ यज्ञाय पुण्यं कचन प्रदेशं द्रष्टुं विधातु र्भ्रमतः किलादौ । प्रपेतिवत् पुष्करमाशुपाणि-पद्मात्पराभूतमिवांस्य भासा ॥ १४ ॥ · ततः शुभं स्थानमिदं विभाव्य प्रारब्धयज्ञो यमपास्तदैन्यः । विशंक्य भीतिं दनुजव्रजेभ्यः स्मेरस्य सस्मार सहस्ररश्मेः ॥ १५ ॥ अवातरन्मंडलतोथभासां पत्युः पुमानुद्यतमंडलाग्रः । तं चाभिषिच्याश्वदसीय रक्षा-विधौ व्यधादेष मखं सुखेन ॥ १६ ॥ पपात यत् पुष्करमत्रपाणेः ख्यातं ततः पुष्करतीर्थमेतत् । यच्चायमागादथ चाहमानः पुमानतो ऽख्यायि स चाहमानः ॥ १७ । ततश्चतुर्वक्त्रभवात्प्रसादात् साम्राज्यमासाद्य स चाहमानः। चक्रेऽर्कवद्भूत आशुपादा-क्रांतान् गुरून्प्ययमस्य वत्ता ॥ १८ ॥
- स्वदानजन्मोरुयशोर्जितश्री-विलोपि दानं समवेक्ष्य यस्य । बलिः स पातालविलं सिषेवे त्रपातुराणामपरा गतिः का ? ॥ १९ ॥
- त्वं पाप रे कामयसे मदीयां कीर्तिं शशी येन रुषेति रुद्धः । बिंबं रवेर्दिव्यमिव प्रदातुं प्रविश्य निर्गच्छति मासि मासि ॥ २० ॥
- प्रतापवह्नि र्ज्वलितो यदीय स्तथा द्विषां कीर्तिवनान्यधाक्षीत् । तदुत्थधूमाश्रयतौ जहाति वियद्यथा ऽद्यापि न कालिमानं ॥ २१ ॥ निशम्य सुप्रीतमना यदीयां कीर्तिं विचित्रोरुचरित्ररम्यां । महीतलध्वंसभिया शिरः स्व मकंपयंस्तापमवाप शेषः ॥ २२ ॥
१ ] पूर्वजवर्णनम् ३ जयश्रिया प्राप्तमहावियोगान्संमूर्च्छयन् वैरिगणान्निकांमं । यो युध्यवाची पवनायितोपि चित्रं द्विजिह्वान् सुखीचकार ॥ २३ ॥ प्रस्पर्धते मद्यशसा ऽस्य सूनुः शशीयमर्पात् किल यौम्बुराशेः । गांभीर्यलक्ष्मीं हरतिस्म किन्न सुतापराधे जनकस्य दंडः ? ॥ २४ ॥* तदा ऽख्यया जायत चाहमान-वंश स्त्रिलोकीविहितप्रशंसः । शश्वत् सुपर्वावलिसेव्यमान उत्पत्तिहेतु र्नरमौक्तिकानां ॥ २५ ॥ तस्मिन् स्फुरद्विक्रमचक्रवाला वंशे बभूवु र्बहवो नृपालाः । त्रिवर्गसंसर्गपवित्रचित्र-चरित्रविन्नासितपापभाराः ॥ २६ ॥ पराक्रमाक्रांतजगत्क्रमेणा भवन्नृपो दीक्षितवासुदेवः । शकासुरान् जेतु मिहावतीर्णः स्वयं धरायामिव वासुदेवः ॥ २७ ॥ सपत्नसंघातशिरोधिसंधि-च्छेदादसिं कुंठतरं निजे यः । प्रतापवह्लावभिताप्य काम मपाययत्तद्रमणीदृगंबु ॥ २८ ॥ छिन्नद्विषन्मंडलमौलिमूला-सृक्पूरदिग्धासिलताछलेन । रणाजिरे यस्य करे विरेजे व्यक्त्तानुरागेव भृशं जयश्रीः ॥ २९ ॥ प्रवाद्यमाने रणवाद्यवृंदे संपश्यमानेषु दिवः सुरेषु । शौर्यश्रियं यो रणरंगभूमा वनर्त्तयद्देलदसिच्छलेन ॥ ३० ॥ भास्वान् जितो यन्महसा ददाति झंपां किमद्यापि न वारिराशौ । उन्मज्जति व्याकुलितो ऽन्वहं द्य सुदुस्त्यजं हा ! हतजीवितव्यं ॥ ३१ ॥ तदंगजन्मा ऽजनि नाभिजन्मा-र्हणाचणः श्रीनरदेवभूपः । तनूदरीलोचनलोभनीय-तनुश्रिया र्जितकामरूपः ॥ ३२ ॥ * अशात्रवं विश्वमिदं विधातुं क्रुद्धे परिक्राम्यति यत्र भूपे ।
- राज्यश्रियं पातुमरातयः स्व-कोशादसून्यांचकृषुर्न खङ्गान् ॥ ३३ ॥ संख्येपु पूर्वाचलचूडशोभां बाहुर्यदीयः कलयांबभूव । म्लानिं नयन्वैरिमुखांबुजानि रराज यस्मिन् नवचंद्रहासः ॥ ३४ ॥ प्रतापवह्नि र्ज्वलितो यदीयः स्थाने यदन्यायवनान्यधाक्षीत् । जगज्जनाश्चर्यकरं तदैतत् यद्वैरिणां कंपभरं ततान ॥ ३५ ॥
[Page Header] ४ श्रीहम्मीरमहाकाव्ये [सर्गः
नखावलीनां कपटेन पुत्र-पौत्रान्वितोप्येष पतिर्द्विजानां । जितोहमैतत् यशसेत्युपेत्य लग्नो यदीये पदपद्मयुग्मे ॥ ३६ ॥ श्रीचंद्रराजेन नयैकधाम्ना ततो धरित्री बिभ्रांबभूवे । वक्त्रेण कीर्त्या च निशाकरं द्वि र्जयन् स्वनामाऽतत यो यथार्थं ॥ ३७ ॥ यस्य प्रतापज्वलनस्य किंचि दपूर्वमेवाजनि वस्तुरूपं । प्रज्वल शत्रौ सरसे प्रकामं यन्नीरसेऽस्मिन् प्रशशाम सद्यः ॥ ३८ ॥ चापस्य यः स्वस्य चकार जीवा-कृष्टं रणे क्षेप्तुमनाः शरौघान् । जवेन शत्रून् यमराजवेश्म ऽनैषीत्तदेतन्महदेव चित्रं ॥ ३९ ॥ यस्य क्षितीशस्य च यन्महासे रन्त्योन्यमासीत्सुमहान् विरोधः । एको विरागः समभूत्परेषां दारेषु चान्यो यदभूत्सरागः ॥ ४० ॥ तस्मादशोभिष्ट महिष्ठधामा महीमहेंद्रो जयपालनामा । यः सिद्धविद्यो जगति प्रसिद्धिं जगाम चक्रीतिजितारिचक्रः ॥ ४१ ॥ भिन्नद्विषत्कुंभिघटाकटाह-कुंभोच्छलच्छोणितशोणशोचिः । यस्याहवे खङ्गलता प्रतापा-शुशुक्षणे रर्चिरिवोल्ललास ॥ ४२ ॥ अनेकधाष्टापदसारदान-दक्षो वशीभूततराक्षचारः । यो द्यूतकृच्चतुरंगयुद्ध-क्रीडास्वजेयः समभूत्परेषां ॥ ४३ ॥ विदारितारातिकांरिद्रकुंभ-विलग्नमुक्ताफलकैतवेन । करे यदीये करवालवल्ली जयश्रियो हारलतेव रेजे ॥ ४४ ॥ यत्कीर्त्तिपूरैरभितः परीते विश्वत्रये सूरिभिरित्यतार्कि । तप्तं प्रतापै र्ध्रुवमेतदीये र्विलिप्तमेतन्नवचंदनेन ॥ ४५ ॥ यदीयकीर्त्यापहतां समंतात् निजां श्रियं स्वर्गधुनी विभाव्य । पतत्प्रवाहध्वनिकैतवेन कामं किमद्यापि न फूत्करोति ॥ ४६ ॥ रणे कणेहत्य निपीय रक्त-मधून्यरीणां वदनांबुजेषु । शिलीमुखा यस्य समंततोपि क्षीबा इव क्षोणितलं स्म यांति ॥ ४७ ॥ यस्य प्रसर्पद्विष्मायुधस्य प्रत्यर्थिनां संगरसँगतानां । स्वेदः प्रकंपो बलहानिरुच्चै रभूद्वधूनामिव वल्लभस्य ॥ ४८ ॥
१] पूर्वजवर्णनम्
- स्फुरद्धृतिः प्राप्तलसत्प्रतिष्ठो विशुद्धवर्णः स्पृहणीयवृत्तः । कीर्त्तिं स्मरन्सत्कवित्परार्थ-हेतौ मतिं क्वापि न यश्चकार ॥ ४९ ॥ विरुद्धवासादिह मां न कोपि वेत्तीति बिभ्यत्किल यत्प्रतापात् । दारूणि वह्निः प्रविवेश नोचे तद्धर्षणात्तत्प्रभवः कुतः स्यात् ॥ ५० ॥ कामं यदोजःसृजि वेधसोपि स्वेदोदयः कोपि स आविरासीत् । प्रसर्पता येन नदीवदंबु-राशेरपि क्षारमकारि वारि ॥ ५१ ॥ तद्वास्तु तत्तद्धनवस्तुसार-प्राग्भारवीक्षास्तुतधातृसर्गं । स्वर्गश्रियं जित्वरकांनिकांत-मतिष्ठिपत् योऽजयमेरुदुर्गं ॥ ५२ ॥ अदीपि तस्माज्जयराजभूपू स्त्रैलोक्यविख्यातयशःस्वरूप । यत्कीर्त्तिचंद्रैर्मुखमंडलानि दिकामिनीनां सुरभीवभूवुः ॥ ५३ ॥ यशो विताने स्फुरिते यदीये व्यक्तो यदाऽलक्ष्षि न शीतराश्मिः । तदादिशंके विधिना व्यधायि तदीयबिंबांतरयं कलंकः ॥ ५४ ॥ यस्मिन्महीं शासति राजमार्ग-प्रोलंघनं तुंगसुरालयेषु । *निख्रिंशताऽस्त्रेषु मदो द्विंपेषु करग्रहोऽभूत् करपीडनेषु ॥ ५५ ॥ जगत्प्रदीपे किमु यत्प्रतापे पतंगवद्व्यान्निपपात भास्वान् । पतंग इत्येतदमुष्य नामा ऽन्यथा कवींद्राः कथ मामनंति ॥ ५६ ॥ सत्यं किलैकोदरजोपि चैक-नक्षत्रजातोपि सदृग्भवेन्न । अप्येकतोसेः सममस्य जात मुष्णं यदोजः शिशिरं यशस्तु ॥ ५७ ॥ सामंतसिंहो नृपतिस्ततोऽभूत् मत्तारिदंताबलवारसिंहः । यस्य प्रतापैर्नपतोश्चक्रं बभूव भूषैव कृपाणदंडः ॥ ५८ ॥ *अहो अहोरात्रमहोदयश्री र्यशःशशी यस्य नवो बभासे । *नान्यायसिंहीसुतलब्धभीति र्नामित्रधाराधरलब्धकांतिः ॥ ५९ ॥ (३ष्ट! महीभृतां मूर्धसु यत्प्रतापो भास्वान्नवो भात्किल यः प्रसर्पन् । तताप शत्रून् विधुतातपत्रां स्यक्तातपत्रात्र पुनः कदाचित् ॥ ६० ॥ पिस्पर्धिषू एष ममैदूहीनौ पातीति कोपादिव यस्य कीर्त्तिः । जटास्वटत् स्वस्तटिनी छलेना-हरोह मौलिं हिमराश्मिमौलेः ॥ ६१ ॥
६ श्रीहम्मीरमहाकाव्ये [सर्गः . स्पर्धां विधित्सोः सह येन संख्ये स्वस्याविवेकत्वविलुप्तबुद्धेः । तृणानि दद्भिर्दधतः पशुत्व मनागसे स्मारिगणा गदंति ॥ ६२ ॥ ततोभजद्राज्यरमामन्नंता-नंतापति गूंयकनामधेयः । येनानिशं धर्मतरूर्द्धरित्या मुत्सर्गनीरैरभिषिच्यतेस्म ॥ ६३ ॥ उद्दामधाराजलवाल्किं य-त्करांतराले करवालमेघं । अभ्युन्नतं वीक्ष्य विपक्षमान-हंसोद्रुतं मानसतोप्यनेशत् ॥ ६४ ॥ उच्चारयन्वैरिपशूंस्तृणानि निस्त्रिशदंडं च करे दधानः । निरंतरं भूषितसर्वदेहः सत्यां वितेने निजगोपतां यः ॥ ६५ ॥ पलायितानां रिपुभूपतीनां पिवन् कणेह्य यशःपयांसि । तत्स्त्रैणनिश्वाससमीरपुष्टो यस्यासिदंडो भुजगायतेस्म ॥ ६६ ॥ तन्नंदनश्चंदनवज्जनाना मानंदनो नंदननामधेयः । निहत्य शत्रून्समरे समग्रान् स्वसाच्चकारावनिमा समुद्रं ॥ ६७ ॥ आलोकमात्रेण शुभानि पुष्णं स्त्वार्थदृष्ट्या च तमांस्यपास्यन् । प्रजा विवस्वानिव वृत्तरम्यः संवर्धयामास निरंतरं यः ॥ ६८ ॥ पुरः परेषां किल पक्षपातं विहाय के नाधिकमाहुरेनं । नाजौ यथादीदृशदेष पृष्ठं निजं तथा वक्त्रमहो परेपि ॥ ६९ ॥ पुरः परेषां किल पक्षपातं विहाय केनाधिकमाहुरेनं । यथा स्वकोशादयमाचकर्ष खड्गं तथाजौ वसु वैरिणोपि ॥ ७० ॥ यस्य प्रतापो भुवि वाडवाधिक्षेपायदंहः कलयांबभूव । तःसंप्रमाष्टुं किमसो प्रविष्टः पारेबुधेस्तीरतपोवनानि ॥ ७१ ॥ भयार्त्तवप्रायितबाहुदंडः सर्वास्त्रविद्योपनिषत्करंडः । लीलापराभूतसुपर्वराजः क्ष्माभृत्ततो राजत वप्रराजः ॥ ७२ ॥ ज्वलत्प्रतापज्वलनोपतप्ता प्रत्यर्थिभूभोगजुषां जयश्रीः । यदीयनिस्त्रिशनिशातधारा-पाते व्यधान्मज्जनसञ्जलीलां ॥ ७३ ॥ सरीसृपस्यास्य च खङ्गयष्टे राकारमात्राद्यदि साम्यमासीत् । दंष्ट्रा हरेत्प्राणगणान्यदाद्यः परो द्विषां वीक्षितमात्र एव ॥ ७४ ॥
१ ] पूर्वजवर्णनम् ७ सर्वातिशायिद्रुतना विधात्रा विधित्सितौजोधशसी यदीये । अवश्यमेतौ रचितौ प्रशस्या-भ्यासाय तिग्मद्युतिशीतरश्मी ॥ ७५ ॥ शंके प्रतिक्षमापतिकीर्तिलोप पापोपशांत्यै विदधेस्य कीर्तेः । स्नानं मुहुर्नाकनदीप्रवाहे शुभ्रत्वमासी त्कथमन्यथा स्यां ॥ ७६ ॥ अप्यस्तदोषस्य बभूव तस्य दोषद्वयं कामवशित्वलोभौ ।
- सेनां कुमारीं बुभुजे मृधे य ललौ तथैको विजयश्रियं च ॥ ७७ ॥ यत्कीर्तिगानं विनिशम्य शंके हरः प्रनृत्यन्ससत्प्रमोदः । छुटज्जटानिर्यदमर्त्यसिंधु-पय प्रवाहैरिव शुभ्र आसीत् ॥ ७८ ॥ खेलत्सु भूरिष्वपि याचकेषु दानैकलीलारसिकस्य यस्य । दा पृष्ठचारी किल यो नकारो यदि प्रियोसौ न परः कदाचित् ॥ ७९ ॥ अनल्पसंकल्पनकल्पवल्लीं विपक्षपक्षव्रजभेदभल्लीं । त्रैलोक्यलोकावलिवंद्यपादां सेवापरत्प्रत्तमहाप्रसादां ॥ ८० ॥ शाकंभरीस्थानकृताधिवासां शाकंभरीं नाम सुरीं प्रसाद्य । विश्वापतिर्विश्वहिताय शाकं-भर्या रुमां यः प्रकटीचकार ॥ ८१ ॥ ततो धराभारमुरीचकार जितारिचक्रो हरिराजभूपः । शक्राधिराजस्य रणे निहत्य तन्मानवन्मुग्धपुरं ललौ यः ॥ ८२ ॥ रणाजिरे वैरभृतां भटाना मेकोपि यो ऽनेकत्या चकासे । प्रपश्यतां निर्मलनीरपूर्ण-पात्रेषु तारापतिवज्जनानां ॥ ८३ ॥ भ्रांत्याप्यदभ्रेषु धराधरेषु कुत्राप्यनासादितयोग्ययोगाः । पौरा इवौदार्यमुखा गुणाःस्म दिवानिशं यस्य पुरे वसन्ति ॥ ८४ ॥ अनेन पेठे पठताक्षराणि किं नो वृथा बोध्यथवा निदानं । निषेधतेो स्मान्विशतो निषेद्धु मेवेति यस्मिन्कविवाग्वितर्कः ॥ ८५ ॥ अस्याऽवनीमघवतो ऽसिलतांबुराशे- रक्ताघता सुमहतीति किमद्भुतं नः । अस्याद्भुताद्भुतमिदं तु सनीरतायां सत्यामपि स्फुरति यज्जडता स्म नैव ॥ ८६ ॥
८ श्रीहम्मीरमहाकाव्ये [सर्गः [दंतपृष्ठफणचक्रसहस्रैः] क्रोडकूर्मभुजगाधिपा दधुः । क्ष्मां सुखेन भुजयैकया दधत्तामसा वतत कं न विस्मयं ॥ ८७ ॥ उद्यच्छौर्यविनिर्जितोर्जितरिपुस्तंवेरमौघोनघ- स्त्रीसंचालितचारुचामरयुगव्याजोलसत्केसरः । आत्मीयासनमाश्रितो वनजुषा मीशस्वभावं दधत् जज्ञे सिंह इवोन्नतक्रमगतिः श्रीसिंहराज स्ततः ॥ ८८ ॥ एतेनोत्रासितानां प्रतिधरणिभुजामुल्लसद्दुर्यशस्सु स्फूर्जत्पर्जन्यमालाललितमुपगतेष्वाजिभूमौ समंतात् ॥ किन्न स्थाने तदेतत्प्रवसितमचिरान्मानहंसैर्यदेशा- मश्चैर्यद्वा प्रवृत्तं विरहविधुरिमालिगनात्तद्वधूनां ॥ ८९ ॥ क्षारोप्यंबुनिधिः शितिद्युतिरपि प्रासूत यस्मात्कथं शुभ्रांशुश्च सुधामयश्च सविधुस्तुल्योहि पुत्रः पितुः । आसीदुत्तरमस्य नो ऽद्य नृपते र्यस्य प्रसर्पद्यशः पीयूषैः परिपुष्ट एष उदधिस्तादृग्भवँ स्तज्जनौ ॥ ९० ॥ लक्ष्मीरमेषपराश्रिता मपिवला दाकृष्यभोगास्पदं प्रीत्या स्वस्य तनोति मां च जननादप्येकपत्नीव्रतां । स्वस्माद्दूरयति स्तुतां कविजनै र्न श्रोतुमुत्कंठते क्रुद्धेतीव विपक्षभूमिमभजत्कीर्ति र्यदीयोच्चकैः ॥ ९१ ॥ बाणे महीमघवतोस्य तथा कृपाणे पाणौ स्थितेप्युभयमद्भुतमेतदासीत् । एको दधाव समरे परलक्ष्यहेतो रन्यः स्वकोशमपि दूरमुदौज्झदेव ॥ ९२ ॥
- अगाधं पाथोधिं गुरुगरिमसारं सुरगिरिं पृथकृत्वा वेधा न खलु कृतकृत्यो मम मते । द्वयं निर्मायास्मिन् पुनरपि किलैकत्र भगवान् तथा प्रीतः सृष्टिं व्यधित न यथा तत्प्रणयने ॥ ९३ ॥
१ ] पूर्वजवर्णनम् ९
- यत्सौन्दर्यवशीकृतेव विजयश्रीकन्यका संगरे सर्वानप्यपहाय राजतनुजान् दौर्भाग्यदग्धानिव । उद्वोढुं यमुपागता करतलं स्पृष्ट्वापि सद्यो महः सूनुं कीर्तिसुतामसूत तदिदं लोके महत्कौतुकं ॥ ९४ ॥ कर्णाटश्चटुपाटवप्रकटनो लाटः कपटप्रद- श्चोलश्वासविलोमहृत् परिगलद्वीजर्जरो गुर्जरः । अंगः संगररंगभंगुरमतिः संपद्यते स्म क्षणात् दिक्कुक्षिभरि यत्प्रयाणपटहध्वाने समुत्सर्पति ॥ ९५ ॥
- “गांभीर्येण विनिर्जितोहममुने” त्यंभोनिधे त्वं वृथा खेदं मास्म कृथा जनः किल जनं दृष्ट्वा समाश्वासयेत् । सत्त्वाधारतया तथोन्नततया पश्यैष देवाञ्चलो जिग्ये ऽनेन तथा यथा नयनयो र्हित्वा गतो गोचरं ॥ ९६ ॥ यावत्कर्तु मयं ववांछ विलसत्कोदंड माजौ करे तावद्वैरिनृपः पुरैव विलसत्कोदंडमाधात्पुरः । एतस्मात्कयमन्यया प्रकुपितात्साक्षात्कृतांतादिव प्राणत्राणविधिर्दिगंतबलिभूः स्वर्गं गतानामपि ॥ ९७ ॥ निर्विण्णोयमरीन्निहत्य गणशोप्याजौववाह क्षमां इत्याकर्ण्य निधत्त दर्पिततमान् रे भूपुजो मा भुजान् । दुर्लक्ष्यं किमु वेधसापि चरितं जानीय नास्याखिलं बाह्यामेव वहत्यसौ सुमहतीमेनां न चांतर्गतां ॥ ९८ ॥ पंचाप्यस्य करेण दानविधिना कल्पद्रुमा निर्जिता एकैकां कलिकां बलिव्यतिकराद्दत्त्वांगुलीं स्वामिव । आसन्नांगुलिकाः स चाभिरभवत्पंचांगुलिः पप्रथे लोकेपि व्यवहार एष न भवेत्प्राग्भिः किमंगीकृतं ॥ ९९ ॥ उज्जत्येष विपक्षवृत्तिमपि नो खड्गं करात्कर्हिचित् नांगुल्यापि यदि स्पृशेद्वृणवतोप्यस्मान्सपक्षानपि । 2 k
१० श्रीहम्मीरमहाकाव्ये [सर्गः
बिभ्राणा इषवो विशन्क्षितितलं दूरे यदीया रणे ॥ १०० ॥ हाहा केयमनौचिती जलनिधेरद्यापि हृष्यत्यसौ यं दृष्ट्वा जितमप्यमुष्य यशसा चंद्रं मुहुः स्वांगजं । प्राप्यैतन्महसा तथैव वडवावह्निं च शुष्यत्यहो सर्वः कोपि परस्य पश्यति जनो दोषं न च स्वस्य तं ॥ १०१ ॥ उत्सर्पद्गुरुदर्पदर्पितभुजादंडारिदंतावल- व्रातावर्ग्रहनिग्रहाग्रहमहानागेंद्रसांद्रप्रभः । हत्वा यो युधि हेतिमं शकपतिं निर्व्याजवीरव्रतो मत्तेभांश्चतुरोऽग्रहीद्वलकरान्मूर्तानुपायानिव ॥ १०२ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहाकाव्ये वीरांक तदीयपूर्वजवर्णनो नाम प्रथमः सर्गः ॥ १ ॥ अथ द्वितीयः सर्गः अथो अभावात्तनुजस्य भीमं भ्रात्रेयमात्मीयपदे निवेश्य । कृतारिषड्वर्गजयः स सिंह-राजो हरेर्धाम जगाम नाम ॥ १ ॥ तद्राज्यमासाद्य स भीमदेवः सद्यस्तथा विक्रममाततान । न वास्तवौ कापि यथा धरायां बभूवुषी शत्रुरिति प्रवृत्तिः ॥ २ ॥ कौक्षेकायक्षतकुंभिकुंभो—च्छलद्गलन्मौक्तिककैतवेन । अपातयद्यो रिपुशौर्यवल्ले र्यशःप्रसूनानि चिरार्जितानि ॥ ३ ॥ स्वप्नेपि यद्दर्शनतो भयार्त्ता निद्रां प्रियमप्यजहुर्विपक्षाः । क्रियेत किं शर्करया तया वा या भक्ष्यमाणाऽशु दतो भनक्ति ॥ ४ ॥ श्रेयस्तरं हंत गुणाऽगुणानां परीक्षणं यद्यपि नो तथापि । चकार यः प्रार्थिषु नेयतापि गर्वोद्धुराः संतु सुरद्रुमाद्याः ॥ ५ ॥ अथोद्दिदीपेऽनयनिग्रहाय बद्धाग्रहो विग्रहराजभूपः । द्विधापि यो विग्रहमाजिभूमा वभंजयद्दौरिमहीपतीनां ॥ ६ ॥
२] पूर्वजवर्णनम् ११ संकोचयन्वैरिमुखांबुजानि प्रवर्द्धयन् कौमुदमासमुद्रं । संपीडयन् दुर्नयसैंहिकेयं नवो विवस्वान् भुवि यत्प्रतापः ॥ ७ ॥ पुरा निजैः प्रौढतरैः प्रतापै रतापयद्यः कुपितो धरित्रीं । ततो दयार्द्रकृतचित्तवृत्ति र्यशःसुधाभिर्नितरामसिंचत् ॥ ८ ॥ अप्युग्रवीरव्रतवीरवीर-संसेव्यमानक्रमपद्मयुग्मं । श्रीमूलाजं समरे निहत्य यो गुर्ज्जरं जर्जरतामनैषीत् ॥ ९ ॥ कृतारिषड्वर्गजयो नयज्ञः श्रीगुंददेवोय बभौ नृदेवः । कवींद्रबद्धापि यदीयकीर्त्ति र्जगत्समस्तं भ्रमतस्म चित्रं ॥ १० ॥ चकार निर्विघ्नविधित्सितस्य यदोजसो द्रव्यलवेन वेधाः । गौरीपतेर्यं तिलकं खमूर्त्ते श्चकास्ति सोद्यापि सहस्ररश्मिः ॥ ११ ॥ महीमृगांकोहमिति प्रजानां न्यधत्त यो नैव करान् कठोरान् । युक्तं स ईदृग् चकोरहर्ष-दायी परं चित्रमिदं न कस्य ॥ १२ ॥ कल्पांतकालज्वलनोपमाने यस्य प्रतापे ज्वलितेभितोपि । यन्प्रीतिवल्ली क्वच नापि नागा म्लानिं तदेतद्गुरुविस्मयाय ॥ १३ ॥ त्रस्तः समंतादपि यत्प्रतापात् द्विषोभिगच्छन् शरणं जलस्य । अकृत्यमप्याद्रियतौर्ववन्हि रहो दुरंता बत जीविताशा ॥ १४ ॥ प्रत्यर्थिनां वेश्मसु यत्प्रताप-ज्वालावलीढेषु सुमंततो यत् । उज्जंगमामास तृणोच्चयस्त दुक्तं जनेप्यस्य तथैव सिद्धेः ॥ १५ ॥ भूवल्लभो वल्लभराजनामा ततोभवद्भास्वदनर्घधामा । लीलावतीलोचनलोभनीय-लावण्यलीलाद्रुतरूपसंपत् ॥ १६ ॥ हित्वा वपुर्मानुषमाजिभूमौ धृतत्वरा देवभुवं व्रजंतः । प्रत्यर्थिभूपाः स्मृतयत्प्रतापा श्चकंपिरे वीक्ष्य सहस्ररश्मिं ॥ १७ ॥ स्वर्गश्रिया वैभवाजिन्त्वरीणां श्रियामपारत्वमवेक्ष्य यस्य । तत्स्पर्धयेवाऽशु यशांस्यपारी-भूय व्यजृंभंत जगत्यशंकं ॥ १८ ॥ विश्वंभराभारधुरीणबाहू रामस्ततो ऽजायत बाहुजेशः । विमर्दितोद्यत्खरदूषणेन येन त्रिलोकी वशमाशु निन्ये ॥ १९ ॥
१२ श्रीहम्मीरमहाकाव्ये [सर्गः जयश्रियं स्वामिशयांबुजेन संयोजयन् शत्रुतमस्यपास्यन् । ज्वलत्प्रतापावलिदीप्तकांती रणे कृपाणो रवयददीयः ॥ २० ॥ छिदन् शिरांसि प्रतिपक्षभूमी-भृतामसिर्यस्य विशुद्धधारः । पस्पर्श रक्तं न यतो विशुद्धाः परस्य केनापि न संसृजंति ॥ ततो महीक्षित्तमतां दधार चामुंडराजस्तरसा प्रचंडः । यत्पाणिपद्मे करवालवली जयश्रियो वेणिरिव व्यराजत् ॥ २२ ॥ यस्य प्रतापः प्रसृतः पृथिव्यां बिभेद शंके दृषदोपि नूनं । अद्यापि नोचेत्स्फटिकोपलेभ्यो हिरण्यरेताः प्रकटः कुतोस्तु ॥ २३ ॥ कृतांतक्रांताकुचकुंभपत्र-लतापिधाने विधृतावधानं । यः संगरे हेजमदीनसंज्ञं शकाधिराजं तरसा व्यधत्त ॥ २४ ॥ नृपोथ दध्रे वसुधां सुधांशु-भाजिद्यशा दुर्लभराजसंज्ञः । भ्रुवैव संगान्समरांगणे यः प्रापीपठद्वैरिगणान्न्रिकामं ॥ २५ ॥ जितं स्वमालोक्य यदीयकीर्त्या शंके त्रिनेत्रो ग्रहिलत्वमाप । महेश्वरस्यापि कुतोन्यथास्य कौपीनवासो वसनेनुरागः ॥ २६ ॥ यत्खड्गधाराभिररित्रिजानां प्रतापवह्निः शमितः समंतात् । तदंगनाबाष्पभरैरथास्य चित्रं न कुत्रापि निरस्यते स्म ॥ २७ ॥ सहावदीनं समरे विजित्य जग्राह यो बाहुबलेन मानी । असंख्यसंख्यार्जितशारदीन-शशिप्रभाभेतृ तदीयकीर्ति ॥ २८ ॥ ततो भवद्दुःशलदेवनामा भूमानगर्विवातविजितृधामा । यन्मानसं प्राप्य न धर्महंसः काँस्कांन् विलासान् कलयांचकार २९ ॥ पलायमाना दरतो द्विषंतो बुंवारवान् यान् समरेष्वकार्षुः । जयश्रियः पाणिमहाय यस्य त एव वेदध्वनयो बभूवुः ॥ ३० ॥ नाकेशनारीजनगीयमान-गीतामृतास्वादवितीर्णकर्णं । श्रीकर्णदेवं समरे विधाय तद्राज्यलक्ष्मीं परिणीतवान् यः ॥ ३१ ॥ हस्ते लगित्वास्य जगत्समक्षं कंठे लुठंत्याः प्रतिभूपतीनां । यत्खड्गवल्लेरसतीव्रतायाः किमौचितीं नांचति कालिका स्म ॥ ३२ ॥
२ ] पूर्वजवर्णनम् १३ महीं महीं भूपयतिस्म तस्मात् श्रीविश्वलो विश्वविलासिकीर्तिः । समूलमुन्मूल्य कुलं रिपूणा मेकाधिपत्यं भुवि यश्चकार ॥ ३३ ॥ प्रसृत्वराजनीतिलतावितान-कुठारकल्पेपि यदीयराज्ये । ललास लोके यदनीतितैव तत्कस्य नो विस्मयमाततान ॥ ३४ ॥ यस्यारिनारीगिरिगह्वरेषु सुदृन्मृगाक्षीरतिमंदिरेषु । स्थिता सुखं भूषणभूषितांगी विवेद नैवोदितमस्तमर्कं ॥ ३५ ॥ हताऽहितानां सकलेवराणां स्पर्शोलसत्स्रुप्तिभराप्तदोषे । तल्लोलदृग्लोचनवारिपूरैः क्षोणीतलैऽवूक्षणमक्षिपेद्यः ॥ ३६ ॥ अहीनधामानमदीनसेनं सहावदीनं समरे निहत्य । अमूमुचन्म्लेच्छकुलैर्द्विधापि यो मालवस्यापि विभुर्विभुत्वं ॥ ३७ ॥ ततो भुवं भूपयतिस्म पृथ्वी-राजः स्वकीयैर्विशदैर्यशोभिः । प्रकंपमाने युधि यत्कृपाणे चित्रं निपेतुर्द्विपतां वतंसाः ॥ ३८ ॥ मूर्च्छुह्यमाना सततं जनानां मनोरथानाशु समर्थयंती । आज्ञा यदीया हरपादपद्म-सेवेव कल्याणकरी बभूव ॥ ३९ ॥ गंधर्ववृंदैर्दिवि गीयमानां सौभाग्यभंगीं विनिशम्य यस्य ॥ सा का सुरी स्वस्य न या ववांछ तत्संगमावाप्तिकरं नरत्वं ॥ ४० ॥ ततो बभोव्हाल्हणदेवसंज्ञो भूभृद्भटं मन्यशिरोवतंसः ॥ वने द्विपंतः स्मृतयद्गजेंद्रा श्चकंपिरे वीक्ष्य महीभृतोपि ॥ ४१ ॥ देहीति जल्पन्नपि याचकेन दानप्रियो यो न जजल्प नेति ॥ दातन्नकिं दानपदेस्ति नोर्पि बलीयसी केवलमीश्वरेच्छा ॥ ४२ ॥ छिन्नद्विषच्छोणितशोणशोची रणेषु यस्यासिलता चकासे । या स्पार्द्धिनीं वाचमुवाच तेन कृष्टेव जिह्वा युधि सैव तेषां ॥ ४३ ॥ यद्रूपगानं भुवि गीयमानं निपीय कर्णांजलिभिर्निकामं । स्वप्नप्रसंगात्तदीयसंगा बभूव का नो धृतकामरंगा ॥ ४४ ॥ भानल्लदेवो भटमौलिमौलिरथोपयेमे नृपतित्वलक्ष्मीं । यः संगरे दारितवैरिवार-पाणिंधमं स्वर्गपथं चकार ॥ ४५ ॥
१४ श्रीहम्मीरमहाकाव्ये [सर्गः जेगीयमानं निजकामिनीभि राकर्ण्य यं शेष इति प्रदध्यौ । कोप्यस्ति धत्ते वसुधां क्षणं यां गत्वा यथैनं प्रविलोकयामि ॥ ४६ ॥ स्वकालिमानं वितरन्नरीणां तेषां च जीवं च यशांसि गृह्णन् । रणे यदीयः करवालदंडो वणिक्फलाकौशलकेलिरासीत् ॥ ४७ ॥ गिरीशकैलाससुधासुभांशु--श्रियं समाकृष्य यशः किमस्य । वेधा व्यधत्तास्य पुरो यदेते निःश्रीकतामाकल्यांबभूवुः ॥ ४८ ॥ प्रोदंच्यपाणिं कनकाद्रिदंभा दिदं जगादेव वसुंधरैषा । दाता विवेकी विनयी नयी वा विहाय नैनं सुगुणं मयान्यः ॥ ४९ ॥ त्रस्तेन पत्याऽर्धपथे विमुक्ता स्थितापि यद्वैरिवधः स्वदेशे । शीतद्युतेस्तीव्रतया नवं स्वं दीपांतरं प्राप्तममंस्त किंचित् ॥ ५० ॥ पर्यंतशैलप्रतिबिंबदंभात् क्रीडारसक्रोडितदिग्द्विपं यः । अचीखनत् पुष्करपुण्यपारं कासारसारं शुचि वारितारं ॥ ५१ ॥ विस्मापकश्रीर्भवति स्म तस्मा द्भूत् जगद्धेव इति प्रतीतः । दानं समानं समवाप्य यस्य वनीपकाः [के धनिनो नचोर्व्यां] ॥ ५२ ॥ सशोकधूमाश्रुजलैर्मिलित्वा निःश्वासवातैररिपुकामिनीनां । सद्यो घनीभूय न दुर्दिनानि तेने यदोजो ज्वलनः किमासां ॥ ५३ ॥ त्यागेतिविश्वस्य विधेर्विधित्सो र्यस्यांगुलीः पाणितलं नखींश्च । स्वर्गोस्तनाः स्वर्तुमलवाः स्व-मणिः किलाभ्यासकृतेयसृष्टिः ॥ ५४ ॥ गुणान् यदीयान् गणयन् विधाता परिश्रमं तं कलयांचकार । त्रिलोक्य सृष्टावपि नानुभूतो र्यल्लेशमात्रं विषयीबभूव ॥ ५५ ॥ ततो भवद्विश्वलदेवनामा विश्वापतिर्विश्वविकासिधामा । यत्पाणिपाथोरुहि कर्णिकायाः पुपोष भावं ननु भूतधात्री ॥ ५६ ॥ विदारिताऽरातिकरींद्रकुंभा द्यान्यत्र पेतुर्युधि मौक्तिकानि । तान्येव पुष्पाणि विकस्वराणि यदीयकीर्तिव्रततेर्बभूवुः ॥ ५७ ॥ यदीयकीर्त्या विजितो हिमाद्रि रद्यापि नाश्रूणि विमुंचते किं । भृशं तपत् तापनतापनेन द्रवीभवद्धैमशिलाछलेन ॥ ५८ ॥
२ ] पूर्वजवर्णनम् १५ गुणान् कणेह्रत्य निपीय यस्य भृशं प्रहृष्टोऽपि सुपर्ववर्गः । कष्टं [सचित्त्राहत एव तस्थौ न देवभूपं] श्रितवान् यदेषः ॥ ५९ ॥ तस्मादशोभिष्ट महिष्टधामा महीमहेंद्रो जयपालनामा । स्रवद्दिस्रैरिपुकामिनीनां यशस्तरूर् पल्लवितो यदीयः ॥ ६० ॥ वृंदानि संख्ये बलिनामरीणां वीक्ष्यावरोधे च तनूदरीणां । •यो विश्वविख्यातयशः प्रकाशो भृशं न कंदर्पमुरीचकार ॥ ६१ ॥ दुग्धोदधिस्फीततरत्तरंग—श्रेणिश्रियां वैभवजेतृभारः । जगूग्र्गणेन्दुरवाभिरामं गुणान् यदीयानुरगेंद्रकन्याः ॥ ६२ ॥ गांगेयवद्वेयगुणस्ततोऽभात् श्रीगंगदेवो वसुधासुधांशुः । निश्वासवातै रिपुकामिनीनां प्रतापरसार्धिरदीपि यस्य ॥ ६३ ॥ दोषाकरो यद्यशसो महत्त्वं विलोक्य मात्सर्यभरं दधानः ॥ यदर्जयामास तमःकलंक—च्छलात्तदद्यापि न मुंचते ऽसौ ॥ ६४ ॥ परः शतेभ्योऽपि रिपुव्रजेभ्यो यच्छन्न तुच्छां सुरलोकलक्ष्मीं । उद्दामसंग्राममवाप्य मात्रा हीनः कृपाणोऽजनि यस्य नैव ॥ ६५ ॥ गतेषु कर्णादिषु दानशौंडे—त्रयं जनो मा जनि दौस्थ्यपात्रं । ध्यातेति यं दायकचक्रशक्रं मन्ये दयालुर्वदधे विधाता ॥ ६६ ॥ त्रैलोक्यलोकावलिकर्णकर्ण—पूरीकृतानंतगुणैकधाम । इलाविलासी जयंतिस्म तस्मात् सोमेद्ववरोऽन्नभरनीतिरीतिः ॥ ६७ ॥ रणेषु येन स्वकरांबुजेन प्रोल्लास्यमानासिलता चकासे । अंतः स्फुरत्क्रोधकृशानुजात—धूम्येव साक्षाद्वहिरुल्लसंती ॥ ६८ ॥ उक्तेन गोत्रस्खलनाद्यदीय—नाम्ना विलक्षं रमणं विधाय । चिराय संभोगरसप्रसंगि चेतो निजं प्रीणयतिस्म का न ॥ ६९ ॥ वह्नेंद्विपन्नंश्विति यत्प्रतापा द्विमभ्यवर्षन्नरियोषितो ऽस्रैः । हविर्विदेभिर्ववृधे सकामं वामे विधौ वाममशेषमेव ॥ ७० ॥ अनेन राज्ञा सममेकभावं कथं समायातु भुजंगराजः ॥ अधात्सहस्रेण रा गां शिरोभि रयं पुनस्तां भुजयैकयैव ॥ ७१ ॥
१६ श्रीहम्मीरमहाकाव्ये [ सर्गः कर्पूरदेवीति बभूव तस्य प्रिया [प्रिया] राधनसावधाना । जितं यदास्येन जले निलीया द्याप्यप्सुजं किन्न तपस्तनोति ॥ ७२ ॥ इहस्थितो ऽसौ रमणः कदाचित् विलोक्य लुब्धो भविता बतैताः । इतीव या नो हृदये प्रवेष्टु मेणीदृशामप्यदितावकाशं ॥ ७३ ॥ पत्या भुवो वैषयिकं विनोदं सा निर्विशंकं किल निर्विशंती । अमानधामानमसूत सूनुं हरेरिवाशा तुहिनांशुबिंबं ॥ ७४ ॥ अतुच्छवात्सल्यभरं दधानो वितत्य तज्जन्ममहं महांतं ॥ जगज्जनाल्हादकरस्य पृथ्वी—राजेतिनामाऽधित तस्य भूपः ॥ ७५ ॥ तनुत्विषान्निर्द्दलितांधकार—जालः स बालोऽन्वहमेधमानः । भृशं प्रजानां नयनांबुजानां भद्रं करो भानुरिवाजनिष्ट ॥ ७६ ॥ शस्त्रेषु शास्त्रेषु च लब्धपारं विलोक्य भूमानथ तं कुमारं । साम्राज्यभारं प्रवितीर्य तस्मै योगेन मार्त्तं वपुरुत्ससर्ज ॥ ७७ ॥ पित्रा प्रदत्तं समवाप्य काले राज्यं स भूभृन्नितरां चकासे । अहर्मुखे हर्पति नोदयाद्रि र्यथा तमोव्रातविनाशि रोचिः ॥ ७८ ॥ गुणाभिघातं प्रसभं प्रकुर्व न्नप्येष चक्रे न गुणाभिघातं । अपि प्रतन्वन् परलोकबाधां न च प्रतेने परलोकबाधां ॥ ७९ ॥ निषेवमाणोप्यसितांसवृत्तिं नैवासितां वृत्तिमुपादितैषः । तेनेति तेने परलोकपीडा न तेन तेने परलोकपीडा ॥ ८० ॥ द्विट्कुंभिकुंभतटदत्तदृढप्रहार- प्रत्यंगलग्ननवमौक्तिककैतवेन । क्षमामंडलं फलितुमुन्मिषितप्रसून राजीव यस्य युधि खड्गलता विरेजे ॥ ८१ ॥ कीर्तिर्यस्य सतीव्रतेति मृदुरप्याधत्त न प्रत्ययं चित्ते कस्य न योज्झतिस्म तमहो कल्पांतमप्यास्थितं । अन्येषां तु सतीव्रतापि न सती वेश्येव तान् जीविता वध्येवोज्झति चेन्नयास्म कतिचित्तान् जीवतोप्युज्झति ॥ ८२ ॥
२ ] पूर्वजवर्णनम् १७ वाग्देवीं चिकुरे शशांक मुदरे शंभुं गले तद्वृषं प्रोद्यामे बलमंबरे मदकलं स्वःकुंभिनं कुंभयोः । जग्राहास्य यशोभ्रमेण भुवने भ्राम्याद्विषां दुर्यशो धिग्वैरस्य दुरंततां स्फुरति या तत्संततावप्यहो ॥ ८३ ॥ भेजे यस्य शयालुतां शयपयोजन्मन्यसा विंदिरा । तद्रागेण समेदसिच्छलमलंकृत्य स्वयं श्रीपतिः । नैवं चेत् बलिवैरिविक्रमभरध्वंसेऽस्यकौतस्कुती शक्तिः संयति संबभूव नितमामुल्लासिनीलद्युतेः ॥ ८४ ॥ दिक्शैलद्विपकूर्मभोगिविभवः प्रोद्धृत्य सर्वसहां तद्भूयो भरभंगुराः परिमुमुक्षंतोपि कंपच्छलात् । दृष्ट्वा यं प्रतिपन्नसूरमनिशं भूपालचूडामणि लज्जाकीलककीलिता इव न तां शंके त्यजंति स्म ते ॥ ८५ ॥ औन्नत्येन यशोभरेण च पराभूतिं परां लंभितो- ऽस्योचैर्लभयितुं पराभवपदं वांछन् स्वयं तौ पुनः । ईशाराधनमाततान हिमवान् कन्याप्रदानादिभि र्व्यर्थं किं यशसैककेन न तयोस्तं वेदमूढोज्झित ॥ ८६ ॥ चिंतारत्नावनद्धेऽनवरतममृता सिक्तकल्पद्रुसांद्र- च्छायाच्छन्ने निषण्णाः श्रमविगमकृते चत्वरे चत्वरेपि । तीरे सिद्धापगायाः सुरसुरभिगणांश्चारयंत्योस्पदानं जेगीयंतेस्म देव्यः करकमलमिलद्वेणुवीणाविलासाः ॥ ८७ ॥ शश्वद्येन निरीतितां गमयता क्षोणीतलं क्ष्माभृता दिष्ट्याप्यतिवृष्टयो जलनिधेः पारं प्रयातुं परं । यत्प्रक्षिप्य ददृशिरेऽक्षिषु निजेषूच्चैरिपुस्त्रीजनै- स्तत्तेनैव हतप्रियेण पुपुषे साकं न किं वैरिना ॥ ८८ ॥ यत्खड्गक्षुण्णभूमीपतिविततिशिरःसंचरद्रक्तधारा- वारां राशिः प्रसर्पन् क्षितितलमखिलं रक्तमेवाकरिष्यत् । 3 k
१८ श्रीहम्मीरमहाकाव्ये [: एषा प्रोद्गच्छदच्छामृतकरकिरणक्षुब्धदुग्धाब्धिमुग्धा यत्कीर्तिर्विस्फुंती यदि सपदि न तत् श्वेततामापयिष्यत् ॥ ८९ ॥ वीरे यत्र रणे तथा वितरणे सन्मार्गणानां गणां- स्तन्वाने प्रथमानमानविभवे संलब्धलक्षान् क्षणात् । पूर्वोपार्जितकीर्तिकर्त्तनभिया संभ्रांतचित्ताश्चिरं कश्चिन्न श्रयतिस्म दानपरतां नो वा भटंमन्यतां ॥ ९० ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर- महाकाव्ये वीरांक्रे श्रीभीमदेवप्रभृतिपूर्वजवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ छ ॥ अथ तृतीयः सर्गः अथ प्रथीयस्तरसा रसायास्तलं शयालुं स्वंशये शकेन । सहाबदीनेन वितन्वतालमुपद्रुताः पश्चिमभूमिपालाः ॥ १ ॥ आह्लादनेनाखिलभूतधात्र्या यथार्थतां नाम निजं नयंतं । गोपालचंद्रांगवितीर्णरंगं श्रीचंद्रराजं पुरतो निधाय ॥ २ ॥ उपायनानीतमहेभकुंभ—गलन्मदाद्रीकृतभूमिभागं । भेजुर्भुजोर्जाविजितारि पृथ्वी—राजा लयद्वारमुदारवेगाः ॥ ३ ॥ त्रिभिर्विशेषकं प्रवेशिता नाथगिराथ वेत्र—करेण कांताभरणा नरेण । पृथ्वीपतेः पादसरोजयुग्मं नत्वा यथा स्थानमुपाविशंस्ते ॥ ४ ॥ दीनाननाँस्तान् प्रविलोक्य पृथ्वी—राजस्ततः पार्श्वचरानुवाच । पद्मा हिमासीव निदाघसंङ्गे श्रियं किमंते दधते न भूपाः ॥ ५ ॥ तं चंद्रराजोथ जगाद चंद्र—श्रीगर्वकूलंकषदंतदीप्त्या । हृद्युल्लसद्भाङ्ग्यदुग्धसिंधौ विस्तारयंस्तारतरानिवोर्मीन् ॥ ६ ॥ तपःप्रभावाजितवर्यवीर्यः सहाबदीनः शकमेदिनीनः । उपप्लवायाजनि धूमकेतु रिवावनौ बाहुजमंडलानां ॥ ७ ॥