हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
बान्धव को उड़ेल दिया और वत्स का विवाह करा उसी प्रदेश में प्रीतिकूट नाम का निवास बनवाया। और खुद वह पलाश का डंडा, कृष्ण मृगचर्म, अक्षवलय, वल्कल, मेखला और जटा धारण करके तपस्या में लगे हुए पिता दधीच के पास चला गया।
अथ वत्सात्प्रवर्धमानादिपुरुषजनितात्मचरणोन्नतिनिर्गतप्रघोषः, पर- मेश्वरशिरोधृतः, सकलकलागमगम्भीरः, महामुनिमान्यः, विपक्षक्षोभ- क्षमः, क्षितितललब्धायतिः, अस्खलितप्रवृत्तो भागीरथीप्रवाह इव पावनः प्रावर्तत विमलो वंशः । यस्मादजायन्त वात्स्यायना नाम गृहमुनयः, आश्रितश्रौता अप्यनालम्बितालीकबककाकवः, कृतकुक्कुटव्रता अप्यबेडा- लवृत्तयः, विवर्जितजनपङ्कयः, परिहृतकपटकोरुकुचीकूर्चाकूताः, अगृहीत- गह्बराः, न्यक्कृतनिकृतयः, प्रसन्नप्रकृतयः, विहतविकृतयः, परपरीवाद- पराचीनचेतोवृत्तयः, वर्णत्रयव्यावृत्तिविशुद्धान्धसः, धीरधिषणाः, विधूता- ध्येष्णाः, असङ्कुसुकस्वभावाः, प्रणतप्रणयिनः, शमितसमस्तशाखान्तर- संशीतयः, उद्घाटितसमग्रग्रन्थार्थग्रन्थयः, कवयः, वाग्मिनः, विमत्सराः, परसुभाषितव्यसनिनः, विदग्धपरिहासवेदिनः, परिचयपेशलाः, नृत्यगी- तवादितेष्वबाह्याः, ऐतिहास्यावितृष्णाः, सानुक्रोशाः, सर्वातिथयः, सर्व- साधुसंमताः, सर्वसत्त्वसाधारणसौहार्दद्रवार्द्रीकृतहृदयाः, तथा सर्वगुणो- पेता राजसेनानभिभूताः, क्षमाभाज आश्रितनन्दनाः, अनिस्त्रिंशा विद्या- धराः, अजडाः कलावन्तः, अदोषास्तारकाः, अपरोपतापिानो भास्वन्तः, अनुष्माणो हुतभुजः, अकुसृतयो भोगिनः, अस्तम्भाः पुण्यालयाः, अलु- प्तक्रतुक्रिया दक्षाः, अव्यालाः कामजितः, असाधारणा द्विजातयः ।
अथेत्यादौ । वत्सात्प्रावर्तत विमलो वंश इति संबन्धः । प्रवर्धमानाः संताना- दिना वृद्धिं गच्छन्तो य आदिपुरुषाः पूर्वबान्धवाः शुक्राद्यास्तैः कृताः स्वेषां चरणानां कठादिशाखाध्यायिनामुन्नतिरुत्कर्षो यस्य सः । अन्यत्र-प्रवर्धमानस्तु वामनरूपो य आदिपुरुषो हरिस्तेन जनिता स्वपदोन्नतिर्माहात्म्यं यस्य स इति । किल त्रैलो- क्याक्रान्तिक्राले ब्रह्मलोकप्राप्ताद्विष्णुपदाद्ब्रह्मणा कमण्डलुजलक्षालिता गङ्गा सम- भवदिति वार्ता। प्रघोषो यशः, शब्दश्च । परमेश्वरो राजा, हरश्च । सकलानां कलानां वृत्ताद्यानामागमस्तेन सहकलकलेन च सकलकलं यदागमनं तेन च । महामुनिर्ज- ह्नुरपि । विपक्षाः शत्रवः, शैलाश्च । वीनां पक्षिणां वा पक्षच्छेदेषु सहिष्णुः । आयतिः प्रतापः, विस्तारश्च । स्खलितं स्वाचारच्युतिः । प्रवृत्तः प्रकृष्टवृत्तः । अस्खलितं असंग्रहं कृत्वा गतम्र । श्रौतं वेदभवम्, चिरवृत्तं च । 'भिन्नो भयाद्द्वा शोकाद्वा
६४ हर्षचरितम् ध्वनिः काकुरुदाहृता' । अत्र च क्षुद्र लक्ष्यते । बकस्य काकुः । बकच्छद्मा यैश्च चिरवृत्तमाश्रितं ते क्षुद्रचारित्वादाम्रितबककाकवो भवन्त्येव । अमी तु न तथेति विरोधः । कुक्कुटव्रतं नियमविशेषः । यत्र कुक्कुटाण्डप्रमाणग्रासभोजनम् । न बैडालो हिंसावृत्तिर्येषां तैः, विरोधे तु कुक्कुटानां व्रतं भक्षणं येन कृतं स कथं बिडालवृत्तिर्न स्यात् ? पङ्क्तिर्लोकप्रसिद्धो व्यवहारः, पाको वा । कपटो व्याजवृत्तिः । कूर्चाः स्फुटाः । आत्ममहिम्ना व्यवहारः, समूह इत्यन्ये । एतेष्वाकूतं परिहृतं यैः । गहरं पापम् । निकृतिः शाठ्यम् । प्रकृतिः स्वभावः । पराचीनं पराङ्मुखम् । अन्धोऽञ्झम् । धीरा स्थिरा । धिषणा बुद्धिः । अध्येषणा याच्ञा । असङ्गसुकः स्थिरः, मृदुर्वा । शाखाः कठाद्याः । संशीतिः संशयः । ग्रन्थिर्दुर्बोधः प्रदेशः । परिहासं विदन्ति, न तु स्वयं कुर्वन्ति । परिचयः संस्तवः । सुकुमाराः, अङ्गन्द्भूटा इत्यर्थः । अबााद्याः, न तु तदेकनिष्ठाः । ऐतिह्यमागमः । अनुक्रोशो दया । संमता इष्टाः । सौहार्दं प्रीतिः । सर्वे गुणा धैर्याद्याः । राज्ञां सेनया चानभिभूता ये च सर्वैर्गुणैः सत्त्वरजस्तमोभिर्यु- क्तास्ते कथं राजसेन गुणेनानभिभूता भवन्तीति विरोधः । एवमुत्तरत्र विरोध उद्भा- वनीयः । क्षमा क्षान्तिः, भूश्च । आश्रितानां नन्दना नन्दयितारः, देवोद्यानं नन्दनं च । न निस्त्रिंशा अक्रूराः । विद्यां धारयन्तीति विद्याधराः पण्डिताः, निस्त्रिंशाश्च खड्गा एव । ये च विद्याधरा देवभूतास्ते सखङ्गा एव । न त्वनिस्त्रिंशा इति माला- खड्गगुलिकाञ्जनादिना भेदेन भिन्नानामपि विद्याधराणां खड्गहस्तत्वं न व्यभिच- रति । अजडा अमन्दधियः, अशीताश्च । कलावन्तो गीताभिज्ञाः, कलावांश्चन्द्रः स चाजडोऽशीत इति विरोधः । दोषा द्वेषाद्याः, रात्रिश्च । तारयन्तीति तारका आचार्याः, नक्षत्राणि च । उपतापः पीडा, उष्णत्वं च । भास्वन्तस्तेजस्विनः, आदि- त्याश्च । ते परांस्तापयन्ति । ऊष्मा स्मयः, दाहिकाशक्तिश्च । हुताशशब्देन हुतमिष्ट- मुच्यते । हुतं भुञ्जते हुतभुजः, आहिताग्नयो वह्नयश्च । कुसृतिः शाठ्यम्, कौ भूमौ सृतिः सरणम् । भोगिनः सुखिनः, सर्पाश्च । स्तम्भः स्तब्धता, सात्त्विको भावभे- दश्च, अप्रणतिर्वा, गृहधारणकाष्ठं च । पुण्यालयाः सुकृतिनः, मठादिस्थानानि च । दक्षाश्वतुराः, प्रजापतिभेदश्च दक्षः । स च लुप्तक्रतुक्रियो हररोषजेन वीरभद्रेण । व्यालाः शठाः, सर्पाश्च । कामजितः संतुष्टाः, हरश्च कामजित् । असाधारणाः सर्वो- त्कृष्टाः । द्विजातयो विप्राः । येषां च द्वे जाती तेषां कथं नासादृश्यम् । वत्स से विमल वंश का प्रादुर्भाव हुआ । वैदिक शाखाओं का अध्ययन करने वाले सर्वत्र फैले हुए अपने पूर्वपुरुषों से वह वंश उत्कृष्ट था । सम्राट् उसका सम्मान करते थे । महामुनियों का भी बह मान्य था । विरोधियों को क्षुब्ध करने में वह समर्थ था । सारी पृथिवी में वह फैल गया था । उसके कार्यों में कोई स्खलन नहीं था । इस प्रकार वह गंगा के प्रवाह के समान था । उस वंश में वात्स्यायन नामक गृह मुनि अर्थात् गृहस्थ होते हुए
प्रथम उच्छ्वासः ६५ भी मुनिवृत्ति रखने वाले असाधारण ब्राह्मण उत्पन्न हुए। श्रौत आचारों का उन्होंने आश्रय लिया था। झूठ और छल-छद्म को पास न आने देते थे। कुक्कुट के अंडे की मात्रा के अनुसार भोजन करते थे। उनमें बैडाली वृत्ति (अर्थात् हिंसा की भावना) न थी। उन्होंने समाज के व्यवहार या पंक्ति भोजन को छोड़ रखा था। कपट, कुटिलता और शेखी बघारने की आदत उनमें न थी। पापों से वे बचते थे। शठता को दूर करके अपने स्वभाव को प्रसन्न रखते थे। उनमें किसी तरह का विकार न था। दूसरे की निन्दा करने में उनकी चित्तवृत्ति पराङ्मुख रहती थी। ब्राह्मण, क्षत्रिय, वैश्य इन तीनों वर्णों से अलग स्वयंपाकी होकर विशुद्ध भोजन करते थे। उनमें धीरता थी, अतः किसी से याचना नहीं करते थे। स्वभाव के मृदु और प्रणयिजनों में अनुकूल थे। अपने दर्शन के अतिरिक्त अन्य दर्शनों में भी जो शंकाएँ उठाई जाती थीं उनका समाधान भी वे करते थे। समस्त ग्रन्थों में जो अर्थ की ग्रन्थियाँ थीं उनको उद्घाटित करते थे। वे कवि, वाग्मी, सरस भाषण में प्रीति रखने वाले, विदग्धों के अनुरूप हास-परिहास में चतुर, मिलने-जुलने में कुशल, नृत्य गीत-वादित्र को अपने जीवन में स्थान देने वाले, इतिहास में अतुल रुचि रखने वाले, दयावान्, सत्य से निखरे हुए, साधुओं को इष्ट, सब तत्त्वों के प्रति सौहार्द और करुणा से द्रवित, रजोगुण से अस्पृष्ट, क्षमावन्त, कलाओं में विज्ञ, दक्ष एवं अन्य सब गुणों से युक्त थे। तेषु चैवमुत्पद्यमानेषु, संसरति च संसारे, यात्सु युगेषु, अवतीर्णे कलौ, वहत्सु वत्सरेषु, व्रजत्सु वासरेषु, अतिक्रामति च काले प्रसवपर- म्पराभिरनवरतमापतति विकाशिनि वात्स्यायनकुले, क्रमेण कुबेरनामा वैनतेय इव गुरुपक्षपाती द्विजो जन्म लेभे। तस्याभवन्नच्युत ईशानो हरः पाशुपतश्चेति चत्वारो युगारम्भा इव ब्राह्मतेजोजन्यमानप्रजाविस्तारा नारायणबाहुदण्डा इव सञ्चक्रनन्दकास्तनयाः। तत्र पाशुपतस्यैक एवा- भवद्भूभार इवाचलकुलस्थितिः स्थिरश्चतुरुदधिगम्भीरोऽर्थपतिरिति नाम्ना समग्राग्रजन्मचक्रचूडामणिर्महात्मा सूनुः। सोऽजनयद्भृगुं हंसं शुचिं कविं महीदत्तं धर्मं जातवेदसं चित्रभानुं त्र्यक्षं महिदत्तं विश्वरूपं चेत्येका- दश रुद्रानिब सोमामृतरसशीकरच्छुरितमुखान्पवित्रान्पुत्रान्। अलभत च चित्रभानुस्तेषां मध्ये राजदेव्यभिधानायां ब्राह्मण्यां बाणमात्मजम्। स बाल एव बलवतो विधेर्वशादुपसंपन्नया व्ययुज्यत जनन्या। जातस्ने- हस्तु नितरां पितैवास्य मातृतामकरोत्। अवर्धत च तेनाधिकतरमाद्रीय- मानधृतिर्वाभिर् निजे। ५ ह० च०
६६ हर्षचरितम् काल इति पूर्वोक्ते। अन्यथैतत्पुनरुक्तं स्यात्। पक्षपातो अक्षिर्यस्यास्ति सः, पक्षैश्च यो याति सः। द्विजो विप्रः, विधुः, पक्षी च। युगारम्भा अपि चत्वारः। अङ्गा वेदादि, जटा च मङ्गा। सचक्रस्य साधुवृन्दस्य नन्दकास्तोषयितारः। चक्रं सुदर्शनं च। नन्दकः खङ्गश्च। बाहवोऽपि चत्वारः। अचलकुलस्थितिरभिन्नवर्षम- र्यादः। अचलानां गिरीणां कुलैर्वृन्दैः स्थितिर्यस्य। चतुरुदधिवत्सैश्च गम्भीरः। अग्र- जन्मानो द्विजाः। सोमस्तृणभेदः, इन्दुश्च। उपसंपन्ना मृता। निजे धाम्नि स्वे गृहे। इस प्रकार उस वंश में ब्राह्मण उत्पन्न होने गए, संसार-चक्र सरकता गया, युग बीते, कलिकाल आया, साल के साल गुजरे, दिन बीते, समय बहुत चला गया। वात्स्यायन कुल निरन्तर विकसित होता गया। इसी क्रम में गुरु में पक्षपात करने वाले कुबेर नामक ब्राह्मण गरुड़ के समान हुए। उनके चार पुत्र हुए—अच्युत, ईशान, हर और पाशुपत, जो चार युगारम्भ के समान थे, जिनके ब्राह्म तेज से सन्तति चारों ओर फैल रही थी, जो साधु वृन्द को सन्तुष्ट करते थे। उनमें पाशुपत के एक ही अर्थपति नामक पुत्र हुए जो कुल-मर्यादा को अचल रखने वाले, स्थिर, समुद्र की भाँति गम्भीर, समस्त ब्राह्मणों के चूड़ामणि एवं महात्मा थे। अर्थपति ने रुद्रों के समान ग्यारह पुत्र उत्पन्न किए—भृगु, हंस, शुचि, कवि, महीदत्त, धर्म, जातवेदस् , चित्रभानु, त्र्यक्ष, महिदत्त और विश्वरूप। जो सोमरस के शीकर से सिक्त मुख वाले और पवित्र थे। उनमें से चित्रभानु ने राजदेवी नामक ब्राह्मणी में बाण नामक पुत्र को पाया। दैवयोग से बाण बाल्यकाल में ही माता के मर जाने से मातृहीन हो गया। पिता ने ही स्नेहपूर्वक बड़े यत्न से उसे पाल-पोसकर बड़ा किया। वह अपने ही घर पर धीरतापूर्वक रहता हुआ बढ़ा। कृतोपनयनादिक्रियाकलापस्य समावृत्तस्य चास्य चतुर्दशवर्षदेशी- यस्य पितापि श्रुतिस्मृतिविहितं कृत्वा द्विजजनोचितं निखिलं पुण्यजातं कालेनादशमीस्थ एवास्तमगमत्। संस्थिते च पितरि महता शोकेनामी- लमनुप्राप्तो दिवानिशं दह्यमानहृदयः कथंकथमपि कतिपयान्दिवसाना- त्मगृह एवानैषीत्। गते च विरलतां शोके शनैः शनैरविनयनिदानतया स्वातन्त्र्यस्य, कुतूहलबहुलतया च बालभावस्य, धैर्यप्रतिपक्षतया च यौवनारम्भस्य, शैशवोचितान्यनेकानि चापलान्याचरन्नितरो बभूव। अभवंश्चास्य सवयसः समानाः सुहृदः सहायाश्च। तथा च। भ्रातरौ पारशवौ चन्द्रसेनमातृषेणौ, भाषाकविरीशानः परं मित्रम्, प्रणयिनौ रुद्रनारायणौ, विद्वांसौ वारबाणवासबाणौ, वर्णकविर्वेणीभारतः प्राकृतकृ- त्कुलपुत्रो वायुविकारः, बन्दिनावनङ्गबाणसूचीबाणौ, कात्यायनिका चक्र-
वाकिका, जाङ्गुलिको मयूरकः, ताम्बूलदायकश्चण्डकः, भिषक्पुत्रो मन्दा- रकः, पुस्तकवाचकः सुदृष्टिः, कलादश्चामीकरः, हैरिकः सिन्धुषेणः, लेखको गोविन्दकः, चित्रकृद्वीरवर्मा, पुस्तककृत्कुमारदत्तः, मार्दङ्गिको जीमूतः, गायनौ सोमिलग्रहादित्यौ, सैरन्ध्री कुरङ्गिका, वांशिकौ मधुकर- पारावतौ, गान्धर्वोपाध्यायो दर्दुरकः, संवाहिका केरलिका, लासकयुवा ताण्डविकः, आक्षिक आखण्डलः, कितवो भीमकः, शैलालियुवा शिख- ण्डकः, नर्तकी हरिणिका, पाराशरी सुमतिः, क्षपणको वीरदेवः, कथको जयसेनः, शैवो वक्रघोणः, मन्त्रसाधकः करालः, असुरविवरव्यसनी लोहिताक्षः, धातुवादविद्विहंगमः, दार्दुरिको दामोदरः, ऐन्द्रजालिकश्चको- राक्षः, मस्करी ताम्रचूडकः । स एभिरन्यैश्चानुगम्यमानो बालतया निम्न- तामुपेगतो देशान्तरावलोकनकौतुकाक्षिप्तहृदयः सत्स्वपि पितृपितामहो- पात्तेषु ब्राह्मणजनोचितेषु विभवेषु सति चाविच्छिन्ने विद्याप्रसङ्गे गृहान्नि- रगात् । अगाच्च निरवग्रहो ग्रहवानिव नवयौवनेन स्वैरेणा मनसा महता- मुपहास्यताम् ।
उपनयनं मेखलादानम् । समावृत्तो निष्पादितवृत्तः । स्नातक इत्यर्थः । वेदवे- दाङ्गपाठक इत्यन्ये । ईषदसमाप्तश्चतुर्दशवर्षश्चतुर्दशवर्षदेशीयः । 'श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः' । दशामुपेतॊ दशमीस्थ उदाहृतः, न दशमीस्थः । अपूर्णायुरित्यर्थः । संस्थितो मृतः । आभीलं कष्टम् । इत्वरो गमनशीलः । 'अभ्रंवंश्च' इत्यादिनात्मनस्तथाभूतकलावित्संपर्कमैश्वर्यातिशयं दर्शयति । पारशवो द्विजः शूद्रायां जातः । 'परञ्च परश्चम' इति विडाद्यम् परश्चादेशश्च । भाषागेयवस्तु- वाचस्तेषु वर्णकविः । गाथादिषु गीतिद् इत्यर्थः । अपभ्रष्टगीतविदः । 'पञ्चाश- द्वर्षदेशीयां वीरां संस्थितभर्तृकाम् । वदन्ति कात्यायनिकां धृतकाषायवाससम्' ॥ जाङ्गुलिको गारुडिकः । भिषग्वैद्यः । 'स्वर्णकारः कलादः स्यात्तद्दण्ड्यवस्तु हैरिकः' । पुस्तककृल्लेप्यकारः । 'प्रसाधनोपचारज्ञा सैरन्ध्री स्ववशा स्मृता' । संवाहिका या पादादिमर्दनं विधत्ते । लासको नर्तयति यः । युवेत्यादिना वयसः समानत्वमुच्यते । अक्षैर्दीव्यतीत्याक्षिको द्यूतकारः । कितवो धूर्तः । शैलाली स्वयं यो नृत्यति नटः । पाराशरी भिक्षुः । असुरविवरव्यसनी पातालाभिलाषी । धातुवादविद्रसवादज्ञः । मस्करी परिव्राट् । निम्नतामस्वातन्त्र्यम् । कौतुकेति । न पुनरर्थाभिलिप्सया । एत- देव सत्स्वपीत्यादिना प्रकाशयति । निरवग्रहः स्वतन्त्रः । ग्रहवाम्भूतगृहीतः । स्वैरेणा स्वतन्त्रेण ।
६८ हर्षचरितम्
बाण के उपनयन आदि संस्कार ब्राह्मण जाति की प्रथा के उचित और श्रुति.स्मृति के विधानों के अनुसार हुए और उसका समावर्त्तन-संस्कार भी हो चुका। बाण की आयु चौदह वर्ष की भी पूरी नहीं होने पाई थी कि उसके पिता भी बिना वृद्धावस्था को प्राप्त हुए गत हो गए। पिता के मरने से उसे महान् शोक के कारण कष्ट हुआ और दिन-रात हृदय में खोलते हुए उसने अपने घर पर कुछ दिन बिताए। धीरे धीरे जब उसका शोक कम हुआ तब उसे वह स्वतंत्रता मिल गई जिससे अविनय या अनुशासनहीनता बढ़ती गई। लड़कपन में स्वभाव से ही बहुत से कुतूहल उत्पन्न हो जाते हैं। यौवन का आरम्भ धैर्य को नहीं रहने देता। फलतः बाण शैशव-काल के उचित अनेक चपलताओं में पड़ कर आवारा (इत्वर) हो गया। अब तो उसके बहुत से सुहृद् और सहायक मिल गए जो उसकी अवस्था के थे और उसी के समान आवारा थे। उसका मित्र-मण्डल चवालीस व्यक्तियों का बना जिनके नाम इस प्रकार हैं— चन्द्रसेन और मातृषेण, जो शूद्रा माता से उत्पन्न द्विजपुत्र थे, इनसे बाण का भाईचारे का सम्बन्ध था; भाषा कवि ईशान, जो बाण का परम मित्र था; रुद्र और नारायण, जो बाण के स्नेही थे; वर्ण कवि वेणी भारत; प्राकृत भाषा में रचना करने वाला कुलपुत्र वायुविकार; अनङ्ग बाण और सूची बाण, जो बन्दीजन थे; कात्यायनिका (बौद्धभिक्षुणी) चक्रवाकिका; जाङ्गुलिक (विषवैद्य या गारुड़ी) मयूरक; पान की खिल्ली लगा कर देने वाला चंडक, भिषकपुत्र मन्दारक, पुस्तकवाचक सुदृष्टि, स्वर्णकार चामीकर, सुनारों का अध्यक्ष या हीरा काटने वाला सिन्धुषेण, लेखक गोविन्दक, चित्रकार वीरवर्मा, मिट्टी के खिलौने बनाने वाला (पुस्तकृत्) कुमारदत्त, मृदंग बजाने वाला जीमूत, गायक सोमिल और ग्रहादित्य, सैरन्ध्री (प्रसाधिका) कुरंगिका, वांशिक (वंशी बजाने वाले) मधुकर और पारावत, गान्धर्वोपाध्याय दर्दुरक, संवाहिका केरलिका, नृत्य करने वाला ताण्डविक, आक्षिक (पासा खेलने वाला) शिखंडक, नर्तकी हरिणिका, पाराशरी (संन्यासी) सुमति, क्षपणक (जैन साधु) वीरदेव, कथक (कथावाचक) जयसेन, शैव वक्रघोण, मन्त्रसाधक कराल, पाताल में घुस कर यक्ष या राक्षस को सिद्ध करने वाला लोहिताक्ष, रसायन बनाने की विद्या जानने वाला विहंगम, दर्दुर नामक घटवाद्य बजाने वाला दामोदर, ऐन्द्रजालिक चकोराक्ष, मस्करी (परिव्राजक) ताम्रचूड़। ये मित्र तथा कुछ और भी लोग बाण के साथ चलते थे। उसने अपनी बालसुलभ प्रकृति के कारण अपने आपको इन मित्रों के ऊपर छोड़ रखा था। उसके मन में देशान्तरों को देखने की बड़ी उत्कण्ठा थी। यद्यपि पिता-पितामह द्वारा उपार्जित ब्राह्मणजन के उचित धन-सम्पत्ति उसके घर थी और विद्या का अविच्छिन्न प्रसंग भी प्राप्त था तथापि वह घर से निकल पड़ा। जैसे किसी पर ग्रहों की बाधा सवार हो वैसे ही स्वच्छन्द मन और नवयौवन के कारण वह बिल्कुल स्वतंत्र हो गया। गांव के बड़े-बड़े लोगों ने भी इसकी खिल्ली उड़ाई।
प्रथम उच्छ्वासः ६५ अथ शनैः शनैरत्युदारव्यवहृतिमनोहृन्ति बृहन्ति राजकुलानि वीक्ष- माणः, निरवद्यविद्याविद्योतितानि गुरुकुलानि च सेवमानः, महार्हालाप- गम्भीरगुणवद्गोष्ठीश्चोपनिष्ठमानः, स्वभावगम्भीरधीर्धनानि विदग्धमण्ड- लानि च गाहमानः, पुनरपि तामेव वैपश्चितीमात्मवंशोचितां प्रकृतिम्- भजत् । महतश्च कालात्तमेव भूयो वात्स्यायनवंशाश्रममात्मनो जन्मभुवं ब्राह्मणाधिवासमगमत् । तत्र च चिरदर्शनादभिनवीभूतस्नेहसद्भावैः ससं- स्तवप्रकटितज्ञातेयैराप्तैरूत्सवदिवस इवानन्दितागमनो बालमित्रमण्डल- मध्यगतो मोक्षसुखमिवान्वभवत् । इति श्रीमहाकविबाणभट्टकृतौ हर्षचरिते वात्स्यायनवंशवर्णनं नाम प्रथम उच्छ्वासः ।
अत्युदारेत्यादिः प्रकृतोपयोगी, यस्मात्कविना तथाविधवस्तुवेदिनावश्यमेव भवितव्यम् । वीक्षमाण इत्यनेनात्मनः किमपि प्रकृष्टमुत्कर्षातिशययोगित्वमाह । अथ च वीक्षमाणो न तु गुरुकुलवत्सेवमानः । गाहमान इत्यनेन तेजस्वित्वमाहा- त्मनः। वैपश्चितीं विद्वज्जनोचिताम्। संस्तव आदरः। ज्ञातीनां कर्म ज्ञातेयं बन्धुत्वम् । 'कपिशात्योर्ठक्' । आप्तैरिति । बन्धुभिर्योगिभिश्च । योगिपक्षे बाल इव बालो मित्रो रविर्निस्तेजस्त्वात् । उक्तं च—'तपस्यन्तं रविं दृष्ट्वा निस्तेजा जायते रविः । मोक्षमार्गप्रयत्ने तु तेजो नैवास्य विद्यते ॥' इति । मित्रं सखा, सूर्यश्च मित्रः । मण्डलं समूहः । बिम्बम् । मोक्षसुखमपि सूर्यबिम्बगतैरनुभूयत इति । आख्या- यिकासु कविभिर्निजवंशवर्णनं कानने तथा वंशः स्थापितः स्यादिति । आत्मनश्च विटवर्णनम् । सकलकलाकौशलं ममास्तीति हर्षस्य चरिते च वर्णयितव्ये नाप्रस्तुतं चैतदिति शिवम् ॥ इति श्रीशंकरकविरचिते हर्षचरितसंकेते प्रथम उच्छ्वासः ।
तब उसने धीरे-धीरे चारों ओर घूम कर बड़े-बड़े राजकुलों को देखा जिनमें होने वाले उदार व्यवहारों ने उसके मन को हर लिया। अनिन्द्य विद्याओं के अध्ययन- अध्यापन से उद्भासित गुरुकुलों में रहा। बड़ी-बड़ी गोष्ठियों में बैठने लगा जहां गुणी जन
बहुमूल्य और गम्भीर आलाप करते थे। बाण स्वयं स्वभाव से गम्भीर था। उसने राजकुलों से भी और विद्वानों के बीच रह कर सरस्वती को प्राप्त किया। अन्त में फिर वह अपने कुल और खान्दान के योग्य विद्वान् बन गया। बहुत समय के बाद फिर वह अपनी जन्मभूमि और वात्स्यायन वंशी ब्राह्मणों के गांव प्रीतिकूट में पहुँचा। बहुत दिनों के बाद आए हुए बाण को देख कर उसके बालमित्रों के स्नेह और सद्भाव हृदय में उमड़ आए और अपना-अपना सबने परिचय दिया। इस प्रकार अपने बचपन के साथियों के बीच में उत्सव के दिन की तरह अपने आगमन से आनन्दित करता हुआ बाण मानों मोक्ष सुख का अनुभव करने लगा।
प्रथम उच्छ्वास समाप्त।
द्वितीय उच्छ्वासः अतिगम्भीरे भूपे कूप इव जनस्य निरवतारस्य । दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥ १ ॥ रागिणि नलिने लक्ष्मीं दिवसो निदधाति दिनकरप्रभवाम् । अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम् ॥ २ ॥ अथ तत्रानवरताध्ययनध्वनिमुखराणि, भस्मपुण्ड्रकपाण्डुरललाटैः कपिलशिखाजालजटिलैः कृशानुभिरिव ऋतुलोभागतैर्बटुभिरभ्यास्यमा- अतीत्यादि । यस्य क्रोधादिभाववर्गो इङ्गितादिना परेण न चेत्यते स गम्भीरः । उक्तं च-‘यस्य प्रसादादाकारात्क्रोधहर्षभयादयः । भावस्थानोपलभ्यन्ते तद्गाम्भी- र्य्यमुदाहृतम् ॥’ इति । अगाधश्च । अवतरणमवतारः, प्रवेशनम् । अवतरन्ति येने- त्यवतारः, सोपानादिश्च । समीहितसिद्धिं राजगृह आत्मनः प्रवेशलक्षणम्, जल- ग्रहणलक्षणं च । गुणा औदार्यादयः, आकर्षणरज्जवश्च । पार्थिवा राजानः, पृथ्वी- विकाराश्च । घटयन्ति वाञ्छितेन प्रयोजयन्तीति घटकाः, कुम्भाश्च । अनेन तादृशे राज्ञि बाणस्य कृष्ण एव समीहितसिद्धीराधास्यत इति सूचितम् ॥ १ ॥ रागिणि रक्ते, विषयाभिसङ्गिणि च । लक्ष्मीं शोभाम्, समृद्धिं च । अत्र नलिनादिकमप्रस्तुतम्, बाणाद्यास्तु प्रस्तुताः । अनेन कृष्ण ईदृशे बाणे राज- प्रभवां श्रियं निधास्यतीत्युक्तम् ॥ २ ॥ अथेत्यादि । बाणो बान्धवानां भवनानि भ्रमन्सुखमतिष्ठदिति संबन्धः । शिखा चूडा, ज्वाला च । सोमो यज्ञियं द्रव्यम् । केदारिका स्वल्पं क्षेत्रम् । प्रघटनेषु तथो- चितत्वात् । अहरिता हरिताः संपद्यमाना हरितायमानाः लोहितादित्वात्क्यङ् । जैसे किसी गहरे कूँप से जल लेने के लिए सोपान आदि के अभाव में उतरना कठिन है ऐसी स्थिति में डोर के साथ घड़े की सहायता से ही जल निकालते हैं, उसी प्रकार अत्यन्त गम्भीर स्वभाव वाले राजा के पास न पहुंच पाया हुआ व्यक्ति गुणवान् संयोजक लोगों की सहायता से ही अपनी इष्ट-सिद्धि कर पाता है ॥ १ ॥ राग से भरे हुए कमल में दिन सूर्य से उत्पन्न शोभा-सम्पत्ति को आहित कर देता है । दूसरे का उपकार करना सज्जनों का एक स्वाभाविक व्यसन होता है, जिसमें वे किसी के गुण-दोष की ओर ध्यान नहीं देते ॥ २ ॥ वहाँ तब बाण स्नेहपूर्वक अपने चिरदृष्ट बन्धु-बान्धवों के घर जा-जाकर मिलता हुआ
७२ हर्षचरितम् नानि, सेकसुकुमारसोमके दारिकाहरितायमानप्रघनानि, कृष्णाजिनवि- कीर्णशुष्यत्पुरोडाशीय श्यामाकतण्डुलानि, बालिकाविकीर्यमाणनीवारब- लीनि, शुचिशिष्यशतानीयमानहरितकुशपूली पलाशसमिन्धि, इन्धनगो- मयपिण्डकूटसंकटानि, आमिक्षोयक्षीरक्षारिणीनामग्निहोत्रधेनूनां खुरवल- यैर्विलिखिताजिरवितर्दिकानि, कमण्डलव्यमृत्पिण्डमर्दनव्यग्रयतिजनानि, वैतानवेदीशङ्कव्यानामौदुम्बरीणां शाखानां राशिभिः पवित्रितपर्यन्तानि वैश्वदेवपिण्डपाण्डुरितप्रदेशानि, हविर्धूमधूसरिताङ्गणविटपिकिसलयानि, वत्सीयबालकलालितललत्तरलतर्णकानि, क्रीडत्कृष्णसारच्छागशावकप्र- प्रघनान्यङ्गणानि। 'उशन्ति प्रघनामभ्य्यामेकदेशे तु वेश्मनः'। पुरोडाशीयेत्यादि सहितेत्यर्थे ईयंः। बालिकाः कुमार्यः। नीवारा अकृष्टपच्या व्रीहयः। कूटो राशिः। आमिक्षीयमिति। तप्ते पयसि दध्यानयति सा वैश्वदेवामिक्षा। 'आमिक्षा सा शृतोष्णं या क्षीरे स्याद्दधियोगतः' इति। तस्यै हितमामिक्षीयम्। आमिक्षाप्रकृतित्वमस्य च योग्यत्वात्। अग्निहोत्रेषु तस्या अनाम्नातत्वात्, यद्वा,-यदन्नस्य जुहुयादिति। नस्या अपि हबनं भवत्येव। वलयैः समूहैः वितर्दिका वेदिका। कमण्डलुर्मुनिकरदस्तस्मै हिताः कमण्डलव्याः। 'उगवादिभ्यो यत्'। यतीनां निष्किञ्चनत्वादादरस्वाच्च स्वयंक रणम्। वितानो यज्ञः, तत्र भवा वैतानी यज्ञाग्निकार्यभूः। शङ्कुः कीलकः, तस्मै हितः शङ्कव्यः। औदुम्बरीणामिति। तासां यज्ञियत्वात्। वत्सेभ्यो हिता वत्सीयाः वत्सपरिचर्याचतुराः। तर्णकाः सद्योजाता वत्साः। कृष्णसारेति छाग- सुख से रहने लगा। ब्राह्मणों के वे घर निरन्तर अध्ययन की ध्वनि से मुखरित हो रहे थे। त्रिपुण्ड भस्म से मस्तक को उज्ज्वल किए हुए सोमयज्ञों के लोभी वटु वहाँ इकट्ठा थे जो कपिल वर्ण वाली ज्वाला की जटाओं से शोभित अग्नि के समान प्रतीत होते थे। घरों के सामने सोम की क्यारियाँ सींचने से हरी हो रही थीं। बिछे हुए कृष्णाजिन पुरोडाश बनाने के लिए साँवा पसार कर सुखाया जा रहा था। कुमारी कन्याएँ बिना जोत के पके हुए नीवारों की बलि से पूजा कर रही थीं। सैकड़ों शिष्य पवित्र होकर कुशा की हरी आंटियों और पलाश की समिधाएँ इकट्ठी कर रहे थे। जलावन के लिए गोबर के कंडों का ढेर लगा था। आमिक्षा बनाने के योग्य दूध देने वाली गौएँ अपने खुरों से आँगन की बेदियाँ कोड़ रही थीं। यती लोग कमण्डलुओं को मिट्टी से मलने में व्यग्र थे। वैतान अग्नियों की वेदी में लगाए जाने वाले शंकुओं के लिए गूलर की शाखाएँ किनारे रखी थीं। स्थान-स्थान पर वैश्वदेवों के उजले पिण्डे रख दिए गए थे। आँगन के पेड़ के पत्ते यज्ञ- धूम से बिलकुल धूमिल हो रहे थे। देख-रेख करने वाले लड़के उचकते हुए सद्योजात
द्वितीय उच्छ्वासः ७३ कटितपशुबन्धप्रबन्धनानि, शुकसारिकारुद्धाध्ययनदीयमानोपाध्यायविश्रा- न्तिसुखानि, साक्षात्त्रयीतपोवनानीव चिरदृष्टानां बान्धवानां प्रीयमाणो भ्रमन्भवनानि, बाणः सुखमतिष्ठत् । तत्रस्थस्य चास्य कदाचित्कुसुमसमययुगमुपसंहरञ्जृम्भत ग्रीष्मा- भिधानः संफुल्लमल्लिकाधवलाट्टहासो महाकालः । प्रत्यग्रनिर्जितस्यास्तमु- पगतवतो वसन्तसामन्तस्य बालापत्येष्विव पयःपायिषु नवोद्यानेषु दर्शि- तस्नेहो मृदुरभूत् । अभिनवोदितश्च सर्वस्यां पृथिव्यां सकलकुसुमबन्ध- विशेषणम् । तदुक्तम्- 'लोहितसारङ्गः कृष्णसारङ्गो वा' इति; सारङ्गशब्दः शबले वर्तते । कृष्णसारा मृगा इति केचित् । तन्न । तेषां तदानुपयुक्तत्वात् । पशुबन्धा यज्ञाः । कुसुमसमयो वसन्तः, स एव युगं कल्पस्तल्लक्षणं वा युगं मासद्वयम् । समुत्फु- ल्लमल्लिकाभिर्धवला अट्टा विक्रयस्थानानि तेषां विकासो यत्र, अन्यत्र-तद्वदह- हास उद्धतं हसितं यस्य । शब्दशक्तिमूलानुरणनव्यङ्ग्यरूपो ध्वनिञ्च । प्रकृतवर्णने ऽन्यदप्यत्र प्रतीयते । न वाच्यतया । तथा च-महाकालः साट्टहासः कल्पमुप- संहरञ्जृम्भते मुखं च विदारयति । महाकालो ग्रीष्माख्यः, भैरवश्च । पयो जलम्, क्षीरं च । बालापत्यपक्षे-नवमुद्यानमुद्गमनं येषां तेषु । इदम्प्रथमतयागमनप्रवृत्ते- ष्वित्यर्थः दर्शितस्नेह इत्यनेनास्य विजिगीषुव्यवहार आरोपितः । निर्जितस्य च पुनः प्रतिष्ठापनमेव युक्तम् । स्नेहः आर्द्रता, प्रीतिश्च । मृदुरकठोरः, सदयश्च । अभिन- वोदित इति साधारणं विशेषणम् । वासन्तिकपुष्पाभिप्रायेण सकलपदबन्धनं वृन्तकारी च । प्रतपम्प्रकर्षेण तपन्; अन्यत्र, -शत्रुहृदयेषु प्रतापं जनयन् । अभिन- वोदितश्च राजा बन्धनमोक्षं करोति । उक्तं हि-'युवराजाभिषेके वा परचक्रावरो- पणे । पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ॥' इति । आदरप्रतिपादनाय बछड़ों को प्यार कर रहे थे। कलोल करते हुए काले छाग शावक को देखकर वहाँ पशु- बंध की तैयारी मालूम हो रही थी । शुक-सारिकाएँ स्वयं अध्ययन कराकर गुरुओं को विश्राम का सुख दे रही थीं, मानों ब्राह्मणाधिवास के वे भवन श्रयीविद्या के साक्षात् तपोवन हो रहे थे। वहाँ बाण के रहते हुए वसन्त के दो महीनों का उपसंहार करता हुआ महाकाल ग्रीष्म फूली हुई चमेली के अट्टहास के साथ जंभाई लेने लगा । अभी अभी पराजित होकर अस्तंगत होते हुए वसन्त रूपी सामन्त के दुधमुँहे बाल-बच्चों के समान जल से सींचे जाने वाले नये-नये उद्यानों पर वह ग्रीष्म स्नेह दिखलाता हुआ मृदु व्यवहार करने लगा और समस्त पृथिवी पर नवोदित होकर उसने फूलों के बन्धन खोले, जैसे राजा बन्दीगृह से
७४ | हर्षचरितम् नमोक्षमकरोत्प्रतपन्नुष्णसमयः। स्वयमृतुराजस्याभिषेकार्द्राश्चामरकलापा इवागृह्यन्त कामिनीचिकुरचयाः कुसुमायुधेन, हिमदग्धसकलकमलिनी- कोपेनेव हिमालयाभिमुखीं यात्रामदादंशुमाली। अथ ललाटंतपे तपति तपने चन्दनलिखितललाटिकापुण्ड्रकैरलकची- रचीवरसंवीतैः स्वेदोदबिन्दुमुक्ताक्षवलयवाहिभिर्दिनकराराधननियमा इवागृह्यन्त ललनाललाटेन्दुद्युतिभिः। चन्दनधूसराभिरसूर्यंपश्याभिः कुमु- दिनीभिरिव दिवसमसुप्यत सुन्दरीभिः। निद्रालसा रत्नालोकमपि नास- हन्तः दृशः, किमुत जरठमातपम्। अशिशिरसमयेन चक्रवाकमिथुना- स्वयंशब्दः । अभिषेकः स्नानम् । अन्यत्र, - मङ्गलजलपातनं तत्संपर्कवशाच्चार्द्रत्वम् । चिकुराः केशाः । ते हि तदा स्नानाद्र्रतया संयमनास्रुन्दरतया विशेषतः शृङ्गार- मुदीपयन्ति। तथा च महाकवेः कालिदासस्य- 'स्नानाद्र्रमुक्तेष्वनुधूपवासं विन्य- स्तसायंतनमल्लिकेषु । कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे रतिमङ्गनानाम्' ॥ यथा वा राजशेखरस्य- 'तदा ते स्नातानां दरदलितमल्लीमुकुरिणाम्' इत्यादि । हिमाभिप्राये च हिमालयग्रहणम् । अंशुन्मलति धारयतीत्यनेन हिमं प्रतिभवन्- शीतलत्वमस्योच्यते । ललाटं तपतीति ललाटंतपः इति खश् । खरतर इत्यर्थः । ललाटेऽलंकारो ललाटिका । 'कर्णललाटात्कनलंकारे' । ललाटिकैव पुण्ड्रकं तिलकमिति सर्वत्र रूप- कम् । संवीतैः प्रावृतैः । चन्दनेन च तद्भूधूसराः । असूर्यं पश्याभिरिति । आतपासहिष्णु तया । अन्यत्र, - स्वभावात् । दिवसं सुप्यत इति द्रव्यकर्मणि लादि- विधानात्कर्मणि द्वितीयेव । भावे लः । यदा तु कर्माप्याख्याततया विवक्ष्यते तदा दिवसः सुप्यत इति भाष्यमिति निर्णीतम् । स्वापो निद्रा, मुकुलता च । जरठं कठोरम् । यतो ग्रीष्मेण तनुकृता अत आह-चक्रवाकेत्यादि । रात्री किल बन्दियों को छोड़ता है। ऋतुराज वसन्त के अभिषेक द्वारा आर्द्र हुए सुन्दरियों के चामर- कलाप के समान केशपाश में कुसुमायुध कामदेव ने साक्षात् निवास किया। सूर्य ने मानों हिम के कारण जली-कटी समस्त कमलिनियों के कोप से हिमालय की ओर यात्रा की। अब सूर्य का ताप तीखा हो गया। कमलिनियों के ललाट रूपी चन्द्रमा चन्दन के तिलक लगा, बालों के वस्त्रखण्ड पहन और पसीना के कणों की मुक्ता से बनी जपमालिका धारण कर सूर्य की नियमित रूप से उपासना करने लगे। चन्दन के लेप से धूसर वर्ण वाली सुन्दरियाँ कुमुदिनियों के समान सूर्यातप के न सहन करने से दिन में ही शयन करने लगीं। निद्रा से अलसाई हुई आँखें रत्नों के तेज को भी नहीं सहन कर सकती थीं, कठोर आतप की तो बात ही क्या ? ग्रीष्मकाल में चक्रवाक पक्षियों के जोड़ों से अभि-
भिनन्दिताः सरित इव तनिमानमानीयन्त सोडुपाः शर्वर्यः। अभिनव- पटुपाटलामोदसुरभिपरिमलं न केवलं जलम् , जनस्य पवनमपि पातु- मभूदभिलाषो दिवसकरसंतापात् । क्रमेण च खरखसमयूखे, खण्डितशैशवे, शुष्यत्सरसि, सीदत्स्रोतसि, मन्दनिर्झरे, झिल्लिकाझांकारिणि, कातरकपोतकूजितानुबन्धबधिरितविश्वे, श्वसत्पतत्रिणि, करीषकषमरुति, विरलवीरुधि, रुधिरकुतूहलिकेसरिकि- शारकलिह्यमानकठोरघातकीस्तबके, ताम्यत्स्तम्बेरमयूथवमथुतिम्यन्महा- महोधरनितम्बे, दिनकरदूयमानद्विरददीनदानाश्यानदानश्यामिकाली- नमूकमधुलिहि, लोहितायमानमन्दारसिन्दूरितसीम्नि, सलिलस्यन्दसन्दो- हसंदेहमुह्यन्महामहिषविषाणकोटिविलिख्यमानस्फुटस्फटिकदृषदि, धर्म- चक्रवाकानां वियोगो भवतीत्यशपतया ताँस्ता अभिनन्दन्ते । सरितश्च वृत्तिकारि- कास्तेषामिति तदभिनन्दनम् । उडुपः शशी, प्लवश्च । क्रमेण चेत्यादौ । एवंविधे निदाघकाले कठोरीभवति सण्युन्मत्ता मातरिश्वानः प्रावर्तन्तेति संबन्धः । खगो रविः । शुष्यदिति साभिप्रायम् । स्रोतसश्च प्रस- रणधर्मत्वादाह—सीददिति । समन्तादावेगगामिनः । झिल्लिका चीरीनामकः प्राणी यो वर्षासु तरुषु सीत्कारसुखैः करोति । कातरेति । कपोता हि मेदो- मयस्वाङ्गितान्तं धर्मासहाः । अत एव पतत्रित्वेऽपि पृथगुपादानम् । पतत्रित्वार्भा- प्रायेण श्वासमित्येतावदेव समुचितम् । एषां तथाभूतरुजाभावात् । करीषो गोमयम् । वीरुत्सपर्णशाखाजटिलं कुप्यकादि । कशोरकेति । बालत्वेन तृष्णाद्यसहिष्णुता, मुग्धतातिशयश्च द्योत्यते । धातकी लताभेदः । स्तवकः पुष्पगुच्छः । स्तम्बेरमो हस्ती । वमथुः करिकरशीकरः । तिम्यन्त आर्दीभवन्तः । नितम्बाः सानवः । द्विरदाः करिणः । दीनं क्षीणम् । आश्याना अप्रसरणधर्मकत्वादीषच्छुष्कश्यामिका मदलेखासंबन्धिनी । लीना अतितर्षाच्छ्लिष्टाः । मूका गुञ्जितहीनाः । अलोहिता लोहिता भवन्तो लोहितायमानाः । मन्दाराः पारिभद्रद्रुमाः । सिन्दूरिता आहितसि- नन्वित तारों भरी रातें नदियों की भाँति छोटी होने लगीं। सूर्य का सन्ताप इतना बढ़ गया कि लोग न केवल नए खिले हुए पाटल के पुष्पों से सुगन्धित जल को पीना चाहते थे, बल्कि इस तरह की सुगन्ध से भरी हवा को भी पीते थे । क्रमशः निदाघकाल कठोर होता गया । सूर्य तीखा होने लगा । तालाब सूखने लगे । प्रवाह शान्त होने लगे । झरने मन्द पड़ गए । झिल्लियाँ झंकारने लगीं । कपोतों के निरन्तर आर्त स्वर से सारा विश्व भर गया । पक्षी हाँफने लगे । कूड़ा-कर्कट बटोरने वाली हवाएँ
७६ हर्षचरितम् मर्मरितगर्मुति, तप्तपांशुकुकूलकातरविकिरे, विवरशरणश्वाविधे, तटार्जुन- नकुररकूर्जाज्वरविवर्तमानोत्तानशफरशारपंकशेषपल्वलम्भसि, दावजनित- जगन्नीराजने, रजनीराजयक्ष्मणि, कठोरीभवति निदाघकाले, प्रतिदिश- माटीकमाना इवोषरेषु प्रपावाटकूटीपटलप्रकटलुण्ठकाः, प्रपञ्चकपिकच्छू- न्दूरा इव। लोहितत्वात्। ग्रामस्य ग्रामान्तरेण मर्यादा सीमा। स्यन्दः स्रुतिः। विलि- ख्यमाना विपाट्यमानाः। मर्मरिताः शुष्कत्वेन शब्दायमानाः। गर्मुतो लताः। कुकूलं तुषाग्निः। विकिराः कुक्कुटाद्याः। श्वाविधः शललाः सेहिकाख्या हिंस्त्राः प्राणिनः। तटशब्देन नैकट्यमाह। अर्जुनाः ककुभवृक्षाः। कुरराः क्रौञ्चपक्षिणः। कूजा शब्द एव संतापकारित्वाज्ज्वरस्तेन स्फुरन्तः शफरा मत्सयास्तैः। शारं सितोदरत्वात्। पल्वले नडूवले। कुररास्तटस्था यदा कूजन्ति तदा मत्स्याः पीडिताः सन्तः उत्प्लव- न्तीति वस्तुधर्मोऽयम्। नीराजनमिति। नीराजनं शान्तिकर्म। राजयक्ष्मा क्षयव्याधिः। शनैः शनैरपचयकारित्वात्। मातरिश्वानः कीदृशाः प्रावर्तन्तेत्या- ह—प्रतिदिशमित्यादि। आटीकमाना उच्चैर्भ्रमन्तः। साभिप्रायमेतत्। रजो- वशादेतेषां तथाविधसंनिवेशात। ग्रीष्मे ह्येवंविधा मारुताः प्रावर्तन्तेति कालधर्मः। उन्मत्तपक्षे—आटीकमाना इत्यादि सर्वं वक्ष्यमाणयोग्यतया योजनीयम्। उद्धतभ्र- मणाद्या ह्युन्मादस्यानुभावाः। तदुक्तम्—'अनिमित्तहसितरुदितोत्कृष्टाबद्वप्रलापश- यनोत्थितप्रधावितवृत्तगीतपठितस्मितपांसुववधूनननिर्माल्यचीरघटवक्त्रशरावाभर- णस्पर्शनोपभोगैरन्यैश्चाव्यवस्थितचेष्टानुकरणादिभिरनुभावैरभिनयेत्' इति। ऊषरं सिकताबहुलो रूक्षो देशः। प्रपा सत्रम्। वाटः कुनालम्। पटलं छदिः। कपिकच्छुः चलने लगीं। लताएँ कहीं कहीं बच रही थीं। धातकी के लाल-लाल गुच्छों को रुधिर के भ्रम से शेर के बच्चे चाटने लगे। घाम की गर्मी से उफने हुए हाथी अपनी सूँड़ से गाज उछालकर पर्वत के मध्यभाग को सींचने लगे, गर्मी से सूखती हुई गांजों की काली मदलेखाओं पर भौंरे प्यास के मारे चुप होकर बैठ गए। मन्दार के सिन्दूरिया फूलों से सीमाएँ लाल हो गईं। प्यासे भैंसे पानी के भ्रम से स्फटिक की शिलाओं पर सींग मारने लगे। लताएँ घाम से सूख कर खरखराने लगीं। भूसे की आग के समान तपती धूल से मुर्गे आदि व्याकुल हो उठे। सेही बिल में घुसने लगे। किनारे के अर्जुन वृक्षों पर बैठे हुए क्रौञ्च पक्षी कड़ी आवाज में बोलने लगे, जिससे डरकर सूखते हुए तालाबों की मछलियाँ तड़फड़ा उठती थीं। वनाग्नियाँ इस तरह लगने लगीं जैसे सारे जगत् की आरती उतर रही हो। वह निदाघकाल रात्रि का क्षय रोग बन गया और वह घटने लगी। चारों ओर अंधड़ के रूप में हवा चल पड़ी। बलुहट सीवानों में ऊँची उड़ान भरने लगी। पनसाले और राह की कुटियों की खपड़पोश छातें हवा में उड़ने लगीं।
द्वितीय उच्छ्वासः ७७ गुच्छक्रूच्छूटालोटनचापलैरेकाण्डकण्डूला इव कर्षन्तः शर्करीला कर्कस्थलीः स्थूलदृषच्चूर्णमुचः, मुचुकुन्दकन्दलदलनदन्तुराः, संततपनतापमुखर- चीरीगणमुखशीकरशीक्यमानतनवः, तरुणतरतरणितापतरले तरन्त इव तरङ्गिणि मृगतृष्णिकातरङ्गिणीनामलोकवारिणि, शुष्यच्छमीमर्मरमारब्ध- मार्गल्लङ्घनलाघवजवजङ्घालाः, रैणवावर्त्तमण्डलीरेचकरासरसरभसारब्ध- नर्तनाम्भारभटीनटाः, दावदग्धस्थलीमषीमिलनमलिनाः, शिक्षितक्षपण- कण्डूदायको द्रव्यभेदः। अत एवाह—कर्षन्त इति। शर्कराः पाषाणकणिका विद्यन्ते यासु ताः शर्करीलाः। पिच्छादित्वादिलच्। कर्करस्थली ऊषरभूः पाषा- णभूः। अत एवाह—स्थूलेत्यादिना। मुचुकुन्दं पुष्पभेदः। कन्दलं नवना- लम्। दन्तुरा इति। कपिकच्छूस्पर्शचालनेन च ये कण्डूलास्तादृशाश्चूर्णमुचः प्रकटदन्ताः परुषं कर्षन्ति। शीक्यमानाः सिच्यमानाः। तरुणतरः प्रौढः। तर- णिरादित्यः। तरन्त इवेति। वालुकावशात्तथा लक्ष्यमाणत्वात्। मृगतृष्णिका मरीचिका। तृषितमृगाणां रविरश्मिखचितासु सिकतासु नीलत्वदर्शनाज्जलबुद्धिः। वारिगीति। सतरङ्गे वारिणि ये सभीकास्ते सतापं देशं तरन्ति। उन्मत्तपवेऽपि विचित्तत्वेनैवंकारित्वम्। शम्योऽग्निगर्भा वह्निभेदाः। लाघवं नैपुण्यम्। सम्बायामान्त्र विषमं मार्गं लाघवेन तरन्ति। जङ्घाला वेगवन्तः। रैणवावर्त्ताः पांसुसंबन्धिन आव- र्तनरूपाः संनिवेशास्तेषां मण्डली समूहः। रेचयति पृथक्क्रोतीति रेचकम्। रैणवावर्त्तमण्डल्या रेचकं तथा रासे रसिते यो रसस्तेन यो रभसस्तद्देशेनारब्धं यन्न- र्तनमिव नर्तनं तदारम्भे विषय आरभटीनटा इव आरभटीनटाः। ईरयन्तीति भराः। भराश्च ते भटा अरभटाः। तेषामियमारभटी नटजातिविशेषो वीररसप्रधानः। उक्तं च—'प्लुष्टावपातप्लुतगर्जितानि च्छेद्यानि मायाकृतमिन्द्रजालम्। चित्राणि यूथानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति ॥' इति; नृत्तपदे—आवर्ती पके किवांच के गुच्छों के साथ छेड़छाड़ करने की गुस्ताखी के कारण उठी हुई खाज की छटपटाहट से भुइयाँलोट हवा कंकरीली धरती में मानों अपनी देह रगड़ रही थी। पत्थरों के मोटे मोटे कण बरसने लगे। मुचुकुन्द और कन्दल की कलियाँ छँट-छँट कर गिरने लगीं। सूर्य की गर्मी से व्याकुल होकर चिल पक्षी मुँह से गाज गिराने लगे। मृग- तृष्णिका रूपी नदियों के झूठे बहते हुए प्रवाह में मानों निदाघकाल की हवा सूर्य के अधिक ताप के कारण तैर रही थी। शमी के सूखे पत्ते मरुभूमि के मार्गों पर बिछे हुए थे जिन पर मर्मर करती हवा दौड़ लगा रही थी। धूल के बवंडर अगह बदलते हुए ऐसे लगते थे मानों आरभटी नृत्य में नट नाच रहे हों। दाव से जली हुई भूमियों में रगड़ मारने से हवा कुछ स्याह हो गई थी। जैन साधुओं के समान हवा वन-मयूरों के पंख
७८ हर्षचरितम् कवृत्य इव वनमयूरपिच्छकुचयानुञ्चिन्वन्तः, सप्रयाणगुञ्जा इव शिञ्जान- जरत्करञ्जमञ्जरीबीजजालकैः, सप्ररोहा इवातपातुरवनमहिषनासानिकुञ्ज- स्थूलनिःश्वासैः, सापत्या इवोड्डीयमानजवनवातहरिणपरिपाटीपेटकैः, सभ्रुकुटयइव दह्यमानखलधानबुसकूटकुटिलधूमकोटिभिः, सावीचिबीचय इव महोष्ममुक्तिभिः, लोमशा इव शीर्यमाणशाल्मलिफलतूलतन्तुभिः, दद्रुणा इव शुष्कपत्रप्रकराकृष्टितिभिः, शिराला इव तृणवेणीविकरणैः, उच्छ्र- मश्रव इव धूयमाननवयवशूकशकलशङ्कुभिः, दंष्ट्राला इव चलितशलल- आवृत्त्यः । यदाह मुनिः—'यदा नृत्तवशादङ्गं भूयोभूयो निवर्तते। तत्राद्यमभिनेयं स्याच्छेषं नृत्ते नियोजयेत् ॥' इति । मण्डलीनृत्तं हल्लीशकम् । यदाह—'मण्डलेन तु यन्नृत्तं हल्लीशकमिति स्मृतम् । एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥' इति । रेचकास्त्रयः—कटीरेचकः, हस्तरेचकः, ग्रीवारेचकश्चेति । रासलक्षणम्— 'अष्टौ षोडशद्वात्रिंशद्यत्र नृत्यन्ति नायकाः। पिण्डीबन्धानुसारेण तन्नृत्तं रासकं स्मृतम् ॥' इति । अस्यैव तु हलीमकश्चा विशेषाः । क्षपणकवृत्तय इवेति : क्षपण- काश्च मषीमलिना बर्हिपिच्छानि शास्त्रचोदनया वहन्ति । उन्मत्तपक्षे—निर्विवेक- तया मयूरपिच्छचय इत्युक्तं प्राक् । गुञ्जन्तीति गुञ्जा ढक्कामदाः । उन्मत्तानां नृत्ता- वसरे सर्व एव करतालादि वादयन्ति । शिञ्जानाः शब्दायमानाः । करञ्जो वृक्षभेदः । प्ररोहोऽङ्कुरः । उन्मत्ता अपि खेदात्रिःश्वसन्ति । सापत्या इवेति । उन्मत्ता अपि श्वादिपतनभयादपत्यानि न त्यजन्ति । पेटकैर्यूथैः । सभ्रुकुटय इवेति । दह्यमाना- भिप्रायेणोक्तम् । उन्मत्ता अपि क्रोधप्राया एव । क्रोधस्य भ्रुकुट्यादयोऽनुभावाः। खलधानं क्षोदादिदेशः । बुद्यमानं धान्यमित्यन्ये । सस्यस्य ज्वालाभावाद्धूमवर्णनं समुचितम् । कुटिलपदेन च भ्रुकुटीसादृश्यमाह । अवीचिनरकभेदस्तस्य वीचय इव वीचयो ज्वालाः । महोष्मेति । उन्मत्ता अपि खेदादिक्शादूष्मायन्ते । लोमशा इवेति । उन्मत्ता अपि दुरकर्म विना लोमशाः । तूलं कार्पासः । दद्रुः कुष्ठविकारः । साऽस्यास्तीति दद्रुणः । 'ददूम्ना ह्रस्वत्वं च' इति नः । उन्मत्ता अप्युद्धर्त्तनं विना उखाड़ कर पहनने लगी । करंज नामक वृक्ष की मंजरियों के बीज हवा से इस प्रकार बजने लगे मानों प्रस्थान का ढक्का बज उठा हो । घाम से पीड़ित बनैले भैंसों की नासा से मोंटे विंश्वास इस तरह निकल रहे थे मानों उस हवा के प्ररोह फूट रहे हों । भूसे की जलती हुई ढेर की टेढ़ी धूमरेखा से ऐसा लगता था मानों हवा ने अपनी भौंहें टेढ़ी की हों । गर्मी इस तरह बरसती थी मानों अवीचि नामक नरक की ज्वाला हो । सेमल के डोंडों के फटने से रूई बिखर रही थी, मानों हवा के रोंगटे हों। दाद के रोगी की भाँति हवा सूखे
द्वितीय उच्छ्वासः ७६ सूचीशखैः, जिह्वाला इव वैश्वानरशिखाभिः, उत्सर्पत्सर्पकञ्चुकैश्चूडाला इव ब्रह्मस्तम्भरसाभ्यवहरणाय कवलग्रहमिबोष्णैः कमलवनमधुभिरभ्य- स्यन्तः सकलसलिलोच्छोषणघर्मघोषणाघोरपटहैरिव शुष्कवेणुवनास्फो- टनपटुरवैस्त्रिभुवनबिभीषिकामुद्भावयन्तः, च्युतचपलचाषपक्षश्रेणीशारि- तसृतयः, त्विषिन्मन्मयूखलतालातप्लोषकल्माषवपुष इव स्फुटितगुञ्जाफल- स्फुलिङ्गाङ्गारारङ्गिताङ्गाः, गिरिगुहागम्भीरझांकारभीषणभ्रान्तयः, भुवनभ- दद्रुयुक्ता भवन्ति । शिरालाः प्रकटस्नायवः । उन्मत्ता अपि कृशत्वाच्छिराला भवन्ति । वेणी पङ्किः । शिरासादृश्यप्रतिपादनाय वेणीपदम् । श्मश्रुः कूर्चः । शुकाः किंशारवः । उन्मत्ता अपि केशवपनाभावादीर्घश्मश्रवः । दंष्ट्रा बहिर्निर्गता दन्ताः । शललः श्वावित् । सूची दीर्घकण्टकरूपाणि रोमाणि, अन्ये तु—दंष्ट्रालाः शललाः, श्वाविधः पक्षाश्च शलला उच्यन्ते । तथा च—'श्वाविधः शललैरिव' इति महाभारते दृश्यत इत्याहुः । उन्मत्ता अप्येवमादिविकारेण सर्वं भीषयन्ते । एवं जिह्वाला अपि। एवमेव स्नानादिना विनोन्मुक्तचूडत्वादुत्सर्पदित्यादि । कञ्चुकं त्वक् । ब्रह्मस्तम्भो ब्रह्माण्डः । रसाभ्यवहरणं शोषणम्, रसानां च मधुरादीनां भोजनम् । 'असंचायों मुखे पूर्णे गण्डूषः कवलोऽन्यथा' । अभ्यस्यन्त इति । एवमिदं शोष- यिष्याम इति । घर्मो ग्रीष्मः । घोषणा श्रावणा । विभीषिकामिति । ये सगर्वा जगद्ग्रसनशीलास्ते त्रिभुवनेऽपि भयमुत्पादयन्ति । चाषः किकीदिविः पक्षिभेदः । उन्मत्तपक्षे—विस्मरणशीलत्वाद्युतेत्यादि योज्यम् । सृतिर्मार्गः । त्विषिमान् रविः । अलातमुल्मुकम् । कल्माषं रक्तकृष्णम् । गुञ्जा रक्तिका । उपलानि लोहितकृष्णानि भवन्ति । स्फुलिङ्गा अग्निकणाः । अङ्गारारङ्कितानीवाङ्गारारङ्गितानि दग्धान्यङ्गानि । ये च साङ्गारास्ते मलिनशरीरा भवन्ति । उन्मत्ता अप्यभिशस्त्रभ्रमादिषु बलादति- पत्तों को खुजाने के लिए बटोरने लगी । हवा की शिराओं के समान तिनके उड़ने लगे । जब की नुकीली शिखाएँ हवा के बढ़े हुए बाल के समान हिल रही थीं । उड़ते हुए शललो के सैकड़ों कांटेदार रोंगटे हवा के दाँत के समान थे । आग की लपटें हवा की जीभ हो रही थीं । साँप के केंचुल हवा में बिखरे हुए बाल के समान उड़ने लगे । ब्रह्माण्ड के सारे रस को चाट जाने के लिए हवा मानों कमल के मधु का ग्रास बनाकर अभ्यास कर रही थीं । बाँसों के चटकने की तीखी आवाज होने लगी मानों सारे जलों को सोख लेने वाले भातपों का घोषणा-पटह बज रहा हो । इस प्रकार हवा ने तीनों लोकों को भयभीत कर दिया । चाष पक्षी के पंख झड़कर मार्ग को ढँक रहे थे । हवा का शरीर मानों सूर्य की किरणों के जलते अङ्गारों से झुलस कर कुछ काला और लाल (कल्माष) हो गया था । चटकते हुए गुंजाफलों के समान अग्निकणवाही अंगारों से हवा के अङ्ग-अङ्ग भर गए । पहाड़ की
८० हर्षचरितम् स्मीकरणाभिचारचरुपचनचतुराः, रुधिराहुतिभिरिव पारिभद्रद्रुमस्तबक- वृष्टिभिस्तर्पयन्तस्तारवान्वनविभावसून् , अशिशिरसिकताताराकितरंहसः, तप्तशैलविलीयमानशिलाजतु रसलबलिप्रदिशः, दावदहनपच्यमानचटका- ण्डखण्डखचिततरुकोटरकीटपटलपुटपाकगन्धकटवः, प्रावर्त्तन्तोन्मत्ता मातरिश्वानः । सर्वतश्च भूरिभस्त्रासहस्रसंधुक्षणक्षुभिता इव जरठाजगरगम्भीरगल- गुहावाहिवायवः, क्वचित्स्वच्छन्दतृणचारिणो हरिणाः, क्वचित्तरुतलवि- पतन्ति । झांकारभीषणा भ्रमन्ति च ॥ अभिचार उच्चाटनम् । अभिचारिणश्चोच्चा- टनमारणाद्यर्थं चरुपचनं कुर्वन्ति, रक्तेन चाग्मीन्प्रीणयन्ति । पारिभद्रा निम्बाः । मदना इत्यन्ये । उन्मत्ता अपि निर्विवेकतया रक्तादि यत्किंचिदशुचिप्रायमग्नौ निक्षिपन्ति, तत एव विश्वस्य दोषाय पर्यवस्यन्ति । तारकितमिव रंहो वेगो येषां ते । शिलाजतु अश्मसारः । दावदहनेन पच्यमानानि यानि चटकाण्डानि तेषां विदारणवशात्स्फुटिता ये खण्डाः कपालानि तैः । दोलावदुपरिपतितैः खचितानि कषायमानानि यानि तरुकोटरेषु कीटपटलानि कृमिसमूहास्तेषामतिपेशलत्वेन यत एव तस्तैः खण्डैःपर्याच्छादकतया स्थितैः पुटपाकः प्रसवधूमोऽभ्यन्तरपाकस्तद्गन्धेन कटव उत्तेजकाः । अत्राभिपाकेन खण्डत्वं खण्डेभ्यो रसनिःसरणात्खचितत्वं कीटा- नाम् । उन्मत्ता इति । ये चोन्मत्तास्ते सिकताभ्यासाः कर्दमविलिप्तदिशो गन्धकटवः शाटीकराधाः पूर्वोक्ताः क्रियाः प्रायेण कुर्वत इति । सर्वत्रात्र महावाक्ये ध्वनिश्चङ्गा- बान्धेष्या । मातरिश्वानो वायवः । सर्वतश्चेत्यादौ। दावाग्नयः प्रत्यदृश्यन्तेति संबन्धः । भस्त्रा इतिः । संधुक्षणमु- गुफाओं में गंभीर झंकार भर कर हवा ने भयानक भ्रम उत्पन्न कर दिया । संसार को भस्म करने के अभिचार (वेदविहित हिंसात्मक कर्म) में चरु पकाने में चतुर हवा ने नीम के गुच्छों को इस तरह बरसाया मानों रुधिर की आहुति दे रही हो, हवा ने इस प्रकार वृक्षों में लगी हुई आग को तृप्त किया । हवा के वेग में आतप के तेज से बालू तारे की तरह चमकने लगे । गर्म चट्टानों से शिलाजीत का रस बह बह कर फैलने लगा । बन में लगी हुई आग की गर्मी से चिड़ियों के अंडे फूट कर पेड़ों के कोटरो में बिछ गए थे जिनमें झुलसे हुए कीड़ों से मिलकर पकने से पुटपाक की उग्र गन्ध उठ रही थी । चारों ओर भीषण बनाग्नियाँ दिखाई पड़ने लगीं । मानों वे अग्नियों हजारों भैकनियों के चलाने से क्षुमित होकर बढ़ती ही जा रही थीं । पुराने अजगर-साँप के गले की मोटी गुहा से निकलने वाली वायु उन्हें उत्तेजित कर रही थी । कहीं हिरणों की भाँति अति
द्वितीय उच्छ्वासः ८१ बरविवर्तिनो बभ्रवः, क्वचिज्जटावलम्बिनः कपिलाः, क्वचिच्छकुनिकुल- कुलायपातिनः श्येनाः, क्वचिद्विलीनलाक्षारसरोहितकछवयोधराः, क्वचि- दासादितशकुनिपक्षकृतपटुगतयो विशिखाः, क्वचिद्दग्धनिःशेषजन्महेतवो निर्वाणाः, क्वचित्कुसुमवासिताम्बरसुरभयो रागिणः, क्वचित्सधूमोद्गारा मन्दरुचयः, क्वचित्सकलजगद्ग्रासघस्मराः सभस्मकाः, क्वचिद्वेणुशिख- रलग्नमूर्तयोऽत्यन्तवृद्धाः, क्वचिदचलोपयुक्तशिलाजतवः क्षयिणः, क्वचि- त्सर्वरसभुजः पीवानः, क्वचिद्दग्धगुग्गुलवो रौद्राः, क्वचिज्ज्वलितनेत्रदह- दीपनम् । जरठाजगरा वृद्धसर्पाः । गला एव गुहा गलगुहाः । स्वच्छन्दमपविभ्रमं, यथारुचि । चरणं भक्षणम्, गमनं च । हरिणः शुक्लाः, मृगाश्च । बभ्रवः कपिलाः, नकुलाश्च । इतरत्र,-जटा मूलानि च । कपिलाः पिङ्गलाः । कपिलस्यमुनिव्रतग्र- हणान्मनुष्या एवाभेदोपचारेण कपिलाः । एते च जटावल्कलधारिणः । कुलाया नीडाः । श्येनाः शुक्लाः, पाक्तिकाश्च । अधरा धर्तुमशक्याः, अधोभवा वा । लाक्षाया विलीनतया पीतत्वात् । ओष्ठाश्चाधराः । आ समन्तात्सादिता आहताः, स्वी- कृताश्च । स्निग्धतया नीरसतया च । शकुनीनां पक्षेषु कृतपटुगतयः, निःसारतया कालस्थापितत्वात् । विगता शिखा ज्वाला येषां ते, विविधशिखाः शराश्च । निःशेषाः समस्ताः, प्राक्तनजन्मान्तरसंचिता अपि । जन्महेतवस्तुष्णाद्याः, कर्माणि च । निर्वाणाः शान्ताः, मोक्षगामिनश्च । कुसुमं धूमः, पुष्पं च । अम्बरं नभः, वस्त्रं च । रागिणो लोहिताः, शृङ्गारिणश्च । अजीर्णंकृतोऽपि धूमोद्गारः । रुचिर्दीप्तिः, भोज- नाभिलाषश्च । जगदेव ग्रासः कवलं तद्ग्रहणशीलाः । भस्मभूरिकशक्त्यशनव्याधिः । वृद्धा वृद्धिं गताः, स्थविराश्च । ते वेणुशिखरमवलम्बन्ते यष्टिं गृह्णन्ति । अचलाः पर्वताः । अन्यत्र,-क्षयस्य दीर्घकालपर्यवसायित्वादचलमविच्छिन्नं भक्षितशिलाह्वयाः उक्तं च-‘शिलाधातुप्रयोगाद्वा प्रसादाद्वाथ शांकरात् । अजामूत्रप्रयोगाद्वा क्षयः क्षीयेत नान्यथा ॥’ इति । क्षयो विनाशः, व्याधिभेदश्च यक्ष्माख्यः । रसः सलि- घामों में स्वच्छन्द विचरण करतीं, वहीं नेवला की तरह वृक्षों के नीचे विवरों में घुस पड़तीं, कहीं तपस्वियों की तरह शिखाओं की पीली जटाएं धारण करतीं, कहीं बाजों के समान पक्षियों के घोंसलों पर टूट पड़तीं, कहीं द्रवित होकर बहते हुए लाक्षारस से अधर के समान लाल हो जातीं, कहीं पक्षियों के पंख पाकर बाणों की भाँति शीघ्र बढ़ जातीं, कहीं अपने जन्म के हेतु तृण और काष्ठ आदि को जलाकर बुझने लगतीं, फूलों की सुगन्ध से बसे वस्त्र पहनने वाले रागी की भाँति कहीं धुएँ से आकाशमंडल को वासित करतीं, कहीं अस्त्रों के मारे रस का उपभोग करके स्थूल हो जातीं, रुद्रगण के समान कहीं भीषण होकर गुग्गुलु जलातीं, कहीं लपटों से पुष्पित शर और मदन आदि वृक्षों को ६ ह० च०
८२ : हर्षचरितम् नदग्धसकुसुमशरमदनाः कृतस्थाणुस्थितयः, चटुलशिखानर्तनारम्भार- भटीनाः, क्वचिच्छुष्ककासारसृतिभिः स्फुटन्नीरसनीवारबीजलाजवर्षि- भिर्ज्वालाञ्जलिभिरर्चयन्त इव घर्मघृणिम् , अघृणा इव हठहूयमानकठोर- स्थलकमठवसाविस्रगन्धगृध्नवः, स्वमपि धूममम्भोदसमुद्भूतिभियेव भक्षयन्तः सतिलाहुतय इव स्फुटद्बहलबालकीटपटलाः कच्छेषु, श्वित्रिण इव प्लोषविचटद्वल्कलधवलशम्बूकशुक्तयः, शुष्केषु सरःसु, स्वेदिन इव विलीयमानमधुपटलगोलगलितमधूच्छिष्टवृष्टयः काननेषु, खलतय इव लादिः । अत एव पीवानः । अन्यथा कथं सलिलादिभक्षणशक्तिस्त्वममीषां प्रस- ज्येत् । ये च मधुरादिसर्वरसानुपभुञ्जते ते स्थूला भवन्ति । रौद्रा भीषणाः, रुद्र- भक्ताश्च । नेत्राणां मूलानां दहनेन दग्धाः सकुसुमाः काण्डानि मदना वृक्षभेदाश्च येः । स्थाणुरिङ्गश्चाखो वृक्षः, शिवश्च । स्थितिः स्थानम्, व्यवहारश्च । स्थाणुनापि नवभाग्निना सकुसुमशरः कामो दग्धः । चटुलत्वेन नर्तनाम्भः, रवश्च । शुष्कत्वा- च्चटुलादेरारभटीग्रहणम् । कासाराणि नड्वलास्तेषु याः सृतयः । क्वचित् 'स्मृतयः' इति पाठः । इतरत्र तु-शुष्ककं शुष्कगीतं मुण्डमादि । आसा॒र्यन्त इत्यासाराः । आसारितानि यद्यपि गीयन्त एव, तथापि 'वर्धमानमथापीह ताण्डवं यत्र योज्यते' इति । ताण्डवं ह्यारभटीप्रधानम् । अर्चयन्त इवेति । तेषां तदभिमुखत्वात् । घर्म- घृणिः सूर्यः । अघृणा अजुगुप्साः । कमठः कूर्मः । 'विस्रं स्यादामगन्धि यत्' गृध्नवो लम्पटाः । समुद्भूतिः संभारः । धूमात्किल मेघोत्पत्तिर्मेघाः शमयन्ति । कीटाः कृमयः । प्लोषो दाहः । वल्कलशब्दस्वगुपलक्षणार्थः । शम्बूकाः शुक्तिमन्तः प्राणि- भेदाः । मधुपटलगोलो माक्षिककरण्डः । मधूच्छिष्टं सिकथकम् । खलतयः खल्वाटाः । जलातीं, स्थाणुओं में लगतीं, चंचल शिखाओं को फैलाकर आरभटी नृत्य का प्रदर्शन करतीं, जैसे साक्षात् शिव हों । वे दावाग्नियों सूखे जलाशयों में फैल कर नीरस नीवार नामक धान के लावे की तरह अपनी ज्वालाओं की अंजलियों से भगवान् सूर्य को मानों पूज रही थीं । घृणारहित होकर कठोर स्थलकमठों के पकते हुए मांस के लिए मानों लालायित हो रही थीं मानो मेघों के उठ जाने के भय से अपने धूम को खाती जा रही थीं । घासों में आग लग जाने से छोटे-छोटे कीड़े पड़क-पड़क कर फूटने लगे मानों अग्नि में जल की आहुति पड़ रही हो । सूखे हुए सरोवरों में उजले-उजले घोंघे और सीपियाँ आग से इस तरह चटक रही थीं मानों श्वेत कुष्ठ के रोगी की चमड़ी हों । जंगलों में आग मधुमक्खियों के छाते को उजाड़ रही थी, उनसे मधु की धार इस प्रकार बरसने लगी मानों आतप से पीड़ित की भाँति पसीना बहने लगा । विस्तृत बह्लूट प्रान्तों में