जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
१८२ सटीकजातकपारिजाते- त्रिकोणगे ज्ञे विबलैस्ततोऽपरैर्मुखाङ्घ्रिहस्तैर्द्विगुणैस्तदा भवेत् । अवागवीन्दावशुभैर्भसन्धिगैः शुभेक्षिते चेत् कुरुते गिरं चिरात् ॥ ४८ ॥ इदानीं द्विगुणाङ्गयोगो मूकयोगश्चोच्यते । ज्ञे = बुधे त्रिकोणगे = जन्मलग्नान्नवमे पञ्चमे वा स्थिते, ततोऽपरैर्बुधादितरैः सर्वैर्ग्रहैर्विबलैर्यत्र कुत्रापि निर्बलैर्जातो मुखाङ्घ्रिहस्तैर्द्विगुणै- र्युतो भवेत् । उक्तयोगे यस्य जन्म भवेत्सौ द्विमुखश्चतुर्भुजश्चतुष्पाच्च भवेदित्यर्थः । इन्दौ= चन्द्रे गवि = वृषे गतवति, अशुभैः = पापग्रहैर्भसन्धिगैः = कटकालिमीनानामन्त्यगतैर्जा- तोऽवाक् = मूको भवति । चेद्यद्यस्मिन्योगे चन्द्रः शुभेक्षितः = शुभग्रहेरवलोकितो भवेत्तदा जातस्य चिरादधिककालेन गिरं = वाचं कुरुते । अर्थादेव चन्द्रे पापेक्षिते मूक एव भवेत् । मिश्रग्रहेक्षिते बलवतो ग्रहणमिति । उक्तञ्च गर्गेण— कुलीरालिभषान्तस्थैः पापैश्चन्द्रे वृषोपगैः । मूकः पापेक्षितैः सौम्यैश्चिरेण लभते गिरम् ॥ मिश्रग्रहैर्यथावीर्य फलं बोध्यं मनीषिणा ॥ इति ॥ ४८ ॥ यदि बुध लग्नसे त्रिकोण (५।९) में हो और सब ग्रह जहां कहीं निर्बल हों तो जातक के मुख, पैर, हाथ दोगुने होते हैं, याने दो मुख, ४ पैर और ४ हाथ होते हैं। यदि चन्द्रमा वृष राशिमें हो और पापग्रह सब ऋक्ष सन्धिमें हों तो जातक गूंगा होवे। यदि इस योगमें चन्द्रमा शुभग्रहसे देखा जाता हो तो बहुत दिनोंपर वह जातक बोलता है ॥ ४८ ॥ सौम्यांशे रविजरुधिरौ चेत् सदन्तोऽत्र जातः कुब्जः स्वर्भे शशिनि तनुगे मन्दमाहेयदृष्टे ॥ पङ्गुर्मीने यमशशिकुजैर्वीक्षिते लग्नसंस्थे सन्धौ पापे शशिनि च जडः स्यान्न चेत्सौम्यदृष्टिः ॥ ४६ ॥ इदानीं सदन्तकुब्जपङ्गुजडजन्मयोगा उच्यन्ते । रविजरुधिरौ=शनिभौमौ चेद्यदि सौम्य- क्षांशे = यत्र तत्र बुधस्य राशौ (मिथुने कन्यायां वा) वा बुधस्य नवांशे (मिथुनस्य कन्याया वा नवांशे) स्थितौ भवेतां तदाऽत्र योगे जातः सदन्तो भवति, दन्तसहित एव प्रादुर्भवतीति । कुब्ज इति । शशिनि = चन्द्रे स्वर्क्षे=कर्कराशिस्ये नसति तनुगे=लग्नगते मन्दमाहेयदृष्टे=शनिभौमाभ्यामवलोकिते च जातः कुब्जः (कुबड़ Dwarf) भवति । पङ्गु- रिति । मीने = मीनराशौ लग्नसंस्थे मीनराशिलग्नं भवेदित्यर्थः, तस्मिन् यमशशिकुजैः = शनिचन्द्रमङ्गलैर्वीक्षिते=दृष्टे जातः पङ्गुः=पदविकलो (लङ्गरा Cripple) भवति । पापे= शनिभौमसूर्याणामन्यतमे, शशिनि = चन्द्रे च सन्धावृक्षसन्धौ (कर्कालिमीनान्त्ये) विद्यमाने जातो जडः = श्रोत्रेद्रियहीनो वधिर इति यावत् (Dull) भवति । चेद्यद्यस्मिन्योग- चतुष्टये सौम्यदृष्टिः = शुभग्रहाणां दृष्टिर्न स्यात्तदैवोक्तं फलं पूर्णं परिणमति । शुभदृष्टिसत्त्वे पूर्वोक्तं योगचतुष्टयं व्यर्थमेवेत्युक्तमपि सारावल्याम्— “••••••••व्यर्था भवन्ति योगाः सौम्यग्रहवीक्षिताः सर्वे” इति ॥ ४९ ॥ शनि और मङ्गल किसी भी राशिमें बुधके नवांशमें (३ के या ६ के नवांशमें) हों तो बालक दांतके सहित जन्म लेवे । चन्द्रमा अपनी राशि (४) का होकर लग्नमें हो उसपर शनि और मङ्गलकी दृष्टि हो तो जातक कुबड़ा होवे । यदि मीनराशि जन्मलग्न हो उसपर शनि, चन्द्रमा और मङ्गलकी दृष्टि होवे तो जातक लङ्गड़ा होवे। यदि चन्द्रमा और पापग्रह ऋक्षसन्धिमें हों तथा उसपर शुभग्रहकी दृष्टि नहीं हो तो जातक जड़ (बधिर) होवे ॥४९॥ सौरशशाङ्कदिवाकरदृष्टे वामनको मकरान्त्यविलग्ने । धीनवमोदयगैश्च दृगाणैः पापयुतैरभुजाङ्घ्रिशिराः स्यात् ॥ ५० ॥ लग्नद्रेक्काणगो भौमः सौरसूर्येन्दुवीक्षितः । कुर्याद्विशिरसमन्तद्वन् पञ्चमे बाहुवर्जितम् ॥ ५१ ॥
जातकमङ्गाध्यायः ॥ ६ ॥ १८३ इदानीं वामनहीनाङ्गयोगौ कथ्येते । मकरान्त्यविलग्ने = मकरराशेरन्त्यो नवांशको लग्ने भवेत् तस्मिन् सौरशशाङ्कदिवाकरदृष्टे = शनिश्चन्द्रसूर्यैरवलोकिते जातो वामनको लघूकायो भवति । धीनवमेति । धीः पञ्चमः, नवमः, उदयो लग्नं एतत्त्रयगतैर्द्रेष्काणैः पापयुतैः, सौर- शशाङ्कदिवाकरदृष्टैर्जातोऽभुजाङ्घ्रिशिराः स्यात् । अत्र पञ्चमे भावे यो द्रेष्काणस्तस्मिन्पापे- नाङ्गारकेण युते सूर्यचन्द्रशनिभिर्दृष्टे जातोऽभुजो भुजहीनो भवेत् । नवमे भावे यो द्रेष्का- णस्तस्मिन्नङ्गारकेण युते सूर्यचन्द्रशनिदृष्टे जातोऽङ्घ्रिहीनो विपदो भवेत् । लग्ने यो द्रेष्का- णस्तस्मिन्भौमे गतवति सौरशशाङ्कदिवाकरदृष्टे जातोऽशिराः शिरोरहितो भवेदिति । तथोक्तं भगवता गार्गिणा— “लग्नेद्रेष्काणगो भौमः सौरसूर्येन्दुवीक्षितः । कुर्याद् विशिरसं तद्वत्प्रक्रमे बाहुवर्जितम् । विपदं नवमस्थाने यदि सौम्यैर्न वीक्षितः” इति । अत्रापि शुभदृष्टिसत्त्वे उक्तयोगानां भङ्ग एव भवति ‘यदि सौम्यैर्न वीक्षितः’ इति गार्गि- वचनाद्बोध्यम् । अत्र ५१ श्लोकस्तु ५० श्लोकोक्तधीनवमोदयगैश्च दृगाणैरित्यस्य स्पष्टीक- रणमेवेत्यलं विस्तरेण ॥ ५०-५१ ॥ मकरके अन्त्यका ( ९।२७°-३०° ) लग्न हो उसे शनि, चन्द्र और सूर्य देखते हों तो वामन हो । पञ्चम, नवम और लग्नका द्रेष्काण पापग्रहसे युक्त हो तो जातक क्रमसे बिना हाथ, पैर, शिरका होवे ॥ ५० ॥ लग्नके द्रेष्काणमें मङ्गल हो शनि, सूर्य और चन्द्रमा उसे देखते हों तो बिना शिरवाला हो और यही योग पञ्चममें हो तो हस्तहीन हो । ( सु शा. कार ) ॥ ५१ ॥ रविशशियुते सिंहे लग्ने कुजार्किनिरीक्षिते नयनरहितः सौम्यासौम्यैः सबुद्बुदलोचनः ॥ व्ययगृहगतश्चन्द्रो वामं हिनस्त्यपरं रवि- र्न शुभगदिता योगा याप्या भवन्ति शुभेक्षिताः ॥ ५२ ॥ इदानीं विकलनयनयोगा उच्यन्ते । सिंहे लग्ने रविशशियुते=सूर्यचन्द्रमसौ जन्मलग्न- अन्तर्गतसिंहराशौ भवेतां तस्मिन्, कुजार्किनिरीक्षिते=भौमशनिभ्यामवलोकिते जातो नयन- रहितोऽन्धो भवति । तस्मिन्नेव योगे सौम्यासौम्यैः = शुभग्रहैः पापग्रहैश्च निरीक्षिते जातः सबुद्बुदलोचनः=पुष्पिताक्षः ( Blear eyed ) भवति=अत्रैतदवधेयम् । यदि सिंहलग्ने केवलं सूर्यः कुजार्किनिरीक्षितो भवेत्तदा दक्षिणाक्षिकाणः, मिश्रग्रहैर्निरीक्षितस्तदा दक्षिण- बुद्बुदाक्षो भवति । केवलं चन्द्रः सिंहलग्ने कुजार्किनिरीक्षितो वामाक्षिकाणः, सौम्यासौम्यै- र्निरीक्षितो वाम-बुद्बुदाक्षो भवति । व्ययगृहेति । चन्द्रो लग्नाद् व्ययगृहं गतो द्वादशभा- वगतश्चेद् वामं नेत्रं हिनस्ति । तदानीं जातो वामाक्षिकाणो भवति : रविर्व्ययगृहगतोऽपरं = दक्षिणं नयनं हिनस्ति । न शुभगदितेति । पूर्वोक्ताः सर्वे योगा न शुभगदिताः = अशुभफल- दास्ते चेच्छुभेक्षिताः=शुभग्रहदृष्टा भवेयुस्तदा याप्या भवन्ति । पूर्णं फलं न ददति किन्तु किञ्चिदेव फलं प्रयच्छन्तीत्यर्थः । तथैवाह सारावल्याम्— स्यातां यद्याधाने रविशशिनौ सिंहराशिगौ लग्ने । दृष्टौ कुजसौरिभ्यां जात्यन्धः सम्भवति तत्र ॥ आग्नेयसौम्यदृष्टौ रविशशिनौ बुद्बुदेक्षणं कुरुतः । नयनविनाशोऽपि यथा तथाऽधुना सम्प्रवक्ष्यामि ॥ व्ययभवनगतश्चन्द्रो वामं चक्षुर्विनाशयति हीनः । सूर्यस्तथैव चान्यच्छुभेक्षितौ याप्यतां नयतः ॥ इति ॥
१८४ सटीकजातकपारिजाते- Notes-पूर्वोक्ता एते श्लोका बृहज्जातके सारावल्यां चाधानकालिकविचाराहीः, परञ्च तत्रैव 'जन्मन्वाधाने प्रश्नकाले वे'त्यपि दर्शनाज्जन्मकालेऽपि विचारणीया इति ॥ ५२ ॥ सिंह लग्नमें सूर्य और चन्द्र हों उन्हें मङ्गल और शनि देखते हों तो वह बालक नेत्र- रहित हो । यदि शुभग्रह पापग्रह दोनों देखते हों तो बुद्बुद नेत्र हो । व्ययमें चन्द्रमा हो तो वाम नेत्रकी हानि करे और सूर्य हो तो दक्षिण नेत्रकी हानि करे । अशुभ ग्रहोंके देखने से ये योग होते हैं। यहां शुभ ग्रहके देखनेसे उससे न्यून फल होता है ॥ ५२ ॥ शूरः स्तब्धो मध्यदृष्टिर्विलग्ने मेषे स्वोच्चे रोगदृक् सिंहगेऽर्के । रात्रावन्धस्तौलिगे निर्द्धनी स्यात् कर्किण्यर्के लग्ने बुद्बुदाक्षः ॥ ५३ ॥ इदानीं रखेः स्थितिवशेन नेत्रविकारयोगा उच्यन्ते । अर्के=सूर्ये विलगने जन्मकाले गते सति जातः शूरः=सङ्ग्रामी, स्तब्धश्चिरकार्यकृत्, मध्यदृष्टिस्तर्यङ्नयनश्च भवेत् । एतत्किल सामान्येन लग्नगतसूर्यफलम् । मेष-सिंह-तुला-कर्कलग्नगतेऽर्के फले वैलक्षण्यं तदुच्यते । मेषे स्वोच्चे लग्ने गतेऽर्के रोगदृक्=नेत्ररोगी भवति । सिंहगेऽर्के=सिंहराशिगतलग्ने विलसति सूर्ये जातो रात्रावन्धो निशान्धो भवति । तौलिगे =तुलालग्ने (नीचे) गतेऽर्के जातो निर्धनी=दरिद्रो भवति । अर्के=सूर्ये कर्किणि लग्ने=कर्कराशिलग्ने गतवति जातो बुद्बु- दाक्षः = पुष्पिताक्षो भवति । उक्तमपि बृहज्जातके- "शूरस्तब्धो विफलन्नयनो निर्घृणोऽर्के तनुस्थे, मेषे सखस्तिनिरनयनः, सिंहसंस्थे निशान्धः नीचेऽन्धोऽस्वः, शशिगृहगते बुद्बुदाक्षः पतङ्गे, भूरिद्रव्यो नृपहतधनो वक्त्ररोगी द्वितीये इति"॥ यदि सूर्य जन्मलग्नमें हो तो जातक शूर (संग्रामप्रिय), स्तब्ध (चिरकार्य कर्त्ता) और मध्यनेत्र होवे । सूर्य यदि मेष लग्नका हो तो नेत्रमें रोग हो । सिंह लग्नमें सूर्यके होनेसे रात्र्यन्ध हो । तुला लग्नस्थ सूर्य हो तो दरिद्र हो । कर्क लग्नमें सूर्य हो तो बहुत छोटी आंखें हों ॥ ५३ ॥ व्यये रवीन्दू युगपत् पृथक्स्थौ नेत्रे हरेतामपसव्यसव्ये । पट्छिद्रगाश्चाक्षि हरन्ति पापाः सव्यं रिपौ दक्षिणमष्टमस्थाः ॥ ५४ ॥ रवीन्दू=सूर्याचन्द्रमसौ युगपत्सम्मिलितौ व्यये = लग्नाद् द्वादशगतौ भवेतां तदा जा- तस्य नेत्रे=द्वे चक्षुषी हरेतां = विनाशयेताम् । तावेव सूर्येन्दू व्यये पृथक्स्थौ भवेतां तदा सव्यापसव्ये नेत्रे हरेतामर्थात् सूर्यो हि केवलं व्यये तदा दक्षिणं नेत्रं, चन्द्रः केवलं व्यये स्थितो वामं नेत्रं नाशयतीति । षट्छिद्रगा इति । पापाः=पापग्रहाः षट्छिद्रगाः षष्ठष्टमा- वगताश्चाक्षि=नेत्रं हरन्ति = नाशयन्ति । तत्र रिपौ = षष्ठे स्थिताः पापाः सव्यं = वामनेत्रे हरन्ति, अष्टमस्थाः पापा दक्षिणं नेत्रं हरन्ति । तथोक्तमपि सर्वार्थचिन्तामणौ- दिनेशचन्द्रौ व्ययगौ तदानीमन्धो भवेत्सौम्यदृशा विहीनौ । युक्ते तयोरन्यतरेण रिफे काणो भवेत्सौम्यदृशा विहीने ॥ उक्तयोगे शुभग्रहदृष्टिसत्त्वे न तयोगफलमिति सर्वार्थचिन्तामण्युक्तवचनाद्बोध्यमिति ॥ यदि सूर्य और चन्द्रमा दोनों १२ वें भावमें हों तो दोनों आंखोंसे अन्धा हो । यदि केवल सूर्य १२ वें हो तो दाहिनी आँख और केवल चन्द्रमा १२ वें हो तो बांयी आंख अन्धी हो । या पापग्रह (मं० श० रा० के० सू०) छठे, आठवें भावोंमें हों तो आंखें अन्धी होती हैं। यहां भी छठेमें पापग्रह बांयी आंख और आठवेंमें दाहिनी आंखको नष्ट करते हैं ॥५४॥ विकर्त्तनो लग्नगतोऽस्तगो वा दिनेशपुत्राभियुतेक्षितश्चेत् । तस्येक्षणं दक्षिणमाशु हन्यादहिंक्ष्मासूनुयुतस्तु वामम् ॥ ५५ ॥ विकर्त्तनः=सूर्यो लग्नगतो वा अस्तगतः=सप्तमभावगतो दिनेशपुत्रेण=शनिनाऽभियु- तेक्षितः=सहितोऽवलोकितो वा चेद्भवत्तदा तस्य जातस्य दक्षिणमीक्षणं=चक्षुराशु=शीघ्रमेव
जातकमञ्जर्याध्यायः ॥ ६ ॥ १८४ हन्यान्नाशयते । स एव लग्नगतो वा सप्तमस्थो रविरहिक्षमासूनुभ्यां = राहुभौमाभ्यां चेद्युतो भवेत्तदा तु वामं चक्षुर्हन्यादिति ॥ ५५ ॥ यदि सूर्य लग्न या ७ वें भावमें हो उसे शनि देखता हो या शनि सूर्यके साथ हो तो जातककी दाहिनी आंख नष्ट करता है। यदि लग्नस्थ या ७ मस्थ सूर्य राहु और मङ्गलसे युक्त हो तो बांयीं आंख नष्ट करता है । ( सु० ज्ञा० कार ) ॥ ५५ ॥ दिनेशचन्द्रौ यदि रिष्फयातौ सपत्नरण्ध्रव्ययगास्त्वसौम्याः । हन्यादरिस्थो नयनं हि वामं रन्ध्रस्थितो दक्षिणभागनेत्रम् ॥ ५६ ॥ दिनेशचन्द्राविति । सूर्यचन्द्रमसौ यदि जन्मलग्नात् रिष्फयातौ=द्वादशभावगतौ भवेतां तथैव चासौम्याः=पापग्रहाः सपत्नरन्ध्रव्ययगाः=षष्ठष्टव्ययभावगतास्तु भवेयुः ( तुशब्दोऽत्र पक्षान्तरवाची ) तदा जातस्य नेत्रद्वयं विनश्यति । हन्यादिति । अरिस्थः षष्ठस्थो हि पापग्रहो वामं नेत्रं हन्यात् । तथा रन्ध्रस्थितोऽष्टमभावगतः पापो दक्षिणभागनेत्रं इत्यादीति । श्लोकोऽयं ५४ श्लोकतुल्यार्थ एवेति ॥ ५६ ॥ वा यदि सूर्य और चन्द्र बारहवें हों, षष्ठ, अष्टम और द्वादशभावमें पाप हों तो षष्ठ- स्थानीय ग्रह वाम नेत्रका नाश करे और अष्टमस्थ ग्रह दक्षिण नेत्रका नाश करे ॥ ५६ ॥ कुजे धनेशे निधने रवीन्द्रोः शत्रुव्ययस्थानगतेऽर्कजेऽन्धः । रन्ध्रावसानारिगते शशाङ्के शनौ सभौमे यदि नष्टनेत्रः ॥ ५७ ॥ कुज इति ! धनेशे=द्वितीयभावपतौ कुजे रवीन्द्रोः = सूर्याचन्द्रमसोरेकस्थयोः सकाशा- न्निधनेऽष्टमे गते, अर्कजे = शनैश्चरे शत्रुव्य- यस्थानगे=रवीन्द्रोः षष्ठे वा द्वादशे गते जातो- ऽन्धो भवति । रन्ध्रेति । शशाङ्के=चन्द्रे रन्ध्रा- वसानारिगते=लग्नात् षष्ठष्टव्ययभावगते, शनौ सभौमे=कुजयुते च यदि जन्म भवेत्तदा जातो नष्टनेत्रो गलितनेत्रो (Sightless) भवति । [कुण्डली १: लग्न ७ | २ भाव ८ | ३ भाव ९ | ४ भाव १० | ५ भाव ११ | ६ भाव १२ | ७ भाव १ मं. | ८ भाव २ | ९ भाव ३ | १० भाव ४ | ११ भाव श. ५ मं. | १२ भाव ६ र. चं.] यदि मंगल द्वितीयेश होकर सूर्य और चन्द्रमासे ८ वें भावमें हो और शनि ६ ठे वा १२ वें भावमें हो तो जातक अन्धा हो । यदि चन्द्रमा ८, १२, ६ भावमें हो और शनि मङ्गलके साथ हो तो ( नष्ट नेत्र ) हो । ( सु० ज्ञा० कार ) ॥ ५७ ॥ षष्ठे चन्द्रेऽष्टमे भानौ लग्नादन्त्यगतेऽर्कजे । वित्तस्थानगते भौमे शक्रोऽप्यन्धो भवेद् ध्रुवम् ॥ ५८ ॥ षष्ठ इति । चन्द्रे लग्नात्षष्ठे, भानौ = सूर्ये लग्नादष्टमे, अर्कजे = शनौ लग्नादन्त्यगते, भौमे वित्तस्थानगते=द्वितीयभावगते चात्र योगे जातो नरः शक्रोऽपि=महेन्द्रसमोऽप्य- न्धो ध्रुवं = निश्चयेन भवेदिति । तथा च बृह- ज्जातके- निधनारिधनव्ययस्थिता रविचन्द्रारयमा यथा तथा । बलवद्ग्रहदोषकारणे- र्मनुजानां जनयन्त्यनेत्रताम् ॥ ५८ ॥ [कुण्डली २ (प्रबलान्ध-योगः): मं. (२ भाव) | ल. (१ भाव) | श. (१२ भाव) | मध्य: प्रबलान्ध-योगः | चं. (६ भाव) | सू. (८ भाव)]
१८६ सटीकजातपारिजाते- चन्द्रमा छठे हो, सूर्य आठवें हो, लग्न से १२ वें शनि हो और दूसरे मङ्गल हो तो इस योगमें इन्द्र भी निश्चय अन्धा हो ॥ ५८ ॥ लग्नेश्वरेण सहिते यदि वित्तनाथे दुःस्थेऽक्षिनाशनमथास्फुजिदिन्दुयुक्ते । नेत्रेश्वरे तनुगते यदि नैशिकोऽन्धः स्वोच्चे शुभग्रहयुते न तथा वदन्ति ॥५६॥ लग्नेश्वरेणेति । यदि वित्तनाथे=द्वितीयभावेशे लग्नेश्वरेण=लग्नपतिना सहिते दुःस्थे= षडष्टव्ययगे जन्म भवेत्तदा जातस्याक्षिनाशनं=नेत्रविनाशं ब्रूयात् । अथेति । अथानन्तरं- नेत्रेश्वरे=द्वितीयभावेशे आस्फुजिदिन्दुयुक्ते=शुक्रचन्द्रसहिते तनुगते=लग्नगते यदि जायते तदा नैशिकोऽन्धो रात्र्यन्धो ( Night blind ) भवति । तस्मिन्नेत्रेश्वरे स्वोच्चे स्वकीयोच्चराशिगते शुभग्रहयुते च तथाऽन्धत्वं न वदन्ति विप्रा इति ॥ ५९ ॥ यदि द्वितीयभावेश लग्नेशसे युक्त होकर ६, ८, १२ में हो तो आंखें अन्धी हो। यदि द्वितीयेश शुक्र और चन्द्रमाके साथ होकर लग्नमें हो तो जातक रात्र्यन्ध हो । यदि वह द्वितीयेश उच्चगत ग्रह और शुभग्रहसे दृष्ट हो तो वैसा न हो याने आंखें अच्छी हों
जातकमञ्जर्याध्यायः ॥ ६ ॥ १८७ tion and asthma) रोगैः व्यथितो भवति। भौम इति। भौमे=मङ्गले विलग्ने तस्मिन् शनिसूर्यदष्टे=शनिना सूर्येण चावलोकिते जातो मनुष्यो बसूरिरोगेन=वसन्तरोगेन (Sma- llpox) अभिहतः पीडितो भवेदिति ॥ ६२ ॥ सूर्य लग्नमें हो उसे मंगल देखता हो तो गुल्म, क्षय और श्वास रोगसे पीडित हो। मंगल लग्नमें हो उसे शनि और सूर्य देखते हों तो शीतला रोगसे मनुष्य हत हो ॥ ६२ ॥ पापेक्षिते रविसुते धनराशियुक्ते पापान्विते शूनकभीतिमुपैति मर्त्यः । तद्भावनाथसहिते दिननाथपुत्रे दृष्टेऽथ वा शूनकभीतिमुपैति जातः ॥ ६३ ॥ इदानीं कुक्कुरकर्त्तृकरोग उच्यते । पापेक्षित इति । पापग्रहेण=रविणा भौमेन वेक्षिते= दृष्टे, रविसुते=शनैश्चरे पापेन=भौमेन सूर्येण वाऽन्विते=युक्ते तथाभूते धनराशियुक्ते=द्विती- यभावगते जातो मर्त्यो नरः शूनकेन = कुक्कुरेण भीतिं = भयमुपैति = प्राप्नोति । कुक्कुरेण दंश्यत इत्यर्थः । तदिति । दिननाथपुत्रे = शनैश्चरे तद्भावनाथेन=द्वितीयभावपतिना सहितेऽ- थवा दृष्टे जातो नरः शूनकभीतिमुपैति ॥ ६३ ॥ द्वितीय भावमें शनि पापग्रहसे दृष्ट वा युत हो तो मनुष्यको कुत्तेका भय प्राप्त हो। यदि शनि २ रे भावके स्वामीसे युक्त हो वा दृष्ट हो तो मनुष्यको कुत्तेका भय होता है ॥६३॥ वीर्यान्विते राहुसमेतराशिनाथान्विते राहुयुते विलग्ने । सर्पाद् भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगमेति ॥ ६४ ॥ इदानीं सर्पाद्भययोगो गलरोगयोगश्चोच्यते । वीर्यान्वित इति । वीर्यान्विते = सबले तृतीयभावेशे राहुसमेतराशिनाथान्विते = राहुणा समेतो यो राशिस्तन्नायेन सहिते, विलग्ने राहुयुते वा सर्पाद्भयमेति जातक इति । अथ-विक्रमराशिनाथे = तृतीयभावेशे बुधेन युक्ते जातो गलरोगं=कण्ठरोगं प्राप्नोति । अयमेव श्लोको द्वादशाध्याये ४२ तमे श्लोके 'वीर्या- न्विते' इत्यत्र 'शौर्याधिपे' इति पाठान्तरं कृत्वा वक्ष्यते । अन्यत्सर्वं समानमेव ॥ ६४ ॥ सहजेश राहुसे युत राशिके स्वामीसे युत हो, वा राहुलग्नमें प्राप्त हो तो सर्पसे भय होवे। तृतीयका पति बुधसे युक्त हो तो गळ रोग होवे ॥ ६४ ॥
[कुण्डली १ - सर्पभयं]
- तनु (१): १ रा.
- धन (२): २
- सहज (३): ३
- सुख (४): ४
- सुत (५): ५
- रिपु (६): ६ बु. मं.
- जाया (७): ७ के.
- मृत्यु (८): ८
- भाग्य (९): ९
- कर्म (१०): १०
- आय (११): ११
- व्यय (१२): १२
- मध्य फल: सर्पभयं
[कुण्डली २ - गलरोगः]
- तनु (१): २
- धन (२): ३
- सहज (३): ४
- सुख (४): ५
- सुत (५): ६
- रिपु (६): ७
- जाया (७): ८ चं. बु.
- मृत्यु (८): ९
- भाग्य (९): १०
- कर्म (१०): ११
- आय (११): १२
- व्यय (१२): १
- मध्य फल: गलरोगः
नीचे तृतीयेऽरिगृहे विमूढे पापेक्षिते तद्गलरोगवान् स्यात् । विषप्रयोगाद्द्विषभक्षणाद्वा तेषामभावेऽर्थविनाशनाथैः ॥ ६५ ॥ तृतीये=तृतीयभावे नीचे=नीचवर्तिनि, अरिगृहे=शत्रुराशिके विमूढे=अस्तङ्गते वा ग्रहे पापेक्षिते = पापग्रहदृष्टे । एतदुक्तं भवति । लग्नात् तृतीयभावे यो ग्रहः स नीचवर्ती, शत्रुशशिकः, अस्तो वा भवेत्तस्मिन्नशुभग्रहेण दृष्टे, तद्गलरोगवान् = तस्मिन् योगे जातो नरः कण्ठरोगी भवति । तत्र गलरोगे हेतुरुच्यते । विषप्रयोगाद्विषभक्षणाद्वा । विषस्य प्रयो- गाद्यथाहाराद्वा विषस्य भक्षणाद्गलरोगी भवेत् , यथा नीलकण्ठः । तेषामुक्तप्रयोगानामभावे
अर्थविनाशनार्थः = सञ्चितानामर्थानां = धनानां विनाशनार्थोऽपव्ययकारको भवति ॥ ६५ ॥ ६ रे भावमें नीचस्थ ग्रह, शत्रुराशिस्थ या अस्तग्रह यदि पापग्रहसे देखा जाता हो तो वह विषके प्रयोगसे, विषके खानेसे गलरोगवान् हो । इनके अभावमें धनका नाश होता है ॥ पापे तृतीये गलरोगमत्र वदन्ति मान्द्यादियुते विशेषात् । भौमान्विते प्रेतपुरीशसूनौ तृतीयराशौ यदि कर्णरोगम् ॥ ६६ ॥ इदानीं गलरोगयोगान्तरं कर्णरोगयोगञ्चाह-पाप इति । तृतीये भावे पापे=रविभौम- शनीनामन्यतमे विलसति, अत्र योगे जातस्य गलरोगं विज्ञा वदन्ति । तस्मिन् सपापे तृतीये मान्द्यादियुते=गुलिकायप्रकाशग्रहयुते विशेषाच्चिश्चयेन गलरोगं ब्रूयात् । अथ तृतीय- राशौ = सहजभावे भौमान्विते = समङ्गले प्रेतपुरीशसूनौ = प्रेतानां पुरीशो यमलोकेशो यमः शनिस्तत्स
केतू यदि सर्पपीडां चोरादिभिर्भीतिमुपैति जातः ।`
Line 33:
केन्द्रत्रिकोणे यदि साहिकेतू वदन्ति तज्ज्ञा निगलं तदानीम् ॥ ७४ ॥
Line 34:
इदानीं ज्वररोगं जलप्रमादं स्फोटकरोगञ्चाह-लग्नेश इति । लग्नेशषष्ठाधिपती यत्र
Line 35:
तत्र यदि दिनेशेन = सूर्येण युक्तौ भवेतां तदा ज्वरं=ज्वररोगं ब्रूयात् । तौ लग्नेशषष्ठेशौ
Line 36:
चेत् चन्द्रेण समन्वितौ भवेतां तदा जले प्रमादं=अकस्माज्जले प्रमज्जनं स्यात् । तावेव
Line 37:
लग्नेशषष्ठेशौ क्षितिसूनुना = भौमेन युक्तौ भवेतां तदा युद्धेन=सङ्ग्रामेण वा स्फोटकराशि-
Line 38:
भिरुष्णधातुप्रकोपात् ( गन्धक वारुदादि ) जातं रोगं ब्रूयात् जातकस्येति ॥ ७२ ॥
Line 39: `इदानीं पित्तप्रमादं निर्व्याधिं भार्याविपदमनिलरोगञ्चाह—पित्तादिति । तावेव लग्
१६० सटीकजातसपारिजाते- ष्ठेशौ शुक्रेण समन्वितौ भवेतां तदा जातस्य भार्याविपदं=स्त्रीमरणं विद्वा वदन्ति । मन्देन= शनिना युक्तौ लग्नेशषष्ठेशौ तदा जातस्य नीचानिलरोगं = नीचानिलमपानवायुः तज्जात- रोगं = गुदारोगमाचार्या आहुरुच्चरिति ॥ ७३ ॥ अथ सर्पपीडाचौरभीतिनिगलयोगानाह-सराहकेत्विति । तावेव लग्नेशषष्ठेशौ यदि सराहुकेतू=राहुणा केतुना वा सहितौ भवेतां तदा जातस्य सर्पपीडां कुरुतोऽर्थादस्मिन्योगे जातः सर्पेण दंश्यते, तथा चौरादिभिस्तस्करादिभिर्भीतिं = भयमुपैति=प्राप्नोति । अथ तौ यदि केन्द्रत्रिकोणे साहिकेत् भवेतामर्थात् अहिना=राहुणा, केतुना वा सहितौ केन्द्रे वा त्रिकोणे भवेतां तदानीं जातं नरं निगलं=गलामययुक्तं तज्ज्ञा विद्वांसो वदन्ति ॥ ७४ ॥ लग्नेश और षष्ठेश सूर्यसे युक्त हों तो ज्वर हो । चन्द्रमासे युक्त यदि हों तो जलमें डूबने का भय हो। मङ्गलसे युक्त हों तो युद्धसे वा स्फोटक समूह (गैंश वगैरह) से भय हो ॥७२॥ यदि बुधसे युक्त हों तो पित्तके प्रमादसे भय हो । गुरुसे युक्त हो तो व्याधिसे रहित हो । शुक्रसे युक्त हो तो स्त्रीका मरण हो । शनिसे युक्त हो तो अधोवायुका रोग मुनि लोग कहे हैं ॥ ७३ ॥ राहु या केतुसे युक्त हों तो सर्प की पीड़ा हो और जातकको चोरादिका भय प्राप्त हो । केन्द्र त्रिकोणमें राहु, या केतुसे युक्त हो तो निगल रोग पण्डित लोग कहते हैं ॥ ७४ ॥ इदानीं लिङ्गच्छेदनयोगो लिङ्गरोगयोगश्चोच्येते-- षष्ठेश्वरश्चन्द्रसुतेन युक्तः सागुर्विलग्ने स्वयमत्र शिश्नम् । छिनत्त्यसौ सौम्यदृशा विहीनः सभूमिपुत्रो यदि लिङ्गरोगी ॥ ७५ ॥ षष्ठेश्वर इति । षष्ठेश्वरः=षष्ठभावाधिपतिश्चन्द्रसुतेन=बुधेन युक्तः सागू राहुयुक्तोऽपि यदि विलग्ने=जन्मलग्रे स्थितो भवेत्तदाऽत्र जातो नरः स्वयमेव शिश्नं = लिङ्गं छिनत्ति= कर्त्तयति । असौ=षष्ठेश्वरः सौम्यदृशा विहीनः=शुभदृष्टिरहितो भवेत्तथा सभूमिपुत्रो मङ्ग- लेन युक्तश्च भवेत्तदा जातो लिङ्गरोगी=मूत्रकृच्छ्रादि-(सूजाक) रोगयुतो भवेदिति ॥७५॥ षष्ठ भावका स्वामी बुध और राहुसे युक्त होकर लग्नमें हो तो वह जातक अपने लिङ्ग को स्वयं कटावे । यदि मङ्गलसे युक्त हो, उसे शुभग्रह न देखते हों तो जातक लिङ्गरोगी हो ॥ इदानीं स्त्रीक्लीबयोगं बन्धनयोगञ्चाह- कामेश्वरः शुक्रयुतो रिपुस्थः कलत्रषण्ढत्वमुदीरयन्ति । षष्ठेशलग्नाधिपती समन्दौ केन्द्रत्रिकोणे यदि बन्धनं स्यात् ॥ ७६ ॥ कामेश्वर इति । कामेश्वरः=सप्तमभावेशः शुक्रयुतो रिपुस्थः = षष्ठभावगतो भवेत्तदा जातस्य कलत्रषण्डत्वं=स्त्रियाः क्लीबत्वं उदीरयन्त्यार्याः । अत्र योगे जातस्य स्त्री क्लीबत्व- माप्नुयादित्यर्थः । यदि षष्ठेशलग्नाधिपती = षष्ठेशलग्नेशौ समन्दौ = मन्देन शशिना युक्तौ केन्द्रे ( १।४।७।१० ) त्रिकोणे ( ५।६ ) वा भवेतां तदा जातस्य बन्धनं = कारागारादौ यातनं भवेदिति ॥ ७६ ॥ सप्तमेश शुक्रसे युक्त षष्ठ स्थानोंमें हो तो उसकी स्त्री नपुंसकी हो । षष्ठेश और लग्नेश शनिसे युक्त होकर केन्द्रमें या कोणमें हो तो बांधा जाय ॥ ७६ ॥ इदानीमभिचारकृतरोगयोगमाह- चरे विलग्ने रिपुनाथदृष्टे कुजे च लाभे स्थिरगे च धर्मे । द्वन्द्वेऽस्तराशौ प्रवदेन्नराणां रोगं रिपूणां कृतमाभिचारम् ॥ ७७ ॥ चर इति । चरे=मेष-कर्क-तुला-मकराणामन्यतमे विलग्ने = जन्मलग्ने तस्मिन् रिपुना- थदृष्टे = षष्ठेशेन दृष्टे च, कुजे = मङ्गले लाभे = एकादशभावे, धर्मे=नवमभावे स्थिरगे=स्थिर- राशि ( २।५।८।११ ) गते च, अस्तराशौ=सप्तमे भावे द्वन्द्वे=द्विस्वभावराशि (३।६।९/१२)
जातकभङ्गाध्यायः ॥ ६ ॥ १६१ गते च ( च शब्दोऽत्र पक्षान्तरार्थे ) नराणां = तदानीं जातानां रिपूणां=द्विषां कृतं सम्पा- दितमाभिचारं=कृत्या प्रयुक्तं रोगं ( मन्त्रादिप्रयोगोत्पादितं ) प्रवदेदिति ॥ ७७ ॥ चर राशिका लग्न हो षष्ठेश उसको देखता हो, या मङ्गल लाभमें हो, या धर्ममें स्थिर राशि हो, सप्तम द्विश्वभाव हो तो शत्रुओंके किये हुए अभिचार (प्रयोग) से रोग हो ॥७७॥ इदानीं वैकल्यं शरीरशोषणञ्चाह— जीवे समन्दे दशमेऽर्धचन्द्रे वैकल्यमङ्गे क्षितिजे कलत्रे । दिनेशचन्द्रौ रविराशियुक्तौ चन्द्रर्क्षगौ वा यदि शोषणं स्यात् ॥ ७८ ॥ जीव इति । जीवे=गुरौ यत्र तत्र समन्दे = शनियुक्ते, अर्धचन्द्रे = सूर्यादुभयत्र त्रिरा- शिभितान्तरे विद्यमानश्चन्द्रोऽर्धो भवति तथा सार्द्धसप्तम्यां तिथौ भवतीति बोध्यम् । तस्मिन्नर्धचन्द्रे दशमे भावे गतवति, क्षितिजे=भौमे कलत्रे = सप्तमभावगते जातस्याङ्गे शरीरे वैकल्यं = दौर्बल्यं वाच्यम् । दिनेशचन्द्राविति । सूर्याचन्द्रमसौ रविराशियुक्तौ=रवेः राशिः=सिंहस्तद्गतौ वा चन्द्रर्क्षगौ=कर्कराशिगतौ यदि भवेतां तदा शोषणं जातस्य शरीरे शोषणम् अस्थिमात्रमेवावशेषं ब्रूयादिति ॥ ७८ ॥
[कुण्डली १ - वैकल्यम्]
- लग्न (१): १ सू. १०°
- धन (२): २
- सहज (३): ३
- सुख (४): ४
- सुत (५): ५
- रिपु (६): ६
- जाया (७): ७ मं.
- आयु (८): बृ.श.८
- कर्म (१०): १० चं. १०°
- व्यय (१२): १२
- मध्य: वैकल्यम्
[कुण्डली २ - शोषणं]
- लग्न (१): १
- सुख (४): ४ सू. चं.
- सुत (५): ५ सू. चं.
- मध्य: शोषणं
बृहस्पति शनिके साथ हो, अर्धचन्द्र दशममें हो सप्तममें मंगल हो तो जातक विकल हो। सूर्य और चन्द्रमा सूर्यकी राशि ( सिंह ) में हों वा चन्द्रराशि ( कर्क ) में हों तो शोषण ( सूखा ) रोग हो ॥ ७८ ॥ इदानीमनेन श्लोकेनोन्मादयोगमाह— लग्ने रवौ भूमिसुते कलत्रे सून्मादभाक् तत्र नरो हि जातः । उन्मादबुद्धिं समुपैति लग्ने शनौ कलत्रे सकुजे त्रिकोणे ॥ ७६ ॥ लग्न इति । सरलार्थः ॥ ७९ ॥
[कुण्डली ३ - उन्माद]
- लग्न (१): सू.
- जाया (७): मं.
- मध्य: उन्माद
[कुण्डली ४ - उन्मादबुद्धि]
- लग्न (१): श.
- सुत (५): मं.
- जाया (७): मं.
- भाग्य (९): मं.
- मध्य: उ० बु०
लग्नमें सूर्य हो, सप्तममें मंगल हो तो मनुष्य उन्माद भागी ( पागल ) होवे। लग्नमें शनि, सप्तम, या त्रिकोणमें मंगल हो तो मनुष्यकी उन्माद बुद्धि होती है ॥ ७९ ॥
१६२ सटीकजातकपारिजाते- इदानीमुन्मादबुद्धियोगमाह— लग्नत्रिकोणे दिननाथचन्द्रौ शौर्ये गुरौ केन्द्रसमन्विते वा । सोन्मादबुद्धिः स भवेत्तदानीं शरासनादौ यदि जन्मलग्ने ॥ ८० ॥ लग्नत्रिकोण इति । यदि शरासनादौ=धनुराश्यादौ जन्मलग्ने लग्नत्रिकोणे (१।५।९) दिननाथचन्द्रौ = सूर्यचन्द्रमसौ, गुरौ = बृहस्पतौ शौर्य = तृतीये वा केन्द्रे ( १।४।७।१० भावे ) समन्विते तदानीं=तस्मिन्काले यस्य जन्म भवेत्स उन्मादबुद्धिर्भवति । तत्काल- जातोऽगृहीतबुद्धिर्भवतीत्यर्थः । अत्र चतुर्थचरणे 'शरासनादौ यदि जन्मलग्ने' इत्यस्य स्थाने 'शन्यारवारे यदि जन्मकाले' इति पाठान्तरं सर्वार्थ- चिन्तामणिकर्त्रा पठितम् । एवं जात- कादेशे—
+---------------+---------------+
| \ / | \ ल. ८।३° / |
| \ बृ. / | \ / |
| \ / | \ / |
| \ / | \ / |
+--------+------+--------+--------+
| / \ | / \ |
| / \ | / \ |
| / सू. चं. \ | / उन्माद- \ |
| / \ | / बुद्धिः \ |
+---------------+---------------+
नवमोदयात्मजस्थौ रविचन्द्रौ भ्रातृकेन्द्रगे जीवे । युक्ते शनिकुजवारे जातः सोन्माद इव चपलः स्यात् ॥ इति दृश्यते । अतस्तत्र 'शन्यारवारे यदि जन्मकाले' इति पाठे जन्मकाले यदि शनिर्वा भौमो भवेदिति व्याख्यानमन्यत्सर्वं समानमेव ॥ ८० ॥ लग्न या त्रिकोणमें सूर्य और चन्द्रमा हों, गुरु ३ रे, वा केन्द्रमें हो और यदि धनुके आदिमें लग्न हो तो जातककी उन्माद बुद्धि होती है ॥ ८० ॥ इदानीं बुद्धि
जातकमङ्गाध्यायः ॥ ६ ॥ १६३ श्लोकेनानेनोन्मादभाक्कलहप्रिययोगमाह— चन्द्रे सपापे फणिनाथयुक्ते रिःफे सुते रन्ध्रगतेऽथवाऽपि । उन्मादभाक् तत्र सरोषयुक्तो जातस्तु नित्यं कलहप्रियः स्यात् ॥ ८३ ॥
| ल. | चं. रा. मं. | |
| चं.रा.<br>मं. | ||
| चं. रा. मं. | ||
| चन्द्र इति । सरलार्थः ॥ ८३ ॥ | ||
| चन्द्रमा पापग्रहके साथ राहुसे युक्त होकर १२ वें, वा ५ वें, वा ८ वें हो तो वह उन्मादी, क्रोधी और नित्य कलहप्रिय होवे ॥ ८३ ॥ | ||
| **इदानीं दन्ताक्षिरोग |
१६४ सटीकजातकपारिजाते- इदानीं कुष्ठयोगमाह- हित्वा लग्नपतिं विलग्नसहितेष्वन्येषु कुष्ठं वदेत् । नीलं भानुसुते तु चण्डकिरणे रक्तं सितं भूमिजे ॥ मन्देन क्षितिजेन वा यदि युते कर्क्यन्त्यनक्रांशके । चन्द्रे शोभनयोगदृष्टिरहिते कुष्ठं वदेद् देहिनाम् ॥ ८६ ॥ हित्वेति । लग्नपतिं = लग्नेशग्रहं हित्वा = वर्जयित्वा अन्येषु ग्रहेषु विलग्नसहितेषु = जन्म- कालीनलग्ने स्थितेषु जातस्य कुष्ठं वदेत् । लग्नेशो लग्नगतो यदि स्यात्तदा कुष्ठं नेति हित्वा लग्नपतिमित्यनेनावगम्यः । अन्येषु कुष्ठं वदेदित्यत्र कुष्ठविवरणमुच्यते । नीलं भानु- सुते = शनौ लग्नगते, नीलं नीलकुष्ठं, चण्डकिरणे = सूर्ये लग्नगते तु रक्तं = लोहितवर्णं कुष्ठं, भूमिजे = मङ्गले लग्नगते सितं = श्वेतकु
जातकमङ्गाध्यायः ॥ ६ ॥ - १६५ चन्द्रमा जलचर राशिमें हो, उस स्थानका स्वामी षष्ठ स्थानमें हो उसे जलचरराशि- गत ग्रह देखते हों तो मूत्रकृच्छ्र (सूजाक) रोग होवे । चन्द्रमा अष्टमभाव या शत्रुभावमें हो उसे मंगल देखता हो और लग्नमें शनि हो तो रक्तरोग होवे ॥ ८८ ॥ इदानीं गुल्मरोगं दाहरोगञ्चाह- क्षीणे मन्दगृहोदये हिमकरे पापग्रहैरन्विते रन्ध्रारातिगतेऽथवा पवनकृद् गुल्मादिरोगं वदेत् । चन्द्रे पापवियच्चरान्तरगते मन्दे मदस्थानगे जातो विद्रधिजन्मशोषजनितैः सन्तप्तदेहो भवेत् ॥ ८९ ॥ क्षीणे इति । क्षीणे = क्षयिष्णौ हिमकरे=चन्द्रे पापग्रहैरन्विते=सहिते मन्दगृहोदये= मकरोदये वा कुम्भोदयेऽथवा रन्ध्रारातिगतेऽष्टमे षष्ठे वा भावे गतवति पवनकृत्=वायुजनितं गुल्मादिरोगं वदेत् । चन्द्र इति । चन्द्रे पापवियच्चरयोरन्तरे = मध्ये गते (चन्द्रादेको द्वितीयेऽपरो द्वादशे पापो भवेत् ) मन्दे=शनौ मदस्थानगे=सप्तमभावमुपगते जातो नरो विद्रधिजन्मशोषजनितैः=विद्रधिरुदरव्याधिभेदः 'व्याधिभेदाः विद्रधिः स्त्री' इत्यमरः । जन्म- शोषो व्याधिभेदस्तैर्जनितैरामयैः जातः सन्तप्तदेहो भवेदिति ॥ ८९ ॥ शनिके गृहमें क्षीण चन्द्रमा पापग्रहोंसे युक्त हो, वा अष्टम या षष्ठ स्थानमें हो तो वायुकुपित गुल्मरोग कहे । चन्द्रमा पापग्रहके मध्यमें हो, शनि सप्तम हो तो जातक जन्मसे ही सूखा रोगसे सन्तप्त देह हो ॥ ८९ ॥ श्लोकेनानेनोदररोगभेदा उच्यन्ते- अजीर्णगुल्मामयशूलमेति कुजे विलग्ने विबलेऽरिनाथे । लग्ने सपापे फणिनायके वा मन्देऽष्टमे कुक्षिरुगर्दितः स्यात् ॥ ९० ॥
+-----------------------------------+
| \ २ / \ / \ १२ बु. / |
| \ / \ १ मं./ \ / |
| ३ \ / \ / \ / ११ |
| \ / \ / \ / |
+------+---------------------+------+
| | | |
| ४ | कुक्षिरोगः | १० |
| | | |
+------+---------------------+------+
| / \ / \ / \ |
| ५ / \ / \ / \ ९ |
| / \ / ७ \ / \ |
| / ६ \ / \ / ८ श. \ |
+-----------------------------------+
अजीर्णति । सरलार्थः ॥ ९० ॥ मंगल लग्नमें हो और षष्ठेश निर्बल हो तो अजीर्ण और गुल्म रोगसे पीड़ा होती है । लग्न पापग्रहसे युक्त हो, वा राहुसे युक्त हो, शनि अष्टममें हो तो कुक्षि (पेटके) रोगसे पीड़ित हो ॥ ९० ॥ इदानीं हृदयशूलरोगयोगं शूलयोगञ्चाह- हृच्छूलरोगमुपयाति सुखे फणीशे पापेक्षिते गतबले यदि लग्ननाथे । शूलामयं तनुपतौ रिपुनीचराशौ भौमे सुखे रविसुते यदि पापदृष्टे ॥६१॥ हृदिति । सरलार्थः ॥ ९१ ॥ यदि राहु सुख ( ४) में हो और लग्ननाथ पापदृष्ट और बलहीन हो तो हृदय-शूल रोग होता है। लग्नेश शत्रुगृहमें, वा नीच राशिमें हो और मंगल चौथे हो, शनि यदि पापग्रहसे देखा जाता हो तो शूलरोग होता है ॥ ९१ ॥
१६६ सटीकजातकपारिजाते- [कुण्डली १ : ३ | २ (लग्न) | ४ | ५ रा. | हृच्छूलं | मं. श. | ६ शु.] [कुण्डली २ : २ | १ (लग्न) | १२ | ३ | ४ मं. | शूलामयं | ५ | ६ श. | ७] इदानीमपरिपाकरोगं पाण्डुरोगं चाह— जातो भुक्तिविरोधरोगनिहतो रन्ध्रेश्वरे दुर्बले लग्ने पापनिरीक्षिते परिभवस्थाने समन्देक्षिते। वान्तिभ्रान्तिजपाण्डुमेति सकुजे चन्द्रे रिपुस्थानगे जातः शूलविसर्पमेति दिनकृच्चन्द्रारयुक्ते यदा ॥ ६२ ॥ जात इति। रन्ध्रेश्वरेऽष्टमभावेशे दुर्बले = बलरहिते लग्ने = जन्मकालीनलग्ने पाप- ग्रहेण निरीक्षिते = दृष्टे, परिभवस्थानेऽष्टमे भावे समन्देक्षिते = शनिदृष्टिसहिते जातो नरो भुक्तिविरोधरोगेणानावरोधामयेन ( भोजने गलावरोधेन ) निहतो भवेन्निश्चयत इति। तथा प्रश्नमार्गे- "पापग्रहेक्षितं लग्नं रन्ध्रं रविजवीक्षितम्। रन्ध्रेशो विबलो योग एष भुक्तिविरोधकृत्" ॥ इति। वान्तिभ्रान्तिजेति। सकुजे = भौमयुक्ते चन्द्रे रिपुस्थानगे=षष्ठभावगते वान्तिभ्रान्तिज- पाण्डुं ( कामलारोगं ) प्राप्नोति। दिनकृच्चन्द्रारयुक्ते=षष्ठे भावे सूर्यचन्द्रभौमैः सहिते च जातो नरः शूलविसर्पमेति = शूलभेदाद्विसर्पं प्रसरं ( व्रणप्रसारम् ) 'प्रसरस्तु विसर्पणम्' इत्यमरकोके। एति=प्राप्नोतीति ॥ ६२ ॥ अष्टमेश निर्बल हो, लग्नमें पापग्रहों की दृष्टि हो, ८ वें भावमें शनिका योग या दृष्टि हो तो जातक भुक्तिविरोध ( गलेमें भोजनके रुकनेके ) रोगसे निहत हो ( मरे )। यदि चन्द्रमा मङ्गलके साथ शत्रुभावमें हो तो वायुके विकारसे पाण्डुरोग हो। यदि सूर्य, चन्द्रमा और मङ्गल शत्रुभाव (६) में हों तो जातकको शूलरोग होवे। ( सुधाशालिनीकारः ) ॥ ६२ ॥ इदानीमभिचारजातं रोगमाह- आरेक्षिते यदि विलग्नगृहेऽरिनाथे मानेऽथवाऽस्ततनुगे कृतमाभिचारम्। लग्नाधिपेन सहितेऽवनिजे विलग्ने केन्द्रेऽथवा रिपुपतौ तनुगे तथा स्यात् ॥६३॥ आरेक्षित इति। यदि आरेणाङ्गारकेणेक्षिते=दृष्टे विलग्नगृहे=जन्मलग्ने, अरिनाथे = षष्ठेशे माने=दशमे भावे, अथवाऽस्ततनुगे=सप्तमे लग्ने तिष्ठति सति आभिचारं=अभिचार- सम्बन्धं ( कृत्वोत्पादितं ) कृतं रोगं विजानीयात्। अथ लग्नाधिपेन=लग्नेशेन सहितेऽ- वनिजे = भौमे विलग्ने=जन्मलग्ने गते रिपुपतौ=षष्ठेशे केन्द्रे ( ७।४।१० ) अथवा तनुगे= लग्ने स्थिते सति तथा स्यादर्थादाभिचारं कृतं वाच्यम् ॥ ६३ ॥ यदि लग्नको मंगल देखता हो, षष्ठेश १०, या ७ भावमें हो तो अभिचारसे ( जादू वगैरहसे ) रोग होवे। मंगल लग्नेशसे युक्त लग्नमें हो षष्ठेश केन्द्रमें वा लग्नमें हो तो अभिचारसे कष्ट होवे ॥ ६३ ॥
जातकभङ्गाध्यायः ॥ ६ ॥ १६७ इदानीं देवदर्शनाद् भूतप्रेतपिशाचदर्शनाच्च जातं रोगमाह— जातो निर्जरदर्शनेन जनितं रोगं सुखस्थानगे माने लग्नगतेऽथवाऽमरगुरौ केन्द्रे समन्दात्मजे । मन्देऽस्ते चरलग्नगे यदि शुभे पापेक्षिते शीतगौ भूतप्रेतपिशाचदर्शनवशाद् रोगं समेति ध्रुवम् ॥ ९४ ॥ जात इति । अमरगुरौ = बृहस्पतौ सुखस्थानगे = चतुर्थभावगते, माने = दशमभावे, लग्नगते=जन्मलग्ने स्थिते वा, केन्द्रे ( १।४।७।१० भावानामन्यतमे ) समन्दात्मजे=गुलि- कयुक्ते च जातो नरो निर्जरदर्शनेन=देवदर्शनेन=देवदर्शनादेव जनितमुत्पन्नं=रोगमेति । मन्द- इति । मन्दे=शनैश्चरेऽस्ते=सप्तमे गते, शुभे=शुभग्रहे यदि चरलग्नगे=लग्नगतचरराशौ, शीतगौ = चन्द्रे यत्र तत्रस्थे पापेक्षिते जातो भूतप्रेतपिशाचानां दर्शनवशाद् ध्रुवं = निश्चयेन रोगं = व्याधिं समेति = प्राप्नोतीति ॥ ९४ ॥ यदि बृहस्पति चौथे, या दशवें, या लग्नमें हो और गुलिक केन्द्रमें हो तो जातकको देवताके देखनेसे रोग उत्पन्न होवे । यदि शनि ७ वें, शुभग्रह चर लग्नमें हो और चन्द्रमा जहां कहीं पापग्रहसे दृष्ट होवे तो जातक को भूत-प्रेत-पिशाचके देखनेसे रोग होता है । (सु० ज्ञा० कार) ॥ ९४ ॥ इदानीं केषांचिद्रोगयोगानां विवरणमाह— चन्द्रे पापनिरीक्षिते रिपुगते पापान्विते वातजम् जातः शोणितपित्तमेति वसुधापुत्रे तथाऽस्ते सति । सौम्ये वातकफामयं भृगुसुते मूलातिसारं तथा मन्दे गुल्ममुपैति राहुशिखिनोः पैशाचरोगं वदेत् ॥ ९५ ॥ चन्द्र इति । चन्द्रे पापेन केनचिन्निरीक्षिते=दृष्टे, केनचित् पापेनान्विते=युक्ते, रिपुगते च जातो वातजं=वायुरोगं प्राप्नोति । वसुधापुत्रे=भौमेऽस्ते=सप्तमभावे तथा सति ( पाप- निरीक्षिते पापान्विते च ) शोणितपित्तरोगमेति । सौम्ये=बुधेऽस्ते पापनिरीक्षिते पापान्विते च वातकफामयं=वायुकफजातं रोगं प्राप्नोति । भृगुसुते=शुक्रे तथोक्तवत् स्थिते मूलातिसारं ( Dysentery ) मन्दे=शनैश्चरे तथा सति गुल्मं ( Colic ) रोगमुपैति । एवं राहु- शिखिनोः=राहुकेत्वोस्तथा स्थितयोः पैशाचरोगं जातकस्य वदेदिति ॥ ९५ ॥ चन्द्रमा षष्ठस्थानमें पापग्रहसे देखा जाता हो वा युक्त हो तो वातरोग होता है । मंगल सातवेंमें हो तो रक्तपित्त रोग होवे । बुध सप्तममें हो तो वातकफका रोग होवे । शुक्र ७वेंमें हो तो मूलातिसार रोग हो । शनि ७ वेंमें हो तो गुल्म रोग हो । राहु या केतु हो तो पिशाच रोग कहे ॥ ९५ ॥ इदानीं कासश्वासक्षयरोगं पीनसरोगाञ्चाह— कासश्वासक्षयजनिरुजं भानुभौमाहिदृष्टे षष्ठे सौरे गुलिकसहिते सौम्यदृग्योगहीने । रिःफे पापे शशिनि रिपुगे भानुजे रन्ध्रयाते पापांशस्थे तनुगृहपतौ पीनसं रोगमेति ॥ ९६ ॥ कासेति । सौरे = शनैश्चरे गुलिकेन सहिते षष्ठे = षष्ठभावङ्गते तस्मिन् भानुभौमाहि- भिः = सूर्यमङ्गलराहुभिर्दृष्टे सौम्यदृग्योगहीने = शुभग्रहदृष्टियोगरहिते जातः कासश्वास-क्षय- जनिरुजं = कासश्वासेन क्षयेन च जनितं रोगं ( Cough asthma and Consum- ption ) प्राप्नोति । तस्मिन्नेव योगे शुभदृग्योगे सति न रोगमेति । रिःफ इति । पापे =
१६८ सटीकजातकपारिजाते- सूर्ये भौमे वा रिःफे=द्वादशभावमुपगते शशिनि=चन्द्रे=रिपुगे षष्ठगते, भानुजे=शनौ रन्ध्र- यातेऽष्टमभावगते, तनूद्गृहपतौ = लग्नेशे पापांशस्थे = पापग्रहनवांशगते च जातो नरः पीनसं रोगमेति । तथा सर्वार्थचिन्तामणौ— चन्द्रे षष्ठे, शनौ रन्ध्रे, व्यये पापे, विलग्नपे । पापांशकसमायुक्ते, पीनसं रोगमादिशेत् ॥ षष्ठ शनौ सगुलिके रव्यारफणिवीक्षिते । शुभैर्नदृष्टे युक्ते वा श्वासकासक्षयादियुक् । इति॥९६॥ यदि शनि गुलिकके साथ ६ ठे भावमें सूर्य, मङ्गल और राहुसे देखा जाता हो तथा शुभग्रहके योग और दृष्टिसे रहित हो तो जातकको कासश्वास, क्षय सम्बन्धी रोग होवे । बारहवें भावमें पापग्रह हो, चन्द्रमा ६ ठे और शनि ८ वें में हो लग्नेश पापग्रहके नवांशमें कहीं भी हो तो जातकको पीनस रोग होता है । ( सु० ज्ञा० कार ) ॥ ९६ ॥ इदानीं जलोदररोगदीर्घरोगयोराह— मन्दे कुलीरभवनोपगते मृगस्थे चन्द्रे जलोदररुजं समुपैति जातः । सारे शनौ रिपुगते रविराहुदृष्टे लग्नाधिपे च विबले सति दीर्घरोगी ॥ ९७ ॥ मन्द इति । मन्दे = शनैश्चरे कुलीरभवनोपगते=यत्र तत्र कर्कराशिस्ये, चन्द्रे मृगस्थे= मकरराशिगते जातो जलोदररुजं समुपैति । सार इति । सारे = भौमसहिते शनौ रिपुगते= षष्ठभावगते तस्मिन् रविराहुभ्यां दृष्टे, लग्नाधिपे=जन्मलग्नेशे विबले=निर्बले च सति जातो दीर्घरोगी=चिरं रोगयुग् भवतीति । तथा सर्वार्थचिन्तामणौ— शन्यारसहिते षष्ठे रविराहुनिरीक्षिते । लग्नेश्वरे हीनबले दीर्घरोगी भवेन्नरः ॥ इति ॥६७॥ शनि कर्कका हो, चन्द्रमा मकरका हो तो जातकको जलोदर रोग हो । षष्ठस्थानमें मंगल- से युक्त शनिको सूर्य और राहु देखते हों लग्नेश निर्बल हो तो दीर्घरोगी होवे ॥ ९७ ॥
[कुण्डली १: जलोदरम्]
- लग्न (१): खाली
- द्वितीय (२): २
- तृतीय (३): ३
- चतुर्थ (४): ४ श.
- सप्तम (१०): १० चं.
- मध्य: जलोदरम्
[कुण्डली २: दीर्घरोगः]
- लग्न (२): खाली
- द्वितीय (३): ३
- तृतीय (४): ४
- चतुर्थ (५): ५ र.
- पञ्चम (६): ६ शु.
- षष्ठ (७): मं. श.
- नवम (१०): १०
- दशम (११): ११
- एकादश (१२): १२
- द्वादश (१): १ रा.
- अष्टम (९): ९
- मध्य: दीर्घरोगः
इदानीं जातस्य ह्रस्वयोगमाह— ह्रस्वः कुजे निजगृहे सुखविक्रमस्थे चन्द्रात्मजे रविसुते यदि लग्नगे स्यात् । स्वर्क्षे कुजे सुखसहोदरगेन्दुसूनौ होराधिपे शनियुते तु तथा वदन्ति ॥ ६८ ॥
[वाम भाग पाठ तथा दक्षिण भाग कुण्डली]
ह्रस्व इति । कुजे = भौमे निजगृहे=मेषे वृश्चिके वा गते, चन्द्रात्मजे = बुधे सुखे ( ४ ) वा विक्रमे ( ३ ) स्थिते, रविसुते = शनैश्चरे यदि लग्नगे तदा जातो ह्रस्वो लघु- कायः स्यात् । स्वक्ष इति । कुजे स्वक्ष ( १।८ गते ) इन्दुसूनौ=बुधे सुखसहोदरगे ( ४।३ भावगते ) होराधिपे=लग्नेशे शनि- युते तु तथा=ह्रस्वः स्यादिति वदन्ति विज्ञाः ॥ ९८ ॥
[कुण्डली ३: ह्रस्वयोगः]
- लग्न (३): ३ श.
- द्वितीय (४): ४
- तृतीय (५): ५ बु.
- चतुर्थ (६): ६
- पञ्चम (७): ७
- षष्ठ (८): ८ मं.
- सप्तम (९): ९
- अष्टम (१०): १०
- नवम (११): ११
- दशम (१२): १२ श. बु.
- एकादश (१): १
- द्वादश (२): २
जातकमङ्गाध्यायः ॥ ६ ॥ १६६ यदि मङ्गल अपने राशि ( १।८) का हो, बुध ४ थे, या १२ भावमें हो और शनि लग्नमें हो तो जातक ह्रस्व (छोटे कदवाला) हो । यदि मङ्गल स्वगृहमें, बुध ३ रे, या ४ थे में हो और लग्नेश यदि शनिके साथ कहीं हो तो भी जातक ह्रस्व होवे। (सु० शा० कार) ॥९८॥ अथ होरायाम् इदानीं विकलनयनदारजन्मयोगमाह होरायां वराहः— लग्नाद्व्ययारिगतयोः शशितिग्मरश्म्योः पत्न्या सहैकनयनस्य वदन्ति जन्म ॥ द्यूनस्थयोर्नवमपञ्चमसंस्थयोर्वा शुक्रार्कयोर्विकलदारमुशन्ति जातम् ॥ ६६ ॥ लग्नादिति । शशितिग्मरश्म्योश्चन्द्रसूर्ययोः लग्नाज्जन्मलग्नाद् व्ययारिगतयोरर्थात् लग्नाद् द्वादशे षष्ठे च यथासम्भवं चन्द्रः सूर्यश्चैकैको भवेत् तदा पत्न्या=स्त्रिया सहैकन- यनस्यैकाक्षस्य जन्म भवति । अस्मिन्योगे समुद्भूतः सपत्नीकः काणत्वमाप्नुयात् । पुमा- न्स्वयं काणः तस्य स्त्री च काणीति । द्यूनस्थयोरिति । शुक्रार्कयोः=शुक्रसूर्ययोः लग्नाद् द्यूनस्थयोः=सप्तमगतयोः, वा नवमस्थयोः, वा पञ्चमस्थयोर्द्वयोरेव जातं विकलदारं = विकला हीनाङ्गा दाराः स्त्री यस्य तं विकलदारमुशन्ति=वदन्ति विज्ञाः । अस्मिन्योगे जातस्य स्त्री हीनाङ्गी भवतीति । तथा सारावल्याम्— लग्नाद् व्ययरिपुगतयोः शशाङ्कभान्वोर्वदन्ति पुरुषस्य । प्रभवं समस्तमुनयः क्रमेण पत्न्या सहैकनयनस्य ॥ द्यूने कुजभार्गवयोर्जातः पुरुषो भवेद्विकलदारः । धीधर्मस्थितयोर्वा परिकल्प्यं पण्डितैरेवम् ॥ इति ॥ ९९ ॥ लग्नसे बारहवें या छठे स्थानमें चन्द्रमा और सूर्य हों तो जातक और उसकी स्त्रीको भी एक २ ही आंख होती है। शुक्र और सूर्यके सप्तमस्थ होनेसे वा नवम-पञ्चम स्थित होनेसे स्त्री विकलाङ्गी हो ऐसा फल आचार्यों ने कहा है। (सु० शा० कार ) ॥ ९९ ॥
| चक्र १ (वाम) | चक्र २ (दक्षिण) |
|---|---|
| लग्न: ल. | लग्न: ल. |
| द्वादश भाव: च., र. | सप्तम भाव: विकलदारः |
| षष्ठ भाव: चं. र. | विकल्प १: र. शु. (I) |
| सप्तम भाव: एकाक्षः सदारः | विकल्प २: र. शु. (II) |
| विकल्प ३: र. शु. (III) |
इदानीं कर्णरोगं दन्तरोगयोगञ्चाह— नवमायतृतीयधीयुता न च सौम्यैरशुभा निरीक्षिताः । नियमाच्छ्रवणोपघातदा रदवैकृत्यकराश्च सप्तमे ॥ १०० ॥ नवमेति । अशुभाः=पापग्रहा नवमायतृतीयधीयुताः=यथासम्भवं नवमतृतीयेकादशपञ्च- मभावेषु संस्थितास्ते च सौम्यैः=शुभग्रहैः निरीक्षिताः=दृष्टा न भवेयुस्तदा नियमात्=निश्च- येन जातस्य श्रवणोपघातदाः=कर्णेन्द्रियनाशका भवन्ति । त एव पापा लग्नात् सप्तमे भावे स्थिताः शुभग्रहेरदृष्टाश्च भवेयुस्तदा जातस्य रदवैकृत्यकरा=दन्तानां वैरूप्यकरा भवन्ति । उक्तञ्च सारावल्याम्—
२०० सटीकजातकापारिजाते- धर्मायसहजसुतगाः पापाः सौम्यैर्न वीक्षिता जन्तोः । श्रवणविनाशं कुर्युः सप्तमसंस्थाश्च दन्तानाम् ॥ इति ॥ १०० ॥ नवम, एकादश, तृतीय, पंचम स्थानमें पापग्रह हों उन्हें शुभग्रह न देखते हों तो जातक अवश्य ही बहिरा होता है । यदि सप्तममें पापग्रह हों उन्हें शुभग्रह न देखते हों तो दांतमें विकार हो ॥ १०० ॥ इदानीं जातस्य सुखयोगमाह— वर्गोत्तमादिशुभवर्गयुतेऽमरेज्ये लग्ने रसातलगते यदि वा बलाढ्ये । वित्तायवृद्विगृहगेषु वियच्चरेषु लग्नाधिपे बलयुते सुखमेति जातः ॥ १०१ ॥ वर्गोत्तमेति । अमरेज्ये=गुरौ वर्गोत्तमादिशुभवर्गयुते=वर्गोत्तमाः 'चरगृहादिषु पूर्व- मध्यपर्यन्ततः शुभफला नवभागसञ्ज्ञाः' इत्युक्ताः, आदिशब्देन मूलत्रिकोणोच्चस्ववर्गा ग्राह्याः ते च शुभवर्गाश्च तेषु सहिते, लग्ने = जन्मलग्ने, रसातले=चतुर्थभावे वा गते, यदि वा बलाढ्ये=बलयुक्ते गुरौ सति, अन्येषु वियच्चरेषु=ग्रहेषु वित्तायवृद्विगृहगेषु=द्वितीयेका- दशचतुर्थभावेषु गतेषु, लग्नाधिपे=जन्मलग्नेशे, बलयुते=सबले च जातः सुखमेति ॥१०१॥ यदि बृहस्पति वर्गोत्तम आदि शुभ वर्गमें होकर लग्नमें, या ४ थेंमें हो, वा बलवान् हो और ग्रह सब द्वितीय, एकादश, चतुर्थ गृहमें प्राप्त हों और लग्नाधिप बलवान् हो तो जातकको अनेक प्रकारका सुख हो ॥ १०१ ॥ ये जातभङ्गा नृपयोगभङ्गाः प्रेष्या दरिद्राङ्गविहीनरूकाः । ये रोगभेदाः परिकीर्तितास्ते सूर्यादिसर्वद्युचरप्रसादात् ॥ १०२ ॥ श्लोकेनानेन सरलार्थकेनाऽध्यायमुपसंहरति ॥ १०२ ॥ पारिजाते सुधा टीका कपिलेश्वररचिता । षष्ठे जातकभङ्गेऽस्मिन्नध्याये पूर्णतां गता ॥ ६ ॥ इस छठे अध्यायमें जितने जातकभङ्गयोग, राजभङ्ग योग, प्रेष्ययोग, द रिद्रयोग, हीनाङ्गयोग, रेकायोग और रोगोंके अनेकभेद कहे गये हैं वे सब श्री सूर्य आदि नवग्रहोंकी कृपासे ही कहे गये हैं । ( सु० शा० कार ) ॥ १०२ ॥ इति श्रीवैद्यनाथदैवज्ञविरचिते जातकपारिजाते जातकभङ्गाख्यो षष्ठाध्याये 'विमला' हिन्दी टीका समाप्ता ॥ ६ ॥ अथ राजयोगाध्यायः ॥ ७ ॥ इदानीं राजयोगाध्यायो व्याख्यायते । तत्र येषु योगेषु समुद्भूता नरा राजानो भवन्ति ते योगाः समुच्यन्ते— कन्यामीननृयुग्मगोहरिधनुः कुम्भस्थितैः खेचरैः सेनामत्तमतङ्गवाजिविपुलो राजा यशस्वी भवेत् ॥ तौलिच्छागवृषावसानगृहगैर्जातोऽखिलक्ष्मापति- र्गोचापान्त्यभकेन्द्रगैः पृथुयशाः पृथ्वीश्वरो जायते ॥ १ ॥ कन्यामीनेत्यादि । कन्यामीनौ प्रसिद्धौ, नृयुग्मं = मिथुनं, गौ = वृषः, हरिः = सिंहः, धनुःकुम्भौ प्रसिद्धौ एतेषु सप्तसु राशिषु स्थितैः खेचरैर्ग्रहैर्थात्सर्व एव ग्रहा यथा सम्भवमुक्तेषु सप्तराशिषु स्थिता भवेयुस्तदा जातो नरो हि सेनाभिः, मत्तमत्तङ्गजैर्दन्तावलैः, वाजिभिस्तुरङ्गैश्च सङ्कुलोऽतो विपुलौ विशालो ( महान् ), यशस्वी कीर्तिमान् ( ख्यातः ) राजा भवेत् । तौलिच्छागवृषावसानगृहगैस्तुलामेषवृषमीनराशिगतैर्निखिलैर्ग्रहैर्जातो नरोऽखि-
राजयोगाध्यायः ॥ ७ ॥ २०१ लक्ष्मीपतिः = समस्ताया भुवोऽधिपतिर्भवेत् । अथ गोचापान्त्यभकेन्द्रगैः = गौः वृषः, चापं धनुः, अन्त्यो मीन एतेषु त्रिषु राशिषु तथा केन्द्र-( १।४।७।१० ) गतैश्च सकलैर्ग्रहैर्जा- यमानो नरः पृथुयशाः = अतीव यशस्वी पृथ्वीश्वरो राजा जायते भवति ॥ १ ॥ कन्या, मीन, मिथुन, वृष, सिंह, धनु और कुम्भराशिमें सब ग्रह स्थित हों तो वह मनुष्य सेना, मतवाले हाथी, घोड़ेके समूहसे युक्त यशस्वी राजा होवे। तुला, मेष, वृष, मीन, राशिमें सभी ग्रह जिसके जन्म समयमें हों वह सम्पूर्ण भूमण्डलका स्वामी हो। जिसके जन्म समयमें वृष, धनु, मीन राशिमें सब ग्रह स्थित हों, और केन्द्रमें हों वह राजा होता है ॥ १ ॥ कन्यामेषतुलामृगेन्द्रघटगैर्जातो महीपालको दुश्चिक्यप्रतिभारसातलगतैर्बह्वर्थदेशाधिपः ॥ खेटा विक्रमबन्धुपुत्रगृहगा द्वौ वित्तधर्मस्थितौ शेषौ लग्नकलत्रराशिसहितौ राजा भवेद्धार्मिकः ॥ २ ॥ कन्यामेषतुलामृगेन्द्रघटगैर्निखिलैर्ग्रहैर्जातो महीपालको नृपो भवति । दुश्चिक्यं = तृतीयं, प्रतिभा=पञ्चमं, रसातलं = चतुर्थं, तेषु गतैर्ग्रहै बह्वर्थदेशाधिपः = बहूनामर्थानां देशानाञ्चाधिपो भवति । अथ खेटाः = त्रयो ग्रहा विक्रमबन्धुपुत्रगृहगास्तृतीयचतुर्थपञ्चमभावगता भवेयुः । अथ च द्वौ ग्रहौ वित्तधर्मस्थितौ = द्वितीयनवमभावगतौ भवेतां । शेषौ = द्वौ लग्नकलत्रराशिस- हितौ = लग्नसप्तमभावगतौ भवेतां तदा जातो धार्मिको राजा भवेत् । अत्रेद मवधेयम् । सर्व एव (७) ग्रहा यथासम्भवं प्रथम-द्वितीय-तृतीय-चतुर्थ-पञ्चम-सप्तम-नवमभावे- ष्वेकैकशः स्थिता भवेयुस्तदा धर्मशीलो राजा भवेदिति । तथा च भावकुतूहले- एकैकेन खगेन जन्मसमये सैकावली कीर्तिता मुक्तालीव समस्तभूपमुकुटालङ्कारचूडामणिः । तज्जातो रिपुपुञ्जभञ्जनकरो गन्धर्वदिव्याङ्गनावृन्दानन्दपरो गुणव्रजधरो विद्याकरो मानवः ॥ इति। जिसके जन्म समयमें सभी ग्रह कन्या, मेष, तुला, सिंह और कुम्भमें स्थित हों वह राजा हो। जिसके जन्म समय ३।५।४ भावोंमें सब ग्रह हों वह बहुत धन और देशका मा- लिक हो। जिस मनुष्यके जन्म समय ३ ग्रह ३।४।५ भावों में हों २ ग्रह २।९ में हों शेष दो ग्रह लग्न और सप्तममें हों ( १।२।३।४।५।७।९ में सब ग्रह हों) वह धार्मिक राजा होवे ॥ २ ॥ तारेशहोरासहिता नभोगो जातो यशस्वी मनुजाधिपः स्यात् । सौम्यास्तपोलाभगृहोपयाताः पापा रिपुव्योमगता नरेशः ॥ ३ ॥ नभोगाः = सर्वे ग्रहास्तारेशहोरासहिताश्चन्द्रस्य होरायां गता भवेयुः । 'होरा राश्यर्द्ध- मोजे दिनकरशशिनोरिन्दुमार्त्तण्डहोरे युग्मे राशौ' इत्युक्तत्वात् १,३,५,७,९,११ राशीना- मुत्तराद्धे २,४,६,८,१०,१२ राशीनामाद्यर्धे चन्द्रस्य होरा भवन्ति तासु यथासम्भवं सर्वे ग्रहा भवेयुः ( समराशीनामाद्यर्द्धे विषमराशीनामपरार्द्धे चेत्यर्थः) तदा जातो नरो यशस्वी = कीर्तिमान् मनुजाधिपो राजा स्यात् । सौम्या इति । सौम्याः = बुधगुरुशुक्रशुक्लचन्द्राः तपोलाभगृहोपयाताः = नवमैकादशभावगताः, पापाः = क्षीणोन्द्वर्क्रमहीसुतार्कतनयाः रिपुव्योम- गताः = षष्ठदशमभावगता भवेयुस्तदा जातो नरेशो राजा भवेत् ॥ ३ ॥ सभी ग्रह चन्द्रमाकी होरामें होवें ऐसे समय जिस मनुष्यका जन्म हो वह यशस्वी राजा होता है। शुभग्रह नववें और ११ वें भावमें हों पाप ग्रह छठे और दशवें हों तो जातक राजा होता है ॥ ३ ॥