भारतकोश
संग्रह पर लौटें

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४६३ ग्रहैश्चतुर्भिः सहिते तदीशे केन्द्रत्रिकोणोपगतैस्तु मुक्तः । चतुर्ग्रहैः कर्मगतैः प्रव्रज्यां प्राप्नोति जातः कथितो मुनीन्द्रैः ॥ २५ ॥ ग्रहैरिति । तदीशे = दशमभावेशे केन्द्रत्रिकोणोपगतैः यैः कैश्चिचतुर्भिर्ग्रहैः सहिते सति जातो नरः मुक्तो भवेत् । यैः कैश्चिचतुर्ग्रहैः कर्मगतैः=दशमभावगतैः जातः प्रव्रज्याम् आप्नोति इति मुनीन्द्रैः कथितः । तत्र चतुर्णां मध्ये यो बलीयान् भवेत्तत्कृतां प्रव्रज्यां प्राप्नु- याज्जातक इति वाच्यम् ॥ २५ ॥ दशम भावका स्वामी केन्द्र या त्रिकोणमें स्थित चार ग्रहोंसे युक्त हो तो मुक्त (मोक्षभागी) होवे । चार ग्रह दशवें हों तो जातक संन्यासको प्राप्त हो ऐसा मुनियों ने कहा है ॥ २५ ॥ कुजार्कसोमार्कजदेववन्दितैः कुजार्कचन्द्रात्मजमन्दभार्गवैः । रवीन्दुभौमासितदानवप्रियैर्भवन्ति जाता व्रतसंयुता नराः ॥ २६ ॥ कुजार्कति । १—कुजार्कसोमार्कजदेववन्दितैः = भौम-सूर्य-चन्द्र-शनि-गुरुभिः, वा— २--कुजार्कचन्द्रात्मजमन्दभार्गवैः = भौम-सूर्य-बुध-शनि-शुक्रैः, वा— ३—रवीन्दुभौमासितदानवप्रियैः = सूर्य-चन्द्र-कुज-शनि-शुक्रैः, यत्र तत्रैकत्र सम्मिलितैः सद्भिः जाता नराः व्रतसंयुताः=परिव्राड्‌व्रतपालका भवन्ति॥२६॥ मंगल, सूर्य, चन्द्रमा, शनि और गुरु या मंगल, सूर्य, बुध, शनि और शुक्र या सूर्य, चन्द्र, मंगल, शनि और शुक्र इनके एकत्र होने पर जो उत्पन्न हो वह मनुष्य व्रतसे युक्त (नियमो, संयमी) होवे ॥ २६ ॥ सितारसूर्यात्मजजीवभास्करैः कुजेन्दुदेवेज्यबुधार्कनन्दनैः । सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रयः ॥ २७ ॥ सितारेत्यादि । १-शुक्र-कुज-शनि-गुरु-सूर्यैः । वा, २-भौम-चन्द्र-गुरु-बुध- शनैश्चरैः । वा-३-शुक्र-बुध-शनि-चन्द्र-मङ्गलैश्च कुत्राप्येकस्थानगतैः जातः वनपर्वता- श्रयः = वनगिरिनिलयः तपस्वी भवेदिति ॥ २७ ॥ शुक्र, मंगल, शनि, गुरु और सूर्यके एकत्र होनेसे या मंगल, चन्द्रमा, गुरु, बुध और शनिके एकत्र या शुक्र, बुध, शनि, चन्द्र और मंगलके एकत्र होने पर जातक पर्वत तथा बनमें रहनेवाला तपस्वी होवे ॥ २७ ॥ चन्द्रेन्दुपुत्रारसुरेज्यभास्करैः शशाङ्कसूर्येन्दुजशुक्रमूमिजैः । एकत्रगेरेभिरिह प्रजाता भवन्ति विद्यामुनयोऽस्त्रदूषकाः ॥ २८ ॥ चन्द्रेत्यादि । १-चन्द्र-बुध-भौम-गुरु-सूर्यैः । वा, २-चन्द्र-सूर्य-बुध-शुक्र- मङ्गलैः सम्मिलितैरेकत्र गतैः सद्भििरिहास्मिन्नन्यतरयोगे प्रजाता नरा अस्त्रदूषकाः =आयुध- निन्दका विद्यामुनयः=सज्ज्ञानप्रवर्त्तकशास्त्रकर्त्तारो मुनयो भवन्ति ॥ २८ ॥ चन्द्रमा, बुध, मंगल, गुरु और सूर्यके एकत्र होनेसे या चन्द्र, सूर्य, बुध, शुक्र और मंग- लके एक राशिमें होने से उत्पन्न हों तो अन्न शस्त्रोंका विरोधी विद्याभ्यासी मुनि होते हैं॥२८॥ रवीन्दुभौमेन्दुजजीवभार्गवैः सुधाकरार्किगुरुज्ञभास्करैः । कुजेन्दुसूर्यार्किसितेन्दुसम्भवेर्भवेदमीभिः सहितैर्व्रती नरः ॥ २६ ॥ रवीत्यादि । १—सूर्य-चन्द्र-कुज-बुध-गुरु-शुक्रैः, वा २-चन्द्र-कुज-शनि-गुरु- बुध-सूर्यैः, वा ३-मङ्गल-चन्द्र-सूर्य-शनि-शुक्र-बुधैरमीभिर्ग्रहैः सहितैरेकस्थानगतैः नरो व्रती भवेत् । अस्मिन्नन्यतमयोगे जातो नरो नियमकृद्भवतिति ॥ २६ ॥ सूर्य, चन्द्रमा, मंगल, बुध, गुरु और शुक्र एक राशिमें हों, या चन्द्रमा, मङ्गल, शनि, गुरु, बुध और रवि एक राशिमें हों या मङ्गल, चन्द्रमा, सूर्य, शनि, शुक्र और बुध एकत्र 31 हों तो इन योगोंमें उत्पन्न मनुष्य व्रती होवे ॥ २९ ॥

४६४ सटीकजातकपारिजाते- सितेन्दुजीवार्कजभानुलोहितैः सिताकिर्जीवार्कभृगाङ्कसोमजैः ॥ एकत्र यातैर्गगनाटनैः सदा भवन्ति जाता मुनयस्तपस्विनः ॥ ३० ॥ सितेन्द्रित्यादि । १-शुक्र-चन्द्र-गुरु-शनि-सूर्य-मङ्गलैः, वा २-शुक्र-शनि-गुरु-सूर्य- चन्द्र-बुधैः, एकत्रयातैरेभिः गगनाटनैः = ग्रहैः जाता नराः सदा तपस्विनः मनयो भवन्ति ॥ शुक्र, चन्द्रमा, वृहस्पति, शनि, सूर्य और मङ्गल एकत्र हों वा शुक्र, शनि, वृहस्पति, सूर्य, चन्द्र और बुध एकत्र हों तो जातक तपस्वी होता है, यह मुनि लोग कहते हैं ॥३०॥ कुजज्ञवागीशसितासितारुणैः सितार्किजीवेन्दुजचन्द्रभूमिजैः ॥ बलप्रधानैर्गगनाटनैयदा यदि प्रजातः पुरुषस्तपस्विनाम् ॥ ३१ ॥ कुजज्ञेति । १-मङ्गल-बुध-गुरु-शुक्र-शनि-सूर्यैः, वा २-शुक्र-

कृतवल्कफलाशनानां यतीनां जन्म कुर्वन्ति । एतदन्यतमयोगे जातो नरः वल्कलधारी कन्दमूलफलाहारी यती भवतीत्यर्थः ॥ ३५ ॥ चन्द्रमा, सूर्य, शुक्र और बुध बलवान् हों या मंगल, बुध, शुक्र और शनि बलवान् हों या शनि, चन्द्रमा, बृहस्पति तथा शुक्र बलवान् हों तथा एकत्र प्राप्त हों तो जातकको संन्यासी, वल्कल धारण करनेवाला, फल भोजन करनेवाला बनाते हैं ॥ ३५ ॥ रविशशिकुजशुक्रैश्चन्द्रभौमज्ञसूर्यैर्गुरुसितरविमन्दैः शुक्रमन्देन्दुजीवैः ॥ कुजबुधसितचन्द्रैरेकऋक्षयातैर्भवति गिरिवनौकास्तापसः सर्ववन्द्यः ॥ ३६ ॥ रवीति । १ सूर्य-चन्द्र-मंगल-शुक्राः, वा २-चन्द्र-मंगल-बुध-सूर्याः, वा ३-गुरु- शुक्र-सूर्य-शनैश्चराः, वा ४-शुक्र-शनि-चन्द्र-गुरवः, वा ५-मंगल-बुध-शुक्र-चन्द्राः, यस्य जन्मकाले एकर्क्षगताः स्युरसौ जातकः गिरिवनौकाः = गिरयः ( पर्वता ) वनानि ( विपिनानि ) च, ओकः ( सद्म ) यस्य = पर्वतवननिलयस्तापसः = तपश्चरः सर्ववन्द्यो महात्मा भवेदिति ॥ ३६ ॥ रवि, चन्द्र, मंगल, शुक्र या चन्द्रमा, मंगल, बुध, सूर्य या बृहस्पति, शुक्र, रवि, शनि, या शुक्र, शनि, चन्द्रमा, बृहस्पति या कुज, बुध, शुक्र, चन्द्रमा ये ग्रह एक राशिमें हों तो पर्वत और वनमें रहनेवाले सर्ववन्द्य तपस्वी हों ॥ ३६ ॥ सितशशिकुजगुरुमन्दैश्चन्द्रेन्दुजभौमगुरुशुक्रैः ॥ रविकुजशनिबुधजीवैर्भवति यती दुःखितो दीनः ॥ ३७ ॥ सितेति । १-शुक्र-चन्द्र-मङ्गल-गुरु-शनैश्चराः, वा २-चन्द्र-बुध-भौम-गुरु-शुक्राः, वा ३ सूर्य-भौम-शनि-बुध-गुरवः यस्य जन्मकाले एकत्र गताः स्युरसौ जातकः दुःखितः दीनः यती भवति ॥ ३७ ॥ शुक्र, चन्द्रमा, मंगल, गुरु, शनि या चन्द्र, बुध, मंगल, गुरु, शुक्र या रवि, मंगल, शनि, बुध, बृहस्पति ये एकत्र होवें तो जातक दुःखी और दीन यती हो ॥ ३७ ॥ कुजार्किदे व्यसितेन्दुपुत्रैः शनीनसोमात्मजचन्द्रभौमैः । नभश्चरैरेकगृहोपयातैर्जटाधरा वल्कलधारिणः स्युः ॥ ३८ ॥ कुजार्कीति । १-मङ्गल-शनि-गुरु-शुक्र-बुधाः, वा २-चन्द्र-सूर्य-बुध-चन्द्र-भौमाः, येषां जन्मकाले एकराशिगताः स्युस्ते जाताः जटाधराः, वल्कलधारिणः परिव्राजो भवेयुरिति ॥ मङ्गल, शनि, बृहस्पति, शुक्र और बुधके योगसे या शनि, सूर्य, बुध, चन्द्रमा और मङ्गल के एकत्र होनेसे जातक जटा और वल्कल धारण करनेवाला संन्यासी होवे ॥ ३८ ॥ भान्विन्दुजेन्दुकुजजीवसुरारिपूज्यैः सूर्येन्दुभौमगुरुशुक्रदिनेशपुत्रैः ॥ प्राप्नोत्यवश्यमिह तापसरूपमेभिरेकर्त्तैर्गैर्गगनचारिभिरायताक्षः ॥ ३६ ॥ भान्विन्द्विति । १-सूर्य-बुध-चन्द्र-मङ्गल-गुरु-शुक्राः, वा २-सूर्य-चन्द्र-मङ्गल- गुरु-शुक्र-शनैश्चराः यदि जन्मकाले एकर्क्षगा स्युस्तदा जातः आयताक्षः = विशाललोचनः सन् अवश्यमेव तापसरूपं प्राप्नोति ॥ ३९ ॥ सूर्य, बुध, चन्द्रमा, मङ्गल, गुरु और शुक्रके एक गृहमें प्राप्त होने से या सूर्य, चन्द्रमा, मङ्गल, गुरु, शुक्र और शनि इन ग्रहोंके एक राशिमें होने से जातक आयताक्ष ( बड़े नेत्र वाला ) तापसरूपको प्राप्त होता है ॥ ३९ ॥ न वीक्षितश्चेदितरग्रहेन्द्रैर्लग्नाधिपः पश्यति भानुपुत्रम् ॥ लग्नाधिपं वा यदि भानुपुत्रः संन्यासयोगो हि बलेन हीनम् ॥ ४० ॥ इदानीं शनि-लग्नेशयोः सम्बन्धात् प्रव्रज्यामाह-न वीक्षित इति । लग्नाधिपः = जन्म- लग्नेशः, इतरग्रहेन्द्रैः = स्वेतरैर्ग्रहैः, न वीक्षितः = नावलोकितस्तथाभूतश्चेद्यदि भानुपुत्रं =

४६६ सटीकजातकपारिजाते- शनैश्चरं पश्यति, अथवा भानुपुत्रः = शनैश्चरः ( सबलः ) बलेन हीनं = निर्बलं, लग्ना- धिपं = जन्मलग्नपति पश्यति तदा, हि = निश्चयेनायं संन्यासयोगः भवति । अत्र योगे जातः परिव्राट् स्यादेवेति भावः । अत्र वराहेण लग्नाधिपस्य स्थाने जन्माधिपोऽर्थाज्जन्म- कालीनचन्द्राधिष्ठितराशीश उक्तः । तथा तद्वचनम्--- “जन्मेषोऽन्यैरन्यदृष्टोऽर्कपुत्रं पश्यत्यार्किर्जन्मपं वा बलोनम् । दीक्षां प्राप्नोत्यार्किदृक्काणसंस्थे भौमार्क्ष्यंशे सौरदृष्टे च चन्द्रे” इति ॥ ४० ॥

लग्नेश शनिको देखता हो और अन्य ग्रह लग्नेशको न देखते हों अथवा यदि शनि बलसे हीन लग्नेशको देखता हो तो संन्यासयोग होता है । याने इस योगमें जातक संन्यासी होवे ॥ ४० ॥

[कुंडली चक्र]:

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४६७ रादिग्रहेषु यावन्तो ग्रहा बलिनस्तावन्तः स्वस्वप्रव्रज्याकरा भवन्ति, तत्र खलु यावन्तो ग्रहा अस्तमिताः स्युस्तावन्तः स्वप्रव्रज्यां न प्रयच्छन्ति, परञ्च तत्प्रव्रज्योपगतेषु ते श्रद्धालवो भवन्तीति । अभियाचितमात्रदीक्षिता इति । बलिभिस्तैर्ग्रहैः, निहतैः = अन्यग्रहेण युद्धे पराजितैः, अन्यैश्च निरीक्षितैः दृष्टैरपि जाता नरा अभियाचितमात्रदीक्षिताः = दीक्षाभ्यर्थनशीला भव- न्ति, न तु लब्धदीक्षा भवन्तीति । Notes—सूर्येण सह विद्यमानो ग्रहः स्वकालांशाधिकान्तरितश्चेन्नास्तं गच्छति । एवं सूर्याद् द्वितीयराशावपि यदि स्वकालांशान्तर्गतः स्यात्तदाऽस्तं गच्छतीति तावद्ग्रहाणां कालांशा अपि लिख्यन्ते— दक्षेन्दवः १२, शैलभुवश्च १७, शक्राः १४, रुद्राः ११, खचन्द्राः १०, तिथयः १५ क्रमेण । चन्द्रादितः काललवा निरुक्ता ज्ञशुक्रयोर्वक्रगयोर्द्विहीनाः १२, ८ ॥ इति, सि० शि० ॥ तथा च पराजितलक्षणं वराहोक्तम्— दक्षिणदिक्स्यः परुषो वेपथुरप्राप्य सन्निवृत्तोऽणुः । अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥ कथितानां प्रव्रज्यानां परिपक्तिः तत्तद्योगकर्त्तृ ग्रहदशाकालेऽवगम्या । 'दीक्षादानसमर्थो यो भवति तदा बलेन संयुक्तः । तस्यैव दशाकाले दीक्षां लभते नरोऽवश्यम्' इत्युक्तत्वात् ॥ ४२ ॥ प्रव्रज्याकारक ग्रह सूर्यके साथ अस्त हों तो अदीक्षित (मन्त्रहीन) यती हो । यदि वे ग्रह बली हों तो उस प्रव्रज्यामें श्रद्धा रखनेवाला होवे (यती नहीं) । यदि वे ग्रह युद्धमें हारे और अन्य ग्रहोंसे दृष्ट हों तो याचना मात्रसे दीक्षित होता है ॥ ४२ ॥ अथ जीविकायोगाः । अथाधुना जातकोऽयं कथं धनमुपार्ज्जयेत् कया वृत्या जीवनञ्च यापयेदित्यादीनां विचाराणाहास्मिन् जीविकायोगप्रकरणे । अर्थाप्तिः पितृजननीसपत्नमित्रभ्रातृस्त्रीभृतकजनाद्दिवाकराद्यैः । होरेन्द्वोर्दशमगतैर्विकल्पनीया भेन्द्वर्कास्पदपतिगांशनाथवृत्त्या ॥ ४३ ॥ अर्थाप्तिरिति । होरेन्द्वोः=होरा लग्नम्, इन्दुश्चन्द्रस्तयोर्दशमगतैः दिवाकराद्यैः = सूर्या- दिग्रहैः, पितृजननीसपत्नमित्रभ्रातृस्त्रीभृतकजनात् क्रमेण अर्थाप्तिः (धनागमनं) विकल्प- नीया = परिचिन्तनीया । यथा—जन्मकालीन लग्नाच्चन्द्राद्वा यदि रविर्दशमे स्यात् तदा पितृतो धनागमं ब्रूयात् । लग्नाद्दशमे चन्द्रे सति जनन्याः = मातुः सकाशाद्धनाप्तिर्वाच्या । लग्नाच्चन्द्राद्वा भौमे दशम गते सपत्नात् = शत्रोतः । एवं बुधे दशमे सति मित्रात् = सुहृदः सकाशात् । गुरौ दशमे भ्रातुः सकाशात् । शुक्रे दशमगते स्त्रीतः । शनौ दशमे भृतक- जनात् = भृत्यात् = सेवकाद्धनाप्तिर्वक्तव्या । अत्र लग्नाद्दशमे ग्रहाभावे चन्द्राद्दशमस्थग्रहा- द्विचार्यः । यदि कश्चिल्लग्नाद्दशमगतः स्यात् कश्चिचन्द्रादपि दशम गः स्यात्तदा द्वाभ्यामेव विचारयेत् । तत्र द्वावपि ग्रहौ स्वस्वदशायां स्वस्वोक्तवशादर्थाप्तिं कुरुतः । तत्रापि बलीयान् विशेषेणेति वाच्यम् । अथ लग्नाच्चन्द्रादपि दशमे स्थाने शून्ये (ग्रहरहिते) सति किं कार्यम् ? तदाह— भेन्द्वर्कास्पदपतिगांशनाथवृत्त्येति । भेन्द्वर्काणां = लग्न-चन्द्र-सूर्याणाम्, आस्पदपतयः=दश- मेशाः, गता येषु अंशेषु = नवांशेषु, तेषां नवांशानां ये नाथास्तेषां पृथक् पृथक् या वृत्ति- स्तया जातस्यार्थाप्तिर्वाच्या । अत्रेदं किल विचिन्त्यम् । लग्नाच्चन्द्रात्सूर्याच्च दशमेशा ग्रहा

त? Wait, compare with 'वृत्ति =': In 'वृत्ति': व with ri-matra, then 'त्ति'. In 'तन्नवांशराशिप...': it's 'पतिवशात्' or 'पत्तिवशात्'? It looks like 'पतिवशात्'. The 'ति' has a single vertical stroke. Wait, look at L16: 'कर्मेशस्थनवांशराशिपवशाद्'. In L25: 'तन्नवांशराशिपत्तिवशात्' - wait, there is a stroke, could be पतिवशात्. Let's look closely: single loop of त, so 'पतिवशात्'. Wait, after 'वृत्ति': is it 'वृत्ति' or 'वृत्तिम्'? Look at: 'वृत्ति = जीविकां' - it has no anusvara, just 'वृत्ति ='.

Let's check L25 end: "भाग्यविदो विद्वां-" L26: "सः, जगुः = ऊचुः । लग्नचन्द्रयोर्दशमेशस्थनवांशपतेर्या वक्ष्यमाणा वृत्तिस्तयैव तस्य जात-" L27: "स्य जीवनं वाच्यमिति ॥ ४३½ ॥"

Let's check L28-29: "लग्न और चन्द्रमा इन दोनोंमें जो बली हो उससे दशमभावका स्वामी जहां स्थित" "हो उस नवांशपतिसे जीविका कहे ॥ ४३½ ॥"

Let's check

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४६६ शन्यंशके कुत्सितमार्गवृत्त्या शिल्पादिभिर्दारुमयैर्वधाद्यैः । विन्यस्तभारार्जनविप्रलम्भादन्योन्यवैरागममार्गमूलात् ॥ ५० ॥ पूर्वश्लोकै यदुक्तं-'कर्मेशस्थनवांशराशिपवशाद् वृत्ति', तद्ग्रहाणां वृत्तय उच्यन्ते-भैष- ज्येत्यादिभिः । इनस्यांशे=सूर्यस्य नवांशे (सूर्यो यदि कर्मेशस्थनवांशपतिः स्यादित्यर्थः) सति असौ जातकः-भैषज्यं = औषधम् , ऊर्णा = मेषादिकलोम (ऊन, रेशम) तृणानि = घासाः, अम्बुधान्यं = जलजान्नम् , कनकं = सुवर्णम् , एषां व्यापारेण = क्रयविक्रयेण, मुक्तादिकैः= मौक्तिकादीनां (मोती वगैरह) व्यापारेण, अन्योन्यागमदूतवृत्तिभिः = इतस्ततः परस्परं भृत्यकार्यैश्च जीवति=जीवनं यापयति ॥ ४४ ॥ निशाकरांशे = चन्द्रनवांशे = कर्मेशस्थनवांशपतौ चन्द्रे सति-जलोद्भवानां = जलोत्प- न्नानां=शङ्खमुक्तामीनादीनां क्रयविक्रयेण, कृषेः=कृषि-(खेती) कर्मतश्च, मृद्भावविनोदमार्गात्= मृण्मयपात्राधिकरणक-मोदादिना, राज्ञाङ्गनानां=राजपत्नीनां, संश्रयेण =समाश्रयणेन लब्धं यद्वित्तं तस्मात्, वा वसनक्रयात् वस्त्रादेः क्रयविक्रयतश्च जीविकामुपैति ॥ ४५ ॥ धरासुतांशे=मङ्गलनवांशे=कर्मेशस्थनवांशपतौ मङ्गले सति-धातोः (सुवर्णादेः) विवादेन = व्यवहारेण 'विवादो व्यवहारः स्यादि'त्यमरः । रणप्रकारात् = सङ्ग्रामात् , स्त- ब्धाग्निवादात् = स्तब्धानलस्य प्रशान्ताग्नेः (कोयला) व्यवहारतः। कलहप्रवृत्त्या = झकटकव्यापारात्, साहसमार्गरूपात् = अनीक्षितकर्त्तव्यतः, चोरवृत्त्या = तस्करकर्मणा च जीवनं यापयतीति ॥ ४६ ॥ बुधांशे = बुधस्य नवांशे = कर्मेशस्थनवांशपतिः बुधो भवेत्तदा = शिल्पादिना = चित्र-पुस्तक-वस्त्रादिनिर्माणेण, काव्येन=काव्यनिर्माणेण, आगमशास्त्रमार्गात् संहितादिशा- स्त्रज्ञानतः, ज्योतिर्गणानां ज्ञानवशाद् = भाग्यगणनया, परार्थवेदाध्ययनाज्जपाच्च = परस्य हेतोः वेदमन्त्राणामध्ययनेन जपेन च, पुरोहितायाज्यवशात्=पौरोहित्यकर्मतो याजनतश्च प्रवृत्तिः = जीविका भवति ॥ ४७ ॥ जीवांशके = कर्मेशस्थनवांशेशे गुरौ सति—भूसुरदेवतानाम् = ब्राह्मणानां देवानाञ्च, उपासनया = पूजनेन, अध्यापकरूपमार्गात् = छात्राणामध्यापनकर्मतः, पुराणशास्त्रागमनी- तिमार्गात् , धर्मोपदेशैश्चाकुसीदं = स्वजीविकावृत्तिं मनीषिणः आहुः ॥ ४८ ॥ भृगोः सुतांशे = शुक्रस्य नवांशे—सुवर्णमाणिक्यगजाश्वादीनां व्यापारतः, गवां क्रयात् , गुडौदनक्षारदधिक्रयेण स्त्रियाः प्रलोभेन च जीवनम् आहुः ॥ ४९ ॥ शन्यंशके = शनेर्नवांशे—कुत्सितमार्गवृत्त्या = गर्हितकर्मणा, दारुमयैः शिल्पादिभिः = काष्ठमयचित्रादिरचनया, वधाद्यैः = परेषां घातितया पीडनादिना च, विन्यस्तभारात् = भार- वहनात् , जनविप्रलम्भात् = जनानां वञ्चनकर्मतः, अन्योन्यवैरागममार्गमूलात् = परस्परवि- द्वेषमूलतश्च वृत्तिः प्रवक्तव्या ॥ ५० ॥ Notes—अत्र सामान्येन पापग्रहाणां नवांशे कुत्सितवृत्त्या शुभग्रहाणां नवांशे च गतवति कर्मेशे सुवृत्त्या जीविका कथिता । परञ्च तत्र तत्तन्नवांशपतेः स्थितिमवलोक्यैव शुभाशुभत्वे तारतम्येन न्यूनाधिकत्वमपि वाच्यम् । यतो हि पापोऽपि ग्रहो बलीयाञ्छुभोच्चा- दिवर्गगस्तादृक्शुभत्वमाप्नोति । एवं शुभोऽपि निर्बलो नीचारिपापवर्गगो न तावच्छुभ इति चिन्तनीयम् ॥ ४४-५० ॥ लग्न या चन्द्रमासे दशम स्थान का स्वामी सूर्यके अंश (नवांश) में हो तो औषध (दवा), ऊन, तृण, जलधान्य, सोना, मोती आदिके व्यापारसे, परस्पर आने जानेसे, दूत वृत्तिसे जीविका कहे ॥ ४४ ॥ ४० जा०

४७० सटीकजातकपारिजाते- लग्न या चन्द्रमासे दशम स्थानका स्वामी चन्द्रमाके अंशमें हो तो जलमें उत्पन्न होने वाले वस्तु (शंख, सुतुही, मोती, सिं‍हारा, तिन्नी, मत्स्य) के व्यापारसे, कृषि (खेती) से, मिट्टीके खिलौना, बाजा आदि विनोदसे, राजाकी स्त्रीसे वित्त प्राप्ति होनेसे या वस्त्रके खरीदनेसे जीविका होती है ॥ ४५ ॥ लग्नसे वा चन्द्रसे दशमाधीश मङ्गलके अंशमें हो तो धातु (सोना, चांदी, तामा, पीतल आदि) के व्यापारसे, लड़ाईसे, कोयला तथा राखीके व्यापारसे, कलहसे, चोरीसे, साहससे वह जीता है ॥ ४६ ॥ लग्न या चन्द्रमासे दशमेश बुधके अंशमें हो तो शिल्प (कारीगरी) से, काव्य, पुराण, धर्मशास्त्रके मार्गसे, ज्योतिष शास्त्रसे, दूसरेके निमित्त वेद पढ़नेसे, जपसे, पुरोहितीसे, यज्ञकरानेसे जीविका हो ॥ ४७ ॥ लग्न या चन्द्रमासे दशमेश यदि गुरुके अंशमें हो तो ब्राह्मण-देवताकी सेवा करनेसे, अध्यापकीसे, पुराण-शास्त्र-धर्म ग्रन्थके नीति मार्गसे, धर्मोपदेशसे जीविका हो ॥ ४८ ॥ लग्न या चन्द्रमासे दशमेश शुक्रांशमें हो तो सुवर्ण, मणि, हाथी, घोड़ा, गायके व्यापार से, गुड़-चावल-नमक-दधि-खरीदनेसे, स्त्रियोंके प्रलोभनसे पण्डित लोग जीवन कहते हैं ॥ लग्न या चन्द्रमासे दशम स्थानका स्वामी शनैश्चरके अंशमें हो तो निन्दित मार्ग की वृत्तिसे लकड़ीके शिल्पसे, वधसे, बोझा ढोनेसे, लोगोंके ठगनेसे, परस्पर वैरसे, जीवन होता है ॥ ५० ॥ सौम्यैश्चतुष्केन्द्रगृहोपयातैः कुलोत्तमा वंशकरा नृपालाः ॥ सर्वज्ञधीवित्तयशोगुणाढ्या नरा नृपप्रीतिकराश्च वा स्युः ॥ ५१ ॥ इदानीं चतुर्षु केन्द्रेषु शुभै राजयोगमाह—सौम्यैरिति । सौम्यैः = शुभग्रहैः (गुरु- बुध-शुक्लचन्द्रैः) चतुष्केन्द्रगृहोपयातैः = चतुर्ष्वपि केन्द्रेषु (१।४।७।१०) यथा सम्भवं व्यवस्थितैः कुलोत्तमाः = स्वकीयकुले मान्याः, वंशकराः = कुलोपचयकराः, सर्व- ज्ञधीवित्तयशोगुणाढ्याः = सर्वज्ञत्वबुद्धिधनकीर्तिगुणगणैः सहिताः, नृपालाः = राजानः भव- न्ति । अथवा नृपप्रीतिकराः = राज्ञामानन्ददायकाः (सन्मन्त्रिणः) नराः भवन्ति । पापै- श्चतुष्केन्द्रगतैरेतत्प्रतिकूलं फलं वाच्यम् । तथा च क्वचित्पुस्तके— पापैश्चतुष्केन्द्रगृहोपयातैर्नराश्चताचाररताश्च निःस्वाः ॥ मूर्खाः परस्त्रीपरवित्तशीलाः शूराः कदाचिन्नृपतिप्रियाः स्युः ॥ इति च पाठः ॥ ५१ ॥ चारों केन्द्रोंमें शुभ ग्रह हों तो वे ग्रह उत्तम कुलका बनावें वा वे ग्रह सर्वज्ञ, बुद्धिमान् धनवान्, यशस्वी, गुणी और राजाको प्रसन्न करनेवाला मनुष्य बनाते हैं ॥ ५१ ॥ कर्मकर्म्मांशगाः सौम्या जातः पुण्यरतः सदा ॥ पापिनः पापकर्मात्मा चन्द्राद्वा यदि जायते ॥ ५२ ॥ इदानीं पुण्यपापरतत्वमाह—कर्मेति । सौम्याः=शुभग्रहा यदि कर्मकर्म्मांशगाः=लग्ना- दशमे भावे वा तन्नवांशे गताः स्युः (दशमे भावे सौम्यग्रहाभावे दशमराशिनवांशे सौम्यैर्भवितव्यम्) तदा जातः सदा पुण्यरतः = सत्कर्मनिरतो भवेत् । चेत् [पापिनः=पाप- ग्रहाः कर्मकर्म्मांशगाः स्युस्तदा जातः सदा पापकर्मात्मा भवेत् । चन्द्राद्वेति । लग्नात् कर्मणि कर्मांशे च ग्रहाभावे सति चन्द्रात् कर्मकर्मांशे तथाभूते सति तथैव (कथितवत्) जायते । अत्र लग्नाच्चन्द्राद्वा कर्मणि वा कर्मांशे सौम्यपापयोरधिकार- वशादपि फले तारतम्यं कर्त्तव्यमिति ॥ ५२ ॥ लग्नसे या चन्द्रमासे दशमेंमें या दशमके नवांशमें शुभग्रह हो तो जातक सदा पुण्यमें रत हो। यदि इसी तरह पापग्रह हो तो पापी होवे ॥ ५२ ॥ कर्मराश्यंशपो यत्र तदीशः पापखेचरः । धूमादिग्रहसम्बन्धी यदि पापरतो भवेत् ॥ ५३ ॥

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४७१ इदानीं पापरतयोगमाह—कर्मराश्यंशप इति । कर्मराश्यंशपः = कर्मराशेः ( दशम- भावस्य ) यो नवांशस्तत्पतिः यत्र राशौ भवेत् तद्राशीशो यदि पापखेचरस्तथा धूमाद्यु- पग्रहसम्बन्धी स्यात्तदा जातः पापरतः = पापकर्मानुरागी भवेत् ॥ ५३ ॥ दशमेश जहां हो उस स्थानका स्वामी पापग्रह हो तथा यदि धूमादि उपग्रहका सम्बन्धी हो तो पापमें रत होवे ॥ ५३ ॥ सिद्धारम्भः कर्मगे चन्द्रलग्नाद्भानौ भौमे साहसी पापबुद्धिः । विद्वान् सौम्ये वाक्पतौ राजतुल्यः शुक्रे भोगी भानुजे शोकतप्तः ॥ ५४ ॥ इदानीं चन्द्राद्दशमे ग्रहस्थितिवशात्फलान्याह, तत्र तावदेकैकग्रहस्य फलम्-सिद्धा- रम्भ इति । चन्द्रलग्नात् = जन्मकालीनचन्द्राधिष्ठितराशितः, कर्मगे=दशमस्थानगते, भानौ= सूर्ये जातः सिद्धारम्भः = सिद्धाः ( साफल्यमुपगत ) आरम्भाः ( सङ्कल्पाः ) यस्य = सिद्धमनोरथ इति यावद्भवति । भौमे = मङ्गले चन्द्राद्दशमे सति जातः, साहसी = असमी- क्षितकृद् भवति । पापबुद्धिश्च भवति । सौम्ये = बुधे तथाभूते सति, विद्वान् = पण्डितो भवति । वाक्पतौ = बृहस्पतौ तथाभूते सति राजतुल्यो भवेन्न तु राजेति । शुक्रे तथासति भोगी = विविधभोगयुक्तो भवति । भानुजे=शनैश्चरे तथाभूते जातः, शोकतप्तः=चिन्ताकुल- चित्तो भवेदिति ॥ ५४ ॥ चन्द्रलग्नसे सूर्य दशवें हो तो सिद्धारम्भ होवे ( वह जिस कर्मका आरम्भ करे उसकी सिद्धि जरूर हो ), मंगल हो तो साहसी और पापबुद्धि, बुध हो तो विद्वान्, गुरु हो तो राजतुल्य, शुक्र हो तो भोगी और शनि हो तो शोकसे संतप्त होवे ॥ ५४ ॥ चन्द्रात्कर्मगते रवौ सरुधिरे मत्तः परस्त्रीरतो- ज्योतिर्विच्च सचन्द्रजे जलधनस्त्रीभूषणादिप्रियः । सिद्धार्थो नृपसंमतश्च सगुरौ शुक्रेण युक्ते नृप- प्रीतिस्त्रीधनवृद्धिभाक् शनियुते दीनो दरिद्रो भवेत् ॥ ५५ ॥ इदानीं चन्द्राद् दशमे भौमादिसहितस्य सूर्यस्य फलान्याह—चन्द्रादिति । सरुधिरे = मङ्गलेन सहिते रवौ चन्द्रात्कर्मगते सति जातः मत्तः, परस्त्रीरतश्च भवेत् । सचन्द्रजे = बुधयुक्ते रवौ चन्द्राद् दशमे सति ज्योतिर्वित् = ज्योतिषशास्त्रज्ञः, जलधनस्त्रीभूषणादिप्रियः = जलधनानि ( शङ्खमुक्तादीनि ) स्त्रियः ( सुवासिन्यः ) भूषणादयः ( अलङ्करणादयः ) प्रियाः ( अभीष्टाः ) यस्य स तथा भूतो भवेत् । सगुरौ=गुरुणा सहिते रवौ तथाभूते जातः सिद्धार्थः = सफलमनोरथः, नृपसंमतः=राजप्रियश्च भवेत् । शुक्रेण युक्ते रवौ तथा सति नृपप्रीतिस्त्रीधनवृद्धिभाग् भवेत् । शनियुते रवौ चन्द्राद्दशमे सति जातः, दीनः = अप्रसन्न- वदनः, दरिद्रः = निस्वश्च भवेदिति ॥ ५५ ॥ चन्द्रमासे दशवेंमें सूर्य मंगलके साथ हो तो मतवाला तथा परस्त्रीगामी हो । बुधके साथ हो तो ज्योतिषी, जलधन-स्त्री-भूषण आदि का प्रिय होवे । बृहस्पतिके साथ हो तो सिद्धार्थ ( पूर्णमनोरथ ), राजसंमत ( मंत्री ) हो । शुक्रसे युक्त हो तो राजासे प्रीति तथा स्त्री-धन-की वृद्धिवाला और शनिसे युक्त हो तो दुःखी तथा दरिद्र होवे ॥ ५५ ॥ चन्द्रात्कर्मणि भूसुते बुधयुते शास्त्रोपजीवी भवेत् सेज्ये नीचजनाधिपः सभृगुजे वैदेशिकः स्याद्वणिक् । सार्कौ साहसिकोऽसुतश्च शशिनः कर्मस्थिते बोधने सेज्ये षण्ढतनुश्च दीनवचनः ख्यातो नृपालप्रियः ॥ ५६ ॥ भाने चन्द्रमसो बुधे सभृगुजे विद्यावधूवित्तवान् सार्कौ पुस्तकलेखकश्च विषमाचारप्रवृत्तोऽथवा ।

४७२ सटीकजातकपारिजाते- जीवे शुक्रयुते तु विप्रजनपो भूपप्रियः पण्डितः सार्कौ सर्वजनोपतापचतुरो जातः स्थिरारम्भधीः ॥ ५७ ॥ सुगन्धनीलचूर्णादिचित्रकारो भिषग्वणिक् । कर्मस्थानगते मन्दे सासुरेज्ये निशाकरात् ॥ ५८ ॥ इदानीं शशिनो दशमे भौमादिद्विग्रहफलान्याह-चन्द्रादिति । बुधयुते भूसुते = मङ्गले, चन्द्रात्, कर्मणि = दशमगते सति जातः, शास्त्रोपजीवी = शास्त्राणां पठनपाठनादिना जीविकावान् भवेत् । यथाऽऽधुनिकाः पण्डितंमन्याः । सेज्ये = गुरुणा युक्ते भौमे चन्द्राद्दशमे सति नीचजनानाम् ( अशिक्षितानां शूद्रादीनाम् ) अधिपः स्यात् । सभृगुजे = शुक्रसहिते भौमे तथा भूते सति वैदेशिकः = दूरदेशप्रवासी, वणिक् = व्यापारकृत् स्यात् । सार्कौ = शनिना सहिते सति साहसिकः =

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४७३ इदानीं जातस्याज्ञाविचारः क्रियते-आज्ञास्थानाधिप इति । आज्ञास्थानाधिपे=लग्ना- दशमभावेशे, सौम्ये = शुभग्रहे सति वा तस्मिन् शुभग्रहेण युक्ते वाऽवलोकिते सति, अपि वा दशमेशे, शोभनांशगते = शुभग्रहनवांशे गतवति जातस्तु आज्ञाधरः = शासनकृत् भवति । "अववादस्तु निर्देशो निदेशः शासनं च सः । शिष्टिश्चाज्ञा च" इत्यमरः । आज्ञाधिपे = लग्नाद्दशमेशे, मन्दयुते = शनिना सहिते, रन्ध्रनाथेन = लग्नादष्टमेशेन, वीक्षिते = अवलोकिते, क्रूरांशे = पापनवांशे वा केन्द्रराशौ व्यवस्थिते सति स जातः क्रूराज्ञां = गर्हितस्यादेशं, प्रकरोति = पालयति ॥ ५६-६० ॥ दशमेश शुभग्रह हो शुभग्रहसे युक्त हो वा शुभग्रह उसको देखते हों, वा शुभांशमें प्राप्त हो तो जातक आज्ञा देने वाला होवे ॥ ५९ ॥ दशमेश शनिसे युक्त हो, अष्टमेश उसको देखता हो क्रूरांश वा केन्द्र राशिमें हो तो वह क्रूर हुकूमत करता है ॥ ६० ॥ अथ कीर्ति-मान-कृषि-व्यापार-निद्राविचारः । कर्कटस्थे निशानाथे गुरुशुक्रनिरीक्षिते । पारावतादिभागस्थे सत्कीर्तिर्धनवान् भवेत् ॥ ६१ ॥ कर्कटस्थ इति । निशानाथे = चन्द्रे, कर्कटस्थे = स्वगृहं गते, गुरुशुक्राभ्यां निरीक्षिते तथा पारावतप्रभृति-वैशेषिकांशे गतवति जातः सत्कीर्त्तिः = पारमार्थिककृत्यकृत्, धन- वांश्च भवेत् ॥ ६१ ॥ चन्द्रमा कर्क राशिमें हो उसको बृहस्पति और शुक्र देखते हों, तथा चन्द्रमा अपने पारावतादि भागमें हो तो जातक सत्कीर्ति वाला धनी हो ॥ ६१ ॥ मानेशे शुभसंयुक्ते शुभमध्यगतेऽपि वा । शुभग्रहांशके वाऽपि कीर्तिमानभिमानवान् ॥ ६२ ॥ मानेश इति । स्पष्टार्थः ॥ ६२ ॥ दशमेश शुभग्रहसे युक्त हो वा शुभग्रहके बीचमें हो वा शुभग्रहके अंशमें हो तो कीर्ति- मान् और अभिमानी जातक हो ॥ ६२ ॥ पापेक्षते कर्मणि पापयुक्ते मानाधिपे हीनबलोपयाते । जातोऽपवादी विगताभिमानः स्वकर्मतेजोबलकीर्तिहीनः ॥ ६३ ॥ पापेक्षित इति । कर्मणि = लग्नाद्दशमे भावे पापेक्षिते = पापग्रहेणावलोकिते, वा पापयुक्ते, मानाधिपे = दशमेशे, हीनबलोपयाते = यत्र कुत्रापि दौर्बल्यमुपगते सति जातो नरः अपवादी = कलङ्कयुतः, विगताभिमानः = मानहीनः, स्वकर्मणा, तेजसः, बलेन, कीर्त्या च हीनोऽपि भवति ॥ ६३ ॥ दशवें भावमें बलरहित दशमेश हो उस पर पापग्रहकी दृष्टि हो वह पापग्रहसे युक्त हो तो जातक अपवादी हो, अभिमान रहित हो और अपने कर्मसे, तेजसे, बलसे, कीर्तिसे हीन होवे ॥ ६३ ॥ कर्मेशतन्नवांशेशौ शनिसम्बन्धसंयुतौ । षष्ठाधिपयुतौ दृष्टौ बहुदारान्वितो भवेत् ॥ अथ बहुदारयोगः-कर्मेशेति । कर्मेशतन्नवांशेशौ = दशमेशः तन्नवांशपतिश्चैतौ द्वौ शनिसम्बन्धसंयुतौ = शनैश्चरस्य सम्बन्धिनौ ( शनिना दृष्टौ, वा युतौ, शनिराशिगतौ, वा शनिमित्रग्रहौ ) भवेतां तथा, षष्ठाधिपेक्षितयुतौ = षष्ठेशेन दृष्टौ वा युतौ भवेतां तदा जातो जनो बहुदारान्वितः = त्र्यधिकस्त्रीयुतो भवेत् ॥ ६४ ॥ दशमेश और उसका नवांशेश दोनों शनिके सम्बन्धी हों और षष्ठेशसे युक्त दृष्ट हों तो बहुत स्त्री वाला हो ॥ ६४ ॥

४७४ सटीकजातपारिजाते- भूसूनुक्षितिराशिपौ च बलिनौ केन्द्रत्रिकोणायगौ कर्मेशो भृगुचन्द्रवीक्षितयुते कृष्यादिगोवित्तवान् । सम्बन्धी यदि कर्मणः शशिसुतो वाणिज्यशीलः सदा सौम्यासौम्ययुते तु सात्त्विकतमोनिद्री विमिश्रेऽन्यथा ॥ ६५ ॥ इदानीं कृषिगोधनानां, वाणिज्यस्य, निद्रायाश्च विचारमाह—भूसूनुक्षितीति । भूसूनु- क्षितिराशिपौ = भौमश्चतुर्थभावपतिश्चैतौ द्वौ च बलिनौ भूत्वा केन्द्रत्रिकोणायगौ ( १।४।७। १०, ५।९।११ एतदन्यतमगतौ ) भवेताम्, तथा कर्मेशे = दशमेशग्रहे भृगुचन्द्राभ्यां वीक्षि- ते = दृष्टे, वा युते = सहिते सति जातः कृष्यादिगोवित्तवान् = कृषि-गो-धनयुक्तो भवेत् । वाणिज्यमाह—सम्बन्धीति । शशिसुतः = बुधः यदि कर्मणः = दशमभावस्य सम्बन्धी = सम्बन्धचतुष्टयेष्वन्यतमसम्बन्धवान् भवेत् तदा जातः सदा वाणिज्यशीलः = व्यापारकृत् स्यात् । निद्रामाह—सौम्यासौम्येति । दशमे भावे सौम्यासौम्ययुते = शुभपापसहिते क्रमेण सात्त्विकतमोनिद्री भवेत् । यथा दशमे शुभग्रहयुते सात्त्विकनिद्री ( विहितनिद्रावान् ) योगीव, दशमे पापग्रहयुते तमोनिद्री ( गर्हितनिद्रायुतः, रोगीव ) भवेत् । विमिश्रे = दशमे शुभ- पापाभ्यां सहिते सति अन्यथा = रजोनिद्री ( भोगीव ) भवेदिति ॥ ६५ ॥ मङ्गल और चतुर्थेश बली होकर १।४।७।१०।५।९।११ भावोंमें किसी भावमें हों और कर्मेश शुक्र तथा चन्द्रमासे दृष्ट या युत हों तो जातक कृषि और गो-धनवाला हो । यदि बुध १० वें भावका सम्बन्धी हो तो सदा व्यापार करनेवाला हो । यदि १० वां भाव शुभ ग्रहसे युत हो तो सात्त्विक निद्रावाला तथा पापग्रहसे युत हो तो तमो निद्रावाला एवं मिश्र ( शुभ और पाप ) ग्रहसे युत होने पर मिश्र फल कहना चाहिये ॥ ६५ ॥ इति दशमभावविचारः । —०००००००— अथ लाभभावफलम् । अथाधुना लाभभावफलविचारः प्रारब्धः । तत्रादौ लाभभावे विचारणीयकथनपूर्वकं तत्र सूर्यादिग्रहस्थितिवशाल्लाभमाह- लाभस्थानेन लग्नादखिलधनचयप्राप्तिमिच्छन्ति सर्वे लाभस्थानोपयातः सकलबलयुतः खेचरो वित्तदः स्यात् । भानुश्चेज्ज्ञातिवर्गादितिधनमुडुपो मातृवर्गेण भौमः स्वोत्थाच्चान्द्रियदीप्तप्रसुविबुधसुहृन्मातुलैर्वित्तमेति ॥ ६६ ॥ जीवो यच्छति वेदशास्त्रयजनाचारादिपुत्रैर्धनं शुक्रः स्त्रीजनकाव्यनाटककलासङ्गीतविद्यादिभिः । दासीदासकृषिक्रियार्जितधनं धान्यं समृद्धं शनि- र्विप्रादिद्युचरेण वीक्षितयुते विप्रादयो वित्तदाः ॥ ६७ ॥ लाभस्थानेनेति । लग्नात् लाभस्थानेन = एकादशभावेन अखिलधनचयप्राप्तिं = सर्वे- षामेव धनानां चयं = वृद्धिं, प्राप्तिं = लाभं च सर्वे होराशास्त्रविद इच्छन्ति । निखिलधन- वृद्धिलाभमेकादशभावतो विचारयेदिति भावः । यः कोऽपि ग्रहः सकलबलयुतः = पूर्णबलवान् सन् लाभस्थानोपयातः = एकादशभा- वमुपगतः स्यादासौ वित्तदः = धनलाभकरः स्यात् । अथैकादशे ग्रहस्थितिपरत्वेन धनलाभमूलमाह—भानुरिति । सूर्यश्चेद्यदि लाभ-

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४७५ स्थाने पूर्णबलयुतो भवेत्तदा ज्ञातिवर्गाल्लाभं करोति । उडुपः = चन्द्रस्तथा भवेत् तदा मातृवर्गेण = मातृ-मातामही-मातृष्वसृभ्यः अतिधनमुपैति । भौमः तथा भवेत् तदा स्वोत्थात् = भ्रातृवर्गात्, चान्द्रिः = बुधः तथा भवेत् तदा इष्टः = आत्मीयः, प्रभुः = स्वामी (मालिकं), विबुधः = देवो ब्राह्मणश्च, सुहृत् = मित्रम्, मातुलः = मातृभ्राता, तैः वित्तं = धनम्, एति = प्राप्नोति । जीवः = गुरुः पूर्णबलो लाभस्थाने स्यात् तदा वेद- शास्त्रयजनादीनामाचारादिना = अध्ययनध्यापनयज्ञादिव्यवहारतः, पुत्रैश्च धनं यच्छति । शुक्रः तथा भवेद् तदा स्त्रीजनैः, काव्यादिना, नाटकेन, कलाभिः (शिल्पादिभिः) सङ्गीत- विद्यादिभिश्च धनं प्राप्नुयात् । शनिः लाभस्थाने पूर्णबलोपेतो भवेत्तदा दासी-दास-कृषि- क्रियाभिः = स्त्रीचेत्तदा दासीक्रियया, पुमांश्चेत्तदा दास-(सेवक) वृत्त्या कृषिकर्मणा चोपा- र्जितं धनं, धान्यं, समृद्धं (सम्पत्तिं) लभते । अथ जातिवशाद्धनलाभमाह-विप्रेति । एकादशे भावे विप्रादियुग्वरेण = ब्राह्मणादि- जातिग्रहेण वीक्षिते वा युते विप्रादयो वित्तदा भवन्ति । अर्थात् गुरुशुकौ सबलौ लाभस्थौ वा लाभेशकौ स्याताम् तदा जातस्य ब्राह्मणद्वारेण धनाप्तिः । सूर्यभौमौ तथा चेत्तदा क्षत्रि- यद्वारेण, चन्द्रस्तथा स्यात्तदा वैश्यवशात्, बुधस्तथा स्यात्तदा शूद्रवशात्, शनिस्तथा चेत्तदा अन्त्यजैः (म्लेच्छैः) धनाप्तिर्वाच्येति ॥ ६६-६७॥ अब लाभ भावका विचार कहते हैं-लग्नसे ग्यारहवें भावसे सम्पूर्ण धन प्राप्तिका विचार सभी आचार्योंका मत है। प्रत्येकबलसे युक्त ग्रह लाभस्थानमें प्राप्त हो तो धनको देता है। वहां यदि बलवान् सूर्य लाभस्थानमें हो तो अपने जाति (दायादों) से धन मिले। चन्द्रमा हो तो मातृवर्गसे। मङ्गल हो तो भाईसे। यदि बुध हो तो प्रभुसे, देवतासे, मित्रसे और मामासे धन मिले ॥ ६६॥ गुरु हो तो वेद-शास्त्र-यज्ञादि-आचारसे तथा पुत्रसे धन मिले। शुक्र हो तो स्त्रीजनसे काव्य-नाटक-कला-सङ्गीत-विद्यासे । शनि हो तो दासी-दास-कृषि-क्रियासे उपार्जित धनधान्य समृद्धि युत हो । लाभस्थान यदि ब्राह्मणादि ग्रहसे युत दृष्ट हो तो ब्राह्मणादिसे धन मिले ॥ ६७॥ आयस्थः शुभखेचरः शुभधनं पापस्तु पापार्जितं मिश्रैर्मिश्रधनं समेति मनुजस्तज्जातकोक्तं वदेत् । लाभस्थानगतः समस्तगुणवानिष्टाधिकश्चेद्वली जातो यानविभूषणावरवधूभोगादिविद्याधिकः ॥ ६८ ॥ आयस्थ इति । स्पष्टार्थ एवेत्यलम् ॥ ६८ ॥ लाभ भावमें शुभग्रह हो तो शुभसे धन, पापग्रह हो तो पापसे धन, मिश्र ग्रह हो तो शुभ तथा पापसे उत्पन्न धन मनुष्यको हो ऐसा कहे। लाभस्थानमें अधिक बलवान् ग्रह हो तो समस्त गुणवाला तथा मित्रवाला, यान (वाहन), विभूषण, वस्त्र, स्त्री भोगादिसे, पूर्ण विद्वान् हो ॥ ६८ ॥ वित्तेशायगृहाधिपौ तनुपतेरिष्टग्रहौ चेद्धनं सत्कर्मामखविप्रपुण्यविषये दानादियोग्यं वदेत् । आयस्थो चिबलः पराजितबलो नीचारिदुःस्थानपो रेकायोगकरो यदि प्रतिदिनं कुर्यांत भिक्षाटनम् ॥ ६६ ॥ वित्तेशेति । वित्तेशायगृहाधिपौ = द्वितीयैकादशेशौ चेद्यदि तनुपतेः = लग्नेशस्य, इष्टग्रहौ = मित्रग्रहौ स्याताम् तदा जातस्य धनं सत्कर्मणि = यज्ञायनुष्ठाने, अमराणां देवानां) पूजनादौ, विप्राणामध्ययनाध्यापने, पुण्यविषये (तीर्थक्षेत्रादौ) च दानादियोग्यं भवतीति वदेत् ।

आयस्थ इति । विबलः = निर्बलः, वा ग्रहयुद्धे पराजितबलः, वा नीचारिदुःस्थानपः = नीचगतः, शत्रुगृहस्थः, दुःस्थान-(६।८।१२) पतीर्वा ग्रहो यदि आयस्थः = लाभस्थान- (११) गतः स्यात्तदा रेकायोगकरः = दारिद्र्ययोगकरः (६ अ० द्र०) स्यादसौ जातकः प्रतिदिनं भिक्षाटनं कुर्यात् । अस्मिन् योगे जातो नरो भिक्षारशी भवेदिति भावः ॥ ६९ ॥ धनेश, और लाभेश यदि लग्नेशके मित्र हों तो उसका धन सत्कर्म-देवता-विप्र- पुण्य-विषयमें दान आदिके योग्य कहे । विबल, पराजित, नीचगत, शत्रुगृहस्थ, दुःस्थानपति और रेकायोगकर्त्ता ग्रह यदि ११ भावमें प्राप्त हो तो प्रतिदिन भिक्षा मांगनेवाला हो ॥ ६९ ॥ लाभेशो दिनपेऽथवा शशधरे भूपालतुल्याश्रयाद् भौमे मन्त्रिजनाग्रजानुजकृषिद्वारैर्धनं लभ्यते । विद्याबन्धुसुतैः सुधाकरसुते जीवे निजाचारतः शुक्रे रत्नवधूगजादिपशुभिर्मन्दे कुवृत्त्या श्रियम् ॥ ७० ॥ इदानीं सूर्यादिग्रहे लाभभावेशो सति फलानि-लाभेशे दिनप इति। स्पष्टार्थ एवेति॥ ७०॥ यदि सूर्य वा चन्द्रमा लाभेश हो तो राजाके सदृश धनवान्‌के आश्रयसे, मंगल लाभेश हो तो मन्त्री, ज्येष्ठ तथा छोटे भाईसे और कृषिसे धन प्राप्त हो । बुध लाभेश हो तो विद्या-बन्धु-पुत्रसे धन लाभ हो । बृहस्पति लाभेश हो तो अपने आचारसे धन प्राप्त हो । शुक्र हो तो रत्न-स्त्री तथा हाथी आदि पशुसे लाभ हो । यदि शनि लाभेश हो तो कुवृत्तिसे धन लाभ होवे ॥ ७० ॥ लाभस्थानपतौ विलग्नभवनात् केन्द्रत्रिकोणस्थिते लाभे पापसमन्विते तु धनवान् तुङ्गादिराश्यंशके । तत्तत्कारकवर्गतो बलवशाद् योगानुसारं वदेत् तत्तत्खेटदशापहारसमये वित्तं वदेत्तद्दिशि ॥ ७१ ॥ लाभस्थानपताविति । एकादशभावस्वामिनि ग्रहे विलग्नभवनात् = जन्मलग्नात् केन्द्रे त्रिकोणे वा स्थिते, वा लाभे= एकादशभावे, पापसमन्विते=पापेन केनचित् सहिते, वा लाभेशे तुङ्गादिराश्यंशके विद्यमाने सति जातो जनस्तु धनवान् भवेत् । तथा च सर्वार्थचिन्तामणौ- “लाभेश्वरे केन्द्रगते त्रिकोणे वा समन्विते । लाभे वा पापसंयुक्त धनलाभमुदीरयेत्” । इति ॥ कया रीत्या धनलाभं वदेदित्याह - तत्तदिति । बलवशात् योगानुसारं च = धनला- भयोगे यो ग्रहो योगकृद्भवेत्तद्बलानुसारं (न्यूनाधिक्यम्) तत्तत्कारकवर्गतः = स योगकृद् ग्रहो यद्भावस्य कारको भवेत्तद्वर्गवशाल्लाभं वदेत् । कदा कुत्र च लाभं वदेदित्याह । तस्य योगकृतो ग्रहस्य दशापहारसमये, तद्दिशि च = योगकृद् ग्रहो यदिगधिपो भवेत्तस्यां दिशि वित्तं = धनलाभं वदेदिति ॥ ७१ ॥ लाभ स्थानका स्वामी लग्नसे केन्द्र या कोणमें स्थित हो लाभमें पापग्रह हो वा लाभेश उच्च आदि राशि या उसके नवांशमें हो तो धनवान् होवे । लाभ कारक ग्रहके साथ और योगके अनुसार उस ग्रहकी जाति द्वारा लाभ कहे । लाभ कारक ग्रहकी दशा तथा अन्त- र्दशामें उसी ग्रहकी दिशामें लाभ कहना चाहिये ॥ ७१ ॥ इति लाभभावविचारः । अथ व्ययभावफलम् ॥ अथाधुना व्ययभावफलानि विवक्षुरादौ व्ययभावे विचारणीयविषयकथनपूर्वकं विविध- देशवनाटनयोगमाह —

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४७७ लग्नादन्त्यतदीशभानुतनयैर्दूरारटनं दुर्गतिं दातृत्वं शयनादिसौख्यविभवं वित्तक्षयं चिन्तयेत् । रिष्फस्थे चरखेचरे चरगृहे दुःस्थाननाथेऽथवा नानादेशवनाटनो हि शनिना युक्तेऽथवाऽऽलोकिते ॥ ७२ ॥ लग्नादिति । दूरारटनं = दूरदेशादिभ्रमणम् , दुर्गतिं = यातनाम् , दातृत्वं = दानकर्म ( त्यागम् ), शयनादिसौख्यविभवं = पर्य्यङ्कादिसुखसम्पत्तिम् , वित्तक्षयं = धनापव्ययश्चै- तानि, लग्नादन्त्यतदीशभानुतनयैः = द्वादशभाव-द्वादशभावेश -शनैश्चरैः, चिन्तयेत् = विचारयेत् । रिष्फस्थ इति । चरखेचरे = चरप्रकृतिग्रहे = चन्द्रे ( २ अ० ४७ श्लो० द्र० ), अथवा दुःस्थाननाथे = षष्ठव्ययान्यतमभावपतिग्रहे चरगृहे सति, रिष्फस्थे=व्ययभावमुपगते तस्मिन् शनिना युक्ते अथवा आलोकिते च सति जातो जनः, हि=निश्चयेन, नानादेशवनाटनः=विवि- धदेशेषु वनेषु च भ्रमणशीलो भवेदिति ॥ ७२ ॥ अब व्ययभावका विचार कहते हैं:—१२ वें भाव, द्वादशेश और शनिसे दूरका जाना, दुर्गति, दान, शयनादिसौख्य, विभव और वित्तक्षयका विचार करे । द्वादश भावमें चरग्रह हो अथवा चरगृहमें दुष्ट स्थानका स्वामी हो शनिसे युक्त या दृष्ट हो तो जातक नानाप्रकारके देश और वनमें घूमनेवाला होवे ॥ ७२ ॥ अथ व्ययविचारः । रिष्फस्थानगते शुभे शुभयुते सौम्यग्रहालोकिते तन्नाथे विबलेऽरिनीचगृहगे वित्तव्ययाभावभाक् । रिष्फस्थे विबले बलेन सहिते रिष्फाधिपे वित्तहा मिश्रव्योमचरान्विते तु सकलं मिश्रव्ययं देहिनाम् ॥ ७३ ॥ रिष्फस्थानगत इति । शुभयुते = केनचित् शुभग्रहेण सहिते, शुभे = कस्मिंश्चिच्छुभ- ग्रहे रिष्फस्थानगते=द्वादशभावमुपगते, तस्मिन् सौम्यग्रहेणालोकिते, तथा तन्नाथे = द्वाद- शेशे, विबले = बलरहिते, अरिनीचगृहगे वा सति, जातः वित्तव्ययाभावभाक् = धनव्ययर- हितः ( धनसञ्चयकृदेव ) भवेत् । अथ धनहानियोगः—रिष्फस्थ इति । द्वादशे भावे विबले ग्रहे गतवति, रिष्फाधिपे = द्वादशेशे बलेन सहिते च सति जातः वित्तहा = धनक्षयकरः स्यात् । मिश्रेति । तस्मिन् द्वादशभावेशे वा द्वादशे भावे मिश्रव्योमचरान्विते = पापेन सौम्येन च सहिते तु देहिनां = जनिमताम् सकलं मिश्रव्ययं = साधारणं ( सन्मार्गेऽसन्मार्गेऽपि ) धनव्ययं ब्रूयादिति ॥ ७३ ॥ १२ वें भावमें शुभग्रह शुभग्रहसे युत और दृष्ट हो उसका स्वामी विबल, नीच, शत्रु- गृहमें हो तो धनका व्यय न हो । द्वादशमें निर्बल ग्रह हो और द्वादशेश बलसे युक्त हो तो धनकी हानि करनेवाला हो । १२ वां भाव या द्वादशेश मिश्रग्रह ( शुभग्रह और पापग्रह ) से युक्त हो तो मिश्रव्यय ( शुभ तथा अशुभमें खर्च ) हो ॥ ७३ ॥ इष्टव्ययो भवति शोभनवर्गयाते दुष्टव्ययो विबलखेटयुतेक्षिते वा । यत्कारकद्युचरवर्णजनादनर्थं जातः समेति बलहीनदशापहारे ॥ ७४ ॥ इदानीं शुभाशुभव्ययविचारमाह—इष्टव्यय इति । द्वादशे द्वादशेशे वा शोभनवर्ग- याते, वा सबलखेटयुतेक्षिते जातः इष्टव्ययः = सन्मार्गे धनव्ययकृद् भवति । अथवा तस्मिन् विबलखेटयुतेक्षिते, दुष्टव्ययः = अपमार्गे व्ययकृद्भवति ।

४७८ सटीकजातकपारिजाते- यदिति । बलहीनदशापहारे = द्वादशस्थो द्वादशेशो वा बलहीनः स्यात्तदा तस्य दशा- न्तर्दशायां, यत्कारकद्युचरवर्गजनात् = तादृशोऽसौ ग्रहो यत्कारको भवेत्तद्वर्गजनात् जात अनर्थं = दुर्गतिं, समेति = प्राप्नोति ॥ ७४ ॥ द्वादशेश शुभवर्गमें हो त। इष्ट व्यय होता है । निर्बल ग्रहसे युत दृष्ट हो तो दुष्ट व्यय हो । दुष्ट फल कारक ग्रह जिस जातिका हो उसी वर्गके द्वारा उस निर्बल ग्रहकी दशा भुक्तिमें जातक दुःख पाता है ॥ ७४ ॥ क्रूरग्रहे बलवति व्ययगेऽरिनाशस्थानाधिपे कृषिधनस्थितिनाशकः स्यात् । रिष्फे चतुर्द्विपदभे सह तत्पदेन खेतेन सर्वपशुभृत्यविनाशमेति ॥ ७५ ॥ क्रूरग्रह इति । अरिनाशस्थानाधिपे=षष्ठाष्टमान्यतराधीशेशे, क्रूरग्रहे=पापग्रहे बलवति च सति, व्ययगे=द्वादशभावमुपगते जातः कृषिधनस्थितिनाशकः स्यात् । रिष्फ इति । द्वादशे भावे चतुर्द्विपदभे = चतुष्पद-( चापापरार्द्धहरिगोमकरादिमेषा- न्यतमे ) भे वा द्विपद-(कन्यान्नृयुग्मघटतौलिशरासनाद्यन्यतमे)भे, तत्पदेन खेतेन चतुष्पद- ग्रहेण (शनिभौमान्यतरेण ) द्विपदग्रहेण (गुरुशुक्रान्यतरेण) वा सह व्यवस्थिते ( चतुष्प- दराशौ चतुष्पदग्रहेण, द्विपदराशौ द्विपदग्रहेणेत्यर्थः ) जातः सर्व-पशु-भृत्य-विनाशमेति ॥ षष्ठेश या अष्टमेश बलवान् पापग्रह होकर १२ वें भावमें हो तो कृषि, धन तथा स्थान का नाश हो । द्वादश भावमें चतुष्पद या द्विपद राशि हो उसमें वैसा ही ग्रह भी हो तो सभी पशुओं और नौकरोंका नाश होता है ॥ ७५ ॥ विप्रादिखेचरयुते सति विप्रमुख्यैः जीवर्गतस्तु तरुणीखचरेण युक्ते । रिष्फे नरग्रहयुते रिपुणा सुहृद्भे जातः सुहृज्जनवशाद्धननाशमेति ॥ ७६ ॥ विप्रादीति । रिष्फे विप्रादिखेचरयुते सति विप्रमुख्यैः=ब्राह्मणादिभिः धनव्ययो वाच्यः । एतदुक्तं भवति । गुरुशुक्रान्यतरे द्वादशे सति ब्राह्मणद्वारेण, कुजार्कान्यतरे सति क्षत्रियेण, चन्द्रे सति वैश्येन, बुधे सति शूद्रेण, शनिराहुकेतूनामम्यतमे म्लेच्छै र्धनव्ययो वाच्य इति । तरुणीखचरेण = स्त्रीग्रहेण = चन्द्रशुक्रान्यतरेण युक्ते रिष्फे तु जीवर्गतः = योषित्जनव- शाद्धनव्ययः स्यात् । रिष्फे नरग्रहयुते = सूर्य-कुज-गुरुयुते, रिपुणा = शत्रुद्वारेण, तस्मिन्नेव रिष्फे सुहृद्भे = मित्रग्रहराशौ, नरग्रहयुतेऽर्थान्न रग्रहस्यासौ द्वादशो भावः सुहृद् भवेत्तदा जातः सुहृज्जनवशात् = मित्रजनद्वारेण धननाशमेति ॥ ७६ ॥ १२ वां भाव विप्रादि ग्रहसे युक्त हो तो विप्रादि जातिसे, जीवसंज्ञकग्रहसे युक्त हो तो स्त्रीवर्गसे, १२ वां भाव नर ग्रहसे युक्त हो तो शत्रुके द्वारा, यदि वह मित्रराशिमें हो तो मित्रसे जातकका धन नाश होता है ॥ ७६ ॥ अथ दानविचारः । त्यागी शुभग्रहयुते कृषकश्च धर्मी पापेऽवसानगृहगे तु विवादशीलः । नेत्रामयः पवनकृच्चपलोऽटनः स्यादुच्चस्वमित्रभवने तु परोपकारी ॥ ७७ ॥ त्यागीति । रिष्फेः शुभग्रहयुते जातः त्यागो = दानशीलः, कृषकः = कृषिकृत्, धर्मी= धर्मात्मा च भवति । पापे = पापग्रहे अवसानगृहगे = द्वादशभावमुपगते तु विवादशीलः = विषमभाषणपरः, पदनकृत् , नेत्रामयः=चक्षूरोगवान् , चपलः=चञ्चलः, अटनः=भ्रमणशीलः, स्यात् । तस्मिन्नेवावसानगृहे पापे उच्च-स्व-मित्रभवने गतवति तु जातः परोपकारी=अ- न्योपकृतिकृद्भवेदिति ॥ ७७ ॥ व्यय भाव शुभग्रहसे युक्त हो तो त्यागी, कृषक और धर्मात्मा हो । द्वादश भाव पापग्रह से युक्त हो तो विवादी, वातव्याधिके कारण नेत्ररोगी, चपल और घूमनेवाला हो । यदि द्वादशस्थ ग्रह उच्च, स्वगृही या मित्र गृही का हो तो परोपकारी होवे ॥ ७७ ॥

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४७६ भानुर्वा कृशशीतगुर्व्ययगतो वित्तस्य नाशं नृपै- भौमो नाशयतीन्दुजेक्षितयुतो नानाप्रकारैर्द्धनम्। वागीशेन्दुसिता यदि व्ययगता वित्तस्य संरक्षकाः सौम्यः शुक्रयुतेक्षितो यदि नृणां शय्यासुखं जायते ॥ इदानीं धननाशं, धनरक्षां, शय्यासुखञ्चाह—भानुरिति। भानुः = सूर्यः, वा कृशशी- तगुः = क्षीणचन्द्रः, व्ययगतः = द्वादशस्थानगतः स्यात्तदा नृपैः = राजभिः, वित्तस्य=धनस्य नाशं ब्रूयात् । भौमः = मङ्गलो व्यये, इन्दुजेक्षितयुतः = बुधेन दृष्टो वा युतः स्यात्, तदा नानाप्रकारैः = विविधहेतुभिः धनं नाशयति । वागीशेन्दुसिताः = गुरुचन्द्रशुक्राः सम्मिलिताः यदि व्ययगताः स्युस्तदा ते वित्तस्य संरक्षका भवन्ति । न तदानीं धनस्य व्ययो वाच्य इति । सौम्यः = बुधः शुक्रेण युक्तः, वा दृष्टो यदि व्यये स्यात् तदा नृणां=जनिमताम्, शय्या- सुखं = पर्यङ्गानन्दो जायते ॥ ७८ ॥ सूर्य वा क्षीण चन्द्रमा बारहवें हो तो राजाके द्वारा धनका नाश हो । मंगल बुधसे युक्त या दृष्ट हो तो नाना प्रकारसे धनका संहार करे । यदि बारहवें चन्द्रमा, शुक्र और बृहस्पति हों तो धनके रक्षक होते हैं । यदि बुध शुक्रसे युक्त या दृष्ट हो तो मनुष्योंको शय्याका सुख होवे ॥ ७८ ॥ अथ शयनविचारः । व्ययेशे स्वोच्चराशिस्ये शुभवर्गसमन्विते । शुभखेचरसंदृष्टे पर्यङ्कशयनं वदेत् ॥ ७६ ॥ विचित्रमञ्चे शयनं व्ययेशे परमोच्चगे । भाग्यनाथेन वा दृष्टे मणिरत्नविभूषितम् ॥ ८० ॥ इदानीं जातस्य शय्याविचारमाह—व्ययेश इति । व्ययेशः ( द्वादशेशः ) स्वोच्चन्न- राशिगतः शुभवर्गगतः शुभग्रहदृष्टश्च भवेत्तदा जातस्य पर्यङ्कशयनं = मञ्च = खट्वा-शयनं वदेत् । व्ययेशः परमोच्चगतः, भाग्यनाथेन = नवमेशेन दृष्टो वा भवेत्तदा विचित्रमञ्चे = विविधशिल्पसञ्चिते पर्यङ्के मणिरत्नविभूषितं शयनं = शय्या स्यात् ॥ ७९–८० ॥ द्वादशेश अपने उच्चराशिमें हो, शुभवर्गमें हो, शुभग्रहसे देखा जाता हो तो पर्यङ्क ( पलङ्ग ) पर शयन कहे ॥ ७९ ॥ द्वादशेश परम उच्च स्थानमें हो तो विचित्र मणिरत्नसे विभूषित शय्यापर शयन हो ८० शुक्रे वा रविनन्दने हिमकरे रन्ध्रत्रिकोणस्थिते तद्गेहे शिथिलीभवेन्नृपतनं जातस्य केत्वन्विते ॥ निद्रास्त्रीकृकलासगौलिपतनं पापन्विते भार्गवे भौमे कच्छपदर्शनं बुधयुते जातः श्वदष्टो भवेत् ॥ ८१ ॥ शुक्रे वेति । शुक्रे, रविनन्दने=शनैश्चरे, वा हिमकरे = चन्द्रे, रन्ध्रत्रिकोणस्थिते=अष्ट- मात् ९।५ भावे गतवति, केत्वन्विते = केतुना सहिते च तस्य जातस्य गेहे नृपतनं = अकस्मान्मनुष्याणां निपतनं शिथिलीभवेन्न भवेदित्यर्थः । अथ तत्र भार्गवे = शुक्रे, पापा- न्विते सति, निद्रास्त्री = सुपुप्ता नारी, कृकलासः=सरटः ( पल्लीविशेषः ) गौलिः=गौधेयः ( विषखपरा ) एषां पतनं भवेत् । तत्र भौमे सति जातस्य कच्छपदर्शनं = शयनकाले स्वप्ने कच्छपस्य दर्शनं जायते । तत्र बुधयुते सति जातः श्वदष्टः = शुना दंशितो भवेत् ॥ शुक्र शनि वा चन्द्रमा अष्टमके त्रिकोणमें स्थित हो केतुके साथ हो तो जातकके घरमें 32

४८० सटीकजातकपारिजाते- नरपतन शिथिल हो । यदि वहां पापग्रहसे युक्त शुक्र हो तो निद्रा स्त्री, गिरगिट तथा गौलि (विखखपरा) का पतन हो। मंगल हो तो स्वप्नमें कछुआ देख परे। बुधसे युक्त हो तो कुत्तेसे काटना कहे ॥ ८१ ॥ अथ गतिविचारः । मन्दाहिध्वजसंयुते तु निधनस्थानाधिपेनान्विते रिष्फे दुर्गतिमेति षष्ठपतिना दृष्टेऽथवा मानवः ॥ जातो याति परं पदं सुरगुरौ लग्ने भृगौ कामगे कन्यास्थे रजनीकरे यदि धनुर्लग्ने च मेषांशके ॥ ८२ ॥ इदानीं जातस्यावसाने गतिविचारमाह-मन्दाहीति । निधनस्थानाधिपेन = अष्टमभा- वेशेन, अन्विते = सहिते, रिष्फे = द्वादशे भावे, मन्दाहिध्वजसंयुते = शनिराहुकेत्वन्यतमेन च सहिते अथवा तस्मिन् षष्ठेशेन दृष्टे जातो मानवोऽवसानकाले दुर्गतिं = यातनां (नरकम्) एति = प्राप्नोति । अथ परं पदमाह-जात इति । सुरगुरौ = बृहस्पतौ लग्ने जन्मकालीनलग्ने, भृगौ = शुक्रे, कामगे = सप्तमगते, रजनीकरे = चन्द्रे, कन्यास्थे = कन्याराशिसुपगते सति जातो नरः परं पदं = निर्वाणपदं ( मोक्षस्थानम् ) यद् गत्वा पुनर्न निवर्त्तते तत्— 'यद् गत्वा न निवर्त्तन्ते तद्धाम परमं ममे'ति श्रीभगवद्वचनात् । याति गच्छति । अस्मिन्योगे लग्नं निर्दिशति-'यदि धनुर्लग्ने च मेषांशके' अर्थात्धनुराशौ मेषनवांशे च ( ८।३°।२०' । ०" ) लग्नं स्यादिति । अस्यामवस्थायां गुरुः स्वराशौ लग्नगतः, शुक्रः स्वराशौ सप्तमशः, चन्द्रः षष्ठे कन्यागतएव भवेदिति स्पष्टमेव ॥ ८२ ॥

१ ल. <br> दुर्गंतियोगःमं. रा. श.
६ बु.

(चक्र २)

९ बृ. <br> ल ३° १२०' <br> परं पदयोगः
६ चं.७ शु.

द्वादश भाव शनि, राहु या केतुसे युक्त हो फिर अष्टमेशसे युक्त हो, अथवा षष्ठेशसे दृष्ट हो तो मरनेके बाद दुर्गति हो । वा वृहस्पति लग्नमें हो, शुक्र सप्तममें हो, कन्यापर चन्द्रमा हो यदि धनु लग्नमें मेषका नवांश हो तो जातक परम पद ( मोक्ष ) प्राप्त करे ॥ ८२ ॥ दुःस्थे दुष्टगृहाधिपे बलयुते तद्भावपुष्टिं वदे- द्यायुःस्थानपतौ तु यत्र विबले तद्भावनाशं तथा । लग्नेशः शुभखेटवीक्षितयुतो यद्भावयातो बली तद्भावस्य शुभं करोति विपुलं नीचारिगस्त्वन्यथा ॥ ८३ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते पञ्चदशोऽध्यायः ॥ १५ ॥ इदानीं ग्रहस्थितिवशाद्भावानां शुभाशुभत्वमाह-दुःस्थ इति । बलयुते = पूर्णबले दुष्टगृहाधिपे = षष्ठाष्टमद्वादशभावाधीशे, दुःस्थे = षष्ठाष्टमद्वादशान्यतमभावगते इति तद्भा- वपुष्टिं वदेत् । विबले = निर्बले, आयुःस्थानपतौ = अष्टमेशग्रहे तु यत्र भावे सति तद्भावस्य नाशं ब्रूयात् । निर्बलोऽष्टमेशो यद्भावगतः स्यात्, तद्भावनाश इति भावः । बली लग्नेशः शुभखेटेन वीक्षितो वा युतो यस्मिन् भावे गतः स्यात् तद्भावस्य विपुलम्=अतीव, शुभं =

श्रीजातकाध्यायः ।।१६।। ४८१ पुष्टिं करोति । स एव लग्नेशो नीचारिगो भूत्वा यद्भावगः स्यात्तस्यान्यथा=अशुभमेवकरोतीति । इति द्वादशभावफलविचारः । पारिजाते सुधा टीका कपिलेश्वररजिता । अध्याये पञ्चदशके पूत्ति भावफले गता ॥ १५ ॥ दुष्ट स्थानका स्वामी दुष्ट स्थानमें हो तो उस भावकी पुष्टि कहे । आयु स्थानका स्वा- मी जहां विबल होकर रहता है उस भावका नाश होता है। बली लग्नेश शुभग्रहसे दृष्ट युक्त होकर जिस भावमें प्राप्त हो उस भावका विशेष शुभ करता है। नीच, या शत्रु गृहका हो तो अन्यथा (अशुभ) फल देता है ॥ ८३ ॥ इति जातकपारिजाते पञ्चदशाध्याये 'विमला' हिन्दी टीका समाप्ता ॥ १५ ॥ अथ श्रीजातकाध्यायः ॥ १६ ॥ श्रीबलारोग्यसन्तानविद्याकीर्त्तिविवर्द्धनम् । तिथिभग्रहसंयुक्तं जातकं ब्रूमहे वयम् ॥ १ ॥ अर्थार्जने सहायः पुरुषाणामापदर्णवे पोतः । यात्राकाले मन्त्री जातक मपहाय नास्त्यपरः ॥ २ ॥ श्रीमज्जातकपत्रिका परहितं व्योमाधिवासस्फुटैः पञ्चाङ्गद्युचराष्टवर्गसहितस्थानादिषड्वीर्यजैः । आयुर्गोचरयोगभावजफलैः सार्द्धं दशाचक्रजै- र्दीर्घायुःसुतभर्तृसौख्यविपुलश्रीकीर्त्तिदा लिख्यते ॥ ३ ॥ अथाधुना श्रीजातकाध्यायो व्याख्यायते । तत्रादौ त्रिभिः श्लोकैर्जातकविवरण- मुच्यते । श्रीबलारोग्येत्यादि । श्रियः = सम्पदः, बलानि = शौर्याणि, आरोग्यं = नैरूज्यम्, सन्तानाः = अपत्यानि, विद्याः, कीर्त्तयः = यशांसि, एतेषां विवर्द्धनं यतो ज्ञायते तं तिथिभ- ग्रहसंयुक्तं तिथिनक्षत्रग्रहवशाज्जायमानं जातकं वयं ग्रन्थकर्त्तारो ब्रूमहे प्रकटयाम इति । जन्मकालिकग्रहतिथिनक्षत्रवशादेव सकलं शुभाशुभफलं सङ्घटत इति भावः । अयं हिजातकः पुरुषाणामर्थार्जने सहायो भवत्यर्थात् कश्चिज्जातकोक्तसमयेऽर्थार्जने प्रवृत्तो भवति स सुखे- नार्थमुपार्जयति । अथवा जातकशास्त्रबलेन जातकविदां (ज्योतिर्विदाम् ) पुरुषाणामर्थाः कुशलेन सिद्ध्यन्ति । आपदर्णवे पोतः = आपदो विपत्तेरणर्वः समुद्रस्तस्मिन् पोतस्तरणः । जातकशास्त्रमेव पुरुषाणामापदवस्थायां परित्राणोपायं दर्शयतीति भावः । यात्राकाले मन्त्री । यथा मन्त्री नृपमधुनाऽनेन विधिना वर्तितव्यमधुनेदमाचरणीयमित्यादि विजयमार्गमुपदिशति तथैवैतज्जातकशास्त्रमात्मविहितमार्गे गच्छतां पुरुषाणां कौशल्यं प्रकटयतीत्यर्थः । अतएव पुरुषाणां धनोपार्जने सहायकः, आपदर्णवे पोतः, यात्राकाले मन्त्री जातक मपहाय = जातक- शास्त्रं विना अपरो नास्ति, किन्तु जातकबलादेव जनिमतां सर्वं सम्पत्स्यत इति भावः । अत्र तृतीयश्लोकेन जातकपत्रिका-(जन्मपत्रिका) लेखनोपकरणानि प्रदर्श्यन्ते । तात्का- लिकाः स्पष्टग्रहाः, पञ्चाङ्गस्थिता ग्रहाः, ग्रहाणामष्टकवर्गाः, ग्रहाणां स्थानादिषड्बलानि, आयूंषि, योगाः, भावफलानि, दशाचक्राणि चैतैः सहिता दीर्घायुःसुतभर्तृसौख्यविपुलश्रीकी- र्त्तिदा श्रीमज्जातकपत्रिका लिख्यते मनीषिण्येति ॥ १-३ ॥ अब हम श्री, बल, आरोग्य, सन्तान, विद्या और कीर्तिको बढ़ानेवाला तिथि-नक्षत्र-ग्रहसे युक्त जातकको कहते हैं ॥ १ ॥ धनोपार्जनमें सहायक, पुरुषोंके आपत्ति रूपी समुद्रमें जहाज, यात्रा समयमें मंत्री जातकको छोड़ दूसरा नहीं है ॥ २ ॥ ४१ जा०

४८२ सटीकजातकपारिजाते- दूसरोंके उपकारके लिये दीर्घायु पुत्र-स्वामी-स्त्री-सुख विपुल श्री तथा यशको बताने वाली स्त्रीजातक पत्रिकाको लिखा है। जिसके अन्दर सभी स्पष्टग्रहके अष्टकवर्ग, षड्बल, आयु, गोचर, भावफल और अनेक दशाचक्र दर्शाये गये हैं ॥ ३ ॥ स्त्रीणां जन्मफलं नृयोगमुदितं यत्तत्पतौ योजयेत्- तासां देहशुभाशुभं हिमकराल्लग्नाच्च वीर्याधिकात् । भर्तॄणामगुणं गुणं मदगृहाच्छिद्राच्च तेषां मृतिम् सौम्यासौम्यबलाबलेन सकलं सञ्चिन्त्य सर्वं वदेत् ॥ ४ ॥ इदानीं स्त्रीणां जातकफलान्युच्यन्ते । स्त्रीणां जन्मफलं = जन्मकालवशाज्जातं शुभा- शुभं फलं यन्नृयोगं पुरुषसम्भवमुदितं तत्सर्वं तासां पतौ = स्वामिनि योजयेत् । एतदुक्तं भवति । स्त्रीषु यद्यत्फलमक्षमं तत्तत्तासां पतिविषये बिजानीयात् । यथा राजयोगादिकं पुरुषसम्भाव्यम् । अथ तासां स्त्रीणां देहशुभाशुभं = शरीरसौख्यदुःखं हिमकराच्चन्द्रवशा- द्वाग्नाज्जन्मलग्नाच्च वीर्याधिकाद्यांश्चन्द्रलग्नयोर्मध्ये यो बलवान् भवेत्तद्वशाच्छारीरिकं सुखदुःखं विचिन्त्यम् । चन्द्रे लग्ने वा शुभे शरीरसौख्यम् । लग्ने चन्द्रे वा विबले (क्रूरे) शरीरकष्टमिति ब्रूयात् । तासां स्त्रीणां भर्तॄणां = पतीनामगुणं = दोषं गुणं च मदगृहाज्ज- न्मलग्नात्सप्तमं यद्गृहं तस्मात्सप्तमभावाच्चिन्तयेत् । तेषां पतीनां, छिद्रादष्टमभावात् (स्त्रीणां जन्माष्टमगृहात् ) मृतिः विवेचनीया । अन्यत्सकलं सौम्यासौन्यबलेन शुभपाप- बलेन सञ्चिन्त्य = विविच्य सर्वं शुभाशुभं वदेत् । यस्मिन् शुभबलाधिक्यं तच्छुभम्, यस्मिन्नशुभबलाधिक्यं तदशुभमिति ब्रूयादिति । तथाऽत्र वराहमिहिरः- यद्यत्फलं नरभवेऽक्षममङ्गनानां तत्तद्वदेत्पतिषु वा सकलं विधेयम् । तासां तु भर्तृमरणं निधने वपुस्तु लग्नेन्दुगं सुभगतास्तमये पतिश्च ॥ इति ॥४॥ पुरुषोंके योगफल जो कहे गये हैं वे स्त्रियोंके योगमें उसके पतिके वास्ते कहने चाहियें। स्त्रियोंके देहका शुभाशुभ फल लग्न या चन्द्रमामें अधिक बलीसे विचारे । सप्तमसे पतिके अगुण और गुणको विचारे । अष्टमसे पतिकी मृत्यु विचारे । यह शुभ और पापग्रहोंका बलाबळ विचार कर सभी फल कहने चाहिये ॥ ४ ॥ स्त्रीणां जन्मनि लग्नशीतकरयोर्मध्ये बली यस्ततः सम्पद्रूपबलानि तन्नवमतः पुत्रायुवृद्धिं वदेत् । सौमङ्गल्यमनिष्टमष्टमगृहाद् भर्तुःश्रियं सप्तमात् केचिद्भर्तुःशुभाशुभं शुभगृहादिच्छन्ति होराविदः ॥ ५ ॥ वैधव्यं निधनेन लग्नभवनात्तेजो यशः सम्पदः पुत्रं पञ्चमभावतः पतिसुखं कामेन केचिद्विदुः । प्रव्रज्यामपि योषितामतिसुखं धर्मोपयाताद्ग्रहैः शेषं भावजयौगजन्ममखिलं नारीनराणां समम् ॥ ६ ॥ स्त्रीणां, जन्मनि = जन्मकाले लग्नशीतकरयोः = जन्मलग्नचन्द्रयोर्मध्ये यो बली भवेत्त- तस्तस्माद्बलयुक्ताच्चन्द्राल्लग्नाद्वा स्त्रीणां सम्पदः = श्रियः, रूपमाकृत्यादि, बलानि = शौर्याणि ज्ञेयानि । तन्नवमतः = स्त्रीजन्मलग्नान्नवमभावतः पुत्रायुवृद्धिं = पुत्रस्यात्मजस्यायुष्यायस्य द्रव्या- देर्लाभस्य च वृद्धिं वदेत् । सौमङ्गल्यं = सौभाग्यं, अनिष्टं=मरणञ्चाष्टमगृहाच्चिन्त्यम् । सप्तम- भावात्स्त्रीणां भर्तुःश्रियं = पतिसौख्यं विचिन्तयेत् । अत्र केचित् होराविदो जातकशास्त्रवेत्तारो भर्तुःशुभाशुभं स्त्रीणां शुभगृहान्नवमभावादिच्छन्ति । परं तन्नाचार्याभिमतं केचिदिति पदो- पादानादिति । अतः सप्तमभावादेव पतिशुभाशुभं विचार्यमिति ॥ ५ ॥