कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
८ | कादम्बरी- | [ कथामुखे-
स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशास्त्रशालिनाम् ।
अवाप मध्ये स्फटिकोपेलामलं क्रमेण कैलासमिव क्ष्माभृताम् ॥ १६ ॥
महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विषः ।
द्विषन्मनः प्राविविशुः कृतान्तरा गुणान्नृसिंहस्य नखाङ्कुशा इव ॥ १७ ॥
दिशामलीकालकभङ्गतां गतस्त्रयीवधूकणॆतमालपल्लवः ।
चकार यस्याध्वरधूमसञ्चयोः मलीमसः शुक्लतरं निजं यशः ॥ १८ ॥
प्राप्तोच्छया विहितानेकयज्ञैरनायासेन तत्प्राप्तिमवश्यंभाविनीं कृतवानिति निष्कर्षः। इह कार्येण हस्ति-सैन्यैरन्यदेशविजयिनः कस्यचिद्राज्ञो व्यवहारसमारोपात् समासोक्त्यलङ्कारः, स च पूर्णोपमयाऽनुप्राणि-तेति भावुकः ॥ १५ ॥
स इति। सः अर्थपतिः क्रमेण सुतोत्पत्तिपरम्परया क्ष्माभृतां पर्वतानां मध्ये स्फटिकोपलैः स्फटिकमणिभिः अमलं स्वच्छं कलङ्करहितमित्यर्थः। कैलासमिव क्ष्माभृतां क्षान्तिगुणयुक्तानां महात्मनां जितेन्द्रियाणां महामनीषिणां श्रुतिशास्त्रशालिनां वेदशास्त्राध्यापकानां सुतोत्तमानाम् उत्कृष्टारमजानां मध्ये चित्रभानुं चित्रभानुनामानं तनयम् आत्मजम् अवाप लब्धवान्। ‘क्षितिक्षान्त्योः क्ष्मा’, ‘आत्मज-स्तनयः सूनु’ इति चामरः। इहोपमा।
अर्थपतेरेकादश पुत्रा आसन्निति हर्षचरिते ग्रन्थकृता स्वयमेवोल्लिखितम्, तथाहि—‘सोऽजनयद् १. भृगं २. हंसं ३. शुचिं ४. कविं ५. महीदत्तं ६. धर्मं ७. जातवेदसं ८. चित्रभानुं ९. लघम १०. अहिदत्तं ११. विश्वरूपञ्चेत्येकादशरुद्रानिव सोमामृतरसशीकरच्छुरितमुखान् पवित्रान्’ इति। एवञ्चास्मिंश्चित्रभानु-रिति स्फुटमवगम्यते ॥ १६ ॥
महात्मन इति। सुदूरनिर्गता अधिकदूरदेशव्याप्ताः, पक्षे आधिक्येन नखराग्राद्बहिर्भूताः, कलङ्केन मृगलाञ्छनेन मुक्ता वर्जिता या इन्दुकला चन्द्रषोडशांशः तद्वत् अमला स्वच्छा स्विट् छविर्येषां ते, पक्षा-न्तरेऽप्येवमेव। तथा कृतं स्वप्रभावात्रिष्पादितम् अन्तरं प्रवेशावकाशो यैस्ते, पक्षे तु कृतम् अन्तरं भेदः यैस्ते; ‘अन्तरमवकाशावधिपरिधानान्तर्भेदातदर्थ्ये’ इत्यमरः। यस्य महात्मनः महान्बुद्धिमत्तः चित्रभानो-र्गुणाः दयादाक्षिण्यादयः अपिपदाध्याहारेण पितुस्तुल्या अपि नृसिंहस्य नृसिंहस्वरूपधारिणो विष्णो नखा-ङ्कुशाः सूनिवद्विस्तृताः ‘अङ्कुशोऽस्त्री सृणिः स्त्रियाम्’ इत्यमरः, नखारः पुनर्भवा इव द्विषतां शत्रूणां मनोऽपि पक्षे द्विषतो वैरिणो हिरण्यकशिपोः मनोऽन्तः करणं वक्षश्च प्राविविशुः प्रवेशं विदधुः यद्गुणा वैरिणामपि चित्ताकर्षकाः, तत्प्रभावः कथं वर्णनीयः ? इत्याशयः। साधारणधर्मादिसद्भावात्पूर्णोपमालङ्कारः ॥ १७ ॥
दिशामिति। दिशां पूर्वांदीनां वधूस्वरूपाणामिति यावत्, अलीकेषु ललाटदेशेषु ‘अलीकमप्रिये भाले’ इति हैमः, ये अलकाश्चूर्णकुन्तलाः तेषां भङ्गतां रचनाविशेषत्वं गतः। त्रयी वेदत्रयी ऋग्यजुःसामरूपे-त्यर्थः सैव वधूः स्नुषा तस्याः कर्णे श्रवणे तमालपल्लवः तापिच्छद्रुमकिसलयरूपः, स्थलद्वयेऽपि प्राकृतिक श्यामस्वरूपत्वादित्याशयः ‘तापिच्छोऽपि तमालः स्यात्’ इत्यमरः। मलीमसः प्राकृतिकमलिनोयस्य चित्रभानोः
अन्त में उनके क्षमाशील, महानुभाव तथा वेदशास्त्रों में पारंगत कई पुत्ररत्नों में पर्वतों के बीच स्फटिक मणियों से अत्यन्त निर्मल कैलास पर्वत के समान चमकते हुए गुणों से अत्यन्त उत्कृष्ट चित्रभानु नाम के पुत्र उत्पन्न हुए ॥ १६ ॥
चन्द्रकलाओं जैसी अपनी कोरों से दूर तक निर्मल कान्ति बिखेरते हुए शत्रु के हृदय को फाड़कर उसमें प्रविष्ट हो जानेवाले भगवान् नृसिंह के नखरूपी अंकुशों के समान उस महानुभाव के दूरतक विस्तृत, निष्कलंक तथा चन्द्रकलाओं जैसे उज्ज्वल कान्तिवाले गुणों ने विरोधियों के हृदयों को भी खोजकर उसमें अपना स्थान बना लिया था ॥ १७ ॥
जैसे कामिनियों के ललाट पर रची हुई घुँघराली केशरचना तथा नवोढ़ा के कान में लगी हुई तमालपल्लवों की रेखा स्वभावतः साँवली होती हुई भी शोभा में अत्यन्त निखर उठती है, उसी प्रकार दिशाओं की छोरों पर इधर-उधर बिखरी हुई एवं आकाश में लगी हुई यश के धुँओं की टेढ़ी-मेढ़ी रेखाओं ने स्वभावतः काली होकर भी अपनी शोभा को अत्यन्त उज्ज्वल बना दिया था ॥ १८ ॥
१. स्फटिकोपलोपमम् । २. नखाङ्कुरा । ३. मलीमसम् ।
| कविवंशवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । |
|---|
सरस्वतीपाणि-सरोजसम्पुट-प्रमृष्टहोमश्रमशीकराम्भसः । यशोऽंशुशुक्लीकृतसप्तविष्टपात्ततः सुतो बाण इति व्यजायत ॥ १९ ॥
द्विजेन तेनाक्षतकण्ठकौण्ठ्यया महामनोमोहमलीमसान्धया । अलब्धवैदग्ध्यविलासमुग्धया धिया निबद्ध्येयमतिद्वयी कथा ॥ २० ॥
अध्वरधूममञ्जयेति. यज्ञधूमराशिः निजं स्वीयं यशः प्राकृतिकस्वच्छां सुकीर्तिं शुक्लरम् अतिशयेनोज्ज्वलं चकार विदधे । इह प्रथमचरणेनाजस्रं यज्ञसमूहसम्पादनेन धूमस्य दिगन्तव्यापित्वं ध्वनितम् । एवञ्च नियतक्रतुविधानात् धर्माचारतत्परताया अपि द्योतने गुणजनिता सुकीर्तिराधिका सञ्जातेति निष्कर्षः ।
इह दिशासु वधूत्वारोप आर्यः, अध्वरधूममञ्जर्ये केश रचनाविशेषत्वारोपस्तु शाब्द इत्येकदेशविवर्तिरूपकम्, धूममञ्जर्ये तमालपत्रत्वारोपः श्रौत्यां वधूत्वारोपे निमित्तमिति परम्परितरूपकम्, तथा मलिनधूममञ्जर्येण शुक्लनरयशो जननात् कारणगुणविपरीतकार्यगुणोत्पत्तेर्विषमालङ्कारश्च इति परस्परमेतेषामङ्गाङ्गिभावेन सङ्करालङ्कार इति तत्वविदः ॥ १८ ॥
सरस्वतीति । सरस्वत्या भारत्यादेव्याः पाणिसरोजसम्पुटेन करकमलयुगेन सृष्टानि प्रमार्जितानि होमश्रमस्य होमादिकर्मसम्बन्धिक्लेशस्य शीकराम्भांसि प्रस्वेदजलानि यस्य तस्मात्, तथा यशसः सुकीर्तेः अंशुभिः मयूखैः शुक्लीकृतानि शुभ्रीकृतानि सप्त विष्टपानि भूसप्तनीनि मत भुवनानि येन तस्मात् 'विष्टपं भुवनं जगत' इत्यमरः, ततः चित्रभानोः सकाशात् 'बाण' इति बाणनामधेयः सुतः पुत्रः व्यजायत अभवत् । इह भारत्याः करकमलयुगलेन स्वेदजलबिन्दूनां प्रोञ्छनामम्बन्धेऽपि तत्सम्बन्धप्रतिपादनात् प्रथमातिशयोक्त्यलङ्कारः, तथा कीर्तिराशिभिः सप्तभुवनानां शुभ्रीकरणसम्बन्धेऽपि तत्सम्बन्धप्रतिपादनाद् द्वितीयातिशयोक्त्यलङ्कारश्चेत्युभयोः परस्परनपेक्षाभावेन संसृष्टयलङ्कार इत्यवधेयम् ॥ १९ ॥
सम्प्रति स्वाहङ्कारं परिहरति—द्विजेनेति । तेन द्विजेन ब्राह्मणेन बाणेन, अक्षतम् अविनष्टं कण्ठकौण्ठ्यं वचनस्यापारं गलस्य मान्द्यं यस्याः सा तया, महान् उत्कृष्टो यो मनोमोहः शिशुत्वेन चित्तवैकक्ष्यं तेन मलीमसा मलिना प्रकाशितुमयोग्या अत एव अन्धा मदुत्थप्रतिपादनास समर्था तया, तथा अलब्धोऽप्राप्तो यो वैदग्ध्यविलासः वैदग्ध्यचातुर्यं तेन हेतुना मुग्धा मूढा नया वैदुष्यचातुर्यासमवेनार्यन्तकोमलयेत्यर्थः, 'मुग्धः सुन्दरमृद्वयोः' इत्यमरः, धिया प्रज्ञया इयं मदुदुदिस्त्या कादम्बरीरूपा, गर्हितत्वे द्वयी वृहत्कथां वासवदत्तां च अतिक्रान्तेति अतिद्वयी अधमम्ये अद्वितीयथा (अत्यादयः क्रान्ताद्यर्थे द्वितीया) इत्यनेन समासः, व्युच्चार्यन्न्-उत्तरत्रे अद्वितीयता कथा गद्यपद्यादिप्रबन्धः निबद्धा ग्रथिता; पूर्वमपरिणतबुद्ध्या विषयीकृत्य पश्चाद्विनिर्मितेत्यर्थः, एतेन शैशवचापल्याजातदोषा धीधनैर्मनीषिभिः शोधनीया इत्यभिप्रायः ।
इह—
‘छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा । अनेकस्यैकधा साम्यमसकृद्वाऽप्यनेकधा । एकस्य सकृदप्येष वृत्त्यनुप्रास उच्यते ॥'
इति साहित्यदर्पणोक्तदिशा प्रथमचरणे छेकानुप्रासः, शेषे तु वृत्यनुप्रास इत्यनयोर्मियोऽनपेक्ष्य स्थित्यत्वाद् संसृष्टिरलङ्कारः ॥ २० ॥
निरन्तर यज्ञों में हवन करने के परिश्रम से आयी हुई, जिनके पसीने की बूंदों को भगवती सरस्वती स्वयं अपने सम्पुटित करकमलों से पोंछा करतीं थीं तथा जिनकी कीर्ति ने सातों लोकों को अपनी निर्मलता से अत्यन्त उज्ज्वल बना दिया था उन चित्रभानु से बाण नाम का पुत्र उत्पन्न हुआ ॥ १९ ॥
जिनके कंठ की तुतलाहट अभी तक नहीं मिट पायी है अर्थात् जिनका कंठस्वर अभी भी वर्णों के स्पष्ट उच्चारण में तेज नहीं पाया है, जिनका हृदय अज्ञानरूपी अन्धकार से अभी तक ढका हुआ है तथा जिसकी बुद्धि अभी भी विद्वानों की वचनवक्रता सीख न पाने के कारण अत्यन्त मूढ़ है अर्थात् जिसकी बुद्धि का अभी तक विकास नहीं हो पाया है उसी बाण ने अपने से पूर्व रची गयी दो कथाओं (बृहत्कथा तथा वासवदत्ता) के अतिरिक्त अथवा दुष्टकथाओं में अद्वितीय या उन दोनों से अत्यन्त उत्कृष्ट इस कथा की रचना की है ।
२ का० कथा०
कथा-मुखम्
शूद्रकवर्णनम्
आसीदशेष-नरपति-शिरः-समभ्यर्चित-शासनः पाकशासन इवापरः, चतुरुदधि-मालामेखलाया भुवो भर्त्ता, प्रतापालुरागावनत-समस्त-सामन्त-चक्रः, चक्रवर्तिलक्षणोपेतः, चक्रधर इव करकमलोपलक्ष्यमाण-शङ्ख-चक्र-लाञ्छनः, हर इव जितमन्मथः, गुह इवाप्रति-
अथ सम्प्रति कथां प्रस्तौति—आसीदिति। आसीदिति भूतक्रियापदस्य 'राजा शूद्रको नाम' इति दूरस्थेन कर्तृपदेनसम्बन्धः। राजानं विशिनष्टि-अशेषेति। अशेषैः समग्रैः नरपतिभिर्महीपतिभिः (कर्तृभिः) शिरोभिरुत्तमाङ्गै (करणैः) समभ्यर्चितं सादरं गृहीतं शासनम् आदेशो यस्य स तादृशः। समस्तजनाज्ञापको न स्वाज्ञाकर इत्याशयः, अत एव अपरः सुरराजाद्भिन्नो द्वितीयः पाकशासन इन्द्र इव। इन्द्रो हि पाकनामानं दैत्यं हतवानिति पुराणी वार्त्ता। पाकं शासितवानिति पाकशासनः 'बिडौजा पाकशासनः' इत्यमरः। इह शासनपदावृत्त्या यमकालङ्कारः, भावाभिमानिनी वाच्या द्रव्योत्प्रेक्षा चेत्युभयोः शब्दार्थालङ्कारयोरेकाश्रयानुप्रवेशरूपः सङ्करः। अत्र हि शासनपदावृत्त्या लाटानुप्रासो नाशङ्कनीयः, शब्दार्थामिन्नात्वे केवलतात्पर्य्यतो व्यतिरेक एव तदभ्युपगमेन प्रकृते शक्यार्थस्यापि व्यतिरेकात्।
चतुरिति। चत्वारश्च भूमण्डलचतुर्दिक्षु विद्यमानास्त उदधयश्च समुद्राश्च चतुरुदधयस्तेषां माला श्रेणिः सैव मेखला काञ्ची अवधिरिति यावत् यस्यास्तथाभूतायाः भुवो वसुधायाः भर्त्ता नायकः।
इह वसुधाशूद्रकयोर्नायकनायिकाव्यवहारसमारोपात् समासोक्तिरलङ्कारः।
प्रतापेति। प्रतापः कोशाण्डजस्तेजः अनुरागः प्रेम ताभ्याम् अवनतं वशीभूतं समस्तं कृत्स्नं सामन्त-चक्रं स्वाधीनतृपतिसमूहो यस्य स तादृशः। अन्यदपि लोहचक्रमग्निप्रतापादातपादवनतं जायते। तया च न केवलं तत्प्रभाववशाद्वशीभूताः सामन्तनृपतयः किन्तु तदीयप्रेमवशादपीति ध्वनितम्।
चक्रवर्ती। चक्रवर्ती सार्वभौमस्तस्य लक्षणैश्चिह्नः सामुद्रिकशास्त्रोक्तकरतललौहित्यादिभिः उपेतो युक्तः। तथा चोक्तं सामुद्रिकरहस्ये—
'अतिरिक्तः करो यस्य प्रथितङ्गुलिको मृदुः। चापाङ्कुशाङ्कितः सोऽपि चक्रवर्ती भवेद् ध्रुवम्॥'
पुनरपि तमेव विशिनष्टि—चक्रधर इति। चक्रमलातं धरतीत चक्रधरो विष्णुरिव करकमले
शूद्रक नाम का एक राजा था। वह मानों दूसरा इन्द्र था। सभी राजा श्रद्धा से सिर झुका कर उसका आदेश ग्रहण करते थे। वह चार समुद्रों से घिरी हुई मानों चौलड़ी करधनी पहनी हुई पृथ्वीरूपी नायिका का पालन-पोषण करनेवाला (दक्षिण) नायक था। उसके प्रताप अथवा अपनी अनुरक्ति से सभी सामन्त-गण उसके अधीन थे। वह चक्रवर्ती सम्राटों के सभी लक्षणों से युक्त था। भगवान् विष्णु के हाथों में चक्र और शंख है, उसके करकमलों में शंख और चक्र के चिह्न थे। भगवान शंकर ने कामदेव को जीता था, उसने काम-
१. कपालक्षणं साहित्यदर्पणे—
'कथायां सरसं वस्तु गद्यैरेव विनिर्मितम्। क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके।
आदौ पद्यैर्नमस्कारः खलादेवृत्तकीर्त्तनम्॥'
२६ चतुर्विधान्येव मुक्तकादीनि गद्यानि सन्ति, किन्त्विहोत्कलिकाप्रायनेव बहुत्वम्। तथा च तत्रैव—
'वृत्तगन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च। भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम्॥
आद्यं समासरहितं वृत्तभागयुतं परन्। अन्यद्दीर्घसमासाढ्यं तुर्य्यमल्पसमासकन्॥'
एतेन—'गद्यपद्यमयी चम्वूर्दिग्धा श्लेषवती च या। राजवर्णनमादौ स्यान्नगरोद्वर्णनं ततः।
तदा चामुकमन्यस्मिन् तु तन्नृपु कुत्रचिद्॥'
यथा—'शलसम्बन्धो देवतायतनेषु न नृपु' इति नलचम्पूवान्, तथात्रैवाग्रे 'चित्रकर्मसु वर्णसङ्करो न ननुष्येषु' इत्यादि चम्पूलक्षणर्तुसुकामिनां वदन्तः परास्ताः।
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ११
हतशक्तिः, कमलयोनिरिव विमानीकृतराजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतिः, गङ्गाप्रवाह इव भगीरथपथप्रवृत्तः, रविरिव प्रतिदिवसोपजायमानोदयः मेरुरिव सकलोपजीव्यमान-
पाणिपद्मतले उपलक्ष्यमाणम् अवलोक्यमानं शङ्खचक्रलाञ्छनं शङ्खचक्राकाररेखोपरेखास्वरूपं चिह्नं पक्षे वस्तुतः शङ्खचक्रस्वरूपं चिह्नं यस्य स तादृशः। 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः।
इहोपमानोपमेयभावस्य साधारणधर्मस्य चोपादानात् पूर्णोपमा, चक्रपदस्यासकृदुक्तत्वाद् वृत्त्यनुप्रासश्चेत्युभयोः परस्परमनपेक्षत्वात्तितलण्डुलवत्संसृष्टिः।
हर इवेति। हरति पापं यः स हरो महेश्वरः तद्वदिव जितः पराभूतः मन्मथः कन्दर्पः येन स तथोक्तः एकत्र भाललोचनाग्निना नामशेषकरणात्, अपरत्रात्यन्तलावण्यवत्त्वादित्याशयः। उभयोः पूर्णसाम्यात्पूर्णोपमालंकारः।
गुह इवेति। गुहः कार्तिकेय इव 'सेनानीरग्निभूर्गुहः' इत्यमरः, अप्रतिहता केनाप्यकुण्ठिता शक्तिः प्रभावोत्साहमन्त्रजनितं सामर्थ्यम् आयुधविशेषश्च यस्य स तथोक्तः। उभयोः साम्यात् पूर्णोपमालङ्कारः।
कमलेति। कमलं भगवतः श्रीमहानारायणाभिषेवं योनिरुद्गमस्थानं यस्य स कमलयोनिर्विधातेव, विमानं देवयानं तत्स्वरूपीकृतं नभसि वाहनीकृतमित्यर्थः राजहंसानां चञ्चुचरणैरतिलोहितानां पक्षिविशेषाणां मण्डलं समूहो येन स तादृशः, 'व्योमयानं विमानोऽस्त्री' इति, राजहंसास्तु ते चंचुचरणैरतिलोहिताः' इति चामरः। राजपक्षे—विगतः पराजयेन विनष्टः मानोऽहङ्कारो यस्य तद्विमानं तथाभूतं कृतं राजहंसानाम् अभ्युच्चमहीपतीनां मण्डलं गणो येन स तादृशः। अस्मिन् पक्षे राजहंसपदे राजानो हंसा इवेति 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इत्युपमितसमासः। 'स्युरुत्तरपदे व्याघ्र' इत्याद्यमरात्तस्याद्युच्चराजवाचकत्वमिति बोध्यम्। उभयोः साम्यात् पूर्णोपमालङ्कारः।
जलधिरिवेति। जलानि धीयन्तेऽस्मिन्निति जलधिः समुद्र इव लक्ष्म्या रमायाः शोभाया वा प्रसूतिर्निर्गमस्थानं देवासुरैः समुद्रमन्थने चतुर्दशरत्नेष्वस्या अपि तस्मादेव निर्गमात् तथा च जगदलङ्कृतमिति शोभाजनकत्वमित्याशयः। राजपक्षेऽपि लक्ष्मीर्धनसम्पत्तिः शोभा वा 'लक्ष्मीश्छाया च शोभायाम्' इति हैमः, तस्याः प्रसूतिरुद्भवस्थानम्, नीतिचातुर्यादित्याशयः। उभयोः साम्यात्पूर्णोपमालङ्कारः।
गङ्गेति। गङ्गायाः स्वर्धुन्द्याः प्रवाह ओघ इव भगीरथस्य तन्नामकसूर्यवंशीयभूपतिविशेषस्य पन्थाः स्वपितॄणामुद्धाराय रथचक्रकृतमार्गः तदाचारसरणिञ्च तत्र प्रवृत्तो लग्नः। उभयोः साम्यात्पूर्णोपमालंकारः।
पुरा किल सगरो नाम राजाश्वमेधेन यष्टुमश्वं मुमोच तञ्च सुरराजोऽपहृत्य पाताले कपिलाश्रमे बबन्ध। ततश्च तमन्विष्यन्तः सगरसुताश्चतुर्दिक्ष्वनवलोक्य नखेन भुवो मृद उत्खन्य पातालं प्रविश्य तमृषिं भर्त्सयितवन्तः। कुपितेन तेन मुनिनाऽमिशहस्तस्ते भस्मीभूतः अभूवन्। तत्प्रपौत्रो भगीरथो हि तानुद्दिधीर्षुः गङ्गामानेतुं तपस्तप्तवान्। तेन तुष्टा हि सा हिमालयान्निर्गत्य भूमण्डले तद्रथचक्रनिर्मितमार्गे च प्रसरन्ती पाताल प्रविश्य तांस्तारयामास। राजा भगीरथो हि परमस्सदाचारवानासीदिति च पौराणिकी कथानुसन्धेया।
रविरिवेति। रविर्दिवाकर इव प्रतिदिवसं प्रतिदिनम् उपजायमान उत्पद्यमान उदयगिरिसम्बन्धः सम्पत्तेरुद्रेकश्च यस्य स तथोक्तः। पूर्णोपमालंकारः।
मेरुरिवेति। मेरुः सुमेरुगिरिरिव, सकलैः समस्तैश्चर्याद्देवैश्च उपजीव्यमाना सेव्यमाना पादानां प्रत्यन्तपर्वतानां छाया आतपाभावाः, पादयोश्छाया कान्तिश्च यस्य स तथोक्तः। 'पादाः प्रत्यन्तपर्वताः' 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इति चामरः।
वासनाओं को जीत लिया था। ब्रह्मा ने भोले-भाले हंसों को अपना वाहन बनाया था, उसने बड़े-बड़े राजाओं का अभिमान चूर-चूर करके उनके हृदयरूपी हंसों पर अपना आसन जमा लिया था। समुद्र से भगवती लक्ष्मी पैदा हुई थी, उससे राजलक्ष्मी का जन्म हुआ था। गंगा का प्रवाह राजा भगीरथ के रथ की लीकों का अनुगामी था, वह राजा भगीरथ के कठोर सदाचारों और प्रयत्नों की परिपाटी का अनुगामी था। सूर्य के समान उसकी भी श्रीसम्पत्ति दिनोदिन नये-नये रूपों में उगती रहती थी। देवलोक सुमेरु पर्वत के वृक्षों
१. ***उच्चीयमानोदयः । २. सकलभुवनो, सकलभुवनतलो*** । 'बृहस्पतिरिव सकलशास्त्रार्थतत्त्वज्ञः' इत्यधिकः पाठः क्वचित्
| १२ | कादम्बरी- | [कथामुखे- |
|---|
पादच्छायः, दिग्गज इवानवरतप्रवृत्तदानाद्रीकृतकरः कर्त्ता महाश्चर्याणाम्, आहर्त्ता क्रतूनाम्, आदर्शः सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानाम्, आगमः काव्यामृतरसानाम्, उदयशैलो मित्रमण्डलस्य, उत्पातकेतुरहितजनस्य, प्रवर्त्तयिता गोष्ठीबन्धानाम्, आश्रयो रसिकानाम्, प्रत्यादेशो धनुष्मताम्, धौरेयः साहसिकानाम्, अग्रणी-
'एकविंशत्यमी स्वर्गा निर्मित मेरुमूर्धनि'
इति साम्बपुराणात् मेरुसन्निकटगिरीणां छायासु सुराः सञ्चरन्तीति पौराणिकी वार्ता। पूर्णोपमालङ्कारः।
दिग्गज इति। दिग्गज ऐरावतप्रभृतिको दिङ्नाग इव 'ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः। पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गज. ॥' इत्यमरः।
अनवरतं सततं प्रवृत्तं जातं यद्दानं मदजलं जलसहितं धनादिदानञ्च तेनाद्रीकृतः क्लिन्नीकृतः करः शुण्डो हस्तश्च यस्य सः। 'मदो दानं प्रवृत्तिक्ष', 'आर्द्रे सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमृत्तं च' इति चामरः। पूर्णोपमालङ्कारः।
कर्त्तेति। महाश्चर्याणाम् अतिप्रबलरिपुपराजयधृष्टतावहनानन्यकृतकार्याणां कर्त्ता निष्पादकः। क्रतूनां यज्ञानाम् आहर्त्ता अनुष्ठाता। सर्वशास्त्राणां सकलवाङ्मयवेदादीनाम् आदर्शो दर्पणः, 'दर्पणे मुकुरादर्शौ' इत्यमरः, यथा हि दर्पणे संक्रान्ताः पदार्थाः समवलोक्यन्ते तथा तस्मिन्नपि राजनि सर्वेषां सच्छास्त्राणां छाया निरन्तराभ्यासवशाज्जैनैः समवलोक्यन्ते स्मेश्याशयः। कलानां^१ नृत्यगीतादिचतुःषष्टिकलाविद्यानाम् उत्पत्तिः शिक्षाप्रदानाज्जन्मस्थानम् कलापदेन द्विशततीनां ग्रहणमिति व्याख्यानं हेयमेव। गुणानां दायादाक्षिण्यगाम्भीर्यादीनां कुलभवनं वंशपरम्परागताश्रयस्थानम्, तस्मिन्नेव तेषां स्थिरभावेन विद्यमानत्वादित्यभिप्रायः। काव्यानां दृश्यश्रव्यादीनां ये अमृतरसाः सुधातुल्यशृङ्गारादिरसास्तेषाम् आगम उद्भवस्थानम्, कविराजत्वेनोत्कृष्टकाव्यसम्पादनादित्याशयः। इह एकस्य महीपतेर्विषयभेदेन बहुविधोल्लेखालङ्कारः।
उदयेति। मित्राणि सखायस्तेषां मण्डलं समूहस्तस्य उदयशैलोऽभ्युन्नतेः स्थानम्। अन्यत्र मित्रमण्डलस्य सूर्य्यबिम्बस्य उदयशैलः पूर्वाद्रिः। दिवाकरो यथा पूर्वाद्रौ उदयं प्राप्नोति तथा मित्रगणस्तदाश्रितोऽभ्युन्नतिं प्रापेति भावः। इह श्लेषालङ्कारः।
उत्पातेति। अहितजनस्य वैरिजनस्य उत्पातकेतुः विनाशव्यञ्जको धूमकेतुः। तत्राक्रमण्य एव तेषां समारम्भादित्याशयः। इह नृपतौ केवलोत्पातकेतुत्वारोपात् केवलं निरङ्गं रूपकमलंकारः।
प्रवर्त्तयितेति। गोष्ठीबन्धानां मधुरकथापरिषत्स्थापनानां प्रवर्त्तयिता प्रवर्द्धकः। प्रतिस्थानं मधुरकथापरिस्थापकः इत्यर्थः। रसिकानां विदग्धजनानां रसज्ञानामित्यर्थः, आश्रयः अवलम्बनस्थानम्।
प्रत्यादेश इति। धनुष्मतां धनुर्द्धारिणां प्रत्यादेशो निराकृतिः प्रशस्तधनुर्द्धरश्रेष्ठ इत्यर्थः। 'प्रत्यादेशो निराकृतिः' इत्यमरः।
धौरेय इति। साहसिकानां संग्रामादौ हठविधायिनां मध्ये धौरेयो धुरन्धरो मुख्य इति यावत्। 'धुरो यत्तढकौ' इति ढकि धौरेय इति रूपम्।
अग्रेति। विदग्धानां पण्डितानां मध्ये अग्रणीरग्रगण्यः। वैनतेयो गरुड इव विनतेभ्यः कृतप्रणामेभ्य आनन्दस्य हर्षस्य जननः सम्पादकः। सोऽपि विनतायाः स्वमातुः आनन्दजननः हर्षकारकः। वैन्यो
की छाया का सेवन करता था, मृत्युलोक उसके चरणों की छाया में जीवित रहता था। दिग्गजों के सूंड निरन्तर बहने वाले मद-जल से भीगे रहते हैं, उसके हाथ निरन्तर दिए जाने वाले दान के जल से भीगे रहते थे। वह आश्चर्यपूर्ण कार्यों में लगा रहता तथा निरन्तर यज्ञों का अनुष्ठान किया करता था। शीशे के समान उसके निर्मल हृदय में सभी शास्त्र झलक उठे थे। वह ललित कलाओं का उद्गम और काव्य के अमृततुल्य रसों का संगम था। उदयाचल सूर्यमण्डल के उदय का स्थान है, वह अपने मित्रमण्डल की उन्नति का स्थान था। धूमकेतु संसार के विनाश का सूचक है, वह शत्रुओं के विनाश का चिह्न था। वह निरन्तर विद्वत्परिषद् बुलाया करता था। वह काव्यरसिकों का एक मात्र आश्रयस्थान था, धनुर्धारियों के मानभंग की मूर्ति था,
१. नृत्यगीतादिचतुःषष्टिकलानां नामानि अस्मत्सम्पादितसाहित्यदर्पण-'लक्ष्मौ' टीकायाः प्रथमसंस्करणस्य प्रथमपरिच्छेदेऽवगन्तव्यानि; विस्तरभयाच्च नेहोपन्यस्तानि।
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १३
विद्ग्धानाम्, वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटिसमुत्सारित^२सकलाराति-कुलाचलो राजा शूद्रको नाम ।
नाम्नैव यो निर्भिन्नास्रतिहृदयो विरचितनरसिंह^३-रूपाडम्बरम्, एकविक्रमाक्रान्तस-कलभुवनतलो विक्रमत्रयायासितं^४ भुवनत्रयं जहासेव^५ वासुदेवम् ।
अतिचिरकाललग्नमतिक्रान्तनृपतिसहस्रसम्पर्ककलङ्कमिव क्षालयन्ती यस्य विमले^६ कृपाणधाराजले चिरमुवास राजलक्ष्मीः^७ ।
वैनराजात्मजः पृथुरिव चापकोट्या कोटिसंख्यककार्मुकैः अगणितधनुर्धरसैनिकैरित्यर्थः, पक्षे-चापो धनुस्तस्य कोटिरग्रभागस्तेन समुत्सारिता विनाशिताः स्थानान्तरं प्रापिताश्च सकलारातयः समग्ररिपवः कुलाचलाः महेन्द्रादयः कुलपर्वता इव येन स तथोक्तः । कुलपर्वताश्च-‘महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥’ उभयोः साम्यात्पूर्णोपमालङ्कारः । पुरा किल पृथुः पर्वताकीर्णां वासानर्हां पृथिवीं समवलोक्य तत्समतलीकरणप्रवृत्तो धनुष्कोट्या पर्वतानुत्सारयामासेति पौराणिकी वार्त्तानुसन्धेया ।
नाम्नैवेति । यः शूद्रकः नाम्नैव निजनामश्रावणमात्रेणैव निर्भिन्नानि भयोत्पादनेन विदारितानि अरातीनां शत्रूणां हृदयानि वक्षांसि येन स तादृशः । विरचितः हिरण्यकशिपुहृदयभेदनाय विहितो नरसिंहस्वरूपधारणस्य आडम्बर आटोपो दीर्घव्यापार इति यावत्, येन स तं तादृशम् । एकेनाद्वितीय्रेन विक्रमेण, पराक्रमेण आक्रान्तम् अधीनीकृतं सकलं समस्तं भुवनतलं विष्टपतलं येन स तादृशः ‘विष्टपं भुवनत्रयम्’ इत्यमरः । विक्रमः पादन्यासः तस्य त्रयं त्रितयं तेन आयासितं खिन्नीकृतं भुवनत्रयं विष्टपं येन तं तथोक्तं वासुदेवं श्रीपतिं जहासेव हसति स्मेव । अयमाशयः—महीपतिरयं निजनामश्रावणमात्रेणैव शत्रूणां वक्षो भेदितवान्, वासुदेवस्तु शत्रुवक्षोभेदनाय नृसिंहावताराडम्बरं कृतवान्, तथा महीपतिना चानेनानायासेन केनैव पराक्रमेण चतुर्दशभुवनानि स्वाधीनीकृतानि, वासुदेवेन तु त्रिभिरेव विक्रमैः केवलानि त्रीण्येव भुवनान्याक्रान्तानीति योऽयं महीपतिकृतो वासुदेवोपहासः स न्याय्य एवेति ।
विष्णुः बलिं विजेतुं वामनरूपमङ्गीकृत्य छलना तं भुवनत्रयं विक्रमत्रयेणासादितवानिति पौराणिकी वार्त्ता । इहोपमानाद्वासुदेवादुपमेयस्य महीपतेराधिक्यवर्णनाद्व्यतिरेकालङ्कारः । जहासेवेति क्रियोत्प्रेक्षा चेति उभयोरङ्गाङ्गिभावेन सङ्करः ।
अतिचिरकालेति । अतिचिरकालो भूयान् समयः तेन लग्नम् आत्मनि संयुक्तम्, अतिक्रान्तं व्यतीतं यत् नृपतिसहस्रं कदर्यनरपतिसमूहः तस्य सम्पर्केण सम्बन्धेन यः कलङ्को दूषितचिह्नं प्राप्तं तं तथोक्तम्, क्षालयन्तीव प्रक्षालनेन प्रमार्ज्यन्तीव यस्य महीपतेः ( शूद्रकस्य ) विमले स्वच्छे कृपाणधाराजले खड्ग-धारारूपे जले चिरं बहुसमयं यावत् लक्ष्मीः राज्यश्रीः उवास वसति चक्रे, अन्योऽपि लोकः पङ्कादिलग्नं शरीरं जलेन क्षालयति । खड्गबलेनैव राजा राज्यलक्ष्मीं स्वाधीनीकृतवानित्याशयः । इह क्षालयन्तीवेति क्रियोत्प्रेक्षणात् क्रियोत्प्रेक्षालङ्कारः, ‘कृपाणधाराजल’ इत्यत्र निरङ्गं रूपकञ्चेत्युभयोरङ्गाङ्गिभावेन सङ्करः ।
पराक्रमियों का प्रधान था और चतुर पण्डितों का अगुआ था। गरुड़ ने अपनी माता विनता को आनन्दित किया था, उसने अपने अधीनों को आनन्दित किया था। राजा पृथु ने अपने धनुष की कोटि से पर्वतों को हटाकर पृथ्वी को समतल किया था, उसने अपने अगणित धनुर्धारी सैनिकों से शत्रुओं का विनाश करके शासन को निष्कंटक बना दिया था।
उसने अपने नाम के प्रताप से ही शत्रुओं के हृदय को विदीर्ण कर दिया था और अद्वितीय पराक्रम से सारी पृथ्वी को अपने अधीन कर लिया था। इसी नाते वह शत्रु-वध के लिए नृसिंह रूप का आडम्बर रचनेवाले तथा तीन पगों से तीनों लोकों को नाप लेने के लिए वामन रूप धारण करने का कष्ट उठाने वाले भगवान् वासुदेव की हँसी सी उड़ाया करता था।
युगों से दुष्ट राजाओं के सहवास में रहने के कारण राज्यलक्ष्मी में जो कलंक लग चुके थे उन्हें ही मानो धोती हुई वह उसके कृपाण की जल-धारा में बहुत दिनों तक निवास करती रहती रही !
१. वैन्यः, पृथुः ।
२. समुत्सारिताराति० ।
३. नारसिंह० ।
४. आयासितम् आयास्यमानम् ।
५. हसति स्मेव ।
६. 'विमले' इति पाठः क्वचिन्न विद्यते ।
७. लक्ष्मीः ।
| १४ | कादम्बरी— | [ कथामुखे— |
|---|
यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसि-जेन, तेजसि सवित्रा च वसता सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति भगवतो नारायणस्य। यस्य च मदकल-करि-कुम्भ-पीठपाटनमाचरत^[१] लग्न-स्थूलमुक्ताफलेन, दृढ^[२]-मुष्टि-निष्पीडन^[३]-निष्ठ्यूत-धाराजलबिन्दु-दन्तुरेव^[४] कृपाणेनाकृष्यमाणा सुभटोरःकपाट-घटिते^[५]—
यस्येति। चकारोऽत्र किञ्चेत्यर्थे। यो राजा (शूद्रकः) इति दूरस्थायाम 'अनुकरोति' इति क्रियते मन्वेति। मनसीत्यादीनि सप्तम्यन्तपदानि दूरस्थवसतस्त्यस्याधिकरणप्रतिपादकानि करणतृतीयान्तपदानि धर्मेणेत्यादीनि च वसतेस्त्यस्य विशेषणानि सन्तीति विभावनीयम् वसतापद्मस्य च यथालिङ्गं सर्वत्र सम्बन्धो विधेयः। तथा च मनसि हृदये धर्मेण पुण्येन वसता वासं विदधता, सर्वदैव धर्मचिन्तनादिति भावः। कोपे क्रोधे यमेन धर्मराजेन, अपराधिनां तत्क्षणमेव दण्डदानादित्याशयः। प्रसादे अनुग्रहे धनदेन कुबेरेण, परिचर्यादिना प्रसन्ने सति मनोरथाधिकसमर्पणादित्यभिप्रायः। प्रतापे कोशदण्डजे तेजसि वह्निना अग्निना, सकलवैरितापकरत्वादित्याशयः। भुजे बाहौ भुवा मेदिन्या, राज्यभारवहनसमर्थत्वादिति भावः। दृशि लोचने श्रिया लक्ष्म्या, सानुरागदृष्टिमात्रेण तत्सम्भवादित्याशयः। वाचि वचने सरस्वत्या गीर्वाण्या 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः, निरन्तरगद्यपद्याद्यनेकप्रबन्धनिर्माणदित्याशयः। मुखे आनने शशिना चन्द्रेण तदनुकारित्वात्सकलजनानन्दकत्वाच्चेति भावः। 'आननं लपनं मुखम्' इत्यमरः। बले शक्तौ महता वायुना, अतिबलशालित्वादिति भावः। प्रज्ञायां मतौ सुरगुरुणा, बृहस्पतिना अनुपमबुद्धिशालित्वादित्यभिप्रायः। 'धीः प्रज्ञा शेमुषी मतिः', 'बृहस्पतिः सुराचार्यः' इति चामरः। तथा रूपे सौन्दर्ये मनसिजेन अनङ्गेन, मानिनीमानापहरणादित्याशयः। तेजसि प्रतापलक्षणे सविता सूर्येण, विपक्षिणां दुर्निरीक्ष्यत्वादिति भावः। 'तपनः सविता रविः' इत्यमरः। सर्वे च देवाश्च सर्वदेवास्तत्स्वरूपः सर्वदेवमयस्तस्य तथोक्तस्य। अत्र 'प्राचुर्यविकारप्राधान्यादिषु' इत्यनेनादिपदात्स्वरूपार्थेऽपि मयट् प्रत्ययो ज्ञेयः। प्रकटिता प्रकाशिता विश्वरूपा 'पश्यामि देवांस्तव देव ! देहे' इत्यर्जुनेोक्ता आकृतिः स्वरूपं येन स तस्य तथोक्तस्य श्रीमद्भागवते ११ स्कन्धे- 'सरित्समुद्रांश्च हरेः शरीरं यत्किञ्चभूतं प्रणमेदनन्यः' इति। भग ऐश्वर्यादिरस्यास्तीति भगवान् तस्य भगवतः नृणां समूहो नारं तस्य जीवस दायस्तेयर्थं, अयनं गतिरिति नारायणो महाविष्णुस्तस्य, 'कृञः प्रतियत्ने' इत्यनेन कर्मणि षष्ठी। अनुकरोति तत्सादृश्यं प्राप्नोतीत्यर्थः। अत्रातीते लट्। इहौपम्यवाचकपदाभावार्दयौपमालङ्कारः।
यत्स्य चेति। किञ्चेति चार्थः। यस्य राज्ञः (शूद्रकस्य) समीपमित्यत्र सम्बन्धः। मदेन दानजलेन कलानि मनोज्ञानि यानि करिणां हस्तिनां कुम्भपीठानि शिरःपिण्डफलकानि तेषां पाटनं विदारणम् आचरता कुर्वता, अतएव लग्नानि संयुक्तानि स्थूलानि विपुलानि हस्तिसम्बन्धीनि मुक्ताफलानि मौक्तिक्रानि यस्मिंस्तेन तथोक्तेन, दृढमुष्टिना यन्निपीडनं धारणं तेन निष्ठीवता इव निर्गता इव धारा निशितभागा एव जलविन्दवः जलकणपङ्कयः, ताभिर्दन्तुरेण विषमेण उच्चावचेन कृपाणेन खड्गेन, आकृष्यमाणेव समन्ताद्
उसके मन में धर्म का निवास था, क्रोध में मृत्यु का वास था, प्रसन्नता में कुबेर का आवास था। प्रताप में अग्नि जलती थी, भुजाओं पर पृथ्वी टिकी थी, आँखों में लक्ष्मी हँसती थी, वाणी में सरस्वती बोलती थी, मुख पर चन्द्रमा खेलता था, बल में वायु की गति थी, बुद्धि में बृहस्पति का विलास था, सौन्दर्य में कामदेव उतर आया था, तेज में सूर्य चमक रहा था, इस नाते वह सभी देवताओं से युक्त विश्वरूपधारी भगवान् नारायण की प्रतिमूर्ति-सा प्रतीत हो रहा था।
युद्ध में मतवाले हाथियों के मस्तक को विदीर्ण करने के समय बड़े-बड़े गजमोतियों के दानों से भरी हुई मुट्ठी में दृढ़ता से पकड़ कर दबाने के समय मूठ से निसुंदी हुई जल-धारा से और भी पैनी एवं जल-कणों से दन्तुरित (ऊँची-नीची, लहराती हुई) लगनेवाली शूद्रक की तलवार से खींची गयी, हाथियों के
^[१] १. पाटनम् आचरतः, विदधतः। ^[२] २. दृढ । ^[३] ३. 'निपीडनान् निष्प्रतितलः'। ^[४] ४. 'बलदन्तुरेण' ^[५] ५. विघटित।
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १५
कवच-सहस्रान्धकार-मध्यवर्तिनी करि-करट¹-गलित-मदजलासार-दुर्दिनास्वभिसारिकेव समरनिशासु समीपमसकृदाजगाम राजलक्ष्मीः । यस्य च हृदयस्थितानपि पतीन्³ दिधक्षुरिव प्रतापानलो वियोगिनीनामपि रिपुसुन्दरी-णामन्तर्जनितदाहो दिवानिशं जज्वल । यस्मिंश्च राज्ञि जितजगति परिपालयति महीं चित्रकर्म्मसु वर्णसङ्कराः, रतेषु
गुह्यमार्गेण, यद्यपि 'दृढदृष्टिरित्यत्र दृढशब्दस्य प्रियादिषु पाठात् पुंवद्भावनिषेधः प्राप्नोति तथापि दाढर्द्य-मात्रविवक्षया-सामान्ये नपुंसकत्वमास्थाय निर्वाहः कार्यः । तथा सुभटानां प्रशस्तसैनिकानाम् उरांसि वक्षांस्येव कपाटानि तेभ्यो विघटितानि वियोजितानि यानि कवचसहस्राणि लौहवर्मसमुदायास्तान्येव नैक्यनुस्यूत्वात् अन्धकारास्तन्मांसि तेषां मध्यवर्तिनी अन्तःपातिनी, राजलक्ष्मीः शत्रुराजश्रीः, करिणां हस्तिनां करटानि कपोलस्थलानि तेभ्यो गलितं निःसृतं यन्मदजलं दानवारि तस्य आसारो धारामम्पात-स्तेन दुर्दिनं मेघजनितं तमः यासु तथोक्तासु, गगनमोऽभिव्यञ्जनायैतद्गिहितम् 'मेघच्छन्नेऽह्नि दुर्दिनम्' इत्यमरः, समरा युद्धानि निशा रात्रय इव तासु अभिसारिका ध्वान्ते दत्तसङ्केता वनितेव यस्य शूद्रकस्य समीपम् अन्तिकम् असकृत् संग्रामस्यानेकत्वात् मुहुर्मुहु आजगाम आगतवती वशवर्तिनी जातेत्यर्थः । अभिसारिकालक्षणं यथा दर्पणे—
'अभिसारयते कान्तं या मन्मथवशंवदा । स्वयं वाऽभिसरत्येषा धीरैरुक्ताऽभिसारिका ॥'
इह 'आक्रप्यभागेव' इति क्रियोत्प्रेक्षात् क्रियोत्प्रेक्षालङ्कारः, उरःकपाटेत्यत्र कवचसहस्रेत्यत्र च रूपक-द्वयम्, अभिसारिकेवेत्युपमालङ्कारश्चेति परस्परमेषामङ्गाङ्गिभावेन सङ्करः ।
यस्येति । अत्रापि च क्रिञ्चार्थे । किञ्च यस्य महीपतेः ( शूद्रकस्य ) प्रतापः कोपदण्डजं तेजस्तदेव अनलो वह्निः, वियोगिनीनामपि पूर्वमेव स्वामिमरणाद् विरहिणीनामपि, स्वामिमरणशङ्कया संयुक्तानां किं वक्तव्यमित्याशयः रिपुसुन्दरीणां वैरिबनितानाम् अन्तर्मनसि जनित उत्पादितः दाहो दिग्बिर्येन स तथोक्तः, हृदयस्थितानपि तन्मिनिरन्तरध्यानेन अन्तर्वर्तिनोऽपि भर्तॄन् पतीन् दिधक्षुर्दग्धुमिच्छुरिव दिवा निशं रात्रिन्दिवं जज्वल प्रदीप्तो बभूव । वियोगिनीनामपीत्येन दाहयोग्यत्वं व्यञ्जितम् । एतेन यत्प्रतापो हृदयवर्तिनमपि रिपुगणं सोढुमसमर्थ इति तत्प्रतापातिशयवर्णनेन महीपतेरतिदायवर्णनम्, तथा च राजाऽयं महाप्रतापशालीति निष्कर्षः । दिवक्षुरिति दहतेः सन्नन्तात् 'सनाद्यंसभिङ् ङः' इति ङः ।
इह 'प्रतापानल' इत्यत्र केवलं निरङ्गं रूपकमलंकारः, 'दिधक्षुरिव' इत्यनेन क्रियोत्प्रेक्षात् क्रियोत्प्रेक्षा-लङ्कारश्चेत्युभयोः परस्परमङ्गाङ्गिभावेन सङ्करः ।
पुनस्तदतिशयमेव वर्णयति—यस्मिंश्चेति । यस्मिन् महीपतौ ( शूद्रके ) जितजगति निर्जितसंसारे महीं भुवं पालयति रक्षणं विदधति शास्ति सतीत्यर्थः, एते विषया एतेषु स्थलेषु विद्यमाना आसन् न प्रजा-नामित्यग्रिमेण सर्वत्र सम्बन्धः । तान्येव दर्शयति-चित्रेत्यादि । चित्रकर्म्मसु आलेख्यनिर्माणेपु वर्णानां नील-पीतादीनां सङ्कराः परस्परसम्बन्धाः, न तु जनतासु अनुलोमविलोमेन वा ब्राह्मणादिभ्यः क्षत्रियादीनां तद्वै-परीत्येन वोत्पत्तिरूपा वर्णसङ्कराः दुराचरणाभावादिति भावः । रतेषु मैथुनेषु केशग्रहाः सुगमताविधानाय कचाकर्णनानि, न तु कलहेषु तदनुपलम्भात् । काव्येषु कविकर्म्मंसु दृढबन्धाः समासाधिक्यादिना पादानां
कपोलों से मद बरसाने वाली युद्धरूपी वर्षा की घनघोर रात में योद्धाओं के हृदयरूपी कपाट पर लगे हुए कवचों के घने अन्धकार से होती हुई अभिसारिका नायिका के समान राजाओं की राजलक्ष्मी बार-बार उसके पास आती थी ।
उसके प्रताप की अग्नि पति-वियोगिनी (विधवा) शत्रु स्त्रियों के हृदयों में स्थित उनके पतियों को मानो जलाने की अभिलाषा से ही उनके हृदय के बीच अन्तर्ज्वाला (मानसिक सन्ताप) बनकर रात-दिन धधकती रहती है ।
सम्पूर्ण जगत् को जीतकर पृथ्वी का पालन करनेवाले शूद्रक के शासनकाल में विपरीत वर्णों के सम्बन्ध से सन्तान उत्पन्न करने की परिपाटी प्रजावर्ग से उठकर विभिन्न रंगों के मिश्रण से रङ्ग बनाने के रूप में केवल
१. करकट । २. सङ्गद्गाह । ३. दहुरिव । ४. दायो । ५. पालयति ।
十六 कादम्बरी– [ कथामुखे–
केशग्रहाः, काव्येषु दृढबन्धाः, शास्त्रेषु चिन्ता१, स्वप्नेषु विप्रलम्भाः, छत्रेषु कनकडण्डाः, ध्वजेषु प्रकम्पाः, गीतेषु रागविलसितानि, करिषु मद्विकाराः, चापेषु गुणच्छेदाः, गवाक्षेषु जालमार्गाः, शशिकृपाणकवचेषु कलङ्काः, रतिकलहेषु दूत२सम्प्रेषणानि, सार्य्यक्षेषु शून्यगृहाः न प्रजानामासन् ।
प्रगाढसन्निवेशाः, न तु कारागृहेषु दृढबन्धा अपराधाभावात् । शास्त्रेषु वेदोपबृंहितधर्मशास्त्रादिषु सिद्धान्तेषु चिन्ता मनोव्यापारः, न तु उदरपोषणादिषु समस्तविषयविद्यमानत्वात् । स्वप्नेषु स्वप्नदशायां विप्रलम्भाः इष्टवस्तूनां झटिति तिरोधानात् वञ्चनाः, न तु अन्यकालेषु वियोगस्याजायमानत्वात् । छत्रेषु आतपत्रेषु कनकडण्डाः, सुवर्णयष्टयः, न तु जनेषु कनकडण्डाः दण्डेन सुवर्णपरिग्रहः, स्वकीयपद्धत्यां तेषां विद्यमानत्वेनापराधाभावादित्याशयः । ध्वजेषु पताकासु प्रकम्पाः प्रकर्षेण चाञ्चल्यानि, न तु जनस्वान्तेषु भीतेरसत्त्वादिति भावः । 'ध्वजं चिह्नं पताकायां ध्वजः शौण्डिकशौण्डयोः। खट्वाङ्गेषु च' इति विश्वः । गीतेषु गानेषु रागाः वसन्तादिरागाः शास्त्रीया धनाश्रीप्रभृतयो देशीयाश्च तेषां विलसितानि व्यवहाराः, न तु जनेषु रागा मात्सर्यादयस्तेषां विलसितानि द्वेषाद्याचरणानि सर्वेषामेव अत्यन्तसदाचरणसम्पन्नतत्त्वादिति तात्पर्यम् । 'रागाः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु' इति त्रिकाण्डकोशः । करिषु गजेषु मदो दानं तस्य विकाराः तेजोजनितविकृतयः, न तु लोकेषु मदो रागोऽहङ्कारो वा तस्य विकारा विचेष्टतानि सर्वस्मिन्समये सातोपदेशामृतपानसक्तमनस्कत्वेन तेषामनुपलम्भादिति भावः । चापेषु धनुःषु गुणस्य मौर्वीरूपस्य रज्जोः छेदः कर्तनम्, न तु गणेषु गुणानां दयादाक्षिण्यादीनां छेदा विलोपाः, तथाविधगुणानां सर्वदोपलम्भादित्याशयः । गवामक्षीवेति विग्रहे 'अक्षणोऽदर्शनात्' ५।४।७६ इति पा० सूत्रेणाच् । गावो जालानि किरणा वाक्षन्ति व्याप्नुवन्ति एवमनेन वेति विग्रहे 'अक्षू व्याप्तौ' इत्यस्माद्धातोः अकर्त्तर्र्थे घञि सति गवाक्ष इति 'वातायनं गवाक्षः' इत्यमरः, तेषु जालमार्गा वातागमनाय क्षुद्रक्षुद्रपथाः, न तु जनेषु जालमार्गाः छद्मरूपनामार्गाः सर्वेषामेव सत्प्रकृतिकत्वादिति भावः । शशी चन्द्रः, कृपाणम् असिः, कवचौ लोहनिर्मितवर्म, एतेषां द्वन्द्वः एषु कलङ्काश्चिह्नानि, तत्र चन्द्रे कलङ्को मृगलाञ्छनरूपः स्वाभाविकः कृपाणकवचयोस्तु अधिकदिनपर्यन्तं व्यवहाराभावे मालिन्यरूपो कलङ्को, न तु जनाचरणेषु कलङ्काः कुलमालिन्यादिजनका दुराचरणादिरूपितव्यवहाराः सर्वेषामेव सदाचरणशीलत्वादित्याशयः । रतिकलहेषु कामविषयकविवादेषु दूतसम्प्रेषणानि सञ्चारकगमनानि, न तु युद्धेषु प्रवलविपक्षिणोऽविद्यमानत्वादिति भावः । सारयः क्रीडन्यः अक्षा विर्भीत्तकाः तेषु गुटिकाक्षेपेण्वित्यर्थः, शून्यगृहाः गुटिकारहितस्थानानि न तु ग्रामेषु लोकशून्यसदनानि केनापि प्रकारेण राजादेपकरजनितबाधाद्यभावादित्यभिप्रायः। इह 'वर्णसंकरा' इत्यारभ्य 'शून्यगृहाः' इत्येतेषु चतुर्दशसु श्लेषानुप्राणितार्थपरिसंख्यालङ्कारस्य मिथोऽनपेक्षत्वेन विद्यमानत्वात् संसृष्टिः ।
चित्रकला ही में चलती थी, बाल पकड़ने की क्रिया कामिनियों की चोटी पकड़ने के रूप में केवल रतिक्रिया में ही होती थी, कारागार आदि कठोर बन्धन की रीति-बन्धो (विशिष्ट रचना-शैलियों) के रूप में केवल काव्य में ही वरती जाती थी, जीवननिर्वाह की चिन्ता अध्ययन और मनन के रूप में केवल शास्त्र चिन्तन में मग्न थी, वियोग की दशा दृष्ट दस्तों को न पा सकने के रूप में केवल सपनों में आती थी, अर्थदण्ड की व्यवस्था सोने की छड़ियों के रूप में केवल राजछत्रों में पायी जाती थी, भय से काँपने की स्थिति वायु से हिलने के रूप में केवल पताकाओं में स्थित थी, मद-मोह आदि षड्रार्गों की हलचल, रागरागिनियों की कीटाओं के रूप में केवल गीतों में होती थी, अहंकार का दोष गजमद के रूप में केवल हाथियों में मिलता था, गुणों से हीनना रोदे के उतरने के रूप में केवल धनुषों में दिखाई पड़ती थी, धोखा-धड़ी की कारीगरी जालीदार कटावों के रूप में केवल झरोखों में की जाती, कलंक की कालिमा काले-काले धब्बों के रूप में केवल चन्द्रमा, तलवार और कवचों में लगी हुई थी, दूत-सम्बन्ध की स्थापना मानमोचन के लिए दूतों के आवागमन के रूप में केवल कामकलह में ही होती थी तथा घर का धन से सूना होना मुहरों से सूने कोठों के रूप में केवल चौपड़ आदि खेलों में ही पाया जाता था।
१. चिन्ताः ।
२. दूतप्रेषणानि ।
शूद्रकवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | १७
यस्य च परलोकाद्भयम्, अन्तःपुरिकालकेषु १ भङ्गः, नूपुरेषु मुखरता, विवाहेषु करपीडनम् २, अनवरतं ३ मखाग्निधूमेनाश्रुपातः, तुरगेषु ४ कशाभिघातः, मकरध्वजे चापध्वनिरभूत् ५ । तस्य च राज्ञः कलिकाल-भयपुञ्जीभूत-कृतयुगानुकारिणी ६ त्रिभुवनप्रसवभूमिरिव विस्तीर्णा मज्जन्मालवविलासिनीकुचतटास्फालन ७-जर्जरितोर्मिमालया जलावगाहनावतारित-जयकुञ्जर-कुम्भ-सिन्दूर-सन्ध्यायमान-सलिलया उन्मद-कलहंस-कुल-कोलाहल-
यस्य चेति । यस्य च महीपतेः ( शूद्रकस्य ) परलोकात् जन्मान्तरादेव भयम्, न तु शत्रुवर्गात् तस्मात् स्वस्यातिशयबलशालित्वमिति तात्पर्यम् । भयमित्यादेर्हि अभूदित्यग्रिमक्रियया सर्वत्र सम्बन्धोऽवधेयः । अन्तःपुरे भवा अन्तःपुरिकाः भवार्थे ठञ् प्रत्ययः, तासाम् अन्तःपुरवासिनीनां कामिनीनां अलकेषु चूर्णाङ्कुन्तलेषु 'अलकारूर्णकुन्तलाः' इत्यमरः । भङ्गः कुटिलता, न तु समरेषु भङ्गः पराजयः अतिप्रबलसैन्ययुक्तत्वादिति भावः । नूपुरेषु हंसकेषु मुखरता शब्दायमानता, न तु लोकेषु मुखरता वाचालता, सर्वेषामेव प्रियभापित्वादित्याशयः, विवाहेषु उपयमनेषु करपीडनं पाणिग्रहणं न लोकेषु करो राजदेयद्रव्यं तेन पीडनं तद्ग्रहणाय बाधनं जनानां समृद्धिशालित्वेन यथोचितसमय एव तत्समर्पणान् नृपतेश्च परिस्थित्यनुकूलेन कार्यविधानादित्याशयः । अनवरतं निरन्तरं मखाग्निधूमेन ऋतुवह्निधूमेन अश्रुपातो नेत्रजलनिःसरणं न तु शोकादिना, असमयप्राणवियोगाद्यभावादिति भावः । तुरगेषु घोटकेषु कशाभिघातः चर्मदण्डप्रहारः, न तु दस्युप्रभृतिषु तेषामसद्भावात् । मकरध्वजे कामदेवे चापस्य धनुषो ध्वनिः जनमानसवशीकरणाय टङ्कारः, न तु सैनिकजने प्रायेण सङ्ग्रामाद्यभावादित्यभिप्रायः, इहापि पूर्ववदेव सष्टार्थपरिसंख्यालङ्काराः, अपि च 'मकरध्वजे चापध्वनिः' इत्यत्र असम्बन्धे सम्बन्धरूपातिशयोक्तिरित्येतेषां परस्परनिरपेक्षेण संसृष्टिः ।
तस्य चेति । तस्य च राज्ञो महीपतेः ( शूद्रकस्य ) विदिशा अभिधानं नाम यस्याः सा विदिशाभिधाना राजधान्यासीदिति क्रियायामन्वयः । तामेव विशेषयति-कलीत्यादिना । तत्र प्रथमान्तं विदिशायाः, तृतीयान्तञ्च वेत्रवत्या विशेषणमिति बोध्यम् । कलिकालान् कलियुगस्यापनाद् यद्भयं भीतिस्तस्मात् पुञ्जीभूतम् एकत्रीभूतम् अवयवसङ्कोचेन सङ्कुचितमिव कृतयुगं तदनुकर्तुं शीलं स्वभावो यस्याः सा तादृशी, अनेनातिशयपुण्यस्थानमेतदिति व्यज्यते । त्रयाणां भुवनानां जगतां समाहारस्त्रिभुवनम् 'तद्धितार्थोत्तरपदसमाहारे च' इति समाहारे तत्पुरुषः, तस्य प्रसवभूमिरिव उत्पत्तिकेश्कलमिव विस्तीर्णा विपुला । मज्जन्त्यः स्नानाय अवगाहमानाः मालवविलासिन्यो मालवदेशीयकामिन्यः तासां कुचतटानि वक्षोजस्थलानि तेषाम् आस्फालनेन अतिशयवदोजवातेन जर्जरिताः क्षीणीकृता ऊर्मीणां तरङ्गाणां मालाः पङ्क्तयो यस्याः सा तथा तथोक्तया । 'भङ्कस्तरङ्ग ऊर्मिर्वा' इत्यमरः, 'माला तु पंक्ती पुष्पादिदामनि' इति हैमः । एतेन कुचानामतिकर्कशत्वं व्यज्यते । जलावगाहनाय पानीयावलोडनाय अवतारिता रक्षकैः प्रवेशिता जयकुञ्जराः विपक्षदलनसमर्थहस्तिनः तेषां कुम्भाः शिरःपिण्डाः तेषु शोभमानं यत्सिन्दूरं नाग-
उसके शासनकाल में लोगों में यदि भय था तो केवल परलोक से, कुटिलता थी तो केवल महलों की सुन्दरियों की घुँघराली लटों में, वाचालता थी तो केवल नूपुरों में, करग्रहण ( पाणिग्रहण ) था तो केवल विवाहों में, आँसुओं का गिरना था तो केवल यज्ञ के धुँओं से, कोड़ों की चोट थी तो केवल घोड़ों पर और धनुष का शब्द केवल कामदेव के धनुष ही में पाया जाता था । ( अर्थात् युद्ध का अभाव था; सहज शांति थी )।
विदिशा नाम की नगरी उसकी राजधानी थी। जहाँ के लोग अत्यन्त सात्त्विक थे मानों कलियुग से भयभीत होकर सत्ययुग सिमटकर वहीं आ बसा था। वह इतनी लम्बी चौड़ी थी कि तीनों लोक उसी से उत्पन्न जैसे प्रतीत होते थे। वह वेत्रवती ( बेतवा ) नाम की नदी से घिरी हुई थी; जिसकी लहरें स्नान करनेवाली मालव-सुन्दरियों के कठोर कुचों के तट से टकराकर छिन्न-भिन्न हो जाती थीं, जिसका जल स्नान के लिए जल में उतारे हुए जयकुञ्जरों के मस्तकों में लगे सिन्दूर के छुट जाने से सन्ध्या के समान लोहित हो जाता था, तथा जिसके किनारे मत्तवाले हंसों के कलरव से गूँजते रहते थे।
१. अन्तःपुरिकुन्तलेषु ।
२. करग्रहणम् ।
३. अनवरतप्रवृत्त ।
४. तुरङ्गेषु ।
५. उदभूत् ।
६ अनुकारिणी ।
७. आघात लगत ।
३ का० कथा०
१८ | कादम्बरी- | [ कथामुखे-
मुखरित¹-कूलया वेत्रवत्यो परिगता विदिशाभिधाना नगरी राजधान्यासीत् ।
स तस्याञ्च ³विजिताशेष-भुवनमण्डलतया विगतराज्यचिन्ताभारनिर्वृतः, द्वोपान्तरागतानक-भूमिपाल-मौलिमाला-लालित-चरणयुगलः वलयमिव लीलया भुजेन भुवनभारमुद्वहन्, अमरगुरुमपि प्रज्ञयोपहसद्भिरनेककुलक्रमागतैरसकृदालोचित-नीतिशास्त्र-निर्मलमनोभिरलुब्धैः स्निग्धैः प्रबुद्धैश्चामात्यैः परिवृतः, समानवयोविद्यालङ्कारैरनेकमूर्द्धाभिषिक्त-पार्थिवकुलोद्गतैरखिल-कलाकलापालोचन-कठोरमतिभिरतिप्रगल्भैः कालविद्भिः
सम्भवं रक्तचूर्णकमिति यावद् 'सिन्दूरं नागसम्भवम्' इत्यमरः, 'सिन्दूरं तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके' इति मेदिनी, तेन सन्ध्यायमानं सन्ध्यावदाचरत् रक्तीभूतं सलिलं जलं यस्यास्तया तथोक्त्या । उन्मदानाम् उत्कटमदानां कलहंसानां कादम्बानां कुलस्य सङ्घस्य यः कोलाहलोऽनभिव्यक्तरवः तेन मुखरितं शब्दाममानीकृतं कूलं तटं यस्यास्तथा तथोक्त्या । वेत्रवत्या तन्नामिकया नद्या परिगता परिवेष्टिता ।
अत्र कलिकालेत्यादिविशेषणे पुञ्जीभूतस्वोत्रेक्षालङ्कारः आर्या उपमालङ्कारश्च, त्रिभुवनेत्यादिविशेषणे द्रव्योत्प्रेक्षालङ्कारः, कुचतटास्फालनेन ऊर्मिमालाया जर्जरितत्वासम्बन्धेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्त्यलङ्कारः, सन्ध्यायमानेत्यभ्दुतोपमा चेत्येतेषां परस्परापेक्षाभावेन तिलतण्डुलवत् संसृष्टिरलङ्कारः ।
स तस्यामिति । स राजा (शूद्रकः) तस्यां विदिशानगर्याम् अतिचिरं बहुसमयं प्रथमे आद्ये वयसि प्राणिनां कालकृतावस्थाविशेषे सुखम् आनन्दो यथा स्यात्तथा उवास वसतिं चक्रे इति सम्बन्धः । वयसः केचित् कुमारादिभेदेन व्यवस्थीं मन्यन्ते तद्यहि—
'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥' इति
दर्शनात् । केचिच्च चतुरवस्थां मन्यन्ते, तथादि—
'आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति ॥'
अत्र प्रथमान्तपदानि राजविशेषणानि, तृतीयान्तपदानि च सचिवानां राजपुत्राणाञ्च विशेषणानि । तन्न राजविशेषणं—विगतेति । विगती दूरीभूतो यो राज्यचिन्ताभारस्तेन निर्वृतः सुनिश्चन्तः । तत्र कारणमाह—विजितेति । विजितानि स्वाधीनीकृतानि अशेषाणि सकलानि भुवनमण्डलानि चतुर्दशभुवनानि येन तस्य भावस्तया तथोक्त्या । एकस्माद् द्वीपान्द्विग्ना ये द्वीपास्ते द्वोपान्तराणि तेभ्य आगतानां समायातानाम् अनेकभूमिपालानां बहुतरमहीपतीनां मौल्यो मुकुटानि शिरांसि वा तेषां मालाः स्रजः श्रेणयो वा ताभिलालितं सादरं संस्पृष्टं चरणयुगलं पादयुग्मं यस्य स तादृशः । वलयं कटकभिव 'कटकं वलयोऽस्त्रियाम्' इत्यमरः, लीलया अनायासेन । भुवनभारं संसारवीवधम् उद्वहन् धारयन् । प्रज्ञया धिया 'धीः प्रज्ञा शेमुषी मतिः' इत्यमरः, अमरगुरुं बृहस्पतिभपि उपहसद्भिः उपहासं कुर्वद्भिः, अनेककुलक्रमागतैः वंशपरम्परया अमात्यपदामूढैर्न त्वाधुनिकैरित्यर्थः, असकृद् वारंवारम् आलोचितैः अनुशीलितैः नीतिशास्त्रैः राजोचितव्यवहारबोधकग्रन्थैः निर्मलानि स्वच्छीकृतानि मनांसि येषां तैस्तथोक्तैः । अलुब्धैः लोभशून्यैः, अन्यथा प्रच्छन्नरूपेण द्रव्यग्रहणादिना राज्ञः क्षेत्तमपि विदद्युरित्याशयः । स्निग्धैः वत्सलैः 'स्निग्धस्तु वत्सलः' इत्यमरः, प्रबुद्धैः जागरितैः कार्यशैर्वा । अनेके बहवो ये मूर्द्धाभिषिक्ताः ब्राह्मणेम्यः क्षत्रियासु समुत्पन्ना मूर्द्धाभिषिक्तास्तेषाम्, पार्थिवानां महीपतीनाञ्च कुलानि वंशास्तेभ्यः तद्गता उत्पन्नास्तैस्तथोक्तैः, अखिलानां समग्राणां कलानां नृत्यगीतादीनां कलापस्य समुदायस्य आलोचनेन विमर्शेन कठोरा, शास्त्रे परिपक्वा मतयो धियो येषां तैस्तथोक्तैः, अतिप्रगल्भैः प्रतिभाान्वितैः 'प्रगल्भः प्रतिभाान्विते' इत्यमरः,
वह अपनी युवावस्था में बहुत दिनों तक सुख के साथ उस नगरी में निवास करता रहा । उसने सम्पूर्ण पृथ्वी को जीत लिया या इसलिए वह राज्य-भार की चिन्ता से मुक्त होकर निश्चिन्त हो गया था । अनेक द्वीपों से आये हुए राजा अपनी मुकुट-मालाओं से उसके चरणों की पूजा किया करते थे । वह अनेक मन्त्रियों से घिरा रहता था जो अपनी प्रतिभा से वृहस्पति को भी हँसी सी उड़ानेवाले, वंश-परम्परा से अपने पदों पर आसीन और निरन्तर नीतिशास्त्र का मनन-चिन्तन करने से निर्मल-हृदय, निर्लोभी, हित-चिन्तक तथा जागरूक थे । वह अनेक राजपुत्रों के साथ आमोद-प्रमोद में लगा रहता था; जो अवस्था, विद्या तथा आभूषणों में उसी के समान थे, विभिन्न श्रेष्ठ राजाओं के वंशों से उत्पन्न थे, अनेक कलाओं के मनन से परिपक्वबुद्धि तथा अत्यन्त प्रखर थे ।
१. मुखरीकृत । २. वेत्रवत्या सत्या, वेत्रवत्या सरिता । ३. तस्यामवन्ताशेष ।
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १६
प्रेमानुरक्तहृदयैरग्राम्यपरिहासकुशलैरिङ्गिताकारवेदिभिः काव्य-नाटकाख्यानकाख्यायिकालेख्य-व्याख्यानादिक्रियानिपुणैरतिकठिन-पीवर-स्कन्धोरु-बाहुभिरसकृदवदलित-समद-रिपुगज-घटा-पीठबन्धैः केसरिकिशोरकैरिव, विक्रमैकरसैरपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखमतिचिरमुवास ।
तस्य चातिविजिगीषुतया महासत्त्वतया च तृणमिव लघुवृत्ति स्त्रैणमाकलयतः प्रथमे वयसि वर्त्तमानस्यापि^२ रूपवतोऽपि सन्तानार्थिभिरमात्यैरपेक्षितस्यापि सुरतसुखस्योपरि द्वेष इवासीत् ।
कालविद्भिः अवसरज्ञैः, प्रभावेण माहात्म्येन अनुरक्तानि आसक्तानि हृदयानि मनांसि येषान्तैस्तथोक्तैः अग्राम्येषु नागरिाकेषु अश्लीलादिरहितेष्विति यावत् य उपहासो नर्मवचोविलासस्तत्र कुशलैः अभिज्ञैः 'कुशलश्चतुरोऽभिज्ञः' इत्यमरः । इङ्गितं चेष्टितम् आकारो नेत्रादिसङ्कोचादिरूपो रचनाविशेषः तौ विदुन्तीति तैः तथोक्तैः काव्यं रसात्मकं वाक्यं पद्यमयमहावाक्यं वा, नाटकं रूपकविशेषः अवस्यानुकृतिरिति यावत्, आख्यानकानि चूर्णकानि, आख्यायिका गद्यकाव्यविशेषो वासवदत्तादिः, आलेखानि चित्रनिर्माणानि, व्याख्यानानि अर्थपल्लवितकरणानि इत्यादिका याः क्रियाः कार्याणि तासु निपुणैः निष्णातैः 'निष्पातो निपुणो दक्षः' इत्यमरः । अतिकठिनाः नितान्तदृढाः पीवराः पुष्टाश्च स्कन्धोरुबाहवो येषान्तैस्तथोक्तैः, असकृन्मुहुर्मुहुः अवदलिता विमर्दिताः समदा मदयुक्ता या रिपुगजघटाः शत्रुक रिसमूहाः ता एव पीठबन्धाः पृष्ठस्थितासनानि यैस्तैस्तथोक्तैः । केशरिणां सिंहानां किशोरकैः शिशुभिरिव विक्रमे पराक्रमे एकोऽद्वितीयो रस आसक्तिर्येषान्तैरपि । विनयेन सारल्येन व्यवहारो वृत्तिरस्ति येषां तैस्तथोक्तैः, एतेन सामर्थ्य सत्यपि विनयातिशयो व्यञ्जितः । आत्मनः स्वस्य प्रतिबिम्बैरिव अनेनात्यन्ततुल्यत्वं दर्शितम् । रममाणः क्रीडन् । अन्वयस्तु पूर्वमेव प्रदर्शितः । इह 'वक्ष्यमिव' इत्यत्रोपमालङ्कारः स च वाच्यः एवं 'अमरगुरुमपि प्रज्ञयोपहसन्द्भिः' इत्यत्र त्वार्थोपमालङ्कार आक्षिप्यते..., 'रिपुगजघटापीठबन्धैः' इत्यत्र रूपकमलङ्कारः, 'केसरिकिशोरकैः' इत्यत्र 'प्रतिबिम्बैः', इत्यत्र च वाच्योपमालङ्कार इत्येतेषां मिथोऽपेक्षाभावेन संसृष्टिरलङ्कारः ।
तस्य चेति । अतिशयेन विजेतुमिव्छुविजिगीषुस्तस्य भावस्तत्ता तया तयोक्त्या परमोत्कर्षप्राप्तेरिच्छया व्युपसर्गाज्जायतेः सन्नन्तात् 'सनाद्यंतांसभिक्षु उः' इत्युः । महत्सत्त्वमतिशायिधैयं यस्य स तस्य भावस्तत्ता तया तथोक्त्या च । तृणमिव घासमिव लघ्वी विशेषोत्कर्पजनकत्वाभावात् तुच्छतया निःसारेति यावत्, वृत्तिः व्यवहारो यस्य तत्तथोक्तम्, स्त्रैणं स्त्रीगणम् आकलयतः निश्चिण्वतः, अनेन तासामकिञ्चित्करत्वं द्योतितम् । प्रथमे आद्ये तारुण्ये वयस्यवस्थायां वर्त्तमानस्यापि, रूपवतोऽपि परमसौन्दर्यवतोऽपि तस्य राज्ञः ( शूद्रकस्य ) सन्तानमपत्यं तदेवार्थः प्रयोजनमस्ति येषान्तैस्तथोक्तैः अमात्यैर्मन्त्रिभिः अपेक्षितस्यापि आकाङ्क्षितस्यापि, एतेनामात्यस्यानुकूल्यमुपपादितम् । सुरतसुखस्य आश्लेषजनितानन्दस्योपरि द्वेष इवासीत् । इह सुरतसुखे द्वेषहेतोरसत्त्वेऽपि तदुत्पत्तेः किं विभावना आहोस्खित् विद्यमानेष्वपि सुरतहेतुषु तारुण्यादिषु तदनुत्पत्तेर्विशेषोक्तिरित्यनयोः सन्देहसङ्करः, सोऽयं तृणमिवेत्यत्रोपमया च
वे व्यावहारिक, शूद्रक के प्रति आसक्त, शिष्ट-परिहास करने में कुशल, संकेत और आङ्गिक चेष्टाओं के ज्ञाता तथा काव्य, नाटक, कथा कहानी, चित्रलेखन और व्याख्यान आदि क्रियाओं में निपुण थे । उनके कन्धे, छाती तथा भुजायें अत्यन्त पुष्ट, स्थूल एवम् बलिष्ठ थीं । वे अनेक बार सिंहों के बच्चों के समान शत्रुओं के मतवाले हाथियों की पीठ पर अपना आसन जमा चुके थे और अद्वितीय पराक्रमी होते हुये भी अत्यन्त विनम्र स्वभाववाले तथा उसकी ही प्रतिमूर्ति जैसे प्रतीत होते थे ।
विजय प्राप्त करने की उत्कट अभिलाषा एवं अपनी पराक्रम-शीलता के कारण वह स्त्रीजनसक्ति को घास के समान अत्यन्त तुच्छ समझता था । यद्यपि वह युवा था, सुन्दर था और उसके मन्त्रियों में उससे सन्तान उत्पन्न होने की प्रबल अभिलाषा भी थी तथापि उसका सम्भोगसुख से कुछ बैर सा था ।
१. आख्यानकालेख्य । २. वर्त्तमानस्यातिरूपवतोऽपि ।
| २० | कादम्बरी- | [ कथामुखे- |
|---|
सत्यपि रूपविलासोपहसित-रतिविभ्रमे लावण्यवति विनयवत्यन्वयवति हृदयहारिणि चावरोधजने, स कदाचिदनवरतदोलायमान-रत्नवलयो घर्घरिकास्फालन-प्रकम्प-झण-झणायमान-मणिकर्णपूरः स्वयमारब्धमृदङ्गवाद्यः सङ्गीतप्रसङ्गेन, कदाचिदविरल-विमुक्त-शरासार-शून्यीकृतकाननो मृगयाव्यापारेण, कदाचिदाबद्धविद्वन्मण्डलः काव्यप्रबन्धरच-नेन, कदाचिच्छास्त्रालापेन, कदाचिदाख्यानकाख्यायिकेतिहासपुराणाकर्णनेन, कदाचिदाले-ख्यविनोदेन, कदाचिद्वीणया, कदाचिद्दर्शनागत-मुनिजन-चरणशुश्रूषया, कदाचिदक्षरच्युतक-
सङ्कीर्णः। सुरतसुखस्योपरि विद्वेषमुपपादयितुमन्यविषयकार्यासक्तिमुपपादयति—सत्यपीति । रूपं सौन्दर्यं विलासः 'धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः।' इति लक्षणलक्षितः ताभ्याम् उपहसितो हास्यास्पदी-कृतः, रतेः कामदेवपत्न्याः विभ्रमो विलासो येन स तस्मिंस्तथोक्ते । विनयो वस्त्रागमने आसनाद्युत्थानादि-रूपस्तद्वति तद्युक्ते, अन्वयः कुलमस्यास्तीति तस्मिंस्तथोक्ते, अत्र 'तदस्यास्त्यस्मिन्निति मतुप्' इत्यनेन प्रशंसायां मतुप्, सत्कुलप्रसूत इत्यर्थः, अत्र प्रशस्तकुलोत्पन्नतवेन रूपलावण्याधिक्यं प्रतीयते। हृदयस्य चित्तस्य हारिणिः आकर्षणविधायिनि, एतेनाखिललोकस्पृहणीयत्वं व्यञ्जितम्। अवरोधजने स्त्रीसमूहे सत्यपि। स राजा (शूद्रकः) दिवसम् अनैषीत् वासरमगमयदिति वक्ष्यमाणक्रिया सर्वत्र सम्बध्यते। प्रथमान्तपदानि राजविशेषणानि तृतीयान्तपदानि च दिवसन्नयनक्रियाकरणानीत्यवगन्तव्यानि। कदा-चित् कस्मिंश्चित्प्रकारे, अनवरतम् अजस्रम् दोलायमाने वादने हस्तविधूननात् स्पन्दमाने रत्नवलये उभय-हस्तस्थितरत्नमयकङ्कणद्वयं यस्य स तादृशः, तथा घर्घरिका वाद्यविशेषो वीणा तस्या आस्फालनेन हस्तेन वादनेन यः प्रकम्पः शरीरकम्पनात् शिरःकम्पनं तेन झणझणायमानौ 'झण-झण' एवं शब्दं कुर्वाणौ मणिकर्णपूरौ मणियमकर्णभूषणे यस्य स तादृशः स्वयमारब्धैव आरब्धं कृतं मृदङ्गवद् वाद्यं वादित्रं येन स तादृशः। गीतनृत्यवाद्यत्रयं दर्शनायें कृतं सङ्गीतकमभिधीयते, तस्य प्रसङ्गः सङ्गन्धस्तेन तयोक्तेन, तथा च संगीतरेत्नाकरे—'गीतं नृत्तं च वाद्यं च त्रयं सङ्गीतमुच्यते' इति। अविरलं सान्द्रं यथा स्यात्तथा विमुक्ता विक्षिता ये शरा इषवस्तेषाम् आसारी धारासम्पातः तेन शून्यीकृतं हिंस्रजन्तुरिक्कीकृतं काननं वनं येन स तादृशः 'गहनं काननं वनम्' इत्यमरः। मृगया व्यापारेण आखेटकक्रियया। आवद्धम् अनुष्ठितं विदग्धानां विदुषां मण्डलं समूहो येन स तादृशः। काव्यं पूर्ववर्णितस्वरूपं, प्रबन्धाः कथास्तेषां रचनेन निर्माणेन, अनेन विद्वज्जनानुरागित्वं व्यज्यति। शास्त्रालापेन न्यायाद्यापृच्छनेन 'आपृच्छालापसंलाप' इत्यमरः। आख्यानकं स्फुटकथा, आख्यायिका वासवदत्तादिका, इतिहासः पुरावृत्तम्, पुराणे 'मत्स्यं भविष्यं च' इत्या-दिनातादृश मत्स्यादि, तेषाम् आकर्णनेन श्रवणेन। आलेख्यं चित्रनिर्माणं तस्य विनोदेन तद्दर्शनानन्देन। वीणया वीणावाद्यश्रवणेन। दर्शनार्थम् प्रेक्षणार्थम् आगता आयाता ये मुनिजनाः साधुलोकास्तेषां चरणशुश्रू-षया पादसेवनया । अक्षरस्य अकारादिवर्णस्य च्युतं च्युतिस्तत्र तदक्षरच्युतकं काव्यम्। यथा—
'कुर्वन् दिवाकरारलेपं दधच्चरणलग्नम्वरम्। देव! यौष्माकसेनायाः करेणुः प्रसरत्यसौ ॥'
इत्यत्र करेणुपदस्य ककारच्युतौ द्वितीयार्थरेणुप्रतीतिः मात्रायश्चितियंत्र तन्मात्राच्युतकम् यथा—
'मूलस्थितिमधः कुर्वन् पात्रैरुंरो गतात्तरैः। विटः सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥
यद्यपि उसका रनिवास सौन्दर्य और काम कलाओं में रति एवं उसके हाव-भावों की हँसी उड़ाने वाली कमनीय, सलज्ज, कुलीन एवं मन को चुरा लेनेवाली सुन्दरियों से भरा था फिर भी स्त्री-सहवास के सुखोंसे उदासीन होकर वह अपनी मित्र-मण्डली में ही सुख से समय बिताता था। वह कभी सङ्गीत-गोष्ठियों में स्वयं मृदङ्ग बजाता जिससे निरन्तर हिलते हुये हाथों में रत्नों के कङ्कण और कभी मस्त होकर घर्घरी (एक बाजा) बजाता जिससे कानों में झूलते हुये मणियों के कर्णफूल झनझना उठते थे। कभी शिकार खेलने में निरन्तर बाणों की वर्षा द्वारा हिंसक जन्तुओं से जङ्गलों का जङ्गल साफ कर देता था। कभी मर्मज्ञ विद्वानों की गोष्ठियों में काव्यप्रबन्धों की रचना करता अथवा शास्त्रीय चर्चा में लगा रहता था। कभी कथा, कहानी, इतिहास और पुराणों के सुनने में तल्लीन रहता था, कभी चित्र बनाने अथवा वीणा बजाने में मन बहलाया करता था, कभी अपने दर्शन के लिए आये मुनियों की सेवा में लगा रहता था और कभी अक्षरच्युतक (जिस छन्द का
१. अन्वयवत्यभिजनवति ।
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । २१
मात्राच्युतक-बिन्दुमती-गूढचतुर्थपाद-प्रहेलिका-प्रदानादिभिः, वनितासम्भोगसुख-पराङ्मुखः सुहृत्परिवृतो दिवसमनैषीत्^१। यथैव च दिवसमेवारब्ध-विविध-क्रीडा-परिहास-चतुरैः^२ सुहृद्भिरुपेतो निशामनैषीत्। एकदा तु नातिदूरोदिते नव-नलिन-दलसम्पुट-भिदि किञ्चिन्मुक्त^३-पाटलिम्नि भगवति
तत्र विटपदादिकारमात्राच्युतो द्वितीयार्थवद्वृत्तस्यावगमः। पद्मवर्णसंख्यया बिन्दुमात्रनिवेशनैन तत्तद्वर्णोपलब्धिर्बिन्दुमती। यथा—
द्विल्लङ्कवलङ् विंङ् ळिंहोः हुहुदृङ्गींरंहूः। ल्ळुककि हुहुदाहुलङ्लीळ्होह हंहूः॥
एतत्पद्यं यथा—
'त्रिनयनचूडारत्नं मित्रं सिन्धोः कुमुद्वतीबन्धुः। अयमुदयति युगुणारुणरमणीवदनोपमश्चन्द्रः॥'
यत्र प्रथमद्वितीयतृतीयचरणेषु तुरीयपादस्य वर्णा गुप्तास्तिष्ठन्ति स गूढचतुर्थपादः। यथा—
'दयावान् प्रयतः शुद्धः प्रबुद्धकमलेक्षणः। पापापहस्त्रिभुवनं बुद्धः पायादपायतः॥'
इह चतुर्थः पादः पादत्रयगतानामेकाचङ्गाद्धितानामक्षराणां यथाक्रमं योजनया समुल्लसति॥' अर्थस्तु सुगम एव। प्रहेलिकालक्षणम्—
'व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात्। यत्र बाह्यान्तराचयौं कथ्येते सा प्रहेलिका॥ सा द्विधार्थी च शाब्दी च विख्याता प्रश्नशासने। आर्थी स्यादर्थविज्ञानाच्छाब्दी शब्दविभागतः॥'
तथार्थी यथा—'तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः। गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः॥' तत्र 'पानीयकुम्भः' इत्युत्तरम्, न तु वल्लभः। शाब्दी यथा—
'दुर्वारीवीर्यसरुचि स्वयि का प्रसन्ना श्यामा सपत्नहृदये सुपयोधरा च। तुष्टे पुनः प्रणतशत्रुसरोजसूर्ये सैवाद्य वर्णरहिता वद नाम का स्यात् ?॥'
तत्र 'खङ्गी' (छुरिका) प्रथमप्रश्नोत्तरम्, न तु स्त्री। 'स्त्री' इति द्वितीयप्रश्नोत्तरम्।
यथैवेति—यथैव येन प्रकारेणैव दिवसं वासरमनैषीत्, एवं तथैव निशां रात्रिमप्यनैषीद्गमयदिरित संबन्धः। आरब्धाः प्रवर्तिताः विविधा नानाप्रकाराः क्रीडापरिहासाः खेलोपहासास्तेषु चतुरैः कुशलैः सुहृद्भिर्मित्रैः उपेतः संयुक्तः। अत एव सम्भोगसुखस्योपरि द्वेष इव आसीदित्याशयः।
एकदेति। एकदा एकस्मिन्समये प्रतीहारी द्वारदेशे नियुक्ता स्त्री समुपसृत्य समीपदेशमागत्य, आस्थानमण्डपगतं सभागृहस्थितं राजानं सविनयं विनयेन सह अब्रवीदवोचदित्यन्वयः। अत्र प्रथमान्त-पदानि प्रतीहारीविशेषणान्यवगन्तव्यानि। सूर्यवर्णनाध्याजेन उक्त्यवसरं विशेषणेन दर्शयति—नाति-दूरोति। नातिदूरं स्वल्पमलीनम् उदितम् उद्गमनं यस्य स तस्मिन् तथोक्ते आकाशस्य किञ्चिद् दूरोदिते सतीत्यर्थः, नवानि नूतनानि यानि नलिनानि पद्मानि तेषां दलानि पर्णानि 'पत्रं पलाशं छदनं दलं पर्ण छदः पुमान्' इत्यमरः, तेषां सम्पुटं मुकुलीभावं भिनत्ति दूरीकरोतीति स तस्मिंस्तथोक्ते, किञ्चिन्मुक्तः किञ्चिद्दूरोदयात् ईषत् परित्यक्तः पाटलिमा श्वेतरक्तत्वं येन स तस्मिंस्तथोक्ते, 'श्वेतरक्तस्तु पाटलः' इत्यमरः, दूरोदितेत्यारभ्य विशेषणत्रयैः प्रत्यूषकालो ध्वन्यते। भगवति ऐश्वर्यशालिनि, सहस्रसंख्याः ये
एक अक्षर निकाल देने से दूसरा अर्थ निकले), मात्राच्युतक (जिस छन्द की एक मात्रा परिवर्तित हो जाने से दूसरा अर्थ निकले), बिन्दुमती (जिस रचना में अक्षरों के स्थान में केवल बिन्दु रख दिए जायें) एवं गूढ-चतुर्थ-पाद (जिस पद्य के चौथे चरण के अक्षर पहले तीन चरणों में छिपे हों) नामक काव्य-प्रश्नों की रचना तथा पहेलियों के निर्माण करने-कराने में व्यस्त रहता था।
वैसे नाना प्रकार की क्रीडाओं और परिहासों में कुशल मित्रों की मण्डली से उसका दिन बीतता था उसी प्रकार उन्हीं के बीच उसकी रात भी बीतती थी।
एक बार प्रातःकाल जब नयी नयी कमल की कलियों की सम्पुटों को खोलते हुए अपनी किरणों की
१. अनयत् । २. चतुरः । ३. उन्मुक्त***।
२२ कादम्बरी— [कथामुखे-
सहस्रमरीचिमालिनि, राजानमास्थानमण्डपगतमङ्गनाजनविरुद्धेन वामपार्श्वावलम्बिना कौक्षेयकेण सन्निहितविषधरेव चन्दनलताभीषणरमणीयाकृतिः, अविरलचन्दनानुलेपनधवलित-स्तनतटा उन्मज्जदैरावतकुम्भमण्डलेव मन्दाकिनी, चूडामणिसंक्रान्तप्रतिबिम्बच्छलेन राजेव मूर्तिमती राजभिः शिरोभिरुह्यमाना, शरदिव कलहंसधवलाम्बरा, जामदग्न्यपरशुधारेव वशीकृतसकलराजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती, राज्याधिदेवतेव विग्रहिणी, प्रतीहारी समुपसृत्य क्षितितल-निहित-जानु-करकमला सविनयमब्रवीत्—
"देव ! द्वारस्थिता सुरलोकमारोहतस्त्रिशङ्कोरिव कुपितशतमखहुङ्कार-निपातिता राज-
मरीचयो रश्मयस्तैर्मालिते शोभते तान् धारयतीति वा यः स तस्मिंस्तथोदिते सूर्ये सतीत्यर्थः। अङ्गनाजनः प्रमदाजनः तस्य विरुद्धेन सङ्ग्रामोपकरणत्वाद् व्यवहारप्रतिकूलेन। वामपार्श्वे सव्यप्रदेशेऽवलम्बतेऽवतिष्ठत इत्येवंशीलेन, कौक्षेयकेण तरवारिणा। 'तरवारिर्मण्डलाग्रः खड्गकौक्षेयकोऽसिः' इति कोशः। अयन्तु भीषणत्वे हेतुः। सन्निहितः पार्श्ववर्ती विषधरः सर्पो यस्याः सा तयोक्ता 'सर्पः······आशीविषो विषधरः' इत्यमरः, चन्दनलतेव भीषणा भयानका स्वभावतो रमणीया मनोहरा च आकृतिः स्वरूपं यस्याः सा तथोक्ता तथा च यथा चन्दनलतायाः स्वभावतो रमणीयत्वेऽपि सन्निहितविषधरत्वेन भीषणत्वम् , तथैतस्याः प्रतिहार्या अपि निसर्गतो मनोहरत्वेऽपि वामपार्श्वस्थितखड्गत्वेन भीषणत्वमित्याशयः। पूर्णोपमा।
अविरलं निविडतरं यन्मलयजस्य चन्दनस्य अनुलेपनमुद्वर्त्तनं तेन धवलितं शुभ्रीकृतं स्तनतटं कुचतटं यस्याः सा तथोक्ता, अत एव उन्मज्जन् जले प्रविश्य स्नानं कुर्वन् य ऐरावत इन्द्रहस्ती तस्य कुम्भमण्डलं शिरःस्थमांसपिण्डो यस्यां सा तादृशी, मन्दाकिनी शुभ्रजला वियद्गङ्गेव। चन्दनशुभ्रकुम्भोपमाने स्तनतटस्य काठिन्यं ध्वन्यते। उपमालङ्कारः।
चूड़ामणिषु सन्निहितराजमस्तककिरीटरत्नेषु संक्रान्तं पतितं यत् प्रतिबिम्बं प्रतीहार्याः प्रतिच्छाया तस्याः छलेन व्याजेन, राजभिः सन्निहितसामन्तनृपैः शिरोभिर्मस्तकैः उद्यमाना धार्यमाणा मूर्त्तिमती विग्रहवती राज्ञः-शूद्रकस्य आज्ञेव आदेश इव इह सापह्नुवोत्प्रेक्षा। शरदिव विगतवर्षासमय इव, कलहंसः कादम्ब इव धवलं स्वच्छम् अम्बरं वस्त्रं यस्याः सा, पक्षे कलहंसा एव धवलम् अम्बरम् यस्याः सा तादृशी। पूर्णोपमा। जमदग्नेर्गोत्रापत्यं पुमान् जामदग्न्यः परशुरामस्तस्य परशुः कुठारः तस्य धारा निशितांशं इव, वशीकृतं स्वायत्तीकृतं पक्षे दर्शनाकृष्टं क्रूरत्वेन व्यामोहेन वा सकलं राज्ञां निखिल-भूपतीनां मण्डलं चक्रवालं यथा सा तथोक्ता। पूर्णोपमा। विन्ध्यस्य विन्ध्याचलस्य वनं काननं तस्य भूमिः पृथिवी वेत्राणां वेतसानां लता सरलद्रुमा यत्र सा, पक्षे वेत्रलता वेत्रयष्टिः हस्ते इति शेषः, यस्याः सा तथोक्ता। उपमा। राज्यस्य अधिदेवताऽऽधिपत्याधिष्ठात्री देवतेव विग्रहिणी मूर्त्तिमती। इह द्रव्योत्प्रेक्षा। क्षितितले भूमितले निहितौ स्थापितौ जानूनलकक्षीलौ, लय च करौ तावेव कमले पद्मे मया सा तथोक्ता।
क्रमब्रवीत्तमेव दर्शयति—देवेति। हे देव ! स्वामिन्! द्वारे स्थिता वर्त्तमाना, सुराणां देवानां
लाली को कुछ-कुछ छोड़कर भगवान् सूर्य अभी आकाश में थोड़ी ही दूर चढ़े थे कि सभागृह में उपस्थित राजा के पास प्रतिहारी पहुँची। वह अपने वाम भाग में स्त्रियों के अनुपयुक्त तलवार धारण किए थी जिससे उसकी आकृति साँप से लिपटी हुई चन्दन की लता जैसी भयंकर भी और रमणीय भी लग रही थी। चन्दन के घने लेप से अत्यन्त उज्ज्वल किनारोंवाले उन्नत स्तनों के कारण वह ऊपर उत्तराये हुए ऐरावत के कुम्भस्थलों से युक्त स्वर्ग-गंगा सी प्रतीत हो रही थी। वहाँ बैठे हुए समस्त सामन्त_राजाओं की चूड़ामणियों में पड़ा हुआ उसका प्रतिबिम्ब ऐसा प्रतीत हो रहा था मानो राजा शूद्रक की मूर्तिमती आज्ञा को ही उक्त प्रतिबिम्ब के बहाने उन लोगों ने अपने मस्तकों पर धारण कर लिया हो, वह श्वेत कलहंसदुकूल (वह रेशमी वस्त्र जिसके आँचल अथवा किनारों पर चोंच में चोंच डाले हंस के जोड़ों की आकृतियाँ बनी होती थीं) पहिने हुए हंसों की शोभा से युक्त शरद ऋतु जैसी प्रतीत हो रही थी। वह परशुराम के परशु की धार सी सभी राजाओं को अधीन बना लेनेवाली थी। बेंत की छड़ी लिए वह वेतों से भरी विन्ध्यभूमि एवं शरीर धारण करके आयी हुई राज-कुल की देवी सी प्रतीत हो रही थी। उसने घुटने टेककर तथा करकमलों से पृथ्वी को छूकर
१. मरीचि···। २. मलयजानुलेपन···। ३. चूडामणिप्रतिबिम्ब···। ४. समुपसृत्य । ५. कमलम् । ६. द्वारि स्थिता। ७. निपतिता।
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । २३
लक्ष्मीर्दक्षिणापथादागता चण्डाल-कन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति—'सकल-भुवनतले सर्वरत्नानाम् उदधिरिवैकभाजनं देवः, विहङ्गमश्चायमाश्चर्यभूतो निखिल-भुवनतल-रत्नमिति कृत्वा देवपादमूलेनानेनादायागताऽहमिच्छामि देवदर्शनसुखमनुभवितुम्' इति । एतदाकर्ण्य देवः प्रमाणम्' इत्युक्त्वा विरराम ।
उपजातकुतूहलस्तु राजा समीपवर्तिनां राज्ञामवलोक्य मुखानि 'को दोषः, प्रवेश्यताम्' इत्यादिदेश ।
लोकं स्वर्ग 'स्वर्वैद्यौ स्वर्गनाकौ' इत्यमरः, आरोहत आरोहणं विदधतस्त्रिशङ्कोरस्याख्यस्य सूर्यवंशीयराज-विशेषस्य, राज्यलक्ष्मीखिव, त्रिशङ्कोः सूर्यवंशीयस्य-राज्ञस्त्य राजविशेषस्य देवव्यागात् स्वर्गे वासो न भवतीत्यतः कुपितः क्रुद्धो यः शतमखो देवराजः तस्य हुंकारः क्रोधेन निर्घोषश्चक्रध्वनिः तेन निपातिता अधः क्षिप्ता, दक्षिणापथाद्दक्षिणमार्गात् आगता समुपस्थिता चण्डालानां दिवाकीर्त्तीनां कन्यकां कुमारीं पञ्जरे पक्षिशालावारे तिष्ठतीति तं तथोक्तम् 'सुपि स्थ' इति कः, शुकं कीरम् आदाय गृहीत्वा देवं स्वामिनं भवन्तं विज्ञापयति निवेदयति ।
पुरा किल त्रिशङ्कनार्मा कश्चन सूर्यवंशीयो नरपतिः अनेनैव देहेन यज्ञविशेषं विधाय देवलोकं जिग-मिषुः कुलगुरुमहर्षिवसिष्ठेन प्रत्याख्यातः । तदनन्तरं तदर्थमेव तत्सुतान् प्रति प्राप्तः परन्तु सर्वं वृत्तवती-श्वश्रूय तैरवमन्शितः—'यतो भवान् कुलगुरुं परित्यज्यास्मान् सम्प्राप्तस्ततो भवान् चण्डालो भवतु' इति ततो राजा विश्वामित्रं प्राप्य स्वकार्यं निवेदितवान् । तदाशयं विज्ञाय विश्वामित्रो यज्ञं कारयित्वा देवलोक-मारोढुं तमादिदेश । त्रिशङ्कस्तु यज्ञं कृत्वा देवलोकमारोहन् कुलगुरुपरित्यागात्तत्पुत्राणाञ्चाभिशापेन चण्डालभावमापन्नत्वात् अधाम्यत्वाच्च सुराधिपेनाधः पातित इति रामायणीया कथानुसन्धेया । एतच्च स्फुटमन्यत्रापि ।
प्रतीहारी चण्डालकन्यकायाः सामान्यतो विज्ञापनाविरयं दर्शयति—सकलेति । सकलभुवनतलेषु समग्रभुवनतलेषु यानि रत्नानि तेषां तयोक्तानाम्, उदधिः समुद्र इव एकभाजनम् एकमुत्कृष्टस्थानम्, यथा समुद्रः सर्वरत्नानां भाजनं तथा देवो भवानपीत्याशयः । अयं विहङ्गमः विहायसा आकाशेन गच्छ-तीति विहङ्गमः पक्षी शुकः विहायस-उपपदाद् गमेः खचि 'अरद्विषदजन्तस्ये'ति मुमागमः विहायसो विहादेशश्च, आश्चर्यभूतः अद्भुतत्वावलोकनविषयः अनन्यथाविधविशेषत्वादेविखिलानि समग्राणि यानि भुवनतलानि तेषां रत्नमुत्कृष्टम् 'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति स्मरणाद्, तं शुकम् आदाय गृहीत्वा देवस्य राज्ञो भवतः पादमूलं चरणमूलमहमागता संप्राप्ता देवदर्शनसुखं महाराजावलोकनानन्दम् अनुभवितुम् साक्षात्कर्तुम् इच्छामि अभिलषामि। एतदाकर्ण्य एतच्छ्रुत्वा 'देवः प्रमाणम्' 'य एव भवत आदेशः स एव मया कर्त्तव्यः' इत्युक्त्वा विरराम मौनमाश्रितवती ।
उपजातेति । उपजातम् उत्पन्नं कुतूहलं कौतुकं यस्य स तथोक्तः, 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः, समीपवर्त्तिनां निकटस्थितानां राज्ञां सामन्तभूपतीनां मन्त्रिणां च मुखानि आननानि आलोक्य निरीक्ष्य तेषामपि तदिष्टचेति विज्ञादेल्यर्थः । अत्र राज्ञां मुखनिरीक्षणन्तु चण्डालत्वेनात्रप्रवेशे
रुचिमर्थं निवेदन किया—'देव, स्वर्ग लोक में सशरीर जाते समय क्रुद्ध इन्द्र के हुंकार से नीचे गिरी हुई त्रिशंकु की राज्यलक्ष्मी के समान दक्षिणपथ से आयी हुई एक चाण्डाल-कन्या पिञ्जड़े में एक सुग्गा लिये हुए द्वार पर खड़ी है और प्रार्थना कर रही है कि पृथ्वी पर सभी रत्नों को धारण करने योग्य समुद्र के समान आप ही एक मात्र उत्कृष्ट पात्र हैं तथा यह चमत्कारी सुग्गा भी सारी पृथ्वी का एक उत्कृष्ट रत्न ही है; इसलिये इसके साथ ही सेवा में उपस्थित होकर श्रीमन्त के दर्शन से सुखी होना चाहती हूँ। महाराज की क्या आज्ञा है?' ऐसा कह कर वह चुप हो गई।
उसकी बात सुनकर राजा अत्यन्त उत्सुक हो उठा और अपने समीप में बैठे राजाओं के मुँह को देखते हुए (उनके मनोभावों को टटोलते हुए) उसने प्रतीहारी को आदेश दिया—इसमें हर्ज ही क्या है ? उसे भीतर ले आओ।
१. चाण्डाल***।
२. काश्चिद् इत्यधिकः क्वचित् ।
३. तद्रत्नानाम् ।
४. आश्चर्यभूतो निखिल***।
५. मूलेनादाया***।
६. आलोक्य ।
२४ कादम्बरी- [ कथामुखे-
अथ प्रतीहारी नरपतिकथनानन्तरमुत्थाय तां मातङ्गकुमारीं प्रवेशयत् । प्रविश्य च स नरपतिसहस्र-मध्यवर्तिनमशनिभय-पुञ्जितकुलशैलमध्यगतमिव कनकणिखरिणम्, अनेक-रत्नाभरण-किरण-जालकान्तरितावयवमिन्द्रायुध-सहस्र-सञ्छादिताष्टदिग्विभागमिव जलधरदिवसम्, अवलम्बितस्थूलमुक्ताकलापस्य कनकभृङ्खला-नियमितमणिदण्डिकाचतुष्टयस्य गगन-सिन्धु-फेन-पटल-पाण्डुरस्य नातिमहतो दुकूलवितानस्याधस्तादिन्दुकान्तमणिपर्य्य-ङ्किकानिषण्णम्, उदूधूयमान-कनकदेण्डचामरकलापम्, उन्मयूखमुख-कान्तिनिर्चय-पराभव-
तेषां विरोधोऽस्ति न वेत्यवबोधार्थम्, सति तु विरोधे नयनेङ्गितेनापि यत्प्रतिषेधसूचनसम्भवादित्याशयः । को दोषो न काप्यापत्तिः प्रवेश्यताम् इति एवम् आदिशेश आज्ञापितवान् ।
अथेति । अथ राज्ञः आदेशदानान्तरम् उत्थाय उत्थानं विधाय प्रतीहारी द्वारपालिका तां मातङ्गकुमारीं चण्डालकन्याकां प्रवेशयत् प्रावेशमकारयत् ।
प्रविश्य चेति । चण्डालकन्यका प्रविश्य प्रवेशं कृत्वा राजानमद्राक्षीदपश्यदिति दूरस्थक्रियया सग्रन्धः। अत्र सर्वाणि द्वितीयान्तपदानि क्रियाविशेषणानीत्यवधेयानि । अशनेरिन्द्रायुधाद्वज्रात् यद्भयं पक्षच्छेदनरूपमातङ्कस्तेन पुञ्जिता एकत्र मिलिता ये कुलशैलाः क्षेत्रसीमाकारिभूधरास्तेषां मध्यगतं तदन्तर्वर्तिनं कनकणिखरिणं सुमेरुपर्वतमिव नरपतीनां नृपाणां यत्सहस्रं तन्मध्यवर्त्तिनं तदन्तःस्थितमित्यर्थः । अत्रोपमालङ्कारः ।
पुरा पक्षधारिणो भूधरा यथा पक्षिणः अन्यस्माद्देशादुड्डीय देशान्तरे निपतन्ति तथैव निपतन्तः श्रैते यं देशं सम्प्राप्तास्तं तत्क्षणमेव सञ्चूर्णयामासुः । ततः सुरेशः कुलिशेन तेषां पक्षान् कर्त्तितुं प्रवृत्तस्तदा त्रस्तास्ते स्वस्वरक्षणोपायविचारणाय एकत्र मिलिता आसन्निति रामायणीया कथा ।
भूयो राजानं विशिनष्टि-अनेकेति । अनेकानि नानाविधानि रत्नाभरणानि मणिखचितालङ्काराः तेषां यानि किरणजालकानि रश्मिसमूहाः स्वार्थे कन्, तैरन्तरिता आवृता अवयवा अङ्गानि यस्य तं तथोक्तम्, अत एव इन्द्रायुधसहस्रेण शक्रधनुःसमूहेन 'इन्द्रा युधं शक्रधनुः' इत्यमरः सञ्छादिता अन्तरित अष्टौ दिग्विभागा दिशां प्रदेशा यस्मिंस्तत्तादृशम्, जलधरदिवसमिव मेघावृतदिनमिव (वर्त्तमानम्) अनेन राजा मेघवर्ण आसीदित्यवधार्यते । इहाप्युपमाऽलङ्कारः।
पुनस्तमेव राजानं विशेषयितुं प्रथमं वितानं विशिनष्टि-अवलम्बीति । अवलम्बिताः शिल्पिमिरधोलम्बितत्वेन आश्रिताः स्थूलानां स्थविष्ठानां मुक्तानां रसोद्भवानां कलापाः पङ्क्तयो यत्र तस्य तथोक्तस्य कनकं सुवर्णं तस्य याः शृङ्खला बन्धनरजवस्ताभिर्नियमिताः चतुर्षु कोणेषु बद्धा मणिदण्डिका रत्नखचिता यष्टयस्तासां चतुष्टयं यस्मिंस्तस्य, गगनसिन्धोर्मन्दाकिन्याः फेनपटलवत् अब्धिकफसमूहवत् 'डिण्डीरोऽब्धिकफः' इति कोशः, पाण्डुरं शुभ्रवर्णं तस्य एतानि षष्ठ्यन्तानि वितानविशेषणानि ।
अथ राजानं विशिनष्टि-नातीतिति । नातिमहतः किञ्चिद्बृहतः स्थानोचित्तप्रमाणस्य दुकूलवितानस्य क्षौमवसननिर्मितोल्लोचस्य 'उल्लोचो वितानं कन्दकोऽपि' इति कोशः, तस्य अधस्तात् निम्नप्रदेशे इन्दुकान्तमणिपर्य्यङ्किका चन्द्रकान्तमणिरचितमञ्चिका तत्र निषण्णम् उपविष्टम् । 'फेनपटलपाण्डुरे'त्यत्र लुप्तोपमा।
भूयो राजानं विशिनष्टि-उद्धूयेति । उद्धूयमानो भृत्यैः संवीज्यमानः कनकदण्डः सुवर्णाऽवल्म्वदन्यष्टियेषु तथाविधश्चामरकलापः प्रकीर्णकसमूहो यस्य तं तादृशम् ।
राजा का आदेश सुनने के बाद वह उठ खड़ी हुई और उस चांडाल-कन्या को भीतर ले आयी ।
उसने भीतर जाकर वज्राघात के भय से इकट्ठे हुए सभी पर्वतों के बीच स्थित सुमेरु पर्वत के समान सामन्त राजाओं के बीच बैठे हुए राजा शूद्रक को देखा । उसके आठों अंग अनेक रत्नों से जड़े हुए आभूषणों की किरणों से ढक गये थे जिससे वह इस प्रकार जगमगा रहा था मानो आठों दिशाओं में छाये हुए हजारों इन्द्रधनुषों को धारण करने वाला वर्षा का दिन हो। वह आकाशरूपी समुद्र के फेन की तहों जैसे उज्ज्वल तथा
१. जलधरसमयदिवसम् । २. आलम्बित ० । ३. पाण्डरस्य । ४. इन्दुकान्तपर्य्यंङ्गिका । ५. सुवर्णदण्ड ००० । ६. उन्मयूखमुखविजयपराभवप्रणते, उन्मयूखमुखकान्तिविजिते पराभवप्रणते ।
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । २५
प्रणते शशिनोव 'स्फटिकपादपीठे विन्यस्तवामपादम्, इन्द्रनीलमणि-कुट्टिम-प्रभासम्पर्क-श्यामायमानैः प्रणत-रिपु-निश्वासमलिनीकृतैरिव चरण-नखमयूखर्जालैरुपशोभमानम्, आसनोल्लसित-पद्मराग-किरण-पाटलीकृतेनाचिरमृदितमधु-कैटभ-रुधिरारुणेन हरिमिवोरु-युगलेन विराजमानम्, अमृतफेन-धवले गोरोचना-लिखित-हंस-मिथुन-सनाथ-पर्यन्ते चामर-
दन्मयूखेति—उर्ध्वं गता मयूखा रश्मयो यस्य तथाविधस्य मुखस्य यः कान्तिनिचयो दीप्तिसमूहस्तेन यो विजयो जयः पराभवः पराजयस्तेन प्रणते चरणतलसंलग्ने शशिनि चन्द्रमसीव । इह 'शशिनीव' इति द्रव्योत्प्रेक्षा।
अथ राज्ञश्चरणकिरणं विशेषयितुमाह—इन्द्रनीलेति । इन्द्रनीलमणीनां या कुट्टिमप्रभा वेदिकाकान्तिः तस्याः सम्पर्केण मिश्रणेन श्यामायमानैः श्यामवदाचरद्भिः, अत्रोपमानादाचारे क्यङ् सत एव क्यङ्क्तोपमा । कीदृशैरिव ह्यत आह—प्रणतेति । प्रणतानां पराजयेन स्वाधीनानां रिपूणां वैरिणां ये निश्वासास्तेनाः तैर्मलिनीकृतैर्मालिन्यमुपगतैरिव । मूलोत्क्षेपमाद्वहारेण क्रियोत्प्रेक्षा सङ्कीर्यते । चरण-नखानां पादाङ्गुलिभर्वाणां ये मयूखा रश्मयस्तेषां जालानि समूहास्तैरुपशोभमानं विराजमानम् ।
राज्ञ ऊरुयुगलं विशिनष्टि—आसनोल्लसितेति । आसन उपवेशनस्थले उल्लसिताः प्रकाशमाना ये पद्मरागकिरणाः लोहितमणिरश्मयस्तैः पाटलीकृतेन श्वेतरक्तीभूतेन 'श्वेतरक्तस्तु पाटलः' इत्यमरः, अत एव अचिरमृदितयोः तत्कालमर्दितयोः सद्यः कृतकण्ठयोरित्यर्थः, मधुकैटभयोः तन्नामकयोरसुरविशेषयोः रुधिरेण शोणितेन अरुणं रक्तवर्णं तेन तयोरुतेन, ऊरुयुगलेन जङ्घाद्वयेन विराजमानं शोभमानं हरिं मधुसूदनमिव । उपमालङ्कारः ।
पुरा क्षीरशायिनो भगवतः श्रीविष्णोः कर्णमलोत्पन्नौ मधुकैटभावुभौ असुरविशेषौ भगवत एव नाभिकमलसम्भूतं ब्रह्माणं हन्तुं समुद्यतौ जातौ । ततः आत्मरक्षणाय व्याकुलः रक्षणं कमप्यलभमानः योगनिद्रया स्थितां जगद्धात्रीं तुष्टावे, प्रसन्ना सा नारायणमुत्थापितवती द्रथाय च भगवान् ताभ्यां सह पञ्चवर्षसहस्राणि युद्ध्वा स्वमायया मोहितौ तौ वरं दित्सु आस्ताम् । नारायणो हि तयोर्वरं याचितवान् । ततो जलमग्नां भूमिमालोक्य आहतुस्तौ 'यत्र सलिलेन परिप्लुता पृथिवी न विद्यते तत्रावां जहि' इति । भगवांस्तु पार्थिवांशसंयुक्ते निजोरौ संस्थाप्य तयोर्मूर्धनी चक्रेणाच्छिनदिति मार्कण्डेयपुराणकथा प्रायः सर्वत्र प्रसिद्धैव ।
पट्टवसनद्वयं विशिनष्टि—अमृतेति । अमृतस्य पीयूषस्य यः फेनस्तद्वत् धवले श्वेतवर्णे गोरोचनया गोपित्तनामकपदार्थेन लिखितानि चित्रितानि यानि हंसमिथुनानि सितच्छदयुलानि तैः सनाथाः सहिताः पर्यन्ताः प्रान्तप्रदेशा ययोस्ते, तथा चामराणां वालव्यजनानां 'चामरा चामरं वालव्यजनं रोमगुच्छकम्' इति रभसः पवनेन वायुना प्रनर्तितौ आन्दोलितौ अन्तदेशौ प्रान्तभागौ ययोस्ते दुकूले पट्टवसने वसानं दधानम् 'अमृतफेनधवले' इत्यत्र लुप्तोपमा ।
मणियों से बने हुए चार डंडों पर सोने की जंजीरों से बाँध कर ताने गये न बहुत बड़े न बहुत छोटे रेशमी वस्त्र के चंदवे के नीचे चन्द्रकान्तमणि से बनी हुई चौकी पर बैठा था; जिसके ऊपर चंदवे से बड़े-बड़े दानों-वाले मोतियों के गुच्छे लटक रहे थे । उसके ऊपर सुनहरी मूठ के चँवर डुलाए जा रहे थे । वह, मुख के कान्ति मण्डल से फूट कर ऊपर की ओर फैलनेवाली किरणों से मानो पराजित होकर चरणों की शरण में आयी हुई चाँदनी के समान टहकती विल्लोरी पाद पीठिका ( पैर रखने की छोटी चौकी ) पर अपना दायाँ पैर रखे हुए था; जो इन्द्रनीलमणियों से पिटी हुई फर्श की नीली झलक के प्रभाव से कुछ-कुछ साँवली किरणवाले नखों से ऐसा सुशोभित हो रहा था मानो उस पर झुके हुए शत्रुओं की लम्बी-लम्बी साँसों की छाया पड़ गई हो । आसन के दोनों ओर जड़ी हुई पद्मरागमणियों की लाल-लाल किरणों से उसकी दोनों जाँघें लाल लाल हो रही थी जिससे वह कुछ ही समय पहिले मारे गये मधु-कैटभ के रक्त से लाल जाँघों वाले भगवान् विष्णु के समान प्रतीत हो रहा था । वह अमृत के फेन के समान अति उजले दो रेशमी वस्त्र धारण किये था जिसके किनारों पर गोरोचन से हंस के जोड़ों की आकृतियाँ उरेही गयी थीं तथा जिनके आँचल
१. स्फाटिके पादपीठे ।
२. निश्वास''''।
३. लालकैः ।
४. ''''मृत'''' ।
४ का० कथा०
| २६ | कादम्बरी- | [ कथामुखे- |
|---|
पवनप्रनर्त्तितान्तदेशे, दुकूले वसानम्, अतिसुरभि-चन्दनानुलेपन-धवलितोरःस्थलम्, उपरि-विन्यस्त-कुङ्कुम-स्थासकम्, अन्तरनिपतितबालातपच्छेदमिव कैलाशाशिखरिणम्⁵, अपर-शशि-शङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्¹, अतिचपल-राजे²-लक्ष्मी-बन्धन³निगड-शङ्कामुपजनयतेन्द्रमणि⁴-केयूरयुगलेन मलयज-रस-गन्धलुब्धेन भुजङ्गद्वयेनेव वेष्टितबाहुयुगलम्, ईषदालम्बि⁶-कर्णोत्पलम्, उन्नत-घोणम्, उत्फुल्लपुण्डरीक-लोचनम्⁷, अमलकलधौतपट्टायतम्⁸, अष्टमीचन्द्र-शकलाकारम्, अशेष-भुवन-राज्याभिषेकसलिलपूतम्⁹,
अतीति। अतिसुरभिश्चन्दनस्य अतिसुगन्धितमलयस्य अनुलेपनेन अङ्गरागेण धवलितं शुभ्रीकृतम् उरःस्थलं वक्षःस्थलं यस्य तं तादृशम् ।
उपरीति । उपरि तच्चन्दनलेपनोपरि विन्यस्ता विहिताः कुङ्कुमस्य केसरस्य स्थासका हस्तविम्बा यस्य तम् 'स्थासकं हस्तविम्बम्' इति कोशाः, अपरे तु 'चर्चा तु चर्चित्तं स्यामकम्' इति । अत एव अन्तरा-न्तरा मध्ये मध्ये निपतिताः पर्यस्ता बालातपच्छेदा अभिनवोदितसूर्यमयूखखण्डा यस्य तं कैलासशिख-रिणं हिमाचलमिव ( वर्तमानम् ) इहोपमा ।
भूयस्तमेव प्रकारान्तरेण विशिनष्टि—अपेरेति । अपरोऽन्यो यः शशी चन्द्रस्तस्य शङ्कया भ्रान्त्या प्राप्ता या नक्षत्रमाला तारापङ्क्तिस्तयेव हारलतया लतावह्रह्ममानया मुक्तास्रजा कृतो मुखस्य वदनस्य परिवेषः परिधिः परिवेष्टनमिति यावत्, यस्य स तम्, परिवेषस्तु परिधिः' इत्यमरः ।
इह मुखे शशीभ्रान्त्या भ्रान्तिमानलङ्कारः, 'नक्षत्रमालयेवे'त्युत्प्रेक्षा, अङ्गाङ्गिभावेन धानयोः सङ्करः तेन च मुखस्य चन्द्रसाम्यं हारलताया लत्यन्तनैर्मल्यं च ध्वनितमित्यलङ्कारेण वस्तुध्वनिः ।
अतीति। अतिचपला अत्यन्तं चञ्चला या राजलक्ष्मीराधिपत्यश्रीः तस्या बन्धो बन्धनं नियमन-मिति यावत्, तदर्थं यो निगडः शृङ्खला तस्य शङ्कां भ्रान्तिम् उपजनयता कुर्वता, एवम्भूतेन इन्द्रमणि-नीलकान्तमणिः तेन युक्तं खचितं यत्केयूरयुग्मम् अङ्गदद्वयं तेन तथोक्तेन, अत एव मलयजश्चन्दनसिक्तो यो द्रवस्तत्य गन्धेन परिमलेन लुब्ध आसक्तस्तेन तादृशेन भुजङ्गद्वयेनेव सर्पयुगलेनेव वर्तमानेन वेष्टितं परिक्षिप्तं बाहुयुगलं भुजद्वयं यस्य तं तादृशम् । इह राजलक्ष्मीस्थिरीकरणाय शृङ्खलाशङ्कामुपजनयतीति भ्रान्तिमानलङ्कारः, 'भुजङ्गद्वयेनेवे'त्युत्प्रेक्षा च, अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
ईषदिति । ईषदकिञ्चित् बालम्बिनो लम्बमाने कर्णोत्पले पद्माकारकर्णभूषणे यस्य तं तथोक्तम्, उन्नता उच्चा घोणा नासिका यस्य स तम्, 'घोणा नासा च नासिका' इत्यमरः, उत्फुल्लं विकसितं यत्पुण्डरीकं सिताम्भोजं तद्वत् लोचने नयने यस्य स तम्, इह लुप्तोपमा। अमलं स्वच्छं यत्कलधौतं कनकं तस्य यः पट्टः फलकं तद्वद् आयतं विस्तीर्णम्, अष्टमीचन्द्रस्य अष्टमीतिथावुदितसुधांशोः यत् शकलं तदर्धभागस्तद्वदाकार आकृतिर्यस्य तम् । इह द्वे अपि लुप्तोपमे । अर्धभागवन्दभयोरपि अष्टम्यामष्टावेव कला इत्यभिप्रेत्येत्यवधेयम् ।
अशेषानि समस्तानि यानि भुवनानि भूमण्डलानि तेषां राज्यम् आधिपत्यं तस्य अभिषेकसलिलं मङ्गलस्नानजलं तेन पूतं पवित्रन, तया ऊर्णा भ्रूयुग्ममध्यवर्ती लोमावर्तः तया सनाथं युक्तम्, 'ऊर्णा मेषा-
चँवर की हवा से फहरा रहे थे। उसका वक्षस्थल अति सुगन्धित चंदन के लेप से अत्यन्त उज्ज्वल हो उठा था, जिस पर बीच-बीच में कुंकुम के छापे भी मारे गये थे, जिससे वह कहीं-कहीं प्रातःकालीन सूर्य की धूप से सुशोभित कैलास की चोटी के समान प्रतीत हो रहा था। उसके कंठ में मोतियों की माला ऐसी प्रतीत हो रही थी मानो तारों ने उसके मुख को दूसरा चन्द्रमा समझ कर उसके चारों ओर मण्डप बाँध दिया हो । वह मानो चन्दन की सुगन्ध के लोभ से आये हुए दो सर्पों के समान अपनी दोनों भुजाओं पर इन्द्रनीलमणियों के दो केयूर ( बाजूबन्द ) पहिने था जो मतवाली राजलक्ष्मी को बाँधने की दो जालों का भ्रम उत्पन्न कर रहे थे। उसके कानों के कमल कुछ-कुछ लटके हुए थे, नाक ऊँची थी, आँखें विकसित श्वेत कमलों के समान खिली हुई थीं तथा निर्मल सोने के पट्ट के समान चौड़े, अष्टमी के अर्धचन्द्र के समान आकृतिवाले एवं सभी लोकों के राज्याभिषेक-जल से पवित्र ललाट पर भौंहों के बीच ऊर्णा (बालों की भँवरी) सुशोभित हो रही थी।
१. परिवेषन् । २. राज्य । ३. बन्धन । ४. 'नील' इत्यधिकः पाठः । ५. शङ्कुशिखरम् ६. आलम्बित । ७. नेत्रम् । ८. पट्टियितम् । ९. अभिषेकपूतम् ।