कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । २१
मात्राच्युतक-बिन्दुमती-गूढचतुर्थपाद-प्रहेलिका-प्रदानादिभिः, वनितासम्भोगसुख-पराङ्मुखः सुहृत्परिवृतो दिवसमनैषीत्^१। यथैव च दिवसमेवारब्ध-विविध-क्रीडा-परिहास-चतुरैः^२ सुहृद्भिरुपेतो निशामनैषीत्। एकदा तु नातिदूरोदिते नव-नलिन-दलसम्पुट-भिदि किञ्चिन्मुक्त^३-पाटलिम्नि भगवति
तत्र विटपदादिकारमात्राच्युतो द्वितीयार्थवद्वृत्तस्यावगमः। पद्मवर्णसंख्यया बिन्दुमात्रनिवेशनैन तत्तद्वर्णोपलब्धिर्बिन्दुमती। यथा—
द्विल्लङ्कवलङ् विंङ् ळिंहोः हुहुदृङ्गींरंहूः। ल्ळुककि हुहुदाहुलङ्लीळ्होह हंहूः॥
एतत्पद्यं यथा—
'त्रिनयनचूडारत्नं मित्रं सिन्धोः कुमुद्वतीबन्धुः। अयमुदयति युगुणारुणरमणीवदनोपमश्चन्द्रः॥'
यत्र प्रथमद्वितीयतृतीयचरणेषु तुरीयपादस्य वर्णा गुप्तास्तिष्ठन्ति स गूढचतुर्थपादः। यथा—
'दयावान् प्रयतः शुद्धः प्रबुद्धकमलेक्षणः। पापापहस्त्रिभुवनं बुद्धः पायादपायतः॥'
इह चतुर्थः पादः पादत्रयगतानामेकाचङ्गाद्धितानामक्षराणां यथाक्रमं योजनया समुल्लसति॥' अर्थस्तु सुगम एव। प्रहेलिकालक्षणम्—
'व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात्। यत्र बाह्यान्तराचयौं कथ्येते सा प्रहेलिका॥ सा द्विधार्थी च शाब्दी च विख्याता प्रश्नशासने। आर्थी स्यादर्थविज्ञानाच्छाब्दी शब्दविभागतः॥'
तथार्थी यथा—'तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः। गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः॥' तत्र 'पानीयकुम्भः' इत्युत्तरम्, न तु वल्लभः। शाब्दी यथा—
'दुर्वारीवीर्यसरुचि स्वयि का प्रसन्ना श्यामा सपत्नहृदये सुपयोधरा च। तुष्टे पुनः प्रणतशत्रुसरोजसूर्ये सैवाद्य वर्णरहिता वद नाम का स्यात् ?॥'
तत्र 'खङ्गी' (छुरिका) प्रथमप्रश्नोत्तरम्, न तु स्त्री। 'स्त्री' इति द्वितीयप्रश्नोत्तरम्।
यथैवेति—यथैव येन प्रकारेणैव दिवसं वासरमनैषीत्, एवं तथैव निशां रात्रिमप्यनैषीद्गमयदिरित संबन्धः। आरब्धाः प्रवर्तिताः विविधा नानाप्रकाराः क्रीडापरिहासाः खेलोपहासास्तेषु चतुरैः कुशलैः सुहृद्भिर्मित्रैः उपेतः संयुक्तः। अत एव सम्भोगसुखस्योपरि द्वेष इव आसीदित्याशयः।
एकदेति। एकदा एकस्मिन्समये प्रतीहारी द्वारदेशे नियुक्ता स्त्री समुपसृत्य समीपदेशमागत्य, आस्थानमण्डपगतं सभागृहस्थितं राजानं सविनयं विनयेन सह अब्रवीदवोचदित्यन्वयः। अत्र प्रथमान्त-पदानि प्रतीहारीविशेषणान्यवगन्तव्यानि। सूर्यवर्णनाध्याजेन उक्त्यवसरं विशेषणेन दर्शयति—नाति-दूरोति। नातिदूरं स्वल्पमलीनम् उदितम् उद्गमनं यस्य स तस्मिन् तथोक्ते आकाशस्य किञ्चिद् दूरोदिते सतीत्यर्थः, नवानि नूतनानि यानि नलिनानि पद्मानि तेषां दलानि पर्णानि 'पत्रं पलाशं छदनं दलं पर्ण छदः पुमान्' इत्यमरः, तेषां सम्पुटं मुकुलीभावं भिनत्ति दूरीकरोतीति स तस्मिंस्तथोक्ते, किञ्चिन्मुक्तः किञ्चिद्दूरोदयात् ईषत् परित्यक्तः पाटलिमा श्वेतरक्तत्वं येन स तस्मिंस्तथोक्ते, 'श्वेतरक्तस्तु पाटलः' इत्यमरः, दूरोदितेत्यारभ्य विशेषणत्रयैः प्रत्यूषकालो ध्वन्यते। भगवति ऐश्वर्यशालिनि, सहस्रसंख्याः ये
एक अक्षर निकाल देने से दूसरा अर्थ निकले), मात्राच्युतक (जिस छन्द की एक मात्रा परिवर्तित हो जाने से दूसरा अर्थ निकले), बिन्दुमती (जिस रचना में अक्षरों के स्थान में केवल बिन्दु रख दिए जायें) एवं गूढ-चतुर्थ-पाद (जिस पद्य के चौथे चरण के अक्षर पहले तीन चरणों में छिपे हों) नामक काव्य-प्रश्नों की रचना तथा पहेलियों के निर्माण करने-कराने में व्यस्त रहता था।
वैसे नाना प्रकार की क्रीडाओं और परिहासों में कुशल मित्रों की मण्डली से उसका दिन बीतता था उसी प्रकार उन्हीं के बीच उसकी रात भी बीतती थी।
एक बार प्रातःकाल जब नयी नयी कमल की कलियों की सम्पुटों को खोलते हुए अपनी किरणों की
१. अनयत् । २. चतुरः । ३. उन्मुक्त***।
२२ कादम्बरी— [कथामुखे-
सहस्रमरीचिमालिनि, राजानमास्थानमण्डपगतमङ्गनाजनविरुद्धेन वामपार्श्वावलम्बिना कौक्षेयकेण सन्निहितविषधरेव चन्दनलताभीषणरमणीयाकृतिः, अविरलचन्दनानुलेपनधवलित-स्तनतटा उन्मज्जदैरावतकुम्भमण्डलेव मन्दाकिनी, चूडामणिसंक्रान्तप्रतिबिम्बच्छलेन राजेव मूर्तिमती राजभिः शिरोभिरुह्यमाना, शरदिव कलहंसधवलाम्बरा, जामदग्न्यपरशुधारेव वशीकृतसकलराजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती, राज्याधिदेवतेव विग्रहिणी, प्रतीहारी समुपसृत्य क्षितितल-निहित-जानु-करकमला सविनयमब्रवीत्—
"देव ! द्वारस्थिता सुरलोकमारोहतस्त्रिशङ्कोरिव कुपितशतमखहुङ्कार-निपातिता राज-
मरीचयो रश्मयस्तैर्मालिते शोभते तान् धारयतीति वा यः स तस्मिंस्तथोदिते सूर्ये सतीत्यर्थः। अङ्गनाजनः प्रमदाजनः तस्य विरुद्धेन सङ्ग्रामोपकरणत्वाद् व्यवहारप्रतिकूलेन। वामपार्श्वे सव्यप्रदेशेऽवलम्बतेऽवतिष्ठत इत्येवंशीलेन, कौक्षेयकेण तरवारिणा। 'तरवारिर्मण्डलाग्रः खड्गकौक्षेयकोऽसिः' इति कोशः। अयन्तु भीषणत्वे हेतुः। सन्निहितः पार्श्ववर्ती विषधरः सर्पो यस्याः सा तयोक्ता 'सर्पः······आशीविषो विषधरः' इत्यमरः, चन्दनलतेव भीषणा भयानका स्वभावतो रमणीया मनोहरा च आकृतिः स्वरूपं यस्याः सा तथोक्ता तथा च यथा चन्दनलतायाः स्वभावतो रमणीयत्वेऽपि सन्निहितविषधरत्वेन भीषणत्वम् , तथैतस्याः प्रतिहार्या अपि निसर्गतो मनोहरत्वेऽपि वामपार्श्वस्थितखड्गत्वेन भीषणत्वमित्याशयः। पूर्णोपमा।
अविरलं निविडतरं यन्मलयजस्य चन्दनस्य अनुलेपनमुद्वर्त्तनं तेन धवलितं शुभ्रीकृतं स्तनतटं कुचतटं यस्याः सा तथोक्ता, अत एव उन्मज्जन् जले प्रविश्य स्नानं कुर्वन् य ऐरावत इन्द्रहस्ती तस्य कुम्भमण्डलं शिरःस्थमांसपिण्डो यस्यां सा तादृशी, मन्दाकिनी शुभ्रजला वियद्गङ्गेव। चन्दनशुभ्रकुम्भोपमाने स्तनतटस्य काठिन्यं ध्वन्यते। उपमालङ्कारः।
चूड़ामणिषु सन्निहितराजमस्तककिरीटरत्नेषु संक्रान्तं पतितं यत् प्रतिबिम्बं प्रतीहार्याः प्रतिच्छाया तस्याः छलेन व्याजेन, राजभिः सन्निहितसामन्तनृपैः शिरोभिर्मस्तकैः उद्यमाना धार्यमाणा मूर्त्तिमती विग्रहवती राज्ञः-शूद्रकस्य आज्ञेव आदेश इव इह सापह्नुवोत्प्रेक्षा। शरदिव विगतवर्षासमय इव, कलहंसः कादम्ब इव धवलं स्वच्छम् अम्बरं वस्त्रं यस्याः सा, पक्षे कलहंसा एव धवलम् अम्बरम् यस्याः सा तादृशी। पूर्णोपमा। जमदग्नेर्गोत्रापत्यं पुमान् जामदग्न्यः परशुरामस्तस्य परशुः कुठारः तस्य धारा निशितांशं इव, वशीकृतं स्वायत्तीकृतं पक्षे दर्शनाकृष्टं क्रूरत्वेन व्यामोहेन वा सकलं राज्ञां निखिल-भूपतीनां मण्डलं चक्रवालं यथा सा तथोक्ता। पूर्णोपमा। विन्ध्यस्य विन्ध्याचलस्य वनं काननं तस्य भूमिः पृथिवी वेत्राणां वेतसानां लता सरलद्रुमा यत्र सा, पक्षे वेत्रलता वेत्रयष्टिः हस्ते इति शेषः, यस्याः सा तथोक्ता। उपमा। राज्यस्य अधिदेवताऽऽधिपत्याधिष्ठात्री देवतेव विग्रहिणी मूर्त्तिमती। इह द्रव्योत्प्रेक्षा। क्षितितले भूमितले निहितौ स्थापितौ जानूनलकक्षीलौ, लय च करौ तावेव कमले पद्मे मया सा तथोक्ता।
क्रमब्रवीत्तमेव दर्शयति—देवेति। हे देव ! स्वामिन्! द्वारे स्थिता वर्त्तमाना, सुराणां देवानां
लाली को कुछ-कुछ छोड़कर भगवान् सूर्य अभी आकाश में थोड़ी ही दूर चढ़े थे कि सभागृह में उपस्थित राजा के पास प्रतिहारी पहुँची। वह अपने वाम भाग में स्त्रियों के अनुपयुक्त तलवार धारण किए थी जिससे उसकी आकृति साँप से लिपटी हुई चन्दन की लता जैसी भयंकर भी और रमणीय भी लग रही थी। चन्दन के घने लेप से अत्यन्त उज्ज्वल किनारोंवाले उन्नत स्तनों के कारण वह ऊपर उत्तराये हुए ऐरावत के कुम्भस्थलों से युक्त स्वर्ग-गंगा सी प्रतीत हो रही थी। वहाँ बैठे हुए समस्त सामन्त_राजाओं की चूड़ामणियों में पड़ा हुआ उसका प्रतिबिम्ब ऐसा प्रतीत हो रहा था मानो राजा शूद्रक की मूर्तिमती आज्ञा को ही उक्त प्रतिबिम्ब के बहाने उन लोगों ने अपने मस्तकों पर धारण कर लिया हो, वह श्वेत कलहंसदुकूल (वह रेशमी वस्त्र जिसके आँचल अथवा किनारों पर चोंच में चोंच डाले हंस के जोड़ों की आकृतियाँ बनी होती थीं) पहिने हुए हंसों की शोभा से युक्त शरद ऋतु जैसी प्रतीत हो रही थी। वह परशुराम के परशु की धार सी सभी राजाओं को अधीन बना लेनेवाली थी। बेंत की छड़ी लिए वह वेतों से भरी विन्ध्यभूमि एवं शरीर धारण करके आयी हुई राज-कुल की देवी सी प्रतीत हो रही थी। उसने घुटने टेककर तथा करकमलों से पृथ्वी को छूकर
१. मरीचि···। २. मलयजानुलेपन···। ३. चूडामणिप्रतिबिम्ब···। ४. समुपसृत्य । ५. कमलम् । ६. द्वारि स्थिता। ७. निपतिता।
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । २३
लक्ष्मीर्दक्षिणापथादागता चण्डाल-कन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति—'सकल-भुवनतले सर्वरत्नानाम् उदधिरिवैकभाजनं देवः, विहङ्गमश्चायमाश्चर्यभूतो निखिल-भुवनतल-रत्नमिति कृत्वा देवपादमूलेनानेनादायागताऽहमिच्छामि देवदर्शनसुखमनुभवितुम्' इति । एतदाकर्ण्य देवः प्रमाणम्' इत्युक्त्वा विरराम ।
उपजातकुतूहलस्तु राजा समीपवर्तिनां राज्ञामवलोक्य मुखानि 'को दोषः, प्रवेश्यताम्' इत्यादिदेश ।
लोकं स्वर्ग 'स्वर्वैद्यौ स्वर्गनाकौ' इत्यमरः, आरोहत आरोहणं विदधतस्त्रिशङ्कोरस्याख्यस्य सूर्यवंशीयराज-विशेषस्य, राज्यलक्ष्मीखिव, त्रिशङ्कोः सूर्यवंशीयस्य-राज्ञस्त्य राजविशेषस्य देवव्यागात् स्वर्गे वासो न भवतीत्यतः कुपितः क्रुद्धो यः शतमखो देवराजः तस्य हुंकारः क्रोधेन निर्घोषश्चक्रध्वनिः तेन निपातिता अधः क्षिप्ता, दक्षिणापथाद्दक्षिणमार्गात् आगता समुपस्थिता चण्डालानां दिवाकीर्त्तीनां कन्यकां कुमारीं पञ्जरे पक्षिशालावारे तिष्ठतीति तं तथोक्तम् 'सुपि स्थ' इति कः, शुकं कीरम् आदाय गृहीत्वा देवं स्वामिनं भवन्तं विज्ञापयति निवेदयति ।
पुरा किल त्रिशङ्कनार्मा कश्चन सूर्यवंशीयो नरपतिः अनेनैव देहेन यज्ञविशेषं विधाय देवलोकं जिग-मिषुः कुलगुरुमहर्षिवसिष्ठेन प्रत्याख्यातः । तदनन्तरं तदर्थमेव तत्सुतान् प्रति प्राप्तः परन्तु सर्वं वृत्तवती-श्वश्रूय तैरवमन्शितः—'यतो भवान् कुलगुरुं परित्यज्यास्मान् सम्प्राप्तस्ततो भवान् चण्डालो भवतु' इति ततो राजा विश्वामित्रं प्राप्य स्वकार्यं निवेदितवान् । तदाशयं विज्ञाय विश्वामित्रो यज्ञं कारयित्वा देवलोक-मारोढुं तमादिदेश । त्रिशङ्कस्तु यज्ञं कृत्वा देवलोकमारोहन् कुलगुरुपरित्यागात्तत्पुत्राणाञ्चाभिशापेन चण्डालभावमापन्नत्वात् अधाम्यत्वाच्च सुराधिपेनाधः पातित इति रामायणीया कथानुसन्धेया । एतच्च स्फुटमन्यत्रापि ।
प्रतीहारी चण्डालकन्यकायाः सामान्यतो विज्ञापनाविरयं दर्शयति—सकलेति । सकलभुवनतलेषु समग्रभुवनतलेषु यानि रत्नानि तेषां तयोक्तानाम्, उदधिः समुद्र इव एकभाजनम् एकमुत्कृष्टस्थानम्, यथा समुद्रः सर्वरत्नानां भाजनं तथा देवो भवानपीत्याशयः । अयं विहङ्गमः विहायसा आकाशेन गच्छ-तीति विहङ्गमः पक्षी शुकः विहायस-उपपदाद् गमेः खचि 'अरद्विषदजन्तस्ये'ति मुमागमः विहायसो विहादेशश्च, आश्चर्यभूतः अद्भुतत्वावलोकनविषयः अनन्यथाविधविशेषत्वादेविखिलानि समग्राणि यानि भुवनतलानि तेषां रत्नमुत्कृष्टम् 'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति स्मरणाद्, तं शुकम् आदाय गृहीत्वा देवस्य राज्ञो भवतः पादमूलं चरणमूलमहमागता संप्राप्ता देवदर्शनसुखं महाराजावलोकनानन्दम् अनुभवितुम् साक्षात्कर्तुम् इच्छामि अभिलषामि। एतदाकर्ण्य एतच्छ्रुत्वा 'देवः प्रमाणम्' 'य एव भवत आदेशः स एव मया कर्त्तव्यः' इत्युक्त्वा विरराम मौनमाश्रितवती ।
उपजातेति । उपजातम् उत्पन्नं कुतूहलं कौतुकं यस्य स तथोक्तः, 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः, समीपवर्त्तिनां निकटस्थितानां राज्ञां सामन्तभूपतीनां मन्त्रिणां च मुखानि आननानि आलोक्य निरीक्ष्य तेषामपि तदिष्टचेति विज्ञादेल्यर्थः । अत्र राज्ञां मुखनिरीक्षणन्तु चण्डालत्वेनात्रप्रवेशे
रुचिमर्थं निवेदन किया—'देव, स्वर्ग लोक में सशरीर जाते समय क्रुद्ध इन्द्र के हुंकार से नीचे गिरी हुई त्रिशंकु की राज्यलक्ष्मी के समान दक्षिणपथ से आयी हुई एक चाण्डाल-कन्या पिञ्जड़े में एक सुग्गा लिये हुए द्वार पर खड़ी है और प्रार्थना कर रही है कि पृथ्वी पर सभी रत्नों को धारण करने योग्य समुद्र के समान आप ही एक मात्र उत्कृष्ट पात्र हैं तथा यह चमत्कारी सुग्गा भी सारी पृथ्वी का एक उत्कृष्ट रत्न ही है; इसलिये इसके साथ ही सेवा में उपस्थित होकर श्रीमन्त के दर्शन से सुखी होना चाहती हूँ। महाराज की क्या आज्ञा है?' ऐसा कह कर वह चुप हो गई।
उसकी बात सुनकर राजा अत्यन्त उत्सुक हो उठा और अपने समीप में बैठे राजाओं के मुँह को देखते हुए (उनके मनोभावों को टटोलते हुए) उसने प्रतीहारी को आदेश दिया—इसमें हर्ज ही क्या है ? उसे भीतर ले आओ।
१. चाण्डाल***।
२. काश्चिद् इत्यधिकः क्वचित् ।
३. तद्रत्नानाम् ।
४. आश्चर्यभूतो निखिल***।
५. मूलेनादाया***।
६. आलोक्य ।
२४ कादम्बरी- [ कथामुखे-
अथ प्रतीहारी नरपतिकथनानन्तरमुत्थाय तां मातङ्गकुमारीं प्रवेशयत् । प्रविश्य च स नरपतिसहस्र-मध्यवर्तिनमशनिभय-पुञ्जितकुलशैलमध्यगतमिव कनकणिखरिणम्, अनेक-रत्नाभरण-किरण-जालकान्तरितावयवमिन्द्रायुध-सहस्र-सञ्छादिताष्टदिग्विभागमिव जलधरदिवसम्, अवलम्बितस्थूलमुक्ताकलापस्य कनकभृङ्खला-नियमितमणिदण्डिकाचतुष्टयस्य गगन-सिन्धु-फेन-पटल-पाण्डुरस्य नातिमहतो दुकूलवितानस्याधस्तादिन्दुकान्तमणिपर्य्य-ङ्किकानिषण्णम्, उदूधूयमान-कनकदेण्डचामरकलापम्, उन्मयूखमुख-कान्तिनिर्चय-पराभव-
तेषां विरोधोऽस्ति न वेत्यवबोधार्थम्, सति तु विरोधे नयनेङ्गितेनापि यत्प्रतिषेधसूचनसम्भवादित्याशयः । को दोषो न काप्यापत्तिः प्रवेश्यताम् इति एवम् आदिशेश आज्ञापितवान् ।
अथेति । अथ राज्ञः आदेशदानान्तरम् उत्थाय उत्थानं विधाय प्रतीहारी द्वारपालिका तां मातङ्गकुमारीं चण्डालकन्याकां प्रवेशयत् प्रावेशमकारयत् ।
प्रविश्य चेति । चण्डालकन्यका प्रविश्य प्रवेशं कृत्वा राजानमद्राक्षीदपश्यदिति दूरस्थक्रियया सग्रन्धः। अत्र सर्वाणि द्वितीयान्तपदानि क्रियाविशेषणानीत्यवधेयानि । अशनेरिन्द्रायुधाद्वज्रात् यद्भयं पक्षच्छेदनरूपमातङ्कस्तेन पुञ्जिता एकत्र मिलिता ये कुलशैलाः क्षेत्रसीमाकारिभूधरास्तेषां मध्यगतं तदन्तर्वर्तिनं कनकणिखरिणं सुमेरुपर्वतमिव नरपतीनां नृपाणां यत्सहस्रं तन्मध्यवर्त्तिनं तदन्तःस्थितमित्यर्थः । अत्रोपमालङ्कारः ।
पुरा पक्षधारिणो भूधरा यथा पक्षिणः अन्यस्माद्देशादुड्डीय देशान्तरे निपतन्ति तथैव निपतन्तः श्रैते यं देशं सम्प्राप्तास्तं तत्क्षणमेव सञ्चूर्णयामासुः । ततः सुरेशः कुलिशेन तेषां पक्षान् कर्त्तितुं प्रवृत्तस्तदा त्रस्तास्ते स्वस्वरक्षणोपायविचारणाय एकत्र मिलिता आसन्निति रामायणीया कथा ।
भूयो राजानं विशिनष्टि-अनेकेति । अनेकानि नानाविधानि रत्नाभरणानि मणिखचितालङ्काराः तेषां यानि किरणजालकानि रश्मिसमूहाः स्वार्थे कन्, तैरन्तरिता आवृता अवयवा अङ्गानि यस्य तं तथोक्तम्, अत एव इन्द्रायुधसहस्रेण शक्रधनुःसमूहेन 'इन्द्रा युधं शक्रधनुः' इत्यमरः सञ्छादिता अन्तरित अष्टौ दिग्विभागा दिशां प्रदेशा यस्मिंस्तत्तादृशम्, जलधरदिवसमिव मेघावृतदिनमिव (वर्त्तमानम्) अनेन राजा मेघवर्ण आसीदित्यवधार्यते । इहाप्युपमाऽलङ्कारः।
पुनस्तमेव राजानं विशेषयितुं प्रथमं वितानं विशिनष्टि-अवलम्बीति । अवलम्बिताः शिल्पिमिरधोलम्बितत्वेन आश्रिताः स्थूलानां स्थविष्ठानां मुक्तानां रसोद्भवानां कलापाः पङ्क्तयो यत्र तस्य तथोक्तस्य कनकं सुवर्णं तस्य याः शृङ्खला बन्धनरजवस्ताभिर्नियमिताः चतुर्षु कोणेषु बद्धा मणिदण्डिका रत्नखचिता यष्टयस्तासां चतुष्टयं यस्मिंस्तस्य, गगनसिन्धोर्मन्दाकिन्याः फेनपटलवत् अब्धिकफसमूहवत् 'डिण्डीरोऽब्धिकफः' इति कोशः, पाण्डुरं शुभ्रवर्णं तस्य एतानि षष्ठ्यन्तानि वितानविशेषणानि ।
अथ राजानं विशिनष्टि-नातीतिति । नातिमहतः किञ्चिद्बृहतः स्थानोचित्तप्रमाणस्य दुकूलवितानस्य क्षौमवसननिर्मितोल्लोचस्य 'उल्लोचो वितानं कन्दकोऽपि' इति कोशः, तस्य अधस्तात् निम्नप्रदेशे इन्दुकान्तमणिपर्य्यङ्किका चन्द्रकान्तमणिरचितमञ्चिका तत्र निषण्णम् उपविष्टम् । 'फेनपटलपाण्डुरे'त्यत्र लुप्तोपमा।
भूयो राजानं विशिनष्टि-उद्धूयेति । उद्धूयमानो भृत्यैः संवीज्यमानः कनकदण्डः सुवर्णाऽवल्म्वदन्यष्टियेषु तथाविधश्चामरकलापः प्रकीर्णकसमूहो यस्य तं तादृशम् ।
राजा का आदेश सुनने के बाद वह उठ खड़ी हुई और उस चांडाल-कन्या को भीतर ले आयी ।
उसने भीतर जाकर वज्राघात के भय से इकट्ठे हुए सभी पर्वतों के बीच स्थित सुमेरु पर्वत के समान सामन्त राजाओं के बीच बैठे हुए राजा शूद्रक को देखा । उसके आठों अंग अनेक रत्नों से जड़े हुए आभूषणों की किरणों से ढक गये थे जिससे वह इस प्रकार जगमगा रहा था मानो आठों दिशाओं में छाये हुए हजारों इन्द्रधनुषों को धारण करने वाला वर्षा का दिन हो। वह आकाशरूपी समुद्र के फेन की तहों जैसे उज्ज्वल तथा
१. जलधरसमयदिवसम् । २. आलम्बित ० । ३. पाण्डरस्य । ४. इन्दुकान्तपर्य्यंङ्गिका । ५. सुवर्णदण्ड ००० । ६. उन्मयूखमुखविजयपराभवप्रणते, उन्मयूखमुखकान्तिविजिते पराभवप्रणते ।
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । २५
प्रणते शशिनोव 'स्फटिकपादपीठे विन्यस्तवामपादम्, इन्द्रनीलमणि-कुट्टिम-प्रभासम्पर्क-श्यामायमानैः प्रणत-रिपु-निश्वासमलिनीकृतैरिव चरण-नखमयूखर्जालैरुपशोभमानम्, आसनोल्लसित-पद्मराग-किरण-पाटलीकृतेनाचिरमृदितमधु-कैटभ-रुधिरारुणेन हरिमिवोरु-युगलेन विराजमानम्, अमृतफेन-धवले गोरोचना-लिखित-हंस-मिथुन-सनाथ-पर्यन्ते चामर-
दन्मयूखेति—उर्ध्वं गता मयूखा रश्मयो यस्य तथाविधस्य मुखस्य यः कान्तिनिचयो दीप्तिसमूहस्तेन यो विजयो जयः पराभवः पराजयस्तेन प्रणते चरणतलसंलग्ने शशिनि चन्द्रमसीव । इह 'शशिनीव' इति द्रव्योत्प्रेक्षा।
अथ राज्ञश्चरणकिरणं विशेषयितुमाह—इन्द्रनीलेति । इन्द्रनीलमणीनां या कुट्टिमप्रभा वेदिकाकान्तिः तस्याः सम्पर्केण मिश्रणेन श्यामायमानैः श्यामवदाचरद्भिः, अत्रोपमानादाचारे क्यङ् सत एव क्यङ्क्तोपमा । कीदृशैरिव ह्यत आह—प्रणतेति । प्रणतानां पराजयेन स्वाधीनानां रिपूणां वैरिणां ये निश्वासास्तेनाः तैर्मलिनीकृतैर्मालिन्यमुपगतैरिव । मूलोत्क्षेपमाद्वहारेण क्रियोत्प्रेक्षा सङ्कीर्यते । चरण-नखानां पादाङ्गुलिभर्वाणां ये मयूखा रश्मयस्तेषां जालानि समूहास्तैरुपशोभमानं विराजमानम् ।
राज्ञ ऊरुयुगलं विशिनष्टि—आसनोल्लसितेति । आसन उपवेशनस्थले उल्लसिताः प्रकाशमाना ये पद्मरागकिरणाः लोहितमणिरश्मयस्तैः पाटलीकृतेन श्वेतरक्तीभूतेन 'श्वेतरक्तस्तु पाटलः' इत्यमरः, अत एव अचिरमृदितयोः तत्कालमर्दितयोः सद्यः कृतकण्ठयोरित्यर्थः, मधुकैटभयोः तन्नामकयोरसुरविशेषयोः रुधिरेण शोणितेन अरुणं रक्तवर्णं तेन तयोरुतेन, ऊरुयुगलेन जङ्घाद्वयेन विराजमानं शोभमानं हरिं मधुसूदनमिव । उपमालङ्कारः ।
पुरा क्षीरशायिनो भगवतः श्रीविष्णोः कर्णमलोत्पन्नौ मधुकैटभावुभौ असुरविशेषौ भगवत एव नाभिकमलसम्भूतं ब्रह्माणं हन्तुं समुद्यतौ जातौ । ततः आत्मरक्षणाय व्याकुलः रक्षणं कमप्यलभमानः योगनिद्रया स्थितां जगद्धात्रीं तुष्टावे, प्रसन्ना सा नारायणमुत्थापितवती द्रथाय च भगवान् ताभ्यां सह पञ्चवर्षसहस्राणि युद्ध्वा स्वमायया मोहितौ तौ वरं दित्सु आस्ताम् । नारायणो हि तयोर्वरं याचितवान् । ततो जलमग्नां भूमिमालोक्य आहतुस्तौ 'यत्र सलिलेन परिप्लुता पृथिवी न विद्यते तत्रावां जहि' इति । भगवांस्तु पार्थिवांशसंयुक्ते निजोरौ संस्थाप्य तयोर्मूर्धनी चक्रेणाच्छिनदिति मार्कण्डेयपुराणकथा प्रायः सर्वत्र प्रसिद्धैव ।
पट्टवसनद्वयं विशिनष्टि—अमृतेति । अमृतस्य पीयूषस्य यः फेनस्तद्वत् धवले श्वेतवर्णे गोरोचनया गोपित्तनामकपदार्थेन लिखितानि चित्रितानि यानि हंसमिथुनानि सितच्छदयुलानि तैः सनाथाः सहिताः पर्यन्ताः प्रान्तप्रदेशा ययोस्ते, तथा चामराणां वालव्यजनानां 'चामरा चामरं वालव्यजनं रोमगुच्छकम्' इति रभसः पवनेन वायुना प्रनर्तितौ आन्दोलितौ अन्तदेशौ प्रान्तभागौ ययोस्ते दुकूले पट्टवसने वसानं दधानम् 'अमृतफेनधवले' इत्यत्र लुप्तोपमा ।
मणियों से बने हुए चार डंडों पर सोने की जंजीरों से बाँध कर ताने गये न बहुत बड़े न बहुत छोटे रेशमी वस्त्र के चंदवे के नीचे चन्द्रकान्तमणि से बनी हुई चौकी पर बैठा था; जिसके ऊपर चंदवे से बड़े-बड़े दानों-वाले मोतियों के गुच्छे लटक रहे थे । उसके ऊपर सुनहरी मूठ के चँवर डुलाए जा रहे थे । वह, मुख के कान्ति मण्डल से फूट कर ऊपर की ओर फैलनेवाली किरणों से मानो पराजित होकर चरणों की शरण में आयी हुई चाँदनी के समान टहकती विल्लोरी पाद पीठिका ( पैर रखने की छोटी चौकी ) पर अपना दायाँ पैर रखे हुए था; जो इन्द्रनीलमणियों से पिटी हुई फर्श की नीली झलक के प्रभाव से कुछ-कुछ साँवली किरणवाले नखों से ऐसा सुशोभित हो रहा था मानो उस पर झुके हुए शत्रुओं की लम्बी-लम्बी साँसों की छाया पड़ गई हो । आसन के दोनों ओर जड़ी हुई पद्मरागमणियों की लाल-लाल किरणों से उसकी दोनों जाँघें लाल लाल हो रही थी जिससे वह कुछ ही समय पहिले मारे गये मधु-कैटभ के रक्त से लाल जाँघों वाले भगवान् विष्णु के समान प्रतीत हो रहा था । वह अमृत के फेन के समान अति उजले दो रेशमी वस्त्र धारण किये था जिसके किनारों पर गोरोचन से हंस के जोड़ों की आकृतियाँ उरेही गयी थीं तथा जिनके आँचल
१. स्फाटिके पादपीठे ।
२. निश्वास''''।
३. लालकैः ।
४. ''''मृत'''' ।
४ का० कथा०
| २६ | कादम्बरी- | [ कथामुखे- |
|---|
पवनप्रनर्त्तितान्तदेशे, दुकूले वसानम्, अतिसुरभि-चन्दनानुलेपन-धवलितोरःस्थलम्, उपरि-विन्यस्त-कुङ्कुम-स्थासकम्, अन्तरनिपतितबालातपच्छेदमिव कैलाशाशिखरिणम्⁵, अपर-शशि-शङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्¹, अतिचपल-राजे²-लक्ष्मी-बन्धन³निगड-शङ्कामुपजनयतेन्द्रमणि⁴-केयूरयुगलेन मलयज-रस-गन्धलुब्धेन भुजङ्गद्वयेनेव वेष्टितबाहुयुगलम्, ईषदालम्बि⁶-कर्णोत्पलम्, उन्नत-घोणम्, उत्फुल्लपुण्डरीक-लोचनम्⁷, अमलकलधौतपट्टायतम्⁸, अष्टमीचन्द्र-शकलाकारम्, अशेष-भुवन-राज्याभिषेकसलिलपूतम्⁹,
अतीति। अतिसुरभिश्चन्दनस्य अतिसुगन्धितमलयस्य अनुलेपनेन अङ्गरागेण धवलितं शुभ्रीकृतम् उरःस्थलं वक्षःस्थलं यस्य तं तादृशम् ।
उपरीति । उपरि तच्चन्दनलेपनोपरि विन्यस्ता विहिताः कुङ्कुमस्य केसरस्य स्थासका हस्तविम्बा यस्य तम् 'स्थासकं हस्तविम्बम्' इति कोशाः, अपरे तु 'चर्चा तु चर्चित्तं स्यामकम्' इति । अत एव अन्तरा-न्तरा मध्ये मध्ये निपतिताः पर्यस्ता बालातपच्छेदा अभिनवोदितसूर्यमयूखखण्डा यस्य तं कैलासशिख-रिणं हिमाचलमिव ( वर्तमानम् ) इहोपमा ।
भूयस्तमेव प्रकारान्तरेण विशिनष्टि—अपेरेति । अपरोऽन्यो यः शशी चन्द्रस्तस्य शङ्कया भ्रान्त्या प्राप्ता या नक्षत्रमाला तारापङ्क्तिस्तयेव हारलतया लतावह्रह्ममानया मुक्तास्रजा कृतो मुखस्य वदनस्य परिवेषः परिधिः परिवेष्टनमिति यावत्, यस्य स तम्, परिवेषस्तु परिधिः' इत्यमरः ।
इह मुखे शशीभ्रान्त्या भ्रान्तिमानलङ्कारः, 'नक्षत्रमालयेवे'त्युत्प्रेक्षा, अङ्गाङ्गिभावेन धानयोः सङ्करः तेन च मुखस्य चन्द्रसाम्यं हारलताया लत्यन्तनैर्मल्यं च ध्वनितमित्यलङ्कारेण वस्तुध्वनिः ।
अतीति। अतिचपला अत्यन्तं चञ्चला या राजलक्ष्मीराधिपत्यश्रीः तस्या बन्धो बन्धनं नियमन-मिति यावत्, तदर्थं यो निगडः शृङ्खला तस्य शङ्कां भ्रान्तिम् उपजनयता कुर्वता, एवम्भूतेन इन्द्रमणि-नीलकान्तमणिः तेन युक्तं खचितं यत्केयूरयुग्मम् अङ्गदद्वयं तेन तथोक्तेन, अत एव मलयजश्चन्दनसिक्तो यो द्रवस्तत्य गन्धेन परिमलेन लुब्ध आसक्तस्तेन तादृशेन भुजङ्गद्वयेनेव सर्पयुगलेनेव वर्तमानेन वेष्टितं परिक्षिप्तं बाहुयुगलं भुजद्वयं यस्य तं तादृशम् । इह राजलक्ष्मीस्थिरीकरणाय शृङ्खलाशङ्कामुपजनयतीति भ्रान्तिमानलङ्कारः, 'भुजङ्गद्वयेनेवे'त्युत्प्रेक्षा च, अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
ईषदिति । ईषदकिञ्चित् बालम्बिनो लम्बमाने कर्णोत्पले पद्माकारकर्णभूषणे यस्य तं तथोक्तम्, उन्नता उच्चा घोणा नासिका यस्य स तम्, 'घोणा नासा च नासिका' इत्यमरः, उत्फुल्लं विकसितं यत्पुण्डरीकं सिताम्भोजं तद्वत् लोचने नयने यस्य स तम्, इह लुप्तोपमा। अमलं स्वच्छं यत्कलधौतं कनकं तस्य यः पट्टः फलकं तद्वद् आयतं विस्तीर्णम्, अष्टमीचन्द्रस्य अष्टमीतिथावुदितसुधांशोः यत् शकलं तदर्धभागस्तद्वदाकार आकृतिर्यस्य तम् । इह द्वे अपि लुप्तोपमे । अर्धभागवन्दभयोरपि अष्टम्यामष्टावेव कला इत्यभिप्रेत्येत्यवधेयम् ।
अशेषानि समस्तानि यानि भुवनानि भूमण्डलानि तेषां राज्यम् आधिपत्यं तस्य अभिषेकसलिलं मङ्गलस्नानजलं तेन पूतं पवित्रन, तया ऊर्णा भ्रूयुग्ममध्यवर्ती लोमावर्तः तया सनाथं युक्तम्, 'ऊर्णा मेषा-
चँवर की हवा से फहरा रहे थे। उसका वक्षस्थल अति सुगन्धित चंदन के लेप से अत्यन्त उज्ज्वल हो उठा था, जिस पर बीच-बीच में कुंकुम के छापे भी मारे गये थे, जिससे वह कहीं-कहीं प्रातःकालीन सूर्य की धूप से सुशोभित कैलास की चोटी के समान प्रतीत हो रहा था। उसके कंठ में मोतियों की माला ऐसी प्रतीत हो रही थी मानो तारों ने उसके मुख को दूसरा चन्द्रमा समझ कर उसके चारों ओर मण्डप बाँध दिया हो । वह मानो चन्दन की सुगन्ध के लोभ से आये हुए दो सर्पों के समान अपनी दोनों भुजाओं पर इन्द्रनीलमणियों के दो केयूर ( बाजूबन्द ) पहिने था जो मतवाली राजलक्ष्मी को बाँधने की दो जालों का भ्रम उत्पन्न कर रहे थे। उसके कानों के कमल कुछ-कुछ लटके हुए थे, नाक ऊँची थी, आँखें विकसित श्वेत कमलों के समान खिली हुई थीं तथा निर्मल सोने के पट्ट के समान चौड़े, अष्टमी के अर्धचन्द्र के समान आकृतिवाले एवं सभी लोकों के राज्याभिषेक-जल से पवित्र ललाट पर भौंहों के बीच ऊर्णा (बालों की भँवरी) सुशोभित हो रही थी।
१. परिवेषन् । २. राज्य । ३. बन्धन । ४. 'नील' इत्यधिकः पाठः । ५. शङ्कुशिखरम् ६. आलम्बित । ७. नेत्रम् । ८. पट्टियितम् । ९. अभिषेकपूतम् ।
शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । २७
ऊर्णासनाथं ललाटदेशमुद्वहन्तम्, आमोदित-मालतीकुसुम-शेखरम् उपसि-शिखर-पर्य्यस्त-तारकापुञ्जमिव पश्चिमाचलम्, आभरण-प्रभापिशङ्गिताङ्गतया लग्न-हर-हुताशमिव मकरध्वजम्, आसन्नवर्त्तिनीभिः सेवार्थमागताभिरिव^१ दिग्बधूर्भिर्वारविलासिनीभिः परिवृतम्, अमल-मणिकुट्टिमसंक्रान्त-सकल^३-देह-प्रतिबिम्बतया पतिप्रेम्णा वसुन्धरया हृदयेनेवोद्वहमानम्, अशेषजनभोग्यतामुपनीतयाप्यसाधारणया राजलक्ष्म्या सँमालिङ्गितम्, अपरिमित-
दिलोम्नि स्यादार्थस्त्वन्तरन्तरो भ्रुवोः' इत्यमरः, 'ऊर्णा भ्रूमध्यगावर्त्ते मेषादीनाञ्च लोमनि' इति हेमचन्द्रश्च, अयञ्च चक्रवर्त्त्यादीनामेव न त्वरिव्यस्य कस्यापि । तदुक्तम्—'भ्रूदृयोर्मध्ये 'मृणालतन्तुसूक्ष्मं शुभ्रायतमेकं प्रशस्तावर्त्तं महापुरुषलक्षणम्।' इति।
अथ पुनस्तमेव विशिनष्टि—आमोदितेति । आमोदितानि सुरभीणि यानि मालतीकुसुमानि जातीपुष्पाणि तान्येव शेखरः शिरोभूषणं यस्य स तं तथोक्तम्, अत एव उपसि प्रातःकाले शिखरे शृङ्गे पर्य्यस्ताः पतिस्वा समवेताः तारकाणां नक्षत्राणां पुञ्जा राशयो यत्र तं तथोक्तम्, पश्चिमाचलम् अस्ताद्रिमिव (वर्त्तमानम्) ।
अत्र शैलशिखरराजोत्तमाङ्गयोः पुष्पपुञ्जननक्षत्रयोश्च स्फुटमेवोपमानोपमेयभावादुपमालङ्कारः ।
कामदेवसद्दश्यत्वं प्रकटयति—आभरणेति । आभरणानाम् अलङ्काराणां या प्रभा दीप्तिस्तया पिशङ्गितानि पिङ्गलवर्णीकृतानि अङ्गानि अवयवा यस्य तस्य भावस्तत्ता तया तथोक्त्या हेतुना, लग्नः संसक्तः हरस्य महेश्वरस्य हुताशनस्तृतीयनेत्रवह्निर्यत्र तं तादृशं मकरध्वजं जलजन्तुविशेषचिह्नं कमदेवमिति यावत्, इव (वर्त्तमानम्) । इहापि। आभरणप्रभाहरनयनोत्पन्नानलयोर्नृपमकरध्वजयोरुपमायोपमेय-भावादुपमालङ्कारः ।
आसन्नेति । आसन्नवर्त्तिनीभिः समीपस्थायिनीभिः सर्वतश्चतुर्दिक्षु सेवार्थं परिचर्यार्थम् आगताभिः प्राप्ताभिः अत एव व्यापकत्वादिश एव वध्वः स्त्रियो दिग्वध्वस्ताभिरिव वारविलासिनीभिर्गणिकाभिः परिवृतं परिवेष्टितम् । इह 'दिग्वधुभि' रिवेत्यत्र रूपकस्योत्प्रेक्षाञ्च सत्त्वादेकाश्रयानुप्रवेशसङ्कररूपः सङ्करालङ्कारः ।
अमलेति । अमला अतिनिर्मला ये मणयश्चन्द्रकान्ताद्यास्तैर्बद्धभूमयः कुट्टिमाः तत्र सङ्क्रान्तं सञ्चरितं यत्सकलदेहप्रतिबिम्बं समस्तशरीरप्रतिच्छायस्तस्य भावस्तत्ता तया हेतुना, पतिप्रेम्णा स्वामिप्रीत्या वसुन्धरया भूम्या हृदयेन चेतसा उह्यमानं धार्यमाणमिव वर्त्तमानम् । इह हृदयेनेवेत्युत्प्रेक्षा ।
अशेषेति । अशेषजनानां समग्रलोकानां भोग्यतां दानादिना भोगयोग्यताम् । उपनीतया प्राप्तयापि सर्वसाधारणेयेति यावत्, असाधारण्या असमानया इति विरोधः, अन्येषामेवादृशी राजलक्ष्मी न विद्यत इत्यतः सर्वोत्कृष्टयेति तत्परिहारः, राजलक्ष्म्या राज्यश्रिया समालिङ्गितम् उपगूढो देहः शरीरं यस्य तं तादृशम् । इह साधारणऽसाधारणयोर्विरुद्धधर्मत्वेऽपि तत्परिहाराद्विरोधाभासोऽलङ्कारः । एवमग्रे सर्वस्मिन्नपि द्वितीयान्ते विरोधाभासोऽलङ्कारः ।
अपरिमितैति । अपरिमिता अगणिताः, परिवारजना, सेवकलोका यस्य तं तथाभूतमपि अद्वितीयं द्वितीयजनरहितमिति निरोधः, स्वतुल्थ-द्वितीयशहितमिति तत्परिहारः।
उसके सिर के बीच में खिले हुए सुगन्धित चमेली के फूलों की माला लिपटी हुई थी मानो प्रातःकाल चोटी पर फैले हुए तारोंवाला अस्ताचल हो। भूषणों की झलक से निखरे तामड़े (मंजे हुए ताँवे जैसे रंगवाले) अंगों के कारण वह शंकर जी की नेत्र-ज्वाला में जलते हुए कामदेव के समान प्रतीत हो रहा था। उसके चारों ओर वारांगनाओं (वेश्याओं) की मण्डली बंधी हुई थी मानो सेवा करने के लिए स्वयं दिग्बधुएँ उसके पास चली आयी हों। शुभ्र मणियों की पिटी हुई गच में उसके पूरे शरीर की छाया उगी हुई थी मानो पृथ्वी रूपी वधू ने प्रतिप्रेम के कारण उसे अपने हृदय में रख लिया हो। अनेक लोगों से भोगी जाने पर भी राजलक्ष्मी एक विशेष ढंग से उसके शरीर का आलिंगन कर रही थी। यदपि उसके परिवार में असंख्य लोग थे फिर भी वह
१. शङ्करागतया । २. सेवासङ्गताभिरिव । ३. संक्रान्तप्रतिबिन्दतया, संक्रान्तदेहप्रतिबिम्बतया । ४. समालिङ्गितदेहम् ।
| २९ | कादम्बरी- | [ कथामुखे- |
|---|
परिवारजनमप्यद्वितीयम्, अनन्तगज-तुरग-साधनमपि खड्गमात्रसहायम्, एकदेशस्थित-मपि व्याप्तभुवनमण्डलम्, आसने¹ स्थितमपि धनुषि निषण्णम्, उत्सादिताशेषद्विपद्विन्धन-मपि² ज्वलत्प्रतापानलम्, आयतलोचनमपि 'सूक्ष्मदर्शनम्³-' महादोषमपि सकलगुणाधिष्ठानम्, कुपतिमपि कलत्रवल्लभम्⁴, अविरत-प्रवृत्त-दानमप्यमदम्, अत्यन्तशुद्ध⁵-स्वभावमपि कृष्णचरितम्, अकरमपि हस्तस्थित-सकल-भुवनतलं⁶ राजानमद्राक्षीत्।
अनन्तेति । अनन्तानि अपरिमितानि गजा हस्तिनस्तुरगा अश्वास्तेषां साधनानि उपकरणानि सहाया यस्य तम् 'निर्वर्त्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः, एवम्भूतमपि खड्गमात्रसहायमिति विरोधः, युद्धे सर्वविधसैन्यान्वयेऽप्यनेन केवलतरवारिसहाय्येनैव विजयनिर्मिति तत्परिहारः ।
एकदेशेति । एकदेशः सभामण्डपादिरूप एकत्रस्मिन् जनपदे वा स्थितमपि वर्तमानमपि व्याप्तं समाक्रान्तं भुवनमण्डलं मर्त्यभुवनं येन तमिति विरोधः, व्याप्तं भुवनमण्डलं येन तमिति तत्समाधानम् 'व्याप्तं ख्याते समाक्रान्ते' इति विश्वः ।
आसन इति । आसने राजसिंहासने स्थितं निषण्णमपि धनुषि चापे निषण्णं स्थितमिति विरोधः' धनुषि विजयविश्वासिनमिति यद्वा धनुः संज्ञके स्थितनिति परिहारः 'धनुः संज्ञा प्रियालाद्रौ' इति विश्वः ।
उत्सादितेति । उत्सादितानि व्यापादितानि अशेषाणि समग्राणि द्विपन्तो रिपव एव इन्धनानि काष्ठानि येन तं तथाविधमपि ज्वलन् प्रतापः प्रभाव एवानलो वह्निः यस्य तं तादृशमिति इन्धनाभावे कथं ज्वलनमिति विरोधः, ज्वलन् दीप्यमानः सर्वत्र प्रबलभावेन वर्त्तमान इति तत्समाधानम् । शत्रुपु काष्ठसमारोपः प्रतापे अनलसमारोपस्य कारणमिति परम्परितरूपकसङ्कीर्णो विरोधाभासः ।
आयतेति । आयते विस्तीर्णे लोचने चक्षुषी यस्य तं तथाविधमपि सूक्ष्मे अविपुले दर्शने लोचने यस्य तमिति विरोधः, सूक्ष्मे अध्यात्मविषये दर्शनं ज्ञानं यस्येति परिहारः । 'सूक्ष्मं स्यात्कौतवेऽप्यारमे पुंत्यणौ त्रिषु चाल्पके ।' 'दर्शनं नयन-स्वप्न-बुद्धि-धर्मोपलब्धिषु' ।। इति विश्वः । महान् बहुः दोषोऽवगुणो यस्मिन् स तं तादृशमपि सकलगुणाधिष्ठानं समस्तगुणाभवांमति विरोधः महान्तौ दीर्घौ बाहू यस्य तमिति परिहारः 'दोर्दोषा च भुजो बाहु'रिति धनञ्जयः । कुत्सितो निन्दितश्चासौ पतिर्भर्त्ता चेति कुपतिरेवम्भूतमपि कलत्रवल्लभं स्त्रीजनमित्रमिति विरोधः, कुः पृथिवी तस्याः पतिः स्वामीति परिहारः 'गोत्रा कुः पृथिवी पृथ्वी, इत्यमरः। अविरतं निरन्तरं प्रवृत्तं दानं मदजलं यस्य तमेवम्भूतमपि अमदं मदजलशून्यमिति विरोधः अयञ्च विरोधो हस्तिसादृश्ये, अविरतं सन्ततं दानम् अर्थिभ्यो द्रव्यादिवितरणं यस्य तं तादृशमपि अमदं गर्वशून्यमिति तत्परिहारः। 'दानं गजमदे त्यागे पालनच्छेदशुद्धिषु' इति विश्वः, 'मदे रेतसि कस्तूर्यां गर्वे हर्षेनमानयोः' इति च मेदिनी । अत्यन्तमतिशयेन शुद्धः स्वच्छः स्वभावः प्रकृतिर्यस्य तं तथाविधमपि कृष्णं चरितमाचारो यस्य तमिति विरोधः, कृष्णस्य वा वासुदेवस्य चरितमिव चरितं यस्य तमिति तत्समाधानम् । 'कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने' इति विश्वमेदिन्यौ । न विद्यते करः पाणिर्यस्य तं तादृशमपि हस्ते करे स्थितं शासनेनाधीनं सकलं समग्रं भुवनतलं यस्य तमिति विरोधः, न
अकेला था (उन सब में एक था)। असंख्य हाथी-घोड़ों के साधनों से भरपूर होते हुए भी युद्ध में वह केवल कृपाण ही को अपना साथी चुनता था। एक ही स्थान पर स्थित होते हुए भी वह (प्रताप द्वारा) सभी लोकों में व्याप्त था। वह आसन पर रहते हुए भी (उसके विजय का विश्वास) धनुष पर स्थित था। शत्रुरूपी ईंधन के चुक जाने पर भी उसके प्रताप की अग्नि जलती रहती थी। बड़ी-बड़ी आँखों के होते हुए भी वह सूक्ष्म दृष्टि से देखने वाला या अर्थात् संसार को चर्मचक्षुओं से न देखकर ज्ञानचक्षुओं से देखनेवाला था, महादोषी (१-महान अवगुणी २-लम्बी बांहोंवाला) होते हुए भी सभी गुणों का निवास-स्थान था, कुपति (१-बुरा पति, शठ नायक २-पृथ्वीपति) होते हुए भी सभी रानियों का प्रिय-पात्र (दक्षिण नायक) था, निरन्तर दानशील होते हुए भी (१-दान देने में लगा हुआ २-मद गिराने वाला) मदरहित (निरभिमानी) था, शिष्ट स्वभाव होते हुए भी कृष्णचरित (१-मलिन आचरण वाला २-भगवान के समान साधु आचार वाला) था और कर हीन होते हुए भी (१-बिना हाथ के २-बिना कर लिए ही) सारी पृथ्वी उसके हाथों में थी।
१. आसनगतम्, आसनस्थितम् ।
२. उत्सादिताशेषद्विषन्धनमपि ।
३. सूक्ष्मदर्शिनम् ।
४. कलत्रचन्द्रवल्लभम् ।
५. अविशुद्ध ।
६. हस्तस्थित भुवनतलम् ।
[चाण्डालकन्यावर्णनम्] चन्द्रकला-विद्योतिनीसहिता । २३
आलोक्य च सा दूरस्थितैव प्रचलितरत्नवलयेन रक्तकुवलयदलकोमलेन पाणिना जर्जरितमुखभागां वेणुदलतामादाय नरपतिप्रतिबोधनार्थं सकृत् सभाकुट्टिममाजघान; येन सकलमेव तद् राजकम् एकपदे वनकरियूथमिव तालशब्देन तेन वेणुदलताध्वनिना युगपद्वलितवदनमवनिपालमुखादाकृष्य चक्षुस्तदभिमुखमासीत् ।
अवनिपतिस्तु 'दूरादालोकय' इत्यभिधाय प्रतीहार्या निर्दिश्यमानां तां वयःपरिणामशुभ्रशिरसा रक्तराजीवनेत्रोपान्तेनानवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिलशरीरसन्धिना सत्यपि मातङ्गत्वे नातिनृशंसाकृतिना अनुगृहीतार्थ्यवेशेन शुक्लेवाससा-
विद्यते चक्रवर्तित्वेन नास्ति करः अन्यस्मै भागधेयः राजग्राह्यद्रव्यांशर्पणमिति यावत्, यस्य तमिति तत्सभावातन् । 'बलिः करो भागधेयः' इति कोशः । इहारातपजनभोग्यतामित्यादिकेषु अकारणपीयमानेषु ह्यगुणेषु श्लेषेण विरोधपरिहाराद् सर्वत्रैव विरोधाभासालङ्कारो बोध्यः ।
आलोक्येति । आलोक्य राजानं दृष्ट्वा सा चण्डालकन्यका दूरस्थितैव चण्डालजातित्वान्नृपसद्मिक्षौ गमनं नोचितमिति दविष्ठप्रदेश एव वर्तमाना प्रचलितं पूर्वावस्थितिप्रदेशात् किञ्चिद् प्रक्रमितरत्नवलयं मणिखचितकटकं यस्य तेन 'कटकं वलयोऽस्त्रियाम्' इत्यमरः, रक्तं लोहितं यत्कुवलयम् उत्पलं तद्वत् कोमलेन मृदुतेन । अनेन करस्य लावण्योपेतत्वं व्यञ्जितम् । इह लुप्तोपमा । जर्जरितो जीर्णः मुखभागः अग्रभागो यस्याः सा तां तथोक्तां वेणुदलतां वंशयष्टिम् आदाय गृहीत्वा नरपतेः राज्ञः ( शूद्रकस्य ) प्रतिबोधनार्थं स्वाभिमुखीकरणार्थं सभाकुट्टिमं परिष्कृतबद्धभूमिं 'कुट्टिमोऽस्त्री निबद्धा भूः' इति कोशः, सकृद् एकदावारे पाणिना करेण आजघान आहतवती । येन आघातेन सकलं समग्रमेव तद्राजकं नृपतिसमूहः एकपदे तस्मिन्नेव क्षणे 'तस्वचैकपदे तुल्ये' इति हलायुधः । तालाः कांस्यकरतालो वाद्यविशेषस्तस्य शब्देन तदुत्पध्वनिना वनकरिणां वन्यहस्तिनां यूथं समूह इव, तेन पूर्वोक्तेन वेणुदलता वंशयष्टिस्तस्या ध्वनिना शब्देन युगपद् एककालम्, आवर्तितं परावर्तितं सुखम् आननं येन एवम्भूतम् अवनिपालमुखाद् राजमुखाद् आकृष्य आकर्षणं विधाय चक्षुर्लोचनं तदभिमुखं चण्डालकन्यकायाः सम्मुखम् आसीत् समभूत् । साकस्मिकशब्दविशेषश्रवणे तदानिमुख्यं जनानां स्वाभाविकमेव । उपमासङ्कारश्च द्वितीयवाक्ये ।
अवनीति । अवनिपतिः राजा ( शूद्रकः ) अनिमिषलोचनः निमेषोन्मेषवर्जितनेत्रः तां चण्डालकन्यकां ददर्श अवलोकयामासेति दूरेणान्वयः । दूरादालोकय 'हे चण्डालकन्ये ! त्वं दूराद् एव शूद्रकं दर्शय' दूरतेरेकान्तसमीपगमनमजातस्वरूपायतास्त्वानुचितमित्याशयः । इत्यभिधाय इति कथयित्वा प्रतीहार्या द्वाररक्षकारिण्या निर्दिश्यमानाम् 'इयं सा चण्डालकन्या' इति सभायां ज्ञाप्यमानाम् । वयसः परिणामेन वार्धक्येन शुभ्रे पाण्डरोमतया श्वेते शिरो मूर्द्धा यस्य स तेन, रक्तराजीववद् लोहितकमलवत् नेत्रापाङ्गौ नयनप्रान्तौ यस्य स तेन् । इह लुप्तोपमा । अनवरतं सततं कृतो विहितो व्यायामः परिश्रमः येन तस्य भावस्तया तया यौवनस्य तारुण्यस्य अपगमेऽपि समाप्तावपि अशिथिला दृढाः शरीरस्य देहस्य सन्धयो धातुनामस्थ्यादीनाञ्च बन्धा यस्य स तेन । मातङ्गत्वे चण्डालत्वे सत्यपि विद्यमानत्वेऽपि नातिनृशंसा
वह चाण्डाल-कन्या राजा को देखकर दूर ही पर ठिठक गयी और सभा का ध्यान अपनी ओर आकर्षित कराने के लिये उसने लाल कमल के समान अपने कोमल हाथ में पड़े हुये फटे बाँस के टुकड़े को एक बार सभा की फर्श पर खड़खड़ाया, जिससे ताड़पत्रों की खड़खड़ाहट को सुनकर उसकी ओर आकृष्ट हो जाने वाले जंगली हाथियों के समान उस छड़ी की खड़खड़ाहट से सभी सामन्त राजाओं की दृष्टि एक साथ ही राजा की ओर से उखड़ कर उस कन्या की ओर चली गयी ।
दूर ही से देखो—इस प्रकार उस कन्या को सभामण्डल में और आगे बढ़ने से रोकती हुई प्रतीहारी ने वहीं से उसे राजा को दिखाया । राजा भी अत्यन्त टकटकी नयनवाली सर्वसुन्दरी कन्या को एक टक देखने लगे। उसके आगे खादी (द्विजतनों) के समान श्वेत वस्त्र पहिने हुए पकी उमर का एक चांडाल था, जिसके सिर के बाल सफ़ेद हो गये थे, आँखों की कोरें लाल-लाल थीं, नियमित व्यायाम के कारण बुढ़ापे में भी शरीर की
१. प्रबोधनार्थम् । २. राजमण्डलम् । ३. 'तेन वेणुदलताध्वनिना' इति पाठः क्वचिद् विद्यते'
४. वेणुनालम्के । ५. वेदेन । ६. धवल ।
३० कादम्बरी- [ कथामुखे-
पुरुषेणाधिष्ठितपुरोभागम्, आकुलाकुल-काकपक्षाधारिणा कनक-शलाका-निर्मितसप्यन्त- र्गत-शुकप्रभाश्यामायमानं मरकतमयमिव पञ्जरमुद्वहता चण्डालदारकेणानुगम्यमानाम् असुर-गृहीतामृतापहरण-कृत-कपट-पटुं विलासिनीवेशस्य श्यामतया भगवतो हरेरिवानु- कुर्वतीम्, सञ्चारिणीमिवेन्द्रनीलमणिपुत्रिकाम्१, आगुल्फावलम्बिना४ नीलकञ्चुकेनाच्छन्न- शरीराम्, उपरि रक्तांशुक-विरचितावगुण्ठनां नीलोत्पलस्थलीमिव निपतितसन्ध्यातापाम्, एक-कर्णावसक्त-दन्तपत्रप्रभाधवलितकपोल-मण्डलाम् उद्यदिन्दुकिरणच्छुरित-मुखीमिव
नातिक्रूरा अभयङ्करा आकृतिः स्वरूपं यस्य तेन, अनुगृहीतः अङ्गीकृत आर्यवेशः सभ्यनेपथ्यं येन स तेन, शुक्लवाससा धवलवस्त्रेण केनचित् पुरुषेण अधिष्ठित आश्रितः पुरोभागो यस्याः सा ताम् ।
आकुलेति । आकुलाकुलः इतस्ततः संलग्नः यः काकपचः शिखण्डकः तं धारयितुं शीलं यस्य तेन ‘काकपचः शिखण्डकः’ इत्यमरः, ‘सः बालानां काकपचः शिखण्डकशिखण्डिकौ’ इति कोशः । कनकशालाकाः सुवर्णशलाकाः ताभिः निर्मितं रचितमपि अन्तर्गतस्य मध्यस्थितस्य शुकस्य कीरपक्षिणः प्रभया कान्त्या श्यामायमानं श्यामवर्णमिवावलोक्यमानम्, अत एव मरकतमयमिव मरकतमणिजातमिव पञ्जरं पञ्जरगण- स्थलमू उद्वहता धारयता, केनचित् चण्डालदारकेण अन्त्यजपुत्रेण । इह श्यामायमानमिति व्यङ्गतोपमा, मरकतमयमिवेति क्रियोत्प्रेक्षा अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
असुरेति । असुरैः राक्षसैः गृहीतं स्वायत्तीकृतं यत् अमृतं सुधा तस्यापहरणे अपहर्त्तौ कृतो विहितः कपटो व्याजपूर्णः पटुः प्रकटी विलासिनीवेशो मोहनीस्त्रीस्वरूपम् येन तस्य भगवतः ।
‘उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ॥’
इत्युक्तलक्षणलक्षितस्य हरेः श्रीविष्णोः श्यामतया समानकृष्णवर्णतया अनुकुर्वतीमिव सादृश्य- मनुभवन्तीमिव विद्यमानाम् । इहानुकुर्वन्तीमिवेति क्रियोत्प्रेक्षा ।
पुरा क्षीरसागरमन्थनान्निःसृतममृतं दैत्या देवेभ्योऽप्रदाय स्वयमेव गृहीतवन्तः, भगवान् विष्णुस्तु तज्जिहीर्षयात्मनो मोहनी स्वरूपं कृत्वा तान् प्रतारयन् देवेभ्यस्तदमृतं ददाविति भागवतीया कथा ।
सञ्चारिणीमिति । सञ्चारिणीं गमनशीलाम् इन्द्रनीलमणिपुत्रिकां जङ्गमप्राणिरूपां नीलकान्तमणि- निर्मितपुत्तलिकामिव विद्यमानाम् । इह पुत्तलिकात्ववाच्यमुत्प्रेक्षा ।
आगुल्फेति । आगुल्फावलम्बिना घुटिकापर्यन्तपातिना नीलकञ्चुकेन नीलवर्णकूर्पासकेन आच्छन्नम् आवृतं शरीरं गात्रं यस्याः सा ताम् उपरि ऊर्ध्वप्रदेशे शिरसीत्यर्थः, रक्तांशुकेन लोहितवर्णवस्त्रेण विरचितं कृतम् अवगुण्ठनं मुखच्छादनं यया सा ताम्, अत एव निपतितः उपरि प्रातः सन्ध्याकालीन आतपः सूर्य- किरणो यस्यां ताम् एतादृशीं नोलोत्पलस्थलीमिव कुवलयकृत्रिमभूमिमिव । इह पदार्थहेतुककाव्यलिङ्गा- लङ्कारेणोपमालङ्कारः सङ्कीर्णो भवति ।
एकेति—एकस्मिन् कर्णे श्रोत्रे अवसक्तं लग्नं यत् दन्तपत्रं कर्णाभरणविशेषस्तस्य प्रभया कान्त्या धवलितं श्वेतीकृतं कपोलमण्डलं गण्डप्रदेशे यस्याः सा ताम्, अत एव उद्यन् उदयं प्राप्नुवन् य इन्दुश्चन्द्र-
जोड़े अभी तक फंसी हुई थीं तथा चाण्डाल होते हुये भी उसकी आकृति में उतनी कठोरता नहीं थी। उसके पीछे एक चाण्डाल बालक था जिसके उलझे हुए बालों में कहीं-कहीं कौवे के पंख लगे हुये थे। वह अपने हाथ में सोने की तीलियों से बना हुआ एक पिंजरा लिए था, जो उसके भीतर स्थित गहरे हरे रङ्ग के सुग्गे की झलक से मरकतमणि से बना हुआ प्रतीत हो रहा था। उस कन्या का साँवला स्वरूप भगवान् विष्णु के उस मायावी मोहनी रूप से मिलता जुलता सा प्रतीत हो रहा था जिसे उन्होंने असुरों के हाथ में पड़े हुए अमृत के घड़े को लौटाने के लिये धारण किया था। वह कन्या क्या थी नीलम की चलती-फिरती पुतली ही थी। उसका शरीर पैर की गाँठों तक नीले कंचुक (जामा) में और सिर लाल रेशमी ओढ़नी के घूँघंट से ढका हुआ था जिससे वह ऐसी प्रतीत हो रही थी मानो नीले कमलों की बनावटी भूमि पर डूबती हुई लोट रही हो। उसके दाहिने कान में लगा हुआ हाथी दाँत का पत्ता उसके साँवले मुख के दाहिने कपोल-मण्डल को अपनी श्वेत आभा से चमका रहा था जिससे वह पूर्व भाग में निकलते हुये चन्द्रमण्डल को धारण करने वाली चाँदनी रात के
१. कपटविलासिनी, ...वेपस्य । २. सञ्चारिणीमिन्द्र । ३. पुत्रिकामिव । ४. गुल्फावलम्बिनीला ५. गुरू । ६. उद्यदिन्दुबिम्बच्छुरित ।
चण्डाकन्यकावर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ३१
विभावरीम्; आकपिल-गोरोचना-रचित-तिलक-तृतीय-लोचनाम् ^१ईशानुचरित-किरातवेशामिव भवानीम्, हरःस्थल-निवास-संक्रान्त-नारायण-देहप्रभा-श्यामलितमिव श्रियम्, कुपित-हर-हुताशन-दह्यमान-मदन-धूम-मलिनीकृतामिव रतिम्, उन्मद्-^२हलि हलाकर्षण-भय-पलायितामिव कालिन्दीम्^४, अतिबहल-पिण्डालक्तक-रस-राग-पल्लवित-
स्वस्य किरणैः रश्मिभिः हरितम् अन्धकारनिवृत्त्या सप्रकाशं मुखम् अग्रभागः आननं वा यस्याः सा तां तादृशीं विभावरीं रात्रिमिव विद्यमानामिति शेषः। एतेन रात्रिनायकयोर्दन्तपत्रचन्द्रयोश्च तुल्यत्वं प्रदर्शितम्। इहानि पूर्ववदेवालङ्कारः।
आकपिलेति। आकपिलया ईषत्पीतरुच्या गोरोचनया गोपित्तेन रचितं निर्मितं यत्तिलकं पुण्ड्रं तदेव तृतीयं लोचनं नयनं यस्याः सा ताम्, अत एव ईशस्य शम्भोः अनुचरितः पश्चाद्गृहीतः किरात-वेशो निष्पनेपथ्यं यया सैवम्भूतां भवानीं पार्वतीमिव।
पुरा किल श्रीकृष्णप्रेरितः पार्थः पाशुपतास्त्राप्तये तपस्तप्तुं गतः, ततः, वराहरूपेण तं हन्तुं यान्तं मूकादानवं मारयितुं भगवान् शिवः किरातवेशं गृहीतवान् तदनु तमेव वेशं धारयित्वा पार्वत्यपि शिव-मनुययाविति महाभारतीया कथा। तदाधारेणेयमुपमा।
हरस्थलेति। हरस्यस्थले वक्षसि निवासेन निवसेनेन संक्रान्ता प्रतिबिम्बिता या नारायणस्य विष्णोः देहप्रभा शरीरकान्तिः तया श्यामलिनो श्यामलत्वं प्राप्तां श्रियं लक्ष्मीमिव। इह लक्ष्मीचण्डाटकन्यकयोः साम्यवन्दनादुपमाऽलङ्कारः, तथा श्रियः स्वकीयगौरकान्तिपरित्यागेन भगवतो नारायणस्य श्यामलगुणा-दानात् तद्गुणालङ्कारः अनयोरङ्गाङ्गिभावेन सङ्करः।
कुपितेति। कुपितः धैर्यभङ्ककरणेन क्रोधं प्राप्तो यो हरः शङ्करः तस्य हुताशनेन तृतीयलोचन-वह्निना दह्यमाना ज्वार्यमानो यो मदनः कामदेवस्तस्य धूमेन दहनकेतुना मलिनीकृतां मालिन्यमुपगतां रतिं कामपत्नीमिव विद्यमानाम्। इहोक्तविधधूमेन मलिनीकरणसम्बन्धाभावेऽपि तत्सम्बन्धकथनादति-शयोक्तिरलङ्कारः, उपमा च स्वयैवेत्यनयोर्मिथः सङ्गाङ्गिभावेन सङ्करालङ्कारः।
पुरा किल तारकासुरवधायोद्यता देवा ब्रह्माणं ययुः। 'पार्वत्यामुद्भूतः कार्तिकेयोऽस्य निहन्ता नान्य इति विवाहार्थं शिवः प्रसाधनीय' इत्युचुश्च, ततः श्रुत्वा तत्र कस्य साफल्यमवेक्षिति वितर्कयन्तो मदनं नियुञ्जवन्तः। देवगनापुरोधेन मदनोऽपि पार्वतीसमक्षं सम्मोहनास्त्रेन महेश्वरस्य धैर्यमपहरन् तदीयभाललोचनवह्निना दग्ध इति शिवपुराणकथा।
उन्मदेति। उन्मदस्य प्रबलाहङ्कारिणो हलिनो बलभद्रस्य हलेन लाङ्गलेन यदाकर्षणमाकृष्टिरस्त-स्माद् भयेन त्रासेन पलायितां विलयं गतां कालिन्दीं यमुनाम् इव विद्यमानाम्। उपमाऽलङ्कारः।
पुरा मद्यपानगर्वितो बलभद्रो जलक्रीडानिभित्तं यमुनामाहूतवान् यदा हि नागतवती तदा हलाग्रेण नामाचकर्ष सा च तदान्तर्हितेति श्रीमद्भागवतीया कथा।
अतिबहलेति। अतिबहलोऽतिप्रचुरो यः पिण्डालक्तजरसः पिण्डीभूताक्तकद्रवस्तस्य रागेण लौहि-त्येन पल्लविते अभिनवकिसलयवदाचरितवती पादपल्लवे चरणकमले यस्याः सा तां तादृशीम् अत एव अचिरसूदितस्य तत्कालावद्धिक्कण्टस्य महिषासुरस्य तन्नामकजगद्द्रोहणो राक्षसस्य रुधिरैण शोणितेन रक्तौ रक्तवर्णौ चरणौ पादौ यस्यास्तां कात्यायनीं दुर्गामिव विद्यमानाम्। इह रुधिररक्तपदयोरैयस्य
सम्पन्न प्रतीत हो रही थी। उसके ललाट पर गोरोचना का पीला टीका तीसरे नेत्र की शोभा दे रहा था जिससे वह ऐसी प्रतीत हो रही थी मानो भगवान् शंकर के किरात-वेश धारण करने के समय किरातों का वेश धारण करने वाली भगवती पार्वती हों, अथवा अपनेने हृदय में स्थित भगवान् नारायण के शरीर की श्यामल झलक से साँवली बनी हुई भगवती लक्ष्मी हों अथवा क्रुद्ध शंकर की नेत्रज्वाला में जलते हुए काम के धुएँ से काली पड़ी हुई सुन्दरी रति हो अथवा नशे में चूर भगवान् बलराम के हल से खींचे जाने के मद से भागी हुई कृष्णप्रिया कालिन्दी हों। अत्यन्त गाढ़े आल्ते से रंगी हुई नई कोंपलों के
१. ईशाचरशनानुचरित, ईशानुचरित, ईशानाचरितानुचरित।
२. दृदामदद्धां।
३. रक्तच।
४. हलाकर्षणभ्रन्तामिव।
५. दहूनाम्।
| ३२ | कादम्बरी— | [ कथामुखे- |
|---|
पादपङ्कजाम्, अचिर-मृदित-महिषासुर-रुधिर-रक्तचरणामिव कात्यायनीम्, अलोहिताङ्गुली-प्रभा-पाटलित-नख-मयूखाम् अतिकठिन-मणिकुट्टिम-स्पर्शमसहमानां क्षितितले पल्लवभङ्गानिव निधाय सञ्चरन्तीम्, आपिञ्जरेणोत्सर्पिणा नूपुरमणीनां प्रभाजालेन¹ रञ्जित-शरीरतया पावकेनेव भगवता रूपैक²-पक्षपातिना प्रजापतिमप्रमाणीकुर्वता जातिसंशोधनार्थ-मालिङ्गितदेहाम्, अनङ्ग-वारण-शिरो-नक्षत्रमालायमानेन रोमराजि-लतालवालकेन
श्रवणमात्रेणैव पुनरुक्तवदवभासिश्वाकारपदगत्वाच्च पुनरुक्तवदाभासोऽलङ्कारः, उपमा च अनयोरेकाश्रयानुप्रवेशरूपः सङ्करालङ्कारः।
पुरा किल ब्रह्मणो लब्धवरं महिषासुरं जगदुपपीडयन्तं भगवती दुर्गा स्वयमाविर्भूयासिना कर्त्त-यामासेति मार्कण्डेयपुराणान्तर्गतसप्तशतीकथा ।
आलोहितेति । आलोहिता अतिरक्तवर्णा या अङ्गुलयः करशाखाः तासां प्रभाभिः कान्तिभिः पाट-लिताः श्वेतरक्तीकृताः 'श्वेतरक्तस्तु पाटलः' इत्यमरः नखमयूखाः पुनर्नखरश्मयो यस्यास्ताम्, तथा अतिकठिनस्य अति-कर्कशस्य मणिकुट्टिमस्य मणिमयबद्धभुवः स्पर्शं संश्लेषम् असहमानाम् अक्षममाणाम् अतिमृदुलचरणत्वादिति भावः, अत एव क्षितितले पृथिवीतले पल्लवभङ्गान् किसलयखण्डान् 'पल्लवोऽस्त्री किसलयम्' इत्यमरः, निधायेव स्थापयित्वेव सञ्चरन्तीं गच्छन्तीम्, एवं सति पादव्यथा न भवेदित्या-शयः। इह निधायेवेति क्रियोत्प्रेक्षाणात्क्रियोत्प्रेक्षालङ्कारः तथा च तथाविधनखकिरणानामेव किसलय-खण्डसादृश्यप्रतीतिरिति ।
आपिञ्जरेणेति । आपिञ्जरेण ईषत्पीतरक्तेन 'पीतरक्तस्तु पिञ्जरः' इत्यभिधानचिन्तामणिः, उत्सर्पिणा ऊर्ध्वगयिना नूपुरमणीनां हंसकरत्नानां प्रभाजालेन कान्तिसमूहेन रञ्जितशरीरतया शोभितदेहतया हेतुना रूपैकपक्षपातिना केवलसौन्दर्यादरविधायिना, अत एव प्रजापतिं सृष्टिविधातारं ब्रह्माणम् अप्रमाणी-कुर्वता 'त्वमेवंविधां रूपवतीं निर्मायापि अस्पृश्याम् अन्त्यजजातिमेव कृतवान् तदहमेन शुद्धां करोमि' इत्यमनिधिकर्तृताकं विदधता, विधातुकृतस्यान्यथाकरणादहङ्कृतत्वाद्वित्याशयः, भगवता माहात्म्यवता पावकेन वह्निना जातिशोधनार्थम् अन्त्यजत्वेनास्पृश्यायास्तस्याः शुद्धतासम्पादनार्थमित्यर्थः, आलिङ्गित-देहाम् आश्लेषितशरीरामिव विद्यमानाम् अपवित्रं वस्तु वह्निना पवित्रं भवतीति धर्मशास्त्रे पेटीनसिवच-नम्—'सर्वमग्नो प्रत्तसं शुष्यते' इति ऊर्ध्वप्रसारी नूपुरमणीनां मयूखसमूहः सर्वतः शरीरपरिवेष्टनाद् वह्निरिव प्रतीयमान आसीदिति तात्पर्यम् । इह नूपुरमणिप्रभावह्नयोः परस्परमुपमानोपमेयभावः प्रतीयते इत्युपमा उत्प्रेक्षालङ्कारश्च स्फुट एव तथा चानयोरङ्गाङ्गिभावात्सङ्करालङ्कारः ।
अनङ्गेति । अनङ्गस्य कामस्य 'कन्दर्पो दर्पकोऽनङ्गः कामः' इत्यमरः, यो वारणो हस्ती तस्य शिरसि मूर्ध्नि या नक्षत्रमाला सप्तविंशतिसंख्यमुक्ताग्रथितमाला, तद्वदाचरताकामसम्बन्धितया कामोद्दीपकत्वा-दित्याशयः । 'सैष नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः रोमराजी नाभिम्रदेशाद् ऋजुभावेनो-र्ध्वगामिनी या लोमपंक्तिः 'वीच्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राज्यः' इत्यमरः सैव लतावल्ली तस्या आलवालं मूले जलदानाय आवापः स्वरूपजलाधार इति यावत् 'स्यादालवालमावालमावाप' इत्यमरः । तत्स्वरूपेण रसनादाम्ना कटिमेखलाबन्धनरज्ज्वा परिगतं समन्ताद् व्याप्तं जघनस्थलं कटिपुरो भागो यस्याः
समान लाल-लाल चरणकमलों के कारण वह तत्काल ही के मारे गए महिषासुर के रक्त में सने हुए चरणों वाली भगवती कात्यायनी के समान प्रतीत हो रही थी। अपनी लालिमा से नखों को गुलाबी रंग का बना देनेवाली उसके चरणों की अत्यन्त लाल-लाल उँगलियों के गच में प्रतिबिम्बित होती हुई ऐसी प्रतीत हो रही थीं मानो चरणों की सुकुमारता के कारण उस गच की कठोरता सहन न कर पाने से वह उस पर पल्लवों को बिछाती हुई चल रही हों। नूपुरों में जड़ी हुई मणियों की लाल-पीली किरणों ने उसके शरीर को चारों ओर से इस प्रकार लपेट लिया था मानों ब्रह्मा के विधान को मिटाकर उसके रूपमात्र पर लट्टू बने हुए अग्निदेव ने उसकी जाति को पवित्र करने के लिए उसके शरीर को अपने आलिंगन में बाँध लिया हो। उसकी कमर के अगले भाग में सत्ताईस मोतियों से गुथी हुई एकलड़ी करधनी ऐसी प्रतीत हो रही थी मानो वह कामदेव के
१. प्रभाजालेनानुरञ्जित··· ।
२. रूप एव पक्षपातिना ।
| चण्डालकन्यावर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता | ३३ |
|---|
नेत्रदाम्नां परिणद्धजघनस्थलाम्, अतिस्थूलमुक्ताफलघटितेन शुचिना हारेण गङ्गा- स्रोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम्, शरदभिव विकसित-पुण्डरीकलोचनाम्, प्रावृष- मिव घनकेशजालाम्, मलयमेखलामिव चन्दनपल्लवावतंसाम्, नक्षत्रमालामिव चित्र- श्रवणामरणभूषिताम्, श्रियमिव हस्तस्थित-कमलशोभाम्, मूर्च्छामिव मनोहारिणीम्, अरण्यभूमिमिव अप्सृत-रूपसम्पदाम्, दिव्ययोषितमिवाकुलीनाम्, निद्रामिव लोचनग्राहि-
सानां तादृशीम्, 'कक्ष्याः स्त्रीदे तु प्रवतं पुरम्' इत्यमरः। इह रोमलाति लताद्यारोपे रसनादाम्नि आलवालत्वारोपे निश्लिष्टमिति परम्परितरूपकमलङ्कारः स्वकृतोपमया सङ्कीर्णः।
कलिन्दीवेति। अतिस्थूलानि अतिबृहन्ति यानि मुक्ताफलानि मौक्तिकानि तैः घटितेन निष्पादितेन शुचिना श्वेतवर्णेन हारेण कण्ठघटितवेन 'चक्षुष्घटितो हारः' इत्यमरः, कालिन्दीशङ्कया चण्डालकन्यकायाः श्यामत्वात् यमुनाभ्रान्त्या गङ्गास्रोतसेव जाह्नवीप्रवाहेनेव, कृतः कण्ठग्रहो गलसंश्लेषः संनीपासङ्गम यस्यास्तां तादृशीम्। इह चण्डालकन्यायां तुल्यश्यामत्वेन कालिन्दीभ्रमाद् भ्रान्तिमानलंकारः, हारे गङ्गाप्रवाहोत्प्रेक्षणाद् द्वयोश्चेका चोनयोः परस्परमङ्गाङ्गिभावेन सङ्करात् सङ्करालङ्कारः।
शारदभिवेति। विकसिते विस्फारिते पुण्डरीके सिताम्भोजद्वयमिव 'पुण्डरीकं सिताम्भोजम्' इत्यमरः, लोचने नयने यस्यास्ताम्, अत एव शरदिव धनात्ययमिव तत्र पक्षे विकसितानि प्रस्फुटितानि पुण्डरीकानि लोचनानि चक्षूंषीव यस्यास्तां तादृशीम्।
प्रावृषमिति। प्रावृषं वर्षासमयमिव, घनाः सान्द्राः ये केशाः शिरोरुहास्तेषां जालानि समूहा यस्यास्ताम्, प्रावृट्पक्षे तु—घना मेघाः केशजालानि यस्यां ताम्।
मलयेति। मलयस्य तदाख्यपर्वतस्य मेखलां मध्यभागमिव, चन्दनस्य पल्लवाः किसलयानि तेषामवतंसा भूषणानि यस्यास्ताम्, पक्षे-चन्दनपल्लवास्त एव अवतंसः शेखरो यस्यास्ताम्।
नक्षत्रेति। नक्षत्रमालामिव तारकापङ्क्तिमिव, चित्रैर्विविधप्रकारैः श्रवणाभरणैः कर्णभूषणैः भूषितां शोभिताम्, पक्षे-चित्रश्रवणामरणीसंज्ञकैर्नक्षत्रविशेषैर्भूषिताम्।
श्रियमिति। श्रियं लक्ष्मीमिव हस्ते पाशितले स्थिता विद्यमाना कमलस्य पद्मस्य शोभा श्रीर्यस्याः सा ताम्, पक्षे-हस्ते करे स्थितं यत्कमलं पद्मं तेन शोभा यस्याः सा ताम्।
मूर्च्छामिति। मूर्च्छा मोहमिव, मनोहारिणीं सौन्दर्यातिशयने हृदयाकर्षिणीम्, पक्षे-चेतनालोपकरणेन मनोवृत्तिभ्रंशिनीम्।
अप्सृतेति। अरण्यभूमिं काननभुवमिव 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः, अप्सृतं केनाप्यसम्पृक्तं यद् रूपं लावण्यं तेन सम्पन्नां संयुक्ताम्, पक्षे-अक्षतरुभिः रुद्राक्षवृक्षैः यद्वा विभीतकवृक्षैः उपसम्पन्नां संयुक्ताम् 'रुद्राक्षे रावणो सर्पे विभीतकतरावापि' इति हेमः।
दिव्येति। दिव्या स्वर्गलोकसंबन्धिनी या योषित् स्त्री तामिव, अकुलीनाम् अन्यजवाञ्चीचकुलोत्प-
हाथी के मस्तक की नक्षत्रमाला हो अथवा नाभि से ऊपर की ओर फैली हुई रोमावली रूपी लता के चारों ओर घिरी हुई क्यारी हो। उसके गले में बड़े-बड़े मोतियों की माला इस प्रकार पड़ी हुई थी मानो उसे अमर-वश यमुना समझ कर गङ्गा ही उसके गले से लिपट गयी हो। उसकी बड़ी-बड़ी आँखें श्वेत कमलों के समान प्रफुल्लित थीं जिससे वह शरदऋतु के समान प्रतीत हो रही थी। वह घने काले बालों से घिरी हुई ऐसी प्रतीत होती थी मानो बादलों से घिरी हुई वर्षाऋतु हो। वह चन्दन के पल्लवों के आभूषणों से सजी हुई थी मानो चन्दनों के वनों से ढकी हुई मलयाचल की मेखला (मध्यभाग) हो। कानों में कई रंगों के जड़ाऊ कर्णफूल पहिनने के कारण वह चित्रा, श्रवण और भरणी से युक्त नक्षत्रों की माला के समान प्रतीत हो रही थी। उसके हाथों में कमल इस प्रकार उसकी शोभा बढ़ा रहा था मानो हाथों में नीला कमल लिए हुए स्वयम् लक्ष्मी ही उपस्थित हों। उसके रूप को देखकर दर्शकों का मन मूर्च्छित हो जाता था, जिससे वह मूर्तिमती मूर्च्छा के समान प्रतीत हो रही थी। वह उत्कृष्ट सौन्दर्य से भरोपूरी थी मानों वन की ऐसी भूमि हो जहाँ अभी तक कोई भी न पहुँच सका हो। जैसे देवकन्याएँ इस लोक के लिए अकुलीन (स्वर्गीय) होती हैं उसी प्रकार वह भी इस लोक के कुलीन
१. रसनादाम्ना परिगतजघननाम् !
२. शुचिहारेण।
३. मनोहराम्
४. क्वापि 'अप्सृत' पदं न विद्यन्ते। क्वचित् 'अन्यासद्वदूपशोभिरूपाम्' इति पाठो विद्यते।
५ का० कथा०
३४ | कादम्बरी- | [कथामुखे-
णीम्, अरण्यकमलिनीमिव मातङ्गकुलदूषिताम्, अमूर्त्तामिव स्पर्शवर्जिताम्, आलेख्यगतामिव दर्शनमात्रफलाम्, मधुमास-कुसुम-समृद्धिमिव अजातिम्^१, अनङ्ग-कुसुम-चापलेखामिव मुष्टिग्राह्यमध्याम्, यक्षाधिपलक्ष्मीमिवालकोद्भासिनीम्, अचिरोपारूढयौवनाम्, अतिशयरूपाकृतिम्, अनिमिष^३-लोचनो ददर्श। दृष्ट्वा चैं तां समुपाजात^५विस्मयस्याभून्मनसि
न्नाम्, पक्षे-कौ पृथिव्यां लीना स्थिता या भवति सा कुलीना एवंरूपा या न भवतीत्यकुलीना ताम्-पृथिवीतलस्पर्शविधायिनीमित्यर्थः। देवयोनीनां पृथिवीतले स्पर्शो न भवतीति पौराणिकाः।
निद्रामिति। निद्रां प्रमीलामिव, लोचनग्राहिणीं सौन्दर्यातिशयेन कामुकानां नेत्राकर्षिणीम्, पक्षे-अक्षिसंकोचविधानेन निमेषोन्मेषावरोधिनीम्।
०रण्येति। अरण्यकमलिनीं वनपद्मिनीमिव, मातङ्गकुलेन चण्डालान्वयेन तत्कुलोत्पन्नत्वेनेत्यर्थः दूषितां निन्दिताम्, पक्षे-मातङ्गकुलेन हस्तिसमूहेन दूषितां विमथिताम्। 'मातङ्गः श्वपचे गजे' इति मे०।
अमूर्त्तामिति। अमूर्त्तामशरीरिणीं तामिव, स्पर्शवर्जितां शरीरस्पर्शरहिताम्।
दिवाकीर्तिमुदक्याञ्च पतितं सूतिकां तथा। शवं तत्स्पृष्टिनञ्चैव स्पृष्ट्वा स्नानेन शुद्ध्यति॥
इति मनुवचनादन्त्यजस्पर्शे स्नानप्रतिपादनादित्याशयः पक्षे तु—स्पर्शोऽरत्नगिन्द्रियग्राह्यो गुणस्तेन वर्जितां शून्याम्। यस्य शरीरं न भवति तत् कथं स्पृश्यत, इयमपि नीचजातितया न स्पृश्या इत्याशयः।
आलेख्यगतामिति। आलेख्यगतां चित्रस्थितां पुत्रिकामिव दर्शनमात्रं चण्डालत्वेन सम्भोगाभावात् केवलावलोकनमेव फलं प्रयोजनं यस्यास्ताम्, पक्षे आकृत्यभावेन तत्संश्लेषाद्यसम्भवाद् दर्शनमात्रफलाम्।
मधुमासेति। मधुमासस्य वसन्तसमयस्य कुसुमसमृद्धिं पुष्पसम्पत्तिमिव, अजातिं न विद्यते जातिर्मन्वादिपरिगणितब्राह्मणवादिया या सा ताम्, तथा च-
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः। चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः॥
इति मनुनेोक्तत्वादन्यजादीनां जातिहीनत्वमेव प्रतीयते। पक्षे-न विद्यते जातिर्मलती, यस्यां सा ताम्। 'न स्याज्जाति वसन्ते' इत्यादिसाहित्यदर्पणदिशा वसन्ते मालतीपुष्पस्य वर्णनमप्रसिद्धम्। 'जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः' इति मेदिनी।
अनङ्गकुसुमेति। अनङ्गस्य कन्दर्पस्य 'कन्दर्पो दर्पकोऽनङ्ग' इत्यमरः, कुसुमचापस्य पुष्पधनुषो या लेखा लता तामिव, मुष्टिना संपीडिताङ्गुलिना 'सम्पीडिताङ्गुलिर्मुष्टिः' इति हलायुधः; ग्राह्यो ग्रहीतुं शक्यः मध्यः कटिदेशो मध्यदेशश्च यस्याः सा ताम्। अनेन कटिदेशस्यात्यन्तकार्श्यम् प्रत्याय्यते।
यक्षाधिपेति। यक्षाधिपस्य गुह्यकेश्वरस्य कुबेरस्येत्यर्थः, लक्ष्मीः सम्पत् तामिव, अलकैश्चूर्णकुन्तलैः उद्भासते शोभते इत्येवंशीला या सा ताम्, पक्षे-अलकायां तन्नामिकायां पुर्याम् उद्भासते या सा ताम्।
इह 'शारदमिव' इत्यारभ्य 'यक्षाधिपलक्ष्मीमिव' इत्यन्तं पूर्णोपमालंकारः। केचित्तु श्लेषोपमां प्रतिपादयन्ति।
अचिरेति। अचिरं शीघ्रम् उपारूढम् उपगतं यौवनं तारुण्यं यस्याः सा ताम्, सञ्जातयौवनामित्यर्थः। अतिशयरूपं लावण्यं यस्याः सा एवम्भूता आकृतिः स्वरूपं यस्याः सा ताम्।
अनिमिषेति। अनिमिषे निमेषोन्मेषवर्जिते लोचने नयने यस्यैवम्भूतो राजा ददर्श अवलोकयामास।
दृष्ट्वेति। दृष्ट्वा अवलोक्य च तां चण्डालकन्यकाम्, जातः उत्पन्नः विस्मयः आश्चर्यं यस्यैवम्भूतस्य
भोग के अयोग्य थी। वह नींद के समान आँखों को पकड़ लेनेवाली थी। जैसे जङ्गल में खिली हुई कमलिनी हाथियों के कुल से दूषित होती है उसी प्रकार भीलों के कुल में जन्म लेनेसे वह भी दूषित थी। वह अस्पृश्य थी मानों स्पर्श रहित निराकार की मूर्ति हो। उसे केवल देखा जा सकता था इसलिए मानों वह चित्र में लिखी हुई-सी प्रतीत हो रही थी। जैसे वसन्त ऋतु के फूलों की शोभा अजाति (चमेलीके फूलोंसे रहित) होती है उसी प्रकार वह भी अजाति (हीन जाति की) थी। उसकी कमर इतनी पतली थी कि काम के पुष्प-
^१. विजातिम्।
^२. उपास्द्^^।
^३. अनिमेष^^।
^४. कापि 'दृष्ट्वा च ताम्' इति पाठो नोपलभ्यते।
^५. जात^^***।
चण्डालकन्यावर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ३५
महीपतेः—“अहो ! विधातुरस्थाने रूप-निष्पादनप्रयत्नः¹। तथाहि⁴, यदि नामेयमात्मरूपोप-हसिताशेषरूपसम्पदुत्पादिता, किमर्थमपगत-स्पर्श-सम्भोग-सुखे कृतं कुले जन्म² । मन्ये च ³मातङ्ग-जाति-स्पर्श-दोष-भयादस्पृशतैयमुत्पादिता प्रजापतिना, अन्यथा कथमियमक्लिष्टता लावण्यस्य । नहिँ करतल-स्पर्श क्लेशितानामवयवानामीदृशी भवति कान्तिः । सर्वथा धिग्विधातारम्⁵ असदृशसंयोगकारिणम् । अतिमनोहराकृतिरपि⁶ क्रूरजातितया⁷ येनेयमसुरश्रीरिव सतत-निन्दित-सुरता रमणीयाऽप्युद्वेजयति’ इति ।
महीपतेः शूद्रकस्य राज्ञः, मनसि चित्ते ( एवं वृत्तिः ) अभूत् उत्पन्ना। तामेव मनोवृत्तिमुपपादयति— अहो ! इति । अहो ! इति वितर्के ‘आहो उताहो किमुत’ इत्यमरः । विधातुर्ब्रह्मणः अस्थाने अपात्रे सौन्दर्यस्य अद्भुतरूपस्य निष्पादने निर्माणे प्रयत्न प्रयासः । अथ स्पष्टीकरोति—तथाहीत्यादिना । नामेति मृदुलामन्त्रणे । यदि आत्मरूपेण स्वीयसौन्दर्येण उपहसिता न्यक्कृता अशेषा समग्र रूपसम्पद् सौन्दर्यसमृद्धिः यया सा तादृशी, इयं चण्डालकन्यका उत्पादिता निर्मिता, (तर्हि) किमर्थं किन्निमित्तम्, अपगते दूरीभूते स्पर्शसम्भोगसुखे संश्लेषसुरतसुखे यस्मात् एवम्भूते कुले अन्त्यजवंशे जन्म उत्पत्तिः कृतं विहितम् तथा च यथेयं सौन्दर्यराशिविधिना निर्मिता तथा उच्चकुले जन्मकरणमपि योग्यमासीद् यथेयं सुन्दरी स्पष्टमुपभोक्तुं च शक्येत ।
राजा एवं विमृश्य निश्चिनोति—मन्ये इति । अत्राहमित्यध्याहार्यः मातङ्गजातेः चण्डालगोत्रस्य ‘मातङ्ग श्वपचे गज’ इति मेदिनी ‘जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः’ इति विश्वः, ‘जातिः स्त्री गोत्रजन्मनोः’ इति मेदिनी च, स्पर्शेन संश्लेषेण (जनितः यः) दोषः अपवित्रता तस्माद् यद्भवं त्रासः तस्मात्, अस्पृश्यता अस्या देहस्पर्शमकुर्वता प्रजापतिना ब्रह्मणा, इयं चण्डालकन्यका, उत्पादिता मरीच्यादिसप्तर्षिवन्मनःसङ्कल्पमात्रेण निष्पादिता इति (अहं) मन्ये जाने इत्यर्थः। अन्यथा उक्तवैपरीत्ये स्पर्शयोग्यत्वे सतीति भावः, इयमेवम्भूता, लावण्यस्य सौन्दर्यस्य अक्लिष्टता अक्षतता कथं स्यात् ? कथमपि नेत्यर्थः । एतदेवोपपादयति—न हीत्यादिना । करतलस्पर्शक्लेशितानां पाणितलसंश्लेषमर्दितानाम् अवयवानां करादीनाम्, ईदृशी एवम्भूता, कान्तिः कमनीयता, न हि भवति न स्यात् ।
सर्वथेति । असदृशयोः व्यधिकरणत्वेन मिथो विरुद्धयोश्चण्डालत्वात्यन्तमनोहराकृत्योः संयोगम् एकत्र सम्बन्धं कर्तुं शीलं यस्य तं विधातारम् अस्या निर्माणकर्त्तारं ब्रह्माणं धिक् निन्दामि ‘धिक धिक’ इति पाठे, अत्यधिकं निन्दामीत्यर्थः, येन असदृशसम्बन्धविधानेन हेतुनां इयं चण्डालकन्यका मनोहरा चित्ताकर्षिणी आकृतिः स्वरूपं यस्याः सा एवम्भूताऽपि असुरश्रीरिव दैत्यलक्ष्मीव सतत निरन्तरं निन्दितं धर्मशास्त्रकृद्भिर्जुगुप्सितं सुरतसम्भोगो यस्यां सा, पक्षे—सततम् अजस्रं निन्दिता तिरस्कृता
धनुष की लचीली डण्डी के समान मुट्ठी में आने योग्य थी । वह अपनी अलकों से ऐसी शोभित हो रही थी मानो अलकापुरी के वैभव में निवास करनेवाली भगवान् कुबेर की राजलक्ष्मी हो ।
उसे देखकर राजा चकित हो उठा और मन ही मन विचार करने लगा—कितने आश्चर्य की बात है कि ऐसे अयोग्य स्थान में विधाता ने ऐसी रूप-रचना का आखिर इतना प्रयत्न किया ही क्यों ? और यदि अपनी सुन्दरता से सम्पूर्ण सौन्दर्य की खिल्ली उड़ानेवाली इस सौन्दर्य मूर्ति कन्या की रचना ही की तो इसे ऐसी जाति में क्यों उत्पन्न कर दिया कि यह सम्भोग की तो बात ही क्या छूने योग्य भी न रह गयी ।
मैं तो समझता हूँ कि चण्डाल-जाति के स्पर्श दोष से भयभीत होकर इसके निर्माण-काल में ही विधाता स्वयं इसके छूने में हिचक उठे और बिना हाथ लगाये ही इसकी रचना कर डाली । नहीं तो इसकी सुन्दरता कदापि इतनी अछूती न होती । हाथ के स्पर्श से दूषित अङ्गों में ऐसी निर्मल कान्ति कैसे सम्भव हो सकती है ! अर्थात् इसकी रचना में विधाता के हाथों की छाप तो है ही नहीं क्योंकि विधाता के हाथों की रचना इस प्रकार सर्वथा दोषमुक्त होती ही नहीं (विधि प्रपञ्च गुन अवगुन साना) अतः यह निश्चय ही उसकी मानसी सृष्टि है ।
१. सौन्दर्य...रूपनिष्पादनप्रयत्नः ।
२. अस्या जन्म ।
३. मनसोत्पादिता ।
४. तथाहि ।
५. धिग्विग् विधातारम् ।
६. मनोहरा... ।
७. क्रूरजातिता ।
३६ कादम्बरी— [ कथामुखे-
एवमादि चिन्तयन्तमेव राजानमीषदवगलित-कर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणाम ।
कृतप्रणामायाञ्च तस्यां मणिकुट्टिमोपविष्टायाम् , स पुरुषस्तं विहङ्गममादाय पञ्जर-गतमेव किञ्चिदुपसृत्य राज्ञे न्यवेदयदब्रवीच्च—
'देव ! विदितसकलशास्त्रार्थः, राजनीतिप्रयोगकुशलः, पुराणेतिहासकथालापनिपुणः, वेदिता गीतश्रुतीनाम्, काव्य-नाटकाख्यानक-प्रभृतीनामपरिमितानां सुभाषितानामध्येता
सुरता देवभावो यया सा, एवम्भूता रमणीयाऽपि सुरतयोग्याऽपि क्रूरजातितया नृशंसान्त्यजजातितया उद्वेजयति वैचित्त्यमुत्पादयति' इति 'महीपतेर्मनसि अभूत्' इति पूर्वेण सम्बन्धः । इह पूर्णोपमा ।
एवमिति । ईषत् अल्पम् अवगलितौ अधःप्रसृतौ कर्णयोः श्रोत्रयोः पल्लवावतंसौ किसलयभूषणे यस्याः सा, कन्यका चण्डालदारिका प्रगल्भवनितेव सम्प्रत्यप्राप्तयौवनत्वादप्रगल्भापि धृष्टनायिकेव तथा-विधराजसभायामपि त्रपाऽभावादित्याशयः । एवमादि पूर्वोक्तप्रकारादिकम् , चिन्तयन्तमेव विचारं कुर्वन्तमेव राजानं महीपतिं प्रणाम प्रणाममकरोत् ।
कृतेति । कृतो विहितः प्रणामो नमस्कारो यया सा तथा तस्याम्, मणिकुट्टिमं रत्नबद्धभूमिस्तत्र उपविष्टायां वर्त्तमानायां तस्यां चण्डालकन्यकायाम्, सः अग्रगामी पूर्वोक्तो धवलवासाः वृद्धः पुरुषः, पञ्जरगतमेव पञ्जरस्थमेव न तु ततः पृथक्कृत्वेत्यर्थः तं विहङ्गमं पक्षिणं शुकं कीरम् आदाय गृहीत्वा किञ्चिद्विनयेन ( पुरः ) उपसृत्य आगत्य राज्ञे भूपतये न्यवेदयत् उपहृतवान् अब्रवीत् अवादीच्चेत्यर्थः ।
देवेति । देव हे राजन् ! ‘राजा भट्टारको देवः' इत्यमरः, ‘विदितसकलशास्त्रार्थः’ इत्यादीनि प्रथ-मान्तानि शुकविशेषणान्यवगन्तव्यानि । तत्र विदितः ज्ञातः सकलशास्त्राणां षडङ्गसहितवेदानाम् अर्थोऽभिधेयो येन स, राजनीतिप्रयोगे कामन्दक्युक्तशिक्षायां कुशलो निपुणः, पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम्, तयोः कथायां वार्तायां य आलापः सम्यग्भाषणं तदर्थप्रतिपादकवाक्यनिर्माणं वा तत्र निपुणः प्रवीणः, गीतं गानं श्रुतयः स्वरारम्भकावयवीभूताः शब्दविशेषा द्वाविंशतिविधाः तासां वेदिता बोद्धा । श्रुतीनां द्वाविंशतिविधत्वे प्रमाणम्—
'सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकोनविंशतिः । ताना एकोनपञ्चाशद् द्व्यधिका विंशतिः श्रुतिः ॥'
इति ।
अन्यत्र तु—
'नान्दी चालनिका रसा च सुमुखी चित्रा विचित्रा घना, मातङ्गी, सरसामृता मधुकरी मैत्री शिवा माधवी । बाला शार्ङ्गरवी कला कलरवा माला विशाला जया, मात्रेति श्रुतयः पुराणकविभिर्द्वाविंशतिः कीर्त्तिता ॥' इति
काव्यम् अदोषत्वे सति गुणालङ्कारवत्कविकर्म, नाटकम् अभिनयः, आख्यायिका वासवदत्तादिः, आख्यानकं साम्प्रतिकराजवृत्तम्, एतत्प्रभृतीनां सामुद्रिकादीनाम्, ( तथा ) अपरिमितानाम् अगणितानाम्, सुभाषितानां शृङ्गारनीतिवैराग्यबोधकानाम् च अध्येता पाठकः कर्त्ता स्वयमेव निर्माता च । परि-
इतनी बेमेल वस्तुओं को एक में मिला रखनेवाले विधाता को धिक्कार है ! चाण्डाल-कुल में उत्पन्न होने के कारण सम्भोग के सर्वथा अयोग्य यह सौन्दर्य प्रतिमा मनोहर और रमणीय होने पर भी मन को आकुलता ही प्रदान कर रही है मानो निरन्तर देव वृत्तियों की निन्दा करनेवाली मनोहर रमणीय दैत्य-लक्ष्मी हो ।
राजा अभी अपने विचारों में तल्लीन ही था कि उस कन्या ने बिना किसी हिचक के धृष्ट स्त्री के समान झुक कर उसे प्रणाम किया । उस समय उसके कानों में पल्लवों के आभूषण भी कुछ-कुछ झुक गए ।
जब वह प्रणाम करके मणियों की फर्श पर बैठ गयी तो उसके साथ के उस वृद्ध पुरुष ने पिंजड़े के उस पक्षी को लेकर और कुछ आगे बढ़ कर राजा से निवेदन किया—
राजन् ! यह अत्यन्त अद्भुत सुग्गा है । इसका नाम वैशम्पायन है । यह सभी शास्त्रों के मर्म का ज्ञाता है, राजनीति के प्रयोगों में अति कुशल है, पुराण और इतिहास की कथाओं को सुनाने में बड़ा ही निपुण है, सङ्गीत की श्रुतियों का भी इसे ज्ञान है, अनेक काव्यों, नाटकों और आख्यानों की असंख्य सूक्तियाँ इसे कण्ठ
१. विहङ्गमादाय, विहङ्गमं शुकमादाय ।
२. गतं किञ्चित् ।
३. नाटकाख्यायिकाख्यानक*** ।
| शुकवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ३७ |
|---|
स्वयञ्च कर्त्ता, परिहासालापपेशलः, वीणा-वेणु¹-मुरजप्रभृतीनां वाद्यविशेषाणामसमः श्रोता, नृत्य²प्रयोगदर्शननिपुणः, चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, प्रणयकलह³-कुपित⁴-कामिनी-प्रसादनोपायचतुरः, गज-तुरग-पुरुष-स्त्री-लक्षणाभिज्ञः, सकलभूतल-रत्नभूतोऽयं वैशम्पायनो नाम शुकः । सर्वरत्नानाञ्च⁵ उदधिरिव देवो भाजनमिति⁶ कृत्वैनमादायास्मत्स्वामि-दुहिता देवपादमूलमायाता, तदयमात्मीयः क्रियतामित्युक्त्वा नरपतेः पुरो निधाय पञ्जर-मसावपससार⁷।
अपसृते च तस्मिन्⁸ स विहङ्गराजो राजाभिमुखो भूत्वा समुन्नमय्य⁹ दक्षिणं चरणमतिस्पष्ट-वर्ण¹⁰-स्वर-संस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यार्यामिमां पपाठ—
हासोऽन्येषां प्रियवचनैर्हसनं तस्य आलापेषु रसबोधकपदप्रयोगेषु पेशलः दक्षः । वीणा, वेणुः सुषिरम्, मुरजम् आनद्धम्, आदिपदाद्वादनं कांस्यतालादि परामृश्यते, एतेषाम् असमः निरुपमः अद्वितीय इत्यर्थः, श्रोता आकर्णनेन तारतम्यगुणदोषविवेक इत्यर्थः, नृत्तं ताललयाश्रितं तस्य प्रयोगदर्शने प्रयुज्यमानस्य नृत्यस्यावलोकने निपुणः पेशलः अवलोकनेनोत्कृष्टापकृष्टनिर्वाचक इत्यर्थः ।
चित्रकर्मणि आलेख्यकलायां प्रवीणो निपुणः द्यूतव्यापारे दुरोदरव्यापारे प्रगल्भः कुशलः प्रतिभा-युत इत्यर्थः । प्रणयकलहेन स्नेहविषयविवादेन कुपितानां क्रोधं प्राप्तानां कामिनीनां प्रमदानां प्रसादनो-पायेषु सान्त्वनानिमित्तभूतप्रपञ्चे चतुरोऽभिज्ञः । गजा भद्रजातीयाः तुरगाः शालिहोत्रप्रतिपादितदेव-मण्यादयः, पुरुषा धीरोदात्तादयः स्त्रियः पद्मिन्यादयः तासां लक्षणेषु सामुद्रिकोक्तेषु अभिज्ञो निपुणः। सकलभूतले समस्तपृथिवीतले रत्नभूतः अयुत्कृष्टमणिः । अयं पुरोऽवलोक्यमानः वैशम्पायनो नाम वैश-म्पायनेतिसंज्ञकः शुकः कीरः सर्वरत्नानां सर्वोत्कृष्टवस्तूनाम् उदधिः सागर इव देवो भवान् भाजनमाग्रयः इति कृत्वा एतन्मनसि विचार्य, अस्मत्स्वामिनो वद्यप्रभागरय पत्युः दुहिता एषा कन्यका एनं शुकम् आदाय गृहीत्वा देवपादमूलं भवच्चरणान्तिकम् आयाता आगता, तत् तस्मात् कारणात् अयं शुकः आत्मीयो ग्रहणेन स्वीयः क्रियतां विधीयताम् इति पूर्वोक्तम् उक्त्वा अभिधाय नरपतेः राज्ञः ( शूद्रकस्य ) पुरः अग्रे निधाय स्थापयित्वा पञ्जरं पञ्जरग्रहणस्थानम्, असौ पुरुषः अपससार दूरीभूतवान् ।
अपसृत इति । तस्मिन् पुरुषे अपसृते दूरीभूते सति स पूर्वप्रतिपादितो विहङ्गराजः राज्ञः शूद्रकनृपतेः अभिमुखः सम्मुखो भूत्वा, दक्षिणम् सव्येतरं चरणं पादम् उन्नमय्य उत्तोल्य । दृश्यते हि लोके ब्राह्मणा आशीर्वादप्रदाने दक्षिणहस्तोत्तोलनं कुर्वन्ति पूर्वमयञ्च पुण्डरीकनामा ब्राह्मण आसीदिति तत्संस्कारानुसा-रेण जयशब्दोच्चारणे दक्षिणचरणोत्तोलनं कृतवान् चरणपदोपादानन्तु एकत्रैव करचरणोभयरूपत्वं पक्षिणा-मिति नासङ्गतिः । अतिस्पष्टाः सुव्यक्ताः, वर्णा अकारादि, स्वरा उदात्तादयः तेषां संस्कारः परिपाकः व्याक-रणशुद्धिरिति यावत्, यस्यां सा तथा तया । एतेनान्यशुकाद्यपेक्षयाऽस्य वैलक्षण्यं प्रदर्शितम्, एवम्भूतया गिरा वाचा राजानमुद्दिश्य नृपं निमित्तीकृत्य कृतजयशब्दः विहित 'जय' इति शब्दः इमाम् अग्रे प्रति-
हैं और यह उनकी रचना में भी प्रवीण है । यह कुशल विदूषक भी है, वीणा, वेणु और मुरज इत्यादि बाजों के सुनने का रसिक और नृत्य-प्रयोगों के देखने में अत्यन्त चाव रखने वाला भी है। यह चित्र भी बनाना जानता है और द्यूत खेलने में तो पटु ही है । प्रेम-व्यापार में रूठी हुई मानिनियों को मनाकर प्रसन्न कर देने के उपायों का ऐसा पण्डित तो मिलना ही कठिन है। कहाँ तक इसकी विशेषतायें निवेदन करूँ यह हाथी, घोड़ों, पुरुषों और स्त्रियों के लक्षणों का भी अद्भुत पारखी है। सचमुच यह पृथ्वी का एक विशिष्ट रत्न है और श्रीमान् ही समुद्र के समान सभी रत्नों के संग्रह करने वाले एकमात्र उचित स्थान हैं इसलिये मेरे स्वामी की यह पुत्री इसे लेकर आपके चरणों में आयी है । इसे अपनाने की कृपा करें।' यह कहकर उसने पिञ्जड़ा राजा के सामने रख दिया और स्वयं हट गया ।
उसके हट जाने पर उस पक्षिराज ने अपना मुख राजा की ओर कर लिया, दाहिने पैर को उठा लिया, अत्यन्त स्पष्ट वर्गों और स्वरों में सुलझी हुई वाणी से 'जय' शब्द का उच्चारण किया और राजा को लक्ष्य करके यह आर्या छन्द सुनाया-
१. मुरजादीनाम् । २. नृत्त । ३. प्रणयकुपित । ४. कामिनोजन । ५. सर्वरत्नानाममुदधिरिव ६. भाजनमद्यः । ७. पञ्जरमपससार । ८. तस्मिन् विहङ्गमराजः । ९. उन्नम्य । १०. वर्णसंस्कारया
३८ कादम्बरी— [कथामुखे-
'स्तनयुगमश्रुस्नातं समीपतरवर्त्ति हृदयशोकाग्नेः। चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम्॥'
राजा तु तां$^१$ श्रुत्वा संजात$^२$-विस्मयः सहर्षमासन्नवर्त्तिनम् अतिमहार्घहेमासनोपविष्टम् अमरगुरुमिवाशेषनीतिशास्त्रपारगम् अतिवयसमग्रजन्मानमखिलमन्त्रिमण्डलप्रधानममात्यं कुमारपालितनामानमब्रवीत्—
'श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता! प्रथमं तावदिदमेव महदाश्चर्यम्, यदयमसङ्कीर्णवर्णप्रविभागमभिव्यक्तमात्रानुस्वार-स्वर$^८$-संस्कार-
पादगानाम्, वार्याम् वार्यालंकृच्छन्दोबद्धं वाक्यम्, पपाठ पठितवान्। स्तनेति। अश्रुभिर्लोचनजलैः स्नातं कृतस्नानम्, हृदये चित्ते स्वपतिवियोगजनितः शोक एव वह्निर्वाः तस्य, समीपवर्ति अत्यन्तः सन्निहितत्याचितया विगतः पतिविनाशाद् दूरं गतः मुक्ताहारो मौक्तिकमाला यस्मात्तद् भवतस्तव रिपुस्त्रीणां शत्रुवनितानां स्तनयुगं कुचयुग्मं व्रतं नियमं चरतीव अनुतिष्ठतीव । अन्योऽपि यो व्रती स कालत्रये स्नाति होमाग्निसमीपस्थायी भवति शास्त्रविहितमुपवासञ्च करोति। अत्र विमुक्ताहारमिति समश्लेषः। हृदयशोकाग्नेरिति निरङ्गं केवलरूपकम्, तया वाच्याभिनाननी क्रियोत्प्रेक्षा चेति समुदिते संसृष्टिरलङ्कारः। आर्या चात्र छन्दः।
राजेति। राजा तु नृपोऽपि तामार्यां गाथां श्रुत्वा निशम्य सञ्जातः समुत्पन्नो विस्मयः साश्चर्यं यस्य सः, सहर्षं सानन्दं यथा स्यात्तथा आसन्नवर्तिनं निकटस्थायि, अतिमहार्घम् अतिबहुमूल्यं यद् हेमासनं सुवर्णपीठं तत्र उपविष्टं वर्त्तिनम् अमरगुरुर्बृहस्पतिस्तमिव अशेषामि समस्तानि यानि नीतिशास्त्राणि संसारिकृत्यबोधकानि तन्त्राणि तेषां पारगं तत्वज्ञातारम्। अत्यधिकं वयः अवस्था तन्, वृद्धमित्यर्थः, अग्रजन्मानं ब्राह्मणम्, सर्ववर्णेषु प्रथमो ब्राह्मणः। अखिलमन्त्रिमण्डले समस्तसचिवसमुदाये प्रधानं मुख्यम् 'कुमारपालित' इति नाम यस्यैवम्भूतम् अमात्यं सचिवम् अब्रवीत् अवोचत्।
श्रुतेति। भवद्भिर्युष्माभिः अस्य पुरो वर्त्तमानस्य विहङ्गमस्य शुकस्य वर्णोच्चारणे कादिव्यक्त्यतायां स्पष्टता स्फुटता श्रुता आकर्णिता किमिति काका व्यज्यते, तथा च श्रुता किमित्यर्थः। तथा च पुनः स्वरे उदात्तादिस्वरविषये मधुरता माधुर्यम्। प्रथमं पूर्वं तावद् इदमेव प्रत्यक्षगतमेव महदाश्चर्यम् अतिकौतूहलम्- यदयं शुकः असङ्कीर्णः मिथो वैलक्षण्येन श्रूयमाणो वर्णप्रविभागः अक्षरपार्थक्यं यस्यां सा ताम् अभिव्यक्तः स्फुटमवगम्यमानः, मात्रा ह्रस्व-दीर्घ-प्लुतस्वरूपाः अनुस्वारा अनुनासिकाः, संस्कारो व्याकरणशुद्धिथ एतेषां योगः सम्बन्धो यस्यां सा तान्। विशेपेण श्लेषाद्यलङ्कारेण संयुक्तां सहिताम्। अतिपरिस्फुटानि अत्यन्त- स्पष्टानि अक्षराणि वर्णा यस्यां ताम्, गिरं वाणीम् उदीरयति। यद्यपि 'असङ्कीर्णप्रविभागम्' 'अतिस्फुटा-क्षरम्' इत्यनर्थान्तरमिवाभाति तथापि पूर्वेण तालव्यशकारदन्त्यसकारादीनामुच्चारणभेद उच्यते उत्तरेण तु सर्वविद्याक्षराणामेव स्फुटीच्चारणमुच्यत इति स्पष्टं भेदः।
"आपकी शत्रु-स्त्रियों के स्तनों के जोड़े निरन्तर आँसुओं में स्नान करते हुये हृदय की शोकाग्नि के पास स्थित होकर हाररूपी आहार का परित्याग करके किसी साधना में लगे हुये से प्रतीत होते हैं।"
राजा इस छन्द को सुनकर आश्चर्यपूर्ण आनन्द में मग्न हो उठा और उसने पास ही में अत्यन्त बहुमूल्य सोने के आसन पर बैठे हुए देवगुरु बृहस्पति के समान समस्त नीति-शास्त्रों में दक्ष, वृद्ध ब्राह्मण प्रधानामात्य कुमारपालित से कहा—
आपने इस पक्षी के उच्चारण में वर्णों की स्पष्टता और स्वरों की मधुरता सुनी ? पहले तो यही महान् आश्चर्य है कि यह अपने कण्ठ से अलग-अलग व्यक्त होने वाले वर्णों, मात्राओं और अनुस्वारों से मधुर स्वरों से सुलझी हुई व्याकरणसिद्ध तथा अलङ्कारादि विशेष गुणों से भरी-पूरी अत्यन्त स्पष्ट वाणी का उच्चारण कर रहा है। उस पर यह और भी आश्चर्य की बात है कि पक्षी होने पर भी इसके कृत कार्यों में शिष्ट
१. तामाय्यां श्रुत्वा। २. जात...। ३. महार्हासनोपविष्टम्, अतिमहार्घहेमासनोपविष्टम्। ४. ०ति-पारंगमवयसम्। ५. अखिलमन्त्रिमण्डले प्रधानम्। ६. महत्तरमाश्चर्यम्, महाश्चर्यम्। ७. ०मसङ्कीर्णं०। ८. ...स्वरसंयोगविशेषयुक्ताम्, स्वरसंयोगान्।
| शुकवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता ! | ३६ |
|---|
योगां विशेषयुक्ताम् अतिपरिस्फुटाक्षरां गिरमुदीरयति । तत्र पुनरपरम् अभिमतविषये तिरश्चोऽपि मनुष्यस्येव संस्कारवती बुद्धिपूर्वा प्रवृत्तिः । तथाहि-अनेने समुत्क्षिप्तदक्षिणचरणे-नोच्चार्य जयशब्दमियमार्या मामुद्दिश्य परिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहार-मैथुन-निद्रा-संज्ञामात्र-वेदिनो भवन्ति । इदन्तु महच्चित्रम्।'
इत्युक्तवति भूपतौ कुमारपालितः किञ्चित्स्मितवदनो नृपमवादीत्—'देव! किमत्र चित्रम् । एते हि शुकशारिकाप्रभृतयो विहङ्ग-विशेषा यथाश्रुतां वाचमुच्चारयन्तीत्यधि-गतमेव देवेन । तत्राप्यन्यजन्मोपात्त-संस्कारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् । अन्यच्चै, एतेषामपि पुरा पुरुषाणामिवातिपरिस्फुटाक्षरा
तत्रेति । तत्र उच्चारणविषये पुनः अपरमन्यदाश्चर्यमित्यर्थः । किं तदित्युपपादयति—अभिमतति । अभिमतविषये उपादेयेऽर्थे तिरश्चोऽपि निर्यग्जातेः पक्षिणोऽपि मनुष्यस्येव मानवस्येव संस्कारवती तत्त-दर्थविषयानुभवजन्यः संस्कारस्तद्वती बुद्धिपूर्वा बुद्धिपूर्विका प्रवृत्तिः कथनप्रवर्तनम् । एवं कथं ज्ञात-मित्युपपादयति । तथाहत्यादिना । समुत्क्षिप्त उत्थापितः दक्षिणचरणः सव्येतरपादो येन स तेन अनेन शुकेन जयशब्दं जयजयेति पदम् उच्चार्य अभिधाय इयं पूर्वप्रतिपादिनायां मामुद्दिश्य मामभिलक्ष्य परिस्फुटानि स्पष्टानि अक्षराणि वर्णा यत्र तद्यथा स्यात्तथेति क्रियाविशेषणम् गीता उच्चारिता । एवञ्च आशीर्वादसमये दक्षिणहस्तोत्तोलनं ब्राह्मणाः कुर्वते तथैवायमपि प्राक्तनवासनावशेन जयशब्दाभिधान-काले दक्षिणापादमुत्थापितवान्, तया नृपतेः पूर्वं स्तुतिरेवार्याच्छन्दसामिहितमिति सैषा बुद्धिपूर्वा प्रवृत्ति-रित्यतः परं किमाश्चर्यमित्याशयः । प्रायेनेति । प्रायेण बाहुल्येन पक्षिणः खगाः पशवो मृगाद्याः भयम् अनिष्टकारणबोध आहारो भोजनं क्षुन्निवृत्त्युपाय इति यावत्, मैथुनं स्त्रीसम्भोगः, निद्रा बाह्येन्द्रियशमः संज्ञा लोकव्यवहारजनकसङ्केतः नाम वा एतन्मात्रवेदिनो भवन्ति एतत्वेवलमेवावबुद्ध्यन्ते नातिरिक्तम्, इदन्तु तद्विलक्षणाज्ञातृत्वं महच्चित्रम् अश्याश्चर्यम् ।
इत्युक्तेति । इत्युक्तवति इति कथितवति भूपतौ नृपे कुमारपालितः एतन्नामकः पूर्वोक्तसचिवः किञ्चित्स्मितवदनः ईषद्वस्यमुखः अवादीत् अवोचत् । आश्चर्यशङ्कां निराकरोति—किमत्रेति । अत्र अस्मि-न्विषये किं चित्रमाश्चर्यम्, हि यतः एते शुकाः कीरपदवाच्या विख्याताः सारिका पीतचरणा एतत्प्रभृतय एतदाद्याः विहङ्गविशेषाः पक्षिविशेषा यथाश्रुताम् अर्थप्रतीतिरहितां वाचं वाणीम् उच्चारयन्ति उद्गिरन्ति इति पूर्वोक्तं देवेन स्वामिना अधिगतमेव ज्ञातमेव । तत्रापि पूर्ववक्तव्यतायाम् अन्यजन्मनि जन्मान्तरे उपात्तस्य गृहीतस्य संस्कारस्य वासनाया अनुबन्धेन अस्मिन् जन्मनि अनुवृत्त्या वा अथवा पुरुष प्रयत्नेन परिपालकजनपाठनाद्युद्योगेन वा संस्कारे शुकादीनां वासनायाम् अतिशयेन दार्थ्यम् उपजायते
मनुष्यके समान बुद्धि-पूर्ण व्यवहार की प्रवृत्ति भी है। क्योंकि अभी इसने दाहिना पैर उठाकर जय-शब्द का उच्चारण किया है और मुझे लक्ष्य करके इस आर्या छन्द का स्पष्ट अक्षरों में गान भी किया है। पशु और पक्षी प्रायः भय, आहार, निद्रा और मैथुन नाम की मूल वृत्तियों के विषय मात्र का ही ज्ञान रखते हैं, उन्हें इनके अति-रिक्त अन्य किसी भी वस्तु का ज्ञान नहीं होता किन्तु इसे तो लोक के शिष्ट-व्यवहार का भी ज्ञान है। यह तो महान् आश्चर्य की बात है।
राजा के इस प्रकार कहने पर कुमारपालित ने कुछ मुस्कराते हुए कहा—देव ! इसमें आश्चर्य ही क्या है। यह तो श्रीमन् को ज्ञात ही है कि पक्षियों में तोता-मैना आदि बहुत से ऐसे विशेष पक्षी हैं जो सुनी हुई बातों को ठीक ठीक वैसे ही कह भी देते हैं। पूर्वजन्म के प्राप्त संस्कारों के प्रभाव अथवा इस जन्म में किसी व्यक्ति के उद्योग से यदि उनमें और भी विशेष संस्कार आ जायें तो इसमें कोई विशेष आश्चर्य की बात नहीं। इसके अतिरिक्त ऐसे भी प्रमाण मिलते हैं कि अत्यन्त प्राचीन काल में मनुष्यों के समान ही इन
१. 'पदयमपि' 'पदयमति परिस्फुटम् ।
२. पुनरपीदम् ।
३. संस्कारवतः ।
४. वाक्प्रवृत्तिः ।
५. एतेन ।
६. स्फुटाक्षरम्, परिस्फुटाक्षरान् ।
७. 'निद्रामात्र, इत्येव पाठः क्वचि विद्यते ।
८. वदनोऽवादीत् ।
९. 'देव, इति क्वचिन्नास्ति ।
१०. विहङ्गा ।
११. यथाश्रुतं ।
१२. तत्राप्यन्यस्मिन्जन्मनि ।
१३. अन्यत् ।
१४. अतिपरिस्फुटाभिधाना ।
| ४० | कादम्बरी- | [कथामुखे- |
|---|
वागासीत्, अग्निशापात्त्वस्फुटालावता शुकानामुपजाता, करिणाञ्च जिह्वापरिवृत्तिः ।' इत्येवमुच्चारयत्येव तस्मिन्नशिशिरकिरणमम्बरतलस्य मध्यमारूढमावेदयन्, नाडिकाच्छेद-प्रहत-पटु-पटह-नादानुसारी मध्याह्न-शंखध्वनिरुदतिष्ठत् । तमाकर्ण्य च समा- सन्नस्नानसमयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ । अथ चलति महीपतावन्धोन्यमतिरभस-सञ्चलन-चालिताङ्गद-पत्रभङ्ग-मकरकोटि-
त्पद्यते ताभ्यां कारणाभ्यां वाग्व्यापारयुक्ता जायन्त इत्याशयः । इति हेतोः नातिचित्रकम् अस्यैवंविधो- च्चारणं नातीवाश्चर्यम् अन्यच्च हेत्वन्तरञ्चास्ति एतेषामपि शुकादीनां पुरा पूर्वं पुरुषाणां परिपालकजनाना- मिव अतिपरिस्फुटानि अत्यन्तस्पष्टानि अभिधानानि नामानि यस्यामेवम्भूता वाग् वचनम् आसीद्, तु किन्तु अग्निशापात् अस्फुटः अस्पष्ट आलापो वाक्यं यत्र तस्य भावः तत्ता, शुकानाम् उपजाता । करिणां गजानां च जिह्वाया रसनायाः परिवृत्तिः वैपरीत्येनावस्थितिः उपजायेति सम्बन्धः । भाग्यवशादयं शुकस्तच्छापमतिक्रम्य स्पष्टाक्षरमुच्चारयतीति नाश्चर्यमित्याशयः।
पुरा तारकासुरपीडिताः सुराः प्रजापतिशरणं प्राप्ता प्राजापतिस्तु 'अग्नेः पुत्रः कार्तिकेयो भविता स एव तमसुरं नाशयिष्यति अतोऽग्निं मार्गयित्वा तत्पुत्रं प्रार्थयन्तु' इत्युवाच । 'अग्निं गवेषयन्तः सुराः क्वापि तमलभमानाः महान्तं हस्तिनमेकमवलोक्य क्वाग्निर्विद्यत इति पप्रच्छुः । स च गजः 'अश्वत्थवृक्षे- न्तर्हितोऽग्नि' रित्युक्तवान् । अथाग्निस्ततो निर्गत्य 'तव जिह्वापरिवृत्तिर्भवतु' इति शप्त्वा पुनः शमीगर्भे प्रच्छन्नः, तदा च सुरैः पृष्टः शुकः 'शमीमध्येऽन्तर्हितोऽग्नि' रित्युवाच । ततस्ततोऽप्यग्निंर्निष्क्रम्य 'त्वं वाग्विहीनो भव' इति तं शशाप इति भारतीया कथाऽवगन्तव्या ।
इत्येवमिति । तस्मिन् प्रधानामात्ये कुमारपालिते एवं पूर्वोक्तप्रकारेण उच्चारयत्येव भाषयत्येव अशिशिराणि उष्णानि किरणानि रश्मयो यस्य तं सूर्यमित्यर्थः, अम्बरतलस्य आकाशस्य मध्यं मध्य- भागम् आरूढं प्राप्तम् आवेदयन् संसूचयन्, तथा नाडिका सभाभङ्गघटिका तस्याः छेदे समाप्तौ तत्समय इत्यर्थः, प्रहतः करतलादिना ताडितः यो विविधयन्त्रादिरित्यर्थः, यः पटुर्महान् पटहो दुन्दुभिस्तस्य नादः शब्दस्तमनुसर्तुमनुगन्तुं शीलमस्येति सः, मध्याह्नशङ्खध्वनिः मध्याह्नद्योतकजलशब्दः उदतिष्ठत् उत्पन्नोऽभूत् । तं ध्वनिम् आकर्ण्य निशम्य, समासन्नः समीपवर्ती स्नानसमयः आप्लवनकालः यस्य सः, विसर्जितः निवर्तितः राजलोकः परिजनजनो येन सः, क्षितिपतिः शूद्रकः आस्थानमण्डपात् सभास्था- नात् उत्तस्थौ उत्थितवान् ।
अथेति । अथ उत्थानानन्तरं महीपतौ राजनि शूद्रके चलति सभाभवनात्प्रस्थातुमारभमाणे सति उत्तिष्ठताम् उत्थानं विदधतां महीपतीनां सामन्तनृपाणाम् अन्योऽन्यं परस्परम् अतिमहान् अतिबहुः सम्भ्रमः सम्मर्द आसीदिति सम्बन्धः । अत्र यानि षष्ठयन्तपदानि तानि महीपतिविशेषणानि । अतिरभ- सेन अतिवेगेन यत् सञ्चलनं तेन प्रस्थानं तेन चलितानां स्वस्थानात्प्रच्युतानाम् अङ्गदानां केयूराणां पत्र- भङ्गानां भूषणविशेषाणां मकराणां मकराकृतिकर्णभूषणानां कोटिभिः अग्रप्रदेशैः पाटिताश्छिन्ना अनेकपटाः
पशु-पक्षियों में भी वर्णों का अत्यन्त स्पष्ट उच्चारण करनेवाली वाणी विद्यमान थी । इन तोतों की वाणी से वर्णों के उच्चारण की स्पष्टता तो अग्निदेव के शाप से नष्ट हुई और हाथियों की जीभ उलट कर कण्ठ की ओर घूम गयी है ।
अभी कुमारपालित की बात चल रही थी कि मध्याकाश में तपते हुए सूर्यदेव के आ पहुँचने की सूचना देते हुए घड़ी की समाप्ति पर बजनेवाले नगाड़ों की ध्वनि के साथ ही दोपहर का शङ्ख बज उठा । उसे सुनकर स्नान की बेला अति निकट जान सभी सामन्त राजाओं को विदा करके राजा स्वयं सभामण्डप से उठ पड़ा ।
इसके पश्चात् राजा के वहाँ से चलते ही अपने-अपने आसनों से उठ खड़े होनेवाले सामन्त राजाओं में खलबली सी मच गयी । अत्यन्त झटके से चलने के कारण उन राजाओं के केयूरों ( बाजूबन्दों ) में बनी हुई मछलियों की नोकों से बहुतों के कपड़े फट गए, आपस की धक्का-मुक्की से उनके गलों के हार झूलने से लगे,
१. अग्निशापादपरि... । २. शारिकापाञ्च । ३. मध्यमध्यारुरुढ । ४. चासन्न ।