भारतकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

३३६ सटीके कामसूत्रे [ ७ अधिकरणे,

प्रियालबीजानामिति । अस्थ्यपनीय गृहीतानामित्येको योगः, मोरटाविदार्योरिति द्वितीयः, तत्र, मोरटा = इक्षुमूलम् ॥ ३९ ॥

शृङ्गाटककसेरुकामधूलिकानि क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दाग्निनाोत्कारिकां पक्त्वा यावदर्थं भक्षितवाननन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥ ४० ॥

शृङ्गाटकः प्रसिद्धः, तस्य सर्वं ग्राह्यं, कशेरुका प्रतीता, क्व च मल्लिकासंज्ञया ग्राह्या, मधूलिका मधुकफलत्वाद् मधुकं = यष्टीमधु, क्षीरकाकोली वणिग्द्रव्यं, पिष्टा समांशानि, उत्कारिका = अपूपिका, यावदर्थमिति । यावत्तृप्ति भक्षितवान्, अनन्ता इति । बह्वीः ॥ ४० ॥

माषकमालिनीं पयसा धौतामुष्णेन घृतेन मृदूकृत्योद्धृतां वृद्धवत्सायाः गोः पयःसिद्धं पायसं मधुसर्पिर्भ्यामशित्वाऽनन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥ ४१ ॥

माषकमालिनीं माषद्विदलिकां, पयसा धौतामिति । जलेन निस्तुषीकृत्य संशोध्य च धौतां, वृद्धवत्साया इति । वर्करिकायाः, अशित्वेति । शीतीभूतं मधुसर्पिभ्यां विषमाभ्यां सहेत्यर्थः ॥ ४१ ॥

विदारी स्वयंगुप्ता शर्करा मधुसर्पिर्भ्यां गोधूमचूर्णेन पालिकां कृत्वा यावदर्थं भक्षितवाननन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥ ४२ ॥

गोधूमचूर्णेनेति । कणिक्यया ॥ ४२ ॥

चटकाण्डरसभावितैस्तण्डुलैः पायसं सिद्धं मधुसर्पिर्भ्यां प्लावितं यावदर्थमिति समानं पूर्वेण ॥ ४३ ॥

चटकेति । ग्राम्यपक्षिणोऽण्डानां रसे भावितैस्तण्डुलैः संपादितं पायसं मधुघृतप्लावितं यदि भुङ्क्ते, ततः प्रभूतरतिशक्तिस्तरुणोऽनन्ताः स्त्रिय उपगच्छतीति पूर्वेणान्वयः ॥ ४३ ॥

चटकाण्डरसभावितानपगतत्वचस्तिलान् शृङ्गारककसेरुकस्वयंगुप्ताफलानि गोधूममाषचूर्णैः सशर्करेण पयसा सर्पिषा च पक्वं संयावं यावदर्थं प्राशितवानिति समानं पूर्वेण ॥ ४४ ॥

चटकाण्डरसेति । ग्राम्यचटकस्य स्वयं स्फुटितेऽण्डे स्वयं मृतेन पोतेन रसकः कार्यं, तेन भावितानीत्यर्थः, अपगतत्वच इति । निस्तुषाः, स्वयंगुप्तायाः फलानि न तु मूलं ग्राह्यं, पक्वं संयावमिति पानकम् ॥४४॥

१ अध्याये ] वृष्ययोगप्रकरणम् । ३३७

१ अध्याये ] वृष्ययोगप्रकरणम् । ३३७


सर्पिषो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधुरसायाः कर्षः प्रस्थं पयस इति षडङ्गममृतं मेध्यं वृष्यमायुष्यं युक्तरसमित्याचार्याः प्रचक्षते ॥ ४५ ॥

सर्पीति । द्वे द्वे इति । एकैकस्य, मधुरसाया इति । तिक्तवल्लिकायाः प्रस्थं पयस इति । द्वात्रिंशत्पलानि, षडङ्गममिति । सर्पिरादयः षडिति कृत्वा, अमृतं स्वादुत्वाद्, मेध्यं = मेधाहितं, युक्तरसमिति । योगवाहि स्त्रीसहायमित्यर्थः ॥ ४५ ॥

शतावरीश्वदंष्ट्रागुडकषाये पिप्पलीमधुकल्के गोक्षीरच्छागघृते पक्वे तस्य पुष्यारम्भेणान्वहं प्राशनं मेध्यं वृष्यमायुष्यं युक्तरसमित्याचार्याः प्रचक्षते ॥ ४६ ॥

शतावरी प्रतीता, श्वदंष्ट्रा = गोक्षुरकः, एभिः कषायो यस्मिन् घृते पिप्पलीमधुककल्को यस्मिन् गोक्षीरस्य प्रक्षेपो यस्मिन्, पक्व इति । पाकविधानेन, पुष्यारम्भेणेति । पुष्यनक्षत्रे प्राशितमारब्धव्यम् ॥ ४६ ॥

शतावर्याः श्वदंष्ट्रायाः श्रीपर्णीफलानाञ्च क्षुण्णानाञ्चतुर्गुणितजलेन पाक आमृकुत्यवस्थानात् तस्य पुष्यारम्भेण प्रातःप्राशनं मेध्यं वृष्यमायुष्यं युक्तरसमित्याचार्याः प्रचक्षते ॥ ४७ ॥

श्रीपर्णी काश्मीरी ॥ ४७ ॥

श्वदंष्ट्राचूर्णसमन्वितं तत्सममेव यवचूर्णं प्रातरुत्थाय द्विपलकमनुदिनं प्राश्नीयान्मेध्यं वृष्यं युक्तरसमित्याचार्याः प्रचक्षते॥४८॥

यद्भाण्डस्थापितं ततो द्विपलकं चूर्णमादाय प्राश्नीयात् ॥ ४८ ॥

उक्तमेवार्थं पङ्क्तिपरिहारार्थमाह—

आयुर्वेदाच्च वेदाच्च विद्यातन्त्रेभ्य एव च ।
आप्तेभ्यश्चावबोद्धव्या योगा ये प्रीतिकारकाः ॥ ४९ ॥

आयुर्वेदेति । वैद्यकाद्, वेदाच्चेति । अथर्ववेदाद्, विद्यातन्त्रेभ्य इति। मन्त्रवादेभ्यः, आप्तेभ्य इति । तन्त्रकुशलेभ्यो विश्वासिभ्यः ॥ ४९ ॥

न प्रयुञ्जीत सन्दिग्धान् न शरीरात्ययावहान् ।
न जीवघातसंबद्धान् नाशुचिद्रव्यसंयुतान् ॥ ५० ॥

नेति । सन्दिग्धान् द्रव्ययोगे मात्रयाऽपि सन्दिग्धान्, शरीरात्ययावहान् ये प्रयुक्ताः शरीरविनाशमप्यावहन्ति, जीवघातसम्बद्धान् ये प्राणिनो विनाशय युज्यन्ते, अशुचिद्रव्यसंयुतान् शुक्रशोणितादिभिः संयोज्याशनपानेन दीयन्ते ॥ ५० ॥

४३ का० सू०

इति वृष्ययोगप्रकरणम् ।

३३८ सटीक कामसूत्रे [ ७ अधिकरणे

तपोयुक्तः प्रयुञ्जीत शिष्टैरनुगतान् विधीन् ।
ब्राह्मणैश्च सुहृद्भिश्च मङ्गलैरभिनन्दितान् ॥ ५१ ॥

इति वृष्ययोगप्रकरणम् ।
इति श्रीवात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमेऽधिकरणे सुभगङ्करणं वशीकरणं वृष्ययोगाः प्रथमोऽध्यायः ।

तपोयुक्त इति । प्रयुञ्जीत सर्वसिद्धीनान्तपोमूलकत्वाद्, शिष्टराचारविद्भिः, विधीनिति । अविधिपूर्वं हि सुभगङ्करणादिः क्रियमाणो न सिद्ध्यति, मङ्गलैः प्रशस्तवचनादिभिः ॥ ५१ ॥

इति वृष्ययोगा एकषष्टितमम्प्रकरणम् ।
इति वात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायामौपनिषदिके सप्तमेऽधिकरणे सुभगङ्करणं वशीकरणं वृष्ययोगाः प्रथमोऽध्यायः ।


द्वितीयोऽध्यायः ।

द्विविधं रतमपत्यफलं रतिफलञ्च, पूर्वत्र वृष्ययोगा उक्ताः, द्वितीये नष्टरागप्रत्यानयनमुच्यते, कस्य चित्स्वभावतोऽवस्थाया वा विनष्टोरागः प्रयोगात्प्रत्यानीयते—

यदाह—

चण्डवेगां रञ्जयितुमशक्नुवन्योगानाचरेत् ॥ १ ॥

चण्डवेगामिति । रञ्जयितुं सुखयितुमशक्नुवन् नष्टरागत्वाद्, योगानिति । प्रयोगान् ॥ १ ॥

नष्टो रागो द्विविधः—मन्दो ध्वस्तश्च, तत्र मन्दः प्रवर्त्तकोऽप्रवर्त्तकश्च, तत्र पूर्वमधिकृत्याह—

रतस्योपक्रमे संबाधस्य करेणोपमर्दनं तस्या रसप्राप्तिकाले च रतयोजनमिति रागप्रत्यानयनम् ॥ २ ॥

रतस्येति । संप्रयोगस्य, उपक्रम इति । अयमारम्भे, यद्यपि मन्दो रागो रते प्रवर्त्तयति स्तब्धलिङ्गत्वात्, तथाऽपि प्रथमतः सम्बाधस्य भगस्य करेणोपमर्दनं गजहस्तेन क्षोभणङ्कार्यं, तस्या इति । चण्डवेगायाः करोपमर्दनाद्रसप्राप्तिकाले, रतयोजनमिति । यन्त्रयोजनं, रागप्रत्यानयनमिति। स्त्रीच्छया तावन्तं कालं रागस्य प्रवर्त्तितत्वात् ॥ २ ॥

अप्रवर्त्तकमधिकृत्याह—

औपरिष्टकं मन्दवेगस्य गतवयसो व्यायतस्य रतश्रान्तस्य च रागप्रत्यानयनम् ॥ ३ ॥

२ अध्याये ] नष्टरागप्रत्यानयनप्रकरणम् । ३३९

मन्दवेगस्येति । यस्योत्पन्नोऽपि रागो न प्रवर्तयति लिङ्गस्यानति-स्तब्धत्वात् तस्यौपरिष्टकेन रागप्रत्यानयनं तेनैव विसृष्टिसुखस्योत्पादनाद्, गतवयस इति । वृद्धस्य, व्यायतस्य चेति । मेदस्विनः, उभयस्यापि ध्वस्तो रागो लिङ्गस्य दुःखेनोत्थाप्यमानत्वात् ताभ्यामेवौपरिष्टकमेव रागप्रत्यानयनं रतयोजने प्रवर्त्तयितव्यमसमर्थत्वात् ॥३॥

अपद्रव्याणि वा योजयेत् ॥ ४ ॥

अपेति । अपद्रव्याणि च योजयेद्, यस्य प्रवर्तकोऽप्रवर्तकश्च रागः-स कृत्रिमाणि साधनप्रकाराणि च योजयेत् ॥ ४ ॥

तान्यविद्धस्य विद्धस्य वा लिङ्गस्य, तत्र पूर्वमधिकृत्याह—

तानि सुवर्णरजतताम्राकालायसगजदन्तगवलद्रव्यमयाणि ॥ ५ ॥

तानीति । सुवर्णादयो द्रव्याणि येषामपद्रव्याणामिति समासः, तत्र कालायसं = लोहं, गवलं = शृङ्गं प्रतीतम्, द्रव्यशब्दः प्रत्येकं योज्यः ॥ ५ ॥

त्रापुषाणि सैसकानि च मृदूनि शीतवीर्याणि कर्मणि च धृष्णूनि भवन्तीति बाभ्रवीया योगाः ॥ ६ ॥

त्रापुषाणि त्रपुषो विकारत्वात्, "त्रपुजतुनोः षुक्" तेषां गुणानाह-मृदूनीति । मृदुत्वात् साधनस्पर्शं नयन्ति, शीतवीर्यत्वञ्च प्रवेशकाले शीतलं स्पर्शं, कर्मणि च व्यवहारे धृष्णूनि घर्षणशीलानि भवन्ति, अत्युत्तेजकत्वाद्, दारुमयाणि तु विपरीतानीत्यभिप्रायः ॥ ६ ॥

दारुमयाणि साम्यतश्चेति वात्स्यायनः ॥ ७ ॥

साम्यतश्चेति । किञ्चिदेव कस्याश्चित् प्रियम्भवति, अतो दारुमयाण्यपि योज्यानीति मन्यते ॥ ७ ॥

तानि प्रकारान्तरेण दर्शयन्नाह—

लिङ्गप्रमाणान्तरं विन्दुभिः कर्कशपर्यन्तं बहुलं स्यात् ॥ ८ ॥

लिङ्गप्रमाणान्तरमिति । यत् स्तब्धस्य लिङ्गस्यानाहः प्रमाणं, तदन्तरं छिद्रं यस्य, बिन्दुभिरिति । उत्कोणैः कर्कशपर्यन्तं कर्कशपृष्ठमित्यर्थः, तलद्वयमिव पिनद्धं स्तब्धालिङ्गं संपीड्य तिष्ठति ॥ ८ ॥

एते एव द्वे संघाटी ॥ ९ ॥

एते एवेति । वलये द्वे चतुर्षु त्रिषु वा स्थानेषु विशिष्टसन्धिनौ घटित ॥ ६ ॥

त्रिप्रभृति यावत्प्रमाणं वा चूडकः ॥ १० ॥

त्रीति । त्रिप्रभृति यावत्प्रमाणं लिङ्गस्यायामस्तावत्प्रमाणश्चूडकः ॥ १० ॥

एकामेव लतिकां प्रमाणवशेन वेष्टयेदित्येकचूडकः ॥ ११ ॥

३४०सटीके कामसूत्रे[ ७ अधिकरणे,

एकामेव लतिकामिति। लताऽऽकारा सीसकादिमयी, प्रमाणवशे- नेति। लिङ्गस्यायामपरिणाहवशेन वेष्टयेदेकचूडकः ॥ ११ ॥

उभयतो मुखच्छिद्रः स्थूलकर्कशव्रणगुटिकायुक्तः प्रमाणवश- योगी कट्यां बद्धः कञ्चुको जालकं वा ॥ १२ ॥

उभयत इति। द्वयोः पार्श्वयोः, मुखच्छिद्र इति। येन भागेन लिङ्गं प्रवे- श्यते तन्मुखन्तद्वद्वयोः पार्श्वयोश्छिद्रं कटिबन्धनसूत्रप्रक्षेपणार्यं यस्य, क- र्कशव्रणगुटिकायुक्त इति। उत्कीर्णैः कर्कशविन्दुभिर्युक्तः कञ्चुकः सर्व- लिङ्गमवच्छाद्यावस्थितत्वाद्, यस्य जालकमिति, प्रतीतिः स द्विधा-खर- कञ्चुको यो मसृणपृष्ठः, तदुभयमपि समन्तात् कञ्चुकः, यस्तु मणिभा- गमाच्छाद्य तिष्ठति सोऽर्धकञ्चुको यस्य मणिरक्ष इति प्रतीतिः, गुलि- कामन्तरान्तरा मुक्तसन्धियतयोत्कर्णाभिर्युक्तो जालकं तद् द्विविधम्, उत्कीर्णजालकं यदिदमुक्तं, वलयं बहुच्छिद्रं कृत्वा दृढसूत्राण्यवबध्य छिद्रस्फोटितगुलिकादिभिर्विद्धगुलिकां दत्वा विरच्यते, तन्मणिजालकं- तस्याग्रे विधानिकायोजनं कार्यं, प्रमाणवशयोगीति। उभयोरपि घटित- लिङ्गस्यायामपरिणाहावपेक्ष्य समन्तात्कञ्चुकस्य जालकस्य च योग- इत्यर्थः ॥ १२ ॥

तदभावेऽलाबुनालकं वेणुश्च तैलकषायैः सुभावितः सूत्रेण कट्यां बद्धः श्लक्ष्णा काष्ठमाला वा ग्रथिता बहुभिरामलकास्थिभि- र्संयुक्तेत्यपविद्धयोगाः ॥ १३ ॥

तदभाव इति। यथोक्तसंस्थानघटनाभावे वेण्वादीनां योजनं तेषां- लिङ्गसंस्थानत्वाद्, अत्र वेण्वलाबुनालयोरग्रं तु प्रमृष्टं कार्यं सूत्रेण क- ट्यां बद्ध इति। प्रमाणवशेन निर्मोकवदाकृष्य चर्म, सुभावित इति। तैलकषायैः कषायितैस्तैलैः स्नेहितः कर्मण्यो भवति, श्लक्ष्णा काष्ठमाला वेति। मसृणाभिः काष्ठगुलिकाभिरन्तरान्तराऽऽमलकास्थीनि दत्वा ग्रथिता माला, तया तथा लिङ्गस्य वेष्टनं यथा सुश्लिष्टं भवति ॥ १३ ॥

विद्धमधिकृत्याह —

न त्वविद्धस्य कस्य चिद् व्यवहृतिरस्तीति ॥ १४ ॥

न त्विति। अविद्धस्य लिङ्गस्येति सम्बन्धः, व्यवहृतिः = संप्रयोगः ॥१४॥

दाक्षिणात्यानां लिङ्गस्य कर्णयोरिव व्यधनं बालस्य ॥ १५ ॥

बालस्येति। कर्णयोर्बालावस्थायामेव व्यधनं तथा लिङ्गस्य यूनां- च तन्नान्त्यस्य वा लिङ्गस्य ॥ १५ ॥

२ अध्याये ] नष्टरागप्रत्यानयनप्रकरणम् । ३४१

व्यधनविधिमाह—

युवा तु शस्त्रेण छेदयित्वा यावद्रुधिरस्यागमनं तावदुदके तिष्ठेत् ॥ १६॥

युवा तु शस्त्रेणेति। भेदियित्वेत्यनेन कुशलेन बहिश्चर्माकृष्यान्यत्र स्थापयित्वा शिरां त्यक्त्वा तिर्यग् छेदयेद् यथोभयतश्छिद्रम्भवति, उदके तिष्ठेद्रुधिरस्तम्भनार्थम् ॥ १६ ॥

वैशद्यार्थं च तस्यां रात्रौ निर्बन्धाद् व्यवायः ॥ १७ ॥

वैशद्यार्थमिति। छिद्रस्यासङ्कोचार्थं, निर्बन्धाद् व्यवाय इति। बहून् वारान् मैथुनं कार्यं, ममत्वे हि तत्प्रतीकारस्य पीडाऽभावात् ॥ १७ ॥

ततः कषायैरेकदिनान्तरितं शोधनम् ॥ १८ ॥

ततः कषायैरिति। पञ्चकषायशोधनं प्रक्षालनं व्रणस्य ॥ १८ ॥

वेतसकुटजशङ्कुभिः क्रमेण बर्द्धमानस्य वर्धनैर्बन्धनम् ॥ १९ ॥

वेतसादिशङ्कुभिः कीलकादिभिः क्रमेण बर्द्धनन्तेषां क्रमेण बर्द्धमानत्वात् ॥ १९ ॥

यष्टीमधुकेन मधुयुक्तेन शोधनम् ॥ २० ॥

यष्टीमधुकेन मधुयुक्तेन प्रलेपनं शोधनं शुद्धं हि व्रणं रोहति ॥२०॥

ततः सीसकपत्रकर्णिकया बर्धयेत् ॥ २१ ॥

तत इति। उत्तरकालं, सीसकपत्रकर्णिकयेति। सीसकस्य बर्द्धनहेतुत्वात्, तत्पत्रन्तु तालपत्रवत्संवेष्टितं क्षिप्रं बर्द्धयेत् ॥ २१ ॥

म्रक्षयेद्बल्लातकतैलेन ॥ २२ ॥ इति व्यधनयोगाः ।

म्रक्षयेद् भल्लातकतैलेन प्रवेशनार्थम् ॥ २२ ॥

तस्मिन्ननेकाकृतिविकल्पान्यपद्रव्याणि योजयेत् ॥ २३ ॥

तस्मिन्निति। बहुच्छिद्रे, अनेकाकृतिविकल्पानीति। अनेकसंस्थानेन कल्पितानि ॥ २३ ॥

वृत्तमेकतो वृत्तमुदूखलकं कुसुमकं कण्टकितं कङ्कास्थि गज-
करकमष्टमण्डलकं भ्रमरकं शृङ्गाटकमन्यानि वोपायतः कर्मतश्च
बहुकर्मसहता चैषां मृदुकर्कशता यथासात्म्यमिति ॥ २४ ॥
इति नष्टरागप्रत्यानयनं द्विषष्टितमं प्रकरणम् ।

वृत्तमिति। वर्तुलं मध्येऽस्य द्रोणिका कार्या यत्र चर्मपाशस्तिष्ठति, एकतो वृत्तमिति। अन्यतो दीर्घमष्टमीचन्द्रसदृशन्द्रोणिका तथैव, उदूखलकमुलूखलाकृति मध्ये निम्नं यत्र पाशस्तिष्ठति, कुसुमकं पद्मकलिकाकृति

३४२ सटीक कामसूत्रे [ ७ अधिकरणे,

मध्येऽस्य द्रोणिका, कण्टकितं कारविल्लसंस्थानन्द्रोणिका तथैव, द्वयोरप्यायामेन योजनं, कङ्कास्थिसमं चतुरस्रन्द्रोणिका तथैव, गजकराकृति तस्य ग्रीवाशिरोऽन्तान्तरभागेन द्रोणिका, अष्टमण्डलक-मणाश्रि तस्योध्वाधःकोणेन द्रोणिका, भ्रमरकंशकटाकृति पार्श्वतः कीलिकायोगाच्च चलचक्रमायामेन द्रोणिका, द्वयोरपि कोणेन प्रवेशनाम्, अन्यानि च योजयेत्, तत्राप्युपायतो य उपायतारते प्रतिपद्यन्ते, कर्मतश्चेति । यानि चर्मपाशेन संयोज्य कर्माणि निरपायांव्यापार्यन्ते, यथासात्म्यमिति । मृदुमध्यातिमात्रेण सम्बाधस्य कार्कश्यंबुद्ध्वा तदनुरूपं कार्कश्यं विधेयं मार्दवं च येषां मसृणता विद्यते ॥ २४ ॥

इति नष्टरागप्रत्यानयनन्द्विषत्प्रितं प्रकरणम् ।

यथाऽपद्रव्यसंयोगाल्लिङ्गं कर्मण्यं तथाऽऽकारस्य वर्द्धनमपीति वृद्धिविधय उच्यन्ते—

एवं वृक्षजानां जन्तूनां शूकैरुपहितं लिङ्गं दशरात्रं तैलेन मृदितं पुनरुपतूंहितं पुनः प्रमृदितमिति जातशोफं खट्वायामधोमुखस्तदन्तरे लम्बयेत् ॥ २५ ॥

एवमिति। वृक्षजातानामन्येषामनुपयोगित्वाद्, जन्तूनामिति। कन्दलिकानां, शूकैर्लोमभिः, उपतूंहितमिति। संदंशिकाया जन्तून् गृहीत्वा शूकैः पार्श्वेषु लिङ्गं ताडयेत्, तूंह हिंसायामिति धातुपाठात्, तैलमृदितमाकृष्य, जातशोफमिति। जातश्वयथु, शुल्वान्तरेणेति खट्वाववक्रान्तरेण लम्बयेद् दैर्घ्यार्थम् ॥ २५ ॥

तत्र शीतैः कषायैः कृतवेदनानिग्रहं सोपक्रमेण निष्पादयेत् ॥ २६ ॥

तत्रेति। ईप्सिते प्रमाणे जाते शीतैः पञ्चकषायैः, कृतवेदनानिग्रहमिति। परिषिच्य परिषिच्यापनीतवेदनम्, अन्यथा शोफो बर्द्धते वेदना चेति॥२६॥

स यावज्जीवं शूकजो नाम शोफो विटानाम् ॥ २७ ॥

स इति। स पूर्वोक्तः शूकजा नाम शोफो यावज्जीवं चिरस्थायी विटानां भवति ॥ २७ ॥

अश्वगन्धाशवरकन्दजलशूकबृहतीफलमाहिषनवनीतहस्तिकर्णवज्ज्रवल्लीरसैरेकैकैन परिमर्दनं मासिकं वर्धनम् ॥ २८ ॥

शबरकन्दकं = शबरमूलं, जलशूकं लोकप्रतीतं, हस्तिकर्णं - बृहत्पत्रम्, अटव्यां भवति, वज्रवल्लो = अस्थिसंहारः, मसिकमिति बर्द्धितं मासे तिष्ठति ॥ २८ ॥

एतैरेव कषायैः पक्वेन तैलेन परिमर्दनं षाण्मास्यम् ॥ २९ ॥

इति वृद्धियोगास्त्रिषष्टितमं प्रकरणम् ।

२ अध्याये ] वृद्धिविधिचित्रयोगप्रकरणम् । ३४३

एतैरेवेति । अश्वगन्धादिभिः कषायैरिति । कल्कीकृतैः, तैलेन परिमर्दनं षाण्मास्यमिति । वर्धनमिति योज्यम् ॥ २९ ॥

दाडिमत्रापुषबीजानि बालुकाबृहतीफलरसश्चेति मृद्वग्निना पक्वेन तैलेन परिमर्दनं परिषेको वा ॥ ३० ॥

दाडिमत्रापुषबीजानीति । बालुकेति । एडवालुका, बृहती बृहत्येव कङ्कूबृहती हस्तिनस्तुम्बा, अनयोः फलरसः परिमर्दनं परिषेको वा वर्धनं षाण्मास्यमिति योज्यम् ॥ ३० ॥

तांस्तांश्च योगानाप्तेभ्यो बुध्येतेति वर्धनयोगाः ॥ ३१ ॥

तांस्तांश्च योगानिति । वर्द्धनस्य योगाः, वृद्धिविधयः ॥ ३१ ॥

इति वृद्धियोगास्त्रिषष्टितमं प्रकरणम् ।

उक्तव्यतिरिक्तकार्यसाधनार्थं प्रकीर्णकन्यायेन चित्रा योगा उच्यन्ते-

अथ स्नुहीकण्टकचूर्णैः पुनर्नवावानरपुरीषलाङ्गलिकामूलमिश्रैर्यामवकिरेत्सा नान्यं कामयेत ॥ ३२ ॥

अथेति । प्रकरणाधिकारार्थं, स्नुहीति । वज्री ग्राह्या, अवकिरेदिति । शिरस्यवचूर्णयेद्, नान्यं कामयेत, तस्या अनेन रक्षितत्वात् ॥ ३२ ॥

तथा सोमलतावल्गुजाभृङ्गलहोपजिह्विकाचूर्णैर्व्याधिघातकजम्बूफलनिर्यासेन घनीकृतेन च लिप्तसम्बाधां गच्छतो रागो नश्यति ३३

सोमेति । सोमलता, अवल्गुजं = बाकुचीबीजं, भृङ्गः = भृङ्गराजः, लोहं = लोहचूर्णम्, उपजिह्विका या वल्मीकं चिनोति । व्याधिघातकः = सुवर्णशेफालिका, तस्याः पत्रत्वङ्निर्यासः, जम्बूफलं तस्य च निर्यासः फाणितीकृतेन, तैस्सह कल्कीकृतेन रागो नश्यति संस्पर्शमात्रेण लिङ्गं नोत्तष्ठतीत्यर्थः ॥ ३३ ॥

गोपालिकाबहुपादिकाजिह्विकाचूर्णैर्माहिषतक्रयुक्तैः स्नातां गच्छतो रागो नश्यति ॥ ३४ ॥

बहुपादिका = रुण्डिका या वर्षासु भवति, स्नातां गच्छतो रागो नश्यति ३४

नीपाम्रातकजम्बुकुसुमयुक्तमनुलेपनं दौर्भाग्यकरं, स्रजश्च ॥३५॥

स्रजश्चेति । कुसुमयुक्ताः पिनद्धा दौर्भाग्यकृतः ॥ ३५ ॥

कोकिलाक्षमलेपो हस्तिन्याः संहृतमेकरात्रे करोति ॥ ३६ ॥

कोकिलाक्षः श्वेतः, संहृतमिति । सङ्कोचम् ॥ ३६ ॥

पद्मोत्पलकदम्बसर्जकसुगन्धचूर्णानि मधुना पिष्टानि लेपोमृग्या विशालीकरणम् ॥ ३७ ॥

३४४ सटीक कामसूत्रे [ ७ अधिकरणे,

पङ्कोत्पलेति। कदम्बमिति, ब्रजकदम्बं, सर्जकसुगन्धौ वीरणस्थाने वर्षासु जायते, विशालीकरणमेकरात्रे ॥ ३७ ॥

स्नुहीसोमार्कक्षारैरवल्गुजाफलैर्भावितान्यामलकानि केशानां श्वेतीकरणम् ॥ ३८ ॥

स्नुहीसोमार्कक्षारैरिति । दग्ध्वा परिस्राव्य च जलं ग्राह्यम्, अवल्गुजाफलैश्च क्षारैः ॥ ३८ ॥

मदयन्तिकाकुटजकाञ्जनिकागिरिकर्णिकाश्लक्ष्णपर्णीमूलैः-स्नानं केशानां प्रत्यानयनम् ॥ ३९ ॥

मदयन्तिका प्रसिद्धा, कुटजको यस्येन्द्रयवाः फलानि, अञ्जनिका कृष्णकुसुमा प्रतीता, गिरिकर्णिका प्रतीता, श्लक्ष्णपर्णी काश्मीरी, केशानामिति । श्वेतीकृतानां प्रत्यानयनं पुनः कृष्णीकरणमित्यर्थः ॥३९॥

एतैरेव सुपकेन तैलेनाभ्यङ्गात्कृष्णीकरणात् क्रमेणास्य प्रत्यानयनम् ४०

एतैरेवेति । कषायकल्कीकृतैः, क्रमेणेति । दिवसक्रमेण स्वयमेव निवर्तते कार्ष्ण्यम् ॥ ४० ॥

श्वेताश्वस्य मुष्कस्वेदैः सप्तकृत्वो भावितेनालक्तकेन रक्तोऽधरः श्वेतो भवति ॥ ४१ ॥

श्वेतेति । मुष्कस्वेदेनेति । वृषणप्रस्वेदेन ॥ ४१ ॥

मदयन्तिकादीन्येव प्रत्यानयनम् ॥ ४२ ॥

मदयन्तिकेति । स्पष्टम् ॥ ४२ ॥

बहुपादिकाकुष्ठतगरतालीसदैवदारुवज्रकन्दकैरुपलिप्तं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति ॥ ४३ ॥

बह्विति । उपलिप्तमिति । औषधजलेन बहिरन्तश्च बहुशः क्षालितोपलिप्तो भवति ॥ ४३ ॥

धत्तूरफलयुक्तोऽभ्यवहार उन्मादकः ॥ ४४ ॥

धत्तूरति । अभ्यवहार इति । यदशनं पानं वा ॥ ४४ ॥

गुडो, जीर्णितश्च प्रत्यानयनम् ॥ ४५ ॥

गुडो भक्षितः प्रत्यानयनम्, अभ्यवहारो वा यदा जीर्णो भवति तदा स्वच्छता ॥ ४५ ॥

हरितालमनःशिलाभक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद् द्रव्यं स्पृशति तन्न दृश्यते ॥ ४६ ॥

हरितामालमनःशिलाभक्षिण इति । उपवासं कारितस्य मासेन देयम्॥४६॥

अङ्गारतृणभस्मना तैलेन विमिश्रमुदकं क्षीरवर्णं भवति ॥४७॥

२ अध्याये ] चित्रयोगप्रकरणम् । ३४५

२ अध्याये ] चित्रयोगप्रकरणम् । ३४५

अङ्गारेति । तृणं लोकप्रतीतम् ॥ ४७ ॥

हरीतकाम्रातकयोः श्रवणप्रियङ्गुकाभिश्च पिष्टाभिर्लिप्तानि लो- हमण्डानि ताम्रीभवन्ति ॥ ४८ ॥

हरीतकाम्रेति । यस्य चटचट इति प्रतीतिः, आम्रातकः प्रसिद्धः, तयोः पत्रमित्यर्थः, श्रवणप्रियङ्गुका ज्योतिष्मतीति तत्फलैः सह पिष्ट्वा ॥ ४८ ॥

श्रवणप्रियङ्गुकातैलेन दुकूलसर्पनिर्मोकेण वर्त्या दीपं प्रज्वा- ल्य पार्श्वे दीर्घीकृतानि काष्ठानि सर्पवद् दृश्यन्ते ॥ ४९ ॥

श्रवणेति । दुकूलं शुद्धं गृहीत्वा सर्पनिर्मोकेण सह वर्तिका कार्या, दीपे प्रज्वलिते सति सर्पवद् दृश्यन्ते तदाकारमात्रदर्शनाद् विस्मापनमेतत् ४६

श्वेतायाः श्वेतवत्साया गोः क्षीरस्य पानं यशस्यमायुष्यम् ॥ ५० ॥

श्वेतेति । क्षीरपानं धन्यं पवित्रत्वाद् यशस आयुषे च हितं भवति सर्वदा सेव्यमित्युपदेशः ॥ ५० ॥

ब्राह्मणानां प्रशस्तानामाशिषः ॥ ५१ ॥

ब्राह्मणानामिति । तथाऽऽशिषश्च प्रसन्नेभ्यो मृग्याः ॥ ५१ ॥

इति चित्रा योगाश्चतुःषष्टितमं प्रकरणम् ।

एवं संक्षेपविस्तराभ्यां शास्त्रं प्रणीय ग्राह्यतां प्रतिपादयितुमाह—

पूर्वशास्त्राणि संहृत्य प्रयोगाननुसृत्य च ।
कामसूत्रमिदं यत्नात्संक्षेपेण निवेदितम् ॥ ५२ ॥

पूर्वशास्त्राणीति । संदृश्येति । शब्दतोऽर्थतश्च दृष्ट्वा, तेषां प्रमाणत्वात्, प्रयोगाननुसृत्य च प्रयोगतश्च ज्ञात्वेत्यर्थः, संक्षेपेणेति । स्वशास्त्रस्य प्रयो- जनं निवेदितं = कथितम् ॥ ५२ ॥

ननु च संप्रयोगाङ्गं शास्त्रमिदं, संप्रयोगश्च रागहेतुः, तं च रागमेवा- नर्थहेतुं दीपयत्येतदित्याह—

धर्ममर्थं च कामं च प्रत्ययं लोकमेव च ।
पश्यत्येतस्य तत्त्वज्ञो न च रागात्प्रवर्तते ॥ ५३ ॥

धर्ममिति । एतस्येति । शास्त्रस्य यस्तत्त्वज्ञः स नियतं धर्मादीन् पश्यति, तांश्च पश्यन् न रागादनर्थहेतुकात् प्रवर्तते, प्रत्ययं = विश्वासं,- लोकमिति । शिष्टमशिष्टं चेति ॥ ५३ ॥

यद्येवं किमिति धर्मविरुद्धा औपरिष्टकादयोऽत्र विहिता इत्याह—

अधिकारवशादुक्ता ये चित्रा रागवर्द्धनाः ।
तदनन्तरमत्रैव ते यत्नाद्विनिवारिताः ॥ ५४ ॥

अधिकारवशादिति । प्रकरणवशाद्, रागवर्धना इति । रागहेतवः, तद-

४४ का० सु०

३४६ सटीके कामसूत्रे [ ७ अधिकरणे,

नन्तरमिति । विधानान्तरं, प्रयत्नान्निर्धारितदेशपुरुषापेक्षया निषिद्धाः॥५४॥

तदेव स्फुटयन्नाह—

न शास्त्रमस्तीत्येतेन प्रयोगो हि समीक्ष्यते । शास्त्रार्थान् व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥ ५५ ॥

न शास्त्रमस्तीति । व्याख्यातं चैतत्प्राक् ॥ ५५ ॥

यतश्च शास्त्रात् प्राधान्येन संक्षिप्य निबद्धं येन च तदुभयं दर्शयन्नाह—

बाभ्रवीयांश्च सूत्रार्थानगमय्य विमृश्य च । वात्स्यायनश्चकारेदं कामसूत्रं यथाविधि ॥ ५६ ॥

बाभ्रवीयांश्चेति । आगमय्य गुरुभ्यः, विमृश्य च स्वबुद्ध्या ॥ ५६ ॥

ययाऽवस्थया यदर्थं च विहितं तद्दर्शयन्नाह—

तदेतद् ब्रह्मचर्येण परेण च समाधिना । विहितं लोकयात्रार्थं न रागार्थोऽस्य संविधिः ॥ ५७ ॥

तदेतदिति । परेण च समाधिना समाहितेन, लोकयात्रार्थमिति । चातुर्वर्ण्ये गृहस्थव्यवहारार्थं न पुन रागार्थोऽस्य संविधिः ॥ ५७ ॥

कथं न रागार्थो भवतीत्याह—

रक्षन्धर्मार्थकामानां स्थितिं स्वां लोकवर्तिनीम् । अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ॥ ५८ ॥

रक्षन्निति । अस्य शास्त्रस्य यस्तत्त्वं वेत्ति सोऽवश्यं धर्मादीन् परस्परस्यानुपघातेन रक्षन्, लोकवर्तिनीमिति । इहलोकपरलोकमार्गशोभनाशोभनात् ॥ ५८ ॥

तदेतत्कुशलो विद्वान्धर्मार्थाववलोकयन् । नातिरागात्मकः कामी प्रयुञ्जानः प्रसिध्यति ॥ ५९ ॥

इति वात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमेऽधिकरणे नष्टरागप्रत्यानयनं वृद्धियोगाश्चित्रयोगा द्वितीयोऽध्यायः ॥

समाप्तमौपनिषदिकं सप्तममधिकरणम् । समाप्तं वात्स्यायनसूत्रम् ।

तदेतत्कुशल इति । एतस्मिन् शास्त्रे कुशलो विद्वान् ज्ञानवान्, धर्मार्थाविति । धर्मार्थोभयं यथा कामेन न बाध्यते, कामीति । गृहस्थः, प्रयुञ्जान इति । शास्त्रार्थं, प्रसिद्ध्यति लोकेषु प्रमाणपुरुषो भवति नातिरागात्मकत्वादिति ॥

इति चित्रयोगाश्चतुःषष्टितमं प्रकरणम् ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायामौपनिषदिके सप्तमेऽधिकरणे नष्टरागप्रत्यानयने वृद्धियोगाश्चित्रयोगा द्वितीयोऽध्यायः ।

समाप्तं सव्याख्यानं कामशास्त्रम् ।