भारतकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पञ्चाशत्तमं प्रकरणम् ॥

२७८ सटीके कामसूत्रे [ ६ अधिकरणे,

यमाश्रित्य कार्यं साधयति, खेदः=परिश्रमः संप्रयोगो हि जीविका तत्र चाकृतखेदा सहसा क्व चित्क्व चित्प्रवृत्ता विमर्दं न सहेत, धर्मः अकिञ्चनविद्वद्ब्राह्मणाभिगमनाद्, यशः कस्यां चित्तिथौ कामसत्रप्रदानाद्, अनुकम्पा अकामयमानायां त्वयि म्रियेऽहमित्येवंवादिनि दया भवति, सुहृद्वाक्यं मम प्रीतिकरः समायातस्तेन सहाद्य शयितव्यमिति, ह्रीः, यो-गुरुस्थानीयोऽभिमतं भाणयति सोऽपि लज्जयाऽभिगम्यते, प्रियसादृश्यं मत्प्रियस्यायं सदृश इत्यनुरागवशात् काम्यते, धन्यतेति । पुण्यवानयमतोऽस्य संयोगात् कीर्तनीयाऽहं भविष्यामि, यत एष गुणवान् कुलीनो धनवान्रूपवांश्च, रागापनयः शुक्रधातोरुद्रिक्तस्य कं चिदभिगम्यापनयनं, साजात्यं सजातिरयमिति विप्रतिपन्नायाः कुलयोषितोऽभिगमनकारणमेतत् , साहवेश्यं सहवेशकोऽयमिति, सातत्यं=नित्यसाहचर्यम्, आयतिः=प्रभावः ॥ १७ ॥

अर्थोऽनर्थप्रतीघातः प्रीतिश्चेति वात्स्यायनः ॥ १८ ॥

अत्राह शास्त्रकारः—परिगणनमेतत्प्रदर्शनं वा, तत्र परिगणने चिकित्सा मैत्री शोकापनयः कलाऽऽगम इत्येवमादीनामपि सम्भवात् , प्रदर्शने चार्थोऽनर्थप्रतीघातः प्रीतिरिति तावद्वक्तव्यं सर्वेषामत्रैवान्तर्भावात्, तत्र संघर्षजिज्ञासापक्षखेदधर्मयशःसुहृद्वाक्यायतिकलाऽऽगमा-अर्थे, भयं वैरमनुकम्पा शोकापनय इत्यनर्थप्रतीघाते, शेषाः प्रीतौ स्नेह इत्यर्थः, हीरपि प्रीत्यंशमेव स्पृशति ॥ १८ ॥

अर्थं तु प्रीत्या न बाधेतास्य प्राधान्यात् ॥ १९ ॥

अर्थमिति । अर्थप्रीत्योर्यथास्वं विषयेषु युगपत्प्रत्युपस्थिते प्रीतिविषयं त्यक्त्वाऽर्थविषयमधिगच्छेदित्यर्थः, अर्थस्य प्राधान्यात्तत्प्रतिबद्धत्वात्तज्जीविकायाः ॥ १९ ॥

भयादिषु तु गुरुतालाघवं परीक्ष्यम् ॥ २० ॥ ॥ इति सहायगम्यागम्यगमनकारणचिन्ता ॥

भयादिषु त्वनर्थेषु गुरुतालाघवं परीक्ष्यं कोऽत्र गुरुर्यम्प्रति करिष्यामीति, अर्थानर्थप्रतीकारयोस्तु गुरुतालाघवमग्रे वक्ष्यति ॥ २० ॥ इति सहायगम्यागम्यगमनकारणचिन्ता पञ्चाशत्तमं प्रकरणम् ॥

एवं सहायं निरूप्य गम्यमभिमुखीकुर्यादिति गम्योपावर्तनमुच्यते—

उपमन्त्रिताऽपि गम्येन सहसा न प्रतिजानीयात् पुरुषाणां सुलभविमानित्वाद् ॥ २१ ॥

१ अध्याये ] गम्योपावर्त्तनप्रकरणम् । २७९

उपेति। स्वयमनुपावर्त्तितेन नायकेनाभिगन्तुं प्रार्थिता न सहसा प्रतिजानीयात् तत्क्षणमेव नाङ्गीकुर्यादित्यर्थः, सुलभावमानित्वात्, तथा- चोक्तं "सुलभामवमन्यते, दुर्लभाभिकाङ्क्षत इति प्रायोवादः," पुनःपुन- रुपमन्त्र्यमाणा तु प्रतिजानीयादित्यर्थोक्तम् ॥ २१ ॥

यदा तु तामुपावर्त्तयेत्तदाऽयं प्रथम उपायः, यत्तेषु प्रणिधानमित्याह—

भावजिज्ञासार्थं च परिचारकमुखान् संवाहकगायनवैहासिकान् गम्ये तद्भक्तान्वा प्रणिदध्यात् तदभावे पीठमर्दादीन् ॥ २२ ॥

भावजाज्ञासार्थं चेति। परिचारकमुखान्=परिचारकरूपान्, वैहा- सिकः=विदूषकः तस्य गम्यस्य, भक्तान्=सेवापरान्, प्रणिदध्याद्= नियुञ्जीत, पीठमर्दादीत्यादिशब्दाद्विटमालाकारगान्धिकशौण्डिकादयः- सहायाः ॥ २२ ॥

भावोऽभिप्रायः तस्मिन्ननेकप्रकारेऽपि प्राधान्याच्छौचादिभावेष्वेव जिज्ञासनमित्याह—

तेभ्यो नायकस्य शौचाशौचं रागापरागौ सक्तासक्ततां दाना- दाने च विद्यात् ॥ २३ ॥

तेभ्य इति। नायकस्येति। गम्यसंज्ञकस्य, शुचिसमुदाचाराद् शौचं- भावं तद्विपरीतमशौचं, यतः कश्चित्स्वयमौपरिष्टिकं प्रयुङ्क्ते प्रयोज- यति नोभयं वेति, रागः=संयोगेच्छा, तद्विपरीतोऽपरागः, सक्तां- वक्ष्यमाणलक्षणां, तद्विपरीतामसक्तां, दानं = दातृत्वं, तद्विपरीत- मदानम् ॥ २३ ॥

संभावितेन च सह विटपुरोगां प्रीतिं योजयेत् ॥ २४ ॥

सम्भावितेन चेति। भावान् ज्ञात्वा, संयुज्येतैवं प्रयोग इति निश्चित्य, विटपुरोगामिति। विटो हि जीर्णनागरकवृत्तः, तेन पूर्वप्रहितेन प्रीतिं- योजयेत् ॥ २४ ॥

योजितायां विधिमाह—

लावककुक्कुटमेषयुद्धशुकशारिकाप्रलापनप्रेक्षणककळाव्यपदे- शेन पीठमर्दो नायकं तस्या उदवसितमानयेत् तां वा तस्य ॥२५॥

लावकेति। लावकादीनां युद्धं, शुकादेः प्रलापनम्=पाठनम्, प्रेक्ष- णकं=नटादिदर्शनं, कला=गीतादिका, तद्व्यपदेशेनानयेद्, उदवसितं= गृहं, तां वेति। नायिकां वा, तस्योद्ववसितम् ॥ २५ ॥

२८० सटीक कामसूत्रे [ ६ अधिकरणे,

आयतस्य प्रीतिकौतुकजननं किञ्चिद् द्रव्यजातं स्वयमिदम- साधारणोपभोग्यमिति प्रीतिदायं दद्यात् ॥ २६ ॥

प्रीतिकौतुकजननमिति । यत्प्रीतिं जनयति तस्मै हितत्वात्, कौतुकं- चादृष्टपूर्वत्वाद् , द्रव्यजातं, स्वयमिति। अनुरागख्यापनार्थं नान्येन, असाधारणेति। भवत एवेदमुपभोगार्हं नान्यस्येत्युक्त्वा देयम्, प्रीति- दायं यत्पुनर्नादीयते ॥ २६ ॥

यत्र च रमते तया गोष्ठ्यैनमुपचारैश्च रञ्जयेत् ॥ २७ ॥

यत्र चेति । काव्यगोष्ठ्यां कलागोष्ठ्यां वा, उपचारैः सरकताम्बूल- स्रगादिभिः ॥ २७ ॥

प्रत्यवच्छेदनार्थं विधिमाह—

गते च सपरिहासप्रलापां सोपायनां परिचारिकामभीक्ष्णं प्रे- षयेत्, सपीठमर्दयाश्च कारणापदेशेन स्वयं गमनम् ॥ २८ ॥ इति गम्योपावर्तनम् ।

गते चेति । सपरिहासेति । सक्रीडप्रकृष्टालापा हि प्रीतिं वर्धयति, सोपायनामभिज्ञानार्थं सह कौशलिकया प्रेषयेत्, तत्राप्यभीक्ष्णम् अन्तरा नायिकाऽन्तरप्रवेशो मा भूदिति, सपीठमर्दयाश्चेति । पीठमर्दो हि मन्त्री संयोगस्य घटयिता, कारणापदेशेन स्वयं गमनमिति । सहसा गमने हि हेया स्यात् ॥ २८ ॥

उक्तं च श्लोकैराह—

भवन्ति चात्र श्लोकाः—

ताम्बूलानि स्रजश्चैव संस्कृतं चानुलेपनम् । आगतस्याहरेत्प्रीत्या कलागोष्ठीश्च योजयेत् ॥ २९ ॥

ताम्बूलानीति । संस्कृतमिति सर्वत्र योज्यं, कलागोष्ठीश्चेति । चशब्दात्काव्यगोष्ठीश्च ॥ २९ ॥

द्रव्याणि प्रणये दद्यात्कुर्याच्च परिवर्तनम् । संप्रयोगस्य चाकूतं निजेनैव प्रयोजयेत् ॥ ३० ॥

द्रव्याणीति। प्रीतिकौतुकजनकानि परिवर्तनमुत्तरीयांशुकानामङ्गुली- यानां, तत्रापि प्रणये सति, अनुत्पन्नप्रणयाया दानं परिवर्तनं च कपटं- ज्ञायेत, आकूतम् = अभिप्रायम्, प्रयोजयेत्प्रकाशयेत् ॥ ३० ॥

यस्तु कथञ्चिदागत्यागत्य गच्छति यत्र योज्यमानं लाघवं जनयति

१ अध्याये ] गम्योपावर्त्तनप्रकरणम् । २८१

तच्च कथं ? योजयेदित्याह—

प्रीतिदायैरूपन्यासैरुपचारैश्च केवलैः ॥ गम्येन सह संसृष्टा रञ्जयेत्तं ततः परम् ॥ ३१ ॥

इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे सहायगम्यागम्य- गमनकारणचिन्ता गम्योपावर्त्तनं प्रथमोऽध्यायः ।

प्रीतिदायैरिति । प्रीत्यर्थं यानि दीयन्ते, उपन्यासैः पीठमर्दादिकृतैर्- त्रैव किं न सुप्यत इति, केवलैः शुद्धैः, ये सम्प्रयोगमेव सूचयन्ति, संसृष्टा सम्प्रयुक्ता, ततः परमिति । अनन्तरप्रकरणानुसन्धानम् ॥ ३१ ॥ इति गम्योपावर्त्तनमेकपञ्चाशत्तमं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठे- ऽधिकरणे सहायगम्यागम्यगमनकारणचिन्ता गम्योपावर्त्तनं प्रथमोऽध्यायः ।


द्वितीयोऽध्यायः ।

उक्तमपि संबन्धं स्पष्टीकुर्वन्नाह--

संयुक्ता नायकेन तद्रञ्जनार्थमेकचारिणीवृत्तमनुतिष्ठेत् ॥ १ ॥

तद्रञ्जनार्थमिति । तद्रञ्जनार्थम् एकचारिणीवृत्तमनुतिष्ठेद्यद्येकचा- रिणी स्यात्, तथा चोक्तं प्राग्-‘वेश्या वाऽप्येकचारिणी’ इति, यदा तु नैकचारिणी तदा कान्ताऽनुवृत्तमुच्यते, सम्प्रयुक्तस्य गम्यस्य कान्त त्वात्, तच्च संक्षेपेण विस्तरेण च ॥ १ ॥

तत्र पूर्वमुद्घाटितबुद्धीनामाह—

सञ्जयेन्न तु सजेत् सक्तवच्च विचेष्टेतेति संक्षेपोक्तिः ॥ २ ॥

सञ्जयेदिति । षञ्ज्-सङ्गे, प्रयोजकव्यापारे णिज्, न तु सजेत्, स्वयं सक्ता स्यात्, कथं ? तस्यां पुंसो विश्वासयोग इत्याह—सक्तवच्च विचेष्टेतेति । सक्तमिवात्मानं प्रकाशयेदित्यर्थः, विस्तरोक्तावपि प्रथमं परतन्त्रा स्याद्, व्याधिं चात्मनः प्रकाशयेद् ॥ २ ॥

मा भूतकार्यहानिरित्याह—

मातरि च क्रूरशीलायामर्थपरायां चायत्ता स्यात् , तदभावे मातृकायाम् ॥ ३ ॥

मातरीति । मातुरयमप्युपदेशो यदपिधानपरयाऽर्थपरया च भवि- तव्यमिति, तस्यामायत्ता स्यान्न तद्वचनमतिक्रामेदित्यर्थः, मातृकायां- कृतकमातरि ॥ ३ ॥

३६ का० सू०

२८२ सटीके कामसूत्रे [ ६ अधिकरणे

सा तु गम्येन नातिप्रीयेत प्रसह्म च दुहितरमानयेत् ॥ ४ ॥

सा त्विति । सत्या कृतका वा, नातिप्रीयेत नातिस्निह्येद्, अयमु- पदेशो यदि प्रीयेत कार्यमेव हन्यादित्यर्थः, अप्रीयमाणाया व्यापारमा- ह—प्रसह्य च दुहितरमानयेदिति । गम्यमभिभूय कार्यवशाद् गम्यान्त- रं नयेदित्यर्थः ॥ ४ ॥

तत्र तु नायिकायाः सन्ततमरतिर्निर्वैदो व्रीडा भयं च न त्वेव शासनातिवृत्तिः ॥ ५ ॥

तत्र त्विति । तस्मिन्नामने सति, नायिकायाः कालविशुद्ध्यर्थमाह- सन्ततमिति । अरतिः = असुखं, रम्येऽपि स्याद्, निर्वेदः = निर्विण्णता, व्रीडा, कथं ? पुनर्मया द्रष्टव्य इति, भयं किमपि प्रतिविधास्यतीति, न त्वेवेति । काममरत्यादयः स्युर्न पुनर्मातुराज्ञामतिक्रामेदित्यर्थः ॥ ५ ॥

व्याधिं च कृतकमेकमनिमित्तमजुगुप्सितमचक्षुर्ग्राह्यमनित्यं- ख्यापयेत् ॥ ६ ॥

व्याधिं चेति । व्याधिं च कृतकं ख्यापयेत्, किं विशिष्टमित्याह-एक- मिति । अनन्यं ख्यापयेद्, येन कृतको ज्ञायेत, अनिमित्तम् = आकस्मिकम्, अजुगुप्सितम् = अनिन्दितं, निन्दिते ह्यनभिगमनीया स्याद्, अचक्षु- रिति । इन्द्रियोपलक्षणार्थं चक्षुर्ग्रहणं, शिरोऽर्तिमुदरशूलं च, अनित्य- मस्थायिनम् ॥ ६ ॥

अस्मिन्ख्यापिते किं फलमित्याह—

सति कारणे तदपदेशं च नायकानभिगमनम् ॥ ७ ॥

सतीति । कारणे कामुकान्तराभिगमने, तदपदेशं = व्याध्यपदेशम् ॥७ ॥

अनभिगमने च व्याधिपीडाख्यापनार्थं विधिमाह—

निर्माल्यस्य तु नायिका चेटिकां प्रेषयेत्ताम्बूलस्य च ॥ ८ ॥

निर्माल्यस्य त्विति । कृते, इत्यध्याहार्यं, नायिकेत्युक्ते न माता चेटिकां- प्रेषयेद्, अनेनापि सुखं स्थास्यामीत्युक्त्वा ताम्बूलस्योपयुक्तस्य वा कृते॥८॥

वृत्तं च प्रत्यक्षे परोक्षे वा कान्तेन, तत्र पूर्वमधिकृत्य रहोगतमाह—

व्यवाये तदुपचारेषु विस्मयः, चतुःषष्ट्यां शिष्यत्वं, तदुपदि- ष्टानां च योगानामाभीक्ष्ण्येनोनुयोगः, तत्सात्म्याद्रहसि वृत्तिः, मनोरथानामाख्यानं, गुह्यानां वैकृतप्रच्छादनं, शयने परावृत्त- स्यानुपेक्षणम्, आनुलोम्यं गुह्यस्पर्शने, सुप्तस्य चुम्बनम्,

१ अध्याये ] कान्ताऽनुवृत्तप्रकरणम् । २८३

आलिङ्गनं, च ॥ ९ ॥

व्यवाय इति। व्यवाये = मैथुने, नायकसम्बन्धिनि, तदुपचारेषु मैथु- नोपचारेषु च सरकताम्बूलादिषु, विस्मयोऽननुभूतपूर्वं सर्वमेतदिति, चतुःषष्ट्यां पाञ्चालिक्यां शिष्यत्वं, तद्विज्ञाय कर्तव्यं शिक्षय मामिति, योगानामिति। चातुःषष्टिकानां तेनोपदिष्टानामाभीक्ष्ण्येनानुयोगः, पश्चा- त्तस्मिन्नेव नायके पुनर्योजना, येनायमवगच्छेदस्मत्सुखार्थमेवास्या यत्न- इति, तत्सात्म्यादिति। यथा तस्य सुखं तथैकान्ते वर्तेतेत्यर्थः, मनोरथे- ति। रहसीत्यनुवर्तते, मम मनोरथा एवमासन् कदा त्वया सह दीर्घ- रजन्यां सपरिहासः सम्प्रयोगः स्यादिति, गुह्यानामिति। नाभिकक्षोरु- जघनस्य यद्वैकृतं वैरूप्यं, किञ्चित्तस्य प्रच्छादनं, स्प्रष्टुं द्रष्टुं न दद्यादि- त्यर्थः, मा भूद्वैराग्यमस्येति, शयने परावृत्तस्यानुपेक्षणं, स्नेहख्याप- नार्थमभिमुखं स्वपेदित्यर्थः, गुह्यस्पर्शन आनुलोम्यं, कक्षां वराङ्गं च स्पृ- शन्तं न वारयेद्, मा भूत्सम्प्रयोगेच्छाविघात इति, सुप्तस्य चुम्बनमालि- ङ्गनं च, येन स्नेहात्स्वप्तुमपि न ददातीति जानीयात् ॥ ९ ॥

प्रत्यक्ष एव बहिर्गतं वृत्तमाह—

प्रेक्षणमन्यमनस्कस्य राजमार्गे च प्रासादस्थायाः, तत्र विदि- ताया व्रीडाशाठ्यनाशः, तत् द्वेष्ये द्वेष्यता, तत्प्रिये प्रियता, तद्रम्ये रतिः, तमनु हर्षशोकौ, स्त्रीषु जिज्ञासा, कोपश्चादीर्घः, स्वकृतेष्वपि नखदशनाचिह्नेष्वन्याशङ्का ॥ १० ॥

प्रेक्षणमिति। अन्यचित्तं पश्येत् , किमयमुत्कण्ठयोद्वेगाद्वाऽन्यमन- स्क इति, राजमार्गे वर्तमानस्य प्रेक्षणं, तत्रापि प्रासादस्थायाः, कर्त्रर्थेयं- षष्ठी, तत्रेति। प्रेक्षणे, विदिताया नायकस्य माम् पश्यतीति, व्रीडा = लज्जा स्यात्, सैव शाठ्यनाश इत्युच्यते, तद्धेतुत्वादस्या यदि व्रीडां न दर्श- येत्, कृतकस्नेहोऽस्याः, यन्मामसकृत्पश्यतीति, शाठ्यं सम्भाव्येत, तद्द्वे- ष्य इति। नायकद्वेष्ये कस्मिंश्चित् प्रियेऽपि द्वेषणं ख्याप्यं, तत्प्रिये द्वेष्येऽपि प्रियता, तथा च तदानुलोम्यं ख्यापितं भवति, तद्रम्य इति। यद्यसावसम्प्रयोगशीलस्तदा रम्ये प्रदेशेऽनया रतिः कार्या, येन तद्गत- स्य सम्प्रयोगेच्छा भवति, तमन्विति। तस्य हर्षशोकाभ्यां हर्षशोकौ, स्त्रीषु जिज्ञासा कार्या, किमेवं स्यादित्याह-कोपश्चादीर्घः, यदि तत्र स्नेह- ईर्ष्या तदा कोपः स्नेहख्यापनार्थं कार्यः, स चादीर्घः, कदा चिद्विरागः- स्याद्, अन्याशङ्केति। अन्यया तव कृतानि न मयेत्याशङ्क्य तत्स्नेहब- न्धनमीर्ष्यां ख्यापयितुम् ॥ १० ॥

२८४ सटीके कामसूत्रे [ ६ अधिकरणे,

अनुरागस्यावचनमाकारतस्तु दर्शयेन्मदस्वप्नव्याधिषु तु निर्वचनं, श्लाघ्यानां नायककर्मणां च ॥ ११ ॥

अनुरागस्येति। जातरागाऽस्मिकामयस्व मामिति, न वाच्यं लज्जापरिहारार्थं, कथमनुरागं ख्यापयेदित्याह—आकारतस्तु दर्शयेद्, यथा जानाति कामातुरेति, तत्राप्यपरिज्ञाने मदस्वप्नव्याधिषु निर्वचनं, कृतमत्ता कृतसुप्ता च ब्रूयाद्, अगत्या व्याधिमपदिशेद्, असम्भोगेनैव व्याधिताऽस्मीति, श्लाघ्यानामिति। श्लाघनीयानां देवकुलतडागादीनां धर्मयशोऽर्थानां निर्वचनं साधु कृतमिति ॥ ११ ॥

तस्मिन्ब्रुवाणे वाक्यार्थग्रहणं, तदवधार्य प्रशंसा, विषये भाषणं, तद्वाक्यस्य चोत्तरेण योजनं, भक्तिमांश्चेत् ॥ १२ ॥

तस्मिन्निति। नायके किंचिद् वस्तुब्रुवाणे वाक्यार्थग्रहणम्, इदमनेकमिति, न त्ववधीरयेदन्यथा मयि जातावज्ञेत्याशङ्केत, तदवधार्येति। न केवलमर्थग्रहणं तदुक्तमवधार्य प्रशंसा कर्तव्या, सुभाषितमुक्तं कोऽयो नाम जानात्येवमभिधातुमिति, विषये भाषणं, शब्दस्पर्शादियूक्तिः कर्तव्या, कस्मिन्विषये स्वाभिरुचिरिति ज्ञापनार्थं तथैवानुतिष्ठेद्, वाक्योत्तरेण योजनं बुद्धिवैदग्ध्यख्यापनार्थं, तत्रापि भक्तिमांश्चेद् यदि भवान् अजातस्नेहस्य वचने प्रत्युतावधीर्यमाणं वैलक्ष्यं स्यात्॥ १२ ॥

कथास्वनुवृत्तिरन्यत्र सपत्न्याः ॥ १३ ॥

कथास्वनुवृत्तिस्तेन कथ्यमानास्वनुवर्तनं तन्मुखावलोकनहुंकारादाम्, अन्यथाऽस्या मध्यवज्ञेति मन्येत, अन्यत्रेति। सपत्न्याः सपत्नीजायामीर्ष्याकोपख्यापनार्थं नानुवृत्तिः ॥ १३ ॥

[निः]श्वासे जृम्भिते स्खलिते पतिते वा तस्य चार्तिमाशंसीत ॥ १४ ॥

निःश्वासे=दीर्घनिःश्वसिते, जृम्भिते=क्षणं क्षणं जृम्भिकायां, स्खलिते=अर्थविस्मरणे, पतिते वा समेत्य पिच्छिले भूमिभागे पतने, तस्य [नाय]कस्यार्तिमाशंसीत, मा भूत्पीडेति, तेषामनिष्टसूचकत्वात् ॥ १४ ॥

क्षुतव्याहृतविस्मितेषु जीवेत्युदाहरणम् ॥ १५ ॥

क्षुतं = छिक्का, तदादिषु, जीवेत्युक्तिः स्नेहसूचिका ॥ १५ ॥

दौर्मनस्ये व्याधिदौर्हृदापदेशः ॥ १६ ॥

दौर्मनस्य इति। नायकान्तरसम्बन्धनिष्ठुरश्रवणाद् दौर्मनस्ये जाते, कारणं पृच्छतेऽपि तस्मै न कथयेत्, तद्गतस्नेहप्रच्छादनार्थं, तु व्याधिदौर्हृदापदेशः, व्याधेः शत्रुत्वं व्यपदिशेद्, चिरानुबन्धो मे

१ अध्याये ] कान्ताऽनुवृत्तप्रकरणम् । २८५

१ अध्याये ] कान्ताऽनुवृत्तप्रकरणम् । २८५

व्याधिः शत्रुबर्बाधत इति ॥ १६ ॥

गुणतः परस्याकीर्तनं, न निन्दा समानदोषस्य, दत्तस्य धारणम् ॥ १७ ॥

गुणतः परस्याकीर्तनम्, अन्यथाऽन्यासक्तेति जानीयात्, समानदोषस्येति । नायकेन तुल्यदोषस्यान्यस्य न निन्दा, मा भूदेतद्वारेण मां जुगुप्सत इत्यस्याशङ्का, दत्तस्य तेन दत्तस्य खर्परखण्डस्यापि ग्रहणम् ॥ १७ ॥

वृथाऽपराधे तद्व्यसने वाऽलङ्कारस्याग्रहणमभोजनं च ॥ १८ ॥

वृथाऽपराधे, यावदेव जानात्यनपराद्धमिति, तावदेव प्रतिविधानाथ-स्वेदाभ्यङ्गोपवासादिभिः शरीरपीडा दर्शयितव्या, तद्व्यसने नायकस्य पुत्रभ्रात्रादिनाशे, व्याधौ वा ज्वरादावुत्पन्नेऽलंकाराग्रहणमिति, मण्डन-प्रतिषेधः, भोजनाभावश्च ॥ १८ ॥

तद्युक्ताश्च विलापाः, तेन सह देशमोक्षं रोचयेद्, राजनि निष्क्रयं च ॥ १९ ॥

तद्युक्ताश्चेति । नायकेन व्याधिव्यसनाभ्यां च युक्ताः कथमपा-पस्य पतितमेतद् इति विलापाः कार्याः, तथा च त्वद्दुःखेनारहं दुःखि-तेति सूचितं भवति, तेनेति । नायकेन सह देशमोक्षः स्वदेशत्यागस्त-मेव रोचयेद्, माता मे विषमशीला; अपलाप्य मां देशान्तरं नयेः येन स्वातन्त्र्यात्तवानुवृत्तिं विधास्य इति, राजनि निष्क्रयं च, यदि राज-प्रतिबद्धा तदानीं राज्ञः सकाशान्मां निष्क्रीणीहीति रोचयेद्, अन्यथा पलायितां मामानानयेत् ॥ १९ ॥

सामर्थ्यमायुषस्तदवाप्तौ तस्यार्थाधिगमेऽभिप्रेतसिद्धौ शरीरोपचये वा पूर्वसम्भाषित इष्टदेवतोपहारः ॥ २० ॥

तदवाप्ताविति । यत्प्रायशो न घटते, तस्यावाप्तौ सत्यां समर्थे ममायुः येन त्वं घटितः, अन्यथा नियतं विनष्टाऽस्मीति ब्रूयाद्, अर्थाधिगम इति । अचिन्तितस्यार्थस्य लाभेऽभिप्रेतसिद्धावीप्सितार्थप्राप्तौ शरीरो-पचये वा व्याध्याद्यपगमात्, पूर्वेति । न तदानीमेव संभाषेत, अर्थला-भादिनिमित्तमाशापूरिकाया देव्या मयोपथाचितकं कृतं तेन च तव संम्पन्ना मनोरथाः सांप्रतं तस्यै बलिरुपहर्तव्य इति ॥ २० ॥

नित्यमलङ्कारयोगः, परिमितोऽभ्यवहारः ॥ २१ ॥

नित्यमिति । यत्तु 'नित्यमलंकारयोगिनी स्याद्, इत्युक्तं तदुपावर्तन-

२८६ सटीके कामसूत्रे [ ६ अधिकरणे,

काले द्रष्टव्यं, परिमित इति। बहुभक्षणे प्रायशो वेश्यानां दोषवत्त्वात्, तत्रापि स्निग्धं, न रूक्षं, ज्वरकारित्वादूक्षस्य ॥ २१ ॥

गीते च नामगोत्रयोर्ग्रहणं, ग्लान्यावुरसि ललाटे च करं- कुर्वीत ॥ २२ ॥

गीते चेति। गीते प्रस्तुते, विष्णुमित्रो वात्सगोत्र इति प्रस्तुत्य गा-तव्यमित्यर्थः, ग्लान्यामिति। करं प्रकुर्वीत, नायकसंबन्धिनं स्वहस्तेन गृहीत्वा स्थापयेदित्यर्थः ॥ २२ ॥

तत्सुखमुपलभ्य निद्रालाभे, उत्सङ्गे चास्योपवेशनं स्वपनं च, गमनं वियोगे ॥ २३ ॥

तत्सुखमिति। न्यस्तहस्तस्पर्शसुखम्, उपलभ्य = अनुभूय, निद्रा-लाभः, यथा मत्करस्पर्शान्निद्रासुखं लब्धवतीति मन्यते, उत्सङ्गेति। यदि न शयनीयं तर्हि तदुत्सङ्गे ग्लानावतया स्वकायचयो बुद्ध्वोपवेशनं स्वपनं च, गमनं वियोग इति। सुहृद्गृहं देवतां वा द्रष्टुं गच्छति, तदा मा भूत् क्षणमप्यनेन वियोग इति, तन्निमित्तं स्वयमनुगच्छेत् ॥ २३ ॥

तस्मात्पुत्रार्थिनी स्यादायुषो नाधिक्यमिच्छेत् ॥ २४ ॥

तस्मात्पुत्रार्थिनीति। ऋतुमत्यहमन्यत्र त्वया न शयितव्यमिति, नाधिक्यमिति। एतस्मान्मम मृतिः प्राग्भवति चेद्भद्रमिति ॥ २४ ॥

तस्याविज्ञातमर्थं रहसि न ब्रूयाद् ॥ २५ ॥

तस्येति। नायकस्य, अविज्ञातमर्थं रहसि न मन्त्रयेत केन चित्स-ह, मा भूदस्याशङ्काऽस्मद्गतं किमपि मन्त्रयत इति ॥ २५ ॥

व्रतमुपवासं चास्य निर्वर्तयेद्, मयि दोष इत्यशक्ये स्वयमपि तद्रूपा स्यात् ॥ २६ ॥

मयि दोषमिति। व्रतोपवासयोर्भङ्गे कामं मयि दोषोऽस्तु, न त्वया-ऽनुष्ठेयं शरीरं तव न क्षमत इति, अशक्ये निर्वर्त्तयितुं, स्वयमपि तद्रूपा गृहीतव्रता स्यात् ॥ २६ ॥

विवादे तेनाप्यशक्यमित्यर्थनिर्देशः ॥ २७ ॥

विवाद इति। कस्मिंश्चिद्वस्तुनि केन चिद्विप्रतिपत्तौ, तेनाप्यशक्य-मिति निर्देशः, नायकेनाप्येतज्ज्ञातुमशक्यं किमु त्वया, यदि शक्तश्चेत्स-एवेति कथयेदित्यर्थः ॥ २७ ॥

तदीयमात्मीयं वा स्तम्भविशेषेण फणयेत् ॥ २८ ॥

२ अध्याये ] कान्ताऽनुवृत्तप्रकरणम् । २८७

स्वमिति द्रव्यं, नायकसंबन्धि, आत्मीयं वा स्थापनपालनाभ्याम-विशेषेण पश्येत् ॥ २८ ॥

तेन विना गोष्ठ्यादीनामगमनमिति ॥ २९ ॥

तेनेति । नायकेन विना गोष्ठ्यादीनामगमनं, यदि गमनं तेनैव, तत्र गोष्ठी सखीभिस्सह, आदिशब्दाद् घटोद्यानादयः ॥ २९ ॥

निर्माल्यधारणे श्लाघोच्छिष्टभोजने च ॥ ३० ॥

निर्माल्येति । स्वकीयं माल्यादि मम देयमिति, मदीयं वा स्पृष्ट्वा परिधार्य्यमिति, निमन्त्रितो न मां नयसि भुक्तशेषमवश्यम् प्रेषयितव्यमिति ॥ ३० ॥

कुलशीलशिल्पजातिविद्यावर्णवित्तदेशमित्रगुणवयोमाधुर्य्यपूजा ॥ ३१ ॥

कुलशीलेति । उदितोदितं कुलमस्य नानुदितानुदितम् अनुदितोदितं चेति, शोभनं शीलं न विषममिति, प्रकृष्टमालेख्यादि शिल्पं नाप्रकृष्टमिति, विशुद्धाऽस्य जातिर्न संकीर्णेति, निर्मलाऽस्यान्वीक्षिक्यादिविद्या न दुर्ग्रहीतेति, कनकपिञ्जरोऽस्यवर्णो न पाण्डुरिति, न्यायेनोपार्जितंवित्तं नान्यायेनेति, पूज्योऽस्य देशो नापूज्य इति, गुणवन्त्यस्य मित्राणि न दोषवन्ति, शोभना अस्य गुणा न त्वशोभनाः, प्रथमं वयो न तृतीयमिति, मधुरं वचो नामधुरं चेति, पूजा = स्तुतिः कर्त्तव्या ॥ ३१ ॥

गीतादिषु चोदनमभिज्ञस्य ॥ ३२ ॥

अभिज्ञस्य तद्विद्याज्ञस्य गीतादौ प्रेरणम्, अनभिज्ञश्चोद्यमानो मामुपहसतीत्याशङ्केत, अभिज्ञस्तु मद्विज्ञानं श्लाघत इति मन्येत ॥ ३२ ॥

भयशीतोष्णवर्षाण्यनपेक्ष्य तदभिगमनम् ॥ ३३ ॥

भयेति । रात्रावन्धकारेऽपि भयं, हेमन्ते शीतं, ग्रीष्म उष्णं, वर्षासु वर्षमनपेक्ष्य तदभिगमनम्, इदमासक्तिख्यापनार्थम् ॥ ३३ ॥

स एव च मे स्यादित्योर्ध्वदैहिकेषु वचनम् ॥ ३४ ॥

और्ध्वदैहिकेष्विति । वर्त्तमानाद् देहात् परलोके यो देहस्स ऊर्ध्वदेहः तत्प्रयोजनकेषु दानादिषु, स एव मे स्यादिति, अनेन पुण्येन जन्मान्तरेऽपि स एव मे वल्लभो भूयादिति वचनमुदाहर्त्तव्यम् ॥ ३४ ॥

तदिष्टरसभावलीलाऽनुवर्तनम् ॥ ३५ ॥

तदिष्टेति । नायकस्य शृङ्गारादिषु य इष्टो रसो भावः, स्थायिसंचारिसात्त्विकेषु, लीलाचेष्टितानि तेषामनुवर्त्तनम् ॥ ३५ ॥

मूलकर्म्माभिशङ्का ॥ ३६ ॥

२८८सटीक कामसूत्रे[ ६ अधिकरणे,

मूलेति । नियतं मयि वशीकरणमूलिका त्वया प्रयुक्ता, येन तव विधेयाऽस्मीत्याशङ्का कार्या, नैवमहं क्व चिदेवं प्रवृत्तेति ज्ञापनार्थम्॥३६॥

तदभिगमने च जनन्या सह नित्यो विवादः ॥ ३७ ॥

तदभिगमन इति । नायकमनुगच्छन्तीं किं मां धारयसीति, मात्रा सह नित्यं कृतककलहोऽनुरागप्रकटनार्थः ॥ ३७ ॥

बलात्कारेण च यद्यन्यत्र तया नीयते तदा विषमनशनं शस्त्रं रज्जुं वा कामयेत ॥ ३८ ॥

बलात्कारेण चेति । हठात्, तया जनन्या, अन्यत्र=गम्ये, कार्यापेक्षया नीयेत मात्रा यदा तदा तत्समक्षं पूर्वोक्ता अरत्यादयः सम्भवन्त्येव, किं स्वेतदधिकं विषमिति । विषं भक्षयामीति, अशनं न भक्षयामीति, शस्त्रेण कुक्षिमुत्पाटयामीति, रज्जुमुद्बध्द्यात्मानं व्यापादयामीति, आपातमृत्युहेतुं कामयेत वाचैव न तु क्रियया ॥ ३८ ॥

प्रत्यायनं च प्रणिधिभिर्नायकस्य ॥ ३९ ॥

प्रत्यायनं च प्रणिधिभिरिति । मातुरेवास्या दोषो यदन्यत्र गमनं न त्वस्या अनभीष्टत्वादिति चारैः परिबोधनमिति ॥ ३९ ॥

स्वयं वाऽऽत्मनो वृत्तिगर्हणम् ॥ ४० ॥

स्वयं वेति । कुत्सिता वेश्यानां जीविका, यत्स्निग्धं सन्त्यज्यार्थतृष्णया मातरोऽन्येन योजयन्तीति ॥ ४० ॥

न त्वेवार्थेषु विवादः ॥ ४१ ॥

न त्वेवेति । कामं तदभिगमने विवादः स्याद्, नायकेन तु यद्देवं तत्साधयन्त्या जनन्या न विवादस्तदर्थत्वात्प्रयासस्य ॥ ४१ ॥

मात्रा विना किं चिन्न चेष्टेत ॥ ४२ ॥

मात्रा विना न किं चिच्चेष्टेतेति । अन्ततो भोक्तुमपि यदाऽऽह माता तदैव कुर्यादन्यथा न कुर्यात् , कार्येषु सैव व्यापारयितव्येत्यर्थः ॥ ४२ ॥

प्रवासे शीघ्रागमनाय शापदानम् ॥ ४३ ॥

प्रवास इति । नायकस्य कार्यवशाद् देशान्तरगमने शापदानं शपथदानं, मज्जीवितेन शापितोऽसि यदि शीघ्रं नागच्छेरिति ॥ ४३ ॥

परोक्षे वृत्तमाह—

प्रोषिते मृजानियमश्चालङ्कारस्य प्रतिषेधः मङ्गलं त्वपेक्ष्यम् , एकं शङ्खवलयं वा धारयेत् ॥ ४४ ॥

प्रोषित इति । मृजानियमः=शरीरासंस्कृतिः, परोक्षे विफलमिति

२ अध्याये ] कान्ताऽनुवृत्तप्रकरणम् । २८९

२ अध्याये ] कान्ताऽनुवृत्तप्रकरणम् । २८९


चेन्न, तदीयजनसमक्षे सफलत्वात्, प्रवासचर्यायामुक्तमपि चैतत्प्रायशः- कुलयोषितस्तद्, इदं तु वेश्याया एवेति; अलंकारस्य, प्रतिषेधः = अधारणम्, मङ्गलं शङ्खवलयादि त्वपेक्ष्यम्, प्रोषितस्य मङ्गलापे- क्षया तावन्मात्रं धार्यमित्यर्थः ॥ ४४ ॥

स्मरणमतीतानां, गमनमीक्षणिकोपश्रुतीनां, नक्षत्रचन्द्रसूर्यता- राभ्यः स्पृहणम् ॥ ४५ ॥

स्मरणमतीतानां नायकेन सहोपभुक्तानाम्, ईक्षणिकाः = विप्रश्निकाः, तासां गमनं गृहे इत्यर्थाद्, उपश्रुतिर्निशीथे शुभाशुभपरिज्ञानार्थं प्रथ- मवाक्यग्रहणं तेन तस्याः कृते रथ्याचत्वरेषु गमनमिति, नक्षत्रादिभिः- स्पृहणमिति, पुण्यवन्त एते यन्नायकेन दृश्यन्ते, अहमपुण्या यन्मां- नेक्षत इति ॥ ४५ ॥

इष्टस्वप्नदर्शने तत्संगमो ममास्त्विति वचनम् ॥ ४६ ॥

इष्टस्वप्नेति । सद्भुतं शुभं स्वप्नं दृष्ट्वा; प्रत्यूषे तज्जनसमक्षं प्रका- श्य; आस्तां तावदन्यत्तत्समागम एव ममास्त्विति वचनमुदाहर्तव्यम्, अदृष्ट्वाऽपि कृतकमिष्टं स्वप्नं प्रकाशयेद्, यदि देशान्तरस्थस्य नायक- स्याभिप्रेतसिद्धिश्चारैरुपलब्धा स्यात् ॥ ४६ ॥

उद्वेगोऽनिष्टे, शान्तिकर्म च ॥ ४७ ॥

उद्वेगोऽनिष्ट इति । अशुभसूचके स्वप्नदर्शने सत्युद्वेगः, तस्य किम- प्यनिष्टमस्तीति, शान्तिकर्म ब्राह्मणानाहूय कार्यं, कृतके चानिष्टे विधि- रयमेव यद्युपलब्धमनिष्टं किञ्चित् ॥ ४७ ॥

प्रत्यागते कामपूजा ॥ ४८ ॥

प्रत्यागत इति । प्रतीपमागते नायके, प्रत्यक्षे वृत्तमाह-कामेति । त्वत्प्रसादादागत इति, कामदेवपूजनम् ॥ ४८ ॥

देवतॊपहाराणां करणम् ॥ ४९ ॥

देवतॊपहाराणामिति । तज्जनसमक्षं प्रतिपन्नानां, करणं = निष्पाद- नम् ॥ ४९ ॥

सखीभिः पूर्णपात्रस्याहरणम् ॥ ५० ॥

पूर्णपात्रस्येति । दिष्टिवृद्धया स्निग्धजनेन यदुत्तरीयामाच्छिद्य गृह्यते, तत्पूर्णपात्रं, तस्य सखीभिराहरणम् ॥ ५० ॥

वायसपूजा च ॥ ५१ ॥

वायसेति । यन्मया प्रतिज्ञातं, संक्रामवायस ! वल्लभे समागते पिण्डं- ते दास्यामीति, तदिदं प्रतिज्ञातं गृहाणेति ॥ ५१ ॥

३७ का० सु०

२९० सटीक कामसूत्रे [ ६ अधिकरणे,

प्रथमसमागमनन्तरं चैतदेव वायसपूजावर्जम् ॥ ५२ ॥

नायकेन सह यः प्रथमः समागमस्तदनन्तरमेतत्कामपूजाऽऽदिकमनुष्ठेयं सम्भवाद्, वायसपूजावर्जं तस्या असम्भवात् ॥ ५२ ॥

प्रत्यक्षे परोक्षे च वृत्तमाह--

सक्तस्य चानुमरणं ब्रूयात् ॥ ५३ ॥

सक्तस्य चेति । अनुमरणं ब्रूयात् , स्वर्याते न मया जीवितव्यमिति, सक्तो ह्येवं सम्भावयति नान्यः ॥ ५३ ॥

कः पुनः सक्त इत्याह--

निसृष्टभावः, समानवृत्तिः, प्रयोजनकारी, निराशङ्कः, निरपेक्षोऽर्थेषु, इति सक्तलक्षणानि ॥ ५४ ॥

निसृष्टभाव इति । सर्वात्मना विश्वस्तः, समानवृत्तिस्तावत्प्रवृत्तौ निवृत्तौ च, प्रयोजनकारी नायिकाया यत्कार्यं तदुदीरितमात्रं यः कर्तुंशक्नोति, निराशङ्कः न कुतश्चिदाशङ्कते तस्यां प्रवर्तमानः, निरपेक्षोऽर्थेष्वात्मीयेषु तया गृह्यमाणेष्वपि ॥ ५४ ॥

तदेतन्निदर्शनार्थं दत्तकशासनादुक्तमनुक्तं च लोकतः शीलयेत्पुरुषप्रकृतितश्च ॥ ५५ ॥

तदिति । उक्तं वृत्तं निदर्शनार्थं = प्रदर्शनार्थं, दत्तकशासनादिति । दत्तकशास्त्रं दृष्ट्वा, लोकत इति । पराराधनकुशलाद्, शीलयेद् = आगमयेत् ॥ ५५ ॥

गम्यस्याप्यनुवर्तमानस्य वेश्यास्वरूपप्रतिपत्त्यर्थमाह-- भवतश्चात्र श्लोकौ--

सूक्ष्मत्वादतिलोभाच्च प्रकृत्याऽज्ञानतस्तथा । कामलक्ष्म तु दुर्ज्ञानं स्त्रीणां तद्भावितैरपि ॥ ५६ ॥

सूक्ष्मत्वादिति । स्त्रीणामिति । वेश्याशब्दवाच्यानां, य इच्छालक्षणः-कामस्तस्य लक्ष्म स्वरूपं दुर्ज्ञानं, किमिदं स्वाभाविकं वा कृत्रिममिति दुःखेन ज्ञायते, कथमित्याह--सूक्ष्मत्वादिति । चेतोधर्मत्वेनातीन्द्रियत्वात्, क्रियया सुज्ञानमिति चेदाह--अतिलोभादिति । लुब्धा हि स्वाभाविकमिव रूपयन्ति, प्रकृत्याऽज्ञानत इति । कामपरासु हि विश्वसन्ति पुमांसः, ततश्च तेषां स्वभावत एव रागाचरणसंभवादज्ञानमेव प्रादुर्भवति न ज्ञानं, तद्भावितैरपि, लक्ष्मपरिज्ञानाभियुक्तैरपि दुर्ज्ञेयं, किमिदं स्वाभाविकं कृत्रिमं वेति ॥ ५६ ॥

इति कान्ताऽनुवृत्तं द्विपञ्चाशत्तमं प्रकरणम् ॥

३ अध्याये ] अर्थागमोपायप्रकरणम् । २९१

तदेवाकृतकं कृतकं च कामलक्ष्म दर्शयन्नाह--

कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च ।
कर्षयन्त्योऽपि सर्वार्थान्ज्ञायन्ते नैव योषितः ॥ ५७ ॥

इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे कान्ताऽनुवृत्तं द्वितीयोऽध्यायः ।

कामयन्त इति । अकृतकं कामयन्ते पुरुषं, तदपि न स्थिरमित्याह- विरज्यन्त इति । कृतकं केलिवशाद्रञ्जयन्ति, तदपि न स्थिरमित्याह- त्यजन्तीति, किमर्थमित्याह-कर्षयन्त्योऽपीति । सर्वार्थान् गृह्णन्त्योऽपि त्यजन्तीत्यर्थः, अलक्तकवन्निष्पीडितसारत्वाज्ज्ञायन्ते नैव किंरूपा इति, योषितो वेश्या इत्यर्थः, तस्मात्तास्वतिसक्तिं न कुर्यात्, केवलं यावदर्थं प्रतिपद्येरन्नित्युपदेशः ॥ ५७ ॥

इति कान्ताऽनुवृत्तं द्विपञ्चाशत्तमं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणे कान्ताऽनुवृत्तं द्वितीयोऽध्यायः ।


तृतीयोऽध्यायः ।

एवमनुवर्तितात्कान्ताद्वित्तमाददीत, तच्च नानुपानेन साधयेदित्युक्तम्, इदानीमर्थागमोपाया उच्यन्ते, तच्चादानं द्विविधं-स्वाभाविकमितरच्च, यदाह-

सक्ताद्वित्तादानं स्वाभाविकमुपायतश्च ॥ १ ॥

सक्तादिति । उक्तलक्षणात्, स्वाभाविकं न यत्नमपेक्षते, सक्तस्यार्थेषु निरपेक्षत्वात्, उपायतश्च यदसक्ताद्भवति तद्यात्निकम् ॥ १ ॥

तत्र स्वाभाविकं संकल्पितं संकल्पसमधिकं वा लभमाना नोपायान्प्रयुञ्जीतेत्याचार्याः ॥ २ ॥

तत्र स्वाभाविकं वित्तं संकल्पितम्, एतावत्त्वया देयमिति संकल्पितात्समधिकं वा लभमाना नोपायान्प्रयुञ्जीत, सुलभत्वात्, तेनासंकल्पिते च प्रयोगः ॥ २ ॥

विदितमप्युपायैः परिष्कृतं द्विगुणं दास्यतीति वात्स्यायनः ॥ ३ ॥

विदितमपीति । स्वाभाविकत्वेन समधिकत्वेन च, परिच्छिन्नमप्युपायैः परिष्कृतमुपबृंहितं द्विगुणं दास्यतीति, तत्र प्रयोगो युक्तः ॥ ३ ॥

२९२ सटीक कामसूत्रे [ ६ अधिकरणे,

यैरुपायैरादीयमानेऽप्यर्थे नार्थपरता ज्ञायते तानुपायानाह—

अलंकारभक्ष्यभोज्यपेयमाल्यवस्त्रगन्धद्रव्यादि व्यवहारिषु कालिकमुद्धार्यमर्थप्रतिनयनेन तत्समक्षम् ॥ ४ ॥

अलंकारेति। भक्ष्यं = लड्डुकादि, भोज्यम् = अन्नादि, कृतमकृतं वा, पेयं = सुरादि, वस्त्रं, चतुर्विधं-त्वक्फलकृमिरोमजं, गन्धः = कुङ्कुमादिः, माल्यं = ग्रथितकुसुमादि, आदिशब्दात्ताम्बूलपूगफलपशुभाण्डोपस्करादि, तदुद्धार्यमिति संबन्धः, व्यवहारिष्विति । विक्रेतृषु व्यवस्थितं, कालिकमिति । कालेन देयम् , उद्धार्यमादातव्यमित्यर्थः, अर्थप्रतिनयनेनेति । मूल्यप्रतिदानेन न तु द्रव्यस्यैव प्रतिनयनेन तत्समक्षं यतो दृष्ट्वा स्वयमेव मूल्यं दास्यति ॥ ४ ॥

तच्चित्तप्रशंसा ॥ ५ ॥

तच्चित्तप्रशंसा, तत्समक्षमित्येव, रोचयते मदीयमिति तत्प्रशंसत इति ददाति ॥ ५ ॥

व्रतवृक्षारामदेवकुलतडागोद्यानोत्सवप्रीतिदायव्यपदेशः ॥ ६ ॥

व्रतेति । आगाम्यष्टम्यां मम व्रतं, तत्रानेन प्रयोजनमिति, दर्शे मया वृक्षो रोपितस्तस्य प्रतिष्ठेति, आम्राणां मधूकानां मयाऽऽरामः कार्यः, कृतस्य वा कर्णवेधादिकं कार्यमिति, देवकुलमुत्थापितमुत्थापितस्य वा प्रतिष्ठेति, तडागं पुष्करिण्यादिकं खानितस्य वा प्रतिष्ठेति, उत्सवः परश्वो भविता तत्रानेन प्रयोजनमिति, स्निग्धोऽयमागतस्तस्य प्रीत्याऽवश्यं किंचिद्देयमिति तद्व्यपदेशः ॥ ६ ॥

तदभिगमननिमित्तो रक्षिभिश्चौरैर्वाऽलङ्कारपरिमोषः ॥ ७ ॥

तदभिगमनेति । नायकाभिगमनं निमित्तं यस्य, रक्षिभिर्दण्डपाशिकैः सहायैः कृतसंवित्कैश्चोरैर्वा कृतसंवित्कैरलंकारपरिमोषः कार्यः, येनेयमस्मन्मूलमागच्छन्ती मुषितेति ज्ञात्वाऽन्यमलंकारं प्रयच्छति ॥७॥

दाहात्कुड्यच्छेदात्प्रमादाद्भुवने वार्थनाशः ॥ ८ ॥

दाहादिति । प्रमादादुत्थितेऽग्नौ च दग्धमिति, नाशः प्रकाश्यः न तु स्वयमादीप्योऽनेकप्राण्युपघातदोषात् , कुड्यच्छेदादिति । चोरैः संधिं खात्वाऽपहृतमिति नाशः, चोरव्यञ्जनैर्वा कुड्यच्छेदान्नाशः, प्रमादादिति । मम मातुर्वा प्रमादाद् गृह एव द्रव्यनाशः ॥ ८ ॥

तथा याचितालंकाराणां नायकालंकाराणां च तदभिगमना-र्थस्य व्ययस्य प्रणिधिभिर्निवेदनम् ॥ ९ ॥

३ अध्याये ] अर्थागमोपायप्रकरणम् । २९३

३ अध्याये ] अर्थागमोपायप्रकरणम् । २९३

तथेति । यथा स्वद्रव्यस्य दाहादिना नाशस्तथा याचितालंकाराणां-कार्यवशादन्यतो मार्गितानां, नायकालङ्काराणां तेन स्थापितानां, दाहादिना नाशे प्रकाशितेऽवश्यं प्रयच्छति, स्वकीयं च न मृगयते, प्रणिधिभिरिति । परिचारकमुखा ये नायकेन प्रणिहितास्तैर्व्ययस्य निवेदनं,-नायकाग्रतस्त्वामभिगन्तुमस्याः सरकताम्बूलादिभिरियान् व्यय उत्थित इति ॥ ९ ॥

तदर्थमृणग्रहणं, जनन्या सह तदुद्भवस्य व्ययस्य विवादः ॥१०॥

तदर्थमिति । नायकनिमित्तव्ययार्थम्, ऋणग्रहणं, तत्समक्षमित्यर्थाद्, जनन्येति । ऋणं किमिति गृह्णासि कथं त्वया शोधयितव्यम् ? इत्यभिदधत्या मात्रा सह, तदुद्भवस्य नायकसंबन्धिनः कृते नात्मीयस्य, विवादः कर्तव्यः किं तवाहमेवात्मानमपि विक्रीय शोधयिष्यामीति, तेन तथाविधं दृष्ट्वाऽवश्यं ददातीत्यर्थः ॥ १० ॥

सुहृत्कार्येष्वनभिगमनमनभिहारहेतोः ॥ ११ ॥

सुहृत्कार्येष्विति । नायकमित्रोत्सवादिष्वनभिगमनं कार्यमाहूयमानयाऽपि नायकेन शब्द्यमानयाऽपि, कारणमाह—अनभिहारहेतोरिति । अभिहारः = उपायनं, तन्मम नास्तीति ॥ ११ ॥

तैश्च पूर्वमाहृता गुरवोऽभिहाराः पूर्वमुपनीताः पूर्वं श्राविताः- स्युः ॥ १२ ॥

तैश्च पूर्वमाहृता इति । सुहृद्भिरस्माकमप्युत्सवे महान्तोऽभिहाराः-पूर्वमुपनीता इति नायकस्य पूर्वं श्राविताः स्युः, यावदेव सुहृत्कार्यं न संभवति, पूर्वं याचितं हि कार्यकाले प्रयच्छति, यदि न दद्यादवश्यमेव तदानीमनभिगमनम् ॥ १२ ॥

उचितानां क्रियाणां विच्छित्तिः ॥ १३ ॥

उचितानामिति । प्रत्यहं शरीरस्थित्यर्थं क्रियमाणानां, विच्छेदः-कार्यः, येनायमिदानीं शरीरस्थितिरप्यस्या न संभवतीति ॥ १३ ॥

नायकार्थं च शिल्पिषु कार्यम् ॥ १४ ॥

नायकार्थं चेति । नायकादर्थो यस्मिन् कार्ये तत् कार्यं, शिल्पिषु निर्देश्यमिति शेषः, अयमुत्कृष्टः शिल्पी कारयेयं बहु मृगयते, तच्च मम नास्ति यदि त्वं प्रयच्छसि नो चेद्यदा भविष्यति तदा कारयिष्यामीति ॥ १४ ॥

वैद्यमहामात्रयोरुपकारक्रिया कार्यहेतोः ॥ १५ ॥

उपकारक्रिया = उपकारकरणं, कार्यहेतोरिति । इदं तत्कार्यं यदुप-

२९४ सटीक कामसूत्रे [ ६ अधिकरणे,

कृतो वैद्यो भेषजापदेशेन नायकेन दापयति, महामात्रश्चोपकृतो हठाद्दा- तुकामेनापि ॥ १५ ॥

मित्राणां चोपकारिणां व्यसनेष्वभ्युपपत्तिः ॥ १६ ॥

मित्राणामिति । नायकसम्बन्धिनामुपकर्तुं शीलं येषां नान्येषां,- व्यसनेषु दैवमानुषेषु, अभ्युपपत्तिः = साहाय्यं, तानि हि व्यसनेष्वभ्यु- पपन्नानि नायकमभिधायोपकुर्वन्ति ॥ १६ ॥

गृहकर्म, सख्याः पुत्रस्योत्सञ्जनं, दोहदं, व्याधिः, मित्रस्य दुःखापनयनमिति ॥ १७ ॥

गृहकर्म = छादनवेष्टनादि कारयितव्यं, सख्याः स्वस्याः पुत्रस्योत्सञ्जनं यस्योत्सवताप्रतिपत्तिः, क्रियाकालोपलक्षणं चैतद्, अन्नप्राशनं चूडाकर- णादि वा करणीयं, दोहदः = अभिलाषः, अस्मत्सख्याः, व्याधिर्वाऽऽक- स्मिकः प्रतिकर्तव्यः, मित्रस्य च युष्मदीयस्य, पुत्रादिमरणान्ममेह दुःख- मुत्पन्नं तस्य दर्शनादपनेतव्यमित्येवं गृहकर्मादि व्यपदेश्यमिति शेषः ॥१७॥

अलङ्कारैकदेशविक्रयो नायकस्यार्थे ॥ १८ ॥

अलङ्कारैकदेशविक्रय इति । स्वस्यालङ्कारस्यैकदेशमाकृष्य तत्स- मक्षं विक्रयो येनायं मदर्थं विक्रीणातीति प्रयच्छति ॥ १८ ॥

तया शीलितस्य चालंकारस्य भाण्डोपस्करस्य वा वणिजो- विक्रयार्थं दर्शनम् ॥ १९ ॥

तया नायिकया, शीलितस्य रुचितालङ्कारस्य, भाण्डोपस्करस्य वा शीलितस्य, वणिजः कृतसङ्केतस्य, नायकसमक्षं दर्शनं कर्तव्यं येनायं- नास्त्यस्याः किमपि यच्छीलितमपि विक्रेतुमारब्धमिति प्रयच्छति ॥१९॥

'भाण्डसंप्लवे विशिष्टग्रहणम्' इति, दत्तकसूत्रम्, अस्य स्पष्टार्थं सूत्रा- न्तरमाह—

प्रतिगणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्ट- स्य ग्रहणम् ॥ २० ॥

प्रतिगणिकानामिति । भाण्डस्य सादृश्यात्स्वेन भाण्डेन व्यति- करे परिवर्ते सति, मा भूत्पुनरेवमिति प्रतिशिष्टस्य, प्रमाणसंस्थाना- भ्यां ततोऽधिकस्य, ग्रहणं, वणिजो हस्तात् क्रमेण नायकसमक्षं कुर्याद्, येनायं क्रीत्वा प्रयच्छति, प्रायशश्च वेश्यानां सामान्यानां कार्योत्पत्ताव- न्योन्यस्य भाण्डं याचितकं भवतीति प्रतिगणिकाग्रहणम् ॥ २० ॥

पूर्वोपकाराणामविस्मरणमनुकीर्तनं च ॥ २१ ॥

३ अध्याये ] विरक्तप्रतिपत्तिप्रकरणम् । २९५

३ अध्याये ] विरक्तप्रतिपत्तिप्रकरणम् । २९५

अविस्मरणमिति । विस्मरणे हि तवेदं मयोपहृतमिति यदि तेना- भिहिता किं ब्रूयाद्, अनुकीर्तनं च तत्समक्षं येनोपकृतमन्न न नश्यतीति, पुनः प्रयच्छति ॥ २१ ॥

प्रणिधिभिः प्रतिगणिकानां लाभातिशयं श्रावयेत् ॥ २२ ॥

प्रणिधिभिः = चारैः, प्रतिगणिकानामात्मना तुल्यदानमनर्हाणां, ला- भातिशयश्रावणं नायकसमक्षं, भवदावासाद्द्विष्णुमित्रया लब्धमिदमधि- कमित्यादि ॥ २२ ॥

तासु नायकसमक्षमात्मनोऽभ्यधिकं लाभं भूतमभूतं वा व्री- डिता नाम वर्णयेत् ॥ २३ ॥

तास्विति । प्रतिगणिकासु, यो लाभस्तस्मादप्यधिकमिति योज्यम्, भूतं वा नायकेन दत्तम्, अभूतमदत्तम्, व्रीडिता नामेति । लज्जितेव वर्णयेद्, येन सोऽपि लज्जितः प्रयच्छेत् ॥ २३ ॥

पूर्वयोगिनां च लाभातिशयेन पुनः संधाने यतमानानामावि- ष्कृतः प्रतिषेधः ॥ २४ ॥

पूर्वयोगिनामिति। पूर्वसंसृष्टानां विशीर्णानां, लाभातिशयेनाधिकेन लाभेन, पुनः सन्धाने यतमानानां यत्नं कुर्वताम्, आविष्कृतः = प्रकटः, प्रतिषेधः कर्तव्यः, यथाऽसौ श्रुत्वा मय्यनुरक्तेति प्रयच्छति ॥ २४ ॥

तत्स्पर्धिनां च त्यागयोगितानिदर्शनम् ॥ २५ ॥

तत्स्पर्धिनां चेति । नायकस्पर्धिनां त्यागयोगितानिदर्शनं प्रणिधि- भिस्त्यागयोगित्वख्यापनार्थमित्यर्थः, येनायं श्रुत्वाऽवतार एषां मा भूदिति प्रयच्छति ॥ २५ ॥

न पुनरेष्यतीति बालयाचितकमित्यर्थागमोपायाः ॥ २६ ॥

न पुनरेष्यतीति । न पुनर्गृहमेनेनागन्तव्यमिति, बालेन प्रयुक्तेन याचितकं कार्यमिदं मे देहीति, बालवद्वा लज्जां त्यक्त्वा याचितव्यमि- त्यर्थः, एतेऽर्थागमोपाया देशकालावस्थाऽपेक्षया प्रयोक्तव्याः ॥ २६ ॥

इत्यर्थागमोपायास्त्रिपञ्चाशत्तमं प्रकरणम् ॥

सक्ताद्वित्तादानमुपायैरुक्तं, विरक्ते तु किं प्रतिपद्येतेति, विरक्तप्रति- पत्तिरुच्यते, तत्र विरक्तस्य लक्षणमाह—

विरक्तं च नित्यमेव प्रकृतिविक्रियातो विद्याद् मुखवर्णाच्च॥२७॥

विरक्तं चेति । नित्यमेवेति । सर्वत्र क्रियासु वर्तमानम्, प्रकृतिविक्रि- यात इति । स्वभावान्यथात्वेनेत्यर्थः, अनेनेङ्गितमन्यथावृत्तिलक्षणं दर्श-

२९६ सटीककामसूत्रे [ ६ अधिकरणे,

यति, मुखवर्णाच्च विद्यादित्येव, मुखरागादित्यर्थः, कश्चिदेव मुखरागे विरागं सूचयति, तेनेङ्गिताकाराभ्यां रक्तवद्विरक्तमपि विद्यादित्युकम्॥२७॥

तामन्यथावृत्तिमाह—

ऊनमतिरिक्तं वा ददाति ॥ २८ ॥

ऊनमिति । अतिरिक्तं वा यथादीयमानात् ॥ २८ ॥

प्रतिलोमैः सम्बध्यते ॥ २९ ॥

प्रतिलोमैः संबध्यते, नायिकाया विपक्षैः सह प्रीतिं करोति ॥ २९ ॥

व्यपदिश्यान्यत्करोति ॥ ३० ॥

व्यपदिश्य 'स्नातव्यम्' इति, अन्यत्करोति, सज्जीकृतेऽपि स्नानोपकरणे भुङ्क्ते ॥ ३० ॥

उचितमाच्छिनत्ति ॥ ३१ ॥

उचितमाच्छिनत्ति, प्रत्यहं दीयमानं न ददाति ॥ ३१ ॥

प्रतिज्ञातं विस्मरत्यन्यथा वा योजयति ॥ ३२ ॥

प्रतिज्ञातमिदं मया देयमिति विस्मरति, न प्रतिज्ञातमिति, अन्यथा योजयति न त्विदमिति ॥ ३२ ॥

स्वपक्षैः संज्ञया भाषते ॥ ३३ ॥

स्वपक्षैरिति। मित्रादिभिः सह, संज्ञया भाषते न वचसा मा श्रौषीदियमिति ॥ ३३ ॥

मित्रकार्यमपदिश्यान्यत्र शेते ॥ ३४ ॥

मित्रकार्यमपदिश्य, मयाऽद्य कर्तव्यमित्यन्यत्र शेते, नायिकाऽन्तरगृहे ॥ ३४ ॥

पूर्वसंसृष्टायाश्च परिजनेन मिथः कथयति ॥ ३५ ॥

पूर्वसंसृष्टायाश्च नायिकायाः परिचारकेण सह, मिथः = रहसि, कथयति यत्पूर्ववृत्तं वर्तमाननायिकागतं वा ॥ ३५ ॥

तस्मिन्विरक्त इति ज्ञातेऽनुष्ठानमाह—

तस्य सारद्रव्याणि प्रागवबोधादन्यापदेशेन हस्ते कुर्वीत ॥ ३६॥

तस्येति। विरक्तस्य, सारद्रव्याणि = सुवर्णरजतादीनि, हस्ते कुर्वीत, प्रागवबोधादिति। यावदसौ न जानाति, ज्ञातोऽहमनया विरक्त इति, अन्यथा प्रतिविधानान्तरं चिन्तयेत्, तत्राप्यन्यापदेशेन यत्किंचिद्व्याजं कृत्वेत्यर्थः ॥ ३६ ॥

तानि चास्या हस्तादुत्तमर्णः प्रसह्य गृह्णीयात् ॥ ३७ ॥

इति विरक्तप्रतिपत्तिश्चतुःपञ्चाशत्तमं प्रकरणम् ॥

३ अध्याये ] निष्कासनक्रमप्रकरणम् । २९७

तानि चेति । सारद्रव्याणि, अस्या इति । नायिकाया हस्ताद्, उत्तमर्ण इति । यस्मादुत्तमर्णानायकार्थमृणमाहृतं गृहीतवती स तया कृतसंकेतः प्रसह्याभिभूय गृह्णीयात् ॥ ३७ ॥

विवदमानेन सह धर्मस्थेषु व्यवहरेदिति विरक्तप्रतिपत्तिः ॥ ३८ ॥

विवदमानेनेति । मदीयमेतत्स्वं किं गृह्णासीति विवादं कुर्वता नायकेन सह, धर्मस्थेषु प्राङ्‌विवाकादिषु च, व्यवहरेदुत्तमर्णः, यदि तु न विवदेत सिद्धं कार्यम् ॥ ३८ ॥

इति विरक्तप्रतिपत्तिश्चतुःपञ्चाशत्तमं प्रकरणम् ॥

विरक्तस्य स्वयमेव निष्कासितत्वान्न निष्कासनं, यस्तु सक्तत्वात्स्वयं न निष्कसति, तस्य निष्कासनक्रमा उच्यन्ते, तत्रायं प्रथमः कल्पो यदस्यानुपालनं, यदाह—

सक्तं तु पूर्वोपकारिणमप्यल्पफलं व्यलीकेनानुपालयेत् ॥ ३९ ॥

सक्तमिति । अल्पं ददतमपि, व्यलीकेनापराधेनानुपालयेत्, तस्य सक्तत्वात्, पूर्वं बहुधा कृतोपकारोऽपि परामिच्छति यदा तदा निष्कासयेदित्यर्थः ॥ ३९ ॥

असारं तु निष्प्रतिपत्तिकमुपायतोऽपवाहयेदन्यमवष्टभ्य ॥ ४० ॥

असारं = निर्द्रव्यम्, अपवाहयेद् = निष्कासयेद्, यद्यपि तदात्वे नास्ति, तथाऽपि भविष्यतीति चेदाह—निष्प्रतिपत्तिकमिति । निरनुष्ठानमित्यर्थः, ननु रतिफलत्वात्कथं निष्कास्य इति-चेन्न, अन्यमवष्टभ्येति । अन्यस्मादुभयोपपत्तेः, वर्तमानादन्यं पूर्वसंसृष्टं विशीर्णम्, अन्यं वाऽऽसृत्यापवाहयेदिति योज्यम्, अन्यथा विपक्षस्याभावात् सत्यप्युपायप्रयोगे सक्तस्यानिष्कासनात् ॥ ४० ॥

ते च निष्कासनोपायाः प्रकाशे रहसि वा स्थितस्य, तत्र पूर्वमधिकृत्याह—

तदनिष्टसेवा, निन्दिताभ्यासः, ओष्ठनिर्भोगः, पादेन भूमेरभिघातः, अविज्ञातविषयस्य संकथा, तद्विज्ञातेष्वविस्मयः, कुत्सा च, दर्पविघातः, अधिकैः सह संवासः, अनपेक्षणं, समानदोषाणां निन्दा, रहसि चावस्थानम् ॥ ४१ ॥

तदनिष्टसेवेति । तस्य नायकस्य यदनिष्टं तस्य सेवा कर्तव्या, येनायं प्रागेवेयं मम च्छन्दानुवर्तिनी संप्रति कामं परीवादयुक्ता विरक्तेति व्यावर्तते, निन्दितं = तृणच्छेदलोष्टमर्दनादि तस्याभ्यासः पुनः पुनः करणं तदग्रतो, येनायं ममाशुभं काङ्क्षत इति जानाति, ओष्ठनिर्भोगः, तं दृष्ट्वा

३८ का० सू०