कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
| ३० | सटीक कामसूत्रे | [ १ अधिकरणं, |
|---|
वाहने केशमर्दने च कौशलम्, अक्ष॑रमुष्टिकाकथनम्, म्लेच्छितविकल्पाः, देशभाषाविज्ञानम्, पुष्पशकटिका, निमित्तज्ञानम्, यन्त्रमातृका, धारणेमातृका संपाठ्यम्, मानसी काव्यक्रिया, अभिधानकोषः, छन्दोज्ञानम्, क्रियाकल्पः, छलतैकयोगाः, वस्त्रगोपनानि, द्यूतविशेषः, आकर्षकीडा, बालकीडनकानि, वैनायिकीनां वैजयिकीनां व्यायामिकीनां च विद्यानां ज्ञानम्, इति चतुःषष्टिरङ्गविद्याः कामसूत्रस्यावयविन्यः ॥ १६ ॥
गीतमित्यादि । १गीतरवाद्य३नृत्या४लेख्यानित्वा चत्वारि प्रायः स्वशास्त्रविहितप्रपञ्चानि तथाऽपि संक्षेपतः कथ्यन्ते—
'स्वरगं पदगं चैव तथा लयगमेव च ।
चेतोऽवधानगं चैव गेयं ज्ञेयं चतुर्विधम् ॥
घनं च विततं वाद्यं ततं सुषिरमेव च ।
कांस्यपुष्करतन्त्रीभिर्वेणुना च यथाक्रमम् ॥
करणान्यङ्गहाराश्च विभावो भाव एव च ।
अनुभावो रसाश्चेति संक्षेपान्नृत्यसङ्ग्रहः' ॥
तद् द्विविधम्—नाट्यमनाट्यं चेति, तथोक्तम्—
'स्वर्गे वा मर्त्यलोके वा पाताले वा निवासिनाम् ।
कृतानुकरणं नाट्यमनाट्यं नर्तकाश्रितमिति' ॥
तन्त्रान्तरे तु नृत्यभेदज्ञापनाथमेव पृथङ् नाट्यकलोक्तेति विज्ञेयम् । आलेख्यमिति ।
'रूपभेदाः प्रमाणानि भावलावण्ययोजनम् ।
सादृश्यं वर्णिका भङ्ग इति चित्रं षडङ्गमिति ॥'
एतानि परानुरागजननान्यात्मविनोदार्थानि च । ५विशेषकच्छेद्यमिति । विशेषकस्तिलको यो ललाटे दीयते, तस्य भूर्जादिपत्रमयस्याने-कप्रकारं छेदनमेव च्छेद्यम्, पत्रच्छेद्यमिति वक्तव्यम्, वक्ष्यति च—'पत्रच्छेद्यानि नानाऽभिप्रायाकृतीनि प्रेषयेद्' इति; सत्यम् ? विशेषकग्रहण-मादरार्थम्, विलासिनीनामतिप्रियत्वात् । ६तण्डुलकुसुमवलिविकारा-इति । अखण्डतण्डुलैर्नानावणैः सरस्वतीभवने कामदेवभवने वा मणिकुट्टिमेषु भक्तिविकाराः, तथा कुसुमर्नानावर्णैर्ग्रथितैः शिवलिङ्गादिपूजाऽर्थं-भक्तिविकाराः, अत्र ग्रथनम् माल्यग्रथन एवान्तर्भूतम् । भक्तिविशेषेणाव-स्थापनं कलाऽन्तरम् । ७पुष्पास्तरणमिति । यन्नानावणैः पुष्पैः सूचीवा-नादिबङ्गेरभ्यस्यते तद्देववासगृहोपस्थानमण्डपादिषु; यस्य पुष्पशयन-
३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३१
३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३१
मित्यपरा संज्ञा । ८दशनवसनाङ्गराग इति । रागशब्दः प्रत्येकं योज्यते, तत्राङ्गरागोऽङ्गमार्थिः कुङ्कुमादिना, रञ्जनविधिरिति वक्तव्ये दशनादिग्रहणमादरार्थं; विलासिनीनां दशनादिसंस्कारस्यात्यन्ताभीष्टत्वाद् इति । ९मणिभूमिकाकर्मेति । मणिभूमिका कृतकुट्टिमा भूमिः, ग्रीष्मे शयनापानकार्थं तस्या मरकतादिभेदेन करणम् । १०शयनरचनमिति । शयनीयस्य कालापेक्षया रक्तविरक्तमध्यस्थाभिप्रायादाहारपरिणतिवशाच्च रचनम् । ११उदकवाद्यमिति । उदके मुरजादिवद्वाद्यम् १२उदकाघात इति । हस्तयन्त्रमुक्तैरुदकैस्ताडनं; तदुभयं जलक्रीडाऽङ्गम् १३चित्राश्च योगा इति । नानाप्रकारदौर्भाग्यैकेन्द्रियपलीतीकरणादयः, ईर्ष्या पराभिसन्धानार्थाः; तानौपनिषदिके वक्ष्यति, एते च कौचुमारयोगेषु नान्तर्भवन्तीति पृथगुक्ताः कुचुमारेण तेषामनुक्तत्वात्। १४माल्यग्रथनविकल्पा इति। माल्यानां पुष्पमालाऽऽदीनां देवतापूजनार्थानां नेपथ्यार्थानां ग्रथनविकल्पाः। १५शेखरकापीडयोजनमिति । ग्रथनविकल्प एवार्थः किं तु योजनं कलाऽन्तरं, तत्र शेखरस्य शिखास्थानेऽवलम्बनन्यासेन परिधापनाद्, आपीडस्य च मण्डलाकारेण ग्रथितस्य काष्ठिकायोगेन परिधापनाद् नानावर्णैः पुष्पैर्विरचनं योजनम्, पुनर्वीरचनवचनमादरार्थम्, तदुभयं नागरकस्य प्रधानं नेपथ्याङ्गम् । १६नेपथ्यप्रयोगा इति । देशकालापेक्षया वस्त्रमाल्याभरणादिभिः शोभाऽर्थं शरीरस्थ मण्डनाकाराः १७कर्णपत्रभङ्गा इति । दन्तशङ्खादिभिः कर्णपत्रविशेषा नेपथ्यार्थाः । १८गन्धयुक्तिरिति । स्वशास्त्रविहितप्रपञ्चा प्रतीतप्रयोजनैव । १९भूषणयोजनमिति । अलङ्कारयोगः; स द्विविधः-संयोज्योऽसंयोज्यश्च तत्र संयोज्यस्य कण्ठिकेन्द्रच्छन्दादेर्मणिमुक्ताप्रवालादिभिर्योजनम्, असंयोज्यस्य कटककुण्डलादेर्विरचनं योजनम्, तदुभयं नेपथ्याङ्गं न तु शरीरे भूषणयोजनं तस्य नेपथ्यप्रयोगा इत्यनेनैव सिद्धत्वात् । २०ऐन्द्रजाला इति । इन्द्रजालादिशास्त्रप्रभवा योगाः सैन्यदेवालयादिदर्शनादहंभावविस्मापनार्थाः । २१कौचुमारा इति । कुचुमारस्यैते सुभगकरणादयः, उपायान्तरासिद्धसाधनार्थाः । २२हस्तलाघवमिति । सर्वकर्मसु लघुहस्तता कालातिपातनिरासार्थं द्रव्यहानिषु वा लाघवं क्रीडाऽर्थं विस्मापनार्थं च । २३विचित्रशाकयूषभक्ष्यविकारक्रिया २४पानकरसरागासवयोजनमिति । चतुर्विध आहारः-भोज्यं भक्ष्यं लेह्यं पेयमिति, तत्र भोज्यम्-भक्तव्यञ्जनादि; तत्र व्यञ्जनरन्धनं प्रायशो न सुज्ञानमिति व्यञ्नाग्रथस्य शाकस्योपादानेन दर्शयति, तत्र शाकं दशविधम्, यथोक्तम्-
३२ सटीक कामसूत्रे [ १ अधिकरणे,
'मूलपत्रकरीराग्रफलकाण्डप्ररूढकम् ।
त्वक्पुष्पं कण्टकं चेति शाकं दशविधं स्मृतम्' ॥
भक्ष्यं खण्डखाद्यादि, पेयं द्विविधम्-अग्निनिष्पाद्यमितरच्च, तत्र पूर्वं यूषाख्यं; तच्च द्विविधम्-मुद्गादिनिर्यूहकृतं मांसनिर्यूहकृतं च, एवं नानाप्रकाराणां क्रिया पाकविधानेन निष्पादनं, यदनग्निनिष्पादनं पेयं तद् द्विविधम्-सन्धानकृतमितरच्च, तत्राद्यं-द्रावितमद्रावितं च; तत्र यद् गुडतिन्तिडिकाऽऽदि जलेन संयोज्य क्रियते तद् द्रावितं पानकाख्यम्, यद् द्रावकौषधेन तालमोचाफलानि संयोज्य निष्पाद्यते तदद्रावितं रसाख्यम्, आसवग्रहणेन सन्धानमुपलक्षयति; तन्मृदुमध्यतीक्ष्णसन्धानयोजनात्तथाविधमेव निष्पाद्यते, रागग्रहणं लेह्यं सूचयति, तस्य त्रैविध्यात् , तथा चोक्तम्—
'रागो रागविधानज्ञैर्लेह्यश्चूर्णो द्रवः स्मृतः ।
लवणाम्लकटुस्वाद ईषन्मधुरसंयुतः' ॥ इति,
एतच्चतुर्विधमास्वाद्यकलायां प्रपञ्चितं शरीरस्थित्यर्थं, योगविभागोऽग्निजानग्निजकर्मदर्शनार्थः, तत्र पाकेन शाकादिक्रिया, विना पाकेन पानकादियोजनम् अन्यथा ह्यास्वाद्यविधिरित्युक्तं स्यात् तस्मात्कर्मभेदादास्वाद्यविधानं द्विविधं तद्वशादेकाऽपि कला द्विधाकृत्योक्ता । २५सूचीवानकर्माणीति । सूच्या यत्सन्धानकरणं तत्सूचीवानं त्रिविधं-सीवनम्, ऊतनम्, विरचनम् , तत्राद्यं कञ्चुकादीनाम्, द्वितीयं त्रुटितवस्त्राणाम् , तृतीयं कुथास्तरणादीनाम्, इयं प्रतीतार्थैव । २६सूत्रक्रीडेति । नालिकासञ्चारनालादिसूत्राणामन्यथाऽन्यथा दर्शनं छित्त्वा दग्ध्वा च पुनरच्छित्त्वाऽदग्ध्वा दर्शनं; तच्चाङ्गुलिन्यासाद् बकुलादिदर्शनम् इत्येवंप्रकारा क्रीडाऽर्थैव । २७वीणाडमरुकवाद्यानीति । वाद्यान्तर्गतत्वेऽपि तन्त्रीवाद्यं प्रधानं तत्रापि वीणावाद्यम्, डमरुकवाद्यमावश्यकार्थम् बालोपक्रमहेतुत्वाद् दुर्विज्ञेयत्वाच्च ततो ह्यक्षराणि स्पष्टान्युच्चार्यमाणानि श्रूयन्ते । २८प्रहेलिकेति । लोकप्रतीता, क्रीडाऽर्था वादार्था च २९प्रतिमालेति । यस्या अन्त्याक्षरिकेति प्रतीतिः सा क्रीडाऽर्था वादार्था च, यथोक्तम्—
'प्रतिश्लोकं क्रमाद्यत्र सन्धायाक्षरमन्तिमम् ।
पठेतां श्लोकमन्योन्यं प्रतिमालेति सोच्यत' इति ॥
३०दुर्वाचकयोगा इति । शब्दतोऽर्थतश्च दुःखेन चोच्यत इति दुर्वाचकं तस्य प्रयोगाः क्रीडाऽर्था वादार्थाश्च, यथा काव्यादर्शे—
'दंष्ट्राऽग्रद्व्यां प्राग्यो द्राक्क्षमामम्ब्वन्तःस्थामुच्चिक्षेप ।
देवभृङ्गिक्षिद्वित्विक्स्तुत्यो युष्मान्सोऽव्यात्सप्तार्णकेतुः ॥ इति,
३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३३
अस्यार्थः—दंष्ट्राऽग्रस्य ऋद्ध्या प्राक्पूर्वं द्राक्शीघ्रं क्ष्मा पृथ्वीमम्ब्वन्तःस्थां पातालस्थामुञ्चिक्षेपोत्क्षिप्तवान् , देवान्द्रुह्यन्तीति देवद्रुहोऽसुरास्तान्क्षिणोतीति देवद्रुट्क्षित् , हिशब्दः पादपूरणे, ऋत्विग्भिः स्तुत्यः, सर्पानत्तीति सर्पादुरुडः स केतुर्ध्वजो यस्येति । ३०पुस्तकवाचनमिति । भरतादिकाव्यानां पुस्तकस्थानां शृङ्गारादिरसापेक्षया गीतितः स्वरेण वाचनम् , अनुरागजननार्थमात्मविनोदार्थं च । ३१नाटकाऽऽख्यायिकादर्शनमिति । काव्येषु गद्यपद्येषु नाटकस्य बहुप्रपञ्चत्वाद्, आख्यायिकायाश्च प्रधानगद्यत्वाद्दर्शनं परिज्ञानमिति; आदरार्थं विशेषाभिधानं काव्यदर्शनमिति नोक्तं, तत्र नाटके दश रूपकाणि; यथोक्तम्—
'नाटकमङ्को वीथी प्रकरणमीहामृगो डिमो भाणः ।
व्यायोगसमवकारौ प्रहसनमिति नाटकविकल्पाः' ॥
३२काव्यसमस्यापूरणमिति । समस्यते संक्षिप्यत इति समस्या 'ऋहलोर्ण्यत्' ३।१।१२४ । इह सामान्यात् 'संज्ञापूर्वको विधिरनित्यः' इति वृद्धिर्न भवति, यद्वा 'कृत्यल्युटो बहुलम्' ३।३।११३ इत्यन्यप्रकृतेरपि यद् बहुलग्रहणात् काव्यस्य श्लोकस्य समस्या पाद इत्यर्थः, तस्याः पूरणं क्रीडार्थं वादार्थं च, तद्यथा—काव्यादर्शे—'आश्वासञ् जनयतिराजमुख्यमध्ये' इत्ययं पाद उद्योगपर्वणि विष्णुयाने त्रिभिः पादैः संग्रथितव्य इति समस्या दत्ता, तत्र त्रयः पादाः—
'दौत्येन द्विरदपुरं गतस्य विष्णोर्बन्धार्थं प्रतिविहितस्य धार्तराष्ट्रैः ।
रूपाणि त्रिजगति भूतिमन्ति रोषादाश्वासञ्जनयतिराजमुख्यमध्ये' ॥
इत्यादि, अत्र विष्णोर्बन्धार्थं दुर्योधनादिभिर्मन्त्रः कृतः, त्रिषु लोकेषु सर्वभूतिमन्ति रूपाणि आशु शीघ्रमासन्बभूवुः, जनस्य समागतस्य, यतीनां रामकर्णादीनां, राजमुख्यानां बाहीकप्रभृतीनां च मध्यइति; एताः प्रहेलिकाऽऽदयः षड् वचनकौशलान्तराः कला इह प्रायशउपयुज्यन्त इति संगृहीताः ३३पट्टिकावेत्रवानविकल्पा इति । वेत्रखण्डैर्ग्रथिता खट्वारूपा पट्टिका, पट्टिकाया वानविकल्पाः, खट्वायाआसनस्य च, वेत्रैर्वानविकल्पाः प्रतीतार्थाः । ३४तर्कुकर्माणीति । कुन्दकर्माण्यपद्रव्यार्थानि । ३५तक्षणमिति । वर्धकिकर्म शयनासनाद्यर्थम् । ३६वास्तुविद्येति । गृहकर्मोपयोगिनी । ३७रूप्यरत्नपरीक्षेति । रूप्यमाहतद्रव्यं दीनारादि, रत्नं वज्रमणिमुक्तादि, तेषां गुणदोषमूल्यादिभिः परीक्षा व्यवहाराङ्गम् । ३८धातुवाद इति । क्षेत्रवादः स हि मृत्प्रस्तररत्नधातूनां पातनशोधनमेलनादिज्ञानहेतुरर्थार्थः । ३९मणिरागाकरज्ञानमिति । स्फटिकमणीनां रञ्जनविज्ञानमर्थार्थं भूषणा-
५ का० सू०
३६ | सटीके कामसूत्रे | [ १ अधिकरणे,
५८वस्त्रगोपनानीति । वस्त्रेणाप्रकाश्यदेशस्य संवरणं यथा तद्द्रूयमानमपि तस्मान्नापैति, त्रुटितस्यात्रुटितस्येव परिधानम्, महतो वस्त्रस्य संवरणं नीविसंकोचादिनाऽल्पीकरणम् इति गोपनानि । ५९द्युतविशेषाइति । निर्जीवद्यूतविधानमेतद्, यत्र ये प्राप्त्यादिभिः पञ्चदशभिरङ्गैर्मुष्टिशुल्कादयो द्यूतविशेषाः प्रतीतात्थः । ६०आकर्षकीडेति । पाशकक्रीडा, द्यूतविशेषत्वेऽपि पुनर्वचनमत्रादरार्थम्, सशृङ्गारत्वाद् दुर्विज्ञेयत्वाद्वा, अक्षहृदयापरिज्ञाने हि नलयुधिष्ठिरयोरपि पराजयात् । ६१बालक्रीडनकानीति । गृहकन्दुकपुत्रिकाऽऽदिभिर्यानि बालानां क्रीडनानि तानि बालोपक्रमार्थानि, एता एकषष्टिकला उक्ताः । ६२वैनयिकीनामिति । स्वपरविनयप्रयोजनाद्वैनयिक्यो विनयाऽऽचारशास्त्राणि, हस्त्यादिशिक्षा च । ६३वैजयिकीनामिति । विजयप्रयोजना वैजयिक्यः, दैव्यो मानुष्यश्च तत्र दैव्योऽपराजितादयो, मानुष्यो याः साङ्ग्रामिक्यः शस्त्रविद्याः । ६४व्यायामिकीनामिति । व्यायामप्रयोजना व्यायामिक्योमृगयाऽऽद्याः, एतास्तिस्र आत्मोत्कर्षरक्षणार्थाः, जीवनार्थाः, इति चतुःषष्टिरङ्गविद्याः कामसूत्रस्यावयवयोगिन्योऽवयवभूता, तदभावे कामसूत्रस्याप्रवृत्तेः ॥ १६ ॥
पाञ्चालिकी च चतुःषष्टिरपरा ॥ १७ ॥
पाञ्चालिकी चेति । पञ्चालप्रभवा तत्प्रोक्तत्वाद्वा, चतुःषष्टिरङ्गविद्याः तद्भावे हि तस्याः प्रवृत्तेः ॥ १७ ॥
तस्याः प्रयोगानन्ववेत्य सांप्रयोगिके वक्ष्यामः ॥ १८ ॥
तस्या इति । पाञ्चालिक्याः, अन्ववेक्ष्य यथायथं विषयमनुसृत्य, सांप्रयोगिकेऽधिकरणे प्रयोगान् वक्ष्यामः ॥ १८ ॥
कामस्य तदात्मकत्वात् ॥ १९ ॥
कामस्य तदात्मकत्वादिति । चतुःषष्टिस्वभावत्वात्, पूर्वस्यास्तु चतुःषष्टेस्तन्त्रान्तरे दृष्टप्रयोगत्वाद्, इह तदङ्गताप्रतिपत्त्यर्थमुद्देशमात्रमुक्तम् ॥ १९ ॥
कलाग्रहणे फलमाह —
आभिरभ्युच्छ्रिता वेश्या शीलरूपगुणान्विता ।
लभते गणिकाशब्दं स्थानं च जनसंसदि ॥ २० ॥
आभिरिति । कलाभिरभ्युच्छ्रिता जातोत्कर्षा, वेश्येति प्रायशो ग्रहणमस्या इति दर्शनार्थं शीलं सुस्वभावः, रूपं संस्थानं वर्णश्च, गुणानायिकाया वैशिके वक्ष्यमाणाः, गणिकाशब्दमिति, वेश्येतिसामान्य-
३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३७
शब्दवाच्याऽपि विशिष्टं गणिकाऽभिधानं लभत इत्यर्थः, एवंलक्षण- त्वाद्गणिकायाः, स्थानं च जनसंसदीति । जनसभायामासनभूमिं लभते, न वेश्येत्यवगण्यते ॥ २० ॥
पूजिता सा सदा राज्ञा गुणवद्भिश्श्च संस्तुता । प्रार्थनीयाऽभिगम्या च लक्ष्यभूता च जायते ॥ २१ ॥
राज्ञा पूजितां क्षेत्रागारादिदानेन, गुणवद्भिः संस्तुता 'असा- धारणमस्याः कलाकौशलमिति' प्रशंसिता, प्रार्थनीया कलोपदेशार्थिनाम,- भिगमनार्हा विदग्धानां रतार्थिनां, लक्ष्यभूता निदर्शनभूता देवदत्तावत्॥२१॥
योगज्ञा राजपुत्री च महामात्रसुता तथा । सहस्रान्तःपुरमपि स्ववशे कुरुते पतिम् ॥ २२ ॥
योगज्ञा=गीतादिप्रयोगज्ञा, सहस्रान्तःपुरमिवि प्रभूतदारोपलक्षणम्। स्ववशे=आत्मनो वशे ॥ २२ ॥
तथा पतिवियोगे च व्यसनं दारुणं गता । देशान्तरेऽपि विद्याभिः सा सुखेनैव जीवति ॥ २३ ॥
तथा पतिवियोगे पत्यौ प्रोषिते, तथा व्यसनं दारुणं वैधव्यलक्षणं- गता, निर्वेदात्यक्तस्वदेशा; अन्यस्मिन्नपि देशे सुखेनैव जीवति, विद्योप- देशदानात् ॥ २३ ॥
पुरुषमधिकृत्याह—
नरः कलासु कुशलो वाचालश्चाटुकारकः । असंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ॥ २४ ॥
नर इति । वाचाल इति कलासंबन्धद्वारेणैव बहुभाषी नान्यथा, मा- भूवनागरकत्वप्रसङ्ग इति । चाटुकारकः=प्रियस्य कर्ता, कलाग्रहणेन हि तत्संस्कारवत्त्वाद् असंस्तुतोऽप्यपरिचितोऽपि चित्तं विन्दति गृह्णाति, आश्वेव न कालमपेक्षते ॥ २४ ॥
कलानां ग्रहणादेव सौभाग्यमुपजायते । देशकालौ त्ववेक्ष्यासां प्रयोगः सम्भवेन्न वा ॥ २५ ॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिक[रणे] वि- द्यासमुद्देशस्तृतीयोऽध्यायः, तृतीयं प्रकरणं [समाप्तम्]॥
ग्रहणादेवाभिजायते संप्रयोगात्स्त्रीपुंसयोः सौभ[ाग्यम्]... ऽनर्थ- प्रतीघातः कामो यशश्चेत्यर्थोक्तं, तत्रापि देशकाला[पेक्षित्वे] ना-
शास्त्रकार एव प्रकरणसंबन्धमाह—
३८ सटीके कामसूत्रे [ १ अधिकरणे,
गरकाः कलाकुशलाः घटानिबन्धनादिकामा वेति प्रयोगः, नागरकशू- न्यो वा देशः, गुणद्विषो वाऽत्र प्रतिवसन्ति, व्यसनकालो वा नागरका- णामिति न वा प्रयोगसंभवः, अन्यथा तत्परिज्ञानं दोषफलं स्यादिति॥२५॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलायां साधारणे प्रथमेऽधिकरणे विद्यासमुद्देशस्तृतीयोऽध्यायः, तृतीयं प्रकरणं च ॥ ३ ॥
चतुर्थोऽध्यायः ।
शास्त्रकार एव प्रकरणसंबन्धमाह—
गृहीतविद्यः प्रतिग्रहजयक्रयानिर्वेशाधिगतैरथैरन्वयागतैरुभ- यैर्वा गार्हस्थ्यमधिगम्य नागरकवृत्तं वर्तेत ॥ १ ॥
गृहीतविद्य इति । तस्य नागरकवृत्तवर्तनेयोग्यत्वाद् गृहीतविद्यस्या- प्यसति पत्नीयोगे नागरकवृत्तस्यासंभवादाह—गार्हस्थ्यमिति । पत्नीसं- योगेऽपि यदि गार्हस्थ्यं गृहकर्म नागरकयोग्यं तन्नार्थं विनेत्याह—अर्थै- रिति । तेऽपि न विनोपायैरित्याह—प्रतिग्रहेति । तत्र ब्राह्मणः प्रतिग्रहेण तद्वृत्तित्वात्, क्षत्रियः शस्त्रजीवित्वाज्जय्रेन, वैश्यः क्रयेण वार्तोपलक्ष- णार्थेन, शूद्रः कारुकुशीलवादिः कृते कर्मणि यो निर्वेशो भृतिस्तेनार्जितैः गृहस्थकर्म प्राप्येति, न निष्किञ्चनस्यायं विधिः, अन्वयागतैरिति । पि- तृपितामहागतैः, अत्र पत्नीयोगादनन्तरमेव गार्हस्थ्याधिगमः, उभयै- र्वेति । प्रतिग्रहाद्यागतैरन्वयागतैश्च, सत्स्वप्यन्वयागतेष्वपूर्वार्जनं का- र्यमिति दर्शयति, नागरको विदग्धजनः, एतद्वृत्त्यपेक्षया वा भविष्यद्वृ- त्त्या नागरकस्तस्य वृत्तं वर्तेतेति सामान्यवृत्तिर्नागरकाविशिष्टा वृत्तिः कर्म वा भवति, चातुर्वर्ण्यं गृहस्थमधिकृत्येदं शास्त्रम्, अस्य चेदं प्रक- रणं शरीरम्, तदाश्रितस्य हि सर्वशास्त्रानुष्ठानात् ॥ १ ॥
यत्र तस्य वृत्तं तत्र स्थितिमाह—
नगरे पत्तने खर्वटे महति वा सज्जनाश्रये स्थानम् ॥ २ ॥
नगर इति । नगरमष्टशतग्रामीमध्ये तद्व्यवहारस्थानम्, पत्तनं यत्र राजधानी स्थिता, खर्वटं द्विशतग्रामीमध्ये, महति वेति । चतुःशतग्रा- मीमध्ये, द्रोणमुखं नाम खर्वटान्महद्भवति, एषामन्यतमेऽवस्थानं युज्यते, कुत इत्याह-सज्जनाश्रय इति प्रतिपदं योज्यम् ॥ २ ॥
यात्रावशाद्वा ॥ ३ ॥
४ अध्याये ] नागरिकवृत्तप्रकरणम् । ३९
४ अध्याये ] नागरिकवृत्तप्रकरणम् । ३९
यात्रावशाद्वेति । यत्र वा स्याद्यापनं शरीरस्थितिर्ग्रामे तत्रावस्थानं, तन्निबन्धनत्वादितरवृत्तेः ॥ ३ ॥
तत्रापि गृहमन्तरेण न संभवतीत्याह—
तत्र भवनमासन्नोदकं वृक्षवाटिकावद्विभक्तकर्मकक्षं द्विवासगृहं कारयेत् ॥ ४ ॥
तत्रेति । नगरादीनामन्यतमे भवनं गृहं कारयेदिति संबन्धः, आसन्नोदकं नदीवाप्यादिसमीपे जलमकर्दितं क्रीडाऽङ्गं च, वृक्षवाटिकावदिति । यस्यां दिशि जलं तस्यां वृक्षवाटिकया गृहोद्यानेन युक्तम्, विभक्तकर्मकक्षमिति । कर्मार्थं कक्षा प्रकोष्ठकानि ता विभक्ता यस्य, उच्चावचे हि गृहकर्मणि क्रियमाणे गृहं भग्नं स्याद्, द्विवासगृहमिति । द्विधा वासगृहमिति । शयनार्थेन रत्यर्थेन च युक्तम्, एतावद्वृत्तोपयोगिगृहविधानं, शेषं वास्तुविद्यायां द्रष्टव्यम् ॥ ४ ॥
तस्मिन्कारित आधेयानां न्यासमाह—
बाह्ये च वासगृहं सुश्लक्ष्णमुभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं शयनीयं स्यात्, प्रतिशय्यिका च ॥ ५ ॥
बाह्य इति । आभ्यन्तरं वासगृहमन्तर्दाराणां शयनार्थम्, बाह्ये च प्रकोष्ठे कृते रत्यर्थं शयनीयं स्यात्, सुश्लक्ष्णं खट्वाऽऽश्रयप्रतिपादिकाऽऽस्तरणतूलिकाऽऽदिभिः सुरमितं च, उभयोपधानं शिरश्चरणभागयोर्न्यस्तोपोधानम्, मध्ये विनतमाक्रान्तम्, मृदुकमित्यर्थः, शुक्लोत्तरच्छदमिति । शुक्लस्य प्रच्छदपटस्य प्रत्यहं द्वित्रैर्वा दिवसैः, प्रक्षालनीयत्वादित्यवशशं तदुपरि देयम् । प्रतिशय्यिका चेति । तस्य समीपे संप्रयोगार्थं तत्प्रतिच्छन्दिका किञ्चिन्न्यूनोत्सेधा यस्यानारुह्यिका स्यादित्येवं विधिरयमाचारवतां, वेश्याकामिमस्तु शयनीयपदे उभयं निर्वर्तयन्ति, न तेषां प्रतिशय्यिका, तथा चोक्तम्—
‘संप्रयुज्येत यत्रस्थो नायकः प्रियया सह । न तत्रोपहते विद्वाञ्छयीत शयने शुचिः’ इति ॥ ५ ॥
तस्य शिरोभागे कूर्चस्थानम् ॥ ६ ॥
तस्येति । शयनीयस्य पश्चात्पार्श्वभागानां निकृष्टत्वाच्छिरोभाग एव कूर्चासनस्य देवताऽनुस्मरणार्थस्य स्थापनं स्याद्, यथोक्तम्—
‘शयनीयशिरोभागे न्यस्तकूर्चे शुचिः शुभे । कृतेष्टदेवतायोगो यायाच्छयनमात्मवान्’ ॥ ६ ॥
४० सटीके कामसूत्रे [ १ अधिकरणे,
४० सटीके कामसूत्रे [ १ अधिकरणे,
वेदिका च ॥ ७ ॥
वेदिका चेति। कुड्योपाश्रया शयनीयतुल्योत्सेधा हस्तमात्रविस्तारा कृतकुट्टिमा चतुरस्रिका स्यात् ॥ ७ ॥
तत्र रात्रिशेषमनुलेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः ॥ ८ ॥
तत्र=वेदिकायां, रात्रिशेषं रात्र्युपयुक्तशेषम्, अनुलेपनं चन्दनादिकं प्रातरुपभोगार्थं स्यात्, माल्यं रात्रिशेषम्, सिक्थकरण्डकं=सिक्थकसं-पुटिका, सौगन्धिकं सुगन्धद्रव्यनिर्वृत्तं स्वेदापनोदार्थं तस्य पुटिका त-मालादिपत्रमयी मातुलुङ्गत्वचो मुखवैरस्यापनोदार्थं दुष्टमारुतनिवार-णार्थं च, यथोक्तम्—
‘सायं लीढ्वा कामी मध्वक्तं मातुलुङ्गदलकल्कम्।
स्त्रीभुजपञ्जरसंस्थः खलेन न हि हन्यते मरुता’ ॥ इति
ताम्बूलानि च सज्जितानि रात्रिपरिभोगार्थं स्युः ॥ ८ ॥
भूमौ पतद्ग्रहः ॥ ९ ॥
भूमौ पतद्ग्रहः, न वेदिकायाम्, प्रक्रान्तत्वाद्यवच्छिद्यते, यत्रस्थेन वा नायकेनोपयुक्तताम्बूलादि निष्ठीवितं पतद् गृह्णाति सा भूमिः, तत्र स्याद् नान्यत्र, अभूमित्वात् ॥ ९ ॥
नागदन्तावसक्ता वीणा, चित्रफलकं, वर्तिकासमुद्गको, यः कश्चित्पुस्तकः, कुरण्टकमालाश्च ॥ १० ॥
वीणा निचोलावगुण्ठिता वादनार्था, चित्रफलकमालेख्यार्थम्, वर्तिकासमुद्गकश्चित्रकर्मोपयोगी, यः कश्चिदिति सामान्यनिर्देशेऽपि यत्तदानीं काव्यं भावितं तस्य पुस्तको वाचनार्थं स्यादित्यर्थादेवावगम्यते, कुरण्टकमालाश्चेति। तासां शोभामात्रफलानां सुरतसंमर्देनाप्यम्लायमानत्वात्, तद्धारणे च सौभाग्यश्रुतेर्विशेषाभिधानम्, एता वीणादयोऽनुपघातार्थं वासगृहभित्तिनिहितनागदन्तेष्वासज्य स्थापिता यथाप्रयोजनं चादातव्याः, अनुरूपस्थाननिवेशनमपि वैदग्ध्यजननमिति गम्यते ॥१०॥
नातिदूरे भूमौ वृत्तास्तरणं समस्तकम् ॥ ११ ॥
नातिदूरे शयनीयस्य, भूमौ; न पर्यङ्के वेत्रासने वा, तत्रस्थस्याशोभितत्वाद्, वृत्तास्तरणं लोके प्रतीतम्, समस्तकमुपरिन्यस्तमस्तकमासनार्थं स्यात्, कूर्चेषु तावत्कालिकमासनम् ॥ ११ ॥
आकर्षफलकं द्यूतफलकं च ॥ १२ ॥
४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४१
४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४१
आकर्षफलकं द्यूतफलकं च क्रीडार्थं भूमौ कुड्योपाश्रितं स्यात्, काले च प्रसारयेत् ॥ १२ ॥
तस्य बहिः क्रीडाशकुनिपञ्जराणि ॥ १३ ॥
तस्येति । वासगृहस्य, नातिदूरे बहिस्तत्सविधागारके क्रीडार्थं- यानि शकुनिपूर्णानि पञ्जराणि नागदन्तावसक्तानि स्युः, नाभ्यन्तरे पुरीषोत्सर्गादिदोषात् ॥ १३ ॥
एकान्ते च तर्कुतक्षणस्थानमन्यासां च क्रीडानाम् ॥ १४ ॥
एकान्त इति । एकदेशे यत्रासमये न पश्यति तत्र तर्कुकर्मणस्तक्ष- णस्य च स्थानम्, अन्यासां च क्रीडानां लज्जाहेतूनामेकान्ते स्थानम्॥१४॥
स्वास्तीर्णा प्रेङ्खादोला वृक्षवाटिकायां सप्रच्छाया, स्थण्डिल- पीठिका च सकुसुमेति भवनविन्यासः ॥ १५ ॥
स्वास्तीर्णेति । आतपपरिहारार्थमुपरि घनशाखाप्रतानत्वात्सुसं- छन्ना, प्रेङ्खादोला प्रेरणया या दोल्यते, सुखावहा वृक्षवाटिकायां क्रीडार्थं- स्यात् , न गृहाभ्यन्तरे, चक्रदोला तु चक्रपरिभ्रमणेन सा प्रेङ्खेति निग- द्यते, सप्रच्छायेति, उपरिपुष्पलताऽवच्छिन्नत्वात्प्रकृष्टच्छायापेता, स्थ- ण्डिलमयी पीठिका चेति-कृतकुट्टिमा वेदिका, सकुसुमेति, लतानिपतत्कु- सुमावकीर्णा स्यात्, वृक्षवाटिकायामित्येव, लतामण्डपिकेत्यर्थः, तत्र पा- नकादिभिरवस्थानाद्, भवनविन्यास उत्थापनावस्थानाभ्याम् ॥१५॥
तत्रस्थस्य वृत्तं द्विविधम् । नित्यं, नैमित्तिकं च, तत्र पूर्वमधिकृत्याह—
स प्रातरुत्थाय कृतनियतकृत्यः, गृहीतदन्तधावनः, मात्र- याऽनुलेपनं धूपं स्रजमिति गृहीत्वा, दत्त्वा सिक्थकमलक्तकञ्च, दृष्ट्वा- ऽऽदर्शे मुखम्, गृहीतमुखवासताम्बूलः, कार्याण्यनुतिष्ठेत् ॥ १६ ॥
स इति । नायकः शयनात्प्रातरुत्थायाभ्युदितस्वापपरिहारार्थं कृतनि- यतकृत्यः कृतमूत्रपुरीषोत्सर्गः, गृहीतदन्तधावनो जग्धदन्तकाष्ठः, अत्रा- न्तरे यथास्वं सन्ध्यावन्दनादेर्धर्मस्यानुष्ठानमर्थप्राप्तम्, मात्रयेति । प्रभू- तानुलेपनादिग्रहणादनागरकः स्यात् कार्यानुष्ठाने प्रस्तुतत्वाद्, धूपम- गुर्वादिना, स्रजं शेखरकमापीडं वा, अलक्तकं विशिष्टरागार्थं दत्तेति, अर्थादोष्ठयोः, ईषदार्द्रयाऽलक्तकपिण्ड्या घृष्टौष्ठं ताम्बूलमुपयुज्य, सि- क्थकगुटिकया ताडयेदित्ययं क्रमः, आदर्शे मुखमवलोक्य, मङ्गलार्थं- प्रसाधनगुणदोषज्ञानार्थं च, गृहीतमुखवासताम्बूल इति । गन्धयुक्तिवि- हितां मुखवासगुटिकां कपोले निधाय पुनरुपयोगार्थं च ताम्बूलं हस्त- वर्तिकायां गृहीत्वेत्यर्थः, कार्याणि त्रिवर्गसाधनान्यनुतिष्ठेत् ॥ १६ ॥
६ का० सू०
४२ सटीके कामसूत्रे [ १ अधिकरणे,
४२ सटीके कामसूत्रे [ १ अधिकरणे,
अनुष्ठितेषु तेषु शरीरसंस्कारार्थमाह—
नित्यं स्नानं, द्वितीयकमुत्सादनं, तृतीयकः फेनकः, चतुर्थक- मायुष्यम्, पञ्चमकं दशमकं वा प्रत्यायुष्यमित्यहीनम् ॥ १७ ॥
नित्यमिति । प्रत्यहं स्नानम्, ओजस्करत्वात्पवित्रत्वाच्च, द्वितीयक- मिति । यस्मिन्दिने कृतमुत्सादनं तदनन्तरं दिनं प्रथमं, तस्माद् द्वितीये- ऽह्नि शरीरदार्थ्यार्थं स्यात्, एकान्तरितमित्यर्थः, तृतीयक इति । तृतीये- ऽह्नि जङ्घयोः फेनको देयः स्याद्, द्विदिनान्तरित इत्यर्थः, अन्यथा ऊर्ध्वं जङ्घे कर्कशे स्याताम्, चतुर्थकमिति । त्रिः पक्षस्य च श्मश्रुनख- रोमाणि वर्धयेदित्ययमागमः, अत्र केषां चिन्नागरकाणामुपायभेदात्का- लभेदः, तत्रायुष्यं श्मश्रुकर्म क्षुरेण तच्चतुर्थेऽह्नि स्याद्, दिनत्रयान्तरि तमित्यर्थः, कर्तर्या तु पञ्चमकमेव स्यात्, प्रत्यायुष्यमिति । यद् गुह्ये क्षुरेण कर्म तत्पञ्चमेऽहनि, यत्तु लोम्नामुत्पाटनेन तद्दशमे स्यादित्याह— दशमकं वेति । तत्र लोम्नां चिरेणोद्गमनात्, तथा चोक्तम्—
'आयुष्यं तच्चतुर्थेऽह्नि स्याद्यत्तु क्षुरकर्मणा । प्रत्यायुष्यं यदुद्धारालोम्नां तद्दशमेऽहनि' इति ॥
एवमर्थं च सामान्येन त्रिः पक्षस्यालङ्कारकमेति नोक्तम्, अहीनमि ति । स्नानादिपञ्चकमविकलं स्यादित्यर्थः ॥ १७ ॥
सातत्याच्च संवृतकक्षास्वेदापनोदः ॥ १८ ॥
सातत्यादिति । सर्वदा कक्षां विवृत्यं स्थातव्यम्, यदा तु किञ्चित्कर्म कुर्वतस्संवृता स्यात्तदा संश्लेपाश्रिततमस्यां स्वेदः, तं संततं कर्पटेना- पनुदेद्, अन्यथा वैगन्ध्यमवैदग्ध्यं च जनयेत् ॥ १८ ॥
पूर्वाह्नापराह्नयोर्भोजनम् ॥ १९ ॥
पूर्वाह्नापराह्वयोरिति । दिनं रात्रिमष्टधा विभज्य पूर्वाह्णे त्रिभिर्भागैः कार्याण्यनुतिष्ठेत्, चतुर्थे स्नानादिकं कृत्वा भुञ्जीत, अपराह्णे च प- श्चिमे भागे बलाधानार्थं पुनर्भुञ्जीतेत्याचार्याणां मतमनुकमपि ज्ञेयम्, मतान्तरोपन्यासात् ॥ १९ ॥
सायं चारायणस्य ॥ २० ॥
सायमिति । पूर्वाह्णे प्रदोषे च चारायणस्य मतम्, न तथाऽपरा- ह्णे द्वितीयभोजनं बलमाधत्ते यथा रात्राविति, तथा चोक्तम्—
'अजीर्णे भोजनं यच्च यच्च जीर्णे न भुज्यते । रात्रौ न भुज्यते यच्च तेन जीर्यन्ति मानवाः' ॥ २० ॥
भोजनानन्तरं शुकसारिकाप्रलापनव्यापाराः, लावककुक्कु-
४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४३
टमेषयुद्धानि, तास्ताश्च कलाक्रीडाः, पीठमर्दविटविदूषकायत्ता- व्यापाराः, दिवाशय्या च ॥ २१ ॥
भोजनानन्तरमिति । पूर्वाह्णे भोजनानन्तरं शुकसारिकाप्रलापना- दयो दिवाशयनान्ता व्यापाराः स्युस्तेषामयमेव कालः, तास्ताश्चेति । या याः प्रहेलिकाप्रतिमालाऽऽदिभिः क्रीडा उक्ताः, पीठमर्दादीन्व(१)क्ष्य- ति, तेष्वायत्ता व्यापाराः संधिविग्रहादयः, दिवाशय्येति । दिवाश- यनमधर्मोऽपि ग्रीष्म एव क्षयकाले शरीरपुष्ट्यर्थमनुज्ञातं, शरीरस्य ध- र्मसाधनत्वात् ॥ २१ ॥
गृहीतप्रसाधनस्यापराह्णे गोष्ठीविचाराः ॥ २२ ॥
गृहीतप्रसाधनस्येति । प्रस्तुतव्यापारमुपसंहृत्य गृहीतवैहारिकवे- षस्यापराह्नेऽह्नश्चतुर्थभागे, गोष्ठीविहारा गोष्ठ्यां क्रीडा इति । एतद्दैव- सिकं वृत्तम् ॥ २२ ॥
रात्रिभवमाह—
प्रदोषे च संगीतकानि ॥ २३ ॥
प्रदोषे चेति । प्रतिष्टितायां संध्यायां रजनीमुखे सङ्गीतकानि नृत्य- गीतवादित्रकाणि प्रकाराणि स्युः ॥ २३ ॥
तदन्ते च, प्रसाधिते वासगृहे संचारितसुरभिधूपे ससहाय- स्य शय्यायामभिसारिकाणां प्रतीक्षणं, दूतीनां प्रेषणं, स्वयं वा गमनम् ॥ २४ ॥
तदन्ते च सङ्गीतकान्ते, प्रसाधिते संमार्जनपुष्पप्रकरशयनरचना- ऽऽदिभिर्वासगृहे बाह्ये, संञ्चारितो विस्तारितः सुरभिधूपो यत्रेति, वास- गृहं व्याप्य बहिरुपक्रान्त इत्यर्थः, ससहायस्येति । सहायान्वक्ष्य(२)ति, तेषामप्यत्र व्यापारात्, शय्यायामिति । शय्यासमीपे स्थितस्य, गौरवानुरागख्यापनार्थं न तावदध्यासीत शय्यां, स्वयं वा गमनं- कदा चित्स्यादिति, आभिमुख्येन कान्तं सरन्तीत्यभिसारिकास्ता- सां कृतसङ्केतानां प्रतीक्षणं, दूतीनां संप्रेषणं; सङ्केतितकालाति- क्रमे तत्संप्रेषणेऽपि मानादनागमे स्वयं वा गमनं गौरवानुरागख्या- पनार्थम् ॥ २४ ॥
आगतानां च मनोहरैरालापैरुपचारैश्च ससहायस्योपक्रमा व-
(१,) अधि० १, अ० ४, प्र० ४, सू० ४४, ४५, ४६, ।
(२,) अधि० १, अ० ५, प्र० ५, सू० ३५, ३६, ।
४४ सटीक कामसूत्रे [ १ अधिकरणे,
र्षप्रमृष्टनेपथ्यानां दुर्दिनाभिसारिकाणां स्वयमेव पुनर्मण्डनम्, मित्रजनेन वा, परिचरणमित्याहोरात्रिकम् ॥ २५ ॥
मनोहरैरिति । "स्वागतम्, इदमासनमास्यताम्, साधु कृतं दयिते ! यदागताऽसि, त्वत्प्रतिबद्धजीवित एवास्मि, तत्किमिति कालोऽतिक्रमितः" इत्यादिभिरालापैः, उपक्रमाः प्रत्युद्गमादयः, ससहायस्येति । सहाया अपि तद्वचनमनुकुर्वन्तः स्वव्यापारेणोपक्रमेरन्, प्रमृष्टं विलुप्तं दुर्दिनाभिसारिका दुर्दिनकालेऽभिसरन्ति याः, स्वयमेव नान्येन, लक्ष्यभूतानां गौरवानुरागख्यापनार्थम् , पुनर्मण्डनं वर्षेणोत्पादितवैकृतत्वाद् आसन्नोपभोगकालत्वाच्च, मित्रजनेनात्मनिर्विशेषेण पुनर्मण्डनम्, मध्यवृत्तीनाम्, परिचरणं चेति संवाहनवीजनादिकं सर्वासामेव परिचारकैः कारयितव्यम् , एतद् बाह्यस्त्रीषु, नान्तर्दारेषु, आहोरात्रिकमहोरात्रभवम् , सांप्रयोगिकं च रात्रिभवं सांप्रयोगिके वक्ष्य(१)ति ॥२५॥
नैमित्तिकमाह—
घटानिबन्धनं, गोष्ठीसमवायः, सपापानकम् , उद्यानगमनं, समस्याः क्रीडाश्च प्रवर्त्तयेत् ॥ २६ ॥
घटानिबन्धनमिति । देवानुद्दिश्य यात्रा घटाः नागरकाणां तत्र संघट्यमानत्वात्, तस्या निबन्धनं गणधर्मेण व्यवस्थापनम्, गोष्ठीसमवाय इति । गोष्ठ्यां नागरकाणां काव्यकलाविषयं समवायनं संधारणं प्रज्ञाविवृद्धये, यदपराह्णे गोष्ठीविहार इति नित्यकर्मोक्तं तस्य क्रीडामात्रफलत्वादिदं विशिष्यते, सपापानकमिति । संभूय समन्तात्पानमापानकमित्यर्थः, यन्नायिकया सहकस्य मात्रया पानं तत्सरकाख्यं नित्यमेव स्यात् , उद्यानगमनमिति । बहिः स्वकारितेऽन्यकारिते वोद्याने गमनं वनविहार इत्यर्थः, गृहवाटिकागमनं तु नित्यमेव स्यात् , समस्याः क्रीडाश्चेति । समस्यन्ते समग्रीभवन्ति नागरका यासु ताः समस्याः, अधिकरणे ण्य(२)त्प्रत्ययः, पूर्ववत् संभूय क्रीडा इत्यर्थः, ता द्विविधा—माहिमान्यो देश्याश्च, एतत् पञ्चविधं कर्म नैमित्तिकं नायकः प्रवर्त्तयेत् ॥ २६ ॥
तत्र घटानिबन्धनमाह—
पक्षस्य मासस्य वा प्रज्ञातेऽहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः ॥ २७ ॥
(१) अधि. २, द्वितीयादिषु नवस्वध्यायेषु ।
(२) प्रसिद्धलक्ष्यानुरोधात्संज्ञापूर्वकाबंधेरनित्यतया णित्वप्रयुक्तवृद्ध्यभावः ।
कृत्यल्युटो बहुलम् । ३।३।११३। इत्यतोऽर्थान्तराभ्युपगमः ।
४ अध्याये ] नागरकवृत्तप्रकरणम् । ४५
पक्षस्येति । पक्षस्य मासस्य वाऽतिक्रान्तस्यावसानिकेऽहनि, प्रज्ञात-इति । यद्दिनं यस्या देवताया लोकप्रसिद्धं तत् प्रज्ञातम्, यथा गणपतेश्च-तुर्थी, सरस्वत्याः पञ्चमी, शिवस्याष्टमीत्यादि, तत्र देवतायाः संनिधा-नात् , सरस्वती च नागरकाणां विद्याकलास्वधिदेवता, तस्या आयतने पञ्चम्याम् , नियुक्तानामिति । नायकेन पूजोपचारकत्वे प्रतिपक्षं प्रतिमासं-च ये नियुक्ता नागरकनटादयो नर्त्तितुं, तेषां समाजः, स्वव्यापारानुष्ठानेन मिलनं, यस्मिन् प्रवृत्ते नागरकाः सामाजिका भवन्ति, नित्यमिति । तत्र तत्राहनि ॥ २७ ॥
अन्येष्वहःसु धूपविलेपनघटा, तस्या निबन्धनमाह—
कुशीलवाश्चागन्तवः प्रेक्षणकमेषां दद्युः ॥ २८ ॥
कुशीलवाश्चेति । आगन्तवोऽन्यस्मादायतनाद् नटनर्तकाः, प्रेक्षण-कमेषां प्रज्ञातेऽहन्यन्यत्र वाऽहनि दद्युर्दर्शयेयुः, नियुक्तास्तु भृतिप्रति-बद्धा यात्रायां कुशीलवत्वात् प्रज्ञात एव दर्शयन्ति, इदमुक्तं भवति-पू-जोपचारकैः पात्रापात्रत्वमनपेक्ष्यैव प्रेक्षणमवश्यं ते दर्शयितव्या इति॥२८॥
द्वितीयेऽहनि तेभ्यः पूजा नियतं लभेरन् ॥ २९ ॥
द्वितीय इति । प्रथमेऽहनि प्रेक्षणकव्यग्रत्वात् , तृतीयादिष्वपि क्लिष्ट-दानं स्यात्, तेभ्य इति । नियुक्तेभ्यः पूजोपचारकेभ्यः, पूजा प्रेक्षणक-फलम्, नियतमिति । एतावत् प्रेक्षणकमूल्यमागन्तूनामिति पूर्वकल्पितं-प्राप्नुयुः, अनियतात् प्रेक्षणकाद् रागाद्वस्त्रादिदानलक्षणं प्रथमे वाऽह्नि रङ्गमध्ये नागरकेभ्यो लभेरन् ॥ २९ ॥
ततो यथाश्रद्धमेषां दर्शनमुत्सर्गो वा ॥ ३० ॥
तत उत्तरकालम् , यथाश्रद्धमिति । पुनर्द्रष्टुं यदि श्रद्धाऽस्ति पुनरा-गन्तूनां नृत्यतां दर्शनं, नो चेदुत्सर्गः प्रियालापैः संप्रेषणम् ॥ ३० ॥
यदा पुनः पुनर्दर्शनकौतुकं तदा दर्शनविशेषमाह—
व्यसनोत्सवेषु चैषां परस्परस्यैककार्यता ॥ ३१ ॥
व्यसनोत्सवेषु चैषामिति । आगन्तूनां कस्य चिद्व्याधौ शोके व्य-सने वा तथा विवाहादावुत्सवे व्यग्रस्य यत्कर्म तन्नियुक्तेन कुशीलवेन प्रेक्षणकाविघातार्थं संपाद्यम् , नियुक्तानां वा कस्य चिद्व्यसनोत्सवे, तदाऽऽगन्तुनेति परस्परैककार्यता स्यात् ॥ ३१ ॥
आगन्तूनां च कृतसमवायानां पूजनमभ्युपपत्तिश्चेति गणधर्मः॥३२॥
कृतसमवायानामिति । ये नागरकपण्डेऽभिषिक्ता घटां द्रष्टुमन्यस्मा-दागतास्तेषां पूजोपचारकर्माल्यानुलेपनादिभिः पूजनम् , पारिषदना-
४६ सटीक कामसूत्रे [ १ अधिकरणे,
गरकैश्च यथापरिचयं माङ्गलिकम्, अभ्युपपत्तिश्चेति । व्यसने साहाय्यं- तत्प्रतीकारेण, गणधर्म इति । तत्रत्यानामागन्तूनां कुशीलवनागरकाणां- यथास्वं परिषद्धर्म उक्तः॥ ३२ ॥
एतेन तं तं देवताविशेषमुद्दिश्य सम्भावितस्थितयो विविधा- घटा व्याख्याताः ॥ ३३ ॥
एतेनेति । सरस्वतीघटाऽऽदिनिबन्धेनेन, तं तमिति । यो यः सां- निध्याल्लोके दृष्टातिशयः, संभावितस्थितय इति । देशकालापेक्षया कृत- व्यवस्थाः ॥ ३३ ॥
गोष्ठीसमवायमाह—
वेश्याभवने सभायामन्यतमस्योद्वसिते वा समानविद्याबुद्धि- शीलवित्तवयसां सह वेश्याभिरनुरूपैरालापैरासनबन्धो गोष्ठी॥३४॥
वेश्याभवन इति । सभायां=मण्डपे, अन्यतमस्य वा नागरकस्योद्- वसिते गृहे, एषु नागरकाणामविरुद्धं मिलनं समानविद्यादीनां सुखा- तिशयाद्, नासमानविद्यादीनाम्, बुद्धिः प्रज्ञा, अभिप्रायो वा, सह वेश्याभिरिति । स्त्रीप्रतिबद्धकलाप्रतिपत्त्यर्थमासां गोष्ठयामन्तर्भावः, अ- नुरूपैः=परस्परस्तुत्यनुरागपरिहासानुविद्धैः, आसनबन्धो=यथायथमा- सनेऽवस्थानम्, पक्षस्य मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि स्यात्॥३४॥
तत्रैषां समवायमाह—
तत्र चैषां काव्यसमस्या कलासमस्या च ॥ ३५ ॥
काव्यसमस्या कलासमस्या चेति । संभूय दर्शनं निरूपणं तत्सम- स्या चर्चेत्यर्थः, पूर्ववद्भावे (१)प्रत्ययः, 'अस गतिदीप्त्यादानेषु' इति गत्यर्थस्य ज्ञानार्थत्वाद्, भरतादिकाव्यस्य नृत्यादिकलाया वा चर्चा स्यात्, यत्तु काव्यसमस्यापूरणमित्युक्तं, तस्य भिन्नार्थत्वात् कलासम- स्या चेत्यत्रान्तर्भावः ॥ ३५ ॥
तस्यामुज्ज्वला लोककान्ताः पूज्याः प्रीतिसमानाश्चाहारिताः॥३६॥
तस्यामिति । गोष्ठ्याम्, चर्चाऽवसाने प्रीतिवर्धनार्थं वस्त्रादिदाने- न परस्परस्य कलापूजाः स्युः, उज्ज्वला=अग्राम्याः, लोककान्ताः=लो- कमनोहराः, प्रीतिसमानाः=प्रीत्यनुरूपाः, आहारिताः=परिचारिकैरा- नायिताः ॥ ३६ ॥
समानपानकमाह—
परस्परभवनेषु चापानकानि ॥ ३७ ॥
४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४७
परस्परभवनेषु चेति। एकस्यैकदा भवनेऽन्यदाऽन्यस्य वा, पक्षस्य मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि, आपानकानि=पानगोष्ठ्यः स्युः ॥ ३७ ॥ आपानकेषु विधिमाह—
तत्र मधुमैरेयासवान् विविधलवणफलहरितशाकतिक्तकटुकाम्लोपदंशान् वेश्याः पाययेयुरनुपिबेयुश्च ॥ ३८ ॥
तत्रेति। मधु=माध्वीकम्, मैरेयासवौ मद्यविशेषौ, तथा चोक्तम्— 'मेषशृङ्गीत्वक्कषाथाभियुतो गुडप्रतीवापः, पिप्पलीमरिचसंभारस्त्रिफलायुक्तो मद्यो मैरेयः। कपित्थतुल्यफाणितपञ्चतौलिकप्रस्थमधुनाश्वासवयोगः, सुराकल्कतण्डुलाभ्यां निष्पन्नो गुडस्तत्र निक्षिप्यते' इति। मद्यमिति वक्तव्ये विशेषोपादानं त्रैविध्यख्यापनार्थम्, तथा चोक्तम्— 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा'। अत्र सुराशब्दः सामान्यवाची द्रष्टव्यः, एवं च विविधपानादापानकं भवति, विविधानि लवणतिक्तरसभूयिष्ठानि हरितकटुकानि च शिग्रुपर्णादीन्युपदंशो येषामिति; तान् वेश्याः पाययेयुरभ्यर्थनापुरःसरमनुपिबेयुश्च, आदौ पिबद्भिर्गौरवानुरागो न प्रकाशितौ स्याताम्, अत्र सह पृथग्वेति देशप्रवृत्तिरपेक्षणीया ॥ ३८ ॥
एतेनोद्यानगमनं व्याख्यातम् ॥ ३९ ॥
एतेनेति। आपानकविधिना, उद्यानगतैरप्ययमेवापानकविधिः कार्य इत्यर्थः ॥ ३९ ॥ तत्रोद्यानगमने विशेषमाह—
पूर्वाह्न एव स्वलंकृतास्तुरगाधिरूढा वेश्याभिः सह परिचारकानुगता गच्छेयुः, दैवसिकीं च यात्रां तत्रैवानुभूय कुक्कुटलाबकमेषयुद्धद्यूतैः प्रेक्षाभिरनुकूलैश्च चेष्टितैः कालं गमयित्वाऽपराह्ने गृहीततदुद्यानोपभोगचिह्नास्तथैव प्रत्याव्रजेयुः ॥ ४० ॥
पूर्वाह्न एवेति। तदा हि गतानां दैवसिकी यात्रा संपद्यते, **स्वलंकृताः=**गृहीतवैहारिकवेषाः, तुरगाधिरूढाः, तुरगाणां ललितयानत्वात्, वेश्याभिः सहेति। ता अपि पश्चादग्रतो वा तुरगमारोहयितव्याः, परिचारकाः, यथास्वं कर्मभिः परिचरन्ति ये तैरनुगताः, पक्षस्य मासस्य वा गमनयोग्यतया प्रज्ञातेऽहनि गच्छेयुः, दैवसिकां यात्रां, प्रत्यहं क्रि-
(१) कृत्यप्रत्ययस्य बाहुलकत्वादिति भावः ।
| ४८ | सटीके कामसूत्रे | [ १ अधिकरणे, |
|---|
यमाणां शरीरस्थितिं, तत्रैवोद्यानेऽनुभूय; कुक्कुटलावकमेषयुद्धद्यूतैः सजीवनिर्जीवैर्नटादिप्रेक्षाभिरनुकूलैश्च चेष्टितैर्यथास्वं वेश्याप्रतिबद्धैः केलिविशेषेण दिवसं गमयित्वा, अपराह्णे प्रशान्तवेलायाम्, तथैवेति । स्वलंकृतास्तुरगाधिरूढाः सह वेश्याभिः परिचारकानुगता इति । विशेषोऽत्र गृहीततदुद्यानोपभोगचिन्हा इति 'तदुद्यानमुपभुक्तमिति' यानि सूचयन्ति कुसुमस्तवककिसलयादीनि तानि गृहीतानि शिरःकर्णकण्ठेषु कृतानि यैरिति, प्रत्याव्रजेयुः=प्रतीपमागच्छेयुः ॥ ४० ॥
एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम् ॥४१॥
एतेनेति । उद्यानगमनविधिना, तत्रापि गमनं दैवसिकयात्राऽनुभवनमागमनं च तुल्यं, किं तु गृहीततदुद्यानोपभोगचिन्हा इति; तेन तत्रैव प्रायशोऽन्तर्भूतमिति नैमित्तिकवर्गे पृथङ् नोक्तं, योऽत्र विशेषस्तमाह-रचितोद्ग्राहोदकानामिति । उद्ग्राहमविद्यमानकुल्याऽऽद्युदकं यस्य तोयस्थानस्य तदुद्ग्राहोदकं वापीदीर्घिकाऽऽदि, रचितमिति, स्वार्थिकण्यन्ताद्धेतुमण्ण्यन्तात् क्तप्रत्यये रूपम्; रच 'प्रतियत्ने' इत्यस्यादन्तत्वाच्च वृद्धिः तीर्थविन्यासादिभिः रचितं कारितमुद्ग्राहोदकं यैर्नागरकैरिति, ग्रीष्म इति । अन्यदा तु पुनर्निमज्जनोदकवाद्यविधानादिप्रकारायाः क्रीडाया असंभवत् ॥ ४१ ॥
समस्याः, क्रीडा, आह—
यक्षरात्रिः, कौमुदीजागरः, सुवसन्तकः, सहकारभञ्जिका, ऽभ्यूषखादिका, बिसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चालाऽनुयानम्, एकशाल्मली, (१)यवचतुर्थी, आलोलचतुर्थी, मदनोत्सवो, दमनभञ्जिका, होलाका, अशोकोत्तंसिका, पुष्पावचायिका, चूतलतिका, इक्षुभञ्जिका, कदम्बयुद्धानि, तास्ताश्च महिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुरिति संभूय क्रीडाः ॥ ४२ ॥
यक्षरात्रिरिति । सुखरा(२)त्रिर्यक्षाणां तत्र संनिधानात्; तत्र प्रायशो लोकस्य द्यूतक्रीडा, कौमुदीजागर इति । आश्वयुज्यां हि पौर्णमास्यां कौमुद्या ज्योत्स्नायाः प्रकर्षेण प्रवृत्तेः, तत्र दोलाद्यूतप्रायाः क्रीडाः, सुवसन्तक इति । सुव(३)सन्तो मदनोत्सवः, तत्र नृत्यगीतवाद्यप्रायाः क्रीडाः, एता महिमान्यः क्रीडाः, देश्या आह—सहकारभञ्जि-
(१,) स्पृहयन्तीवृत्तम् इति क० पु० अधिकम् ।
(२,) कार्त्तिकामावस्यारात्रिः ।
(३,) माघशुक्लपञ्चमीदिनम् ।
४ अध्याये ] नागरकवृत्तप्रकरणम् । ४९
४ अध्याये ] नागरकवृत्तप्रकरणम् । ४९
केति । सहकारफलानां भञ्जनं यत्र क्रीडायाम्, अभ्यूषखादिका, चण- कादिफलानां विटपास्थानामग्नौ प्लुषितानां खादनं यत्रेत्येते द्वे क्व चित् क्व चिद् दृश्येते, बिसखादिका; बिसानां मृणालानां खादनं यत्र, सरःसमीपवासिनां, नव(१)पत्रिका प्रथमवर्षेणेन प्ररूढनवपत्रासु वन- स्थलीषु या क्रीडा सा; प्रायेणाटवीसमीपवासिनामाटविकानां च, उद्- कक्ष्वेडिकेति ।
‘वंशनाडी स्मृता श्वेडा सिंहनादश्च कथ्यते’ इति ।
उदकपूर्णा श्वेडा यस्यां क्रीडायां सा मध्यदेश्यानाम् ; यस्याः शृ(२)ङ्गक्रीडेति प्रसिद्धिः, पाञ्चालानुयानम् भिन्नालापचेष्टितैः पाञ्चा- (३)लक्रीडा यथा मिथिलायाम्, एकशाल्मली एकमेव महान्तं कुसु- मनिर्भरं शाल्मलिवृक्षमाश्रित्य; तत् कुसुमाभरणानां क्रीडा यथा वैद- र्भाणां, यवचतुर्थी वैशाखशुक्लचतुर्थ्यां नायकानां परस्परं सुगन्ध- यवचूर्णप्रक्षेप इति पाश्चात्येषु प्रसिद्धा, आलोलचतुर्थी श्रावणशुक्ल- तृतीयायां हिन्दोलक्रीडा, मदनोत्सवो मदनप्रतिकृति(४)पूजनम्, दमन- भञ्जिका परस्परं दमनकपुष्पावतंसन(५)म्, होलाका फाल्गुनपूर्णि- मायां शृङ्गकादिमुक्तेन किंशुकादिकुसुमरागाम्भसा परस्परप्रोक्षणम् ; मिथःपटवासप्रक्षेपश्च, अशोकोत्तंसिका अशोकपुष्पैः शिरोभूषणर- च(६)ना, पुष्पावचायिका पुष्पावचयनक्रीडा, चूतलतिका चूतपल्ल- वावतंसनम्, इक्षुभञ्जिका इक्षुखण्डमण्डनम्, कदम्बयुद्धानि कदम्बकु- सुमैः प्रहरणभूतैर्द्विधा बलं विभज्य युद्धानि कदम्बग्रहणं सुकुमारप्र- हरणसूचनार्थम् ; यष्टीष्टकाऽऽदियुद्धानि तु न कार्याणि यथा पौण्ड्राणां युद्धं क्व चित् क्व चिद् दृश्यते, तास्ताश्चेति । या या लोके प्रवृत्तपूर्वाः, माहिमान्य इति । महिमा महत्त्वं तद्विद्यते यासामिति ‘संज्ञायां मन्म- भ्याम् ।५।२।१३७। इतीनिप्रत्ययः, सर्वदेशव्यापिन्य इत्यर्थः, देशे भवा- देश्याः प्रादेशिन्य इत्यर्थः, जनेभ्यो विशिष्टमिति । घटाऽऽदयो नागर- काणामेव, समस्यास्तु साधारण्यः; तत्र जना नागरकाश्च क्रीडन्ति, त- स्मात्तेभ्यो विशिष्टमाचरेयुः, नागरत्वद्योतनार्थम्, संभूय क्रीडा इति । आसु नागरकाणां द्रष्टव्यमपहाय संभूय क्रीडनात् ॥ ४२ ॥
एकचारिणश्च विभ्रमसामर्थ्याद्; गणिकाया नायिकायाश्च स- खीभिर्नागरकैश्च सह चरितमेतेन व्याख्यातम् ॥ ४३ ॥
(१) वृक्षोद्ग्राहक्कीडा ।
(२) ‘होली’ इति तद्देशप्रसिद्धं नाम ।
(३) पुत्तलिकाविवाहः ।
(४) चैत्रसितचतुर्दश्याम् ।
(५) चैत्रसितद्वादश्याम् ।
(६) चैत्रसिताष्टम्याम् । रचनेत्युपलक्षणमशोककलिकाऽऽस्वादस्यापि ।
७ का० सू०
५० सटीक कामसूत्रे [ १ अधिकरणे,
नागरकाणामभावाददृष्टदोषाद्वा यः कश्चिदेक एव चरति तस्य स्वविभवानुरूपेण परिचारकैः सह यक्षरात्र्यादयः समस्ता एव स्युः, एतेनेति। स्थानगृहव्यास नित्यनैमित्तिकविधिना यथासंभवं गणिकायानायिकायाश्च चरितं व्याख्यातम्, तत्र नागरकाणां स्थाने सख्यः, सखीनां स्थाने नागरका इति ॥ ४३ ॥
उपनागरकाणां लक्षणद्वारेण वृत्तमाह—
अविभवस्तु शरीरमात्रो मल्लिकाफेनकषायमात्रपरिच्छदः पूज्याद्देशादागतः कलासु विचक्षणस्तदुपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेदात्मानमिति पीठमर्दः ॥ ४४ ॥
तुशब्दो विशेषणार्थः, यस्तु निष्किञ्चनो यथोक्तं नागरकवृत्तं वर्तितुमयोग्यः शरीरमात्रः पुत्रकलत्राद्यभावात् परिचारकद्वितीयो यथोत्पादितवित्ताभावाद्देशहिण्डनकः, मल्लिका दण्डासनिका, शरीरधारणात्पूर्वं नागरकाचार्यैः संकेतिता 'मल मल्ल धारणे' इति धातुपाठात् सा तस्य पृष्ठत एवासनार्थं भ्राम्यते, प्रवृत्तविषयेच्छत्वाच्च जङ्घाघर्षणार्थंफेनकषायाविति, तन्मात्रं परिच्छदो विभवो यस्येति, पीठिकाऽऽद्यासनं तु नार्हति, पूज्याद्देशाच्छास्त्रकलाविदध्युषितात्, तत्रत्य एव देशदिदृक्षयाऽऽगतः, कलासु कुशलः स्वदेश एव गीतादिचतुःषष्टिं पाञ्चालकीं चाधीतवान्, तदुपदेशेन=कलोपदेशेन, गोष्ठ्यां नागरकाणाम्, वेशोचिते=वेश्याजनोचिते वृत्ते, साधयेदात्मानमिति। आचार्यमात्मानन्निष्पादयेदित्यर्थः, स पीठमर्द उपदेशदानेऽधिकृतत्वान्मल्लिकाऽऽख्यं पीठं मृद्नातीति कृत्वा, एतेनाचार्यवृत्तमस्य वृत्तम् ॥ ४४ ॥
भुक्तविभवस्तु गुणवान् सकलत्रो वेशे गोष्ठ्यां च बहुमतस्तदुपजीवी च विटः ॥ ४५ ॥
यस्तु यौवने नागरकवृत्त्या परिभुक्तसर्वस्वोऽप्यनुपरतो विषयेभ्यः, सविभवस्तु नागरक एव स्यात्, तत्रत्यो नान्यस्माद्देशादागतः, भुक्तविभवस्त्वागन्तुकः, पीठमर्दात् स एव गुणवान्नायकगुणयुक्तः, प्राकस्य नागरकत्वात्, सकलत्रः सानुबन्धत्वान्न स्वदेशत्यागी, बहुमत इति। बहु मतं यस्यः विशेषपरिज्ञानात्, तदुपजीवी=वेश्यागोष्ठ्युपजीवी, वृत्तिमन्यामनिच्छन् वेश्याजनं नागरकजनं चोपजीवति, तदुपजीवितया तयोः सन्देशं परस्परं विटतीति विटः, 'विट शब्दे' इति धातुपाठात्, वक्ष्यति च-'विटः पुरोगं प्रीतिं कुर्याद्' इति, तेन तदुपजीविवृत्तमेवास्य वृत्तम्॥४५॥
एकदेशविद्यस्तु क्रीडनको विश्वास्यश्च विदूषको वैहासिको वा ॥४६॥
४ अध्याये ] नागरकवृत्तप्रकरणम् । ५१
यस्तु गीतादीनां प्रदेशज्ञः सोऽविभवो भुक्तविभवो वा शरीरमात्रः सकलत्रस्तत्रत्य आगन्तुको वा, पूर्ववृत्तसम्भावात्, क्रीडनको विश्वास्यश्च भवति, वेशे गोष्ठ्यां च विश्वास्यतामुपगम्य परिहासशीलवृत्त्या वर्तत इत्यर्थः, स च वेश्यां नागरकं वा क्व चित्प्रमाद्यन्तं लब्धप्रणयत्वादपवदत इति विदूषकः, क्रीडनकत्वाच्च वेशे गोष्ठ्यां च विविधेन हासेन चरतीति वैहासिकः, इत्युपनायका ॥ ४६ ॥
एते वेश्यानां नागरकाणां च मन्त्रिणः सन्धिविग्रहनियुक्ताः ॥ ४७ ॥
एते नागरकाणां पार्श्ववर्तित्वादुपनागरका मन्त्रिण, सन्धिविग्रहनियुक्ता इति । सामान्यवृत्ते सन्धिविग्रहयोज्ञाने मन्त्रिणः कर्मणि सान्धिविग्रहिकाः, तथा हि—देशकालकार्यापेक्षया सन्धिविग्रहौ प्रधानगुणौ ज्ञानेनावधार्य; तत्कर्मसु प्रवर्तन्त इति ज्ञानकर्मरूपी सन्धिविग्रहौ ॥ ४७ ॥
तैर्भिक्षुक्यः कलाविदग्धा मुण्डा वृषल्यो वृद्धगणिकाश्च व्याख्याताः ॥ ४८ ॥
तैरिति । उभयात्मकैः, भिक्षुक्यः=भिक्षुकस्य भार्याः, मुण्डाः=मुण्डगुणयुक्ताः, वृषल्यः=बन्धक्यः, 'कलाविदग्धा' इति सर्वत्र योज्यम्, ताअपि सन्धिविग्रहयोज्ञाने कर्मणि च नियोक्तव्याः, ताश्च सन्धिविग्रहार्थकुट्टनाच्चालनात् कुट्टन्य इत्युच्यन्ते ॥ ४८ ॥
यात्रावशाद्ग्रामवासिनो वृत्तमाह—
ग्रामवासी च सजातानिवचक्षणान्कौतूहलिकान्प्रोत्साह्य; नागरकजनस्य वृत्तं वर्णयञ्छ्रद्धां च जनयंस्तदेवाऽनुकुर्वीत, गोष्ठीश्च प्रवर्तयेत्, सङ्गत्या जनमनुरञ्जयेत्, कर्मसु च साहाय्येन चानुगृह्णीयाद्, उपकारयेच्चेति नागरकवृत्तम् ॥ ४९ ॥
ग्रामवासी चेति । सजातान्=समानजातीयान्, तत्रापि विचक्षणान्=प्राज्ञान्, कौतूहलिकान्=कौतुकवतः, प्रोत्साह्य कथमित्याह—वृत्तं वर्णयन्नगर इत्थं गोत्रपुत्राणां लोकमनोहारि चेष्टितं श्रूयते, भवतामपि युक्तं वैचक्षण्यानुरूपं जीवितफलं तदनुकर्तुमिति श्रद्धां च जनयन्; यात्रामपि तद्दर्शनेन गोष्ठीश्च प्रवर्तयेत्, तैः सह सङ्गत्या जनमनुरञ्जयेत्, सङ्गतिर्मैत्रीभ्यामित्यर्थः; साहाय्येनानुगृह्णीयात्, यात्रोत्सवादिषु प्रवर्तमानमुपचारयंश्च परस्परमुपचरेत् ॥ ४९ ॥
तत्र चैषां काव्यसमस्याः कलासमस्याश्चेत्युक्तम्, तत्रविशेषमाह—
भवन्ति चात्र श्लोकाः—
नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया ।