भारतकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

१० सटीक कामसूत्रे [ १ अधिकरणे,

णाधिकरणसंख्यानमन्यनिरपेक्षार्थम्, श्लोकसंख्यानमहीनाधिकत्वज्ञा- पनार्थम् ।

उत्तरग्रन्थसन्धानायाह—

संक्षेपमिममुक्त्वाऽस्य विस्तरोऽतः प्रवक्ष्यते ।
इष्टं हि विदुषां लोके समासव्यासभाषणम् ॥ ८७ ॥

इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे
शास्त्रसंग्रहः प्रथमोऽध्यायः प्रथमं प्रकरणम् ।

संक्षेपमिति । अस्येति शास्त्रस्य । विस्तरोऽतः प्रवक्ष्यते संक्षेपा- दूर्ध्वम् । किमर्थमेवं शास्त्रविन्यास इत्यत आह—इष्टं हीति । लोके ये शास्त्रेऽधिकृतास्ते विद्वांसः, तेषां संक्षेपविस्तराभ्यां शास्त्रस्य मनसि धारणमिष्टम्, प्रज्ञातप्रकरणार्थक्रमत्वादसंमोहो यथाऽभिलषितप्रकरणा- र्थप्रत्यवमर्शश्च स्याद् ॥ ८७ ॥

इति शास्त्रसंग्रहः प्रथमं प्रकरणम् ॥ १ ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलायां साधारणे प्रथमेऽधिकरणे शास्त्रसङ्ग्रहः प्रथमोऽध्यायः ॥ १ ॥


द्वितीयोऽध्यायः ।

त्रिवर्गप्रतिपत्तिफलं शास्त्रम्, तस्मिन्नप्रतिपत्तौ विप्रतिपत्तौ वा तदुपायपर्य्येषणमपि युक्तम्, तस्माच्छास्त्रसंग्रहादनन्तरं त्रिवर्गप्रतिप- त्तिरुच्यत इति प्रकरणसम्बन्धः । उद्देशापेक्षया च सम्बन्धित्वे कथमु- द्देश इति चिन्त्यम्, प्रतिपत्तिस्त्रिविधा-अनुष्ठान,मवबोधः, संप्रतिप- त्ति,श्चेति । तत्र प्राधान्यादनुष्ठानमधिकृत्याह—

शतायुर्वे पुरुषो विभज्य कालमन्योन्यानुबद्धं परस्परस्यानु- पघातकं त्रिवर्गं सेवेत ॥ १ ॥

शतायुरिति । शतमायुरस्येति शतायुः, शतशब्दः सामान्यवाच्य- पि वर्षगतसंख्यानमाह, वृत्तौ तथाऽर्थस्य विवक्षितत्वात्, कालवि- भागार्थं वैतदपरिच्छिन्नायुषो विभागसम्भवात् पुरुष इति प्राधा- न्यख्यापनार्थम्, स्त्रीणां तु पुरुषाधीना त्रिवर्गं सेवेत्यस्वातन्त्र्यम् । वि- भज्य वक्ष्यमाणेन न्यायेन । अन्योन्यानुबद्धमिति । धर्मादीनामन्यतमं द्वाभ्यामेकेन वाऽनुबद्धम् । तद्यथा-प्रजार्थिनो धर्मपत्न्याममभिप्रेताया-

२ अध्याये ] त्रिवर्गप्रातपत्तिप्रकरणम् । ११


मृतावभिगमनं धर्मोऽर्थानुबद्धः, अप्रजार्थिनोऽभिप्रेतायां पत्न्यामभिगमनं धर्मः कामानुबद्धः, अपरिणीतस्य सवर्णादनभिप्रेतकन्यालाभोऽर्थो धर्मानुबद्धः, परिणीतस्यासमवर्णादभिप्रेतकन्यालाभोऽर्थः कामानुबद्धः, धर्मपत्न्यामभिप्रेतायामृतौ कामो धर्मानुबद्धः, परिणीतस्य निष्किञ्चनस्याधमवर्णायामर्थवत्यामभिप्रेतायामधिगतायां कामोऽर्थानुबद्धः, इत्येकानुबद्धाः । अपरिणीतस्य सवर्णायामनन्यपूर्वायामभिप्रेतायां यथाविधि संयोगो धर्मोऽर्थकामानुबद्धः, तस्यैवाभिप्रेतसवर्णकन्यालाभोऽर्थो धर्मकामानुबद्धः, तस्यैवार्थरूपवत्यां परस्परोत्कण्ठयोद्वाहितायां कामो धर्मार्थानुबद्धः, इति द्वयनुबद्धाः । परस्परस्यानुपघातकमिति । यत्रानुबन्धो नास्ति तत्रैकमितरयोरनुपघातकम्, एकानुबन्धे चान्यस्यानुपघातकं सेवेत । अत्रोदाहरणं वक्ष्यामः ॥ ४ ॥

वयोद्वारेण कालविभागमाह—

बाल्ये विद्याग्रहणादीनर्थान् ॥ २ ॥

बाल्य इति। वयोविभागस्तन्त्रान्तर उक्तः—

'आ षोडशाद्भवेद् बालो यावत्क्षीरानुवर्त्तकः।
मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते' ॥ इति।

विद्याग्रहणमादिर्येषामर्थानां तान्सेवेतेति ॥ २ ॥

एवम्—

कामं च यौवने ॥ ३ ॥

कामं यौवने तदोचितत्वात् ॥ ३ ॥

स्थाविरे धर्मं मोक्षं च ॥ ४ ॥

स्थाविरे धर्ममोक्षावननुभूतविषयत्वाद्, मोक्षग्रहणं परमतापेक्षम्, ज्ञानवादिनां चतुर्वर्गः पुरुषार्थः, अस्मिन्नेव काले तैरप्याध्यात्मिकं चिन्त्यमिति ।

ननु त्रिवर्गस्य नियतकालत्वादन्योन्यानुबन्धो नास्ति, ततश्चासेवनप्रसङ्ग इति ? नायं नियमः, अनुबद्धत्वाभावे निरनुबद्धत्वमप्युक्तम्, अथवा यथाकालमहन्यहनि सेवा प्रतिषेधपरस्त्वाद्धर्मादिनियमस्य, यथाकालं तु धर्मादिषु सेव्यमानेषु यद्यदाऽनुषङ्गादितरानुबन्धो नास्ति ततश्च भवतु न दोषाय ॥ ४ ॥

अनित्यत्वादायुषो यथोपपादं वा सेवेत ॥ ५ ॥

अनित्यत्वादिति। वर्षशतादर्वाग्विनाशदर्शनात्। यथोपपादमिति। यद्यदोपपद्यते तत् तदा सेवेत बाल्येऽर्थं धर्ममपि, यौवने कामं धर्मा-

१२ सटीक कामसूत्रे [ १ अधिकरणे,

र्थावपि, स्थाविरे धर्मम् अर्थकामानुष्ठानसामर्थ्यं चेत्तावपीति । अन्य- थैकसेवायामसमग्रः पुरुषार्थः स्यात् । सेवेतेति पुनर्वचनं पूर्वस्मात्प- क्षात्पक्षान्तरादरार्थम् ॥ ५ ॥

अस्मिन्पक्षे विद्याग्रहणाद्यर्थस्य सेवायाः कालत्रयेऽपि संभवान्नि- यमयति—

ब्रह्मचर्यमेव त्वाऽविद्याग्रहणात् ॥ ६ ॥

यावद्विद्या न गृह्यते तावत्कामं न सेवेत; अन्यथा ह्यधर्मस्तद्ग्रहण- विघाततः; विद्याऽर्थलाभाभावश्च, भूम्याद्यर्जने तु न नियमः,

अन्ये तु विद्याग्रहणवर्जं प्रायेण भूम्याद्यर्जनं न संभवति; अतस्त्र- यस्त्रिंशदब्दाश्चत्वारश्च मासा इति प्रत्येकं वयो विभज्य योजयन्ति, अस्मिन्विभागे षोडशवर्षादूर्ध्वं कामसम्भवाद्, बाल्येऽपि धर्मार्थकामा- न्सेवेतेत्युक्तमनुष्ठानम् ॥ ६ ॥

अवबोधस्वरूपं; यतश्च परिज्ञातं तदुभयमप्याह—अलौकिकत्वा- दित्यादिना ।

अलौकिकत्वाददृष्टार्थत्वादप्रवृत्तानां यज्ञादीनां शास्त्रात्प्रवर्त- नम्; लौकिकत्वाद् दृष्टार्थत्वाच्च प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः शास्त्रादेव निवारणं धर्मः ॥ ७ ॥

तत्र लोके रूपाविवदविदितस्वरूपत्वादलौकिका यज्ञादयः ।

ननु विशिष्टद्रव्यगुणकर्मात्मकत्वाद्विदितस्वरूपाः कथमलौकिकाः ? इत्यत आह—अदृष्टार्थत्वादिति, तेषामनन्तरं फलस्यादर्शनात् । येऽदृ- ष्टफलाः सन्तोऽलौकिका न ते प्रेक्षावद्भिरदृष्टसामर्थ्यौषधिवत्प्रवर्त्यन्त- इत्यप्रवृत्ताः, आदिशब्दात्तपश्चरणादयः, तेषामप्रवृत्तानां शास्त्रात्प्रवर्त्त- नं धर्म इति; अयं प्रवृत्तिरूपो धर्मः । लौकिकत्वाद् दृष्टार्थत्वादि|ति| । ये दृष्ट तृप्त्यादिफलाः सन्तो लौकिकास्ते तदर्थिभिर्मृगादिमांसभक्षणवत्प्रव- र्त्यन्ते; तस्मात्प्रवृत्तेभ्यश्च मांसभक्षणादिभ्य आदिशब्दात्परस्वाभिद्रोहाप- रस्वादानादिभ्यः शास्त्रादेव निवारणं प्रतिषेधनमिति; अयं निवृत्तिरूपः। कथमिव शास्त्रं प्रमाणमिति चेदुत्तरत्र वक्ष्यति ॥ ७ ॥

तं श्रुतेर्धर्मज्ञसमवायाच्च प्रतिपद्येत ॥ ८ ॥

तमिति । उक्तस्वरूपं धर्मम् । श्रुतेरिति । स्मृत्यनुगताङ्ग्रेदाह, योऽधिकृतः शास्त्रे, अनधिकृतो वा धर्मज्ञसमवायात् = स्मृत्यर्थतत्त्वज्ञसं- सर्गादित्यर्थः, प्रतिपद्येत = अवबुध्येत ॥ ८ ॥

२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । १३

विद्याभूमिहिरण्यपशुधान्यभाण्डोपस्करमित्रादीनामर्जनमर्जितस्य विवर्धनमर्थः ॥ ९ ॥

विद्याः=आन्वीक्षिक्यादयः। भूमिः=कृष्टा कृष्या वा। हिरण्यं=सुवर्णादि, पशुः=हस्त्यश्वादिः, धान्यं=पूर्वमध्यावरवापः,=भाण्डोपस्करं=गृहोपकरणं लोहकाष्ठमृद्विदलचर्ममयम्, मित्रं=सहपांशुक्रीडितादि, आदिशब्दाद्वस्त्राभरणादयः। अर्जनं द्विविधम्-निष्पन्नानां हस्त्यादीनां स्वीकरणम्; अनिष्पन्नानां च धान्यादीनां निष्पादनम्। अर्जितस्येत्येकवचनमेकैकस्य द्रव्यस्यार्जनवर्धनयोरर्थतत्त्वे द्वाविति दर्शनार्थम्, अन्यथा समुदायस्यैवार्जनं वर्धनं चार्थः स्यात्। वर्धनमुपायः। भूम्यादिरर्जितावर्जितश्चार्था इति वक्तव्ये; अर्जनवर्धनग्रहणं शास्त्रव्यापारदर्शनार्थम्, तयोः शास्त्रेणोपदिश्यमानत्वात् ॥ ९ ॥

तमध्यक्षप्रचाराद्वार्तासमयविद्भ्यो वणिग्भ्यश्चेति ॥ १० ॥

तमिति। अर्जनवर्धनस्वरूपम्। अध्यक्षाः प्रचरन्त्यनेनेत्यध्यक्षप्रचारः=शास्त्रम्; तस्माच्छास्त्रे योऽधिकृतः, इतरश्च वार्तासमयविद्भ्यः कृषिपशुपाल्यवाणिज्यादितत्त्वविद्भ्यः, वणिग्भ्य इत्युपलक्षणार्थम्, कर्षकेभ्यो गवादिपोषकेभ्यश्च प्रतिपद्येतेति ॥ १० ॥

एवम्

श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाऽधिष्ठितानां- स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः ॥ ११ ॥

त्वगिति कामेन्द्रियम्, कामो द्विविधः-सामान्यो; विशेषश्च, तत्र सामान्यमाह-आत्मसंयुक्तेन मनसेति। आत्मा समवायिकारणम्ः सुखदुःखेच्छाद्वेषप्रयत्नादिगुणानां तत्र समवायात्, तत्र यदाऽस्य प्रयत्नगुण उत्पद्यते तदाऽयं मनसा संयुज्यते; मन इन्द्रियेण; इत्यनेन क्रमेणाधिष्ठितानाम्। स्वेषु स्वेष्विति । यथाक्रमं शब्दस्पर्शरूपरसगन्धेषु। आनुकूल्यत इति। यदाऽऽत्मनः शब्दादीनां बुद्धीन्द्रियाणा मानुलोम्येन या प्रवृत्तिः, इच्छोपगृहीता श्रोत्रादिबुद्धिरित्यर्थः, सा विषयोपभोगस्वभावात् काम इत्युपचर्यते, आत्मा हि तद्द्वारेण विषयं भुञ्जानः सुखमनुभवति यत्तत्सुखं प्रधानं कामः, तस्य निबन्धनमिच्छोपगृहीता प्रवृत्तिः, साऽपि काम इत्युच्यते, तस्माद्धेतुफलभेदात्सामान्यकामो द्विविधः। प्रातिकूल्यतः प्रवृत्तिस्तु दुःखहेतुत्वाद् द्वेष इत्यर्थोक्तम् ॥ ११ ॥

विशेषकामो द्विविधः-प्रधानम्; अप्रधानं च, तदुभयमपि दर्शयन्नाह-

१४ सटीक कामसूत्रे [ १ अधिकरणे,

स्पर्शविशेषविषये स्वस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः प्राधान्यात्कामः ॥ १२ ॥

स्पर्शविशेषविषये त्विति । वाक्पाणिपादपायूपस्थानि=कर्मेन्द्रियाणि; तेषां वचनादानविहरणोत्सर्गानन्दकर्मनिष्पादनात् , तत्र स्त्रीपुंसयोर्यदधो व्यञ्जनं संबाधकादि तन्मात्रस्वभावं तत्त्वगिन्द्रियमेव; तस्य कश्चिदेव प्रदेशविशेष उपस्थेन्द्रियमुच्यते, यो विसृष्ट्यवस्थायामानन्दजं कर्म जनयति, तस्य व्यञ्जनस्य योऽन्तर्गतः स्पर्शः स स्पर्शविशेषः, तस्मिन्विषये प्रतीतिरसावर्थप्रतीतिस्त्वगिन्द्रियबुद्धिः, अस्याः संप्रयोगेच्छा लक्षणः कामिताऽऽख्यो भावः कारणम् । अस्येति । स्त्र्यात्मनः; पुरुषात्मनश्च, तत्र स्त्र्यात्मनः पुरुषव्यञ्जनस्पर्शविशेषविषये स्त्रीव्यञ्जनत्वगिन्द्रियप्रतीतिः; पुरुषात्मनश्च स्त्रीव्यञ्जनस्पर्शविशेषविषये पुरुषव्यञ्जनत्वगिन्द्रियप्रतीतिरित्यर्थः । विशेषदेशोपग्रहणात्पुरुषयोरुकक्षादिस्पर्शनविषये; स्त्रियाश्चापद्रव्यस्पर्शविषये प्रतीतिर्निरस्ता, तस्या अप्रधानत्वात्, एवंविधा प्रतीतिः सामान्यकाम एव, कथं विशेषत्वमिति चेद् ? आह-फलवतीति । तस्यां प्रतीतौ प्रबन्धेनोत्पद्यमानायां शुक्रक्षरणेन तत्तुल्यकालमेव चानन्दाख्यं फलं सुखमित्युक्तम्, तेन युक्ता शुक्रस्पर्शविशेषविषये विषयप्रीतिरपरा भवति, तस्याश्च पूर्विकैव प्रतीतिरफला कारणम्, अतो विषयभेदात्स्वरूपभेदाच्च द्विधा प्रतीतिः । अर्थप्रतीतिरिति । अर्थग्रहणात्त्वक्प्रत्यञ्जनस्पर्शार्थस्यालीकत्वात्फलवत्यपि न कामः, तस्या अप्रधानत्वात्। यद्येवं वियोनावयोनौ वाऽनभिप्रेतेऽर्थप्रतीतिरेवंविधाऽप्यस्तीत्यत आह—अभिमानिकसुखानुविद्धेति । आभिमानिकं चुम्बनादिसुखं वक्ष्यति । चुम्बननखदशनच्छेद्यादिषु हि तत्र तत्र स्थानेषु प्रयुज्यमानेषु स्त्रीपुंसयो रागः संकल्पवशात्सुखमित्यभिमन्यते, तेन सुखेनानुविद्धेत्याक्षिप्तसंस्कारेऽर्थप्रतीतिः प्राधान्यात्कामः, तेन वियोनावयोनौ वाऽनभिप्रेतस्त्रीपुंसयोः फलवत्यर्थप्रतीतिर्न कामः, आभिमानिकसुखाभावात्, तस्मात्स्पृष्टव्यविशेषविषयो विशेषः कामः ॥ १२ ॥

तं कामसूत्रान्नागरिकजनसमवायाच्च प्रतिपद्येत ॥ १३ ॥

तमिति । उक्तस्वरूपं सामान्यं विशेषं च, प्रधानमप्रधानं च , कामसूत्रादस्मादेव, शास्त्रेऽधिकृतो यः, इतरश्च नागरिकसमवायात्कामव्यवहारज्ञसंसर्कात्प्रतिपद्येतेति ॥ १३ ॥

एवं धर्मादीनि युगपत्सेवितुमधिगन्तुं वा न संभवन्तीति गौरवलाघवमपि बुध्येतेत्याह—

तेषां समवाये पूर्वः पूर्वो गरीयान् ॥ १४ ॥

२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । १५

तेषामपि समवाये संनिपाते, तदुपायसंनिधानात् पूर्वः पूर्व इति कामादर्थो गरीयान्, कामस्यार्थसाध्यत्वात्, ततोऽपि धर्मः अर्थस्य धर्मसाध्यत्वात् ॥ १४ ॥

नायं सर्वविधिविषयक्रम इत्यत आह—

अर्थश्च राज्ञः ॥ १५ ॥

अर्थस्तु राज्ञो गरीयान् इति ॥ १५ ॥

तन्मूलकत्वाल्लोकयात्रायाः ॥ १६ ॥

तन्मूलकत्वादिति । वर्णाश्रमाचारलक्षणा लोकयात्रा, सा मा भूदन्यथेति तस्याः पालनं राज्ञो धर्मः, तच्च प्रभुशक्तौ सत्याम्, प्रभुशक्तिश्च कोषडण्डबलम्, ते चार्थत इति तन्मूला लोकयात्रा ॥ १६ ॥

वेश्यायाश्च ॥ १७ ॥

इति त्रिवर्गप्रतिपत्तिः ।

वेश्यायाश्चार्थो गरीयान्, अर्थनिबन्धनत्वात्तज्जीविकायाः । वेश्या हि कामातुरब्राह्मणाभिप्रेतनागरिकविषयौ धर्मकामावुपगतौ त्यक्त्वा पश्चाद्बविष्यत इत्यनिष्टेऽप्ययमर्थद इति प्रवर्त्तत इति ॥ १७ ॥

त्रिवर्गप्रतिपत्तिरनुष्ठानावबोधलक्षणोक्त्यर्थः ।

इदानीं विप्रतिपत्तिपूर्विकां संप्रतिपत्तिं दर्शयन्नाह—

धर्मस्यालौकिकत्वात्तदभिधायकं शास्त्रं युक्तम् ॥ १८ ॥

धर्मस्येत्यादि । कामसूत्र एव तद्विप्रतिपत्तिं दर्शयति—अलौकिकत्वादिति, यथोक्तं प्राक्, अभिधायकं ज्ञापकं शास्त्रम् ॥ १८ ॥

उपायपूर्वकत्वादर्थसिद्धेः ॥ १९॥

अर्थसिद्धेरिति । अर्जनबर्धनाख्या चार्थसिद्धिः ॥ १९ ॥

उपायप्रतिपत्तिः शास्त्रात् ॥ २० ॥

अन्यथोपायं विना प्रवर्त्तमानस्यार्थोऽपि न स्यात्, तत्संशयश्च ॥२०॥

तत्र धर्मार्थमर्थार्थं च शास्त्रं युक्तम्, कामार्थं त्वयुक्तमित्याह—

तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शास्त्रेण कृत्यमस्तीत्याचार्याः ॥ २१ ॥

तिर्यग्योनिष्ष्वपीति । गवादिष्वपि तमोबहुलेषु शास्त्रोपदेशं विना कामः प्रवर्त्तमानो दृश्यते, किं पुनर्मनुष्येषु रजोबहुलेषु न प्रवर्त्तेतेति, तथा चोक्तम्—

‘विनोपदेशं सिद्धो हि कामोऽनाख्यातशिक्षितः ।

१६ सटीक कामसूत्रे [ १ अधिकरणे,

स्वकान्तारमणोपाये को गुरुर्मृगपक्षिणामिति ॥

नित्यत्वाच्चेति । आत्मनि द्रव्यपदार्थे सदैवेच्छाद्वेषादयो गुणाः स्थिताः, ततश्च नित्यः कामः। तथा चोक्तम्—

'मुमुक्षवोऽपि सिद्ध्यन्ति विरागाद्रागपूर्वकात् ।
विषयेच्छाऽनुवर्त्तिन्यो निसर्गात्प्राणिनां धियः' ॥

तस्मात्प्रवर्त्तमानेन शास्त्रेण न कार्यं तन्निवर्त्तनं तु युक्तम् । आचार्याः=धर्मार्थमोक्षवादिनः ॥ २१ ॥

अत्र संप्रतिपत्तिमाह—

सम्प्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते ॥ २२ ॥

सम्प्रयोगपराधीनत्वादिति । विशेषः सामान्यो वा कामः सम्प्रयोगपराधीनः, सम्प्रयोगश्च द्विविधः—आयतनसम्प्रयोगोऽङ्गसम्प्रयोगश्च । तत्रायतनं कामस्य स्त्र्यधिष्ठानम् , अङ्गानि च माल्यादीनि । तथा चोक्तम्—

'सुखं कामस्तदङ्गानि भूषणालेपनस्रजः ।
तथोपवनहर्म्यञ्च वल्लकीमदिराऽऽदयः ॥
अस्यायतनमुद्दामरूपयौवनविभ्रमाः ।
ललनाश्चाटुदाक्षिण्याश्चाकृष्टजनमानसाः' ॥ इति ।

तत्रायतते यः सम्प्रयोगः स आयतनसम्प्रयोगः, स च द्विविधः बाह्य आभ्यन्तरश्च, तत्र यो रहसि स आभ्यन्तरो रताख्यः, स विशेषकामस्य निमित्तम्, बाह्यः समागमलक्षणो रतस्य, यश्च बुद्धीन्द्रियाणां यथास्वमङ्गैः सम्प्रयोगः सोऽङ्गसम्प्रयोग इति इन्द्रियार्थसंनिकर्षलक्षणः स च सामान्यकामस्य निमित्तम् ; अनयोश्च कामयोर्यथास्वं पूर्वोक्तमेवेच्छा कारणम् तत्पूर्वकत्वात्, तदभावेऽभावात् । तत्राद्यः सम्प्रयोगः समागमलक्षणः, स स्त्रीपुंसयोरन्यतरानिच्छया रक्षणाल्लज्जया भयाद्वा परतन्त्रायां न घटत इत्यत्रायमुपायमपेक्षते; रताख्यश्च पाञ्चात्यश्चतुःषष्टिप्रयोगानभिज्ञयोः कथं स्यादिति तमुपायम् ; द्वितीयोऽपि सम्प्रयोगो नित्यनैमित्तिकनागरिकवृत्तं विना न भवतीत्युपायापेक्षा २२॥

सा चोपायप्रतिपत्तिः कामसूत्रादिति वात्स्यायनः ॥ २३ ॥

उपायपरिज्ञानं च कामसूत्रात्, तेनोपदिश्यमानत्वात् । वात्स्यायन इति स्वगोत्रनिमित्ता समाख्या, मल्लनाग इति च सांस्कारिकी ॥ २३ ॥

गवादिषु कथमिति चेत्तदाह —

तिर्यग्योनिषु पुनरनावृतत्वात्स्त्रीजातेश्च ऋतौ यावदर्थं प्रवृत्तेर्बुद्धिपूर्वकत्वाच्च प्रवृत्तीनामनुपायः प्रत्यक्षः ॥ २४ ॥

२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । १७

पुनःशब्दो विशेषणार्थः। अनावृतत्वादिति। रक्षणाद्यावरणाभावात् स्त्रीजातिः स्वतन्त्रा; किं तत्रोपायेनेत्यनुपायः प्रत्यय इति सम्बन्धः। प्रत्ययशब्देनोभयरूपोऽपि सम्प्रयोग उक्तः, तस्य कामोत्पत्तौ निमित्तत्वात्, तत्रावरणाभावादाचार्योक्तोपायशून्यः समागम इत्यर्थः। ऋतौ यावदर्थमिति। ऋतुकाल एव ते तिर्यञ्चः सम्प्रयुज्यन्ते, मनुष्यास्तु प्रजाऽर्थमृत्तौ, स्त्रीरमणार्थं चानृतावपीत्यसमानम्, तथा चोक्तम्—'ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जम्' इति, तत्रापि यावदर्थं-यावदेव तृप्तिलक्षणोऽर्थो निष्पद्यते तावदेव सम्प्रयुज्यन्ते; न तु द्वितीयंसम्प्रयोगमपेक्षन्ते-किमस्य तृप्तिर्भून्न वा? इति, तस्मादसमानार्थत्वादनुपायप्रत्यय आभ्यन्तरसम्प्रयोगः, तत्र समानार्थतालक्षणं प्रेम स्त्रीरक्षणोपायो नास्तीति, मनुष्येष्वेवमिति चेद् ? अत एवास्योपदेशः, अन्यथा तथा समानार्थत्त्वादनुपायः, तत्पत्न्याः पुरुषान्तरगमने न कश्चित्पुरुषार्थोऽस्य स्यात्, तथा चोक्तम्—

'भजते संभृतप्रेमा परं चेदस्य कामिनी।
नष्टे धर्मे हते वृत्ते सुखं दूरे हतं कुलम्' ॥

तस्मात्समानार्थताजन्यमेव प्रेम स्त्रीरक्षणोपायः, यच्च स्त्रीरक्षणार्थंमनुप्रोक्तमसुकुमारत्वसाधनार्थं कुट्टनादि गृहकर्म तदुपायोद्वेगजननादनुपाय एव, तथा चोक्तम्—

'कर्माण्यसुकुमाराणि रक्षणार्थेऽवदन्मनुः।
तासां स्रज इवोद्दामगजानानोपसंहिताः ॥
असति प्रेम्णि तत्सर्वमित्याचार्या व्यवस्थिताः।
समानार्थतया तच्च न शास्त्रेणोपदिश्यते ॥ इति,

अबुद्धिपूर्वकत्वादिति। धर्मोऽर्थः पुत्राः सम्बन्धः पक्षवृद्धिः स्यादित्येवं बुद्धिपूर्वं न प्रवर्तन्ते; केवलं पशुधर्ममात्रेणेत्यनुपायप्रत्यय आभ्यन्तरसंप्रयोगः, अनुबन्धोपायरहितत्वात्, तस्माद् दैवरक्ताः किंशुका इति किंतिर्यग्योनिषु शास्त्रप्रणयनेन, अनुकूलेषु वा पुरुषेषु, इतरत्र तु विपर्ययेण स उपायप्रत्यय इति युक्तं शास्त्रप्रणयनम् ॥ २४ ॥

धर्मे विप्रतिपत्तिमाह—

न धर्मांश्चरेत् ॥ २५ ॥

॥ २५ ॥

एष्यत्फलत्वात् ॥ २६ ॥

एष्यत्फलत्वादिति। यज्ञादयो नैहलौकिका; जन्मान्तरफला उक्ताः,
३ का० सू०

१८ | सटीक कामसूत्रे | [ १ अधिकरणे,

हस्तगतद्रव्यत्यागे न प्रेक्षावात्समीहते किं स्विदैव कृष्यादिफलं निष्पा-
द्योपभुङ्क्ते न परम्परामपेक्षते ॥ २६ ॥

सांशयिकत्वाच्च ॥ २७ ॥

सांशयिकत्वाच्च भविष्यतः फलस्येति। उपस्कारतस्तपश्चार्थाक्ले-
शादर्थक्षयाच्च निष्पादितेऽपि यज्ञादौ ततः किं स्वर्गादिफलं स्यान्न
वेति ? सन्दिग्धम्, कारणानां कार्योत्पादननियमादर्शनात्(१) सन्दिग्धे
च कोऽसंशयितार्थत्यागेन प्रवर्तेत इति हेतुद्वयम् ॥ २७ ॥

तत्र प्रथमस्य लोकप्रसिद्धिमाह--

को ह्यबालिशो हस्तगतं परगतं कुर्यात् ॥ २८ ॥

**को हीति। अबालिशः=**प्रेक्षावान् यथा कश्चित्स्वहस्तगतं द्रव्यं परह-
स्तीकृतं कार्यकाले स्वयं गत्वा साध्यं हारितं भक्षितं वोऽनेन स्यादिति
न विप्रकृष्टं करोति, तथा जन्मान्तरे भोक्ष्येऽहमिति यज्ञादिषु नियोज्य;
विप्रकृष्टं कः कुर्याद् नैतत्स्याद् ॥ २८ ॥

इह द्रव्यं साध्यफलं तावन्मात्रकं तावत्कालं वाऽमुत्र विपरीत-
मित्याह--

वरमद्य कपोतः श्वो मयूरात् ॥ २९ ॥

वरमद्येति। यथा पक्षिमांसार्थिनो महतः श्वो मयूरलाभादद्य कपो-
तलाभोऽपि गरीयांस्तद्वदिहापीति ॥ २९ ॥

द्वितीयस्य लोकप्रसिद्धिमाह--

वरं सांशयिकान्निष्कादसांशयिकः कार्षापणइति

लौकायतिकः ॥ ३० ॥

वरमिति। गृहाण कार्षापणं, नो चेद्देष्यति मेऽद्य हेमशतं ततो निष्कं
दास्यामीति, तत्र प्रत्युपस्थितकार्यस्यासंदिग्धं स्वल्पोऽपि कार्षापणो ग-
रीयान् संदिग्धनिष्कात्। लौकायतिक इति लोकायतमधीयते ये (२)
उक्थादिपाठाट्ठक्प्रत्ययः ॥ ३० ॥

तत्र संप्रतिपत्तिमाह--

शास्त्रस्यानभिशङ्क्यत्वादभिचारानुव्याहारयोश्च किञ्चित्फलद-

र्शनाद्, नक्षत्रचन्द्रसूर्य्यताराग्रहचक्रस्य लोक़ार्थं बुद्धिपूर्वकमिव प्रवृ-


( १ ) अज्ञातहेतुताकसामग्रीघटककिञ्चिद्देवभावदशायामस्ति योग्यतेदृशव्यभिचारप्रतिपत्तेः।
( २ ) क्रतूक्थादिसूत्रान्ताट्ठक् । ४ । २ । ६० । इतिसूत्रेण।

२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । १९

तेर्दर्शनाद्, वर्णाश्रमाचारस्थितिलक्षणत्वाच्च लोकयात्रायाः, हस्त- गतस्य च बीजस्य भविष्यतः सस्यस्यार्थे त्यागदर्शनात्, चरेद्धर्मा- निति वात्स्यायनः ॥ ३१ ॥

शास्त्रस्येति। धर्मस्यालौकिकत्वात्तदभिधायकं शास्त्रं युक्तम्, तच्छा- स्त्रं पौरुषेयमपौरुषेयं च, तत्र पूर्वमभिशङ्कनीयं-“किमिदं सत्यं मिथ्या वे”ति पुरुषा हि रागादिभिरविद्यया चोपप्लुता वितथमपि ब्रुवन्ति, अपौ- रुषेयं च वेदाख्यं पुरुषसम्बन्धाभावाददुष्टमनभिशङ्कनीयम्, यथोक्तम्-

'दोषाः सन्ति न सन्तीति पौरुषेयस्य युज्यते । वेदे कर्तुरभावात्तु दोषशङ्कैव नास्ति नः ॥' इति,

अपौरुषेयत्वसाधनमन्य(१)त्रोक्तमिति नेहोपन्यस्तं ग्रन्थगौरवभया- त्, तस्मादनभिशङ्क्यत्वात् तच्चोदितेऽर्थे न संशयीतेति चरेद् धर्मानिति सम्बन्धः, तेन संशयितत्वादित्येतदसिद्धम् अभिचारः=हिंसाऽऽत्मकं कर्म, अनुव्याहारः=शान्तिकपौष्टिकं, तयोश्चोदितयोः, अभिचरञ्श्येनेन यजेते- त्यादिना यत्र प्रयुज्यते तत्र हिंसाशान्तिपुष्टिफलदर्शनाच्छेषस्याप्यग्निहो- त्रादेः स्वर्गादि फलं भविष्यतीति चरेद्धर्मान्, न ह्यपौरुषेयत्वेनाभिन्नयोर्वि- तथावितथत्वभेदो युज्यते वितथत्वे चेतरस्यापि वितथत्वप्रसङ्गात्, अदृष्टसाधनमाह-नक्षत्रेति। नक्षत्राण्यश्विन्यादीनि चन्द्रसूर्यौ प्रसिद्धौ ताराग्रहा अङ्गारकादयः पञ्च तेषां चक्रमिव चक्रं संनिवेशविशेषो द्वादशराशिविभक्तं तस्य; लोकार्थं नात्मार्थम्, बुद्धिपूर्वकमिवेति । बुद्धिपूर्व- कस्येव, यथा कश्चित्पुरुषो बुद्धिपूर्वं प्रवर्तते तद्वदेवैते सूर्यादयो नक्ष- त्रेण युज्यमाना अन्यथाऽन्यथा प्रवर्तमाना दृश्यन्ते न च तथैवेतीवार्थः, तथा ह्येषां न 'लोकस्येदं करिष्यामः'इति प्रवृत्तिः, सा च शास्त्रान्तरे ब- हुप्रकारोक्ता, दर्शनादितिवचनात्प्रत्यक्षप्रमाणसिद्धेति दर्शयति, तस्यां च प्रवृत्तौ लोकस्य शुभाशुभात्मकं फलं द्विविधम्-साधारणमसाधा- रणं च, तत्र साधारणं सुभिक्षदुर्भिक्षादि तच्च ग्रहवारे द्रष्टव्यम्, असा- धारणं तु प्रतिसत्त्वं प्रतिनियतं लाभालाभसुखदुःखादि, तच्च जातके द्रष्टव्यम्, सैव द्विधा प्रवृत्तिः कारणान्तरमदृष्टं गमयति, तच्च लोकस्य शुभाशुभात्मकर्मणः; अन्यथैषामेकरूपाणां कारणान्तरनिरपेक्षाणां सदा- प्रवृत्तिरप्रवृत्तिर्वा स्यात्, कालानियम इति चेत् ? सोऽपि कारणनिरपेक्षः


( १ ) वाचा विरूपनित्ययेति श्रुतिः । अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवेति स्मृतिश्च ।

२७सटीक कामसूत्रे[ १ अधिकरणे,

सर्वदा स्यात्, तस्मादस्ति तत्प्रवर्तकमदृष्टमिति चरेद् धर्मान्, उक्तं च--

'नक्षत्रग्रहपंजरमहर्निशं लोककर्मविक्षिप्तम् ।
भ्रमति शुभाशुभमखिलं प्रकाशयत् पूर्वजन्मकृतम् ॥ इति,

वर्णाश्रमेति । वर्णाः=ब्राह्मणादयः, आश्रमाः=ब्रह्मचर्यगार्हस्थ्यादयः, तेषामाचारः स्वधर्मः तस्य स्थितिर्व्यवस्था सैव लक्षणं यस्या लोक-यात्रायाः, सा लौकायतिकैर्मा भूद्व्यवस्थायां मात्स्यो न्याय इतिदृष्टार्थं वर्णिता, 'संवरणमात्रं हि त्रयी लोकयात्राविद'इति; तां च लोकविश्वास-नार्थमाचरद्भिः कथं नाचरातो धर्मः, दृष्टार्थश्च यद्यदृष्टार्थोऽपि स्यात्को-विरोधः, एतेन 'न धर्मांश्चरेद्' इति प्रतिज्ञाया अभ्युपगमबाधां दर्शयति, यच्चोक्तम्-"एष्यत्फलत्वा"दिति तद् दृष्टेऽप्यस्तीति दर्शयन्नाह-हस्तगत-स्येति । तुल्ये भविष्यत्फलत्वे सति; नैकत्र प्रवृत्तिरन्यत्र निषेध इति यु-क्तियुक्तम्, न कदा चित्तत्र दृष्टमिति चेत् ? कथं तर्हि लोकवैचित्र्यम्, न हि सर्वत्र समानाद् दृष्टात्करणादैश्वर्यादिफललाभः, नापि स्वाभाविकं कर्म; सदा सिद्धयसिद्धिप्रसङ्गात् ॥ ३१ ॥

अर्थविप्रतिपत्तिमाह—

नार्थांश्चरेत् ॥ ३२ ॥

नार्थानिति । उपायात्किलार्थसिद्धिः, उपायानुष्ठानं च यत्नस्तन्ना-नुतिष्ठेदित्यर्थः ॥ ३२ ॥

प्रयत्नतोऽपि ह्येतेऽनुष्ठीयमाना नैव कदा चित्स्युः ॥ ३३ ॥

न चान्वयव्यतिरेकानुविधानादर्थसिद्धेः, यदाह- प्रयत्नत इति । प्रय-त्नेनावर्त्यमाना नैव कदा चित्स्युरित्यर्थोक्तम्, यदा स्युस्तदा कालसंनि-धानादिति मन्यन्ते; अनुष्ठीयमानाः प्रयत्नेनेत्यर्थः ॥ ३३ ॥

अननुष्ठीयमाना अपि यदृच्छया भवेयुः ॥ ३४ ॥

यदृच्छयेति । एवमेव स्युः, अकस्मान्निधानादिदर्शनात् ; तस्मादु-पायपरिज्ञानार्थकम् ॥ ३४ ॥

किंकृतं तर्हितद् ? इत्याह—

तत्सर्वं कालकारितमिति ॥ ३५ ॥

तत्सर्वमिति । अर्थस्य भवनमभवनं, लोकस्येष्टमनिष्टं कालकारित-मिति; कालो नाम द्रव्यपदार्थो नित्यः तेन कारितमिति-प्रयोजकव्यापा-रेण पुरुषस्य परायत्ततामाह ॥ ३५ ॥

तदेव दर्शयन्नाह—

काल एव हि पुरुषानर्थानर्थयोर्जयपराजययोः सुखदुःखयोश्च स्थापयति ॥ ३६ ॥

२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । २१

काल एवेति। हेयोपादेयाः षट्पदार्था लाभालाभा(१)दयः; तेषु काल- एव प्रवर्तयति, न त्यागोपादानार्थं स्वयं यत्नमातिष्ठेदित्यर्थः ॥ ३६ ॥

लोकप्रसिद्धिमाह—

कालेन बलिरिन्द्रः कृतः, कालेन व्यवरोपितः काल एव पुन- रप्येनं कर्तेति कालकारणिकाः ॥ ३७ ॥

कालेनेति । इन्द्रः कृतः, हेयप्रकृतिकोऽप्यसुरत्वादनर्होऽपि शक्रपदे प्रेरितः स्थापितः । व्यवरोपित इति । परिवर्तमानेन तस्मात्पदादपनीय पाताले नियोजितः । पुनरप्येनं कर्तेति । विपरिवर्तिष्यमाणः प्रेरयन्निन्द्रं करिष्यतीत्यर्थः, तथा चाहुः—

'कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ इति,

कालकारणिका ये कालकारणमधीयते, ऐश्वरकारणिका अप्येवमेव द्रष्टव्याः, तुल्ययोगक्षेमत्वात् ॥ ३७ ॥

अत्र संप्रतिपत्तिमाह—

पुरुषकारपूर्वकत्वात्सर्वप्रवृत्तीनामुपायः प्रत्ययः ॥ ३८ ॥

पुरुषकारपूर्वकत्वादिति । कालादुपायतो वाऽर्थसिद्धौ तदर्थिनो याः प्रवृत्तयस्ताः सर्वाः पुरुषकारपूर्विका दृष्टाः, उभयत्रापि पुरुषकारस्य व्याप्रियमाणत्वात् पुरुषकारश्चोपायं विना नार्थं साधयतीत्युपायः प्र- त्ययः, कारणमर्थसिद्धेरित्यर्थः, यथैव हि पुरुषकारोऽर्थसिद्धौ कालम- पेक्षते तथा हि शक्तिदेशसाधनान्युपायाः, तेषु सर्वेष्वसत्सु कालस्या- किंचित्करत्वाद् असति काले तेषामसामर्थ्यात् तस्माच्छक्तिदेशकाल- साधनानि परस्परापेक्षाणि कार्यस्य साधकानीति नान्य एवोपायः, तत्र शक्त्यादिषु पुरुषकारार्थसिद्धेरनुगुणेषु त्ववश्यमेव सिद्धिः ॥ ३८ ॥

कदा चित्स्याद्यादृच्छिकी कस्य चिदर्थसिद्धिः सोऽपि यादृच्छि- कमेवोपायमाश्रित्य; तदाह—

अवश्यंभाविनोऽप्यर्थस्योपायपूर्वकत्वादेव न निष्कर्मणो भद्र- मस्तीति वात्स्यायनः ॥ ३९ ॥

अवश्यमिति । यतश्चैवं तस्मान्निष्कर्मण उपायानुष्ठानरहितस्य भद्रं- कल्याणम् पूर्वजन्मकृतं कर्म निष्फलं प्रसज्येतेति चेद् ? न-परस्परापेक्ष- मुभयं भवतीति द्रष्टव्यम् । यथोक्तम्—'दैवं मानुषं कर्म लोकं पालयति' एतेन दैवमात्रप्रवादोऽपि प्रत्युक्तः ॥ ३६ ॥


( १ ) जनननिधनकीर्त्यकीर्त्तय आदिपदग्राह्याः ।

२२ सटीक कामसूत्रे [ १ अधिकरणे,

प्रत्यक्षं कामविप्रतिपत्तिमाह—

न कामांश्चरेत् ॥ ४० ॥

न कामानिति ॥ ४० ॥

धर्मार्थयोः प्रधानयोरेवमन्येषां च सतां प्रत्यनीकत्त्वादनर्थज- नसंसर्गमसद्व्यवसायमशौचमनायतिं चैते पुरुषस्य जनयन्ति ॥४१॥

प्रधानयोरिति । ताभ्यां कामोत्पत्तेः, प्रत्यनीकत्वादिति । कामासक्ततया धर्मस्यानाचरणाद्, धर्मविलोमाचरणाच्च, अर्थस्यानर्जनाद्; अर्जितस्य 'मद्यनटनर्तकीनटीपारितोषिकासद्व्ययाद्विरोधवर्ती कामः । सतामिति । ज्ञानवृद्धास्तपोवृद्धाः सन्तः कामासक्तिं त्यजन्ति तेषां च प्रत्यनीकव- र्तिनोऽनर्थजनकनटनर्तकगायनादयस्तैः सम्पर्कं जनयन्ति, असद्व्यव- सायमनोभनव्यवसायं निशीथाभिसरणप्राकारलङ्घनादिकम्, अशौचं= यथोक्तशौचाकरणम्, अनायतिमप्रभावं कामगर्दभ इति ॥ ४१ ॥

तथा प्रमादं लाघवमप्रत्ययमग्राह्यतां च ॥ ४२ ॥

तथा प्रमादं शरीरोपघातं परदारादिगमनादौ; लाघवं तारल्यं सह- सा प्रवर्तनाद्; अप्रत्ययमविश्वासमसत्सङ्गमाद्, अग्राह्यतां हेयतामपू- ज्यवृत्तित्वात् ॥ ४२ ॥

बहवश्च कामवशगाः सगणा एव विनष्टाः श्रूयन्ते ॥ ४३ ॥

बहवोऽनेके कामायत्ता विनष्टा इति सम्बन्धः, सगणा न केवलं- सेवितारः, तत्परिवारा अपीत्यर्थः ॥ ४३ ॥

तथा च दृढीकरणार्थमाख्यानकम्—

यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश ॥ ४४ ॥

दाण्डक्य इति संज्ञा, भोज इति भोजवंशजः, अभिमन्यमानोऽभिग- च्छन्, स हि मृगयां गतो भार्गवकन्यामाश्रमपदे दृष्ट्वा जातरागो रथमा- रोप्य जहार, ततो भार्गवः समित्कुशानादायागत्य तामपश्यन्नभिध्याय; च यथावृत्तं राजानमभिशशाप, ततोऽसौ सबन्धुराष्ट्रः पांसुवर्षेणावष्ट- ब्धो ननाश, तत्स्थानमद्यापि दण्डकारण्यमिति गीयते ॥ ४४ ॥

देवराजश्चाहल्यामतिबलश्च कीचको द्रौपदीं रावणश्च सी- तामपरे चान्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्यर्थचि- न्तकाः ॥ ४५ ॥

देवराज इन्द्रोऽहल्यामभिमन्यमान इत्येव, स हि गौतमाश्रमे तद्भा-

२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । २३

र्यामहल्यां चकमे, ततः समित्कुशानादायागते गौतमे तद्भार्याऽहल्या शक्रं गर्भस्थमकरोत् ; तदैवोपनिमन्त्रणेन गौतमः सभार्य एवाश्रमन्तरंगतः, ततस्तेन योगचक्षुषा समुपलब्धेनेन्द्रागमनेनास्मै समुपस्थापितमासनत्रयं दृष्ट्वा चासौ "किमेतद्भार्याद्वितीयस्य ममे"ति जाताशङ्को ध्यानेन यथावृत्तमालोक्य रोषात् "सहस्रभगो भवे"ति शशाप, ततोऽसौ देवराजोऽपि कामाद्विनाशप्रत्ययां तादृशीमवस्थामाससाद, यस्याद्यापि कलङ्को "ऽहल्यायै जार" इति नास्तमेति। अतिबलः नागसहस्रबलत्वात्, सोऽपि कामाद् द्रौपदीमभिलषन्भीमसेनेन हत इति प्रतीतमेतद्, विनश्यन्तो दृश्यन्तइत्यत्र प्रत्यक्षं प्रमाणं; किं तत्र पूर्ववृत्तोदाहरणेनेति मन्यन्ते॥४५॥

अत्र संप्रतिपत्तिमाह —

शरीरस्थितिहेतुत्वादाहारसधर्माणो हि कामाः ॥ ४६ ॥

आहारसधर्माण इति । आहारतुल्याः, यथाऽऽहारोऽजीर्णादिदोषं जनयन्नपि प्रतिदिने शरीरस्थितये सेव्यते, तथा कामोऽपि, अन्यथा रागोद्रेकादुन्मादादिदोषेण न शरीरस्थितिरिति ॥ ४६ ॥

फलभूताश्च धर्मार्थयोः ॥ ४७ ॥

फलभूताश्च धर्मार्थयोरिति । सुखार्थं धर्मार्थयोः सेवा, तदसेवायां तौ बन्ध्यभूतौ केवलमायासाफलौ स्याताम् , तथा चोक्तम्—

'धर्ममूलः स्मृतः स्वर्गस्तत्रापि परमाः स्त्रियः।
गृहस्थधर्मो दुर्वारो नराणां धर्मयत्नजः ॥
हिताश्चापत्यसंतानैः स्त्रियस्त्विह परत्र च ।
परं सम्प्रत्ययो भोगप्रकर्षार्थाय वै स्त्रियः'॥ इति ॥ ४७ ॥

यद्येवं तर्हि दोषप्रसङ्गः ? इत्यत आह—

बोद्धव्यं तु दोषेष्विव. न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते, न हि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः ॥ ४८ ॥

बोद्धव्यमिति । अजीर्णादिदोषेष्विव बोद्धव्यम् । प्रतिविधानमिति शेषः । इदमाह—यत्र क्व चन दोषप्राप्तिरवश्यं सेव्यश्च कामस्तं दोष प्रतिविधानेन सेवेतेति, अयं च न्यायो लोकेष्वप्यस्तीति दर्शयति-न हीत्यादिना, तथा चोक्तम्—

'तृणानामिव हि व्यर्थं नृणां जन्म सुखद्विषाम् ।
दोषास्तु परिहर्तव्या इत्याचार्यैः स्थिरीकृतम् ॥ इति ॥ ४८ ॥

२४ सटीक कामसूत्रे [ १ अधिकरणे,

अनुष्ठानलक्षणायाः प्रतिपत्तेः फलमाह— भवन्ति चात्र श्लोकाः—

एवमर्थं च कामं च धर्मं चोपाचरन्नरः । इहामुत्र च निःशल्यमत्यन्तं सुखमश्नुते ॥ ४९ ॥

एवमिति । यथोक्तेन न्यायेन प्रतिष्ठापिताचरणमर्थं प्रागाचरेत्, ततोऽधिगतार्थः कामं धर्मं च । इहामुत्र चेति । इह लोके परलोके च, निःशल्यं सुखमश्नुत इति । अनुतापाभावात् "समग्रो मे पुरुषार्थ" इति मनःप्रीतिमवाप्नोतीत्यर्थः । त्रिवर्गे ह्यसेवमानश्च तावदिह लोके; नैहिकं-सुखमवाप्तमिति विप्रतीकारं दुरन्तः कामानुबन्धनाद्, नापि परलोके; न मया मूढेन प्राक्कृतमवदातं कर्मेति धर्मानुषक्तत्वात्, नास्तिका निरीहकाः सुखद्विपस्त्वेकाङ्गविकलत्वात्सशल्यमवाप्नुवन्तीति मन्यते ॥ ४२ ॥

'परस्परस्यानुपघातकमन्योन्यानुबद्धम्' इत्युक्तम्, तस्यैव संग्रहः श्लोकद्वयेन—

किं स्यात्परत्रेत्याशङ्का कार्ये यस्मिन्न जायते । न चार्थघ्नं सुखं चेति शिष्टास्तत्र व्यवस्थिताः ॥ ५० ॥

किं स्यादिति । उपघातः पूर्वेणोत्तरस्य, उत्तरेण वा पूर्वस्य । तत्र यस्मिन्कार्येऽर्थोऽपि साधयिष्यते यस्तत्र किं स्यादपायोऽनपायो वेत्याशङ्का नास्ति, धर्माबाधनाद्, यच्च सुखं नार्थं हन्ति तस्मिन्नर्थे सुखे च शिष्टास्त्रिवर्गविदः स्थिता अनुष्ठातुम्, पूर्वबाधके तु न स्थिताः, यस्तु दानेन धर्मोऽर्थं बाधते, ब्रह्मचर्येण च विद्याग्रहणमर्थः कामं, तस्मिन्नुत्तरबाधके स्थिता इत्यर्थोक्तम्,

तथा चाहुः—

'अपि नाम त्रिवर्गोऽस्मिन्सेवेतोत्तरबाधकम् । पूर्वस्य तु प्रधानत्वात्र सेव्यः पूर्वबाधकः ॥ इति ॥ ५० ॥

त्रिवर्गसाधकं यत्स्याद्द्वयोरेकस्य वा पुनः । कार्यं तदपि कुर्वीत न त्वेकार्थं द्विबाधकम् ॥ ५१ ॥

त्रिवर्गसाधकमिति । धर्मादीनां यदन्यतमं कार्यमनुष्ठेयमात्मन इतरयोस्तु साधकं तत्कुर्वीत, अयमुत्तमः पक्षो ह्यनुबन्धेऽन्तर्भूतः । द्वयोर्वैकस्येति । त्रयाणां यद् द्वयोरात्मन इतरस्य च साधकं तदपि कुर्वीतेति, अयं मध्यमः पक्ष एकानुबन्धेऽन्तर्भूतः, एतदुभयमपि प्रागुदाहृतम् । यदेकस्यात्मन एव साधकं तदपि कुर्वीतेति । अयं जघन्यो निरनुबन्धेऽन्तर्भूतः । तद्यथा—पञ्चानां महायज्ञानां प्रवर्तनं धर्मो निरनुबन्धः ।

इति त्रिवर्गप्रतिपत्तिर्द्वितीयं प्रकरणम् ॥ २ ॥

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २५

भूम्याद्यर्जनमर्थो निरनुबन्धः, परिचारिकायामभिप्रेतायां कामो निरनुबन्धः । अस्मिन्पक्षे परस्परस्यानुपघातकं प्रदर्शयन्नाह—न त्वेकार्थंद्विबाधकमिति । एक आत्मैषार्थः प्रयोजनं यस्य तदेकार्थं द्वयोर्बाधकं न कुर्याद्, अतिदानेन धर्मोऽर्थं बाधते कामं च बाधते, तपसा चात्यन्तसेवितेन कामं बाधित्वा शरीरक्षयादर्थमुपहन्ति, तथाऽर्थस्तावदात्यन्तिकउपादीयमानः पुरूरवस इव धर्मकामौ बाधते, कामस्तूत्तमवर्णासु दाण्डक्यस्येवान्यत्र वाऽत्यासेवित उभयं बाधते, यदेकस्य साधकमन्यस्य बाधकं तत्पूर्वोत्तरबाधापेक्षया कुर्यात्, तच्च यथोक्तं प्रागिति ।

इति त्रिवर्गप्रतिपत्तिर्द्वितीयं प्रकरणम् ॥ २ ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलायां साधारणे प्रथमेऽधिकरणे त्रिवर्गप्रतिपत्तिर्द्वितीयोऽध्यायः ॥ २ ॥


तृतीयोऽध्यायः ।

एवं प्रतिपन्नत्रिवर्गस्य कामसिद्धौ प्रथम उपायो यद्विद्याग्रहणम्, अगृहीतविद्यस्यानन्तरव्यापारासंभवादिति विद्यासमुद्देश उच्यते । समुद्देशश्च संक्षेपाभिधानम्, निर्देशश्च शास्त्रान्तरादुपदेशाच्चापेक्षणीयः ।

यथा च तासां ग्रहणं तथा दर्शयन्नाह—

धर्मार्थाङ्गविद्याकालानुपरोधयन् कामसूत्रं तदङ्गविद्याश्च पुरुषोऽधीयीत ॥ १ ॥

धर्मेत्यादि । तत्र धर्मविद्या श्रुतिः स्मृतिश्च, अर्थविद्या वार्ताशास्त्रं, तयोरङ्गविद्या दण्डनीतिः, योगक्षेमसाधनाद्, आन्वीक्षिकी तु तत्त्वनिश्चयहेतुत्वात्, तासां प्रधानानां यथास्वमध्ययनकालानुपरोधयन्नहापयन्, अन्तराऽन्तरा कामसूत्रमिदमेव, तदङ्गविद्याश्च गीतादिकाअधीयीत पाठश्रवणाभ्याम् ॥ १ ॥

प्राग्यौवनात्स्त्री ॥ २ ॥

प्रागिति । प्राग्यौवनात्स्त्री कामसूत्रं तदङ्गविद्याश्चाधीयीत पितुर्गृह एव, तरुण्याः परिणीतत्वात्स्वतन्त्रायाः कुतोऽध्ययनम् । 'युवतिः' इति पाठान्तरम्, तत्र स्त्रीपर्यायो द्रष्टव्यः ॥ २ ॥

प्रत्ता च पत्युरभिप्रायात् ॥ ३ ॥

प्रत्ता चेति । प्रकर्षेण दत्ता, निष्ठायामेव 'अच उपसर्गात्तः' ७।४।४७।

४ का० सू०

२६ सटीक कामसूत्रे [ १ अधिकरणे,

इति तत्त्वम् , ऊहेत्यर्थः, त्रिविधं दानम् , मनसा वाचा कर्मणा चेति । पत्युरभिप्रायादिति । यदा पत्याऽनुज्ञाता तदाऽधीयीत, अन्यथा स्वैरिणीत्याशङ्कनीया स्यात् ॥ ३ ॥

योषितां शास्त्रग्रहणस्याभावान्नर्थकमिह शास्त्रे स्त्रीशासनमित्याचार्याः ॥ ४ ॥

शास्त्रग्रहणस्याभावादिति । तासां शास्त्रानधिकारात्, शास्त्रं ग्रहीतुमसमर्थत्वाच्च । इहेति । कामशास्त्रे स्त्रियमुद्दिश्य शासनम्, इदं कार्यमिदं नेत्येवंरूपम् उपदेष्टुमनर्थकम् इत्याचार्या मन्यन्ते ॥ ४ ॥

प्रयोगग्रहणं त्वासां, प्रयोगस्य च शास्त्रपूर्वकत्वादिति वात्स्यायनः ॥ ५ ॥

प्रयोगग्रहणमिति । प्रयुज्यत इति प्रयोगोऽर्थस्तद्ग्रहणमासां, तद्विज्ञेभ्यो मा भूच्छास्त्रग्रहणं, स च योषिदुपयोगीति शास्त्रेणानावेदितः कथमन्यैरुपदिश्यते तस्मान्नानर्थकं स्त्रीशासनम् ॥ ५ ॥

तन्न केवलमिहैव; सर्वत्र हि लोके कति चिदेव शास्त्रज्ञाः सर्वजनविषयश्च प्रयोगः ॥ ६ ॥

तन्न केवलमिहैवेति । तत्प्रयोगग्रहणं, केवलमिहैवास्मिन्नेव कामशास्त्रे । सर्वत्र हीति । हिशब्दो हेतौ । सर्वेषु व्याकरणज्योतिःशास्त्रादिषु दृश्यते, तदेव दर्शयति-लोक इत्यादिना । कति चिदेव शास्त्रज्ञा-ये तद्ग्रहणसमर्थाः, तेभ्यः समर्थैरसमर्थैश्च प्रयोगो गृह्यत इति सर्वजनविषयः, प्रयोगग्रहणं च शास्त्रग्रहणात्प्रधानम्, गृहीतशास्त्रस्य प्रयोगज्ञानफलत्वात् ॥ ६ ॥

प्रयोगस्य च दूरस्थमपि शास्त्रमेव हेतुः ॥ ७ ॥

प्रयोगस्य चेति । गृहीतशास्त्रस्य दूरस्थमपीति । शास्त्रज्ञजनाधारत्वाद्विप्रकृष्टमपि शास्त्रं पारम्पर्येण हेतुः, एकः शास्त्रज्ञः प्रयोगं गृह्णाति, ततोऽन्यः, तताऽन्य इति ॥ ७ ॥

अत्र दृष्टान्तमाह—

अस्ति व्याकरणमित्यवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते ॥ ८ ॥

अस्तीति । शब्देनाचोदितार्थस्य युक्त्या विमृश्यावस्थापनमूहः, स च प्रातिपदिकलिङ्गवचनान्तरोपायेन व्याकरण उक्तः, तद्व्याकरणमस्ति यतोऽयमूहः पारम्पर्याशयादित्यवैयाकरणा अपि याज्ञिकास्तं-

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २७

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २७

क्रतुषु प्रयुञ्जते, तद्यथा—'आग्नेयमष्टाकपालं पुरोडाशं निर्वपेद्' इति प्रकृतिप्रयोगः, 'सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम' इति विकृतिप्रयोगः, अत्र सूर्यमुद्दिश्योहो, निर्वपेदिति लिङ्गात्, सौर्यं चरुं निर्वपेदाग्नेयवदिति ॥ ८ ॥

अस्ति ज्यौतिषमिति पुण्याहेषु कर्म कुर्वते ॥ ९ ॥

पुण्याहेष्विति । अस्ति ज्यौतिषमित्यज्यौतिषिका अपि कुतश्चिदुपलभ्य शस्तदिनेषु कर्म कुर्वते, तत्र शास्त्रमेव हेतुः ॥ ९ ॥

तथाऽश्वारोहा गजारोहाश्चाश्वान्गजांश्चानाधिगतशास्त्रा अपि विनयन्ते ॥ १० ॥

तथेति । अनधिगतशास्त्रा इति । हस्त्यश्ववैद्यकाद् हस्त्यादिशिक्षाऽऽद्यधीत्याप्ताम्नायात्, पोषणदमनादिकं कर्म कुर्वत इत्येव, तत्रापि शास्त्रमेव हेतुः ॥ १० ॥

न शास्त्र एवार्थं न्यायो यद् दूरस्थमपि हेतुः, किं तु लोकेऽपीत्याह—

तथाऽस्ति राजेति दूरस्था अपि जनपदा न मर्यादामतिवर्तन्ते, तद्वदेतत् ॥ ११ ॥

अस्ति राजेति । दूरस्था अदृष्टराजकाः, "अस्ति व्यवस्थापको यत इयं व्यवस्थे"ति तद्भयान्न मर्यादामतिक्रामन्ति, तद्वदेतदिति दार्ष्टान्तिके योजनीयम् ॥ ११ ॥

अथ वाऽस्त्येव शास्त्रग्रहणं कासां चिदित्याह—

सन्त्यपि खलु शास्त्रप्रहतबुद्धयो गणिका राजपुत्र्यो महामात्रदुहितरश्च ॥ १२ ॥

सन्त्यपीति । शास्त्रेण प्रहता खिन्ना बुद्धिर्यांसामिति । महामात्रेति । महती मात्रा येषामिति सामन्ता महासामन्ता वा, हस्तिशिक्षायां वा तल्लक्षणमनुसर्तव्यम् ॥ १२ ॥

तस्माद्वैश्वासिकाज्जनाद्रहसि प्रयोगाञ्छास्त्रमेकदेशं वा स्त्री गृह्णीयात् ॥ १३ ॥

तस्मादिति । यस्मात्प्रयोगग्रहणं शास्त्रग्रहणं चोभयं तस्माद्, वैश्वासिकाद्विश्वासार्हात्, लज्जानिवृत्त्यर्थम्, प्रयोगान्; ये शास्त्रग्रहणासमर्था दुर्मेधसः, शास्त्रं तद्ग्रहणसमर्था मेधाविनी, शास्त्रैकदेशं वा संप्रयोगाङ्गं या मध्यममेधाविनी सा गृह्णीयात् ॥ १३ ॥

२८सटीके कामसूत्रे[ १ अधिकरणे,

अभ्यासप्रयोज्यांश्च चातुःषष्टिकान्योगान्कन्या रहस्येका-
किन्यभ्यसेत् ॥ १४ ॥

अभ्यासेति । अभ्यासेन प्रयोक्तुं ये शक्यन्ते बाडवकभ्रमरकादयः, चातुःषष्टिकांश्चतुःषष्टिभवान्। कन्येति। तदानीमभ्यस्तं यौवने प्रयुज्यते । रहसीति लज्जानिवृत्त्यर्थम् । एकाकिन्याचार्यनिरपेक्षा ॥ १४ ॥

कः पुनश्चैश्वासिक इत्याह—

आचार्यास्तु कन्यानां प्रवृत्तपुरुषसंयोगा सहसंवृद्धा धा-
त्रेयिका, तथाभूता वा निरत्ययसम्भाषणा सखी, सवयाश्च मातृ-
ष्वसा, विस्रब्धा तत्स्थानीया वृद्धदासी, पूर्वसंसृष्टा वा भिक्षुकी,
स्वसा च विश्वाससंप्रयोगात् ॥ १५ ॥

आचार्यास्त्विति । तुशब्दो विशेषणार्थः, पुरुषाणां स्वातन्त्र्यात्सुलभा-
उपदेष्टारः, तत्र प्रवृत्तपुरुषसंयोगा पुरा चानुभूतरसत्वादभिज्ञा धात्रे-
यिका, धात्र्या अपत्यं सा हि सह संप्रवृद्धत्वाद्विश्वास्येत्येकाऽऽचार्या,
तथाभूता चेति । प्रवृत्तपुरुषसंप्रयोगा सखी वा निर्दोषसंभाषणत्वाद्वि-
श्वास्येति द्वितीया, सवयाश्चेति । तुल्यवयाः प्रीतिविश्वासयोरास्पदं;
चशब्दात्तथाभूतेति निवर्तते मातृष्वसा मातृभगिनीति तृतीया, विस्र-
ब्धेति । विश्वस्ता तत्स्थानीया मातृष्वसृतुल्या मातृभगिनीत्वेन गृहीता
वृद्धदासी विदितबहुवृत्तान्तेति चतुर्थी, पूर्वसंसृष्टा पूर्वं यथा सह प्री
तिरुत्पन्ना सा विश्वास्या भिक्षुकी भिक्षणशीला या का चित्सा देशहि-
ण्डनात् कुशलेति पञ्चमी, स्वसा च ज्येष्ठा भगिनी, विश्वाससंप्रयो-
गादिति । यद्वा तत्समक्षं विश्वासात्पुरुषान्तरेण संप्रयुक्ता स्याद्,
अन्यथा स्वसा स्वसारमपि नेर्ष्याया शिक्षयतीति षष्ठी ।

इत्युक्तं ग्रहणं कामसूत्रे तदङ्गविद्यासु च, तासामङ्गविद्यानामयमु-
द्देशः—शास्त्रान्तरे चतुःषष्टिमूलकला उक्ताः—तत्र कर्माश्रया चतुर्विंशतिः—
तद्यथा—१ गीतम् २ नृत्यम् ३ वाद्यम् ४ कौशललिपिज्ज्ञानम् ५ वचनं चोदा-
रम् ६ चित्रविधिः ७ पुस्तकर्म ८ पत्रच्छेद्यम् ९ माल्यविधिः १० गन्धयुक्त्या
स्वाद्यविधानम् ११ रत्नपरीक्षा १२ सीवनम् १३ रङ्गपरिज्ञानम् १४ उपक-
रणक्रिया १५ मानविधिः १६ आजीवज्ञानम् १७ तिर्यग्योनिकिकित्सि-
तम् १८ मायाकृतपाषण्डसमयज्ञानम् १९ क्रीडाकौशलम् २० लोकज्ञानम्
२१ वैचक्षण्यम् २२ संवाहनम् २३ शरीरसंस्कारः २४ विशेषकौशलं चेति ।

द्यूताश्रया विंशतिः—तत्र निर्जीवाः पञ्चदश, तद्यथा—२५ आयुःप्राप्तिः
२६ अक्षविधानम् २७ रूपसंख्या २८ क्रियामार्गणम् २९ बीजग्रहणम्

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २९

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २९

३० नयज्ञानम्, ३१ करणादानम्, ३२ चित्राचित्रविधिः ३३ गूढराशिः ३४ तुल्यामिहारः ३५ क्षिप्रग्रहणम् ३६ अनुप्रातिलेखस्मृतिः ३७ अग्निक्रमः ३८ छलच्छ्यामोहनम् ३९ ग्रहदानं चेति । सजीवाः पञ्च, तद्यथा—४० उपस्थानविधिः ४१ युद्धम्, ४२ रुतम् ४३ गतम्, ४४ वृत्तं चेति ।

शयनोपचारिकाः षोडश, तद्यथा-४५ पुरुषस्य भावग्रहणम् , ४६ स्वरागप्रकाशनम् ४७ प्रत्यङ्गदानम्, ४८ नखदन्तयोर्विचारौ ४९ नीवीसंसनम् ५० गुह्यस्य संस्पर्शनानुलोम्यम् ५१ परमार्थकौशलम् ५२ हर्षणम् ५३ समानार्थताकृतार्थता ५४ अनुप्रोत्साहनम् ५५ मृदुक्रोधप्रवर्तनम् ५६ सम्यक्क्रोधनिवर्तनम् ५७ क्रुद्धप्रसादनम् ५८ सुप्तपरित्यागः ५९ चरमस्वापविधिः ६० गुह्यगूहनमिति ।

चतस्र उत्तरकलाः, तद्यथा-६१ साश्रुपातं रमणाय शापदानम् ६२ स्वशपथक्रिया ६३ प्रस्थितानुगमनम् ६४ पुनः पुनर्निरीक्षणं चेति चतुःषष्टिर्मूलकलाः। आस्वेव निविष्टानामवान्तरकलानामष्टादशाधिकानि पञ्चशतान्युक्तानि, तत्र कर्मद्यूताश्रयाः प्रायश आबालं गच्छन्ति, ता एवान्यथा विभज्य चतुःषष्टिरुक्ता, यास्तु शयनोपचारिका उत्तरकलाश्च, ताः प्रायशस्तन्त्रस्याङ्गतां प्रतिपद्यन्त इति पाञ्चालिक्यामेव चतुःषष्ट्यामवान्तरकला वेदितव्याः, ताश्च यथाप्रस्तावं वक्ष्यन्ते ।

तन्त्रावापौपयिकीं चतुःषष्टिमाह—

गीतं^१, वाद्यं^२, नृत्यं^३, आलेख्यम्^४, विशेषकच्छेद्यम्^५, तण्डुलकुसुमवलिविकाराः^६, पुष्पास्तरणम्^७, दशनवसनाङ्गरागः^८, मणिभूमिकाम^९, शयनरचनम्^१०, उदकवाद्यम्^११, उदकाघातः^१२, चित्राश्च योगाः^१३, माल्यग्रथनविकल्पाः^१४, शेखरकापीडयोजनम्^१५, नेपथ्यप्रयोगाः^१६, कर्णपत्रभङ्गाः^१७, गन्धयुक्तिः^१८, भूषणयोजनम्^१९, ऐन्द्रजालाः^२०, कौचुमाराश्च योगाः^२१, हस्तलाघवम्^२२, विचित्रशाकयूषभक्ष्यविकारक्रिया^२३, पानकरसरागासवयोजनं^२४, सूचीवानकर्माणि^२५, सूत्रक्रीडा^२६, वीणाडमरुकवाद्यानि^२७, प्रहेलिका^२८, प्रतिमाला^२९, दुर्वाचकयोगाः^३०, पुस्तकवाचनम्^३१, नाटकाख्यायिकादर्शनम्^३२, काव्यसमस्यापूरणम्^३३, पट्टिकावेत्रवानविकल्पाः^३४, तक्षककर्माणि^३५, तक्षणम्^३६, वास्तुविद्या^३७, रूप्यरत्नपरीक्षा^३८, धातुवादः^३९, मणिरागाकरज्ञानम्^४०, वृक्षायुर्वेदद्योगाः^४१, मेषकुक्कुटलावकयुद्धविधिः^४२, शुकसारिकाप्रलापनम्^४३, उत्साधने सं-