भारतकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

४६ सटीक कामसूत्रे [ १ अधिकरणे,

गरकैश्च यथापरिचयं माङ्गलिकम्, अभ्युपपत्तिश्चेति । व्यसने साहाय्यं- तत्प्रतीकारेण, गणधर्म इति । तत्रत्यानामागन्तूनां कुशीलवनागरकाणां- यथास्वं परिषद्धर्म उक्तः॥ ३२ ॥

एतेन तं तं देवताविशेषमुद्दिश्य सम्भावितस्थितयो विविधा- घटा व्याख्याताः ॥ ३३ ॥

एतेनेति । सरस्वतीघटाऽऽदिनिबन्धेनेन, तं तमिति । यो यः सां- निध्याल्लोके दृष्टातिशयः, संभावितस्थितय इति । देशकालापेक्षया कृत- व्यवस्थाः ॥ ३३ ॥

गोष्ठीसमवायमाह—

वेश्याभवने सभायामन्यतमस्योद्वसिते वा समानविद्याबुद्धि- शीलवित्तवयसां सह वेश्याभिरनुरूपैरालापैरासनबन्धो गोष्ठी॥३४॥

वेश्याभवन इति । सभायां=मण्डपे, अन्यतमस्य वा नागरकस्योद्- वसिते गृहे, एषु नागरकाणामविरुद्धं मिलनं समानविद्यादीनां सुखा- तिशयाद्, नासमानविद्यादीनाम्, बुद्धिः प्रज्ञा, अभिप्रायो वा, सह वेश्याभिरिति । स्त्रीप्रतिबद्धकलाप्रतिपत्त्यर्थमासां गोष्ठयामन्तर्भावः, अ- नुरूपैः=परस्परस्तुत्यनुरागपरिहासानुविद्धैः, आसनबन्धो=यथायथमा- सनेऽवस्थानम्, पक्षस्य मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि स्यात्॥३४॥

तत्रैषां समवायमाह—

तत्र चैषां काव्यसमस्या कलासमस्या च ॥ ३५ ॥

काव्यसमस्या कलासमस्या चेति । संभूय दर्शनं निरूपणं तत्सम- स्या चर्चेत्यर्थः, पूर्ववद्भावे (१)प्रत्ययः, 'अस गतिदीप्त्यादानेषु' इति गत्यर्थस्य ज्ञानार्थत्वाद्, भरतादिकाव्यस्य नृत्यादिकलाया वा चर्चा स्यात्, यत्तु काव्यसमस्यापूरणमित्युक्तं, तस्य भिन्नार्थत्वात् कलासम- स्या चेत्यत्रान्तर्भावः ॥ ३५ ॥

तस्यामुज्ज्वला लोककान्ताः पूज्याः प्रीतिसमानाश्चाहारिताः॥३६॥

तस्यामिति । गोष्ठ्याम्, चर्चाऽवसाने प्रीतिवर्धनार्थं वस्त्रादिदाने- न परस्परस्य कलापूजाः स्युः, उज्ज्वला=अग्राम्याः, लोककान्ताः=लो- कमनोहराः, प्रीतिसमानाः=प्रीत्यनुरूपाः, आहारिताः=परिचारिकैरा- नायिताः ॥ ३६ ॥

समानपानकमाह—

परस्परभवनेषु चापानकानि ॥ ३७ ॥

४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४७

परस्परभवनेषु चेति। एकस्यैकदा भवनेऽन्यदाऽन्यस्य वा, पक्षस्य मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि, आपानकानि=पानगोष्ठ्यः स्युः ॥ ३७ ॥ आपानकेषु विधिमाह—

तत्र मधुमैरेयासवान् विविधलवणफलहरितशाकतिक्तकटुकाम्लोपदंशान् वेश्याः पाययेयुरनुपिबेयुश्च ॥ ३८ ॥

तत्रेति। मधु=माध्वीकम्, मैरेयासवौ मद्यविशेषौ, तथा चोक्तम्— 'मेषशृङ्गीत्वक्कषाथाभियुतो गुडप्रतीवापः, पिप्पलीमरिचसंभारस्त्रिफलायुक्तो मद्यो मैरेयः। कपित्थतुल्यफाणितपञ्चतौलिकप्रस्थमधुनाश्वासवयोगः, सुराकल्कतण्डुलाभ्यां निष्पन्नो गुडस्तत्र निक्षिप्यते' इति। मद्यमिति वक्तव्ये विशेषोपादानं त्रैविध्यख्यापनार्थम्, तथा चोक्तम्— 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा'। अत्र सुराशब्दः सामान्यवाची द्रष्टव्यः, एवं च विविधपानादापानकं भवति, विविधानि लवणतिक्तरसभूयिष्ठानि हरितकटुकानि च शिग्रुपर्णादीन्युपदंशो येषामिति; तान् वेश्याः पाययेयुरभ्यर्थनापुरःसरमनुपिबेयुश्च, आदौ पिबद्भिर्गौरवानुरागो न प्रकाशितौ स्याताम्, अत्र सह पृथग्वेति देशप्रवृत्तिरपेक्षणीया ॥ ३८ ॥

एतेनोद्यानगमनं व्याख्यातम् ॥ ३९ ॥

एतेनेति। आपानकविधिना, उद्यानगतैरप्ययमेवापानकविधिः कार्य इत्यर्थः ॥ ३९ ॥ तत्रोद्यानगमने विशेषमाह—

पूर्वाह्न एव स्वलंकृतास्तुरगाधिरूढा वेश्याभिः सह परिचारकानुगता गच्छेयुः, दैवसिकीं च यात्रां तत्रैवानुभूय कुक्कुटलाबकमेषयुद्धद्यूतैः प्रेक्षाभिरनुकूलैश्च चेष्टितैः कालं गमयित्वाऽपराह्ने गृहीततदुद्यानोपभोगचिह्नास्तथैव प्रत्याव्रजेयुः ॥ ४० ॥

पूर्वाह्न एवेति। तदा हि गतानां दैवसिकी यात्रा संपद्यते, **स्वलंकृताः=**गृहीतवैहारिकवेषाः, तुरगाधिरूढाः, तुरगाणां ललितयानत्वात्, वेश्याभिः सहेति। ता अपि पश्चादग्रतो वा तुरगमारोहयितव्याः, परिचारकाः, यथास्वं कर्मभिः परिचरन्ति ये तैरनुगताः, पक्षस्य मासस्य वा गमनयोग्यतया प्रज्ञातेऽहनि गच्छेयुः, दैवसिकां यात्रां, प्रत्यहं क्रि-


(१) कृत्यप्रत्ययस्य बाहुलकत्वादिति भावः ।

४८सटीके कामसूत्रे[ १ अधिकरणे,

यमाणां शरीरस्थितिं, तत्रैवोद्यानेऽनुभूय; कुक्कुटलावकमेषयुद्धद्यूतैः सजीवनिर्जीवैर्नटादिप्रेक्षाभिरनुकूलैश्च चेष्टितैर्यथास्वं वेश्याप्रतिबद्धैः केलिविशेषेण दिवसं गमयित्वा, अपराह्णे प्रशान्तवेलायाम्, तथैवेति । स्वलंकृतास्तुरगाधिरूढाः सह वेश्याभिः परिचारकानुगता इति । विशेषोऽत्र गृहीततदुद्यानोपभोगचिन्हा इति 'तदुद्यानमुपभुक्तमिति' यानि सूचयन्ति कुसुमस्तवककिसलयादीनि तानि गृहीतानि शिरःकर्णकण्ठेषु कृतानि यैरिति, प्रत्याव्रजेयुः=प्रतीपमागच्छेयुः ॥ ४० ॥

एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम् ॥४१॥

एतेनेति । उद्यानगमनविधिना, तत्रापि गमनं दैवसिकयात्राऽनुभवनमागमनं च तुल्यं, किं तु गृहीततदुद्यानोपभोगचिन्हा इति; तेन तत्रैव प्रायशोऽन्तर्भूतमिति नैमित्तिकवर्गे पृथङ् नोक्तं, योऽत्र विशेषस्तमाह-रचितोद्ग्राहोदकानामिति । उद्ग्राहमविद्यमानकुल्याऽऽद्युदकं यस्य तोयस्थानस्य तदुद्ग्राहोदकं वापीदीर्घिकाऽऽदि, रचितमिति, स्वार्थिकण्यन्ताद्धेतुमण्ण्यन्तात् क्तप्रत्यये रूपम्; रच 'प्रतियत्ने' इत्यस्यादन्तत्वाच्च वृद्धिः तीर्थविन्यासादिभिः रचितं कारितमुद्ग्राहोदकं यैर्नागरकैरिति, ग्रीष्म इति । अन्यदा तु पुनर्निमज्जनोदकवाद्यविधानादिप्रकारायाः क्रीडाया असंभवत् ॥ ४१ ॥

समस्याः, क्रीडा, आह—

यक्षरात्रिः, कौमुदीजागरः, सुवसन्तकः, सहकारभञ्जिका, ऽभ्यूषखादिका, बिसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चालाऽनुयानम्, एकशाल्मली, (१)यवचतुर्थी, आलोलचतुर्थी, मदनोत्सवो, दमनभञ्जिका, होलाका, अशोकोत्तंसिका, पुष्पावचायिका, चूतलतिका, इक्षुभञ्जिका, कदम्बयुद्धानि, तास्ताश्च महिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुरिति संभूय क्रीडाः ॥ ४२ ॥

यक्षरात्रिरिति । सुखरा(२)त्रिर्यक्षाणां तत्र संनिधानात्; तत्र प्रायशो लोकस्य द्यूतक्रीडा, कौमुदीजागर इति । आश्वयुज्यां हि पौर्णमास्यां कौमुद्या ज्योत्स्नायाः प्रकर्षेण प्रवृत्तेः, तत्र दोलाद्यूतप्रायाः क्रीडाः, सुवसन्तक इति । सुव(३)सन्तो मदनोत्सवः, तत्र नृत्यगीतवाद्यप्रायाः क्रीडाः, एता महिमान्यः क्रीडाः, देश्या आह—सहकारभञ्जि-


(१,) स्पृहयन्तीवृत्तम् इति क० पु० अधिकम् ।
(२,) कार्त्तिकामावस्यारात्रिः ।
(३,) माघशुक्लपञ्चमीदिनम् ।

४ अध्याये ] नागरकवृत्तप्रकरणम् । ४९

४ अध्याये ] नागरकवृत्तप्रकरणम् । ४९

केति । सहकारफलानां भञ्जनं यत्र क्रीडायाम्, अभ्यूषखादिका, चण- कादिफलानां विटपास्थानामग्नौ प्लुषितानां खादनं यत्रेत्येते द्वे क्व चित् क्व चिद् दृश्येते, बिसखादिका; बिसानां मृणालानां खादनं यत्र, सरःसमीपवासिनां, नव(१)पत्रिका प्रथमवर्षेणेन प्ररूढनवपत्रासु वन- स्थलीषु या क्रीडा सा; प्रायेणाटवीसमीपवासिनामाटविकानां च, उद्- कक्ष्वेडिकेति ।

‘वंशनाडी स्मृता श्वेडा सिंहनादश्च कथ्यते’ इति ।

उदकपूर्णा श्वेडा यस्यां क्रीडायां सा मध्यदेश्यानाम् ; यस्याः शृ(२)ङ्गक्रीडेति प्रसिद्धिः, पाञ्चालानुयानम् भिन्नालापचेष्टितैः पाञ्चा- (३)लक्रीडा यथा मिथिलायाम्, एकशाल्मली एकमेव महान्तं कुसु- मनिर्भरं शाल्मलिवृक्षमाश्रित्य; तत् कुसुमाभरणानां क्रीडा यथा वैद- र्भाणां, यवचतुर्थी वैशाखशुक्लचतुर्थ्यां नायकानां परस्परं सुगन्ध- यवचूर्णप्रक्षेप इति पाश्चात्येषु प्रसिद्धा, आलोलचतुर्थी श्रावणशुक्ल- तृतीयायां हिन्दोलक्रीडा, मदनोत्सवो मदनप्रतिकृति(४)पूजनम्, दमन- भञ्जिका परस्परं दमनकपुष्पावतंसन(५)म्, होलाका फाल्गुनपूर्णि- मायां शृङ्गकादिमुक्तेन किंशुकादिकुसुमरागाम्भसा परस्परप्रोक्षणम् ; मिथःपटवासप्रक्षेपश्च, अशोकोत्तंसिका अशोकपुष्पैः शिरोभूषणर- च(६)ना, पुष्पावचायिका पुष्पावचयनक्रीडा, चूतलतिका चूतपल्ल- वावतंसनम्, इक्षुभञ्जिका इक्षुखण्डमण्डनम्, कदम्बयुद्धानि कदम्बकु- सुमैः प्रहरणभूतैर्द्विधा बलं विभज्य युद्धानि कदम्बग्रहणं सुकुमारप्र- हरणसूचनार्थम् ; यष्टीष्टकाऽऽदियुद्धानि तु न कार्याणि यथा पौण्ड्राणां युद्धं क्व चित् क्व चिद् दृश्यते, तास्ताश्चेति । या या लोके प्रवृत्तपूर्वाः, माहिमान्य इति । महिमा महत्त्वं तद्विद्यते यासामिति ‘संज्ञायां मन्म- भ्याम् ।५।२।१३७। इतीनिप्रत्ययः, सर्वदेशव्यापिन्य इत्यर्थः, देशे भवा- देश्याः प्रादेशिन्य इत्यर्थः, जनेभ्यो विशिष्टमिति । घटाऽऽदयो नागर- काणामेव, समस्यास्तु साधारण्यः; तत्र जना नागरकाश्च क्रीडन्ति, त- स्मात्तेभ्यो विशिष्टमाचरेयुः, नागरत्वद्योतनार्थम्, संभूय क्रीडा इति । आसु नागरकाणां द्रष्टव्यमपहाय संभूय क्रीडनात् ॥ ४२ ॥

एकचारिणश्च विभ्रमसामर्थ्याद्; गणिकाया नायिकायाश्च स- खीभिर्नागरकैश्च सह चरितमेतेन व्याख्यातम् ॥ ४३ ॥


(१) वृक्षोद्ग्राहक्कीडा ।
(२) ‘होली’ इति तद्देशप्रसिद्धं नाम ।
(३) पुत्तलिकाविवाहः ।
(४) चैत्रसितचतुर्दश्याम् ।
(५) चैत्रसितद्वादश्याम् ।
(६) चैत्रसिताष्टम्याम् । रचनेत्युपलक्षणमशोककलिकाऽऽस्वादस्यापि ।

७ का० सू०

५० सटीक कामसूत्रे [ १ अधिकरणे,

नागरकाणामभावाददृष्टदोषाद्वा यः कश्चिदेक एव चरति तस्य स्वविभवानुरूपेण परिचारकैः सह यक्षरात्र्यादयः समस्ता एव स्युः, एतेनेति। स्थानगृहव्यास नित्यनैमित्तिकविधिना यथासंभवं गणिकायानायिकायाश्च चरितं व्याख्यातम्, तत्र नागरकाणां स्थाने सख्यः, सखीनां स्थाने नागरका इति ॥ ४३ ॥

उपनागरकाणां लक्षणद्वारेण वृत्तमाह—

अविभवस्तु शरीरमात्रो मल्लिकाफेनकषायमात्रपरिच्छदः पूज्याद्देशादागतः कलासु विचक्षणस्तदुपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेदात्मानमिति पीठमर्दः ॥ ४४ ॥

तुशब्दो विशेषणार्थः, यस्तु निष्किञ्चनो यथोक्तं नागरकवृत्तं वर्तितुमयोग्यः शरीरमात्रः पुत्रकलत्राद्यभावात् परिचारकद्वितीयो यथोत्पादितवित्ताभावाद्देशहिण्डनकः, मल्लिका दण्डासनिका, शरीरधारणात्पूर्वं नागरकाचार्यैः संकेतिता 'मल मल्ल धारणे' इति धातुपाठात् सा तस्य पृष्ठत एवासनार्थं भ्राम्यते, प्रवृत्तविषयेच्छत्वाच्च जङ्घाघर्षणार्थंफेनकषायाविति, तन्मात्रं परिच्छदो विभवो यस्येति, पीठिकाऽऽद्यासनं तु नार्हति, पूज्याद्देशाच्छास्त्रकलाविदध्युषितात्, तत्रत्य एव देशदिदृक्षयाऽऽगतः, कलासु कुशलः स्वदेश एव गीतादिचतुःषष्टिं पाञ्चालकीं चाधीतवान्, तदुपदेशेन=कलोपदेशेन, गोष्ठ्यां नागरकाणाम्, वेशोचिते=वेश्याजनोचिते वृत्ते, साधयेदात्मानमिति। आचार्यमात्मानन्निष्पादयेदित्यर्थः, स पीठमर्द उपदेशदानेऽधिकृतत्वान्मल्लिकाऽऽख्यं पीठं मृद्नातीति कृत्वा, एतेनाचार्यवृत्तमस्य वृत्तम् ॥ ४४ ॥

भुक्तविभवस्तु गुणवान् सकलत्रो वेशे गोष्ठ्यां च बहुमतस्तदुपजीवी च विटः ॥ ४५ ॥

यस्तु यौवने नागरकवृत्त्या परिभुक्तसर्वस्वोऽप्यनुपरतो विषयेभ्यः, सविभवस्तु नागरक एव स्यात्, तत्रत्यो नान्यस्माद्देशादागतः, भुक्तविभवस्त्वागन्तुकः, पीठमर्दात् स एव गुणवान्नायकगुणयुक्तः, प्राकस्य नागरकत्वात्, सकलत्रः सानुबन्धत्वान्न स्वदेशत्यागी, बहुमत इति। बहु मतं यस्यः विशेषपरिज्ञानात्, तदुपजीवी=वेश्यागोष्ठ्युपजीवी, वृत्तिमन्‍यामनिच्छन् वेश्याजनं नागरकजनं चोपजीवति, तदुपजीवितया तयोः सन्देशं परस्परं विटतीति विटः, 'विट शब्दे' इति धातुपाठात्, वक्ष्यति च-'विटः पुरोगं प्रीतिं कुर्याद्' इति, तेन तदुपजीविवृत्तमेवास्य वृत्तम्॥४५॥

एकदेशविद्यस्तु क्रीडनको विश्वास्यश्च विदूषको वैहासिको वा ॥४६॥

४ अध्याये ] नागरकवृत्तप्रकरणम् । ५१

यस्तु गीतादीनां प्रदेशज्ञः सोऽविभवो भुक्तविभवो वा शरीरमात्रः सकलत्रस्तत्रत्य आगन्तुको वा, पूर्ववृत्तसम्भावात्, क्रीडनको विश्वास्यश्च भवति, वेशे गोष्ठ्यां च विश्वास्यतामुपगम्य परिहासशीलवृत्त्या वर्तत इत्यर्थः, स च वेश्यां नागरकं वा क्व चित्प्रमाद्यन्तं लब्धप्रणयत्वादपवदत इति विदूषकः, क्रीडनकत्वाच्च वेशे गोष्ठ्यां च विविधेन हासेन चरतीति वैहासिकः, इत्युपनायका ॥ ४६ ॥

एते वेश्यानां नागरकाणां च मन्त्रिणः सन्धिविग्रहनियुक्ताः ॥ ४७ ॥

एते नागरकाणां पार्श्ववर्तित्वादुपनागरका मन्त्रिण, सन्धिविग्रहनियुक्ता इति । सामान्यवृत्ते सन्धिविग्रहयोज्ञाने मन्त्रिणः कर्मणि सान्धिविग्रहिकाः, तथा हि—देशकालकार्यापेक्षया सन्धिविग्रहौ प्रधानगुणौ ज्ञानेनावधार्य; तत्कर्मसु प्रवर्तन्त इति ज्ञानकर्मरूपी सन्धिविग्रहौ ॥ ४७ ॥

तैर्भिक्षुक्यः कलाविदग्धा मुण्डा वृषल्यो वृद्धगणिकाश्च व्याख्याताः ॥ ४८ ॥

तैरिति । उभयात्मकैः, भिक्षुक्यः=भिक्षुकस्य भार्याः, मुण्डाः=मुण्डगुणयुक्ताः, वृषल्यः=बन्धक्यः, 'कलाविदग्धा' इति सर्वत्र योज्यम्, ताअपि सन्धिविग्रहयोज्ञाने कर्मणि च नियोक्तव्याः, ताश्च सन्धिविग्रहार्थकुट्टनाच्चालनात् कुट्टन्य इत्युच्यन्ते ॥ ४८ ॥

यात्रावशाद्ग्रामवासिनो वृत्तमाह—

ग्रामवासी च सजातानिवचक्षणान्कौतूहलिकान्प्रोत्साह्य; नागरकजनस्य वृत्तं वर्णयञ्छ्रद्धां च जनयंस्तदेवाऽनुकुर्वीत, गोष्ठीश्च प्रवर्तयेत्, सङ्गत्या जनमनुरञ्जयेत्, कर्मसु च साहाय्येन चानुगृह्णीयाद्, उपकारयेच्चेति नागरकवृत्तम् ॥ ४९ ॥

ग्रामवासी चेति । सजातान्=समानजातीयान्, तत्रापि विचक्षणान्=प्राज्ञान्, कौतूहलिकान्=कौतुकवतः, प्रोत्साह्य कथमित्याह—वृत्तं वर्णयन्नगर इत्थं गोत्रपुत्राणां लोकमनोहारि चेष्टितं श्रूयते, भवतामपि युक्तं वैचक्षण्यानुरूपं जीवितफलं तदनुकर्तुमिति श्रद्धां च जनयन्; यात्रामपि तद्दर्शनेन गोष्ठीश्च प्रवर्तयेत्, तैः सह सङ्गत्या जनमनुरञ्जयेत्, सङ्गतिर्मैत्रीभ्यामित्यर्थः; साहाय्येनानुगृह्णीयात्, यात्रोत्सवादिषु प्रवर्तमानमुपचारयंश्च परस्परमुपचरेत् ॥ ४९ ॥

तत्र चैषां काव्यसमस्याः कलासमस्याश्चेत्युक्तम्, तत्रविशेषमाह—

भवन्ति चात्र श्लोकाः—

नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया ।

५२ सटीके कामसूत्रे [ १ अधिकरणे,

कथां गोष्ठीषु कथयँल्लोके बहुमतो भवेत् ॥ ५० ॥

नात्यन्तमिति । कश्चिदेव संस्कृतं वेत्ति देशभाषां च, कथां काव्यकलाविषयां चर्चाम् ॥ ५० ॥

या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी । परहिंसाऽऽत्मिका या च न तामवतरेद् बुधः ॥ ५१ ॥

या गोष्ठीति । यदा स्वयं गोष्ठीं न प्रवर्तयेत्तदाऽन्यप्रवर्तितां यायात्, तत्रापि या लोकविद्विष्टा=लोकस्यासंमता स्वैरविसर्पिणी=स्वातन्त्र्येण प्रवृत्ता निरङ्कुशेत्यर्थः परहिंसाऽऽत्मिका=परदूषणपरा, न तत्रावतरेद् बुधः, तत्र ह्यवतरणमबुधस्य दृश्यते ॥ ५१ ॥

लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया । गोष्ठ्या सह चरन्विद्वाँल्लोके सिद्धिं नियच्छति ॥ ५२ ॥ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नागरकवृत्तं चतुर्थोऽध्यायः ।

कया सह विवरेदित्याह—लोकचित्तेति । लोकचित्तानुरञ्जनं क्रीडा च फलं गोष्ठ्याः, सिद्धिं नियच्छति प्राप्नोति, लोकसिद्धो भवति, किंपुनः स्त्रीष्वित्यर्थः, स्वयं गोष्ठीप्रवर्तनेऽप्ययमेव विधिः ॥ ५२ ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां साधारणे प्रथमेऽधिकरणे नागरकवृत्तं चतुर्थोऽध्यायः ।


पञ्चमोऽध्यायः ।

गार्हस्थ्यमधिगम्येति ससहायस्योपक्रमा इति दूतानां संप्रेषणमित्युक्तम्, तत्र को नायकः ? कया नायिकया गार्हस्थ्यमधिगम्य नागरकवृत्तं वर्तेत ? कैश्च सहायैः? किं च दूतस्य कर्मेति ? तेषां विमर्शो निरूपणमिति नायकसहायदूतककर्मविमर्श उच्यते. नायक इति 'पुमान्स्त्रिया' ।१।२।६८। इत्येकशेषनिर्देशान्नायकयोरित्यर्थः, दूतकर्मेति । दूत्या दूतस्य चेत्यर्थः, तत्र बहु वक्तव्यत्वात्प्राङ् नायिका फलतोऽन्यकारणतश्च विमृश्यते-

कामश्चतुर्षु वर्णेषु सवर्णतः शास्त्रतश्चानन्यपूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश्च भवति ॥ १ ॥

कामश्चतुर्ष्विति । सवर्णत इति । यथा ब्राह्मणेन ब्राह्मण्याम्, यथा च शूद्रेण शूद्रायाम्, शास्त्रत इति । शास्त्रोक्तेन वरणादिना विवाहविधानेन, अनन्यपूर्वायां=भार्यात्वेनाधिगतायाम्, प्रयुज्यमानः=प्रवर्त्यमानः, पुत्री-

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५३

यः=औरसस्य पुत्रस्य निमित्तम् , 'पुत्राच्छ च' ।५।१।४०। इति छप्रत्ययः, यथोक्तम्—

'स्वक्षेत्रे संस्कृतायां तु सुतमुत्पादयेद् द्विजः । तमौरसं विजानीयात् पुत्रं प्रथमकल्पिकम्' ॥ इति ॥

तत्र स्वक्षेत्रं सवर्णः, यशस्यः=यशोनिमित्तम्, गोद्यचः-'।५।१।३६। इत्यादिना यत्, अत्र च यद्यपि कामो न संयोगस्तथाऽपि स्त्रीपुंसयोर्योगे कामशब्द उपचरितः, तत्पूर्वकत्वात्कामस्येति भवति तत्पर्यायः, लौकिकश्च लोके विदितः, तद्बाह्य इत्यर्थः ॥ १ ॥

तद्विपरीत उत्तमवर्णासु परपरिगृहीतासु च प्रतिषिद्धः ॥२॥

उत्तमवर्णास्विति । क्षत्रियेण ब्राह्मण्याम् , वैश्येन ब्राह्मणीक्षत्रिययोः, शूद्रेण ब्राह्मणीक्षत्रियावैश्यास्वनन्यपूर्वास्वपि प्रयुज्यमानः परपरिगृहीतासु चान्योढासु सवर्णास्वपि कामो विपरीत:, न पुत्रीयः, न यशस्यः, न लौकिकश्च, एवंविधः प्रतिषिद्धः सुखार्थोऽपि न परपरिगृहीतासु, एकान्तेन धर्मविरोधित्वात् ॥ २ ॥

अवरवर्णास्वनिरवसितासु वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः सुखार्थत्वात् ॥ ३ ॥

अवरवर्णास्विति । ब्राह्मणस्यावरवर्णाः क्षत्रियावैश्याशूद्राः, क्षत्रियस्य वैश्याशूद्रे, वैश्यस्य शूद्रा, शूद्र एकजातिः, तस्य स्वजात्यपेक्षयाऽवरवर्णाः, तत्रापि यद्यनिरवसिताः पात्राद्बहिष्कृता इत्यर्थः, सन्त्येव हि काश्चित्क्षत्रियादयो याभिर्भुक्तं पात्रं न संस्कारमात्रेण शुद्ध्यति ता एवंविधा बाह्याः, तथा चोक्तम्—

'शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते । ते च स्वा चैव राज्ञश्च ताश्च स्वां चाग्रजन्मनः' ॥ इति ।

तासु च बाह्यास्वपि, पुनर्भूष्विति । या अन्यपूर्वाः क्षतयोनयो विधवाइन्द्रियदौर्बल्यादन्यस्य पुनर्भर्वन्ति तासु स्त्रीकृतासु, वेश्यासु च सामान्यस्त्रीषु प्रयुज्यमानो न शिष्टो न विहितः, तत्र सवर्णामपरिगृह्य, तत्परिग्रहस्यानभिहितत्वात् , परिगृह्यापि न प्रतिषिद्धः, सुखार्थत्वात् , तदानीं सुखार्थैव प्रवृत्तिः, न पुत्रार्था, तत्रावरवर्णासूढासु ये पुत्रा- न तेषामौरसत्वम् , पुत्रकार्याकरणात् , पुनर्भूषु वेश्यासु च पुत्रा नैव नास्तीति द्विविधं फलम् ॥ ३ ॥

तत्र नायिकास्तिस्रः कन्या पुनर्भूवेश्या च ॥ ४ ॥

तत्र=तस्मिन् फलविभागे, तिस्रो नायिकाः—कन्या, पुनर्भूः, वेश्या चेति । तत्र कन्या द्विविधा—पुत्रफला, सुखफला चेति, पूर्वा सवर्णा

५४ सटीक कामसूत्रे [ १ अधिकरणे,

श्रेष्ठा, द्वितीयाऽधमवर्णा न्यूना, तस्या अपि न्यूना पुनर्भूः, स्वीकारेऽप्यन्यपूर्वत्वात्, अस्या वृत्तं भार्याऽधिकारिके वक्ष्यति, या त्वक्षतयोनिः पुनरुह्यते सा कन्या एव, यथोक्तम् —

'पुनरक्षतयोनित्वादुह्यते या यथाविधि ।
सा पुनर्भूसूतस्तस्यां पौनर्भव उदाहृतः' ।

ततोऽपि वेश्या न्यूना सामान्यत्वात् ॥ ४ ॥

अन्यस्मात्कारणाद्विमर्शमाह —

अन्यकारणवशात्परपरिगृहीताऽपि पाक्षिकी चतुर्थीति गोणिकापुत्रः ॥ ५ ॥

अन्यकारणवशादिति । पुत्रात्सुखाच्च यदन्यत्कारणं तद्वशात् , पाक्षिकीति । यदा कारणान्तरं तदा तस्मिन्पक्षे भवतीति पाक्षिकी, अन्यदा तु नैवेति बाभ्रव्यमतमनुसृत्याह—गोणिकापुत्रोऽपि पारदारिकं पृथक् कामसूत्रं प्रोवाचेत्युक्तम् ॥ ५ ॥

तत्र विषयशुद्ध्यर्थमाह—

स यदा मन्यते स्वैरिणीयमन्यतोऽपि बहुशो व्यवसितचारित्रा तस्यां वेश्यायामिव गमनमुत्तमवर्णिन्यामपि न धर्मपीडां करिष्यति ॥ ६ ॥

स इति । नायकः, मन्यतेऽधिगच्छेदित्स्वैरिणीयम् , स्वैरिणी=स्वतन्त्रा, तदेव दर्शयति—अन्यतोऽपीति । यथा मामभियुञ्जाना शीलं खण्डयति, तथाऽन्येष्वपि बहून् वारान् , व्यवसितचारित्रा=खण्डितशीला, ततश्च वेश्यातुल्या, वेश्यायामिव, 'पुनर्भूषामिव' इत्याम्नायः पाठः, यत एकस्माद् द्वितीयं प्राप्ता पुनर्भूः, सा च न बहुशः खण्डितचारित्रेति न समानो दृष्टान्तः, उत्तमवर्णिन्यामिति । किमसवर्णाधमवर्णयोरेवं वर्ण्यते ? तत्रापि न दोषः, यथोक्तम्—

'जीवकार्मुकवस्त्रावीन् दद्यादात्मविशुद्धये ।
चतुर्णामपि वर्णानां नारीर्हत्वाऽव्यवस्थिताः ॥' इति ।

अस्यार्थः—ब्राह्मणीं स्वच्छन्दवृत्तिं हत्वा जीवञ्चर्मपुटं ब्राह्मणाय दद्यात्, क्षत्रियां कार्मुकम्, वैश्यां वस्त्रम्, शूद्रामविमिति, यत्र हिंसाऽपि परिफल्गुदोषा तत्राभिगमनं न कस्यापि धर्मोपघाति स्यादित्याह—गमनमपि कारणवशात् क्रियमाणं न धर्मपीडां करिष्यति, अधर्मस्याभावात् ॥ ६ ॥

पुनर्भूरियं कथमित्याह—

पुनर्भूरियमन्यपूर्वाऽवरुद्धा नात्र शङ्काऽस्ति ॥ ७ ॥

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५५

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५५

अन्यः पूर्वो यस्याः सेयं क्षतयोनिरन्येनावरुद्धा सङ्गृहीता नात्र शङ्काऽस्ति, गमनेनाधर्मः स्यादिति, अनुत्तमवर्णिनीत्वात्, तत्र यद्यपि धर्मस्य पोडा नास्ति, आशङ्का च, तयाऽपि सुखं निमित्तीकृत्य; न प्रवर्त्तते, निषिद्धत्वात्, किन्तु वक्ष्यमाणमेव कारणं, तेन विषयविशुद्ध्यर्थमिदमादावुक्तम्, यथोक्तम्—

'विशुद्धिं विषयस्यादौ कारणानि च तत्त्वतः ।
प्रसमीक्ष्य प्रवर्त्तेत परस्त्रीषु न भावतः ॥' इति ॥ ७ ॥

कारणान्याह —

पतिं वा महान्तमीश्वरमस्मदमित्रसंसृष्टमियमवगृह्य; प्रभुत्वेन चरति, सा मया संसृष्टा स्नेहादेनं व्यावर्तयिष्यति ॥ ८ ॥

पतिं वा महान्तमिति । अस्मदमित्रेण जातसख्यं पतिं, तस्य शत्रोर्महत्त्वादैश्वर्याच्चापकारसमर्थम्, इयमिति । स्वैरिणी==पुनर्भूः, अवगृह्य; प्रभुत्वेन चरति=अवष्टभ्य स्वामिनं व्यवहरति, सा मया संसृष्टा; स्नेहात्संयोगात्प्रवृद्धस्नेहात्तस्मादेनं व्यावर्तयिष्यति, अस्मदमित्रादपकर्तुकामात् पतिं प्रभवन्ती निवर्त्तयिष्यति, ततश्च विशिष्टभावो मे भविष्यति; अन्यथा महान्तमीश्वरमाश्रितो मामेवाकृतपुरुषार्थं हनिष्यति ॥ ८ ॥

विरसं वा मयि शक्तमपकर्तुकामं च प्रकृतिमापादयिष्यति ॥९॥

विरसं वेति । कार्यवशान्मयि विरक्तं पतिं शक्तमप्रतिविधेयम्, अपकर्तुकामं “कदाऽहमस्यापकरिष्यामि” इति बद्धानुशयं, प्रकृतिमापादयिष्यति, प्रभवन्ती मया संसृष्टा पूर्वावस्थं स्वभावं नेष्यति ॥ ९ ॥

तया वा मित्रीकृतेन मित्रकार्यममित्रप्रतीघातमन्यद्वा दुष्प्रतिपादकं कार्यं साधयिष्यामि ॥ १० ॥

तया वेति । प्रभवन्त्या मया संसृष्ट्या मित्रीकृतेन तस्याः पत्या मित्रकार्यं तत्साध्यम्, मित्रकार्ये हि प्राणानपि त्यजेन्नरकमपि विशेद्, अमित्रप्रतीघातं स्वशरीरत्राणार्थम्, अन्यद्वा स्वकीयं दुष्प्रतिपादकं दुःसाधकं साधयिष्यामि ॥ १० ॥

संसृष्टे वाऽनया हत्वाऽस्याः पतिमस्मद्भाव्यं तदैश्वर्यमेवमधिगमिष्यामि ॥ ११ ॥

संसृष्टे वाऽनयेति । संप्रयोगादाहितस्नेहया कृतसंधित्को हत्वाऽस्याः पतिं द्विषन्तं तूष्णीं दण्डेनास्मद्भाव्यमैश्वर्यमपि तदा भाव्यम्, केवलमस्मत्कुलं हत्वाऽपि मत्तोऽपि वा हठादाच्छिद्यानेन प्रसह्य भुज्यते तत्प्राप्स्यामि, ततोऽस्याततायित्वाद्यापादनमपि नाधर्माय ॥ ११ ॥

५६ सटीक कामसूत्रे [ १ अधिकरणे,

निरत्ययं वाऽस्या गमनमर्थानुबद्धम्, अहं च निःसारत्वा- त्क्षीणवृत्त्युपायः सोऽहमनेनोपायेन तद्धनमतिमहदकृच्छ्रादधिगमि- ष्यामि ॥ १२ ॥

निरत्ययं रक्षाऽक्षमावान्निर्दोषम्, अन्यत्राप्येतद् द्रव्यम्, अर्थानुबद्धम्, आढ्यत्वादस्याः, अहं च निःसारत्वाच्छिद्रव्यत्वात्, क्षीणवृत्त्युपायइति । वृत्तिर्जीविका तदुपायः कृत्यादिः स क्षीणो यस्येति, सोऽहं कुटुम्बभरणासमर्थोऽनेनोपायेनाभिगमनलक्षणेन तद्धनमतिमहद् धर्मादिसाधनमधिगमिष्यामि, स्वल्पाधिगमे तु नाधिगच्छेदिति मन्यते, अकृच्छ्रादिति । तया स्नेहाद्दीयमानम् अन्यथा दृष्टाद्दूष्टदोषसाधनं स्यात्, तस्मात्कुटुम्बकार्थमकार्यमपि कार्यं स्यात्, तथा चोक्तम्—

'माता वृद्धा पिता चैव साध्वी भार्या सुतः शिशुः ।
अप्यकार्यं शतं कृत्वा भर्तव्या मनुरब्रवीत्' ॥ १२ ॥

मर्मज्ञा वा मयि दृढमभिकामा सा मामानिच्छन्तं दोषविख्या-
पनेन दूषयिष्यति ॥ १३ ॥

मयि दृढमभिकामेति । आभिमुख्येन कामयत इत्यभिकामा, दृढंमयि जातरागेत्यर्थः, मामनिच्छन्तं स्वतोऽन्यस्माद्वा दोषाद् दोषविषयख्यापनेन मर्मज्ञत्वाल्लोके दूषयिष्यति 'राज्यकामुकोऽयमि' ति येन मे विनाशः स्याद्, 'राजाऽपथ्यकारी' इति ॥ १३ ॥

असद्भूतं वा दोषं श्रद्धेयं दुष्परिहरं मयि क्षेप्स्यति, येन
मे विनाशः स्यात् ॥ १४ ॥

असद्भूतं वेति । मया संप्रयुयुक्षुरयमिति मिथ्यैव दोषमुत्थाप्य; श्रद्धेयं कृतकमदनलेखेन जातप्रत्ययम्, एवं च दुष्परिहरं मयि क्षेप्स्यति समारोपयिष्यति, येन मे विनाशः स्यात् पारदारिक इति ॥ १४ ॥

आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयि-
ष्यति, स्व यं वा तैः सह संसृज्येत ॥ १५ ॥

आयतीति । आयतिमन्तं प्रभावयुक्तं पतिं वश्यं यथोक्तकारिणं, मत्तोविभिद्य मत्तोऽनिच्छतोऽपि मित्रीभूतं विश्लेष्य, द्विषतः संग्राहयिष्यत्यस्मच्छत्रून् मैत्रीपूर्वं स्वीकारयिष्यति, ततश्च संगृहीतप्रभावा मां हनिष्यति, स्वयं वा तैः सह संसृज्येत समर्थैरस्मदुपघातार्थम् ॥ १५ ॥

मदवरोधानां वा दूषयिता पतिरस्यास्तदस्याहमपि
दारानेव दूषयन् प्रतिकरिष्यामि ॥ १६ ॥

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५७

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५७

मदवरोधानां वेति । अस्मत्परिगृहीतानां दाराणामभिगमनेन दूषयिता, ततश्चानुरूपप्रत्यपकारेण शत्रोरानृण्यं गन्तव्यम्'इति न्यायादस्यापि दारानेवाभिगमनेन दूषयन्, प्रतिकरिष्यामि = प्रतीकारङ्करिष्यामि ॥१६॥

राजनियोगाच्चान्तर्वर्तिनं शत्रुं वाऽस्य निर्हनिष्यामि ॥ १७ ॥

राजनियोगादिति । राज्ञाऽहमभ्यन्तरप्रचारं निरूपयितुं नियुक्तस्तमुपायान्तराभावादस्य विश्वस्तया संसृज्य निष्कासयिष्यामि, गुरुत्वात्स्वामिकार्यस्य ॥ १७ ॥

यामन्‍यां कामयिष्ये साऽस्या वशगा तामनेन संक्रमेणा- धिगमिष्यामि ॥ १८ ॥

यामन्‍यामिति । प्रस्तुतनायिकाया अन्यां यां प्रकृष्टकारणवशात्कामयिष्ये, साऽस्या इति । प्रस्तुतनायिकायाः, वशगा = यथोक्तकारिणी, तामप्रस्तुतामुपायान्तराभावानया संक्रामयमाणया प्राप्स्यामि ॥ १८ ॥

कन्यामलभ्यां वाऽस्माधीनामर्थरूपवर्ती मयि संक्रामयिष्यति ॥१९॥

कन्यामिति । अलभ्यां मया निर्धनत्वादियोगात्, आत्माधीनां तदायत्ताम्, अर्थरूपवतीं त्रिवर्गहेतुं मयि संक्रामयिष्यति माम्प्रापयिष्यति, सा वा संप्रयुज्यमानोभयं सङ्घटयतीति तामेव तावदधिगच्छामि, एवं च काञ्चित् सम्प्रयुज्य या स्त्री वस्तु सङ्घटयतीति ॥ १९ ॥

मपामित्रो वाऽस्याः पत्या सहैकीभावमुपगतस्तमनया रसेन योज- यिष्यामीत्येवमादिभिः कारणैः परस्त्रियमपि प्रकुर्वीत ॥ २० ॥

ममामित्रो वा प्राणहरोऽस्याः पत्या सहैकीभावमुपगतः सहासनशयनपानभोजनादिभिः, प्राक् 'पतिममित्रसंसृष्टम्' इति संश्लेषमात्रमुक्तम्, तमनया संसृष्ट्या रसेन कालान्तरप्राणहारिणा विषेण योजयिष्यामि, तदेवमादिकारणं यदा मन्येतेति प्रवर्त्तते तदा प्रकुर्वीत, प्रपूर्वः करोतिरभिगमे वर्तत इति साहसिक्य आत्मनेपद(१)म् ॥ २० ॥

इति साहसिक्यं न केवलं रागादेवेति परपरिग्रहगमनकारणानि ॥२१॥

साहसिक्यं न रागेण केवलं विषयस्याशुद्धत्वात्प्रकुर्वीत, किं तु कारणैरित्यर्थः ॥ २१ ॥

एतैरेव कारणैर्महामात्रसम्बद्धा राजसम्बद्धा वा तत्रैकदेशचारिणी का चिदन्या वा कार्यसम्पादिनी विधवा पञ्चमीति वात्स्यायनः॥२२॥


(१) गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः । १ । ३ । ३२ । इत्यनेन ।

८ का० सू०

५८ सटीक कामसूत्रे [ १ अधिकरणे,

एतैरिति। यथोक्तैः, विधवा पञ्चमीति संबन्धः । प्राग्जीवद्भर्तृकेति विशेषः, तत्रापि पत्युरभावात्, महामात्रस्य राज्ञो वा सङ्गाद्वा संबन्धाद्वा संबद्धा प्रतिबद्धा वा, तत्रैकदेशचारिणी तदीयकुटुम्बैकदेशसंबद्धा, अन्या वा का चिदन्यजनसंबद्धा कार्यसंपादिनी यज्जनसंबद्धा तत्कार्येषु व्याप्रीयमाणा, आसु तिसृषु विधवा स्वैरिणी पुनर्भूश्चेति विषयं विमृश्य; पतिस्थाने राजानं महामात्रम् अन्यं वा नियोज्य; नायिकाप्रतिबद्धानि कारणानि योजयेत् ॥ २२ ॥

सैव प्रव्रजिता षष्ठीति सुवर्णनाभः ॥ २३ ॥

सैवेति । विधवा प्रव्रजिता राजमहामात्रयोरन्यस्य वा संबद्धा तत्कुलान्यपगच्छन्तीति नायिकाऽनुवृत्त्या गृहधर्मत्वात्तत्रापि पूर्ववत्कारणानि योजयेत् ॥ २३ ॥

गणिकाया दुहिता परिचारिका वाऽनन्यपूर्वा सप्तमीति घोटकमुखः २४

गणिकेति । गणिकाया दुहिता, अनन्यपूर्वा=पुरुषेणासंस्पृष्टा, परिचारिका वा चन्द्रापीडस्येव पत्रलेखा, तत्र पूर्वा वेश्याऽपि कन्यां तासांवक्ष्यमाणपाणिग्रहणभेदाद्भिद्यते, द्वितीया कन्याऽप्यगृहीतपाणिर्नायकंपरिचरन्तीति विशिष्यते ॥ २४ ॥

उत्क्रान्तबालभावा कुलयुवतिरुपचारान्यत्वादष्टमीति गोनर्दीयः॥ २५॥

उत्क्रान्तबालभावा कुलयुवतिरिति । कुलकन्यैवोढा सती कालेनापक्रान्तबालभावा समुपारूढयौवना कुलयुवतिः, उपचारान्यत्वादिति । उपचारभेदात् सा हि न कन्यावदुपचर्यते, कन्यायामुपचारा अपरिस्फुटाविकल्पेन च प्रयुज्यन्ते, प्राप्तयौवनायास्तु परिस्फुटाः समुच्चयेन चेति॥२५॥

कार्यान्तराभावादेतासामपि पूर्वास्वेवोपलक्षणं तस्मादेता एव नायिका इति वात्स्यायनः ॥ २६ ॥

कार्यान्तराभावादिति । कन्याऽऽदिषु चतसृषु यत्कार्यमुक्तं तद्व्यतिरिक्तानां विधवाऽऽदीनां कार्याभावात्पूर्वास्वेवोपलक्षणमुपदर्शनम्, तत्रैव यथासंभवमुपलक्षयेदित्यर्थः, तत्र विधवा प्रव्रजिता वाऽन्यकारणवशात्परपरिग्रहे द्रष्टव्या, गणिकादुहिता परिचारिका च सुखकार्यत्वाद्वेश्यायाम्, कुलयुवतिः पुत्रकलत्रफलत्वात्कन्यायाम्, उपचारभेदात्तद्भेदे नायिकाऽतिसंप्रयोगात्, दृश्यते हि देशकालप्रकृतिसात्म्यभेदादेकस्यामुपचारबहुत्वम् ॥ २६ ॥

भिन्नत्वात्तृतीयाप्रकृतिः पञ्चमीत्येके ॥ २७ ॥

भिन्नेति । तृतीयाप्रकृतिः=नपुंसकः, स्त्रीत्वपुंस्त्वस्वभावावाद्भिद्यते, तत्र

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५६

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ५६

चौपरिष्टिककर्मणा सुखलाभात्, तेन रूपव्यापारभेदात्पञ्चमीत्येके, अन्यथा सुखकार्यत्वाद्देश्याविशेष एव ॥ २७ ॥

नायकविमर्शमाह—

एक एव तु सार्वलौकिको नायकः ॥ २८ ॥

एक एवेति । नायिकावद् भेदाभावादेक एव सार्वलौकिको नायकः कन्यापुनर्भूवेश्यासु प्रवर्तमानः सर्वलोकविदितः ॥ २८ ॥

प्रच्छन्नस्तु द्वितीयः विशेषलाभात् ॥ २९ ॥

प्रच्छन्नेति । स एव परपरिगृहीतासु सुखव्यतिरेकेण कार्यविशेषलाभाद् गुप्त्या च प्रवर्तमानः प्रच्छन्नो द्वितीयः ॥ २९ ॥

गुणद्वारेण स त्रिविध इत्याह—

उत्तममध्यमाधमतां तु गुणागुणतो विद्यात् ॥ ३० ॥

गुणागुणत इति । गुणसमुदायादुत्तमः, गुणपादद्वयाभावान्मध्यमः, पादत्रयाभावादधमः, सर्वगुणाभावादनायक इति ॥ ३० ॥

ताँस्तूभयोरपि गुणागुणान् वैशिके वक्ष्यामः ॥ ३१ ॥

उभयोरिति । नायकस्य नायिकायाश्च ॥ ३१ ॥

कन्याऽऽदीनां विशेषानभिधानात्पुनरगम्यतया विमर्शमाह—

अगम्यास्त्वेवैताः, कुष्ठिन्युन्मत्ता पतिता भिन्नरहस्या प्रकाशप्रार्थिनी गतप्राययौवनाऽतिश्वेताऽतिकृष्णा दुर्गन्धा संबन्धिनी सखी प्रव्रजिता संबन्धिसखिश्रोत्रियराजदाराश्च ॥ ३२ ॥

नायकस्य तु कन्याऽऽदिविधावगम्यात्वं सूचयति, तुशब्दो विशेषणार्थः, एवकारो नियमार्थः, सत्स्वपि कार्येष्वेता अगम्या इत्यर्थः, कुष्ठिनीति । जुगुप्सितव्याध्युपलक्षणार्थम्, उन्मत्ता यत्किञ्चनकारिणी न सुखावहा, पतिता स्वजात्यपेक्षया महापातकाचरणात् तत्सम्पर्कात्पतितः स्याद्, भिन्नरहस्या लोके रहस्यं प्रकाशयन्ती नायकं लज्जयति, प्रकाशप्रार्थिनी प्रकटं नायकमभिलषन्ती त्रपयत्यनर्थञ्च करोति, गतप्राययौवना तत्सेवाायामायुस्तेजश्च हीयते, अतिश्वेता, अतिकृष्णा चाप्रशस्ता, कन्या पुनर्भूश्च ज्ञेया, निन्द्यत्वादन्या अपि यथासंभवं योज्या, दुर्गन्धा गुह्ये वक्त्रे च दुष्टगन्धा, संयोगे वैमुख्यं जनयति, सम्बन्धिनी भ्रातुरपत्यस्य भगिन्या वा सङ्गिनी या परिणयसम्बन्धबाह्येन सम्बद्धा, सखी भार्यावयस्या तदनुरोधात् , प्रव्रजिता क्व चिच्छासने गृहीतव्रता धर्मार्थयोर्वैलोम्यात् , सम्बन्धिसखिश्रोत्रियराजदाराश्चेति, विद्यासंबन्धेन राजसम्बन्धेन वा सम्बद्धाः सम्बन्धिनस्तेषां दाराः, आ-

६० सटीके कामसूत्रे [ १ अधिकरणे,

चार्याणां शिष्यभार्या भ्रातृभार्या, इत्यादयोऽपि धर्मवैलोम्यात्, सखिदारा मित्रभार्या, अधर्मद्रोहादिभयात्, तथा चोक्तम्—

'रेतःसेकः स्वयोनिषु कुमारीष्वन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः' ॥

श्रोत्रियदारा ज्वलदग्निप्रख्याः, धर्मवैलोम्याद्, राजदाराश्च चतुराश्रमगुरुभार्याः, दृष्टादृष्टविरोधात्, इत्येतदाचार्याणां मतमनुक्तमपि ज्ञेयम्, अत्र च यथोक्तव्यतिरेकेण परपरिगृहीताः सर्वा एवागम्याः स्युरिति ॥ ३२॥

बाभ्रव्यमतमाह—

दृष्टपञ्चपुरुषा नागम्या का चिदस्तीति बाभ्रवीयाः ॥ ३३ ॥

स्वपतिव्यतिरेकेण दृष्टाः पञ्च पुरुषाः पतित्वेन यया सा स्वैरिणी कारणवशात्सप्तवरेव गम्या, तथा च पञ्चातीता बन्धकीति पराशरः, एकद्व्यादिदर्शने तु सत्स्वपि कारणेषु नैवेत्यर्थोक्तम्, द्रौपदी तु युधिष्ठिरादीनां स्वपतित्वादन्येषामगम्या, कथमेका सत्यनेकपतिरिति चैतिहासिकाः प्रष्टव्याः, बाभ्रवीया इति । बाभ्रव्यशिष्याः, बाभ्रव्यमतानुसारिणएवमाहुः ॥ ३३ ॥

तत्रापि गोणिकापुत्रो विशिष्यः वक्तव्यमित्याह—

संबन्धिसखिश्रोत्रियराजदारवर्जमिति गोणिकापुत्रः ॥ ३४ ॥

दृष्टपञ्चपुरुषा नागम्येति वर्तते, अयमभिप्रायः–सम्बन्धिभार्या स्वैरिण्यपि विद्यायोनिसम्बन्धेनान्तरेण सम्बन्धेन सम्बद्धत्वादगम्या, सम्बन्धिनी तु बाह्येनेति गम्यैव, सखिभार्याऽप्यन्यस्य गम्या, न नायकस्य, सखी त्वस्य भार्यावयस्या स्वतो मैत्रीव्यवहारस्याप्रस्तुतत्वाद् गम्यैव, श्रोत्रियस्य क्रियावत्त्वाद् दाराः खण्डितशीला अपि दृष्टादृष्टविरोधादगम्याः ॥ ३४ ॥

सहायविमर्शस्त्रिधा–स्नेहतो गुणतो जातितश्च। तत्राद्यमधिकृत्याह—

सहपांसुक्रीडितमुपकारसम्बद्धं समानशीलव्यसनं सहाध्यायिनं यश्चास्य मर्माणि रहस्यानि च विद्याद् यस्य चायं विद्याद्धात्रपत्यं सहसंवृद्धं मित्रम् ॥ ३५ ॥

मिद्यति स्निह्यतीति मित्रं नवप्रकारम्, तत्र सहपांसुक्रीडितमेकत्रानुभूतबाल्यत्वात्स्निह्यति, उपकारसम्बद्धमर्थेन जीवितरक्षया चोपकृतत्वान्मैत्र्या वर्तते, समानशीलव्यसनं, समानं शीलं व्यसनञ्च दैवम्मानुषं यस्य तत्तुल्यगुणदोषत्वात् सख्यमाधत्ते, सहाध्यायी एकत्र कृताध्ययनत्वान्मैत्रीमनुवर्तते, यश्चास्य नायकस्य मर्माण्यकार्याणि यश्च रहसि

५ अध्याये ] नायकसहायदूतकर्मविमर्शप्रकरणम् । ६१

भवानि विद्यात्तदुभयं मर्मज्ञं रहस्यधरं च नायकप्रतीतेरास्पदत्वात्प्रति- स्निह्यति, यस्य चेति । यस्य नायको मर्माणि रहस्यानि च विद्यात्तदुभयं· तत्सम्मानितस्नेहत्वात्प्रीत्या वर्तते, सहसंवृद्धं धात्रीक्रोडे नायकेन सह स्तन्यपानादिना संवृद्धं, धात्रपत्यं सहपांसुक्रीडितत्वेऽप्यत्यर्थं स्निह्य- तीति प्रकर्षार्थं वचनम्, यदेकस्मिन्ग्रामे वा सह संवृद्धं तत्सहपांसुक्री- डितं द्रष्टव्यम् , इति नवधा मित्रम् ॥ ३५ ॥

गुणतो विमर्शमाह—

पितृपैतामहमविसंवादकमदृष्टवैकृतं वश्यं ध्रुवमलोभशीलमप- रिहार्यममन्त्रविस्रावीति मित्रसंपत् ॥ ३६ ॥

पितृपैतामहम्, पितामहादागतं पैतामहं पितुः पैतामहम्, नायक- स्य तु प्रपितामहम्, यथाऽनयोर्मैत्री तथा पित्रोः पितामहयोश्चासीदिति, अविसंवादकं, यथादृष्टश्रुताधिकारिणम्, अदृष्टवैकृतं तदात्मककार्यस्या- दिमध्यावसानेष्वदृष्टव्यभिचारं, वश्यं=यथोक्तकारिणं, ध्रुवं न त्यजति, अलोभशीलं न तृष्णया प्रवर्तते, अपरिहार्यं, न परेण ह्रियते; अनुरक्तत्वाद् , अमन्त्रविस्रावि, गूढमन्त्रम् , इति मित्रसंपत् ॥ ३६ ॥

मित्रसंबन्धाद् मित्रगुणा धर्मद्वारेणोक्ता जातितो विमृश्यन्ते—

रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बू- लिकसौवर्णिकपीठमर्दविटविदूषकादयो मित्राणि ॥ ३७ ॥

रजकादयो नायकं स्वकर्मभिरुपकुर्वन्तः परभवनं च विशन्ति, तत्र गान्धिको गन्धद्रव्यस्य विक्रेता, गन्धः पण्यमस्येति, तथा सौरिकः= शौण्डिकः, भिक्षुकः=भिक्षणशीलः, पश्चात्कुत्सायां कः ॥ ३७ ॥

तद्योषिन्मित्राश्च नागरकाः स्युरिति वात्स्यायनः ॥ ३८ ॥

तद्योषिन्मित्राश्चेति । न तथा पुरुषा यथा योषितः परभवनं विश- न्ति विश्वासयन्ति च स्त्रियः ॥ ३८ ॥

दूतस्य यत्कर्म तत्कुर्यादित्याधारतो विमृश्यते—

यदुभयोः साधारणमुभयत्रोदारं विशेषतो नायिकायाः सु- विस्रब्धं तत्र दूतक र्म ॥ ३९ ॥

यदिति । मित्रम्, उभयोरिति । नायकस्य नायिकायाश्च, मैत्र्या व- र्तमानत्वात्साधारणं यथोक्तमभिधत्ते, उभयत्रोदारम् आप्तभूतङ्कार्यकारि- त्वात् , विशेषत इति। नायिकाया विशेषतः सुष्ठु, विस्रब्धं=विश्वस्तम् , तस्याः साध्यमानत्वात् , तत्र=मित्रे, दूतक र्म=दूतक्रिया, सिद्धिहेतुत्वाद्, नान्यत्रेति ॥ ३९ ॥

इति नायकसहायदूतककर्मविमर्शः पञ्चमं प्रकरणम्, पञ्चमश्चाध्यायः ।

६२ सटीकं कामसूत्रे [ १ अधिकरणे,

तत्रापि यदि दूतस्य गुणाः स्युरतो गुणतो विमृश्यते—

पटुता धाष्ट्र्यमिङ्गिताकारज्ञताऽनाकुलत्वं परमर्मज्ञता प्रमा- णता प्रतारणं देशज्ञानं कालज्ञता विषयबुद्धित्वं लघ्वी प्रतिपत्तिः सोपाया दूतगुणाः ॥ ४० ॥

पटुता प्रज्ञाऽनुबद्धया वाचा वक्तुं कुशलता, धाष्ट्र्यं प्रागल्भ्यमिति, इङ्गितमन्यथा वृत्तिः, आकारो वदननयनादिगतविकारः, तज्ज्ञतया तद्- नुरूपमनुतिष्ठति, कालज्ञता; कालेऽस्मिन्प्रोत्साहयितुं शक्यत इति, विष- ह्या विमर्शक्षमा बुद्धिर्यस्येति विगृह्य भावप्रत्ययेन योज्यः, लघ्वी प्रतिपत्तिः सोपाया चेति दूतगुणा इति, कार्यं विमृश्य तदेवोपायपूर्वकमनुष्ठानं न कार्यातिपातनम् ॥ ४० ॥

इदानीमधिकरणार्थानुष्ठाने फलं प्रयोजनं चाह—

भवति चात्र श्लोकः—

आत्मवान्मित्रवान्युक्तो भावज्ञो देशकालवित् । अलभ्यामप्ययत्नेन स्त्रियं संसाधयेन्नरः ॥ ४१ ॥

इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नायकसहायदूतककर्मविमर्शः पञ्चमोऽध्यायः ।

आत्मवानिति । तत्र त्रिवर्गप्रतिपत्त्या विद्यासमुद्देशेन चात्मन्याहित- गुणत्वादात्मवान्, सहायविमर्शेन मित्रवान्, युक्त इति । नागरकवृ- त्तानुष्ठानेन युक्तः स्वकर्मनिष्ठः, भावज्ञो नायकस्य नायिकायाश्च विमर्शेन तत्स्वरूपज्ञ इत्यर्थः, दूतककर्मचित्तपरिमर्शनेनेति फलम्, अलभ्यामप्यय- त्नेन स्त्रियं विपरिमर्शितां साधयत इति फलप्रयोजनम्, एवंभूतस्य हि स्त्रीसाधनयोग्यत्वाद् ॥ ४१ ॥

इति नायकसहायदूतककर्मविमर्शः पञ्चमं प्रकरणम्, पञ्चमश्चाध्यायः ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां- साधारणे प्रथमेऽधिकरणे नायकसहायदूतककर्मविमर्शः पञ्चमोऽध्यायः ।


समाप्तं चेदं साधारणं प्रथममधिकरणम् ।

सांप्रयोगिकं द्वितीयमधिकरणम्।

प्रथमोऽध्यायः।

स्त्रियं साधयत इत्युक्तं, स्त्रीसाधनं चावापः स चाविज्ञातशास्त्रस्य न युज्यत इत्यावापात्प्राक्तन्त्रं सांप्रयोगिकमुच्यते, तत्रापि संप्रयोगे प्रथमं-रतं, तस्मिन्प्रमाणादिभिर्ज्ञातस्वरूपे यथायथमालिङ्गनादयः प्रयुज्यमाना-रत्यर्था इति प्रमाणकालभावेभ्यो रतावस्थापनमुच्यते, हेतौ पञ्चमी, प्रमाणादिना तस्य व्यवस्थापनमित्यर्थः, तत्र लिङ्गसंयोगाद्भावकालाविति ताभ्यामपि प्राक्प्रमाणतस्तावद्रतावस्थापनमाह—

शशो वृषोऽश्व इति लिङ्गतो नायकाविशेषाः ॥ १ ॥

लिङ्गत इति। लिङ्ग्यन्ते स्त्रीत्वादयोऽनेनेति लिङ्गम्, लोकप्रतीत्या लिङ्गं मेहनमुच्यते, तत्र पौंस्नमुन्नतं स्त्रीणां निम्नं, प्रमाणं च शास्त्रव्यवहारयोः, अल्पात्पौंस्नाच्छश इव शशः, तथा समाद्वृषः, महतोऽश्वः, इति नायकभेदाः ॥ १ ॥

नायिका पुनर्मृगी वडवा हस्तिनी चेति ॥ २ ॥

नायिका पुनरिति। पुनःशब्दो विशेषणार्थः, लिङ्गस्य भिन्नत्वात्संज्ञाभेदः प्रयुज्यत इति पूर्वाचार्यैर्मृग्यादिभिरुपमिताः, न शशादिभिः, तथा चाहुर्लक्षणम्—

‘षण्णव द्वादशेत्येवमायामेन यथाक्रमम्।
शशादिभेदभिन्नानां त्रिधा साधनसंस्थितिः ॥
परिणाहेन तुल्या स्यादायामस्य प्रमाणतः।
नियता नेति, के चित्तु परिणाहे प्रचक्षते ॥
स्त्रीणां साधनमार्गोऽपि तद्वदेव प्रभिद्यते।
आयामपरिणाहाभ्यां मृग्यादीनां शशादिवत् ॥ इति ॥ २ ॥

तत्र सदृशसंप्रयोगे समरतानि त्रीणि ॥ ३ ॥

तत्रेति। नायकस्य नायिकायाश्च भेदे, सदृशो विसदृशो वा संप्रयोगः स्यादित्याह—सदृशसंप्रयोग इति। शशस्य मृग्या, वृषस्य वडवया, अश्वस्य हस्तिन्या सह सदृशः सम्प्रयोगो रन्ध्रेन्द्रियसमाप्तिलक्षणः, अल्पत्वादिभिर्लिङ्गसादृश्यात्, तस्मिन्सति त्रीणि समरतानि, रन्ध्रसाधनयोराश्रयाश्रयिभावेन यन्त्रसाम्यात् ॥ ३ ॥

६४ सटीक कामसूत्रे [ २ अधिकरणे,

विपर्ययेण विषमाणि षट् ॥ ४ ॥

शशस्य वडवया हस्तिन्या च, वृषस्य मृग्या हस्तिन्या च, अश्वस्य मृग्या वडवया चेति विसदृशः संप्रयोगः, लिङ्गवैषम्यात्, तस्मिन्सति षड् विषमाणि रतानि यन्त्रवैषम्यात् ॥ ४ ॥

विषमेष्वपि रतेषु व्यवहारार्थं विशेषसंज्ञामाह—

विषमेष्वपि पुरुषाधिक्यं चेदनन्तरसंप्रयोगे द्वे उच्चरते ॥ ५ ॥

पुरुषाधिक्यं चेदिति । यदा लिङ्गतः पुरुषाधिक्यं स्त्रिया न्यूनत्वं तदाऽनन्तरो व्यवहितो वा संप्रयोगः स्यात्, तत्राश्वस्य वडवया वृषस्य मृग्येति त्रैलोम्येऽनन्तरसंप्रयोगः, तस्मिन् समरताद् द्वे उच्चरते, साधनस्योच्चतया रन्ध्रमवपीड्य व्याप्रियमाणत्वात् ॥ ५ ॥

व्यवहितमेकमुच्चतररतम् ॥ ६ ॥

व्यवहितमिति । अश्वस्य मृग्या सह व्यवहितसंप्रयोगः, वडवया व्यवधानात्, तस्मिन्सति उच्चरतादुच्चतररतम्, साधनस्यात्युच्चतया निष्पीडितेन कथं चिद्व्यापारात् ॥ ६ ॥

विपर्यये पुनर्द्वे नीचरते ॥ ७ ॥

विपर्यये द्वे, पुनरिति, पुनःशब्दो विशेषणार्थः, स्त्रिया आधिक्ये त्वनन्तरसंप्रयोगे शशस्य वडवया, वृषस्य हस्तिन्येत्यानुलोम्येन समरताद् द्वे नीचरते, साधनस्य निकृष्टतया रन्ध्रं सम्यगनवपूर्य्य व्यवहारात् ॥ ७ ॥

व्यवहितमेकं नीचतररतं च ॥ ८ ॥

व्यवहिते वडवयाऽन्तरिते संप्रयोगे शशस्य हस्तिन्या सहेति नीचरतान्नीचतररतम्, तत्रानवपूर्य्यैव व्यवहारात् ॥ ८ ॥

एषामुत्तमादीन्याह—

तेषु समानि श्रेष्ठानि ॥ ९ ॥

तेष्विति । नवसु रतेषु षड्भ्यो विषमरतेभ्यः समानि श्रेष्ठानि प्रशस्तानि, तत्र यन्त्रसाम्यादुभयोः परस्परसुखातिशयात् ॥ ९ ॥

तरशब्दाङ्किते द्वे कनिष्ठे ॥ १० ॥

तरशब्दाङ्किते कनिष्ठे, उच्चतरनीचतरशब्दाङ्किते अधमे, अत्र यन्त्रस्यातिपीडनादतिशैथिल्याच्च स्पर्शसुखस्याभावात् ॥ १० ॥

शेषाणि मध्यमानि ॥ ११ ॥

शेषाणि चत्वारि, उच्चरते द्वे नीचरते द्वे मध्यमानि, श्रेष्ठकनिष्ठत्वाभावात्, तत्र ह्यनतिपीडनादनतिशैथिल्याच्च स्पर्शसुखस्य समत्वात् ॥ ११ ॥

१ अध्याये ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ६५

तत्रापि मध्यमानां विशेषमाह-

साम्येऽप्युच्चाङ्कं नीचाङ्गाज्ज्याय इति प्रमाणतो नव रतानि ॥१२॥

ज्येष्ठकनिष्ठत्वाभावाद्रतस्य साम्येऽपि माध्यस्थ्येऽपीत्यर्थः, उच्चाङ्कं नीचाङ्गाज्ज्याय इति । उच्चरते हि योषित उत्फुल्लकादिना प्रसार्य जघनं संविष्ठायाः साधनाधिक्यात्कण्डूतिप्रतीकाराधिकलाभः, नीचरते तु सम्पुटकादिनाऽवहासितजघनाया अपि न तत्प्रतीकारोऽस्ति ।

यथोक्तम्-

तन्वल्पसाधनः कामी चिरकृत्योऽपि वा नरः ।
कण्डूतेरप्रतीकारान्नातिस्त्रीप्रिय उच्यते' ॥ इति ॥ १२ ॥

भावतो रतावस्थापनमाह-

यस्य संप्रयोगकाले प्रीतिरुदासीना वीर्यमल्पं क्षतानि च न सहते स मन्दवेगः ॥ १३ ॥

भावतो हि कालस्य पश्चाद्भावित्वात्फलरूपाभावात्तस्यापरिच्छेदात्, तथा हि-हेतुफलभेदादत्र द्विविधो भावः, तत्र कामिताऽऽख्यो हेतुः, तस्मिन्सति संप्रयोगाद् रतान्ते च भावः फलम्, तस्मादुभयरूपाद्रतमवस्थाप्यते, स च मृदुमध्यमातिमात्रभेदात्त्रिविधः, तत्र यस्य संप्रयोगेरुच्छा मनाग्भवति रतिर्वा, वीर्यमल्पं संप्रयोगे मन्दो व्यापारः शुक्रधातुर्वा स्तोकः, क्षतानि च नायिकया दन्तनखैः प्रयुज्यमानानि, उपलक्षणत्वात्प्रहरणं च न सहते य इत्यर्थाद्विभक्तिविपरिणामः स मृदुभावत्वान्मन्दवेगो मृदुराग इत्यर्थः ॥ १३ ॥

तद्विपर्यये मध्यमचण्डवेगौ भवतः ॥ १४ ॥

तद्विपर्यय इति । यथोक्तस्य विपर्यये; यस्य संप्रयोगे प्रीतिर्मध्या वीर्यं मध्यं क्षतानि च यः सहते स मध्यमभावत्वान्मध्यवेग इत्येको विपर्ययः, संप्रयोगे प्रीतिरधिका वीर्यं महत् क्षतानि चात्यर्थं सहते सोऽधिकभावत्वाच्चण्डवेग इति द्वितीयो विपर्ययः ॥ १४ ॥

तथा नायिकाऽपि ॥ १५ ॥

तथेति । पुरुषवद्, यस्य संप्रयोग इत्यादिना मन्दमध्यचण्डवेगा इति नायिकास्तिस्रः ॥ १५ ॥

अत्रापि प्रमाणवदेव नव रतानि ॥ १६ ॥

अत्रापीति । भावेऽपि, प्रमाणवदेवेति । सदृशसम्प्रयोगे समरतानि त्रीणि, विपर्यये विषमाणि षट् ॥ १६ ॥

तद्वत्कालतोऽपि शीघ्रमध्यचिरकाला नायकाः ॥ १७ ॥

९ का० सू०