कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
प्रथमं जवनिकान्तरम् १९ चेटी—(विहस्य ।) तदो कमागदं ते पंडिच्चं । विदूषकः—(सक्रोधम् ।) आः दासीए धूदे, भविस्सकुट्टिणि, णिल्ल- क्खणे, विअक्खणे ! ईदिसोऽहं मुक्खो जो तए वि उवहसीआमि ! अण्णं च, हे परपुत्तविट्टाळिणि, भमरटेंटे, टेंटाकराले, तुट्टिसंघडिदे । परंपरा पंडिच्चस्स मह कि दूषणं आसि । पेक्ख अकाळजलदवंससंभू- दाण परंपराए पंडिच्चं । अथवा हत्थे कंकणं कि दप्पणेण ? विचक्षणा—(विभाव्य ।) एवं णेदं, तुरंगम्म सिग्घत्तणे किं सक्खिओ पुच्छिज्जंति ? ता वण्णअ वसंतं । कालाक्षराणि वेत्तीति कालाक्षरिक पण्डित । चेटी— तत क्रमागतं ते पाण्डित्यम् । वंशक्रमागतमित्यर्थः । विदूषकः— आ दास्याःपुत्रि, भविष्यत्कुट्टिनि, निर्लक्षणे, अविचक्षणे ! ईदृशोऽहं मूर्खो यस्त्वयाप्युपहस्ये ? प्राकृत आत्मनेपदपरस्मैपदव्यत्ययः । 'धूदे' इति दंष्ट्रादि । अन्यच्च हे परपुत्रविटालिनि भ्रमरटण्टे टेण्टाकराले दुष्टसंघटिते । अथवा हस्ते कङ्कणं किं दर्पणेन ? इदानीमेव मया कवित्वं कर्तव्यमित्यर्थः । विट्टालिनी भ्रंशिका । परपुरुषलम्पटे- त्यर्थः । भ्रमरटेंटा कुचेष्टावती । टेंन्टाकराला व्यर्थप्रलापिनी । एते देशीशब्दाः । दोषा शपथास्तेषा शतेन वर्तनशीला, मिथ्याशपथकारिणीत्यर्थः । विचक्षणा— एवमेतत् । तुरंगस्य शीघ्रत्वे किं साक्षिणः पृच्छयन्ते ? तद्वर्णय वसन्तम् ।
२० कर्पूरमञ्जरी : विदूषकः—कथं पंजरगदा सारि व कुरुकुराअंती चिट्ठसि ! ण किं पि जाणासि । ता पिअवअस्सस्स देवी पुरदो पढिस्सं । जदो ण कत्थूरिआ कुग्गामे वणे वा विक्कीणीअदि, णेंदं सुवण्णं कसवट्टिअं विणा कसीअदि । राजा—पिअवअस्स ! ता पढ । सुणीअदु । ( विदूषकः पठति । ) फुल्लुत्करं कलमकूरसमं वहंति जे सिंधुवारविड़वा मह वल्लहा ते । जे गालिअस्स महिसिदहिणो सरिच्छा ते किं च मुद्धविअहच्छपसूनपुंजा ॥ १९ ॥ विदूषकः— त्वं पुनः पञ्जरगता सारिकेव कुरकुरायमाणा तिष्ठसि ! न किमपि जानासि । तत्प्रियवयस्यस्य देव्याः पुरतः पठिष्यामि । यतो न कस्तूरिका कुग्रामे वने वा विक्रीयते, न सुवर्णं कषपट्टिकां विना कष्यते । ईदृशविद्याग्रहणायोग्याया अज्ञायास्तव सन्निधौ न पठिष्यामीति भावः । राजा— प्रियवयस्य ! तत्पठ । श्रूयताम् । अस्माभिरिति शेषः । फुल्ल इति । पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्धुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदध्नः सदृशा- स्ते किं च मुग्धविकचच्छदप्रसूनपुञ्जाः ॥ कूर ओदनः । सिन्धुवारस्तरुभेदः । 'मम वल्लभा' इत्यनेन स्वस्य कूरभक्ष- णुकत्वं व्यज्यते ।
प्रथमं जवनिकान्तरम् २१ विचक्षणा—(विहस्य) णिअकतारणजोगं ते वअणं । विदूषकः—किं¹पि उदारवअणा तुमं पढ । देवी—(किंचिद्धसिअ ।) सहि विअक्खणे ! अम्हाण पुरदो तुव गाढकइत्तेण गहुत्ताणा भोसि । ता पढ संपदं अज्जउत्तस्स पुरदो सअ कदं किंपि कअं । जदो तं कअं जं सभाए पढीअदि, तं सुवण्णं जं कसवट्टिआए णिव्वडदि, सा घरिणी जा पदं रंजेदि, सो पुत्तो जो कुलं उज्जलदि । विचक्षणा—जं देवी आणवेदि । (इति पठति ।) जे लङ्कागिरिमेवलाहिं स्खलिदा संभोअखिण्णोरई फारप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणं ।
विचक्षणा— निजकर्तारणयोग्यं ते वचनम् । स्वबुद्धिमेव केवलमाश्रित्य रचयसीति भावः । विदूषकः— तदुदारवचने ! त्वं पठ । देवी— सखि विचक्षणे ! अस्माकं पुरतस्त्वं गाढकवित्वेन गर्वोत्ताना भवसि । अतिगर्वाऽसि इति भावः । तत्पठ साप्रतमार्थपुत्रस्य पुरतः स्वयं कृतं किमपि काव्यम् । यतस्तत्काव्यं यत्सभार्यां पठ्यते तत्सुवर्णं यत्कषपट्टिकायां निवर्तते, सा गृहिणी या पतिं रञ्- यति स पुत्रो यः कुलमुज्ज्वलयति । 'सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने' इत्युक्तेरार्यपुत्रप्रयोगयुक्तम् । विचक्षणा— यद्देव्याज्ञापयति । जे इति । ये लङ्कागिरिमेखलायां स्खलिताः सम्भोगखिन्नोरगी- स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् ।
१ ता उदारवअणे इति टीकाहृतः पाठः ।
ते एण्णिह मलआणिला विरहिणीणीसाससंपकिणो जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा विअ ॥ २० ॥ राजा—सच्चं विअक्खणा विअक्खणा चउरत्तणे उत्तीणं । ता किंपि अण्णं विचित्तदाए । कईणं सुकइत्ति । कइचूडामणित्तणे ठिदा एसा । विदूषकः—(सक्रोधम् ।) ता उज्जुअं जेव किं ण भण्णइ अत्थु- त्तमा विअक्खणा कव्वम्मि, अञ्चाधमो कप्पिंजलो बंभणो त्ति ? विचक्षणा—अज्ज ! मा कुप्प । कव्वं जेव्व दे कइत्तणं पिसुणेदि । जदो णिअकंतारत्तणणिदणिज्जे वि अत्थे सुडमरा दे वाणी, लंबत्थ-
त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो जाता झटिति शिशुत्वेऽपि बहुलास्तारुण्यपूर्णा इव ॥ अयं श्लोकः कविनिबद्धवक्तृप्रौढोक्तिनिर्मिते ध्वनौ निःश्वाससंपर्किश्वेन वस्तुना प्रातंभर्या. किंकिं न कुर्यत इति वस्तु व्यज्यत इत्युदाहरणपरत्वेनोदाहृतः काव्य- प्रकाशे [चतुर्थोल्लासे] । सत्ता अत्युत्प्रेक्षाया ध्यञ्नेऽकिंचित्करत्वान्नालंकारव्यञ्जनोदा- हरणम्। अत्र हेतूत्प्रेक्षासमाधिर्विभावना । विभावना दण्डिनोक्ता—(का. २।१९९) ‘प्रसिद्धहेतुव्यावृत्त्या यत्किञ्चित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥’ इति । राजा— सत्यं विचक्षणा विचक्षणा चतुरत्वेनोत्तीर्णाम् । तदितरन्यत् । कविनामपि कत्थे । कविचूडामनित्वेन स्थिताषा । विदूषकः— तदृज्वेव किं न भम्यतं दय्या-अत्युत्तमा विचक्षणा काव्ये, अत्यधमः कपि- जलब्राह्मण इति ? विचक्षणा— आर्य ! मा कुप्य । काव्यमेव ते कवित्वं पिशुनयति । यतो निजकान्तारपनयोग्यं 1 'कञ्चंअदि देवेई' इति टीकापाठः । 2 'णिच्छुकान्तरज्नयोग्यं निर्धोइरभरेण' इति टीकापाठः ।
प्रथमं जवनिकान्तरम् २३ णीए विअ एकावली तुंडिलाए विअ कंचुलिआ, काणाए विअ कज्ज- लसलाआ, ण सुट्ठुदरं भादि रमणिज्जा । विदूषकः-तुम्झ उण रमणिज्जे वि अत्थे ण सुंदरा सद्दावली । कणअकडिसुत्तए विअ लोहकिंकिणीमाला, पडिपट्टे विअ टसरिविरअणा गोरंगीए विअ चंदणचच्चा ण चारुत्तणं अवलंबेदि । तथा वि तुवं वण्णीअसि । विचक्षणा-अज्जे ! का तुम्हेहि समं अम्हाणं पाडिसिद्धी ? जदो तुवं णाराओ विअ णिरक्खरो वि रअणतुलाए णिउंजीअसि । अहं पुण तुल ध लद्धक्खरा वि ण सुवण्णतोलणे विणिउंजीआमि । निजोदरंभरित्वे निन्दनीयेऽप्यर्थे सुकुमारा ते वाणी, लम्बस्तन्या इवैकावली, तुन्दि- लाया इव कञ्चुलिका, काणाया इव कज्जलशलाका, न सुष्ठुतर भाति रमणीया । ते वाणी न भातीत्यर्थः । विदूषकः- तव पुन रमणीयेऽप्यर्थे न सुन्दरा शब्दावली । कनककटिसूत्रे इव लोहकिं- किणीमाला, प्रतिपट्टे इव त्रसरविरचना गौराङ्ग्या इव चन्दनचर्चा, न चारुत्वमव- लम्बते । तथापि त्वं वर्ण्यसे । प्रतिपट्टे पट्टसूक्ष्मम् । चन्दनचर्चाया स्वतः सुन्दरत्वेऽपि गौरेऽङ्गे परभागा- लाभादसौन्दर्यम् । अर्थासुन्दरत्वेऽपि काव्यकौशलादहं सुकवि , त्वमर्थसौन्दर्येऽप्य- सुन्दरकवित्वे वर्ण्यसे च सर्वैरिति महदाश्चर्यमिति भावः । विचक्षणा- आर्य ! मा कुप्य । का युष्माभि सह (अस्माकं) प्रतिस्पर्धा २ यतस्त्वं नाराच इव निरक्षरोऽपि रत्नतुलायां नियुज्यसे । अहं पुनस्तुल्य लब्धाक्षरापि न सुवर्णतोलने विनियुज्ये । नाराचो लोहशलाका । नाराचस्य हि रत्नतुलावेधनमुपयोग । तुलायान्तु सुवर्णतोलने न कोऽपीति निरक्षरलब्धाक्षरपदयोस्तात्पर्यम् । १ 'अज्ज ! मा कुप्प । का' इति टीकापाठः ।
२४ कर्पूरमञ्जरी विदूषकः—एवं मह भणंतीए तुह वामं दक्खिणं अ जुहिट्ठिल- जेट्ठभाअरनामधेअं अंगं तडत्ति उप्पाडइस्सं । विचक्षणा—अहं पि उत्तरफग्गुणीपुरस्सरणक्खत्तनामधेअं अंगं तुह तडत्ति खंडिस्सं । राजा—वअस्स ! मा एवं भण । कइत्तणे ट्ठिदा एसा । विदूषकः—(सक्रोधम् ।) ता उज्जुअं ज्जेव किं ण भण्णइ, अम्हाणं चेडिआ हेरिडंभुंणिडिउंबुप्पोट्टिसहालप्पहुदीणं पि पुरदो सुकइ त्ति ! राजा—एवं णेदं । (विदूषकः सक्रोधं परिक्रामति ।) विचक्षणा—(विहस्य) तहिं गच्छ जहिं मे मादाए पढमसाडो- लिआ गदा । विदूषकः— एवं मम भणन्त्यास्तव वामे दक्षिणं च युधिष्ठिरज्येष्ठभ्रातृनामधेयमङ्गं झटिति उत्पाटयिष्यामि । कर्णद्वयमित्यर्थः । भादर इति 'अंते भरः सुपि' (प्रा. ७।९) इत्यारादेशं बाधित्वा 'पितृभ्रातृजामातृणामरः' (प्रा. ५।१३) इत्यरः । विचक्षणा— अहमप्युत्तराफाल्गुनीपुरःसरनक्षत्रनामधेयमङ्गं तव झटिति खण्डयिष्यामि हस्ताभिधमित्यर्थः । राजा— वयस्य ! मैवं भण । कवित्वे स्थितेषा । विदूषकः— ऋज्वैव मयि किं न भण्यते, अस्माकं चेटिका हरिचन्दनन्दिचन्द्रकोट्टिशहालप्रभृ- तीनामपि पुरतः सुकविरिति ? पराभवन्तु (?) मिति शेषः । राजा—एवमेतत् । विचक्षणा— तत्र गच्छ यत्र मे प्रथमा मातुः शाटिका गता । 1 'हरिचंदणंदिचंदकोट्टिमहा' इति टीकापाठः ।
प्रथमं जवनिकान्तरम् २५ • विदूषकः— ( यतितग्रीवम् । ) तुवं उण तहि गच्छ जहिं मे मादाए पढमा दंतावली गदा । ईदिसस्स राउलस्स भद्दं भोदु, जहि चेडिआ बंभणेण समं समसीसिआए दीसदि । मइरा पंचगव्वं च एक्कम्हि भंडे कीरदि, फत्थं माणिकं च समं आहरणे पउंजीअदि । चेटी— इह राउले तं ते भोदु कंठट्ठिदं ज भवअं तिलोअणो सीसे समुव्वहदि । तेणं च दे मुहं चूरीअदु जेण असोअतरु दोहलं लहेदि । विदूषकः— त्वं पुनस्तत्र गच्छ यत्र मे मातुः प्रथमा दन्तावली गता । कर्णकीटिरित्यर्थः । ईंदिसस्स इति । ईदृशस्य राजकुलस्य भद्रं भवतु, यत्र चेटिका ब्राह्मणेन समं समशीर्षिकया दृश्यते । समशीर्षिका प्रतिस्पर्द्धा । मइरा इति । मदिरा पञ्चगव्यं चैकस्मिन्भाण्डे क्रियते, काचं माणिक्यं च सममाभरणे प्रयुज्यते । विचक्षणा— इह राजकुले तत्ते भवतु कण्ठस्थितं यद्भगवांस्त्रिलोचनः शीर्षे समुद्वहति । अर्धचन्द्र इत्यर्थः । तेणं इति । तेन च ते मुखं चूर्यतां येनाशोकतरोर्दोहदं लभते । पादन्यासेनेत्यर्थः । 'पादहताः प्रमदया विकसन्त्यशोकाः' इति प्रसिद्धिः ।
२६ कर्पूरमञ्जरी विदूषकः—आ, दासीए पुत्ति! टेटाकराले, कोससदचट्टाणि, रच्छा- लोट्टणि! एवं मं भणसि! ता मह महाबंभणस्स वअणेण तं तुमं लह जं फग्गुणसमए सोहंजणो दोहलं लहेदि। जं च पामराहितो गलि- बइल्लो लहेदि। विचक्षणा—अहं पुण तुह एवं भणंतस्स णेउरस्स विअ पाअल- भग्गस्स पाएण मुहं चूरइस्सं। अण्णं च, उत्तरासाढापुरस्सरणणक्खत्तणा- मधेअं अंगुजुअलं उप्पाडिअ घलिस्सं। (विदूषकः सरोधं परिक्रामति) (जवनिकान्तरे धिंचिदुमं ।) ईरिसं राउलं दूरेण वंदीअदि जहिं दासी बंभणेण समं पाडिसिद्धिं करेदि। ता अज्जप्पहुदि णिअयसुं- धराअंभणीए चलणसुस्सूसओ भविअ गेहं ज्जेव चिट्ठिस्सं। (सर्वे हसन्ति।)
विदूषकः— 'आ दासीए' इत्यादि व्याख्यातम् (पृ० १९)। एव्वं इति। एवं मां भणसि? तन्मम महाब्राह्मणस्य वचनेन तत्त्वं लभस्व यत्फाल्गुनसमये शोभाञ्जनो दोहदं लभते। यत्पामरेभ्यो बलीवर्दं लभते। फाल्गुनसमय इति धूलीप्रक्षेपादिकम्। बलीवर्द इति नासाच्छेदनादिरर्थः। विचक्षणा— अहं पुनस्त्वयैवं भणतो नूपुरस्येव पादलग्नस्य पादेन मुखं चूर्णयिष्यामि। नूपुरदृष्टान्तेन व्यर्थप्रलापित्वमस्योक्तम्। अण्णं च इति। अन्यच्च, उत्तराषाढापुरःगमननक्षत्रनामधेयमङ्गद्वन्द्वमुत्पाट्य क्षेप्स्यामि। श्रवणसंज्ञकमित्यर्थः। 'घरिस्सं' इति देशी। 'अन्यच्च ते पवननिष्क्रमणगोलक- मार्गविवरणानन्तरं शब्दयित्वा क्षेप्स्यामि' इति क्वचित् पाठः। जवनिकान्तर इति। 'अपटी काण्डपटिका प्रतिसीरा जवनिका तिरस्करिणी' इति शब्दार्णवम्। ईरिसं इति।
प्रथमं जवनिकान्तरम् २७ देवी—कीदिसी अज्जकविंजलेण विणा गोट्ठी, कीदिसी उण णअणंजणेण विणा पसाहणालच्छी । ( नेपथ्ये । ) ण हु ण हु आगमिस्सं । अण्णो को वि पिअवअस्सो अण्णेसी- अदु । अहवा एसा दुट्ठदासी लंबकुच्चं टप्परकण्णं पडिसीसअं देइअ मह ट्ठाणे उवहसणत्थं कीरदु । अहं एको मुदो तुम्हाणं सव्वाणं मज्झम्मि । तुम्हे उण वरिससअं जीवध । विचक्षणा—मा अणुसंधेध । अणूणअक्ककसो खु कविंजलो बंभणो सलिलसित्तो विअ सणगुणगंठी दिढं गाढदरो भोदि । णं दंसणीअं दीसदु । ईदृशं राजकुलं दूरे वन्द्यता यत्र दासी ब्राह्मणेन समं प्रतिस्पर्धां करोति । तदद्यप्रभृति निजगेहिन्या वसुंधरानामधेयाया ब्राह्मण्याश्चरणशुश्रूषुभूत्वा गेह एव स्थास्यामि । देवी— आर्यपुत्र ! कीदृशी आर्यकपिञ्जलेन बिना गोष्ठी, कीदृशी पुनर्नयनाञ्जनेन विना प्रसाधनलक्ष्मीः । ण इति । न खलु न खल्वागमिष्यामि । अन्यः कोऽपि प्रियवयस्योऽन्विष्यताम् । अथ- वैषा दुष्टदासी लम्बकुर्चा टप्परकर्णा प्रतिशीर्षकं दत्त्वा मम स्थाने उपहसनार्थं क्रियताम् । अहमेको मृतो युष्माकं सर्वेषां मध्ये, यूयं पुनर्वर्षशतं जीवत । टप्परो वंशपात्रम् । 'टोपला' इति भाषायाम् । तद्वत्कर्णौ यस्याः । प्रतिशीर्षक- लक्षणमुक्तम् । मम स्थान इति मदीयो वेषोऽन्यस्मै दातव्य इत्यर्थः । विचक्षणा— माऽनुसंधीत । अनुनयकर्शः खलु कपिञ्जलब्राह्मणः सलिलसिक्त इव शणगुण- ग्रन्थिर्दृढं गाढतरो भवति । ननु दर्शनीयं दृश्यताम् ।
२८ कर्पूरमञ्जरी देवी—( समन्तादवलोक्य । ) गाअंतगोअवहुपअपैखिदासु दोलासु विभमवदीसु ¹णिविट्ठदिट्ठी । जं जादि खंजिदतुरंगरहो दिणेसो तेण घ होंति दिअहा अइदीहदीहा ॥ २१ ॥ ( प्रविश्यापटीक्षेपेण । ) विदूषकः—आसणं आसणं । देवी— गायद्गोपवधूपदप्रेङ्खितासु दोलासु विभ्रमवतीषु निषण्णदृष्टिः । यद्याति खञ्जिततुरङ्गरथो दिनेश- स्तेन भवन्ति दिवसा अतिदीर्घदीर्घाः ॥ पदेधरणं । प्रेङ्खितास्वान्दोलितासु । गोष्ठीभिर्दिनातिदीर्घा दिवसा आलस्यमा- वहन्तीत्यानीयतां कपिञ्जलब्राह्मण इति व्यज्यते, तेन प्रकृतसंगतिः । अत्र हेत्वति- शयोक्तिपर्यायोक्तमुत्प्रेक्षाः । अतिशयोक्तिपर्यायोक्तौ दण्डिमते—(का. २।२१४) ‘विवक्षा या विशेषस्य लोकसीमानिवर्तिनी । असावतिशयोक्तिः स्यादलंकारोत्तमा यथा ॥’ इति । ‘अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तमिदिष्यते ॥’ (का. २।२९५) इति । प्रविश्येति । अपटी जवनिका । विदूषकः— आसनमासनम् । दीयतामिति शेषः । १ 'निमण्ण' इति टीकानुगुणः पाठः ।
प्रथमं जवनिकान्तरम् २९ राजा—किं तेण ? विदूषकः—भइरवाणंदो दुआरे चिट्ठदि । देवी—किं सो, जो जणवयणादो अञ्चब्भुदसिद्धी सुणीअदि ? विदूषकः—अध इं । राजा—पवेसअ । (विदूषको निष्क्रम्य तेनैव सह प्रविशति ।) भैरवानन्दः—(किञ्चिन्मदमभिनीय ।) मंतो ण तंतो ण अ किं पि जाणे झाणं च णो किं पि गुरुप्पसादा । मज्जं पिवामो महिलं रमामो मोक्खं च जामो कुलमग्गलग्गा ॥ २२ ॥
राजा— किं तेन ? प्रयोजनमिति शेषः । विदूषकः— भैरवानन्दो द्वारे तिष्ठति । देवी— किं सः, यो जनवचनादत्यद्भुतसिद्धिः श्रूयते ? विदूषकः— अथ किम् । राजा— प्रवेशय । मंतो इति । मन्त्रो न तन्त्रं न च किमपि ध्यानं ज्ञानं च नो किमपि गुरुप्रसादात् । मद्यं पिबामो महिलां रमयामो मोक्षं च यामः कुलमार्गसंलग्नाः ॥
३० कर्पूरमञ्जरी अवि अ,— रंडा चंडा दिक्खिदा धम्मदारा मज्जं मंसं पिज्जए खज्जए अ । भिक्खा भोज्जं चम्मखंडं च सेज्जा कोलो धम्मो कस्स णो भादि रम्मो ॥ २३ ॥ किं च,— मुत्तिं भणंति हरिबम्हमुहा वि देवा झाणेण वेअपढणेण कदुकिआहिं । एक्केण केवलमुमाइदएण दिट्ठो मोक्खो समं सुरअकेलिमुगारसेहिं ॥ २४ ॥ राजा—इदं आसणं । उबविसदु भइरवाणंदो । मन्त्रादिलक्षणान्यतिप्रयोजनतया न लिख्यन्ते । अत्र विरोधाभासः । स यथा दण्डिना प्रोक्तः (का. २।१३३)—'विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥' इति । अवि अ इति । अपि च,— रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ किं च इति,— मुक्तिं भणन्ति हरिब्रह्ममुखाऽऽदिदेवा ध्यानेन वेदपठनेन ऋतुक्रियाभिः । एकेन केवलमुमादयितेन दृष्टो मोक्षः समं सुरतकेलिमुगारसैः । हरिब्रह्ममुखाश्च ते आदिदेवाश्चेति विग्रहः । अत्र व्यतिरेकः । राजा— इदमासनम् । उपविशतु भैरवानन्दः ।
प्रथमं जवनिकान्तरम् ३१ भैरवानन्दः—(उपविश्य।) किं कादव्वं ! राजा—कहिं पि विसए अच्छरिअं दट्ठुं इच्छामि । भैरवानन्दः— दंसेमि तं पि ससिणं वसुहावइण्णं थंभेमि तस्स वि रविस्र रहं णहद्धे । आणेमि जक्खसुरसिद्धगणंगणाओ तं णत्थि भूमितलए मह जं ण सज्झं ॥ २५ ॥ ता भण किं कीरदु । भैरवानन्दः— किं कर्तव्यम् ? किमीप्सितं ते मया कर्तव्यमित्यर्थः । राजा— कस्मिन्नपि विषये आश्चर्यं द्रष्टुमिच्छामि । अनेन कारणाख्यमङ्गमुक्तम् । 'प्रकृतार्थस्य चारम्भः कारणं नाम तद्भवेत्।' इत्युक्तत्वात् । भैरवानन्दः— दर्शयामि तमपि शशिनं वसुधावतीर्णं स्तम्भामि तस्यापि रवे रथं नभोऽर्धे । आनयामि यक्षसुरसिद्धगणाङ्गना- स्तन्नास्ति भूमितलये मम यन्न साध्यम् ॥ एतेनावमर्शसन्ध्यङ्गो व्यवसाय उक्तः । तत्रावमर्शलक्षणं दशरूपके ( १।४३)—'क्रोधेनावमृशेद्यत्र व्यसनाद्वापि लोभनात् । 'गर्भेनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः ॥' इति । व्यवसायलक्षणमपि तत्रैव 'व्यवसायः स्वश- क्त्युक्तिः' (१।४७) इति । ता इति । तद्ब्रूहि किं क्रियताम् ।
३४ कर्पूरमञ्जरी विदूषकः— ण्हाणावमुक्काहरणुच्चआए तरंगभंगक्खदमंडणाए । ओल्हंसुउल्लासितणुल्लआए सुंदेरसघवस्समिमीअ दिट्ठी ॥ २८ ॥ नायिका—(सर्वानवलोक्य । स्वगतम् ।) एसो महाराओ को वि इमिणा गंभीरमहुरेण सोहासमुदाएण जाणीअदि । एसा वि एदस्स महादेवी लक्खीअदि । अद्धनारीसरस्स वामद्धे विअ अरूहिआ वि गोरी मुणीज्जदि । एसो को वि जोईसरो । एस उण परिअणो । (विचिन्त्य ।) ता कि ति एदस्स महिलासहिदस्स वि दिट्ठी मं बहु मण्णेदि । ( इति त्र्यस्रं वीक्षते । ) लगतीत्यर्थः । अत्र प्रलयाख्यः सात्त्विगो भावः । स यथा रसकलिकायाम्— 'प्रलयो रागदुःखादेरिन्द्रियास्तमयो मतः ।' इति । स एव चानुभावः । चिन्तादयो व्यभिचारिणः यौवनादय आलम्बनगुणा विभावाः । अभिलाषाख्या शृङ्गारावस्था । विदूषकः— स्नानावमुक्ताभरणोदयायास्तरङ्गभङ्गक्षतमण्डनायाः । आर्द्रांशुकोल्लासिततनुलतायाः सौन्दर्यसर्वस्वमस्या दृष्टिः ॥ दृष्टिरत्र तटस्थः । अन्यत्पूर्ववत् । अत्र रूपमुक्तम् । तद्यथा सुधाकरे—'अङ्गा- न्यभूषितान्येव प्रक्षेपायैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते ॥' इति । मृदवं नामाङ्गमुक्तम्—'दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ।' इति तल्लक्षणम् । 'सुश्लिष्टसृष्टिवन्धो यत्तत्सौन्दर्यमितीर्यते' । इति सौन्दर्यलक्षणम् । नायिका—एसो इति । एष महाराजः कोऽप्यनेन गम्भीरमधुरेण शोभामुदायेन ज्ञायते । एषा- प्यस्य महादेवी लक्ष्यते । अर्धनारीश्वरस्य वामार्द्धेवारूढितापि गौरी । एषः कोऽपि योगीश्वरः । एष पुनः परिजनः । तत्किमित्येतस्य महिलासहितस्यापि दृष्टिर्मां बहु मन्यते ? त्र्यस्रमिति क्रियाविशेषणम् । अनेन कातराख्यं दर्शनमुक्तम् । 'सभयान्वेषणपरं यत्तत्कातरमुच्यते ।' इति तल्लक्षणम् ।
प्रथमं जवनिकान्तरम् ३५ राजा—(विदूषकमपवार्य ।) जं मुक्का सवणंतरेण सहसा तिक्खा कडक्खच्छडा भिंगाद्विट्ठिदिनेदअग्गिमदलद्दोणीसरिच्छच्छई । तं कप्पूररसेण णं धवलिदो जोण्हाइ णं व्हाविदो मुत्ताणं घणरेणुण व्व छुरिदो जादो म्हि पत्थंतरे ॥ २९ ॥ राजा—अपवार्येति । अपवारणेन जनान्तिकमुच्यते । अत एवोक्तं दश- रूपके (१।६५-६६)—'त्रिपताककरेणान्यानपवार्यान्तरा कथाम् । अन्योन्या- मन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ॥' इति । त्रिपताका तु संगीतरत्नाकरे— 'तर्जनीमूलसंलग्नकुञ्चिताङ्गुष्ठको भवेत् । पताकः सहताकारः प्रसारितकराङ्गुलिः ॥ स एव त्रिपताकः स्याद्विनानामिकाङ्गुलिः ।' इति । यन्मुक्ता श्रवणान्तरेण सहसा तीक्ष्णा कटाक्षच्छटा भृङ्गाधिष्ठितरेवतसीमदलद्रोणीसदृशच्छविः ।
३६ कर्पूरमञ्जरी विदूषकः—अहो से रूवसोहा। मण्णे मज्झं तिवलिवलिअं डिम्भमुट्ठिअ गेज्झं णो बाहूहि रमणफलअं वेद्विदु जादि दोहि। णेत्तच्छेत्तं तरणिपसईदिज्जमाणोवमाणं ता पञ्चक्खं मइ विलिहिदु जादि एसा ण चित्ते ॥ ३० ॥ कध ण्हाणधोदविलेवणा वि समुच्चारितविभूसणा वि रमणिज्जा। अह वा,— रूवेणं मुक्का वि विभूसअंति ताणं अलंकारवसेण सोहा। णिसग्गचग्गस्स वि¹ माणुसस्स सोहा समुम्मीलदि भूसणेहिं ॥३१॥ विदूषकः— अहो अस्या रूपशोभा। मन्ये मध्यं त्रिवलिवलितं डिम्भमुष्ट्या ग्राह्यं नो बाहुभ्यां रमणफलकं वेष्टितुं याति द्वाभ्याम्। नेत्रक्षेत्रं तरणिप्रसृतिदीयमानोपमानं तत्प्रत्यक्षं मया विलिखितुं यात्येषा न चित्ते ॥ रमणफलकं जघनपरिसरः। नेत्रक्षेत्रं चक्षुः परिसरः। चित्ते विलिखितुं धारयितुं न शक्नोमीत्यर्थः। डिम्भो बालः। 'क्षेत्र'शब्देन नानाविकारास्पदत्वं व्यङ्ग्यम्। अत्र रूपलावण्यसौन्दर्याण्युक्तानि। लावण्यं तु 'मुक्ताफलेषु छायायास्तरळत्वमिवान्तरा। प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते॥' इति। उपमालङ्कारः। शृङ्गारस्य दीप्तत्वात् 'कान्तिर्दीप्तरसं स्यात्' इति कान्तिर्वाक्यार्थगुण उक्तः। गाम्भीर्यं च। विभावादिकं तु पूर्ववदेव ॥ कथं स्नानधौतविलेपना समुच्चारितविभूषणापि रमणीया। अथवा,— या रूपमुक्ता अपि विभूषयन्ति तासामलंकारवशेन शोभा। निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः ॥ यासां सौन्दर्यं नास्ति तासामलंकारैः शोभा। यस्य तु मनुष्यस्य नैसर्गिकं सौन्दर्यं तस्यालङ्कारैः कान्तिरुन्मीलति, महत्त्वमेत्य जायत इत्यर्थः। अत्र समाधिः। यथा काव्यप्रकाशे (१०।१२५)—'समाधिः सुकरं कार्यं कारणान्तरयोगतः' ॥ १ 'रेहोणं' इति टीकापाठः। २ 'तु' 'मनुजस्स' इति च भिन्नः पाठः।
३८ कर्पूरमञ्जरी इत्थं जायं अवअवगदा का वि सुंदेरमुद्दा मण्णे ताणं चलइदधणू णिच्चभिच्चो अणंगो ॥ ३३ ॥ अवि अ, एदाए— तहा रमणवित्थरो जह ण ठाइ कंचीलदा तहा १सिद्धिणतुंगिमा जह २णिपइ णाहिं ण हु । तहा णअणवह्निमा जह ण किंपि कण्णुप्पलं तहा अ मुहमुज्जलं दुस्ससिणी जहा पुण्णिमा ॥ ३४ ॥ देवी—अज्ज कविंजल ! पुच्छिअ जाण का एस त्ति । इत्थं यासामवयवगता कापि सौन्दर्यमुद्रा मन्ये तासां वलयितधनुर्नित्यभृत्योऽनङ्गः ॥ अवयवगतेति । सर्वाङ्गव्यापि सौन्दर्यमुद्रम् । नित्यभृत्य इति । भृत्यो यथा भर्त्राज्ञामन्तरेणापि तदाशयमेव विज्ञाय कार्यं कुरुते तथा कामिनीकटाक्षमात्रेणैव कामिनो वशी करोति काम इत्युत्प्रेक्षयोपमा ध्वन्यते । अत्र सारः । स यथा काव्य- प्रकाशे ( १०।११३ )—'उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ।' इति ॥ अपि च, एतस्याः— तथा रमणविस्तारो यथा न तिष्ठति काञ्चीलता तथा च स्तनतुङ्गिमा यथा नैति नाभि मुखम् । तथा नयनवह्निमा यथा न किमपि कर्णोत्पलं तथा च मुखमुज्ज्वलं द्विशशिनी यथा पूर्णिमा ॥ न क्षिमतीति न शोभापहमित्यर्थः । क्वचित् 'तुट्टिमा' इति पाठः । क्वचित् 'वह्निमा' इति। तदुभयमप्यप्रमाणम् । 'दृढस्थूलशब्दाभ्याम्' इति दृ. क्वचिद्- दृष्टत्वात् । द्विशशिनीति 'नद्यृतश्च' (पा. ५।४।१५३) इति न कप् । अनिर्देश्यात् । अद्भूतोपमया वपुषः परमाह्लादकत्वं ध्वन्यते । चरणत्रयेऽतिशयोक्तिहेतुः । चतुर्थे तूपमायाः कृत्याद्यप्रक्रमभङ्गः 'तदा अ मुहमुज्जलं जह ण उज्जलं संचनं' इति पठित्वा समाधेयः ॥ देवी— आर्य कपिञ्जल ! पृष्ट्वा जानीहि कैवेति । १ 'तहा थणतुंगिमा' इति पाठः । २ 'ण पर णांहि मुहं' इति टी०• ।
४० कर्पूरमञ्जरी नायिका—तस्स घरणी ससिप्पहा णाम । देवी—( स्वगतम् ।) सा वि मे माउच्छिआ । नायिका—( विहस्य ।) तेहि अहं खलखंडेहि कीणिदा दुहिद त्ति वुच्चामि । देवी—( स्वगतम् ।) ण हु ससिप्पहागब्भुप्पत्तिं अंतरेण ईदिसी रूवसोहा । ण हु विद्दूरभूमिं अंतरेण वेरुळिअमणिसलाआ णिप्प- ज्जदि । (प्रकाशम् ।) णं तुवं कप्पूरमंजरी । (नायिका सलज्जमधोमुखी तिष्ठति ।) देवी—एहि वहिणिए । आलिंगसु मं । (इति परिष्वजते ।) कर्पूरमञ्जरी—अम्महे, कप्पूरमंजरीए एसो पढमो पणामो । नायिका— तस्य गृहिणी शशिप्रभा नाम । देवी— साऽपि मे मातृष्वसा । नायिका— ताभ्यामहं खडिरखण्डैः क्रीणिता दुहितेति । देवी— न खलु शशिप्रभागर्भोत्पत्तिमन्तरेणेदृशी रूपरेखा । न खलु वैदूर्यभूमिमन्तरेण वैदूर्यमणिशलाका निष्पद्यते । ननु त्वं कर्पूरमञ्जरी । देवी— एहि भगिनिके ! आलिङ्गय माम् । कर्पूरमञ्जरी— • अये ! कर्पूरमञ्जर्या एष प्रथमः प्रणामः । प्रथम इत्येतावन्तं कालमदृष्टपादपद्मस्य प्राथम्यमुक्तम् ।
प्रथमं जवनिकान्तरम् ४१ देवी—अज्ज भइरवाणंद ! तुज्झ प्पसाएण अपुव्वं संविहाणअं णुभविदं कप्पूरमंजरीदंसणेण । ता चिट्ठदु दाव एसा पंचदसदिवसाइं । च्छा झाणविमाणेण णइस्सह । भैरवानन्दः—जं भणादि देवी । विदूषकः—(राजानमुद्दिश्य ।) भो वअस्स ! अम्हे परं दुवे वि बाहिरा तुवं अह च । जदो एदाणं मिलिदं कुटुंबं वट्टदि । जदो इमीओ दो वि बहिणिआओ । भइरवाणंदो उण एदाणं संजोअअरो अच्चिदो महग्घिदो अ । एसा विअक्खणा महीअलसरस्सदी अ कुट्टिणी^१ देवी ज्जेव देहंतरेण । देवी—विअक्खणे ! णिअजेट्ठबहिणिअ सुलक्खणं भणिअ भइरवा- णंदस्स हिअइच्छिदा सपज्जा कादव्वा । देवी— आर्य भैरवानन्द ! तव प्रसादेनापूर्वं संविधानकमनुभूतं कर्पूरमञ्जरीदर्शनेन । संतिष्ठतु तावदेषा पञ्चदशदिवसानि । पश्चाद्ध्यानविमानेन नेष्यथ । संविधानकमुपचारः । भ्रान्तस्य विमानं ध्यानविमानम् । नेष्यथेति पूजायां बहुवचनम् । भैरवानन्दः— यद्भणति देवी । विदूषकः— भो वयस्य ! आवां परं द्वावपि बाह्यौ त्वमहं च । यत एतासां मिलितं कुटुम्बकं वर्तते । यत इमे द्वे अपि भगिन्यौ । भैरवानन्द पुनरेतयोः संयोजकरोऽर्चितो महार्धितश्च । एषा विचक्षणा महीतलसरस्वती च कुट्टनी देहान्तरेण देव्येव । यथा रात्रीदृशिना सङ्गेयमपीति सोत्कण्ठम् । देवी— विचक्षणे ! निजज्येष्ठभगिनिकां सुलक्षणां भणित्वा भैरवानन्दस्य हृदयेप्सिता सपर्या कर्तव्या । हृदयस्थितेन यार्थः । तदा यथामिलितमित्यर्थः । १ 'देहंतरेण देवी ज्जेव' इति टीकापाठः ।
४२ कर्पूरमञ्जरी विचक्षणा—जं देवी आणवेदि । देवी—(राजानं प्रति ।) अज्जउत्त ! पेसिहि मं, जेण अहं बहिणीए एदावस्थाए णेवच्छलच्छीलीलाणिमित्तं अंतउरं गमिस्सं । राजा—जुज्जदि चंपअलदाए कत्थूरिआकप्पूररसेहिं आलवालपरि- पूरणं । (नेपथ्ये ।) वैतालिकयोरेकः—सुहसंझा भोदु देवस्स । एदं वासरजीवपिंडसरिसं चंडंसुणो मंडलं को जाणादि कहिं पि संपदि गअं पत्तम्मि कालंतरे। जादा किं च इअं पि दीहविरहा सोऊण णाहे गदे ¹णिच्चामुद्दिदलोअण व णलिणी मीलंतपंकेरुहा ॥ ३५ ॥ विचक्षणा— यद्देव्याज्ञापयति । देवी— आर्यपुत्र ! प्रेषय माम्, येनाहं भगिन्या एतदवस्थाया नेपथ्यलक्ष्मीलीलानिमित्त- मन्तःपुरं गमिष्यामि । राजा— युज्यते चम्पकलतायाः कस्तूरीकर्पूरैरालवालपरिपूरणम् । अवश्यमस्या नेपथ्यं कर्तव्यमित्यर्थः । समासोक्तिरत्र । सा यथा काव्यप्रकाशे (१०।१९७)—‘परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः’ इति । वैतालिकः— सुखाय सन्ध्या भवतु देवस्य । एतद्वासरजीवपिण्डसदृशं चण्डांशोर्मण्डलं को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे । जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा ॥ 1 'मुच्छामुद्दिअ' इति टीकाधृतः पाठः ।