कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
६० कर्पूरमञ्जरी जलणिबिडमिमीए लण्हअं ण्हाणपोसं पिसुणदि तणुलच्छीलंगिमं चंगिमं च ॥ २४ ॥ विदूषकः—(सक्रोधमिव ।) भो ! मए सव्वालंकारसहिदा वण्णिदा । तुमं पुण जलविलुत्तपसाहणं जेव सुमरसि । ता किं ण सुदं देवेण ? णिस्सग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूसणेहिं । मणीणं जच्चाणं वि कंचणेण विभूसणे लब्भदि का वि लच्छी ॥ २५ ॥ राजा— मुद्धाण णाम हिअआईं हरंति हंत णेवच्छकप्पणगुणेण णिअंबिणीओ । छेआ पुणो पअइचंगिमभावणिज्जा दक्खारसो ण मधुरज्जइ सक्कराए ॥ २६ ॥ जलनिबिडमेतस्याः श्लक्ष्णं स्नानपोषं पिशुनयति तनुयष्टितारुण्यं चङ्गिमानं च ॥ 'लंगिमं' तारुण्यमिति देशी । विदूषकः— भोः ! मया सर्वालंकारसहिता वर्णिता । त्वं पुनर्जंलविलुप्तप्रसाधनामेव स्मरसि । तत्किं न श्रुतं देवेन ? निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः । मणीनां जात्यानामपि काञ्चनेन विभूषणे लभ्यते कापि लक्ष्मीः ॥ राजा— मुग्धानां नाम हृदयानि हरन्ति हन्त नेपथ्यकल्पनगुणेन नितम्बिन्यः । च्छेकाः पुनः प्रकृतिचङ्गिमभावनीया द्राक्षारसो न मधुरीयति शर्करया ॥ येषां हृदयानि नेपथ्यकल्पनगुणेन नितम्बिन्यो हरन्ति ते मुग्धा अविदग्धा एवे- त्याशयः । ये पुनः प्रकृत्या स्वभावेन यच्चङ्गिमा सौन्दर्यं यासां नितम्बिनीनां सा 1 'णिरन्त...' इति टीकायुतः पाठः । 2 'मधुरि' इति टीकायुक्तः पाठः ।
द्वितीयं जवनिकान्तरम् ६१ विचक्षणा—जधा देवेण आदिद्वं,— थोराणं थणआण कण्णकलिआलंघीए अच्छीण वा भूचंदस्स मुहस्स कंतिसरिआसोत्तस्स गत्तस्स अ । को णेवच्छकलाअ कीरदि गुणो जं तं पि सव्वं पिअं संजुत्तव्वं सुण तत्थ कारणमिमं रुढीअ का खंडणा ॥ २७ ॥ राजा— (विदूषकमुद्दिश्य ।) सुप्पंजल कविंजल! एस सिक्खावीअसि । किं कज्जं कित्तिमेणं विरअणविधिणा सो णटीणं विडंबो तं चंगं जं णिसग्गं जणमणहरणं तेण सीमंतिणीओ । भावयन्ति त एव विदग्धा इति भावः । द्राक्षारससाम्यं स्वभावसौन्दर्यस्य, शर्करा- साम्यं भूषणानामुपदर्शितम् । विचक्षणा— यथा देवेनादिष्टम्,— स्थूलानां स्तनानां कर्णकलिकाल्लङ्घिनोरक्षणोर्वा भ्रूचन्द्रस्य मुखस्य कान्तिसरित्स्रोतसो गात्रस्य च । को नेपथ्यकलाभिः क्रियते गुणो यत्तदपि सर्वं प्रियं संयुक्तं शृणु तत्र कारणमिदं रूढेः का खण्डना ॥ रूढिर्यौगमपवदतीति यथा रूढेर्योगापेक्षया प्राबल्यं तथा सहजसौन्दर्यस्यापीति भावः । राजा— सुप्राञ्जल कपिञ्जल ! एष शिक्ष्यसे । सुप्राञ्जलः सुसरलः । तथा च चातुर्यलेशोऽपि तव नास्तीति भावः । किं कार्यं कृत्रिमेण विरचनविधिना स नटीनां विडम्ब- स्तच्चङ्गं यन्निजार्ङ्ग जनमनोहारं तेन सीमन्तिन्यः । १ अत्र 'भूचंदरस मुहस्स कंति' इति टीकारामुद्रतः पाठः। २ अत्र 'संजुत्तं' इति टीरायुक्तः पाठः। ३ अत्र 'णिजंगं' इति टीकारामुद्रतः पाठः ।
६२ कर्पूरमञ्जरी
जस्सिं सव्वंगसंगो सअलगुणगणो सो अदंभो अलंभो तस्सिं णेच्छंति काले परमसुहअरे किं पि णेवच्छलच्छिं २८॥ विचक्षणा—देव ! इदं विण्णवीअदि—ण केवलं देवीणिअमेण तिस्सा अणुगद म्हि । तारामेत्तीए वि सहित्तणं उंवगदा कप्पूरमंजरीए । तेण तकज्जसज्जा अहं पुण ओलग्गाविआ भविस्सं । यस्मिन्सर्वाङ्गसङ्गः सकलगुणगण सोऽदम्भोऽलभ्य- स्तस्मिन्नेच्छन्ति काले परमसुखकरे कामपि नेपथ्यलक्ष्मीम् ॥ कृत्रिमभूषाभिर्नटीनामेवापाततः सौन्दर्यमुल्लसति, न पुनः सीमन्तिनीनामित्यर्थः । यच्चाङ्गं समीचीनं तदेव निजाङ्गं स्वस्यात्माह्लादकमित्याह्लादकत्वविशिष्टान्तेऽङ्गमानवान- काङ्गपदवाच्यसक्रमादयमर्थान्तरसक्रमितवाच्यो लक्षणागूलो ध्वनि । तेन स्वाभावि- काङ्गसौन्दर्येणैव सीमन्तिन्य कुलाङ्गना जनमनोहरणं भवन्तीत्यर्थ । यद्यपि 'जनमनो- हरणम्' इति भिन्नलिङ्गवचनं पदं न 'सीमन्तिन्य' इति पदस्य विशेषणत्वमर्हति, तथापि षत्तुपदाध्याहारेण योज्यम् । तस्य चाजहल्लिङ्गत्वान्न दोष इति ध्येयम् । अथवा जनमनोहरणमिति काकाक्षिगोलकन्यायेनोभयत्र सम्बध्यते । तथा च यन्निजाङ्गं स्वाभाविकामं यत्तदेव जनमनोहरणं भवतीत्यर्थ । यदा पूर्वेनैव सम्बध्यते तदा च तेन स्वाभाविकाङ्गचकृत्वेनैव सीमन्तिन्यो भवन्ति । तासामुक्तसीमन्तिनीत्वं भवती- त्यर्थः । तथा च 'सीमन्तिनी'पदवाच्यसंबधोत्तमत्वविशिष्टे तस्मिन्सक्रमादनापयर्या- न्तरसक्रमितवाच्यो ध्वनि । यस्मिन्काले सकल सम्पूर्णो गुणाना गण समूहः सर्वाङ्ग- सङ्ग सर्वेष्वङ्गेषु सङ्गो यस्य तादृशः, अदम्भः न विद्यते दम्भो यत्रासावदम्भः स्वाभाविकः, अलभ्योऽप्राप्योऽस्ति, अथ च तस्मिन्काले सुखकरे कामपि नेपथ्य- लक्ष्मीं नेच्छन्ति । विदग्धा इति शेष । निजाङ्कमित्येकवचनेनैकमाप स्वाभाविक- सुन्दरमङ्गं लोकहृदयहरणसमर्थं किमुत सर्वाङ्गीणीति ध्वन्यते । अत्र च नटीसीम- न्तिन्योर्व्यतिरेकालंकारो व्यङ्ग्यः । छेकास्त्यनुप्रासातालङ्कारावप्यत्र बोध्यौ । तल्लक्षणं प्रागेवोक्तम् । विचक्षणा— देव ! एतद्विज्ञाप्यते—न केवलं देव्या नियोगेन तस्या अनुगतास्मि । तारा- मैत्र्यापि सखीत्वं प्राप्ता कर्पूरमञ्जर्याः । तेन तत्कार्ये सज्जाऽहं पुनः सेवरीभूय निवेशयिष्यामि । 1 'देवीद निओएण' इति टीकानुमारी पाठः । 2 'पत्ता कप्पूरमञ्जरीए' इति टीश- रूपपाठः । 3 'भवित्त णिवेइस्स' इति टीशपाठः ।
द्वितीयं जवनिकान्तरम् ६३ तिस्सा तापपरिक्खणाअ णिहिदो हत्थो थणुत्थंगदो दाहुट्टामरिदो सहीहि बहुसो हेलाअ कट्ठिज्जदि । किं सेणावि इमं णिसागय गिरं संतोसणिं तासिणिं हत्थच्छत्तणिवारिदिन्दुकिरणा बोलेइ सा जामिणीं ॥ २९ ॥ कज्जसेसं कविंजलो णिवेदइस्सदि । तं च देवेण सहा कादव्वं । ( इति परिक्रम्य निष्क्रान्ता ।) राजा—वअस्स ! किं पुण तं कज्जसेसं ? विदूषकः—अज्ज हिंदोलअचउत्थी । तहिं गोरिं कट्टुअ देवीए तस्यास्तापपरीक्षणाय निहितो हस्तः स्तनोत्सङ्गगतो दाहोत्तामरितः सखीभिर्बहुशो हेलया कृष्यते । किं सैनापीमां निशामय गिरं संतोषिणीं त्रासिनीं हस्तच्छत्रनिवारितेन्दुकिरणानिवाहयति सा यामिनीम् ॥ हेलयाऽवज्ञया कृष्यते तयेति शेषः । स्वसरन्धिविरहार्तिभाजनत्वेन । त्रासिनी- मिति चैतादृशदुःसहवियोगपीडितापि स्वहस्तेनैवेन्दुकरा निवारयतीति त्रेषा हस्तस्प- र्शोऽशङ्कनीयमपि मरणादिकं समाधत्त इति त्रासकरत्वम् । अथवा बलात्कारेण यथेन्दु- किरणस्पर्शो भवति तथा विधत्त इत्यतिदुष्करमिति त्रासकरणं ज्ञेयम् । यद्वा हस्त- च्छत्रेत्यनेन हस्तस्य सम्पूर्णशरीरे चन्द्रकरस्पर्शानिवारकत्वासंभवादात्मानवच्छन्नप्रदेशे शशिकरस्पर्शावश्यभावस्तत्कारणं वेदितव्यः । अनेन विधानं नाम मुखसन्ध्यङ्गमु- क्तम् । तल्लक्षणं दशरूपके (१।२८)—'विधानं सुखदुःखकृत्' इति । अत्रापि रूपकच्छेकानुप्रासादयः शब्दार्थालंकारा ऊह्याः । लक्षणं तूक्तम् । कार्यशेषं कपिञ्जलो निवेदयिष्यति । तच्च देवेन तथा कर्तव्यम् । कपिञ्जलो विदूषकः । राजा— वयस्य ! किं पुनस्तत्कार्यशेषम् ! विदूषकः— अद्य हिन्दोलनचतुर्थी । यत्र गौरीं कृत्वा देव्या कर्पूरमञ्जरी हिन्दोलके आरोह-
६४ कर्पूरमञ्जरी कप्पूरमंजरी हिंदोलए आरोइदव्वा । ता मरगअपुंजट्ठिदेण ज्जेव देवेण कप्पूरमंजरी हिंदोलयंती दट्ठव्वा । एदं तं कज्जसेसं । राजा—( विचिन्त्य ।) ता अदिणिउणा वि छलिदा देवी । विदूषकः—पाइदा जुण्णमज्जारिआ दुद्धं त्ति तकं । राजा—वअस्स ! को अण्णो तुम्हाहिंतो मे कज्जसज्जो ? को अण्णो चंदाहिंतो समुद्दवड्ढणणिट्ठो ? ( इति परिक्रम्य कदलीगृहप्रवेशं नाटयतः । ) विदूषकः—इअं उत्तुंगा फलिहमणिवेदिया । ता इह उवविसदु पिअवअस्सो । ( राजा तथा करोति ।) विदूषकः—( हस्तमुद्यम्य ) भो दीसदु पुण्णिमाचंदो । राजा—( विलोक्य ।) अए ! दोलारूढाए मह वल्लहाए वअणं पुण्णिमाचंदो त्ति णिद्दिसदि । ( समन्तादवलोक्य । ) यितव्या । तन्मरकतपुञ्जस्थितेनैव देवेन कर्पूरमञ्जरी हिन्दोलयंती द्रष्टव्या । एतत्- त्कार्यशेषम् । राजा—तदतिनिपुणापि छलिता देवी । विदूषकः—पायिता जीर्णमार्जारिका दुग्धमिति तक्रम् । मरकतपुञ्जः प्रासादविशेषः । राजा—कोऽन्यो युष्मत्तो मम कार्यसज्जः ? कोऽन्यश्चन्द्रतः समुद्रवर्धननिष्ठः ? विदूषकः— इयमुत्तुङ्गा स्फटिकमणिवेदिका । तदिहोपविशतु प्रियवयस्यः । विदूषकः— भोः ! दृश्यतां पूर्णिमाचन्द्रः । राजा— अए ! दोलारूढाया मम वल्लभाया वदनं पूर्णिमाचन्द्र इति निर्दिशति ।
द्वितीयं जवनिकान्तरम् ६५ विच्छाअंतो णअररमणीमंडलस्साणणाई विच्छालँतो गअणकुहरं कंतिजोण्हाजलेण । पेच्छंतीणं हिअअणिहिदं णिद्दलंत्तो अ दप्पं दोलालीलासरलतरलो दीसए से मुहेंदू ॥ ३० ॥ अवि अ,— उत्तोहिं गोउरेहिं धुअवधवलवडाडंयरिल्लावलीहिं घंटाहिं विंदुरिल्हासुरतरणिविमाणाणुसारं लहंती । पाआरं लंघअंती कुणदि रववसा उण्णमंती णमंती एंती जंती अ दोला जणमणहरणी चुट्टँणुव्वुट्टणेहिं ॥ ३१॥ विच्छाययन्नगररमणीमण्डलस्याननानि प्रक्षालयन् गगनकुहरं कान्तिज्योत्स्नाजलेन । प्रेक्षमाणानां हृदयनिहितं निर्दलयंश्च दर्पं दोलालीलासरलतरलो दृश्यतेऽस्या मुखेन्दुः ॥ विच्छाययन् विगतच्छायानि कुर्वन्, म्लानीकुर्वन्नित्यर्थः । कान्तिरेव ज्योत्स्ना चन्द्रिका तया जलं चाकचक्यं तेन गगनं खमेव कुहरं क्षालयन्प्रक्षालयन् । जलेन क्षालनमुचितमेवेति भावः । 'सरलतरल' इत्यान्दोलनवशाद्यातायातमाचरन्नित्यर्थः । अत्र रूपकश्लेषानुवृत्त्यनुप्रामरूपाः शब्दार्थालंकारा विभाव्याः । स्पष्टमन्यत् । अपि च,— उच्चेषु गोपुरेषु धवलध्वजपटाडम्बरवद्धावलीषु घण्टाभिर्विदारणसुरतरणिविमानानुसारं वहन्ती । प्राकारं लङ्घयन्ती करोति रववशादुन्नमन्ती नमन्ती आयान्ती यान्ती च दोला जनमनोहरं कर्णोत्पत्यणैः ॥ धवलध्वजपटाडम्बराणां बद्धा आवल्यो येषु तादृशेषु गोपुरेषु पुरद्वारेषु घण्टाभिर्दर्शितं विदारं वेगेन गच्छत्सुरतरणिविमानं देवाहनावमानं तदनु- रूपं तत्तुल्यं प्राकारं वहन्ती विभावा । कर्णोत्पत्यणैः रववशाल्लङ्घयन्ती । राहत्वम- १ 'पच्छावेन्तो' इति टीकानुगतः पाठः । २ 'धवलध्वजपडाडम्बरी' इति टीकानुगतः पाठः । ३ 'करणे कहुणुवट्ठणेहिं' इति टीकानुगतपाठः । क० ग० ०
६६ कर्पूरमञ्जरी अवि अ,— रणंतमणिणेउरं झणझणंतहारच्छडं कलक्कणिदकिंकिणीमुहरमेहलाडंबरं । विलोलवलआवलीजणिदमंजुसिंजारवं ण कस्स मणमोहणं ससिमुहीअ हिंदोलणं ॥ ३२ ॥ विदूषकः—भो ! सुत्तआरो तुवं । अहं पुण वित्तिआरो भविअ वित्थरेण वण्णेमि । नादुज्जमन्ती ऊर्ध्वं गच्छन्ती नमन्ती पुनरधो यान्ती आयान्ती यान्ती चेयं दोला कस्य कामिनो मनोहरं न करोति ? अपि तु सर्वस्य विधत्त इति काक्वर्थः । इयं च दोलारूपवर्णनाजातिः । तल्लक्षणं काव्यादर्शो दण्डिनोक्तम् ( २।८ )— 'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या साऽलंकृति- *र्यथा ॥' इति । उपमानुप्रासादयोऽन्येऽप्यलंकारा ज्ञेयाः । अपि च,— रणन्मणिनूपुरं झणझणायमानहारच्छटं कलक्वणितकिङ्किणीमुखरमेखलाडम्बरम् । विलोलवलयावलीजनितमञ्जुशिञ्जारवं न कस्य मनोमोहनं शशिमुख्या हिन्दोलनम् ॥ शशिमुख्या हिन्दोलनं कस्य कामिनो मनोमोहनं न, मनो मानसं मोहयति तदेतादृशं न ? अपि तु सर्वस्यापीति यावत् । किम्भूतम् ? रणन्तो मणयो ययोस्ते रणन्मणी, रणन्मणी नूपुरे यत्र तत् । झणझणायमाना हारच्छटा यत्र । इत्यादी- नामान्दोलनविशेषणत्वम् । अथवा क्रियाविशेषणानि । यद्वा,—शशिमुख्या रणन्नू- पुरादिभ्यस्य मनोमोहनं नेति प्रत्येकमत्र विधिः । तदा दोलनाशे प्रचण्डमन्थाने स्परगम् । 'रण शब्दे' । 'झणझणायमानं' इत्यादि शब्दानुकरणम् । अत्राप्यनुप्रास- जात्याद्याः शब्दार्थालंकारा ज्ञेयाः । विदूषकः— भोः ! सूत्रकारस्त्वम् । अहं पुनर्वृत्तिकारो भूत्वा विस्तरेण वर्णयामि । सूचनाद्धि सूत्रत्वं भवतीति भावः । अत एव तल्लक्षणमुक्तमभियुक्तैः— 'अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥' इति ।
द्वितीयं जवनिकान्तरम् ६७ उत्तरिट्टिअथणग्गब्भारचेपिअं चरणपंकआण जुअं । पुक्कारइ व मअणं रणंतमणिणेउररवेण ॥ ३३ ॥ हिंदोलणलीलाललणलंपडं रह चकयकलं रमणं । किलिकिलइ व सहरिसं कंचीमणिकिंकणिरवेण ॥ ३४ ॥ तारंदोलणहेलामलंतसरिअच्छलेण से हारो । विक्किरइ व कुसुमाउहणरवइणो कित्तिवल्लीओ ॥ ३५ ॥ संमुहपवणपओहिययरिल्लदरदंसिआई अंगाई । हक्कारिऊण मअणं पासम्मि णिवेसअंति व ॥ ३६ ॥ ताडंकजुअं गंटेसु बहलघुसिणेसु घडणलीलाहिं । देइ व दोलंदोलणरेहाओ गणणकोट्टेण ॥ ३७ ॥ उत्तरिखितस्तनप्राग्भारपीडितं चरणपङ्कजयुगं तस्याः । पूत्कारयतीव मदनं रणन्मणिनूपुररवेण ॥ एतन्मणिनूपुररवश्रवणसमकालमेव रागिणां मदनकृता मनोविद्रुदना भवतीति भावः । अत्रापि जात्युत्प्रेक्षे अलङ्कारौ । हिन्दोलनलीलाललनलम्पटं चक्रवकुलं रमणम् । किलिकिलायतीव सहर्षं काञ्चीमणिकिङ्किणीरवेण ॥ अत्रापि किलिकिलायति शब्दानुकरणम् । रमणं जपनम् । दोलान्दोलनलीलामलत्सरिदाच्छलेनास्या हारः । विसारयतीव कुसुमायुधनरपतेः कीर्तिवल्लीः ॥ सरित् मुक्तापङ्क्तिः । अत्रोत्प्रेक्षालेङ्कारः । संमुखपवनप्रेरितोपरिग्रहे दरदर्शिताम्यङ्गानि । आह्वाय मदनं पार्श्वे निवेशयन्तीव ॥ अत्रापि स एवालङ्कारः । ताटङ्कयुगं गण्डयोर्बहलघुसृणसंर्घटनलीलाभिः । ददातीव दोलान्दोलनरेखा गणनाकोष्ठकेन ॥ अत्राप्युत्प्रेक्षालङ्कारः । १ "उत्तरिट्ठिअथणवग्गभारचेपिअं" इति रीशपाठः । २ 'दोलंदोलन' इति टी० पाठः ।
६८ | कर्पूरमञ्जरी
णअणाईं पसइसरिसाईं झत्ति फुल्लाईं कोदूहलेण । अप्पेंति व कुवलअसिलिम्मुहे पंचवाणस्स ॥ ३८ ॥ दोलारअविच्छेओ कहं पि मा होदि इत्ति पडइ व । पिट्ठिम्मि वेणिदंडो मम्महचम्मट्टिआअंतो ॥ ३९ ॥ इअ एआई विलासुज्जलाईं दोलापवंचचरिआईं । कस्स ण लिहइ व चित्ते णिउणं कंदप्पचित्तअरो ॥ ४० ॥ राजा—(सविषादम् ।) ²अंवइण्णा कप्पूरमंजरी ? रिक्ता दोला, रित्तं अ मज्झ चित्तं, रित्ताईं दंसणुस्सुअजणणअणाईं । विदूषकः—ता विज्जलेह व खणदिट्ठणट्ठा । नयने प्रसृतिसदृशे झटिति फुल्ले कौतूहलेन । अर्पयत इव कुवलयशिलीमुखे पञ्चबाणस्य ॥ कुवलये एव शिलीमुखौ शरौ । कुसुमशरत्वादस्येति भावः । रूपकमुत्प्रेक्षा चालंकारः । तल्लक्षणं तु पूर्वोक्तमेव । दोलारसविच्छेदः कथमपि मा भवत्विति पततीव । पृष्ठे वेणिदण्डो मन्मथचर्मयष्टिकायमानः ॥ अत्रापि रूपकोत्प्रेक्षे । इत्येतानि विलासोज्ज्वलानि दोलाप्रपञ्चचरितानि । कस्य न लिखति चित्ते निपुणः कंदर्पचित्रकरः ॥ इत्यमुना प्रकारेणैतानि दोलाप्रपञ्चचरितानि कर्मभूतानि कंदर्पचित्रकरः कर्ता कस्य कामिनश्चित्ते न लिखति ? अपि तु सर्वस्यापीत्यर्थः । किंभूतानि ? विलासा उज्ज्वलाः शुचयो येषु तानि । विलास उज्ज्वलश्च येषु तानीति वा । 'शृङ्गारः शुचि- रुज्ज्वलः' इति कोषात् । अत्र रूपकम् । राजा— कथमवतीर्णा कर्पूरमञ्जरी ? रिक्ता दोला, रिक्तं च मम चित्तम्, रिक्तानि दर्श- नोत्सुकानि मम नयनानि । विदूषकः— तद्विद्युल्लेखेव क्षणदृष्टनष्टा । १ 'इह चित्ते' इति टीकापाठः । २ 'कथमवइण्णा' इति टीकाभिमतः पाठः ।
द्वितीयं जवनिकान्तरम् ६९ राजा—मा एवं भण । हरिअंदपुरी व दिट्ठा पणट्ठा अ । ( स्मृतिनाटिकेन । ) मंजिट्ठी ओट्ठमुद्दा णवघडिसुवण्णगुज्जला अंगलट्ठी दिट्ठी वालेंदुलेहाधवलिमजअणी कुंतला कज्जलाहा । इत्थं वण्णाण रेहा विहरइ हरिणीचंचलच्छी अ एसा कंदप्पो ^२जायदप्पो जुअजणजअणे पुण्णलक्खो ^३विभाइ ॥४२॥ राजा— मैवं भण ! हरिश्चन्द्रपुरीव दृष्टा प्रनष्टा च । स्मृतीरिति । स्मृतिलक्षणमुक्तं प्राक् । मंजिट्ठी इति । माञ्जिष्ठी ओष्ठमुद्रा नवघटनसुवर्णोज्ज्वलाङ्गयष्टि- र्दृष्टिर्बालेन्दुरेखाधवलिमजयिनी कुन्तलाः कज्जलाभाः । इत्थं वर्णानां रेखा विहरति हरिणीचञ्चलाक्षी चैषा कन्दर्पो दीर्घदर्पो युवजनजये पूर्णलक्ष इव भाति ॥ माञ्जिष्ठीत्यनेन मञ्जिष्ठानिष्ठरक्ततानिशमयवत्पमयोष्ठमुद्रायां व्यज्यते । नवा घटना यस्येति बहुव्रीहिः । तथा च तादृशस्वर्णनिर्मितत्वान्निश्चयस्तदतिशयवत्त्वमङ्गेषु व्यज्यते। यष्टिरूपरेख च तन्निष्ठाधिककृशत्वमङ्गेषु द्योत्यते । 'इन्दुरेखा' इत्यनेन चारुलङ्घित्वं ज्ञाय्यते । 'कज्जलाभा' इत्यनेन कज्जलनिष्ठनीलिमातिशयवत्त्वं कुन्तलेष्वभिव्यज्यते । अथवा कज्जले आभा येषामिति विपर्यासोपमा, तल्लक्षणं काव्यादर्शो दण्डिनोक्तम् (२।१७) 'सा प्रसिद्धिविपर्यासाद्विपर्यासोपमोच्यते ।' इति । इत्थमनिर्वचनीयाः । 'रेखा'पदेन शोभापरम्परानिष्ठोऽतिशयो विशिष्यो लक्ष्यते । दीर्घो दर्पोऽस्यास्तीति दीर्घदर्पः । अनेन च लक्ष्यसाधनीकरणे क्लेशलेशस्याप्यभावात्प्रकर्षवत्त्वेऽपि न क्षीण इति भावः । पूर्णलक्ष्यत्वं स्वाधीनं यावल्लक्ष्यत्वमेव । अत्रापि रूपकोपमोत्प्रेक्षानुक्रमलक्षणाः शब्दार्थालङ्कारा ज्ञेयाः । १ 'नवघटनसुवर्णगुज्जला' इति टीकासम्मतः पाठः । २ 'दीर्घदप्पो' इति टीकानुसारी पाठः । ३ 'व्व भादि' टीकापाठः ।
७० कर्पूरमञ्जरी विदूषकः— एदं तं मरगअपुंजं । इह उवविसिअ पिअवअस्सो पडिवालिदु तं । सञ्झा वि संणिहिदा वट्टदि । ( उभौ तथा कुरुतः । ) राजा— अइसिसिरं पि हिमार्णि संतावदाइणिं मज्झण्णवेलं अणु- हवामि । विदूषकः— ता लच्छीसहअरो खणं चिट्ठदु देवो, जाव अहं सिसि- रोवआरसामग्गिं संपादेमि । ( इति नाट्येन निष्क्रम्य पुरोऽवलोक्य च । ) किं पुण एसा विअक्खणा इदो णिअडिआ आगच्छदि । राजा— संणिहिदो सकेदकालो कहिदो $^१$मंतीहिं पि । ( स्मृत्वा । मदनावस्थामभनीय । ) किसलअकरचरणा वि हु कुवलअणअणा मिअंकवअणा वि । अहह णवचंपअंगी तह वि हु तावेइ अच्चरिअं ॥ ४२ ॥ विदूषकः— एतत्तन्मरकतपुञ्जम् । इहोपविश्य प्रियवयस्यः प्रतिपालयतु ताम् । संध्यापि संनिहिता वर्तते । वयस्येति समुद्दिष्टः । 'विदूषकेण वक्तव्यो वयस्येति च भूपतिः ।' इत्युक्तेः । राजा— अतिशिशिरामपि हिमानीं संतापदायिनीं ( मध्याह्नवेलां ) अनुभवामि । 'हिमानी हिमसंहति ' इति त्रिकाण्डी । विदूषकः— तल्लक्ष्मीसहचरः क्षणं तिष्ठतु देवः, यावदहं शिशिरोपचारसामग्रीं संपादयामि । किं पुनरेषा विचक्षणा इतो निकटा आगच्छति । तल्लक्ष्मीः तत्कान्तिः, तन्मात्रसहाय इत्यर्थः । राजा— सन्निहितः संकेतकालः कथितो मन्त्रिभ्यामपि । किसलयकरचरणापि खलु कुवलयनयना मृगाङ्कवदनापि। अहह नवचम्पकाङ्गी तथापि तापयत्याश्चर्यम् ॥ १ 'सहीहिं' इति पाठः ।
द्वितीयं जवनिकान्तरम् ७१ विदूषकः— ( सम्यगवलोक्य । ) अहो, विअक्खणा सिसिरोवआरेसा- मग्गीसहिदा आवदा । ( तत प्रविशति शिशिरोपचारसामग्रीसहिता विचक्षणा । ) विचक्षणा— ( परिक्रम्य । ) अहो, पिअसहीए महंतो खु विरहदा- हज्जरो । विदूषकः— ( उपसृत्य । ) भोदि ! किं एदं ! विचक्षणा—सिसिरोवआरसामग्गी । विदूषकः—कस्स कदे ? अत्रापि छेकानुप्रासविभावना रूपका ऽहेतुसङ्कररूपा शब्दार्थालङ्कारा ऊह्या । विभावनालक्षणमुक्तमभियुक्तै —'कारणाभावेऽपि कार्योत्प्नेशे विभावना' इति । अहेतुलक्षणमप्युक्तम्—'कारणे सत्यपि कार्याभावोऽहेतु' इति । अन्येव सञ्ज्ञा विशेषोक्तिरिति काव्यप्रकाशे । सङ्करलक्षणमप्युक्तम्—'स्वातन्त्र्येणाङ्गभावेन गदाद्ये- नेऽप्येन वाऽलङ्काराणामेकत्रोपस्थानं सङ्कर' इति । विदूषकः— अये, विचक्षणा शिशिरोपचारसामग्रीसहितहस्तागता । 'नानुचितस्य पात्रस्य प्रवेश' इति पूर्वमेव विदूषकमुखेन सूचनम् । विचक्षणा— अहो, प्रियसख्या महान्खलु विरहदाहज्वर । विदूषकः— भवति ! किमेतत् ? विचक्षणा— शिशिरोपचारसामग्री । विदूषकः— कस्य कृते ? १ 'सामग्गीसहिदहत्था' इति टीकानुगुण पाठः ।
७२ कर्पूरमञ्जरी विचक्षणा—पिअसहीए कदे । विदूषकः—ता मह वि अद्धं देहि । विचक्षणा—किं णिमित्तं ? विदूषकः—महाराअस्स कदे । विचक्षणा—कि पुण कारणं तस्स ? विदूषकः—कप्पूरमंजरीए वि कि ? विचक्षणा—किं ण जाणासि महाराअस्स दंसणं ? विदूषकः—तुवं पि किं ण जाणासि महाराअस्स कप्पूरमंजरीए दंसणं ? ( इत्युभौ हसतः । )
विचक्षणा— प्रियसख्याः कृते । विदूषकः— तन्माप्यर्धं देहि । विचक्षणा— किं निमित्तम् ? विदूषकः— महाराजस्य कृते । विचक्षणा— किं पुनः कारणं तस्य ? विदूषकः— कर्पूरमञ्जर्या अपि किम् ? कारणमिति पूर्वतनाध्याहारः । विचक्षणा— किं न जानासि महाराजस्य दर्शनम् ? विदूषकः— त्वमपि किं जानासि महाराजस्य कर्पूरमञ्जर्या दर्शनम् ?
द्वितीयं जवनिकान्तरम् ७३ विचक्षणा—ता कहिं महाराओ ? विदूषकः—तुह वअणेण मरगअपुंजे चिट्ठदि । विचक्षणा—ता महाराएण सह मरगअपुंजदुआरे चिट्ठ खणं, जेण उहअदंसणे जादे सिसिरोवआरसामग्गीए जलंजली दिज्जदि । विदूषकः—(तामुपसृत्य ।) तर्हि गच्छ जदो णागच्छसि । (इति स्थितः ।) (पुनस्तां प्रति ।) ता कीस दुआरदेसे भविदव्वं ? विचक्षणा—देवीए आदेसेण कप्पूरमंजरी समाअच्छदि । विदूषकः—किं तीए आदेसो ! विचक्षणा—तहि देवीए बालतरुणो तिण्णि आरोविदा । विचक्षणा— तात्कुत्र महाराजः ! विदूषकः— तव वचनेन मरकतपुञ्जे तिष्ठति । विचक्षणा— तन्महाराजेन सह मरकतपुञ्जद्वारे तिष्ठ क्षणम्, येनोभयदर्शने जाते शिशिरोप- चारसामग्र्या जलाञ्जलिर्दीयते । विदूषकः— तत्र गच्छ यतो नागच्छसि । तत्किं द्वारदेशे भवितव्यम् ? विचक्षणा— देव्या आदेशेन कर्पूरमञ्जरी समागच्छति । विदूषकः— किं तस्या आदेशः ! विचक्षणा— तत्र देव्या बालतरवस्त्रय आरोपिताः ।
७४ कर्पूरमञ्जरी
विदूषकः—के के ? विचक्षणा—कुरवअतिलअसोआ । विदूषकः—ता. किं तेहि ? विचक्षणा—भणिदा सा देवीए । जधा,— कुरवअतिलअअसोआ आलिंगणदंसणग्गचलणहआ । विअसन्ति कामिणीणं ता ताणं देहि दोहलअ ॥ ४३ ॥ एण्हि तं संपादिस्सदि । विदूषकः— कः कः ? विचक्षणा— कुरबकतिलकाशोकाः । विदूषकः— तत्किं तैः ? विचक्षणा— भणिता सा देव्या । यथा,— कुरबकतिलकाशोका आलिङ्गनदर्शनाग्रचरणहताः । विकसन्ति कामिनीनां तत्तेषां देहि दोहदकम् ॥ यतस्मात्कारणात्कामिनीनामालिङ्गनदर्शनाग्रचरणहता सन्तः कुरबकादयो वृक्षा विकसन्ति उत्फुल्ला भवन्ति, तत्तस्मात्तेषां दोहदकं देहीति यत्पदाध्याहारेण योज्यम् । यद्वा,—तदिदमिति तच्छब्देन पूर्वोक्तालिङ्गनादि परामृश्य योज्यम्, तदा न यत्पदाध्याहारः । कुरबकद्रुमस्य कामिन्यालिङ्गनादिश्रयेणैव विकासो योग्येन इति कविप्रदायः । तथोक्तम्—'पादाहतः प्रमदया विगलत्प्रसूनः शोकं जहाति बकुलो मुखसीधुसिक्तः । आलिङ्गितः कुरबकः कुरुते विकासमालोकितस्तिलक उत्कलिको विभाति ॥' इति । 'आलिङ्गनेनैव गुणानुरागाः प्रफुल्तां ये तिलकः
द्वितीयं जवनिकान्तरम् ७५ विदूषकः—ता मरगअपूंजादो पिअवअस्सं आणिअ तमालविड- वंतरिअं ठाविअ एदं पच्चक्खं करइस्सं । (तथा नाटयित्वा । राजानं प्रति । ) भो भो, उट्ठिअ पेक्ख णिअहिअअसमुद्दचंदलेहं । ( राजा तथा करोति । ) ( ततः प्रविशति विशेषभूषिताङ्गी कर्पूरमञ्जरी । ) कर्पूरमञ्जरी—कहि पुण विअक्खणा ? विचक्षणा—( सामुपसृत्य । ) सहि ! कीरदु देवीए समादिट्ठं । राजा—वअस्स ! किं पुण तं ? विदूषकः—तमालविडवंतरिदो भविअ जाण । ( राजा तथा करोति । ) प्रयाति । अधोवशापी पुनरद्विपार्तिर्निवेशाशी विरलो हि लोके ॥' इति च । अत्रापि देशानुरागः । इदानीं रूपेपादयिष्यति । विदूषकः— तन्मरकतपुञ्जात्प्रियवयस्यमानीय तमालविटपान्तरितं स्थापयित्वा एतत्प्रत्यक्षं कारयिष्यामि । भो भोः, उत्थाय प्रेक्षस्व निजहृदयसमुद्रचन्द्रलेखाम् । निजहृदयमेव समुद्रस्तत्र चन्द्रलेखेव कर्पूरमञ्जरी ताम् । कर्पूरमञ्जरी— क्व पुनर्विचक्षणा ? विचक्षणा— सखि ! क्रियतां देव्या समादिष्टम् । कुरबकादीनां दोहददानमित्यर्थः । राजा— वयस्य ! किं पुनस्तत् । विदूषकः— तमालविटपान्तरितो (भूत्वा) जानीहि ।
७६ कर्पूरमञ्जरी विचक्षणा—एस कुरवअतरू । ( कर्पूरमञ्जरी तमालिङ्गति ।) राजा— णवकुरवअरुक्खो कुंभथोरत्थणीए रहसविरइदेणं णिब्भरालिंगणेणं । तह कुसुमसमिद्धिं लंभिदो सुंदरीए जह भसलउलाणं पेत्थ जत्ता समत्ता ॥ ४४ ॥ विदूषकः—भो, पेक्ख पेक्ख महेंदजालं । जेण,— बालो वि कुरअवतरू तरुणीए गाढमुवगूढो । सहस त्ति कुसुमणियरं मंअणसरे विअ समुग्गिरइ ॥ ४५ ॥ विचक्षणा— एष कुरवकतरुः । राजा— नवकुरवकवृक्षः कुम्भस्थूलस्तन्या रभसविरचितेन निर्भरमालिङ्गनेन । तथा कुसुमसमृद्धिं लम्भितः सुन्दर्या यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥ जातेति यावत् । 'अथ च तत्र' इति 'ततः' इत्यर्थे । तत्र ततो यात्रा गमनागमनं समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भावः । यद्वा,—असमाप्तेति नञ्प्रश्लेषः । सप्तेति विषयसप्तमी । तथा च तद्विषये यात्रा वृत्तान्तरात्प्रागमनं तन्न समाप्त- मित्यर्थ । अनेन कुसुमोद्गमः, तत्र च सौरभातिशयो व्यङ्ग्यते । अत्रापि छेकानुप्रा- सरूपकोपमासंकरा अलंकाराः । विदूषकः— भोः, प्रेक्षस्व प्रेक्षस्व महेन्द्रजालम् । येन,— बालोऽपि कुरवकतरुस्तरुण्या गाढमुपगूढः । झेति कुसुमनिकरं मदनशरमिव समुद्गिरति ॥
- इति टीकाकृतः पाठः । १ 'मदनमरे' इति टीकाकारः ।
द्वितीयं जवनिकान्तरम् ७७ राजा—ईदिसो जेव दोहलस्स पहावो । विचक्षणा—अअं तिलअदुमो । ( कर्पूरमञ्जरी चिरं निर्वर्ण्यलोकयति । ) राजा— तिक्खाणं तरलाणं कज्जलकलासंवग्गिदाणं पि से पासे पंचसरं सिलीमुहधरं णिच्चं कुणंताणँ अ । णेत्ताणं तिलअदुमे णियडिदा धाडी मअच्छीअ जं तं सो मंजरिपुंजदंतुरसिरो रोमंचिदो व ट्ठिओ ॥ ४६ ॥ विचक्षणा—एसो वि असोअसाही । ( कर्पूरमञ्जरी चरणताडनं नाटयति । ) राजा— ईदृश एव दोहदस्य प्रभावः । विचक्षणा— अयं तिलकद्रुमः । राजा— तीक्ष्णयोस्तरलयोः कज्जलकलासंवेलितयोरप्यस्याः पार्श्वे पञ्चशरं शिलीमुखधरं नित्यं कुर्वतोश्च । नेत्रयोस्तिलकद्रुमे निपतिता धाटी मृगाक्ष्या य- त्तत्स मञ्जरीपुञ्जदन्तुरशिरा रोमाञ्चित इव स्थितः ॥ तीक्ष्णयोर्दीर्घदृष्टयाद्योः, कज्जलकलो मूर्ध्नि कज्जले तरङ्गवल्गितयोर्मन्मथबदयोः, पञ्चशरं काममस्याः कर्पूरमञ्जर्याः पार्श्वे शिलीमुखधरं बाणधरं नित्यं सर्वदा कुर्वतोः, मृगाक्ष्या नेत्रयोर्धाटी रचनास्थानरातिविशेषाभितिलकद्रुमे यदस्मात्कारणात्प- तितमस्या तिलकमञ्जरीनां पुञ्ज- रागदृभेन दन्तुरं साङ्कुरं शिरोऽग्रं यस्य सः । अत एव रोमाञ्चित इव रोमाञ्चगोमांस इव वर्तत इत्यर्थः । शिलीमुखधरं पञ्चशरं पार्श्वे नित्यं कुर्वन्तोरित्यनेन मँदर्भवाग्भ्यास्ये नेत्रयोर्दर्शिताम् । तेन च कामित्वाभ- लाषेणादकार्यं काममार्गप्रथमेऽनयोर्व्यज्यते । अत्रापि सोत्प्रेक्षारूपकानुप्रासेनोन्मेषिता- दोहदच्छाया श्वेताः । विचक्षणा— एषोऽप्यशोकशाखी ।
७६ कर्पूरमञ्जरी विचक्षणा—एस कुरवअतरू । ( कर्पूरमञ्जरी तमालिङ्गति । ) राजा— णवकुरवअरुक्खो कुंभथोएत्थणीए रहसविरइदेणं णिब्भरालिंगणेणं । तह कुसुमसमिद्धिं लंभिदो सुंदरीए जह भसलकुलाणं पंथ जत्ता समत्ता ॥ १४ ॥ विदूषकः—भो, पेक्ख पेक्ख महेंदजालं । जेण,— वालो वि कुरवअतरू तरुणीए गाढमुवगूढो । सहस त्ति कुसुमणिअरं मंअणसरे व्विअ समुग्गिरइ ॥ ४५ ॥ विचक्षणा— एष कुरबकतरुः । राजा— नवकुरबकवृक्षः कुम्भस्थूलस्तन्या रभसविरचितेन निर्भरालिङ्गनेन । तथा कुसुमसमृद्धिं लम्भितः सुन्दर्या यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥ जातेति यावत् । 'अथ वा तत्र' इति 'ततः' इत्यर्थे । तत्र ततो यात्रा गमनागमनं समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भावः । यद्वा,—असमानेति गन्धप्रभेदः । तथेति विषयाप्तौ । तथा च तद्विषये यात्रा देशान्तरादागमनं रात्र समाप- मित्यर्थः । अनेन कुसुमोद्गमः, तत्र च सौरभातिशयो व्यज्यते । अत्रापि परिकरानुकू- लरूपश्चेशमार्गत्वेन अलंकारः । विदूषकः—
द्वितीयं जवनिकान्तरम् ७७ राजा—ईदिसो जेव दोहउस्स पहावो । विचक्षणा—अअं तिलअहुमो । ( कर्पूरमञ्जरी तिरं नियंपरलोकयति । ) राजा— तिक्खत्तणं तरलाणं कअलकळासंवरागिअक्खाणं पि से पासे पंचसरं सिलीमुहधरं णिच्चं सुणंताणँ अ । णेत्ताणं तिलअहुमे णिवडिदा घाही मअच्छीअ जं तं सो मंजरिपुंजदंतुरसिरो रोमंचिदो व द्विओ ॥ ४६ ॥ विचक्षणा—एमो वि असोअसाही । ( कर्पूरमञ्जरी चरणताडनं नाटयति । ) — राजा— ईदृश एव दोहदस्य प्रभावः । विचक्षणा— अयं तिलकद्रुमः । —