काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
॥ काशिका ॥ ५ ॥ ३ ॥ ४४९ अनुकम्पायाम् ॥ ७६ ॥ कारुण्येनाभ्युपपत्तिः परस्यानुकम्पा । तस्यां गम्यमानायां सुबन्तात्तिङ- न्ताच्च यथाविहितं प्रत्ययो भवति । पुत्रकः । वत्सकः । दुर्बलकः । बुभुक्षि- तकः * । विश्वसितकि । स्वपितकि ॥ नीतौ च तद्युक्तात् ॥ ७७ ॥ सामदानादिरुपायो नीतिः । नीतौ च गम्यमानायां तद्युक्तादनुकम्पायु- क्ताद्यथाविहितं प्रत्ययो भवति । हन्त ते धानकाः । हन्त ते तिलकाः । एहिकि । बहुकि । अनुकम्प्यमाने दानेनाराधयति । पूर्वेणाप्रत्यासत्त्यानुकम्पासंबन्धादनुक- म्प्यमानादेव प्रत्ययो विहितः । संप्रति व्यवहितादपि यथा स्यादिति वचनम् ॥ बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ७८ ॥ अनुकम्पायां नीतौ च तद्युक्तादिति वर्तते । बह्वचः प्रातिपदिकान्मनु- ष्यनामधेयाद्वा ठच्प्रत्ययो भवति अनुकम्पायां गम्यमानायां नीतौ च । देविकः । देवदत्तकः । यज्ञिकः । यज्ञदत्तकः । बह्वच इति किम् । दत्तकः । गुप्तकः । मनुष्यनाम्न इति किम् । मद्रबाहुकः । भद्रबाहुकः ॥ घनिलचौ च ॥ ७९ ॥ अनुकम्पायामित्यादि सर्वमनुवर्तते । पूर्वेण ठचि विकल्पेन प्राप्ते वच- नम् । बह्वचो मनुष्यनाम्नो घन् इलच् इत्येतौ प्रत्ययौ भवतः । चकाराद्यथा- प्राप्तम् । देवियः । देविलः । देविकः । देवदत्तकः । यज्ञियः । यज्ञिलः । यज्ञिकः । यज्ञदत्तकः ॥ प्राचामुपादेरड्वुचौ च ॥ ८० ॥ पूर्ववत् सर्वमनुवर्तते । उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद् बह्वचो मनुष्यनाम्नो ऽडच् बुच् प्रत्ययौ भवतः । चकाराद् घनिलचौ प्रत्ययौ भवतः । ठच्च वा । उपडः । उपकः । उपियः । उपिलः । उपिकः । उपेन्द्रद- त्तकः । प्राचांग्रहणं पूजार्थम् । वेत्येव हि वर्तते ॥ जातिनाम्नः कन् ॥ ८१ ॥ बह्वच इति नानुवर्तते । सामान्येन विधानं, जातिशब्दो यो मनुष्यना- मधेयो व्याघ्र सिंह इत्येवमादिः, तस्मादनुकम्पायां नीतौ च कन्प्रत्ययो भवति । व्याघ्रकः । सिंहकः । शरभकः । वावचनानुवृत्तेर्यथादर्शन†मन्यो ऽपि भवति । व्याघ्रिलः । सिंहिलः । नामग्रहणं स्वरूपनिवृत्त्यर्थम् ॥
- ज्वरितकः । इत्याधिकं पुस्तकान्तरे ।
- यथासंभवमिति पा० २ । २६
४५० ॥ काशिका ॥ ५ ॥ ३ ॥ अजिनान्तस्योत्तरपदलोपश्च ॥ ८२ ॥ कनित्यनुवर्त्तते, मनुष्यनाम्न इति च। अजिनशब्दान्तात्प्रातिपदिकान्मनु- ष्यनाम्नो ऽनुकम्पायां कन्प्रत्ययो भवति तस्य चोत्तरपदलोपः। व्याघ्राजिनो नाम कश्चिन्मनुष्यः। सोऽनुकम्पितः। व्याघ्रकः। सिंहकः॥ ठाजादावूर्ध्वं द्वितीयादचः ॥ ८३ ॥ लोप इत्यनुवर्त्तते। अस्मिन्प्रकरणे यष्ठो ऽजादिश्च प्रत्ययस्तस्मिन्परतः प्रकृतेर्द्वितीयादच ऊर्ध्वं यच्छब्दरूपं तस्य लोपो भवति। ऊर्ध्वग्रहणं सर्वलोपा- र्थम्। अनुकम्पितो देवदत्तः, देविकः। देवियः। देविलः। यज्ञिकः। यज्ञियः। यज्ञिलः। उपडः। उपकः। उपेन्द्रदत्तकः। ठग्रहणमुक्तो द्वितीयत्वे कविधा- नार्थम्। अजादिलक्षणे हि प्राथ
॥ काशिका ॥ ५ ॥ ३ ॥ ४५१
अल्पे ॥ ८५ ॥ परिमाणापचये अल्पशब्दः, प्रकृतिविशेषकं चैतत् । अल्पत्वविशिष्टे ऽर्थे वर्तमानात्प्रातिपदिकाद्यथाविहितं प्रत्ययो भवति । अल्पं तैलं, तैलकम् । घृतकम् । सर्वकम् । विश्वकम् । उच्चकैः । नीचकैः । पचतकि । जल्पतकि ॥ ह्रस्वे ॥ ८६ ॥ ह्रस्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकाद् यथाविहितं प्रत्ययो भवति । दीर्घप्रतियोगी ह्रस्वः । ह्रस्वो वृक्षो, वृक्षकः । प्लक्षकः । स्तम्बकः ॥ संज्ञायां कन् ॥ ८७ ॥ ह्रस्वइत्येव । ह्रस्वत्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् प्रत्ययो भवति । पूर्वस्यायमपवादः । वंशकः । वेणुकः । दण्डकः ॥ कुटीशमीशुण्डाभ्यो रः ॥ ८८ ॥ ह्रस्वइत्येव । संज्ञाग्रहणं नानुवर्त्तते, सामान्येन विधानम् । कुटीशमी- शुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति । कस्यापवादः । ह्रस्वा कुटी, कुटीरः । शमीरः । शुण्डारः । स्वार्थकत्वे ऽपि पुंल्लिङ्गता लोकाश्रयत्वा- ल्लिङ्गस्य ॥ कुत्वा डुपच् ॥ ८९ ॥ ह्रस्वइत्येव । कुतूशब्दाद्ध्रस्वत्वे द्योत्ये डुपच्प्रत्ययो भवति । कस्यापवादः । ह्रस्वा कुतूः कुतुपञ्चर्ममयं स्नेहभाजनमुच्यते । कूतूरित्यावपनस्याख्या ॥ कासूगोणीभ्यां ष्टरच् ॥ ९० ॥ ह्रस्वइत्येव । कासूगोणीशब्दाभ्यां ह्रस्वत्वे द्योत्ये ष्टरच्प्रत्ययो भवति । कस्यापवादः । षकारो ङीषर्थः । ह्रस्वा कासूः, कासूतरी । गोणीतरी । कासू- रिति शक्त्यायुधविशेष उच्यते ॥ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥ ९१ ॥ ह्रस्वइति निवृत्तम् । वत्स उक्षन् अश्व ऋषभ इत्येतेभ्यस्तनुत्वे द्योत्ये ष्टरच्प्रत्ययो भवति । यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः, तस्य तनुत्वे प्रत्ययः । वत्सतरः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रथमवया वत्सः तस्य तनुत्वं द्वितीयवयःप्राप्तिः । तदृक्ष उक्षा । तस्य तनुत्वं तृतीयवयःप्राप्तिः । अश्वेनाश्वायामुत्पन्नो ऽश्वस्तस्य तनुत्वमन्यपितृकता । अनड्वानृषभः । तस्य तनुत्वं भारवहने मन्दशक्तिता ॥ कियत्तदोर्निर्द्धारणे द्वयोरेकस्य डतरच् ॥ ९२ ॥
४५२ ॥ काशिका ॥ ५ । ३ ॥ किं यत् तत् इत्येतेभ्यः प्रातिपदिकेभ्यो द्वयोरेकस्य निर्धारणे डतरच् प्रत्ययो भवति । निर्धार्यमाणवाचिभ्यः स्वार्थे प्रत्ययः । जात्या * क्रियया गुणेन वा संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । कतरो भवतोः कठः । कतरो भवतोः कारकः । कतरो भवतोः पटुः । कतरो भवतोर्देवदत्तः । यतरो भवतोः कारकः । यतरो भवतोः पटुः । यतरो भवतोर्देवदत्तः । ततर आगच्छतु । महाविभाषया ऽत्र प्रत्ययो विकल्प्यते । को भवतोर्देवदत्तः, स आगच्छतु । निर्धारणइति विषयसप्तमीनिर्देशः । द्वयोरिति समुदायान्निर्धारणविभक्तिः । एकस्येति निर्देशः निर्धार्यमाणनिर्देशः ॥ वा बहूनां जातिपरिप्रश्ने डतमच् ॥ ९३ ॥ कियत्तद् इति वर्तते, निर्धारणे एकस्येति च । बहूनामिति निर्धारणे षष्ठी । बहूनां मध्ये एकस्य निर्धारणे गम्यमाने जातिपरिप्रश्नविषयेभ्यः किमा- दिभ्यः वा डतमच् प्रत्ययो भवति । कतमो भवतां कठः । यतमो भवतां कठः । ततम आगच्छतु । वावचनमकर्तव्यम्, यको भवतां कठः । सक आगच्छतु । महा- विभाषा च प्रत्ययविकल्पार्थानुवर्ततएव । को भवतां कठः । योभवतां कठः । स आगच्छतु । जातिपरिप्रश्नइति किम् । को भवतां देवदत्तः । परिप्रश्नग्रहणं च किम एव विशेषणं, न यत्तदोरसंभवात् । जातिग्रहणं तु सर्वैरेव संबध्यते । किमो ऽस्मिन्विषये डतरमपीच्छन्ति के चित् । कतरो भवतां कठः । कतरो भवतां कालाप इति । तन्न कतरकतमौ जातिपरिप्रश्नइति वचनात्सिद्धम् ॥ एकाच्च प्राचाम् ॥ ९४ ॥ एकशब्दात्प्राचामाचार्याणां मतेन डतरच् डतमच् इत्येतौ प्रत्ययौ भवतः स्वस्मिन्विषये । चकारो डतरचो ऽनुकर्षणार्थः । द्वयोर्निर्धारणे डतरच् । बहूनां निर्धारणे डतमच् । जातिपरिप्रश्नइति नानुवर्तते । सामान्येन विधा- नम् । एकतरो भवतोर्देवदत्तः । एकतमो भवतां देवदत्तः । प्राचांग्रहणं पूजार्थे, विकल्प्यानुवर्तते ॥ अवक्षेपे कन् ॥ ९५ ॥ अवक्षिप्यते येन तदवक्षेपणम् । तस्मिन्वर्तमानात्प्रातिपदिकात्कन्प्र- त्ययो भवति । व्याकरणकेन नाम त्वं गर्वितः । याज्ञिक्यकेन नाम त्वं गर्वितः । परस्य कुत्सार्थे यदुपादीयते तदिहोदाहरणम् । यत्पुनः स्वयमेव कुत्सितं तत्र कुत्सितइत्यनेन कन्प्रत्ययो भवति । देवदत्तको, यज्ञदत्तक इति । प्रागिवीयस्य परो ऽवधिः ॥
- जात्येत्येकस्मिन् पुस्तके नास्ति, कतरो भवतोः कठ इति तदुदाहरणं च । तच्चैव युक्त- म्पदभञ्जन्यां जात्या वेत्यपि दृष्टव्यं, कतरो भवतोः कठ इत्यादेरपि संभवदिति दर्शनात् ।
॥ काशिका ॥ ५ ॥ ३ ॥ ४५३ इवे प्रतिकृतौ ॥ ९६ ॥ कनित्यनुवर्त्तते । इवार्थे यत्प्रातिपदिकं वर्तते तस्मात्कन् प्रत्ययो भवति इवार्थः सादृश्यं तस्य विशेषणं प्रतिकृतिग्रहणम् । प्रतिकृतिः प्रतिरूपकं प्रतिच्छन्दकम् । अश्व इवायमश्वप्रतिकृतिः, अश्वकः । उष्ट्रकः । गर्दभकः । प्रतिकृताविति किम् । गौरिव गवयः ॥ संज्ञायां च ॥ ९७ ॥ इवेत्यनुवर्त्तते, कनिति च । इवार्थे गम्यमाने कन्प्रत्ययो भवति समु- दायेन चेत् संज्ञा गम्यते । अप्रतिकृत्यर्थ आरम्भः । अश्वसदृशस्य संज्ञा, अश्वकः । उष्ट्रकः । गर्दभकः ॥ लुम्मनुष्ये ॥ ९८ ॥ संज्ञायामित्येव । संज्ञायां विहितस्य कनो मनुष्ये ऽभिधेये लुप् भवति । चञ्चेव मनुष्यः, चञ्चा । दासी । खरकुटी । मनुष्यइति किम् । अश्वकः । उष्ट्रकः । गर्दभकः । देवपथादेराकृतिगणत्वात्तस्यैवायं प्रपञ्चो वेदितव्यः ॥ जीविकार्थे चापण्ये ॥ ९९ ॥ जीविकार्थे यदपण्यं तस्मिनभिधेये कनो लुप् भवति । विक्रीयते यत्तत्पण्यम् । वासुदेवः । शिवः । स्कन्दः । विष्णुः । आदित्यः । देवलका- दीनां जीविकार्थे देवप्रतिकृतय उच्यन्ते । अपण्यइति किम् । हस्तिकान्वि- क्रीणीते । अश्वकान् । रथकान् । देवपथादेरेवायं प्रपञ्चः ॥ देवपथादिभ्यश्च ॥ १०० ॥ इवे प्रतिकृतौ संज्ञायां च विहितस्य कनो देवपथादिभ्य उत्तरस्य लुप् भवति । आदिशब्दः प्रकारे । आकृतिगणश्चायम् । देवपथः । हंसपथः । अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च । इवे प्रतिकृतौ लोपः कनो देवपथादिषु ॥ अर्चासु तावत् । शिवः । विष्णुः । चित्रकर्मणि । अर्जुनः । दुर्योधनः । ध्वजेषु । कपिः । गरुडः । सिंहः । देवपथ । हंसपथ । वारिपथ । जलपथ । राजपथ । शतपथ । सिंहगति । उष्णग्रीवा । चामरज्जुः । रज्जुः । हस्त । कर्ण । दण्ड । पुष्य । मत्स्य* ॥ वस्तेर्ढञ् ॥ १०१ ॥ इवेत्यनुवर्त्तते, इतः प्रभृति प्रत्ययाः सामान्येन भवन्ति प्रतिकृतौ चाप्रतिकृतौ च । वस्तिशब्दादिवाऽर्थे द्योत्ये ढञ्प्रत्ययो भवति । वस्तिरिव वास्तेयः । वास्तेयी ॥
- रथपथ । ऋजुपथ । सिंहपथ । इत्येते शब्दा अत्र गणेऽधिकाः पुस्तकान्तरे ।
४५४ ॥ काशिका ॥ ५ ॥ ३ ॥ शिलाया ढः ॥ १०२ ॥ शिलाशब्दादिवार्थे ढः प्रत्ययो भवति। शिलेव, शिलेयं दधि। केचि- दत्र ठजमपीच्छन्ति, तदर्थं योगविभागः कर्तव्यः। शिलाया ठञ्प्रत्ययो भवति। शैलेयम्। ततो ढः। शिलेयम् ॥ शाखादिभ्यो यत् ॥ १०३ ॥ शाखा इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत्प्रत्ययो भवति इवार्थे। शाखेव, शाख्यः। मुख्यः। जघन्यः। शाखा। मुख। जघन। शृङ्ग। मेघ। चरण। स्कन्ध। शिरस्। उरस्। अङ्ग। शरण। शाखादिः ॥ द्रव्यं च भव्ये ॥ १०४ ॥ द्रव्यशब्दो निपात्यते भव्ये ऽभिधेये। द्रुशब्दादिवार्थे यत्प्रत्ययो निपा- त्यते। द्रव्यम्। भव्य आत्मवान्। अभिप्रेतानामर्थानां पात्रभूत उच्यते। द्रव्योयं राजपुत्रः। द्रव्योयं माणवकः ॥
॥ काशिका ॥ ५ । ३ ॥ ४५५
अङ्गुल्यादिभ्यष्ठक् ॥ १०८ ॥ अङ्गुल्यादिभ्यः स्वार्थे ठक् प्रत्ययो भवति । अङ्गुलीवाङ्गुलिकः । भाह- ङ्गिकः । अङ्गुलि । भहङ्ग । बभ्रु । वल्गु । मण्डर । मण्डल । वक्कुल । कपि । उदश्वित् । गोणी । उरस् । शिखा । कुलिश । अङ्गुल्यादिः ॥ एकशालायाष्ठञन्यतरस्याम् ॥ १०९ ॥ एकशाला शब्दात्स्वार्थे ऽन्यतरस्यां ठञ् प्रत्ययो भवति । अन्यतरस्यांग्र- हणेनानन्तरष्ठुक् प्राप्यते । एकशालेव, एकशालिकः । ऐकशालिकः ॥ कर्कूलोहितादीकक् ॥ ११० ॥ कर्कूलोहितशब्दाभ्यामिवार्थे ईकक् प्रत्ययो भवति । कर्कूः शुक्लो ऽश्वः, तेन सदृशः, कार्कीकः । लोहितीकः स्फटिकः । स्वयमलोहितोऽप्युपाश्रयवशा- त्तथा
्यः" or "कौण्डीवृष्यः"? Wait, look at L4: कौ - ण्डी - वृ - ष्यः (kauṇḍīvṛṣyaḥ) And dual: कौण्डीवृष्यौ (kauṇḍīvṛṣyau).
"कौण्डीवृषाः। क्षौद्रक्यः। क्षौद्रक्यौ। क्षुद्रकाः। मालव्यः। मालव्यौ। मालवाः।" Let's check every word: कौण्डीवृषाः । क्षौद्रक्यः । क्षौद्रक्यौ । क्षुद्रकाः । मालव्यः । मालव्यौ । मालवाः । All match perfectly.
"स्त्रियां कौण्डीवृषी। क्षौद्रकी। मालवी। आयुधजीविग्रहणं किम्। मल्लाः।" Wait, look at "आयुधजीविग्रहणं": "आयुधजीविग्रहणं किम् । मल्लाः ।" Matches!
"शयण्डाः। सङ्घग्रहणं किम्। सम्राट्। वाहीकेष्विति किम्। शबराः। पुलिन्दाः।" Let's check: शयण्डाः । सङ्घग्रहणं किम् । सम्राट् । वाहीकेष्विति किम् । शबराः । पुलिन्दाः । Matches!
"अब्राह्मणराजन्यादिति
॥ काशिका ॥ ५ ॥ ३ ॥ ४५७ रक्षस् । बाह्लीक । वयस् । महत् । दशार्ह । पिशाच । विशाल । वाशति । जाँवोषण । सत्वत् । वसु । पर्श्वादिः ॥ यौधेय । कौशेय । क्रोष्टेय । शौक्रेय । बौधेय । धार्त्तेय । वार्त्तेय । जाबालेय । त्रिगर्त । भरत । उशीनर । यौधेयादिः ॥ अभिजिद्विद्भृच्छालावच्छिखावच्छमीवद्दूर्णावच्छ्रु- मद्भ्यो यञ् ॥ ११८ ॥ आयुधजीविसंघादिति निवृत्तम् । अभिजिदादिभ्यो ऽणन्तेभ्यः प्राति- पदिकेभ्यः स्वार्थे यञ् प्रत्ययो भवति । अभिजितो ऽपत्यमित्यण् । तदन्ता- द्यञ् । आभिजित्यः । आभिजित्यौ । आभिजिताः । वैद्भृत्यः । वैद्भृत्यौ । वैद्भृताः । शालावत्यः । शालावत्यौ । शालावताः । शैखावत्यः । शामी- वत्यः । दौर्णावत्यः । श्रौमत्यः ॥ गोत्रप्रत्ययस्यात्राणो ग्रहणमिष्यते ॥ अभि- जितो मुहूर्तः । आभिजितः । स्थालीपाक इत्यत्र न भवति ॥ ञ्यादयस्तद्राजाः ॥ ११९ ॥ पूगाञ्ञ्यो ग्रामणीपूर्वादित्यतः प्रभृति ये प्रत्ययाः ते तद्राजसंज्ञाभवन्ति । तथा चैवोदाहृतम् । तद्राजप्रदेशाः तद्राजस्य बहुष्वित्येवमादयः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमस्याध्यायस्य तृतीयः पादः ॥ ॥ अथ पञ्चमस्याध्यायस्य चतुर्थः पादः ॥ पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च ॥ १ ॥ पादशतान्तस्य संख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो भवति । तत्सन्नियोगेन चान्तस्य लोपो भवति । यस्येति लोपेनैव सिद्धेपुनर्वि- धानमनेमित्तिकार्थम् । यस्येति लोपः परनिमित्तकः । तस्य स्थानिवद्भावात्पादः पद्दिति पद्भावो न स्यात् । अस्य स्वनिमित्तिकत्वाच्च स्थानिवत्त्वम् । द्वौद्वौ पादौ ददाति, द्विपदिकां ददाति । द्वे द्वे शते ददाति, द्विशतिकां ददाति । तद्धि- तार्थेति समासः । ततः प्रत्ययः । स्वभावाच्च वुन्प्रत्ययान्तं स्त्रियामेव वर्तते । पादशतस्येति किम् । द्वौद्वौ माषौ ददाति । संख्यादेरिति किम् । पादंपादं ददाति । वीप्सायामिति किम् । द्वौपादौ ददाति । द्वे शते ददाति । पाद- शतग्रहणमनर्थकमन्यत्रापि दर्शनात् । द्विमौदकिकां ददाति, त्रिमौदकिकां ददाति ॥ दण्डव्यवसर्गयोश्च ॥ २ ॥
दमनं दण्डः। दानं व्यवसर्गः। दण्डव्यवसर्गयोर्गम्यमानयोः पादशता- न्तात् प्रातिपदिकात् संख्यादेर्वुन् प्रत्ययो भवति, अन्तलोपश्च। अपीप्साऽर्थ- मारम्भः। द्वौ पादौ दण्डितः। द्विपदिकान्दण्डितः। द्वौ पादौ व्यवसृजति। द्विपदिकां व्यवसृजति। द्विशतिकां दण्डितः। त्रिशतिकां। द्विशतिकां व्यव- सृजति। त्रिशतिकां ॥ स्थूलादिभ्यः प्रकारवचने कन् ॥ ३ ॥ स्थूलादिभ्यः प्रकारवचने द्योत्ये कन् प्रत्ययो भवति। जातीयरोपवादः। प्रकारो विशेषः। स्थूलप्रकारः, स्थूलकः। अणुकः। माषकः॥ कन्प्रकरणे चञ्च- द्बृहतो रुपसंख्यानम् ॥ * ॥ चञ्चत्प्रकारः, चञ्चत्कः। बृहत्कः। चञ्चद्बृहत्योरिति के चित्पठन्ति। तेषां चञ्चकः, बृहक इति उदाहरणं द्रष्टव्यम्। केण इति [L1
ोरिति, it has कwithoutथ: looks like सक्यक्ष्णोरिति. Let's write सक्यक्ष्णोरिति`.
Everything is verified against the scanned image. Ready to output cleanly.॥ काशिका ॥ ५ ॥ ४ ॥ ४५९ अवबृहत् आशितंगु अलंकर्म अलंपुरुष इत्येतेभ्यो ऽध्युत्तरपदाच्च स्वार्थे खः प्रत्ययो भवति । अविद्यमानानि बहतीत्यस्येति बहुव्रीहिः । बहुव्रीहौ सक्यक्ष्णोरिति षच् । ततः खप्रत्ययः । अवबृहतीषो मन्त्रः । यो द्वाभ्यामेव क्रियते न बहुभिः । आशिता गावो ऽस्मिंश्चरणे आशितंगवीनमरण्यम् । नि- पातनात्पूर्वपदस्य मुमागमः । अलंकर्मन् । अलंपुरुष इति । पर्यादयो ग्लाना- द्यर्थे चतुर्थ्येति समासः । अलंकर्मणे,ऽलंकर्मीणः । अलंपुरुषाय, अलंपुरुषीणः । अध्युत्तरपदस्त्युक्तः । अधिशब्दः शाण्डादिषु पठ्यते । राजाधीनः । नित्य- श्चायं प्रत्यय
७६० ॥ काशिका ॥ ५ ॥ ४ ॥ स्वतः प्रकर्षो नास्ति तथापि गुणक्रियास्थः प्रकर्षो यदा द्रव्येऽपचर्यते तदा ऽयं प्रतिषेधः। क्रियामुख्ययोरेवायं प्रकर्षे प्रत्ययः। किंतराम्। किंतमाम्। पूर्वेद्यु- तराम्। पूर्वेद्युतमाम्। पचतितराम्। पचतितमाम्। उच्चैस्तराम्। उच्चैस्त- माम्। अद्रव्यप्रकर्षेऽति किम्। उच्चैस्तरः। उच्चैस्तमः॥ अमुचच्छन्दसि ॥ १२ ॥ किमेत्तिङव्ययघादद्रव्यप्रकर्षे अमु प्रत्ययो भवति छन्दसि विषये। चका- रादामु च। प्रतरं नयामः। प्रतरां वस्यः। स्वरादिषु अम् आम् इति पठ्यते। तस्मात्तदन्तस्याव्ययत्वम् ॥ अनुगादिनष्ठक् ॥ १३ ॥ अनुगदतीत्यनुगादी। अनुगादिन्शब्दात्स्वार्थे ठक् प्रत्ययो भवति। आनुगादिकः॥ शचः स्त्रियामञ् ॥ १४ ॥ कर्मव्यतिहारे शच् स्त्रियामिति यद्विहितः, तदन्तात्स्वार्थे ऽञ् प्रत्ययो भवति स्त्रियां विषये। व्यावक्रोशी। व्यावहासी वर्तते। स्त्रीग्रहणं किमर्थं यावता शच् स्त्रियामेव विहितः। ततः स्वार्थिकस्तत्रैव भविष्यति। एवं तर्ह्य- तज् ज्ञापयति स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते ऽपीति। तेन गुडकल्पा द्राक्षा। तैलकल्पा प्रसन्ना। देव एव देवतेत्येवमाद्युपपन्नं भवति ॥ अभिनुशः ॥ १५ ॥ अभिविधौ भावइनुण् विहितस्तदन्तात्स्वार्थे ऽञ् प्रत्ययो भवति। सां- राविणं वर्त्तते। सांकूटिनम् ॥ विसारिणो मत्स्ये ॥ १६ ॥ विसरतीति विसारी। विसारिन्शब्दात्स्वार्थे ऽञ् प्रत्ययो भवति मत्स्ये ऽभिधेये। वैसारिणो मत्स्यः। मत्स्यइति किम्। विसारी देवदत्तः॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ॥ १७ ॥ संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः स्वार्थे कृत्वसुच् प्रत्ययो भवति। पौनःपुन्यमभ्यावृत्तिः। एककर्तृकाणां तुल्यजातीयानां क्रियाणां जन्म- संख्यानं क्रियाभ्यावृत्तिगणनं तत्र प्रत्ययः। पञ्च वारान्भुङ्क्ते पञ्चकृत्वः। सप्त- कृत्वः। संख्याया इति किम्। भूरीन्वारान्भुङ्क्ते। क्रियाग्रहणं किमर्थम्। याव- ताभ्यावृत्तिः क्रियाया एव संभवति न द्रव्यगुणयोः। उत्तरार्थं क्रियाग्रहणम्। एकस्य सकृच्चेत्यत्र क्रियैव गण्यते नाभ्यावृत्तिः, असंभवात्। अभ्यावृत्तिग्रहणं
॥ काशिका ॥ ५ ॥ ४ ॥ ४६१
किम्। क्रियामात्रगणने मा भूत्। पञ्चपाकाः। दशपाकाः। गणनग्रहणं किमर्थम्। यावता गणनात्मिकैव संख्या। अक्रियमाणे गणनग्रहणे क्रियाभ्या- वृत्तौ वर्त्तमानेभ्यः संख्योपवचनेभ्य एव प्रत्ययः स्यात्। शतवारान्भुङ्क्ते, शतकृत्व इति। इह न स्यात्। शतं वाराणां भुङ्क्त इति। नह्यत्राभ्यावृत्तौ शतशब्दः। संख्यानमात्रवृत्तित्वात्। गणनग्रहणात्तु सर्वत्र सिद्धं भवति॥ द्वित्रिचतुर्भ्यः सुच्॥ १८॥ द्वि त्रि चतुर् इत्येतेभ्यः संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्त्तमानेभ्यः सुच् प्रत्ययो भवति। कृत्वसुचो ऽपवादः। द्विर्भुङ्क्ते। त्रिर्भुङ्क्ते। चतुर्भुङ्क्ते। सकारः स्वरार्थः॥ एकस्य सकृच्च॥ १९॥ एकशब्दस्य सकृदित्ययमादेशो भवति सुच्च प्रत्ययः क्रियागणने। कृत्व- सुचो ऽपवादः। अभ्यावृत्तिस्त्विह न संभवति। सकृद्भुङ्क्ते। सकृदधीते। एकः पाक इत्यत्र न भवति, अनभिधानात्॥ विभाषा बहुर्द्धा ऽविप्रकृष्टकाले॥ २०॥ बहुशब्दात् क्रियाभ्यावृत्तिगणने वर्त्तमानात् विभाषा धा प्रत्ययो भवति। कृत्वसुचो ऽपवादः। पक्षे सोऽपि भवति। अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशे- षणम्। क्रियाणामभ्यासाश्चेदासन्नकालाः भवन्ति, न विप्रकृष्टकालाः। बहुधा दिवसस्य भुङ्क्ते। बहुकृत्वो दिवसस्य भुङ्क्ते। अविप्रकृष्टकाल इति किम्। बहु- कृत्वो मासस्य भुङ्क्ते॥ तत्प्रकृतवचने मयट्॥ २१॥ तदिति प्रथमा समर्थविभक्तिः, प्राचुर्येण प्रस्तुतं प्रकृतम्। प्रथमासम- र्थात् प्रकृतोपाधिकेऽर्थे वर्त्तमानात्स्वार्थे मयट् प्रत्ययो भवति। टकारो ङीबर्थः। अन्नं प्रकृतम्, अन्नमयम्। अपूपमयम्। अपरे पुनरेवं सूत्रार्थमाहुः। प्रकृतमित्यु- च्यतेऽस्मिन्निति प्रकृतवचनं, तदिति प्रथमासमर्थात्प्रकृतवचने ऽभिधेये मयट् प्रत्ययो भवति। अन्नं प्रकृतमस्मिन्नन्नमयो यज्ञः। अपूपमयं पर्व। वटकमयी यात्रा। द्वयमपि प्रमाणमुभयथा सूत्रप्रणयनात्॥ समूहवच्च बहुषु॥ २२॥ तत्प्रकृतवचनइत्येव। बहुषु प्रकृतेषूच्यमानेषु समूहवत्प्रत्यया भवन्ति। चकारान्मयट् च। मोदकाः प्रकृताः प्राचुर्येण प्रस्तुताः, मौदकिकम्। मोदक- मयम्। शाष्कुलिकम्। शष्कुलीमयम्। अतिवर्त्तन्तेऽपि स्वार्थिकाः प्रकृतिभ्यो
[header] ४६२ ॥ काशिका ॥ ५ ॥ ४ ॥ [/header]
लिङ्गवचनानि । द्वितीये सूत्रार्थे मोदकाः प्रकृता अस्मिन्यज्ञे, मौदकिको यज्ञः । मोदकमयः । शाष्कुलिकः । शष्कुलीमयः ॥ अनन्तावसथेतिहभेषजाञ् ञ्यः ॥ २३ ॥ अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति । अनन्त एव, आनन्त्यम् । आवसथ एवावसथ्यम् । इति ह, ऐतिह्यम् । निपातसमुदायो ऽयमुपदेशपार- म्पर्ये वर्तते । भेषजमेव, भैषज्यम् । महाविभाषया विकल्प्यते प्रत्ययः ॥ देवतान्तात्तादर्थ्ये यत् ॥ २४ ॥ देवताशब्दान्तात्प्रातिपदिकाच्चतुर्थीसमर्थात्तदर्थ्ये यत् प्रत्ययो भवति । तदर्थ एव तादर्थ्यम् । चातुर्वण्यादित्वात्ष्यञ् । तदिति प्रकृत्यर्थो निर्दिश्यते । अग्निदेवतायै इदम्, अग्निदेवत्यम् । पितृदेवत्यम्
॥ काशिका ॥ ५ ॥ ४ ॥ ४६३ तादर्थ्य इत्येव। अतिथिशब्दाच्चतुर्थीसमर्थात्तादर्थ्ये ऽभिधेये ञ्यः प्रत्ययो भवति। अतिथये इदम्। आतिथ्यम् ॥ देवात्तल् ॥ २७ ॥ तादर्थ्य इति निवृत्तम्। देवशब्दात् स्वार्थे तल् प्रत्ययो भवति। देव एव देवता ॥ अवेः कः २८ ॥ अविशब्दात् स्वार्थे कः प्रत्ययो भवति। अविरेवाविकः ॥ यावादिभ्यः कन् ॥ २९ ॥ याव इत्येवमादिभ्यः स्वार्थे कन् प्रत्ययो भवति। याव एव, यावकः। मणिकः। याव। मणि। अस्थि। चण्ड। पीतस्तम्ब॥ स्नातावुच्छीते॥ पशो लूनविधाने॥ अणु निपुणे॥ पुत्र कृत्रिमे॥ स्नात वेदसमाप्तौ॥ शून्य रिक्ते॥ दानकुत्सिते॥ तनु सूत्रे॥ ईयसश्च॥ श्रेयस्कः। ज्ञात॥ कुमारक्रीडनकानि च॥ लोहितान्मणौ ॥ ३० ॥ लोहितशब्दान्मणी वर्तमानात्स्वार्थे कन् प्रत्ययो भवति। लोहितो मणिः। लोहितकः। मणाविति किम्। लोहितः॥ वर्णे चानित्ये ॥ ३१ ॥ अनित्ये वर्णे वर्तमानाल्लोहितशब्दात्स्वार्थे कन्प्रत्ययो भवति। लोहि- तकः कोपेन। लोहितकः पीडनेन। अनित्य इति किम्। लोहितो गौः। लोहितं रुधिरम्॥ लोहिताल्लिङ्गबाधनं वा वक्तव्यम्॥ * ॥ लोहितिका कोपेन। लोहिनिका कोपेन॥ रक्ते ॥ ३२ ॥ लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्प्रत्ययो भवति। लोहितकः कम्बलः। लोहितकः पटः। लिङ्गबाधनं वेत्येव। लोहितिका। लोहिनिका शाटी॥ कालाच्च ॥ ३३ ॥ वर्णे चानित्ये रक्तइति द्वयमप्यनुवर्त्तते। कालशब्दादनित्ये वर्त्तमाना- द्रक्ते च कन् प्रत्ययो भवति। कालकं मुखं वैलक्ष्येण। रक्ते। कालकः पटः। कालिका शाटी॥ विनयादिभ्यष्ठक् ॥ ३४ ॥ विनय इत्येवमादिभ्यः स्वार्थे कन् प्रत्ययो भवति। विनय एव, वैन- यिकः। सामयिकः। औपयिकः। विभाषाग्रहणेन विकल्प्यते प्रत्ययः। विनय। समय॥ उपायाद्द्र्ह्रस्वत्वं च॥ संगति। कथंचित्। अकस्मात्। समयाचार।
कृष्ण मृगे॥ चिकीर्षत्। चोर। शुक। योध।" Wait, look at the symbols between words in L26: "श्रोत्र शरीरे॥ श्रौत्रम्। जुह्वत्॥ कृष्ण मृगे॥ चिकीर्षत्। चोर। शुक। योध।" Wait, after 'जुह्वत्' there is '॥' (double danda). After 'कृष्ण मृगे' there is '॥'. After 'श्रोत्र शरीरे' there is '॥'.
Now L27: "वर्चस्‡। धूर्त्त। वस्। एत्। मरुत्। क्रुङ्। राज्ञ। सत्त्वन्तु। दशार्ह। वयस्।" Wait:
- वर्चस्‡ (with dagger/double cross ‡)
- धूर्त्त।
- वस्।
- एत्।
- मरुत्।
- क्रुङ्। (kruṅ)
- राज्ञ। (rājña)
- सत्त्वन्तु। (sattvantu)
- दशार्ह। (daśārha)
- वयस्। (vayas)
Now L28: "आतुर§। रक्षस्। पिशाच। अशनि। कार्षापण। देवता। बन्धु॥" Wait, "आतुर§": section sign § after आतुर. Then: रक्षस्। पिशाच। अशनि।
॥ काशिका ॥ ५ ॥ ४ ॥ ४६५ मृदस्तिकन् ॥ ३९ ॥ मृच्छब्दात्स्वार्थे तिकन् प्रत्ययो भवति। विकल्पः सर्वत्रानुवर्त्तते। मृदेव, मृत्तिका ॥ सत्नौ प्रशंसायाम् ॥ ४० ॥ प्रशंसापाधिकेऽर्थे वर्त्तमानाद् मृच्छब्दात्स ख इत्येतौ प्रत्ययौ भवतः। रूपपोपवादः। प्रशस्ता मृत्, मृत्सा। मृत्स्ना। नित्यश्चायं प्रत्ययः। उत्तर- सूत्रे ऽन्यतरस्यांग्रहणात् ॥ वृकज्येष्ठाभ्यां तिल्तातिलौ चच्छन्दसि ॥ ४१ ॥ प्रशंसायामित्येव। वृकज्येष्ठाभ्यां प्रशंसोपाधिकेऽर्थे वर्त्तमानाभ्यां यथा- संख्यं तिल्तातिलौ प्रत्ययौ भवतश्छन्दसि विषये। रूपपोपवादौ। वृकतिः। ज्येष्ठातातिः ॥ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ॥ ४२ ॥ बह्वर्थादल्पार्थाच्च कारकाभिधायिनः
अर्जुनतो ऽभवन् । आदित्याः कर्णतो ऽभवन् । षष्ठी चात्र पक्षा- र्थेष्वेव । अर्जुनस्य पक्षे कर्णस्य पक्ष इत्यर्थः । व्याश्रयेति किम् । वृक्षस्य शाखा ॥
Wait, check L28 start: "र्तरीत्येव ।" vs "र्त्तरीत्येव ।": In L28, it has single त: 'र्तरीत्येव ।'. Look at 'र्त': yes, single 'त' with repha! Check L24: "विभक्तिरकर्त्तरि" vs "विभक्तिरकर्तरि": In L24: "विभक्तिरकर्त्तरि" - it has double त्त. In L23: "अकर्त्तरि" - double त्त. In L14: "क्षेपेष्वकर्त्तरि" - double त्त. In L16: "चेत्कर्त्तरि" - double त्त. In L21: "अकर्त्तरीति" - double त्त. In L28: "र्तरीत्येव" - wait, look at L28: it has 'र्त' or 'र्त्त'? Ah, look at L28: the letter has a repha, and underneath, it is 'र्त' or 'र्त्त'? Wait, the vertical stroke has a crossbar? No, it looks like 'र्त' or maybe slightly smudged
॥ काशिका ॥ ५ ॥ ४ ॥ ४६७ रोगाच्चापनयने ॥ ४९ ॥ रोगो व्याधिः । तद्वाचिनः शब्दाद्या षष्ठी विभक्तिः तदन्ताद्वा तसिः प्रत्ययो भवति अपनयने गम्यमाने । अपनयनं प्रतीकारः, चिकित्सेत्यर्थः । प्रवा- हिकातः कुरु । कासतः कुरु । छर्दिकातः कुरु । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयनइति किम् । प्रवाहिकायाः प्रकोपनं कुरु ॥ अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्त्तरि च्विः ॥ ५० ॥ कारकस्य विकाररूपेण भूतस्य तदात्मना भावो ऽभूततद्भावः । संप- द्यतेः कर्त्ता संपद्यकर्त्ता । संपद्यकर्त्तरि वर्त्तमानात्प्रातिपदिकादभूततद्भावे गम्य- माने कृभ्वस्तिभिर्धातुभिर्योगे च्विः प्रत्ययो भवति । अशुक्लः शुक्लः संपद्यते, तं करोति शुक्ली करोति । मलिनं शुक्ली भवति । शुक्ली स्यात् । घटी करोति मृदम् । घटी भवति । घटीस्यात् । अभूततद्भावइति किम् । शुक्लं करोति । नात्र प्रकृतिर्विवक्षिता । कृभ्वस्तियोगइति किम् । अशुक्लः शुक्लो जायते । संप- द्यकर्त्तरीति किम् । यावता अभूततद्भावसामर्थ्याल्लभ्यतएव संपद्यकर्तृत्वम् । कारकान्तरसंपत्तौ मा भूत् । शदवेण्वोर् देवगृहे संपद्यते । देवगृहस्याधेयविशे- षसंबन्धेनाभूततद्भावः सत्त्वाधिकरणस्य न कर्तुरिति ॥ अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥ ५१ ॥ अरुः प्रभृतीनामन्तस्य लोपो भवति च्विश्च प्रत्ययः । सर्वविशेषकसंब- न्धात्पूर्वेणैव प्रत्ययः सिद्धे लोपमात्रार्थं चारम्भः । अनरुः संपद्यते तं करोति, अरू करोति । अरू भवति । अरू स्यात् । मनस् । उन्मनी करोति । उन्मनी भवति । उन्मनी स्यात् । चक्षुस् । उच्चक्षू करोति । उच्चक्षू भवति । उच्चक्षू स्यात् । चेतस् । विचेती करोति । विचेती भवति । विचेती स्यात् । रहस् । विरही करोति । विरही भवति । विरही स्यात् । रजस् । विरजी करोति विरजी भवति । विरजी स्यात् ॥ विभाषा साति कात्स्न्र्य्ये ॥ ५२ ॥ अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्त्तरीति सर्वमनुवर्त्तते । अस्मिन्विषये विभाषा सातिः प्रत्ययो भवति कात्स्न्र्य्ये गम्यमाने । यदि प्रकृतिः कृत्स्नं विका- रात्मतामापद्यातइत्यर्थः । अग्निसाद्भवति शस्त्रम् । अग्नीभवति शस्त्रम् । उद- कसाद्भवति लवणम् । उदकीभवति लवणम् । कात्स्न्र्ये इति किम् । एकदेशेन पटः शुक्ली भवति । विभाषाग्रहणं च्वेः प्रापकम् । प्रत्ययविकल्पस्तु महाविभा- षयैव सिद्धः ॥ अभिविधौ संपदा च ॥ ५३ ॥
४६८ ॥ काशिका ॥ ५ ॥ ४ ॥ अभिविधिरभिव्याप्तिः । अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति संपदा योगे, चकारात्कृभ्वस्तिभिश्च । विभाषाग्रहणानुवृत्तेश्चिरप्य- नुज्ञायते । स च कृभ्वस्तियोगएव भवति न संपदा । अग्निसात्संपद्यते । अग्नि- साद्भवति । उदकसात्संपद्यते । उदकसाद्भवति लवणम् । अग्नीभवति । उद- कीभवति । अथाभिविधेः कार्त्स्न्यस्य च को विशेषः । यत्रैकदेशेनापि सर्वो प्रकृतिर्विकारमापद्यते सोभिविधिः । यथा ऽस्यां सेनायामुत्पातेन सर्वं शस्त्र- मग्निसात्संपद्यते । वर्षासु सर्वं लवणमुदकसात्संपद्यतइति । कार्त्स्न्यं तु सर्वो- त्मना द्रव्यस्य विकाररूपापत्तौ भवति ॥ तदधीनवचने ॥ ५४ ॥ अभूततद्भावइति निवृत्तम् अर्थान्तरोपादानात् । कृभ्वस्तियोगे संपदा चेति वर्तते । तदधीनं तदायत्तं तत्स्वामिकमित्यर्थः । स्वामिसामान्यमीशितव्य- सामान्यं च तदधीनशब्देन निर्दिश्यते । स्वामिविशेषवाचिनः प्रातिपदिकादधी- तव्ये ऽभिधेये सातिः प्रत्ययो भवति कृभ्वस्तिभिः संपदा च योगे । राजाधीनं करोति, राजसात्करोति । राजसाद्भवति । राजसात्स्यात् । राजसात्संपद्यते । ब्राह्मणसात्करोति । ब्राह्मणसाद्भवति । ब्राह्मणसात्स्यात् । ब्राह्मणसात्संपद्यते ॥ देये त्रा च ॥ ५५ ॥ तदधीनवचनइत्यनुवर्त्तते । तस्य विशेषणं देयग्रहणम् । दातव्यं देयं, तदधीने देये त्रा प्रत्ययो भवति चकारात्सातिश्च कृभ्वस्तिभिः संपदा च योगे । ब्राह्मणेभ्यो देयमिति यद्विज्ञातं तद्यदा तेषां समर्पणेन तदधीनं क्रियते तदा त्रा प्रत्ययः । ब्राह्मणाधीनं देयं करोति, ब्राह्मणसात्करोति । ब्राह्मणत्रा करोति । ब्रह्मणत्रा भवति । ब्राह्मणत्रा स्यात् । ब्राह्मणत्रा संपद्यते । देय- इति किम् । राजसाद्भवति राष्ट्रम् ॥ देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ ५६ ॥ सातिर्निवृत्तः त्राप्रत्ययो ऽनुवर्त्तते । देवादिभ्यः प्रातिपदिकेभ्यो द्विती- यासप्तम्यन्तेभ्यः त्रा प्रत्ययो भवति बहुलम् । कृभ्वस्तिभिरिति नात्र संबध्यते । सामान्येन विधानम् । देवान् गच्छति, देवत्रा गच्छति । देवेषु वसति, देवत्रा वसति । मनुष्यान् गच्छति, मनुष्यत्रा गच्छति । मनुष्येषु वसति, मनुष्यत्रा वसति । एवमन्येष्वप्युदाहार्यः । पुरुषान्गच्छति, पुरुषत्रा गच्छति । पुरुषेषु वसति, पुरुषत्रा वसति । पुरुन्गच्छति, पुरुत्रा गच्छति । पुरुषु वसति, पुरुत्रा वसति । मर्त्यान्वसति, मर्त्यत्रा वसति । मर्त्येषु वसति, मर्त्यत्रा वसति । बहुलवचना- दन्यत्रापि भवति । बहुत्रा जीवतो मन इति ॥