किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
अष्टमः सर्गः १२१
अष्टमः सर्गः १२१
नखांशूत्करमञ्जरीभृतः = स्फुरन्नखकिरणपुञ्जमञ्जरीयुताः। विलासिनीबाहुलताः = सुरसुन्दरीभुजलताः। सिषेविरे = भेजिरे। अत्र रूपकालङ्कारः।
कोषः—'भुजबाहू प्रवेष्टो दोः' इत्यमरः।
हिन्दी—अङ्गरागादिलेपन की सुगन्ध पर आकृष्ट वनभ्रमरों ने पतली लाक्षारस से रंगे हुए हाथोंवाली सुरसुन्दरियों की भुजलाताओं का सेवन किया। उनके नाखूनों से निकलती हुई किरणें मञ्जरियों के समान ज्ञात होती थीं॥५॥
निपीयमानस्तवका शिलीमुखैरशोकयष्टिश्चलवालपल्लवा।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम् ॥ ६ ॥
अन्वयः—शिलीमुखैः निपीयमानस्तवका चलवालपल्लवा अमन्ददष्टोष्ठकरावधूननम् विडम्बयन्ती अशोकयष्टिः ददृशे।
विग्रहः—निपीयमानः स्तवकः यस्याः सा = निपीयमानस्तवका। चलाः बालपल्लवाः यस्याः सा = चलवालपल्लवा। अमन्दं दष्ट ओष्ठो यस्मिन्, तत्करावधूननम् = अमन्ददष्टोष्ठकरावधूननम्। अशोकस्य यष्टिः = अशोकयष्टिः।
अर्थः—शिलीमुखैः = भ्रमरैः। निपीयमानस्तवका = पीयमानगुच्छा। चलवालपल्लवा = चञ्चलनूतनदला। अमन्ददष्टोष्ठकरावधूननम् = दृढदष्टोष्ठकरकम्पनम्। विडम्बयन्ती = अनुकुर्वती। अशोकयष्टिः = अशोकशाखा। ददृशे = दृष्टा।
कोषः— 'अलिबाणौ शिलीमुखौ' इत्यमरः।
हिन्दी—भ्रमरों ने अशोकलता के पुष्पगुच्छों का मधुपान कर लिया था उसके नये निकले हुए पत्ते इस प्रकार हिल रहे थे जैसे तीक्ष्ण ओष्ठदंश (ओष्ठ में काटना) के कारण भौरों को उड़ाने के लिए हाथ अप्सराओं के हिल रहे हों। (यह दृश्य सुरसुन्दरियों के लिए बड़ा मनोरम था) ॥ ६ ॥
अथ कश्चिद् मधुपाक्रान्तां काञ्चिदाह—
करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम्।
उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥ ७ ॥
अन्वयः—हे मानिनि ! नवपल्लवाकृती करौ धुनाना वृथा परिश्रमं मा कृथाः कल्पलताभिशङ्कया उपेयुषी षट्पदावलिः कथं नु इतः त्रस्यति।
१२२ किरातार्जुनीयम्
विग्रहः— नवस्य पल्लवस्य आकृतिरिवाकृतिर्ययोस्तौ = नवपल्लवाकृती । कल्पलतायाः अभिशङ्का, तया = कल्पलताभिशङ्कया । षट् पदानि सन्ति एषां ते = षट्पदाः । षट्पदानाम्आवलिः = षट्पदावलिः ।
अर्थः— मानिनि = अयि मानशीले ! नवपल्लवाकृती = नवदलरूपौ । करो = हस्तौ । धुनाना = कम्पायमाना । वृथा = व्यर्थम् । परिश्रमम् = श्रमम् । मा कृथाः = मा कुरुष्व । कल्पलताभिशङ्कया = कल्पद्रुमभ्रान्त्या । उपेयुषी = उपगता । षट्पदावलिः = भ्रमरपङ्क्तिः । कथं । नु = किल । इतः = अस्मात् । त्रस्यसि = बिभेसि । न त्रस्यत्येवेत्यर्थः ॥ ७ ॥
कोषः— 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः ।
हिन्दी— किसी अप्सरा को भौंरों ने घेर लिया है इसपर कोई व्यक्ति कहता है—हे मानशालिनी ! नये पत्तों के समान आकृतिवाले हाथों को हिलाहिला कर तुम व्यर्थ परिश्रम न करो। कल्पवृक्ष की शङ्का से यह भ्रमरालि तुम्हारे पास आई है । तुम डरती क्यों हो ॥ ७ ॥
अथ काचित्सखी काञ्चित्प्रणयकुपितामाह—
जहीहि कोपं दयितोऽनुगम्यतां पुराऽनुशेते तव चञ्चलं मनः । इति प्रियं काञ्चिदुपैतुमिच्छतो पुराऽनुनिन्ये निपुणः सखीजनः ॥ ८ ॥
अन्वयः— प्रियम् उपैतुम् इच्छती काञ्चित् निपुणः सखीजनः कोपं जहीहि दयितोऽनुगम्यताम् । चञ्चल तव मनः पुरा अनुशेते इति पुरः अनुनिन्ये ।
विग्रहः— सखी एव जनः = सखीजनः ।
अर्थः— प्रियम् = प्रणयिनम् । उपैतुम् = समीपं गन्तुम् । इच्छन्तीम् = अभिलषन्तीम् । काञ्चित् = नायिकाम् । निपुणः = चित्तज्ञः । सखीजनः = प्रिया-जनः । कोपम् = क्रोधम् । जहीहि = त्यज । दयितोऽनुगम्यताम् = प्रियोऽनुस्रियताम् । चञ्चलं = चपलं । तव = ते । मनः = चित्तम् । पुरा अनुशेते = अग्रेऽनुशयिष्यते । इति = इत्थम् । पुरः = पूर्वम् एव । अनुनिन्ये = प्रसादयामास ।
कोषः— 'कोपक्रोधामर्षरोषप्रतिघा' इत्यमरः ।
हिन्दी— किसी प्रणय-कुपिता सखी से कोई सखी कहती है :—क्रोध छोड़
अष्टमः सर्गः १२३
अष्टमः सर्गः १२३
दो। प्रिय का अनुसरण करो। तुम्हारा चञ्चल मन आगे चलकर समझ में आवेगा। इस प्रकार प्रेमी के पास जाने की इच्छुक किसी युवती सखी को एक दूसरी चतुर सखी ने पहले ही अनुकूल कर लिया ॥ ८ ॥
अथ चतुर्भिः श्लोकैः कलापकमाह—
समुन्नतैः काशदुकूलशालिभिः परिक्कणत्सारसपंक्तिमेखलैः।
प्रतीरदेशैः स्वकलत्रचारुभिर्विभूषिताः कुञ्जसमुद्रयोषितः ॥ ९ ॥
अन्वयः—समुन्नतैः काशदुकूलशालिभिः परिक्कणत्सारसपंक्तिमेखलैः। स्वकलत्रचारुभिः प्रतीरदेशैः विभूषिताः कुञ्जसमुद्रयोषितः ।
विग्रहः—काशानि तानि दुकूलानि इव तैः शालन्ते इति तैः = काशदुकूलशालिभिः । सारसानां पंक्तयः = सारसपङ्क्तयः । सारसपङ्क्तयः मेखला इव, ताः परिक्कणन्त्यः येषु ते तैः परिक्कणत्सारसपंक्तिमेखलैः । स्त्रैषां कलत्राणि, तद्वच्चारवस्तैः = स्वकलत्रचारुभिः । प्रतीरे देशास्तैः = प्रतीरदेशैः । कुञ्जानां समुद्रयोषितः = कुञ्जसमुद्रयोषितः ।
अर्थः—समुन्नतैः = उच्चैः । काशदुकूलशालिभिः = झझवालकुसुमवस्त्रशालिभिः । परिक्कणत्सारसरूपंक्तिमेखलैः = नदत्सारसराजिमेखलैः । स्वकलत्रचारुभिः = आत्मस्त्रीजनरुचिरैः । प्रतीरदेशैः = तटप्रदेशैः । विभूषिताः = अलङ्कृताः । कुञ्जसमुद्रयोषितः = वननद्यः ।
कोषः—'स्त्रीकट्या मेखला कांची सप्तकी रशना तथा' इत्यमरः ।
हिन्दी—शैल-सरितायें अत्यन्त ऊँचे-ऊँचे तटों से शोभित हो रही थीं ! उनके तट वस्त्र (चादर) के समान लगते हुए विकसित काश कुसुमों से शोभित थे, जिनपर ध्वनि करती हुई सारस-पंक्तियां मेखलाओं जैसी लग रही थीं। वे तट अपनी प्रियतमा के नितम्ब भाग (ऊँचे नीचे होने से) के समान रुचिकर प्रतीत होते थे ॥ ९ ॥
विदूरपातेन भिदामुपैयुषश्च्युताः प्रवाहादभितः प्रसारिणः ।
प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥ १० :
अन्वयः—विदूरपातेन भिदाम् उपेयुषः प्रवाहात् च्युताः अभितः प्रसारिणः प्रियाङ्कशीताः शुचिमौक्तिकत्विषः वनप्रहासा इव वारिबिन्दवः ।
विग्रहः—विदूरात् पातेन = विदूरपातेन । प्रियायाः अङ्कः = प्रियाङ्कस्त-
१२४ किरातार्जुनीयम्
द्वत् शीताः = प्रियाङ्कशीताः । शुचीनां मौक्तिकानां त्विष इव त्विषः येषां ते = शुचिमोक्तिकत्विषः। वनस्य प्रहासाः = वनप्रहासाः । इव । वारीणां विन्दवः= वारिविन्दवः ।
अर्थः--विदूरपातेन = दूरतः पतनेन । भिदां = भेदम् । उपेयुषः = उपगतान्, प्रवाहात = प्रवेगात् । च्युताः = भ्रष्टाः अभितः = अभिमुखम् । प्रसारिणः= प्रसर्पन्तः । प्रियाङ्कशीताः = प्रियोत्सङ्गशीतलाः । शुचिमोक्तिकत्विषः = शुभ्रमोक्तिककान्तयः । वनप्रहासाः = उपवनहासाः इव । वारिविन्दवः = जलशीकराः। स्थिताः इति शेषः । अत्रोत्प्रेक्षोपमयोः संसृष्टिः ।
कोषः -'मौक्तिकम् मुक्ताऽथ' इत्यमरः ।
हिन्दी--ऊँचाई से गिरने के कारण नदियों के प्रवाह विच्छिन्न हो गये थे जिससे इधर-उधर फैले हुए जल विन्दु प्रेयसी की गोद के समान अतीव शीतल और मोतियों के समान चमक रहे थे । वे जल-विन्दु शोभा में वन-प्रहास से लग रहे थे ॥ १० ॥
सखीजनं प्रेमगुरुकृतादरं निरीक्षमाणा इव नम्रमूर्तयः ।
स्थिरद्विरेफाञ्जनशारितोदरैर्विशारिभिः पुष्पविलोचनैर्लताः ॥ ११ ॥
अन्वयः - स्थिरद्विरेफाञ्जनशारितोदरैः विशारिभिः पुष्पविलोचनैः प्रेमगुरुकृतादरं सखीजनं निरीक्षमाणा इव नम्रमूर्तयः लताः ।
विग्रहः — द्वौ रेफौ येषां ते द्विरेफाः । स्थिराः द्विरेफा एव अञ्जनानि, तैः शारितानि उदराणि येषां तैः = स्थिरद्विरेफाञ्जनशारितोदरैः । पुष्पाणि एव विलोचनानि, तैः = पुष्पविलोचनैः । प्रेम्णा गुरुकृतः आदरो यस्मिन् कर्मणि तत्= प्रेमगुरुकृतादरम् । नम्राः मूर्त्तयः याषा ताः नम्रमूर्तयः ।
अर्थः---स्थिरद्विरेफाञ्जनशारितोदरै = निश्चलभ्रमराञ्जनशवलीकृतोदरैः । विसारिभिः = विस्तृतैः । पुष्पविलोचनैः = कुसुमनयनैः । प्रेमगुरुकृतादरम् = प्रेम्णा विस्तारितसम्मानम् । सखीजनम् = सखीम् । निरीक्षमाणाः = पश्यन्त्यः इव । नम्रमूर्तयः = अवनताङ्गयः । लताः = शाखाश्च स्थिताः इति शेषः अत्र रूपकोत्प्रेक्षयोः संकरः ।
कोषः---'शारः शबलवातयोः' इति विश्वः ।
हिन्दी-वृक्षलताएँ फूलों से लदी हुई झुक गई थीं । फूलों पर मुग्ध
अष्टमः सर्गः १२५
अष्टमः सर्गः १२५
होकर मधुप अविचल रूप से मकरन्द पान कर रहे थे। इससे यह ज्ञात होता था जैसे लतारूपी रमणियां फूलों पर अविचल बैठे हुए काले भौरों के रूप में अञ्जन लगाये विशाल पुष्परूपी नेत्रों से प्रिय और आदरणीया सखियों को झुक- झुक कर देख रही हों ॥ ११ ॥
उपेयुषीणां बृहतीरधित्यका मनांसि जह्रुः सुरराजयोषिताम् ।
कपोलकाषैः करिणां मदारुणैरुदाहितश्यामरुचश्च चन्दनाः ॥ १२ ॥
अन्वयः-मदारुणैः करिणां कपोलकाषैः उपाहितश्यामरुचः चन्दनाः बृहतीः अधित्यका उपेयुषीणां सुरराजयोषिताम् मनांसि जह्रुः ।
विग्रहः-मदेनारुणं । कपोलानां काषैः = कपोलकाषैः । उपाहिताः श्यामाः रुचः येषु ते = उपाहितश्यामरुचः । सुरराजस्य योषितस्तासाम् = सुरराजयोषिताम् ।
अर्थः-मदारुणैः = मद्रक्तैः । करिणाम् = गजानाम् । कपोलकाषैः = गण्डस्थलघर्षणैः उपाहितश्यामरुचः = जनितकृष्णवर्णैः । चन्दनाः = चन्दनपादपाः । बृहती विपुलाः अधित्यका ऊर्ध्वभूमौः । उपेयुषीणाम् = उपसेवितवतीनाम् । सुरराजयोषिताम् = अप्सरसाम् । मनांसि = चित्तानि । जह्रुः । अपहृतवन्तः ।
कोषः--'अव्यक्तरागस्त्वरुणः' इत्यमरः । 'गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् ।' इत्यमरः ।
हिन्दी--मद से अरुण बने हुए हाथियों ने अपने गालों को खुजलाकर चन्दन-पादपों को श्यामवर्ण की कान्ति का कर दिया था। इन्द्रकील पर्वत की अधित्यकाओं पर विराजमान अप्सराओं के मन उन चन्दन-वृक्षों ने अपनी सुषमा से हर लिये थे ॥ १२ ॥
स्वगोचरे सत्यपि चित्तहारिणा
विलोभ्यमाना प्रसवेन शाखिनाम् ।
नभश्चराणा मुपकर्त्तुमिच्छतां
प्रियाणि चक्रुः प्रणयेन योषितः ॥ १३ ॥
अन्वयः--चित्तहारिणा प्रसवेन विलोभ्यमानाः योषितः स्वगोचरे सत्यपि उपकर्त्तुम् इच्छताम् नभश्चराणा प्रणयेन प्रियाणि चक्रुः ।
१२६ किरातार्जुनीयम्
विग्रहः — चित्तं हरतीति, तेन = चित्तहारिणा । नभसि चरन्तीति, तेषाम् = नभश्चराणाम् ।
अर्थः — चित्तहारिणा = मनोहरेण । शाखिनां = पादपानाम् । प्रसवेन = पुष्पजातेन । विलोभ्यमानाः = आकृष्यमाणाः, योषितः = अप्सरसः । स्वगोचरं = स्वविषये । सत्यपि उपकर्तुम् = परिचरितुम् । इच्छताम् = अभिलषताम् । नभश्चराणाम् = गन्धर्वाणाम् । प्रणयेन = सहायहेतुना । प्रियाणि = रुचिराणि । चक्रुः = विदधुः ।
कोषः — 'वृक्षो महीरुहः शाखी' इत्यमरः ।
हिन्दी — उस इन्द्रकील पर्वत पर वृक्षों के मनोहर फूलों ने अप्सराओं के मन अपनी ओर आकृष्ट कर लिये । यद्यपि उन पुष्पों को वे स्वयं तोड़ सकती थीं तथापि परिचर्याभिलाषी प्रियजनों गन्धर्वों के द्वारा चुने हुए फूलों को ही लेकर उन अप्सराओं ने उन्हें प्रसन्न कर दिया ॥ १३ ॥
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता । न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥ १४ ॥
अन्वयः — कुसुमानि प्रयच्छता दयितेन उच्चैः विपक्षगोत्रम् लम्भिता मानिनी न किञ्चिद् ऊचे केवलं बाष्पाकुललोचना चरणेन भुवं विलेख ।
विग्रहः — बाष्पैः आकुले लोचने यस्याः सा = बाष्पाकुललोचना ।
अर्थः — कुसुमानि = पुष्पाणि । प्रयच्छता = ददता । दयितेन = प्रियेण । उच्चैः = उच्चैस्तराम् । विपक्षगोत्रम् = सपत्नीनामधेयम् । लम्भिता = प्रापिता । मानिनी = गर्विता प्रेयसी । न किञ्चिद् ऊचे = नैव किञ्चिदप्युवाच । केवलम् । बाष्पाकुलोचना = सजलिनयना । चरणेन = पादेन । भुवम् = भूमिम् । विलेख = रेखांकितां चकार ।
कोषः — 'नाम गोत्रम् कुलं गोत्रम्' इति शाश्वतः ।
हिन्दी — एक अप्सरा अपने प्रियतम के द्वारा सपत्नी का नाम जोर से पुकार कर फूल देते देख कर कुछ भी नहीं बोली, बल्कि केवल आँखों में आंसू भर कर वह पैर से भूमि कुरेदने लगी ॥ १४ ॥
प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया । समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥ १५ ॥
अष्टमः सर्गः । १२७
अन्वयः—वाचं यच्छति प्रिये निबद्धदृष्टिः उन्मुखी शिथिलाकुलोच्चया अपरा अंशुकं न समादधे। पुष्पेषु वृथा आहितम् पाणिपल्लवं च न विवेद।
विग्रहः—निबद्धा दृष्टिः यस्याः सा = निबद्धदृष्टिः। उद् मुखं यस्याः सा = उन्मुखी। शिथिलः आकुलश्च उच्चयो यस्याः सा = शिथिलाकुलोच्चया। पाणिः एव पल्लवो यस्तम् = पाणिपल्लवम्।
अर्थः—वाचं यच्छति = सम्भाषति। प्रिये = प्रियजने। निबद्धदृष्टिः = निश्चलदृष्टिः। उन्मुखी = ऊर्ध्वमुखी। शिथिलाकुलोच्चया = श्लथचलितनीवीबन्धा। अपरा = अन्या। अंशुकम् = परिधानम्। न समादधे = न धृतवती। पुष्पेषु = कुसुमेषु। वृथा = व्यर्थम्। आहितम् = आरोपितम्। पाणिपल्लवम् च। न विवेद = न जज्ञे। अत्रोपमारूपकयोः संकरः।
कोषः—'नारीकट्यंशुकग्रन्थो नीवी स्यादुच्चयोऽप्यथ' इति मार्तण्डः।
हिन्दी—प्रियतम से बात (प्रेमालाप) करती हुए कोई दूसरी अप्सरा मुख ऊपर उठाकर एकटक दृष्टि से देखती ही रह गई। उसका सारा नीवी-बंधन नीचे खिसक गया और प्रेमालाप में मुग्ध होने के कारण वह वस्त्र तक न सुधार सकी अर्थात् नग्ना हो गई। फूलों पर उसका पल्लव के समान कोमल हाथ भी नहीं पड़ रहा था॥ १५॥
सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम्।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया॥ १६॥
अन्वयः—आसक्तलतान्तभूषणं कुसुमावतंसकं सलीलं समासजन्त्या कान्तया कश्चित् स्तनोपपीडं नितम्बिना घनेन जघनेन नुनुदे।
विग्रहः—आसक्ता लतान्ता भूषणं यस्य तत् आसक्तलतान्तभूषणम्। लीलया सहितं = सलीलम्। स्तनाभ्याम् उपपीड्येति = स्तनोपपीडम्।
अर्थः—आसक्तलतान्तभूषणम् = पल्लवैः सह ग्रथितम्। कुसुमावतंसकं = पुष्पशेखरम्। सलीलम् = सविलासम्। समासजन्त्या = शिरसि प्रतिदधत्या। कान्तया = प्रेयस्या। कश्चित् = प्रियः। स्तनोपपीडम् = पयोधरोरःपीडम्। नितम्बिना = नितम्बयुतेन, घनेन जघनेन = स्थूलोरुस्थलेन। नुनुदे = नुन्नः।
कोषः—'पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः' इत्यमरः।
हिन्दी—आभूषणों के रूप में फूलों को अपने शिर पर खेल-खेल में धारण
१२८ किरातार्जुनीयम्
करती हुई कोई एक अप्सरा अपने वक्षस्थल की शोभा को कुछ कम समझकर अपने घनजघनों से प्रियतम को प्रसन्न कर रही थी ।। १६ ।।
कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा । बलिव्यपायस्फुटरोमराजिना निरायतत्वादुदरेण ताम्यता ॥ १७ ॥
अन्वयः—विलोलनीविना कलत्रभारेण गलद्दुकूलस्तनशालिना उरसा वलि- व्यपायस्फुटरोमराजिना निरायतत्वात् ताम्यता उदरेण ।
विग्रहः—विलोला नीवी यस्मिंस्तेन = विलोलनीविना । गलद् दुकूलं याभ्यां स्तनाभ्या ताभ्यां शालते इति तेन = गलद्दुकूलस्तनशालिना । बलिव्यपायेन स्फुटा रोमराजिः यस्मिंस्तेन = बलिव्यपायस्फुटरोमराजिना । कलत्रस्य भारस्तेन = कलत्रभारेण । निर्गतम् आयतत्वं यस्मात् तस्मात् = निरायतत्वात् ।
अर्थः—विलोलनीविना = विश्लिष्टवस्त्रग्रन्थिना । कलत्रभारेण = श्रोणि- भारेण । गलद्दुकूलस्तनशालिना = संसमानांशुकपयोधरशालिना । उरसा = वक्षसा । बलिव्यपायस्फुटरोमराजिना · भङ्गिनिवृत्तिस्फुटलोमपंक्तिना । निरायत- त्वात् = अप्रसारितत्वात् । ताम्यता = अनूशवता । उदरेण = उदरप्रदेशेन । ( मनः समाददे इति शेषः ) । अत्र स्वभावोक्तिरलङ्कारः ।
कोषः—'कलत्रं श्रोणिभार्ययोः' इत्यमरः ।
हिन्दी—किसी दूसरी देवाङ्गना ने जिसकी वस्त्रग्रन्थि ढीली पड़ गयी थी, जिसके स्तन वस्त्ररहित होकर वक्षस्थल की शोभा बढ़ा रहे थे और जिसके क्षीण (पतले) उदर पर त्रिवली न होने के कारण रोएं स्पष्ट दिखाई दे रहे थे, अपने प्रियतम का मन आकृष्ट कर लिया ।। १७ ।।
विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया । तरुप्रसूतान्यपदिष्य सादरं मनोऽधिनाथस्य मनः समाददे ॥ १८ ॥
अन्वयः—विलम्बमानाकुलकेशपाशया आविष्कृतबाहुमूलया कयाचित् तरु- प्रसूनानि अपदिश्य सादरं मनोऽधिनाथस्य मनः समाददे ।
विग्रहः—विलम्बमानः आकुलश्च केशपाशो यस्यास्तया = विलम्बमानाकुल- केशपाशया । आविष्कृतं बाहुमूलं यस्यास्तया = आविष्कृतबाहुमूलया । वृक्षस्य प्रसूनानि = वृक्षप्रसूनानि । मनसोऽधिनाथस्तस्य = मनोऽधिनाथस्य ।
अष्टमः सर्गः १२९
अर्थः—विलम्बमानाकुलकेशपाशया = विस्रंसमानविल्लुलितजटाजूटया। आविष्कृतबाहुमूलया = दर्शितकक्षप्रदेशया। कयाचित् कान्तया। तरुप्रसूनानि = पादपकुसुमानि। अपदिश्य = व्याजीकृत्य। सादरं = साभिलाषम्। मनोधिनाथस्य = प्रियतमस्य। मनः = चित्तम्। समाददे = आचकर्ष।
कोषः—'व्याजोऽपदेशो लक्ष्यं च' इत्यमरः।
हिन्दी—किसी दूसरी देवाङ्गना ने जिसके लहकते हुए केश लटक रहे थे, जिसका वक्ष भाग खुला हुआ था वृक्ष से फूल तोड़ने के बहाने अपने प्रियतम का मन अपनी ओर आकृष्ट कर लिया॥ १८॥
व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः।
पयोधरेणोरसि काचिदुन्मना प्रियः जघानोन्नतपीवरस्तनी॥ १९॥
अन्वयः—उन्नतपीवरस्तनी काचित् लोचनतः पुष्पजं रजः मुखानिलैः व्यपोहितुम् अपारयन्तं किल प्रियम् उन्मनाः पयोधरेण उरसि जघान।
विग्रहः—उन्नतौ पीवरौ च स्तनौ यस्याः सा = उन्नतपीवरस्तनी। पुष्पाज्जायतइति = पुष्पजम्। मुखानामनिलेः = मुखानिलैः।
अर्थः—उन्नतपीवरस्तनी = उदग्रस्थूलपयोधरी। काचित् = कान्ता। लोचनतः = स्वनेत्रात्। पुष्पजं रजः = पुष्पजातं परागम्। मुखानिलैः फूत्कारैः। व्यपोहितुम् = अपनेतुम्। अपारयन्तम् = अशक्नुवन्तम्। किल = अलीक, प्रियम् = प्रियतमम्। उन्मनाः = उत्सुका सती। पयोधरेण = स्तनेन। उरसि = वक्षसि। जघान = ताडयामास।
कोषः—'परागः पुष्पजं रजः' इत्यमरः।
हिन्दी—उन्नत और स्थूल पयोधरों वाली किसी दूसरी देवाङ्गनाने आँख से पुष्पराग को फूंक कर निकाल सकने में असमर्थ अपने प्रियतम के वक्षःस्थल में मुंह ऊँचा करके (पराग निकालने के बहाने) अपने स्तन से चोट मार दी॥ १९॥
इमान्यमूनीत्यपवर्जिते शनैर्यथाभिरामं कुसुमाग्रपल्लवे।
विहाय निःसारतयेव भूरुहान्पदं वनश्रीर्वनिातासु सन्दधे॥ २०॥
अन्वयः—यथाभिरामं कुसुमाग्रपल्लवे इमानि अमूनि इति शनैः अपवर्जिते वनश्रीः निःसारतया इव भूरुहान् विहाय वनितासु पदं सन्दधे।
१ कि०
| १३० | किरातार्जुनीयम् |
|---|
विग्रहः--कुसुमानि, अग्रपल्लवानि च कुसुमाग्रपल्लवं, तस्मिन् = कुसुमाग्रपल्लवे। वनस्य श्रीः = वनश्रीः। भूमौ रुहन्तीति, तान् भूरुहान्।
अर्थः-यथाभिरामम् = यथासुन्दरम्। कुसुमाग्रपल्लवे=पुष्पाग्रदले। 'इमानि अमूनि' इति = इत्थं निर्देशपूर्वकम्। शनैः = मन्दम्। अपवर्जिते = अपचिते सति। वनश्रीः = वनशोभाः, निःसारतया इव = नीरसत्येव। भूरुहान् = वृक्षान्। विहाय = त्यक्त्वा। वनितासु = अप्सरःसु। पदं सन्दधे = पदं दधौ।
कोषः-'वामा वनिता महिला तथा' इत्यमरः।
हिन्दी-'ये फूल मुझे दो' वे 'फूल मुझे दो' इस प्रकार से वनवृक्षों से फूल और पल्लव धीरे से तोड़ लेने पर उनकी शोभा नष्ट हो गई। फिर उस वनश्री ने तत्त्वरहित होने के कारण वृक्षों को छोड़कर उन सुरबालाओं का ही आश्रय लिया। अर्थात् तोड़े हुए फूलों और पल्लवों को सुराङ्गनाओं ने यथास्थान अपने अंगोंपर धारण किया॥ २०॥
प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः।
महीरुहः पुष्पसुगन्धिराददे वपुर्गुणोच्च्छ्रायमिवाङ्गनाजनः॥ २१॥
अन्वयः-प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः पुष्पसुगन्धिः अङ्गनाजनः महीरुहः वपुर्गुणोच्च्छ्रायम् आददे इव।
विग्रहः--प्रवालस्य भङ्गः = प्रवालभङ्गस्तेनारुणः पाणिपल्लवो यस्य सः = प्रवालभङ्गारुणपाणिपल्लवः। परागेण पाण्डूकृतो पीवरौ स्तनौ यस्य सः = परागपाण्डूकृतपीवरस्तनः। पुष्पैः सुगन्धिः पुष्पसुगन्धिः। वपुर्गुणस्य उच्च्छ्रायः = वपुर्गुणोच्च्छ्रायस्तम् तथोक्तम्।
अर्थः--प्रवालभङ्गारुणपाणिपल्लवः = पल्लववलयारुणकरदलः। परागपाण्डूकृतपीवरस्तनः = पुष्परजःपाण्डुपीवरपयोधरः। पुष्पसुगन्धिः = कुसुमसुरभिः। अङ्गनाजनः = देवाङ्गनाजनः। महीरुहः = वृक्षजातात्। वपुर्गुणोच्च्छ्रायम् = स्वदेहगुणोत्कर्षम्। आददे इव = लब्धवानिव। अत्रोत्प्रेक्षालङ्कारः।
कोषः-'परागः सुमनोरजः' इत्यमरः।
हिन्दी--सुराङ्गना का पाणिपल्लव नवकिसलयों को तोड़ने से रंग गया था, पुष्पराग से उसके उन्नत उरोज पाण्डुरंग के हो गये थे। उसके फूलों से सुगन्धित शरीर ने मानो वृक्ष से उच्चतारूपी गुणोत्कृष्टता प्राप्त की थी॥ २१॥
अष्टमः सर्गः १३१
अष्टमः सर्गः १३१
पञ्चभिः कुलकमाह-- वरोरुभिर्वारणहस्तपीवरैश्चिराय खिन्नान्निव पल्लवध्रियः । समेऽपि यातुं चरणाननीश्वरान्मदादिव प्रस्खलतः पदे पदे ॥ २२ ॥ अन्वयः--वारणहस्तपीवरैः वरोरुभिः चिराय खिन्नान् नवपल्लवध्रियः समे अपि यातुम् अनीश्वरान् मदात् इव पदे पदे प्रस्खलतः चरणान् । विग्रहः--वारणहस्त इव पीवरैः = वारणहस्तपीवरैः । वरैः ऊरुभिः = वरोरुभिः । नवानां पल्लवानां श्रीरिव श्रीर्येषां तान् = नवपल्लवध्रियः । अर्थः--वारणहस्तपीवरै= करिकरस्थूलैः वरोरुभिः= महोरुभिः । चिराय = चिरकालाय । खिन्नान् = क्लान्तान् । नवपल्लवध्रियः = नवकिसलयवन्मृदून् । समेऽपि = समस्थलेऽपि । यातुम् = गन्तुम् । अनीश्वरान् = अशक्तान् । मदादिव = प्रमादादिव, पदे पदे = प्रतिपदे । प्रस्खलतश्चरणान् = स्खलतः पदान् । अत्रोपमालङ्कारः । कोषः--‘जानूर्ध्वमष्ठीवदस्त्रियाम्’ इत्यमरः । हिन्दी--इन्द्रकील पर्वत के शिखर-मार्गों पर अनुसरण करती हुई अप्सराओं के नवपल्लवों के समान कोमल चरण, हाथो की सूँड़ की भांति मांसल जांघों वाले थे जो कि पर्वत-शिखर की समतल भूमि पर चलने से थक गये थे अतः वे पग-पग पर इस प्रकार लड़खड़ा रहे थे जैसे वे मद्यपान किये हों ।२२।
विसारिकाञ्चीमणिरश्मिलब्धया मनोरोच्छ्रायनितम्बशोभया । स्थितानि जित्वा नवसैकतद्युति श्रमातिरेकैर्जघनानि गौरवैः ॥ २३ ॥ अन्वयः--विसारिकाञ्चीमणिरश्मिलब्धया मनोहरौच्छ्रायनितम्बशोभया नवसैकतद्युति जित्वा स्थितानि श्रमातिरेकैः गौरवैः जघनानि । विग्रहः--विसारिभिः काञ्चीमणीना रश्मिभिः लब्धया = विसारिकाञ्चीमणिरश्मिलब्धया । मनोहरः उच्छ्रायः येषां तेषां नितम्बानां या शोभा, तया = मनोहरौच्छ्रायनितम्बशोभया । नवसैकताना द्युतिस्ताम् = नवसैकतद्युतिम् । श्रमेणातिरेकैः = श्रमातिरेकैः । अर्थः--विसारिकाञ्चीमणिरश्मिलब्धया = प्रसारिमेखलामणिकान्तिलब्धया । मनोहरौच्छ्रायनितम्बशोभया = मनोरमोत्सेधनितम्बश्रिया । नवसैकतद्युतिम् = नूतनसैकतशोभाम् । जित्वा = विजित्य । स्थितानि = अवस्थितानि । श्रमा-
१३२ | किरातार्जुनीयम्
तिरिक्तैः परिश्रमतिशयैः । गौरवैः = गुरुत्वै । उपलक्षितानीति शेषः । जघनानि = जघनस्थलानि ।
कोषः—'मेखला कांची सप्तरी रशना तया' इत्यमरः ।
हिन्दी - सुरांगनाओं की जांघों ने जो कि करधनी में लगे हुए रत्नों की कान्ति से शोभित और मनोहर उन्नत नितम्बों की शोभा से युक्त थीं, ऊँचे कगारों और रेत से चमकते पुलिनों को जीत लिया । चलने मे थकी हुई उनकी जांघे शिथिल हो गईं ॥ २३ ॥
समुच्छ्रवसत्पङ्कजकोशकोमलैरुपाहितश्रीष्युपनीवि नाभिभिः । दधन्ति मध्येषु वलीविभाङ्क्षु स्तनातिभारादुदराणि नम्रताम् ॥ २४ ॥
अन्वयः—समुच्छ्रवसत्पङ्कजकोशकोमलैः नाभिभिः उपनीवि उपाहितश्रीणि वलीविभाङ्गेषु मध्येषु स्तनातिभारात् नम्रताम् दधन्ति उदराणि ।
विग्रह — समुच्छ्रवसन्तः पङ्कजकोशास्तद्वत्कोमलैः = समुच्छ्रदसत्पङ्कजकोश-कोमलैः । नीव्याः समीपे = उपनीवि । उपाहिताः श्रियः येषु तानि = उपाहित-श्रीणि । वलीनां विभङ्गो येषु तेषु = वलीविभङ्क्षिपु स्तनानाम् अतिभारः = स्तनातिभारस्तस्मात् = स्तनातिभारात् ।
अर्थः—समुच्छ्रवसत्सङ्कजकोशकोमलै = दलत्कमलमुकुलकोमलैः । नाभिभिः = प्रतारिकाभिः । उपनीवि = नीवीपार्श्वे । उपाहितश्रीणि = जनितशोभानि । वलीविभाङ्गेषु = ऊर्मिमत्सु । मध्येषु । जघनस्थलेषु । स्तनातिभारात् = पयोधरगुरुत्वात् । नम्रताम् = नम्रत्वम् । दधन्ति = बिभ्राणानि । उदराणि = उदर-स्थलानि चेति ।
कोषः—'अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका' इति केशवः ।
हिन्दी—उन सुरसुन्दरियों के उदर जो कि विकसित कमलकोश के समान कोमल नाभियों से नीवीबन्धनों के पास बड़े सुन्दर लग रहे थे, स्तनभार के कारण त्रिवलीयुक्त जघनस्थलों को अवनत बना रहे थे ॥ २४ ॥
समानकान्तीनि तुषारभूषणैः सरोरुहैरस्फुटपत्रपंक्तिभिः । चितानि धर्माम्बुकणैः समन्ततो मुखान्यनुत्फुल्लविलोचनानि च ॥ २५ ॥
अन्वयः—धर्माम्बुकणैः समन्ततः चितानि अनुत्फुल्लविलोचनानि तुषारभूषणैः अस्फुटपत्रपंक्तिभिः सरोरुहैः समानकान्तीनि मुखानि च ।
अष्टमः सर्गः | १३३
| अष्टमः सर्गः | १३३ |
|---|
विग्रहः — घर्मात् जातम्बु = घर्माम्बु, तस्य कणैः = घर्माम्बुकणैः। नैव उत्फुल्लानि = अनुत्फुल्लानि। अनुत्फुल्लानि च तानि विलोचनानि = अनुत्फुल्लविलोचनानि। तुषाराण्येव भूषणानि येषां तैः = तुषारभूषणैः अस्फुटपत्राणां पंक्तयः येषु तैः = अस्फुटपत्रपंक्तिभिः। सरःसु रुहाणि = सरोरुहाणि, तैः = सरोरुहैः। समानाः कान्तयः येषां तानि = समानकान्तीनि।
अर्थः — घर्माम्बुकणैः = स्वेदबिन्दुभिः। समन्ततः = सर्वत्र। जितानि = व्याप्तानि। अनुत्फुल्लविलोचनानि = अविकसदक्षीणि। तुषारभूषणैः = शीकरपरिवृतैः। अस्फुटपत्रपंक्तिभिः = अविकसदलराजिभिः। सरोरुहैः = पद्यैः। समानकान्तीनि = समशोभितानि मुखानि = आननानि। च। अत्रोपमालङ्कारः॥ २५ ॥
कोषः — 'व्याकोशविकचस्फुटाः' इत्यमरः। 'तुषारो हिम शीकरौ' इति शाश्वतः।
हिन्दी — उन देवाङ्गनाओं के नेत्र तथा मुख पसीने से व्याप्त थे। वे ऐसे पद्यों की कान्ति की समानता करते थे जिनकी अविकसित कलियों पर पड़े हुए तुषारकण चमक रहे थे ॥ २५ ॥
विनिर्यतीनां गुरुखेदमन्थरं सुराङ्गनानामनुसानु वर्त्मनः।
सविस्मयं रूपयतो नभश्चरान् विवेश तत्पूर्वमिवेक्षणादरः ॥ २६ ॥
अन्वयः — अनुसानु वर्त्मनः गुरुखेदमन्थरं विनिर्यतीनाम् सुराङ्गनानाम् सविस्मयं रूपयतः नभश्चरान् तत्पूर्वम् इव ईक्षणादरः विवेश।
विग्रहः — गुरुणा खेदेन मन्थरमिति गुरुखेदमन्थरम्। विस्मयेन सहितं = सविस्मयम्। नभसि चरन्तीति तान् = नभश्चरान्। ईक्षणाय आदरः = ईक्षणादरः।
अर्थः — अनुसानु = सानुषु। वर्त्मनः = मार्गात्। गुरुखेदमन्थरम् = महाखेदालसम्। विनिर्यतीनाम् = निर्गच्छन्तीनाम् सुराङ्गनानाम् = अप्सरसाम्। सविस्मयम् = साश्चर्यम् रूपयतः = पूर्वोक्तचरणादीनि वर्णयतः। नभश्चरान् = गन्धर्वान् तत्पूर्वम् इव = तदेव प्रथमं यथा तथा। ईक्षणादरः = अवलोकनकौतुकम्। विवेश = प्राविशत्।
कोषः — 'अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः।
हिन्दी — इन्द्रकील पर्वत की चोटियों पर चलते हुए मार्ग से अत्यन्त खेद
| १३४ | किरातार्जुनीयम् |
|---|
द्वारा आलस्य को पहुँची हुई ( थकी हुई ) सुराङ्गनाओं की गति धीमी पड़ गई और आश्चर्यचकित होकर वर्णन करते हुए गन्धर्वों को 'यह सब पहले-पहल देखा है' इस प्रकार से देखने को कौतुक उत्पन्न हो गया ॥ २६ ॥
सम्प्रति सलिलक्रीडावर्णनमारभते—
अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः ।
पयोवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ २७ ॥
अन्वयः—अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः कलहंसनादिनी सुरापगा वधूः पयोऽवगाढुम् समाजुहाव इव ।
विग्रहः—स्फुरद्भिः मीनैः विधूतपङ्कजा । या सा = स्फुरन्मीनविधूतपङ्कजा । विगतं पङ्कं यस्मात् तत् = विपङ्कम्, विपङ्कं यत् तीरं तस्मिन् स्खलिता ऊर्मिसंहतिः यस्याः सा = विपङ्कतीरस्खलितोर्मिसंहतिः । कलहंसैः नदति या सा = कलहंसनादिनी । सुराणाम् आपगा = सुरापगा ।
अर्थः—अथ = पुष्पावचयानन्तरम् । स्फुरन्मीनविधूतपङ्कजा = चलन्मत्स्यधूतकमला । विपङ्कतीरस्खलितोर्मिसंहतिः = पङ्करहिततटविचलिततरङ्गसंहतिः । कलहंसनादिनी = कादम्बशब्दवती सुरापगा = गङ्गा । वधूः = अप्सरसः । पयः = जलम् । अवगाढुम् = अवगाहितुम् । समाजुहावेव = आकारयामासेव । अत्रोत्प्रेक्षालङ्कारः ।
कोषः—'हूतिराकाणाह्वानम्' इत्यमरः ।
हिन्दी—इसके बाद गङ्गानदी ने जिसमें कि मछलियों के कूदने से कमल हिल रहे थे, जिसके तट पर कीचड़ का नाम तक नहीं था, लहरों का तांता लगा हुआ था एवं हंस कल कूजन कर रहे थे, अप्सराओं का मानो जलावगाहन के लिए आवाहन किया ॥ २७ ॥
प्रशान्तघर्माभिभवः शनैर्विवान् विलासिनीभ्यः परिमृष्टपङ्कजः ।
ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥ २८ ॥
अन्वयः—प्रशान्तघर्माभिभवः शनैः विवान् परिमृष्टपङ्कजः आत्तशीकरः तरङ्गमालान्तरगोचरः अनिलः विलासिनीभ्यः भुजावलम्बम् ददौ इव ।
विग्रहः—घर्मस्य अभिभवः = घर्माभिभवः । प्रशान्तः घर्माभिभवो येन सः = प्रशान्तघर्माभिभवः । परिमृष्टं पंकजं येन सः = परिमृष्टपंकजः । आत्तः शीकरो येन
अष्टमः सर्गः १३५
सः = आत्तशीकरः । तरङ्गाणां माला = तरङ्गमाला, तासामन्तरे गोचर इति = तरङ्गमालान्तरगोचरः । भुजयोः अवलम्बस्तम् = भुजावलम्बम् ।
**अर्थः—**प्रशान्तघर्माभिभवः = शान्तोष्णबाधः । शनैः = मन्दम् । विवान् = वहन् । परिमृष्टपङ्कजः = पद्मगन्धी । आत्तशीकरः = प्राप्तजलकणः । तरङ्गमालान्तरगोचरः ऊर्मिपंक्तिमध्यवासः । अनिलः = पवनः । विलासिनीभ्यः = अप्सरोभ्यः । भुजावलम्बम् = बाह्वावलम्बनम् । ददौ = दत्तवान् इव । अत्रोत्प्रेक्षालङ्कारः ।
कोषः—'भङ्गस्तरङ्गऊर्मिर्वा' इत्यमरः ।
**हिन्दी—**धूप के प्रभाव को मिटानेवाला, धीमे २ बहता हुआ कमलगन्धी पवन जलकणों से युक्त था और जो नदियों की तरङ्गों से होकर चल रहा था, उन अप्सराओं के लिए मानो अपनी भुजाओं में समेट रहा था ॥ २८ ॥
गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः ।
मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान्निरासिरे ॥ २९ ॥
**अन्वयः—**सुरस्त्रियः सहावैः गतैः कलहंसविक्रमं नितम्बिभिः कलत्रभारैः पुलिनं दीर्घलोचनैः सरोजानि च साम्यगुणात् निरासिरे ।
**विग्रहः—**सुराणां स्त्रियः = सुरस्त्रियः । हावैः सहितैः = सहावैः । कलहंसानां विक्रम = कलहंसविक्रमम् । कलत्राणां भारैः = कलत्रभारैः । दीर्घैः लोचनैः = दीर्घलोचनैः ।
**अर्थः—**सुरस्त्रियः = देवाङ्गना । सहावैः = सविलासैः । गतैः = गतिभिः, कलहंसविक्रमम् = हंसगतिम् । नितम्बिभिः = प्रशस्तनितम्बैः, कलत्रभारैः = जघनभारैः । पुलिनम् = नितम्बभारशून्यम् । दीर्घलोचनैः = विशालनेत्रैः । सरोजानि = कमलानि च । साम्यगुणत्वात् = समानगुणत्वात् । निरासिरे = निरस्तवत्यः ।
कोषः—'आननं लपनं मुखम्' इत्यमरः ।
**हिन्दी—**देवाङ्गनाओं ने अपने हावभावादि कटाक्षों एवं मन्द चाल से हंसों की चाल, नितम्बवाले जघनभार से नदी-पुलिन और विशाल नेत्रों से कमल शोभा को निरस्त कर दिया ॥ २९ ॥
| १३६ | किरातार्जुनीयम् |
|---|
विभिन्नपर्यन्तगमीनपंक्तयः पुरो विगाढाः सखिभिर्मरुत्वतः ।
कथंचिदापः सुरसुन्दरीजजैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥ ३०॥
अन्वयः—विभिन्नपर्यन्तगमीनपंक्तयः मरुत्वतः सखिभिः पुरः विगाढाः सभीतिभिः सुरसुन्दरीजनैः तत्प्रथमं कथंचित् आपः प्रपेदिरे ।
विग्रहः—विभिन्ना पर्यन्तगा मीनानां पंक्तयः यासां ताः = विभिन्नपर्यन्तगमीनपंक्तयः । भीतिभिः सहिताः = सभीतिभिः ।
अर्थः—विभिन्नपर्यन्तगमीनपंक्तयः = भिन्नप्रान्तगतमत्स्यरेखाः । मरुत्वतः = इन्द्रस्य । सखिभिः = मित्रैः गन्धर्वैः । पुरः = पूर्वम् । विगाढाः = प्रविष्टाः । सभीतिभिः = सभयैः । सुरसुन्दरीजनैः = अप्सरोभिः । तत्प्रथमं = अवगाहनपूर्वकं । कथंचित् = यथा तथा भयात् । आपः = जलम् । प्रपेदिरे = जगाहिरे ।
कोषः—'झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।' इत्यमरः ।
हिन्दी--( गंगातट पर पहुँच कर ) इन्द्र के मित्र गन्धर्वों ने सर्वप्रथम जल में प्रवेश किया जिससे पंक्ति में तैरती हुई मछलियों का तांता टूट गया और वे इधर-उधर किनारों पर चली गयीं । गन्धर्वों के जलावगाहन के बाद वे सुर-सुन्दरियाँ भी डरती-डरती पानी में प्रविष्ट हुईं ॥ ३० ॥
विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहितपीवरोरुभिः ।
विभिद्यमाना विससार सारसानुदस्य तीरेषु तरंगसंहतिः । ३१ ॥
अन्वयः—प्रयत्नसंवाहितपीवरोरुभिः रमणीभिः अम्भसि विगाढमात्रे विभिद्यमाना तरंगसंहतिः तीरेषु सारसान् उदस्य विससार ।
विग्रहः—प्रयत्नेन संवाहिताः पीवराः ऊरवः याभिस्ताभिः = प्रयत्नसंवाहितपीवरोरुभिः । तरङ्गाणां संहतिः = तरङ्गसंहतिः ।
अर्थः—प्रयत्नसंवाहितपीवरोरुभिः = यत्नसंचारितस्थूलजघनाभिः रमणीभिः = अप्सरोभिः । अम्भसि = जले । विगाढमात्रे = प्रविष्ट एव सति । विभिद्यमाना = विशीर्यमाणा । तरङ्गसंहतिः = ऊर्मिसमूहः । तीरेषु = तटेषु । सारसान् = सारसपक्षिविशेषान् । उदस्य = उत्सार्य । विससार = वितस्तार ।
कोषः—'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः, इति यादवः । 'वक्राङ्गः सारसो हंसः' इति शब्दार्णवे ।
हिन्दी—देवाङ्गनाओं के बड़े प्रयत्न से स्थूल जांघों को जल में रखते
अष्टमः सर्गः १३७
अष्टमः सर्गः १३७
( डुबोते ) ही लहरें छिन्न-भिन्न हो गयीं और वे तटवर्ती सारसादि पक्षियों को हटाकर तट तक फैल गयीं ॥ ३१ ॥
शिलाघनैर्नाकसदामुरःस्थलैर्वृहन्निवेशैश्च वधूपयोधरैः ।
तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥ ३२ ॥
अन्वयः-- शिलाघनैः नाकसदाम् उरःस्थलैः बृहन्निवेशैः वधूपयोधरैः तटाभिनीतेन विभिन्नवीचिना अम्भसा रुषा इव कलुषत्वम् भेजे।
विग्रहः--शिलावद् घनैः शिलाघनैः । नाकं सदः येषां तेषाम् = नाकसदाम् । बृहत् निवेशः येषां तैः = बृहन्निवेशैः । वधूनां पयोधराणि, तैः=वधूपयोधरैः । तटमभितः नीतेन=तटाभिनीतेन । विभिन्नाः वीचयः यस्य तेन=विभिन्नवीचिना । कलुषस्य भावः कलुषत्वम् ।
अर्थः-- शिलाघनैः = शिलाकठिनैः । नाकसदाम् = गन्धर्वाणाम् । उरःस्थलैः वक्षःस्थलैः । बृहन्निवेशैः = अतिस्थूलैः वधूपयोधरैः = देवाङ्गनास्तनैः । तटाभिनीतेन = तटमभितः प्रापितेन । विभिन्नवीचिना = भग्नोर्मिणा । अम्भसा=जलेन । रुषा इव = रोषेणेव । कलुषत्वम् = आविलत्वम् । भेजे=प्राप । अत्रोत्प्रेक्षालङ्कारः ।
कोश— 'कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु' इत्यमरः ।
हिन्दी--स्वर्गवासिनी देवाङ्गनाओं के पत्थर के समान कठोर वक्षःस्थलों तथा विस्तृत उन्नत उरोजों के द्वारा खण्ड-खण्ड होकर लहरें तट तक पहुँच जाती थीं। नदी का जल गंदला ( मैला ) होने से ज्ञात होता था मानों अप्सराओं के कार्यों से गंगा रुष्ट हो गई हों ॥ ३२ ॥
विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः ।
अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः ॥ ३३ ॥
अन्वयः-- विधूतकेशाः परिलोलितस्रजः प्रविलुप्तचन्दनाः अतिप्रसङ्गात् सुराङ्गनानां विहितागसः ऊर्मयः सभया इव मुहुः प्रकम्पम् ईयुः ।
विग्रहः--विधूताः केशा यैस्ते = विधूतकेशाः । परिलालिताः स्रजः यैस्ते = परिलोलितस्रजः । प्रविलुप्तानि चन्दनानि यैस्ते = प्रविलुप्तचन्दनाः । विहितम् आगो यैस्ते = विहितागसः । भयेन सहिताः = सभयाः ।
अर्थः--विधूतकेशाः = विक्षिप्तकेशाः । परिलोलितस्रजः = विलोलितमालाः ।
१३८ | किरातार्जुनीयम्
प्रविलुप्तचन्दनाः = प्रमृष्टाङ्गरागाः । अतिप्रसङ्गात् = अविच्छेदात् सुराङ्गनानाम् = देववधूनाम् । विहितागसः = कृतमण्डनखण्डनरूपापराधाः । ऊर्मयः = तरङ्गाः । सभयाः = भयभीताः । इव । मुहुः = वारं वारम् । प्रकम्पम् = कम्पम् । ईयुः = ययुः ॥ ३३ ॥
कोषः — 'चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः ।' इत्यमरः ।
हिन्दी — गङ्गा की लहरों ने देवाङ्गनाओं के बालों को बिखेर दिया, उनकी पुष्पमालाओं को झकझोर डाला तथा शरीर में लगे चन्दन, अंगगगादि को मिटा दिया । इस प्रकार अप्सराओं की सजावट मिटाने का पाप करके अपराधिनी सी बनी हुई लहरें लहराती हुई मानों भय से काँप रही थीं ॥ ३३ ॥
विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये ।
हृतस्य शेषानिव कुङ्कुमस्य तान् विकत्थनीयान्दधुरन्यथा स्त्रियः ॥३४॥
अन्वयः — विपक्षचित्तोन्मथना ये नखव्रणाः विभ्रममण्डनेन तिरोहिताः हृतस्य कुङ्कुमस्य शेषान् इव विकत्थनीयान् तान् स्त्रियः अन्यथा दधुः ।
विग्रहः — विपक्षस्य चित्तानाम् उन्मथनाः = विपक्षचित्तोन्मथनाः । नखानां व्रणाः = नखव्रणाः । विभ्रमस्य मण्डनम्, तेन = विभ्रममण्डनेन ।
अर्थः — विपक्षचित्तोन्मथनाः = सपत्नीजनचित्तव्यथकाः । ये नखव्रणाः = यानि नखक्षतानि । विभ्रममण्डनेन = सौन्दर्यमण्डनेन, कुंकुमलेपादिना । तिरोहिताः = छन्नाः । हृतस्य = क्षालितस्य । कुंकुमस्य = कुंकुमनाम्नेः सौन्दर्यमण्डनस्य । शेषान् इव = अवशिष्टान् इव = विकत्थनीयान् = व्यञ्जकत्वेन श्लाघनीयान् । तान् = नखव्रणान् स्त्रियः = अप्सरसः । अन्यथा दधुः = प्रकाशम् दधुः । अत्र उत्प्रेक्षालङ्कारः ।
कोषः — 'व्रणोऽस्त्रियाम्' इत्यमरः ।
हिन्दी — स्नान करते समय देवाङ्गनाओं के सपत्नीजन (सौतों) के चित्तों को व्याकुल बनाने वाले नखक्षत कुंकुमाङ्गरागादि के लेप से जो छिपा दिये गये थे वे पानी से धुल कर व्यक्त हो रहे थे फिर भी वे अवशिष्ट कुंकुम रेखा के समान थे अतः देवाङ्गनाओं ने उन नखक्षतों को जो कि प्रशंसनीय थे, प्रकाशित ही रखा, छिपाया नहीं ॥ ३४ ॥
अष्टमः सर्गः १३९
सरोजपत्रे नु विलोनषट्पदे विलोलदृष्टे स्विदमू विलोचने ।
शिरोरुहाः स्विन्नतपक्ष्मसन्ततेर्द्विरेफवृन्दं नु निशब्दनिश्श्वलम् ॥ ३५ ॥
अन्वयः— अमू विलीनषट्पदे सरोजपत्रे नु विलोलदृष्टेः विलोचने स्वित् नतपक्ष्मसन्ततेः शिरोरुहाः स्वित् निशब्दनिश्श्वलम् द्विरेफवृन्दम् नु ।
विग्रहः— विलीनाः षटपदाः ययोः, ते = विलोनषट्पदे । सरोजस्य पत्रे = सरोजपत्रे । विलोला दृष्टिर्यस्यास्तस्याः = विलोलदृष्टेः । नता पक्ष्मणां सन्ततिः यस्यास्तस्याः = नतपक्ष्मसन्ततेः । शिरसि रुहाः = शिरोरुहाः । निशब्दम् च निश्चल च = निशब्दनिश्श्वलो, तयोः समाहार निशब्दनिश्श्वलम् । द्विरेफाणां वृन्दम् = द्विरेफवृन्दम् ।
अर्थः— अमू = निर्दिष्टे द्वे । विलीनषट्पदे = भ्रमरलीने । सरोजपत्रे = कमलदले । नु इति वितर्के । विलोलदृष्टेः = चञ्चलाक्ष्याः । विलोचने = नेत्रे । स्वित् = नु । नतपक्ष्मसन्ततेः = अवनतपक्ष्मराजेः अवनतनेत्राद्याः । शिरोरुहाः = केशाः । स्वित् = यद्वा निशब्दनिश्श्वलम् = नीरवस्थिरम् । द्विरेफवृन्दम् = भ्रमरसमूहः । नु = स्वित् । अत्र निश्चयान्तसन्देहालङ्कारः ।
कोषः— 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः ।
हिन्दी— कमलदल में छिपी हुई एक अप्सरा को अन्य अप्सरायें देखकर निश्चित नहीं कर सकीं:—
यह सामने भौरों से व्याप्त दो कमल दल हैं अथवा चपलदृष्टि वाली सखी के दो नेत्र हैं ? नीचे को पलक डाली हुई सुन्दरी के यह काले-काले केश हैं अथवा नीरव और निश्चल रूप से बैठे हुए भौरों का वृन्द है ? । अर्थात् यह सखी ही है इस बात का उन्होंने निश्चय नहीं कर पाया ॥ ३५ ॥
अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजम् ।
इति प्रलीनां नलिनीवने सखीं विदाम्बभूवुः सुचिरेण योषितः ॥ ३६ ॥
अन्वयः— अगूढहासस्फुटदन्तकेसरम् मुखम्, स्वित् एतद्विकसत् पङ्कजम् नु, इति नलिनीवने प्रलीनां सखीं योषितः सुचिरेण विदाम्बभूवुः ।
विग्रहः— अगूढः हासः = अगूढहासस्तेन स्फुटाः दन्ताः केसरा इव यस्य तत् = अगूढहासस्फुटदन्तकेसरम् । नलिनीनां वनम्, तस्मिन् = नलिनीवने । प्रकर्षेण लीनाम् = प्रलीनाम् ।
| १४० | किरातार्जुनीयम् |
|---|
अर्थः— अगूढहासस्फुटदन्तकेसरम् = व्यक्तस्मितस्फुटदशनकेसरम् मुखम् = आननम्। स्वित् = यद्वा। एतत् = इदम्। विकसत्पङ्कजम् = विकचकमलम्। नु = इति वितर्के। इति = इत्थम्। नलिनीवने = कमलिनीकानने। प्रलीनाम् = लीनाम्। सखीम् = सहगामिनीम्। योषितः = अप्सरसः। सुचिरेण = अतिविलम्ब्य, विदाम्बभूवुः = विदाञ्चक्रुः। अत्र संदेहालंकारः।
कोषः— 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः।
हिन्दीः— स्पष्ट हास से निकलती हुई दाँतों की ज्योति वाला यह मुख है अथवा खिलता हुआ कमल है? इस प्रकार कमल वन में छिपी हुई किसी एक सखी को अन्य अप्सराओं ने बहुत देर में जान पाया कि यह सखी ही है ॥३६॥
प्रियेण संग्रथ्य विपक्षसन्निधा-
वृराहितां वक्षसि पीवरस्तने।
स्रजं न काचिद् विजहौ जलाविलां
वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ ३७ ॥
अन्वयः— प्रियेण संग्रथ्य विपक्षसन्निधौ पीवरस्तने वक्षसि उराहिताम् स्रजं जलाविलाम् न विजहौ। हि गुणाः प्रेम्णि वसन्ति वस्तुनि न (वसन्ति)।
विग्रहः— विपक्षस्य सन्निधौ = विपक्षसन्निधौ। पीवरौ स्तनौ यस्य तस्मिन् = पीवरस्तने। जलेन विलाम् = जलाविलाम्।
अर्थः— प्रियेण = प्रियतमेन। संग्रथ्य = स्वयमेव रचयित्वा। विपक्षसन्निधौ = सपत्नीसमक्षम्। पीवरस्तने वक्षसि = उन्नतपयोधरे वक्षःस्थले। उराहिताम् = पातिताम्। स्रजम् = मालाम्। जलाविलाम् = मृदितामपि। न विजहौ = न तत्याज। हि = यतः। गुणाः = दाक्षिण्यादिगुणा। प्रेम्णि = प्रीतौ। वसन्ति = तिष्ठन्ति। न वस्तुनि = नैव वसन्तीति। अत्रार्थान्तरन्यासालंकारः।
कोषः— 'उरो वत्सं च वक्षश्च' इत्यमरः।
हिन्दीः— किसी सखी के उन्नत पयोधरों वाले वक्षस्थल पर प्रियतम ने स्वयं माला बनाकर उसकी सपत्नी के समक्ष ही पहनाई। जल के कारण मसली