भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

१५२ किरातार्जुनीयम्

कोषः—'तरलो भासुरो हीरे चञ्चलेऽपि' इति वैजयन्ती ।

हिन्दी—जलक्रीड़ा में अप्सराओं ने चकई-चकवाओं को दूसरे तटों पर भगा दिया । कापती हुई वे अप्सरायें हिलते हुए कमल जैसी सुन्दर लग रही थीं। गङ्गाजल में उनके धवल हार घुल गये थे । इस प्रकार वे अप्सराएं नक्षत्रों से चमकने वाली रात्रि जैसी सुन्दर लग रही थीं ॥ ५६ ॥

संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् ।
बद्धोर्मिनाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम् ॥

अन्वयः—संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् बद्धोर्मिनाकवनितापरिभुक्तमुक्तं सिन्धोः सलिलं शयनीयलक्ष्मीं बभार ।

विग्रहः—संक्रान्तैः चन्दनरसैः आहितः वर्णभेदो यस्य तत् = संक्रान्तचन्दनरसाहितवर्णभेदम् । विच्छिन्नानि भूषणानि = विच्छिन्नभूषणानि । तेषां ये मणिप्रकराः तेषामंशुभिः चित्रम् इति = विच्छिन्नभूषणमणिप्रकरांशुचित्रम् । बद्धा ऊर्मयः यस्मिंस्तत् = बद्धोर्मि । नाकवनिताभिः पूर्वं परिभुक्तं पश्चात् मुक्तम् तत् = नाकवनितापरिभुक्तमुक्तम् शेतेऽनेति शयनीयम्, तस्य या लक्ष्मीः ताम् = शयनीयलक्ष्मीम् ।

अर्थः—संक्रान्तचन्दनरसाहितवर्णभेदम् = संक्रान्तमलयजद्रवरहितरूपान्तरम् । विच्छिन्नभूषणमणिप्रकरांशुचित्रम् = त्रुटिताभूषणमणिगणकिरणनानावर्णम् । बद्धोर्मि = तरंगितम् । नाकवनितापरिभुक्तमुक्तं = सुराङ्गनाभिः पूर्वं परिभुक्तम् पश्चात् मुक्तम् । सिन्धोः = गङ्गानद्याः । सलिलम् = जलम् । शयनीयलक्ष्मीम् = तल्पशोभाम् । बभार = दधार । अत्र निदर्शनालङ्कारः ।

कोषः—'प्रतीपदर्शिनी वामा वनिता महिला तथा' इत्यमरः ।

हिन्दी—अप्सराओं की जलक्रीडा से उनके अंगों में लगे हुए चन्दन अंगरागादि से गङ्गाजल का रंग बदल गया तथा उनकी टूटी हुई मणियों के किरणजाल से वह अनेक वर्ण का दिखाई पड़ने लगा । इस भाँति तरंगित और देवांगनाओं के परिभोग से छूटा हुआ गङ्गाजल सुन्दर पलंग के समान लग रहा था ॥ ५७ ॥

इति भारविकृतौ सुधाटीकासंवलिते किरातार्जुनीये अष्टमः सर्गः ।

नवमः सर्गः

वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः ।
तत्प्रियार्थमिव यातुमयास्तं भानुमानुपपयोधि ललम्बे ॥ १ ॥

मल्लि०— वीक्ष्येति ॥ अथ जलक्रीडानन्तरं भानुमानंशुमान् आत्तचित्रपरिधानविभूषाः स्वीकृतविविधवस्त्राभरणाः । सुरतसंनाहन्तीरित्यर्थः । अत एव रन्तुमनसः । ‘समानकर्तृकेषु तुमुन्’ । ‘लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि’ इति मकारलोपः । सुरनारीः वीक्ष्य तासां प्रियार्थं तत्प्रियार्थमिव । अवसरदानरूपं प्रियं कर्तुमिवेत्यर्थः । फलोत्प्रेक्षेयम् । अस्तमदर्शनम् । मकारान्तमव्ययमेतत् । यातुं प्राप्तुम् । उपपयोधि पयोधिसमीपे ललम्बे सस्रंसे । अस्मिन्सर्गे स्वागतावृत्तम्— ‘स्वागतेति रनभाद् गुरुयुग्मम्’ इति लक्षणात् ।

हिन्दी— जलक्रीडाके बाद विचित्र वस्त्र और अलङ्कारोंको पहनी हुई सुरसुन्दरियोंको रमणके अभिलाषमे युक्त देखकर भगवान् सूर्य मानों उनकी प्रीतिके लिए अस्त होनेके लिए समुद्रके पास लटक गये ॥ १ ॥

मध्यमोपलनिभे लसदंशावेकतश्च्युतिमुपेयुषि भानौ ।
द्योरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥ २ ॥

मल्लि०— मध्यमेति ॥ मध्यमोपलनिभे नायकमणिसदृशे । ‘निभसंकाशनीकाशप्रतीकाशोपमादयः’ इत्यमरः । ‘शर्करायां स्त्रियां प्रोक्तः पुंस्यश्मन्युपलो मणौ’ इति वैजयन्ती । लसदंशौ प्रसरद्रश्मौ भानौ । एकत एकस्मिन्भागे च्युतिं स्रस्ततामुपेयुषि प्राप्ते सति द्यौः परिवृत्या मध्याह्नातिक्रमेण विलोलां गत्वरीम् । अन्यत्र, गात्रस्य तिर्यगावृत्त्या मुहुश्चलन्तीम् । वासरलक्ष्मीं हारयष्टि मुक्तावलीमिवोवाह वहति स्म ।

हिन्दी— हारकी नायकमणिके सदृश किरणसे शोभित सूर्यके एक भागमें पतनको प्राप्त होनेपर द्यौ (आकाश) रूप बालाने मध्याह्न समयके अतिक्रमण करनेसे गमनशील (दूसरे पक्षमें) शरीर को तिरछा करनेसे बारंबार चलती हुई दिनकी शोभाको मानों मोतियोंकी मालाकी तरह धारण कर लिया ॥ २ ॥

१५४किरातार्जुनीयम्

अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा।
क्षीबतामिव गतः क्षितिमेष्यँल्लोहितं वपुरुवाह पतङ्गः॥ ३॥

**मल्लि०--**अंशुपाणिभिरिति॥ पतङ्गः सूर्यः। 'पतङ्गः पक्षिसूर्ययोः' इत्यमरः। अतीव निर्भरम्। 'अत्यतीव च निर्भरे' इत्यमरः। पातुमिच्छुः पिपासुस्तृषितः सन्। पिबतः सन्प्रत्ययान्तादुप्रत्ययः। अंशव एव पाणयस्तैः पद्मेषु जातं पद्मजं मधु मद्येव। मध्विति क्लिष्टं रूपकम्। मकरन्दमद्यमित्यर्थः। 'मधु मद्ये पुष्परसे' इत्यमरः। भृशमत्यन्तं रसयित्वास्वाद्य क्षीवतां मत्तत्वं गत इवेत्युत्प्रेक्षा। 'मत्ते शौण्डोत्कटक्षीबा' इत्यमरः। क्षितिमेष्यन् गमिष्यन् लोहितं रक्तं वपुरुवाह। यथा मत्तः क्षीवतया क्षितौ लुठति रज्यते च तद्वदिति भावः। सूर्यस्य क्षितिविलयनमस्तमय इत्यागमः। अत्र रूपकोत्प्रेक्षयोः सापेक्षत्वादङ्गाङ्गिभावेन संकरः।

**हिन्दी—**सूर्यने अत्यन्त तृषासे युक्त होकर अपने किरण रूप हाथोंसे कमलोंमें उत्पन्न मधु (मद्य) का अत्यन्त आस्वाद कर मतवाले-से होकर जमीनपर गिरते हुए लाल शरीरको धारण कर लिया॥ ३॥

गम्यतामुपगते नयनानां लोहितायति सहस्रमरीचौ।
आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः॥ ४॥

**मल्लि०-**गम्यतामिति॥ सहस्रमरीचौ सूर्ये। लोहितो भवतीति लोहितायति। 'लोहितादिडाज्भ्यः क्यष्' इति क्यष्। 'वा क्यषः' इति परस्मैपदे शतृप्रत्ययः। अत एव नयनानां गम्यतामुपगते दर्शनीयतां प्राप्ते सति। अभितापो धरित्रीं विरहय्य विहाय। 'ल्यपि लघुपूर्वात्' इत्यायादेशः। चक्रवाकहृदयान्याससाद प्राप। अत्र धरित्र्या यादृशस्तीव्रार्ककरकृतसंतापस्तादृक्चक्रवाकहृदयेषु विरहसंतापः संजात इति परमार्थः। परंतु तदुत्क्रमानन्तरमेतस्याविर्भावात् स एवात्र संक्रान्त इत्यभेदाध्यवसायेनोत्प्रेक्षा। अत एव भेदेऽभेदरूपातिशयोक्तिरलङ्कारः।

**हिन्दी—**सूर्यके लाल होकर देखनेके योग्य होने पर तापने पृथवीको छोड़कर चक्रवाक (चकवा) पक्षीके हृदयको प्राप्त कर लिया॥ ४॥

मुक्तमूललघुरुज्झितपूर्वंपश्चिमे नभसि संभृतसान्द्रः।
सामिमज्जति रवौ न विरेजे खिन्नजिह्व इव रश्मिसमूहः॥ ५॥

**मल्लि०--**मुक्तेति॥ रवौ सामिमज्जति अर्धस्तिमिते सति। 'सामि त्वर्धे

नवमः सर्गः १५५

नवमः सर्गः १५५

जुगुप्सायाम्' इत्यमरः । मुक्तं त्यक्तप्रायं मूलमाश्रयभूतो रविः । अन्यत्र, स्वामी, येन सोऽत एव लघुरतएवञ्च मुक्तमूललघुरुज्झितपूर्वस्त्यक्तपूर्वदिक्कः । अन्यत्र-त्यक्तपूर्वजनः । पश्चिमे नभसि नभोभागम् । अन्यत्र-क्वचिन्नीचस्थले । संभृतः संहतः सन् । अत एव सान्द्रश्च रश्मिसमूहः आश्रितजनश्च ध्वन्यते । खिन्नश्चासौ जिह्यश्च, खिन्नेन दुःखेन जिह्यो वा, दीन इव न विरेजे । अत्र मुक्तमूलत्वादिप्रस्तुतविशेषणसाम्यादप्रस्तुताश्रितजनप्रतीतेः समासोक्तिः । तत्र वाच्यस्य रश्मिसमूहस्याचेतनस्यापि प्रतीयमानेन चेतनेनाभेदाभिधानाद् दुःखित्वायुत्प्रेक्षेति तयोरङ्गाङ्गिभावेन संकरः ।

हिन्दी—सूर्यविम्बके आधे भागका अस्त होनेपर मूल (आश्रयभूत सूर्य) का अथवा स्वामीका परित्याग किया हुआ लघु और पूर्वदिशाका परित्याग किया हुआ अथवा पहलेके जनका त्याग किया हुआ आकाशके पश्चिम भागमें अथवा किसी नीचे स्थलमें इकट्ठा होता हुआ गाढ किरणसमूह वा आश्रितजन दुःखसे दीन सा होता हुआ शोभित नहीं हुआ ॥ ५ ॥

कान्तदूत्य इव कुङ्कुमताम्राः सांयमण्डलमभित्वरयन्त्यः ।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥ ६ ॥

मल्लि०—कान्तेति ॥ कुङ्कुमवत् कुङ्कुमेन वा ताम्राः । सायस्य सायंकालस्य । 'सायं साये प्रगे प्रातः' इत्यमरः । यन्मण्डलं तत् अभि तदुद्दिश्य त्वरयन्त्यस्त्वरां कारयन्त्यः सौधाना जालैर्गवाक्षैः पतिताः प्रविष्टाः । 'जाल गवाक्ष आनाये' इति वैजयन्ती । रविभासः सूर्यरश्मयः कान्तानां प्रेयसां दूत्य इव वनिताभिः सादरं यथा तथा ददृशिरे दृष्टाः । सायंतनार्कभासां प्रियसमागमसूचकत्वादेव तासु स्त्रीणामादरोऽभवदित्यर्थः ।

हिन्दी—कुङ्कुमके सदृश लाल सायंकालके सूर्यमण्डलको उद्देश्य कर शीघ्रता कराती हुई महलोंकी खिडकियोंमे प्रविष्ट सूर्यकी किरणोंको स्त्रियोंने प्रियकी दूतियोंके समान आदरसे देख लिया ॥ ६ ॥

अग्रसानुषु नितान्तपिशङ्गेर्भूरुहान्मृदुकरैरवलम्ब्य ।
अस्तशैल गहनं नु विवस्वानाविवेश जलधि नु महीं नु ॥ ७ ॥

मल्लि०—अग्रेति ॥ विवस्वान् सूर्योऽग्रेऽस्तशैलशिखरे ये सानवस्तेषु ये भूरुहास्तान्नितान्तपिशङ्गैरत्यन्तारुणैर्मृदुभिः करैरिव करैरंशुभिस्तैरिति श्लिष्टरूपकम् ।

१५६ | किरातार्जुनीयम्

'बलिहस्तांशवः कराः' इत्यमरः। यद्वा—करैर्मृदुलैरयमवलम्ब्य। अस्त इति शैलोऽस्तशैलः। 'अस्तस्तु चरमक्ष्माभृत्' इत्यमरः। तस्य गहनं नु जलधिं नु महीं न्वाविवेश। तपनस्य पतनसंदेह एव दृष्टः। पतनं तु क्व चास्य तन्न ज्ञायते। शीघ्रभावादिति भावः। अत्र तपने पतनस्यारोप्यमाणस्य गहनाद्यनेरुविषयत्वेन संदेहात्संदेहालंकारः।

हिन्दी—सूर्य अस्तपर्वतके शिखरोंमें समथर जमोनमें वृक्षोंको बहुत हो पोले कोमल करोंसे हाथोंके समान किरणोंसे शिथिलरूपसे अवलम्बन कर अस्तपर्वतके वनमें वा समुद्रमें अथवा पृथ्वीमें घुस गया॥ ७ ॥

आकुलश्चलत्पत्रिकुलानामारवैरनुदितोषसरागः ।
आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥ ८ ॥

मल्लि०—आकुल इति ॥ चलाता कुलायेभ्यः कुलान्प्रति चलतां पतत्रिकुलानां पक्षिसमूहानामारवैः शब्दैराकुलो व्याप्तः। 'अनुदित' शब्देनाभावमात्रम्, 'उपः' शब्देन संध्यामात्रं च विवक्ष्यते। उषसि भव ओषसः 'संधिवेला-' इत्यादिना योगविभागादण्प्रत्ययः। अन्यथा कालादुञ्स्यात्। तथा च अनुदितौषसरागोऽविद्यमानसंधीयाराग इत्यर्थः। एकत्रोपगमादन्यत्रानुदयाच्चेति भावः। अहरिदश्वोऽविद्यमानसूर्यः। एकत्रानुदयात्, अन्यत्रास्तमयाच्चेति भावः। अत एव विपाण्डुः। तिमिरानुदयादिति शेषः। दिनान्तः सायंकालो दिनमुखेन प्रातःकालेन तुल्यतामाययौ। तद्वद्बभूवेत्यर्थः। अत एवोपमालङ्कारः।

हिन्दी—घोंसलेसे घोंसलोंमें चलते हुए पक्षियोंके शब्दोंसे व्याप्त सुबह सन्ध्याकालकी लालियोंसे रहित और सन्ध्यामें सूर्यकी स्थितिसे रहित अतएव पाण्डुतासे रहित सायंकाल प्रातःकालके समान हो गया॥ ८ ॥

आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।
सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥ ९ ॥

मल्लि०—आस्थित इति ॥ स्थगितवारिदपङ्क्त्या पिहितमेघवृत्या संध्ययाऽऽस्थित आक्रान्तो व्याप्तो गगनपश्चिमभागः। सोर्मिः। उर्मिसंक्रान्त इत्यर्थः। तया विद्रुमवितानविभासा प्रवालप्रकरकान्त्या रञ्जितस्य स्वसावर्ण्यमापादितस्य जलधेः श्रियमूहे। संध्यया रक्तवर्णत्वादिति भावः। वहतेः कर्तरि लिट्। तत्सदृशीं श्रियमुवाहेत्यर्थः। अत एव निदर्शनालङ्कारः।

नवमः सर्गः १५७

हिन्दी- मेघसमूहको आच्छादित करनेवाली सन्ध्यासे व्याप्त आकाशके पश्चिम भागने तरंगोंमें संक्रान्त होकर प्रवालसमूहकी कान्तिसे रञ्जित समुद्रकी शोभाको धारण किया ॥ ९ ॥

प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । संध्ययाऽनुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ १० ॥

मल्लि०- प्राञ्जलाविति ॥ प्रबद्धोऽञ्जलिर्येन तस्मिन् प्राञ्जलौ बद्धाञ्जलौ । 'तौ युतावञ्जलिः पुमान्' इत्यमरः । 'प्रादिभ्यो धातुजस्य बहुव्रीहिर्वाच्यो वोत्तर-पदलोपश्च ।' नतमूर्ध्नि नमस्कुर्व्वाणे तत्प्रवणं तत्र संध्यायामेवाहितं चेतो यस्य तस्मिन्नेवंविधेऽपि जने विषये प्रेम हित्वा विहाय विरमन्त्या निवर्त्तमानया । 'व्याङ्-परिभ्यो रमः' इति परस्मैपदम् । संध्यया चापलेनास्थैर्य्येण । युवादिद्वादण्प्रत्ययः । सुजनादितरो दुर्जनस्तस्य मैत्री सख्यमनुविदधेऽनुचक्रे । कर्मणि लिट् । यथा दुर्जन-मैत्री स्निह्यन्तमपि जहाति तद्वत् संध्यापि सेवमानं जनमहासीदित्यर्थः । मित्रस्य कर्म मैत्री । ष्यञन्तान्ङीप् । अत्र संध्यादुर्जनमैत्र्योश्चापलं समानधर्मोऽनुविधानम् । अत एवार्थरूपेणेयमुपमा ।

हिन्दी- हाथ जोड़नेवाले, नमस्कार करनेवाले और सन्ध्यामें चित्त देने-वाले जनमें भी प्रेम छोड़कर लोटती हुई संध्याने अस्थिरतासे दुर्जनकी मैत्रीका अनुकरण कर लिया ॥ १० ॥

औषसातपभयादपलीनं वासरच्छविविरामपटीयः । संनिपत्य शनकैरथ निम्नादन्धकारमुदवाप समानि ॥ ११ ॥

मल्लि०- औषतेति ॥ औषमात् प्राभातिकादातपाद्भवं तस्मादिवेत्युत्प्रेक्षा । अपलीनं क्वचिद्गूढं वासरच्छवेरातपस्य विरामाद्धेतोः पटीयः प्रभविष्णुतरम् । अन्धं करोतीत्यन्धकारं ध्वान्तम् । 'अन्धकारोऽस्त्रियां ध्वान्तम्' इत्यमरः । अथ संध्यापगमनानन्तरं शनकैर्मन्दमन्दं निम्नात् सन्निपत्यागत्य समानि समस्थलानि । उदवाप व्यानशे । अत्र प्रस्तुतान्धकारविशेषणसाम्यादप्रस्तुतार्यप्रतीतेः समासोक्तिर-लङ्कारः । उत्प्रेक्षा त्वङ्गतः स्यात् ।

हिन्दी- प्रातःकालकी धूपकी डरसे कहीं छिपे और धूपके दूर होनेसे जबर्दस्त होकर अन्धकारने सन्ध्या बीतनेके बाद धीरे-धीरे नीचेकी ओरसे आकर समस्थलों-को व्याप्त कर डाला ॥ ११ ॥

१५८ | किरातार्जुनीयम्

एकतामिव गतस्य विवेकः कस्यचित्न महतोऽप्युपलेभे ।
भास्वता निदधिरे भुवनानामात्मनोव पतितेन विशेषाः ॥ १२ ॥

मल्लि०एकतामिति ॥ एकतामभेदं गतस्येव । तमोव्याप्त्या तथा प्रतीतेरियमुत्प्रेक्षा । महतः शैलादेरपि कस्यचित् कस्यापि पदार्थस्य विवेको भेदो नोपलेभे न गृहीतः । अत एवोत्प्रेक्षते—पतितेनास्तमितेन भास्वता सूर्येण । 'भास्वद्विवस्वत्सप्ताश्व—' इत्यमरः । भुवनानाम् । भुवनस्थपदार्थानामित्यर्थः । विशेषा भूधरादिभेदा आत्मनि स्वस्मिन्नेव निदधिर इव निहिता इव । कथमम्यथा नोपलभ्येरन्नित्यर्थः । अत्रोत्प्रेक्षयोः सजातीययोः सापेक्षित्वादङ्गाङ्गिभावेन सङ्करः ।

हिन्दी—अन्धकार व्याप्त होनेके कारण मानों अभेदको प्राप्त कर विशाल पदार्थका भी भेद नहीं लिया गया । अस्त होनेवाले भगवान् सूर्यने भुवनस्थ पर्वत आदिके भेदोंको भी मानों अपनेमें रख दिया ॥ १२ ॥

इच्छतां सह वधूर्भिरभेदं यामिनीविरहिणां विहगानाम् ।
आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ १३ ॥

मल्लि०इच्छतामिति ॥ वधूभिः स्वकामिनीभिः सह । अभेदमवियोगमिच्छताम् । तथा संकल्पवतामपीत्यर्थः । यामिनीषु विरहिणाम् । नियतवियोगानामित्यर्थः । रह्नेतेरावश्यकेऽर्थे णिनिः । यद्वा—निन्दायामिनिः । तेषां विहगानां चक्रवाकाणां मिथुनानि वियोगमापुरेव । न तु नापुरित्ययोगव्यवच्छेदः । तथा हि—कालनियोगो दैवाज्ञा न लङ्घ्यते खलु । दुर्वार इत्यर्थः ।

हिन्दी—अपनी भार्यासे वियोगकी इच्छा न करनेवाले रातमें सदा बिछुड़नेवाले चकवोंके जोड़ेने बिछोहको पा ही लिया । दैवकी आज्ञाका कोई लङ्घन कर सकता है ? ॥ १३ ॥

यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ ।
नीयते स्म नैतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या ॥ १४ ॥

मल्लि०यच्छतीति ॥ शकुन्तौ चक्रवाकपक्षिणि । सामान्यस्य प्राकरणिकविशेषपर्यवसानात् । 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । अन्तिकगते समीपस्थेऽपि दयितायै चक्रवाक्यै प्रतिमुखमभिमुखं यथा तथा वाचं यच्छति वाचमेव ददाने । न तु संगच्छमाने सतीत्यर्थः । 'पाघ्राध्मा-' इत्यादिना दाणो यच्छादेशः ।

नवमः सर्गः १५९

नवमः सर्गः १५९

अम्बुरुहिण्या नलिन्या। उज्झितहर्षं चक्रवाकदुर्दशादर्शनादिव त्यक्तविकासं पङ्कजं मुखमिव नति नम्रत्वं नोयते स्म नीतम्। 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्'। इति नयेतेर्द्विकर्मकत्वादप्रधाने कर्मणि लिट्। प्रायेण दुःखदर्शनात्स्त्रियः खिद्यन्ते। विशेषेण विरहदर्शनादिति भावः। अत्र पङ्कजावनतेश्चक्रवाकविकोशानन्तर्वातहेतु- कत्वमुत्प्रेक्ष्यते। तच्च मुखोपमेयमम्बुरुहिण्याः कामिनीसाम्यं गमयन्त्या निनह्नुवान इत्युपमोत्प्रेक्षयोरङ्गाङ्गिभावेन संकरः। व्यञ्जकाप्रयोगात्प्रतीयमानोत्प्रेक्षा।

हिन्दी—पक्षी ( चकवे ) के समीप रहने पर भी अपनी प्रिया चकवीको सामने वचनमात्र देते हुए देखकर कमलिनीने हर्ष ( विकास ) से रहित कमलको मुखके समान झुका दिया ( संकुचित कर दिया ) ॥ १४ ॥

रञ्जिता नु विविधास्तरुकैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिर्रेण ॥ १५ ॥

मल्लि०—रञ्जिता इति। तिमिरेणान्धकारेण विविधास्तरवः शैलाश्च रञ्जिताः स्वसावर्ण्यमापादिता नु। अन्यथा कथमेषा नीलोदघत्वमिति भावः। गगनं नामितं नु। आभूतलादिति शेषः। 'मिता ह्रस्वः' इत्यत्र वा शब्दानुवृत्त्या व्यवस्थित- विभाषाश्रयणात्र ह्रस्वः। यद्वा—गगन स्थगितमाच्छादितं नु। उभयत्रापि तमसा- वृतत्वान्न दृश्यत इति भावः। तथा धरित्री विषमेषु निम्नोन्नतेषु पूरिता समीकृता नु। अन्यथा तद्विवेकः कथं न स्यादिति भावः। ककुभो दिशश्च संहृता नु लुप्ताः किम्। 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः'। इत्यमरः। कथमन्धथा न दृश्यन्त । इति भावः। अत्र तिमिरे तरुशैलाद्यनेकविषयरञ्ज कत्वादिकमारोप्य संदिग्ध इति संदेहालङ्कारः। अनेन 'नु' शब्दस्य संभावनाद्योतकत्वमत्रोत्प्रेक्षाप्रकारमित्यलङ्कार- सर्वस्वकारः।

हिन्दी—अन्धकारने अनेक वृक्षों और पर्वतोंको रंगा दिया क्या ? आकाशको जमीनकी तरफ झुका तो नहीं दिया ? आकाशपर काले वस्त्रसे आच्छादन तो नहीं किया ? धरतीका ऊँच-नीच स्थानोंमें सम तो नहीं कर दिया ? दिशाओंको लुप्ततो नहीं कर डाला ? ( नहीं तो ये सब क्यों नहीं देखे जा रहे हैं ? ) ॥ १५ ॥

रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय । स्पष्टतारकमियाय नभः श्रीर्वस्तुमिच्छति निरापदि सर्वः ॥ १६ ॥

मल्लि०—रात्रीति ॥ श्रीः शोभा कर्त्री रात्रेः संध्याया रागेण स्वच्छच्छायोपर-

१६०किरातार्जुनीयम्

ञ्जनेन मलिनानि अत एव विरूपं रहयन्ति त्यजन्ति । रहतेस्त्यागार्थाण्णिच्-प्रत्ययः । पङ्कजानि विहाय त्यक्त्वा स्पष्टतारकं नभः खम् । इयाय प्राप । तथा हि—सर्वो जनो निरापदि निर्वाधस्थले वस्तुं स्थातुम् । 'एकाच उपदेशेऽनुदात्तात्' इतोड्-प्रतिषेधः । 'घसिश्च सान्तेषु वसः प्रसारिणि' इति वचनात् । इच्छति ।

**हिन्दी—**श्री (शोभाकी अधिष्ठात्री देवी) ने सन्ध्याके रागसे मलिन अतएव विकासको छोड़ते हुए कमलका परित्याग कर स्पष्ट ताराओंसे युक्त आकाशको प्राप्त कर लिया । सभी जन बाधासे रहित स्थलमें रहनेकी इच्छा करते हैं ॥ १६ ॥

व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः ।
चूर्णमुष्टिरिव लम्भितकान्तिर्वासवस्य दिशमंशुसमूहः ॥ १७ ॥

**मल्लि०—**व्यानश इति ॥ शशधरेण चन्द्रेण विमुक्तः क्षिप्तः केतकीकुसुमकेसर इव पाण्डुर्लम्भिता प्रापिता कान्तिर्यस्य सोंऽशुसमूहो रश्मिसमूहः । चूर्णस्य कर्पूरक्षोदस्य मुष्टिरिव । 'मुष्टि' शब्दस्य द्विलिङ्गत्वेऽप्यत्र पुंल्लिङ्गतैव ग्राह्या । उपमेयानुसारान् । वासवस्येन्द्रस्य दिशं प्राचीं व्यानशे व्याप । अनेन दिशानिशाकरयोर्नायिकानायकोपम्यं गम्यते ।

**हिन्दी—**चन्द्रमासे छोड़े गये केतकीके फूलके केसरके समान सफेद कान्तिको प्राप्त कराये गये किरणसमूहने कर्पूरचूर्णकी मुष्टिके समान इन्द्रकी दिशा (पूर्व) को व्याप्त किया ॥ १७ ॥

उज्झती शुचिमिवाशु तमिस्रामन्तिकं व्रजति तारकराजे ।
दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥ १८ ॥

**मल्लि०—**उज्झतीति ॥ इन्द्रस्येयमैन्द्री दिक् प्राची तारकराजं नक्षत्रनाथे । 'कनीनिकायां नक्षत्रे तारकं तारकापि च' । इति विश्वः । अन्तिकं समीपं व्रजति सति । आशु तमिस्रामन्धतमसम् । 'तमिस्रा स्त्री ध्वान्तेनिशि निश्यन्धतमसे न ना' इति वैजयन्ती । शुचमिव । विरहदुःखमिवेत्यर्थः । उज्झती विजहती । प्रसादो नैर्मल्यमेव गुणः स एव मण्डनं यस्य तत् । रश्मयो हास इव तेन विशदं मुखमिव मुखमग्रभागम् । श्लिष्टोपमेयम् । ऊहे वहति स्म । अत्र दिश्चन्द्रयोर्नायिकानायकोपम्यं गम्यते ।

**हिन्दी—**इन्द्रकी दिशा (प्राची) ने नक्षत्रोंके स्वामी चन्द्रमाको समीप आते हुए देखकर शीघ्र गाढ अन्धकारकी तरह शोक (विरहके दुःख) को मानो छोड़ती

नवमः सर्गः १६१

नवमः सर्गः १६१

हुई प्रसाद (निर्मलता) रूप गुणरूप अलंकारवाले हास्यके समान किरणसे विशद मुखके समान अग्रभागको धारण करती थी ॥ १८ ॥

नीलनीरजनिभे हिमगौरं शेलरुद्धवपुषः सितरश्मेः । खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥ १९ ॥

मल्लि०-नीलेति। शेलरुद्धवपुष उदयगिरितिरोहितमण्डलस्य सितरश्मेरिन्दोः संबन्धि नीलनीरजनिभे श्यामकमतुल्ये खे आकाशे निपतत् प्रसरत् हिमवद् गौरं शुभ्रं करजालमंशुसमूहो वारिधेः पयसि निपतद् गाङ्गमम्भ इव रराज। उपमानेऽपि विशेषणानि योज्यानि।

हिन्दी--उदयपर्वतमे तिरोहित मण्डलवाले चन्द्रमाके नीलकमलके समान आकाशमें फैलता हुआ बर्फके समान सफेद किरणसमूह समुद्रके जलमें पडकर गङ्गाजलके समान शोभित हो गया ॥ १९ ॥

द्यां निरुन्धदतिनीलघनाभं ध्वान्तमुद्यतक रेण पुरस्तात् । क्षिप्यमाणमसितेतरभासा शंभुनेव करिचर्म चकासे ॥ २० ॥

मल्लि०-द्यामिति । द्यां निरुन्धत् आकाशमावृण्वत् । अतिनीलघनाभं मेचकम् । उद्यन्तः करा अंशवो हस्ताश्च यस्य तेन । असिताभ्य इतराः शुभ्रा भासो यस्य तेन चन्द्रेण पुरस्तात् प्राच्यामग्रे च क्षिप्यमाणं नुद्यमानं ध्वान्तं शंभुना क्षिप्यमाणं करिचर्मेव चकासे । उपमानेऽपि विशेषणानि योज्यानि ।

हिन्दी--आकाशको आच्छादित करता हुआ, अत्यन्त नीलवर्णवाले मेघके समान नीलवर्ण, उगते हुए कर (किरणों) और हाथोंवाले सफेद कान्तिवाले चन्द्रमासे पूर्व दिशा और अग्रभागमें हटाया जाता हुआ अन्धकार, ताण्डवनृत्यमें शिवजीसे फेंके जाते हुए हाथीके चर्मके समान शोभित हुआ ॥ २० ॥

अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले । निःसृतस्तिमिरभारानरोधादुच्छ्वसन्निव रराज दिगन्तः ॥ २१ ॥

मल्लि०-अन्तिकेति । अन्तकान्तिकेऽतिसमीपे । 'प्रकारे गुणवचनस्य' इति द्विर्भावः । कर्मधारयवद्भावात्सुपो लुक् । अन्तिकान्तिकगतेनेन्दुना विसृष्टे मुक्ते दीधितिजाले किरणसमूहे जिह्मतां संकोचं जहति त्यजति सति तिमिरभारैस्तमःस्तोमैर्निरोधादुपरोधात् । निःसृतो निर्गतो दिगन्त उच्छ्वसन् प्राणन् इव रराजेत्युत्प्रेक्षालङ्कारः ।

११ कि०

१६२किरातार्जुनीयम्

हिन्दी — अतिशय समीप आये हुए चन्द्रमासे छोड़े गये किरणसमूहके संकोच को छोड़नेपर अन्धकारसमूहोंकी रुकावटसे निकला हुआ होकर दिशाका भाग मानों उच्छ्वास लेता हुआ सुशोभित हुआ॥ २१ ॥

लेखया विमलविद्रुमभासा संततं तिमिरमिन्दुरुदासे।
दंष्ट्रया कनकटङ्कपिषङ्ग्या मण्डलं भुव इवादिवराहः॥ २२॥

मल्लि० — लेखयेति। इन्दुविमलविद्रुमभासा स्वच्छप्रवालसवर्णया लेखया कलया सततं सान्द्रं तिमिरमादिवराहः कनकस्य टङ्कः शिलाभेदकं शस्त्रम्। 'टङ्कः पाषाणदारणः' इत्यमरः। तद्वत् पिषङ्ग्या लोहितवर्णया। 'पिषङ्गाद्द्वेपंतह्रस्वानम्' इति ङीप्। दंष्ट्रया भुवो मण्डलमिव। उदास उच्चिक्षेपे। अस्यतेः कर्तरि लिट्। सोपसर्गात्स्यतेरात्मनेपदं विकल्पात्।

हिन्दी — चन्द्रमाने निर्मल प्रवालके समान कलासे गाढ अन्धकारको उस तरह फेंक दिया जैसे आदिवराहने सुवर्णके शिलाभेदक शस्त्रके समान पीली वर्णवाली दाढ़ से भूमण्डल उठाकर फेंक दिया था ॥ २२ ॥

दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः।
हेमकुम्भ इव पूर्वपयोधेरुन्ममज्ज शनकैस्तुहिनांशुः॥ २३॥

मल्लि० — दीपयन्निति। अथ उदयान्तरं किरणौघैर्नभो दीपयन् प्रकाशयन् कुङ्कुमेनारुणो यः पयोधरः कुचस्तद्वत् गौरोऽरुणः। उदयरागादिति भावः। तुहिनांशुरिन्दुः शनकैः पूर्वपयोधेः पूर्वसागरात् हेम्नः कुम्भ इव उन्ममज्ज उज्जगामेत्युत्प्रेक्षा।

हिन्दी — उदयके बाद किरणसमूहसे आकाशको प्रकाशित करता हुआ कुङ्कुमसे लाल कुचके समान अरुणवर्णवाला चन्द्रमा धीरे-धीरे पूर्वसमुद्रसे सुवर्णकलशके समान ऊपर उठ गया ॥ २३ ॥

उद्गतेन्दुमहविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः।
व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः॥ २४॥

मल्लि० — उद्गतेन्दुमिविति॥ लोको जनः। 'लोकस्तु भुवने जने' इत्यमरः। उद्गतेन्दुमुदितचन्द्राम्। अविभिन्नतमिस्रामविशेपितध्वान्तां रजनीं व्यंशुकमपनीतावगुण्ठनमत एव स्फुटं दृश्यमानं मुखं यस्याः सा तथापि व्रीडयाऽतिजिह्मां वक्रां

नवमः सर्गः १६३

नवमः सर्गः १६३

नववधूं नवोढाम् । 'वधूर्नवोढयोषायां स्नुषाभार्याङ्गनासु च' । इति धरणिः । स्त्रियमिवावितृप्तः सन् पश्यति स्म ।

हिन्दी — चन्द्रमाके उदय होनेपर भी लोकने अप्रसन्न अन्धकारवाली रातको घूंघट छूनेपर स्पष्ट मुखवाली परन्तु लज्जावश प्रतिभय वक्र मथी वधूकी तरह तृप्त न होकर देखा ॥ २४ ॥

न प्रसादमुचितं शशिना द्यौर्नोद्धृतं तिमिरमद्रिवनेभ्यः । दिङ्मुखेषु न बभार विकीर्णं भूषितेव रजनी द्रिमभामा ॥ २५ ॥

मल्लि० — नेति । हि०... शशिना द्योराकाशम् । उचितं योग्यं प्रसादं न गमिना अद्रयो वनानि च तेभ्यः । तिमिरं नोद्धृतं नोत्सारितम् । दिशां मुखेषु धाम तेजश्च न विकीर्णं न पर्यस्तम् । तथापि रजनी भूषितेव । उक्तगुणासम्पत्ताविति भावः । अत्र प्रसाधनकारणाऽभावेऽपि तत्सादृश्योक्त्या 'विभावनालङ्कारः' ।

हिन्दी — चन्द्रमाके कारण आकाश उचित निर्मलताको प्राप्त नहीं हुआ । पर्वतों और वनोंसे अन्धकार दूर नहीं किया गया । दिशाओंके अग्रभागोंमें तेज भी नहीं फैला तो भी रात अलंकृत ही है ॥ २५ ॥

मानिनीजनविलोचनपातानुष्णबाष्पकलुषान् प्रतिगृह्णन् । मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ २६ ॥

मल्लि० — मानिनीति ॥ उदितः शीतमयूख रुषेण विरहव्यथन रुषेण कलुषानाविलान् । मानिनीजनस्य कलहान्तरितानायिकाजनस्य विलोचनपातान् । मानभङ्गजनितरोषेण भीष्णानिति भावः । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता । कलहान्तरिता' इति दशरूपके । प्रतिगृह्णन् स्वीकुर्वन् । अपरिहार्यत्वादिति भावः । अत एव भीतभीतो भीतप्रकार इत्युत्प्रेक्षा । मन्दमन्दं मन्दप्रकाशम् उभयत्रापि 'प्रकारे गुणवचनस्य' इति द्विर्भावे कर्मधारयवद्भावात्सुब्लोपः । खमाकाशं प्रययौ ।

हिन्दी — उगे हुए चन्द्रमा विरहके कारण गर्म आँसूसे मलिन मानिनी (कलहके कारण पतिसे बिछुड़ी हुई) नायिकाके दृष्टिपातको लेते हुए डरे हुए-से होकर मन्द प्रकाशवाले आकाशमें पहुँच गये ॥ २६ ॥

१६४ किरातार्जुनीयम्

श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः । उद्द्रमन्नभिरराज समन्तादङ्गराग इव लोहितरागः ॥ २७ ॥

मल्लि०—श्लिष्यत इति ॥ तताः प्रसारिताः करा अंशुहस्ता येन तस्य तत- करस्य तारका एव प्रियवधूरुपकण्ठमन्तिके कण्ठे वा । अत्यन्तसंयोगे द्वितीया। विभक्त्यर्थेऽव्ययीभावः । श्लिष्यतः प्रत्यासीदत आलिङ्गतश्च हिमांशोः सम्बन्धी समन्तादुद्द्रमन् उत्सर्पन् । अर्धामितरहत्वादकथकत्वम् । 'पारेऽर्धमन्तरं दूतेः' इति वचनात् । लोहितरागोऽरुणप्रभः । अङ्गराग इवाभिरराज । आलिङ्गनादङ्गे गलतीति प्रसिद्धिः । अत्र रूपकोत्प्रेक्षयोरङ्गाङ्गिभावेन सङ्करः ।

हिन्दी--फैले हुए कर (किरणरूप हाथोंवाले) तथा तारारूप प्रिय वधुओंके समीपमे वा कण्ठमें आलिङ्गन करनेवाले चन्द्रमाके चारो ओर फैलते हुए और कान्तिवाले अङ्गरागके समान शोभित हुई ॥ २७ ॥

प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि । क्षीरसिन्धुरिव मन्दराभिन्नः काननान्यविरलोच्चतरूणि ॥ २८ ॥

मल्लि०—प्रेरित इति ॥ शशधरेण चन्द्रेण प्रेरितो विसृष्टः करौघः संहतानि सान्द्राणि अपि तमांसि मन्दरेण मन्दराचलेन भिन्नो नुन्नः क्षीरसिन्धुरिवविरलो- च्चानि सान्द्रा उच्चा उन्नताश्च तरवो येषु तानि काननानीव नुनोद दूरीचकार ।

हिन्दी—मन्दर पर्वतसे प्रेरित क्षीरसमुद्रने जैसे समुद्रमन्थनके समयमें घने और ऊँचे पेड़ोंवाले वनोंको दूर कर दिया वैसे ही चन्द्रमासे प्रेरित किरणसमूहने गाढ अन्धकारको दूर कर दिया ॥ २८ ॥

शारतां गमितया शशिपादैश्छायया विटपिनां प्रतिपेदे । न्यस्तशुक्लबलिचित्रतलाभिस्तुल्यता वसतिवेश्ममहीभिः ॥ २९ ॥

मल्लि०—शारतामिति । शशिपादैश्चन्द्ररश्मिभिः । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । शारतां शबलतां गमितया । 'शारः शबलपीतयोः' इति विश्वः। विटपिनां तरुणां छायया न्यस्तैर्निक्षिप्तैः शुक्लबलिभिः श्वेतपुष्पाद्युपहारैश्चित्राणि तलानि उपरिभागा यासां ताभिः । 'करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्' इत्यमरः । वसतिवेश्ममहीभिर्निवासगृहभूमिभिः । तुल्यता साम्यं प्रतिपेदे प्राप्ता। कर्मणि लिट् । आर्थीयमुपमा ।

हिन्दी--चन्द्रमाकी किरणोंसे चित्र-विचित्र वर्णको प्राप्त पेड़ोंकी छायाने

नवमः सर्गः १६५

रखे गये सफेद पुष्प आदि उपहारोंसे चित्र-विचित्र ऊर्ध्वभागवाली निवासगृहकी भूमिसे समानताको प्राप्त किया ॥ २९ ॥

आतपे धृतिमत्ता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम् ॥ ३० ॥

**मल्लि०—**आतप इति ॥ आतपे । दुःखकरेऽपीति भावः । वध्वा चक्रवाक्या सह । अत एव धृतिमत्ता संतोषवता यामिनीषु विरहिणा नियतविरहेणात एव विहगेन चक्रवाकेण हिमरश्मेश्चन्द्रस्य किरणा न सेहिरे । तथा हि—दुःखिते संजात-दुःखे मनसि सर्वम् । मनोहरमपीति भावः । असह्यं सोढुमशक्यम् । 'शकिनहोश्च' इति यत्प्रत्ययः । पूर्वं तु 'आतपाः' इति पाठे । अत्र वध्वा महातपा अपि सेहिरे । तद्विरहिणा तु शशिकिरणा अपि न सेहिरे इति योज्यम् । फलं तु समानम् ।

**हिन्दी—**दुःख देनेवाले सूर्यके आतप ( धूप ) में भी मादा ( चकवी ) के साथ सन्तोषवाले परन्तु रातमें मादाके विरह वाले पक्षी ( चकवे ) ने शीतल किरणवाले ( चन्द्रमा ) के किरणोंको सहन नहीं किया क्योंकि मनके दुःखित होनेपर सभी वस्तु असह्य होती हैं ॥ ३० ॥

गन्धनुद्धतरजः कणवाही विक्षिपन्विकसतां कुमुदानाम् ।
आदुधाव परलीनविहङ्गा यामिनीमरुदपां वनराजी ॥ ३१ ॥

**मल्लि०—**गन्धमिति ॥ अपां कणवाही । योग्यान्वये व्यवधानमपि सोढव्यम् । विकसतां कुमुदानां गन्धं सौरभम्, उद्धतं रजः परागो यस्मिन्कर्मणि तद्यथा तथा । 'शेषाद्विभाषा' इति विकल्पान्न कप् । विक्षिपन् विकिरन् ; इत्थं शिशिरः सुरभिः । यामिनीमरुत् रात्रिवायुः । परितो लीनाः शयिता विहङ्गा यासु ता वनराजीः । आदुधाव ईषत्कम्पयामास । विहङ्गशयनाविरोधेन वनराजिः किञ्चित्कम्पितेत्यर्थः । 'आङोषदर्थेऽभिव्याप्तौ' इत्यमरः । यथा कश्चित् कामिनीं गन्धो-दकादिना सिञ्चन्नाकंपति तद्वदिति भावः ।

**हिन्दी—**जलके कणोंका वहन करनेवाले, खिलते हुए कुमुदोंके सुगन्ध-( खुशबू ) को उड़े हुए परागको बिखेरते हुए रात्रिके वायुने चारों ओर सोये हुए पक्षियोंवाली वनपङ्क्तिको कुछ कम्पित कर दिया ॥ ३१ ॥

संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलोघः ।
यामिनीघनतया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ३२ ॥

१६६किरातार्जुनीयम्

मल्लि०—संविधातुमिति ॥ यामिनी वनितेव तया रात्रिरूपया कान्तस्य मन्मथस्याभिषेकं त्रिभुवनजैत्रयात्राभिषेकं संविधातुं सम्यक्कर्तुम् । अंशवो जलाभोषास्तेषामोधः पूरो लसन् यस्मिंस्तः । तत्तचिह्नः स्फुटलाञ्छन इन्दुः सोत्पलो रजतकुम्भ इव । उदास उत्क्षिप्तः । अस्यतेः कर्मणि लिट् । अत्र संविधातुमिति तुमुना प्रतीयमानोत्प्रेक्षानुप्राणितोऽयमुपमोत्प्रेक्षयोः संकरः ।

हिन्दी—रात्रिरूप स्त्रीके समान रात्रिने कामदेवका अभिषेक करनेके लिए जलके समान किरणोंसे शोभित हुए समूहवाले, स्पष्ट लञ्छनवाले चन्द्रमाको नीलोत्पलसे युक्त चाँदीके घड़ेके समान उठा लिया ॥ ३२ ॥

ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः ।
यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापमनङ्गः ॥ ३३ ॥

मल्लि०—ओजसेति ॥ ओजसा । अनूनं संपूर्णमपि । असहायं सहायरहितम् । पुरुषमिति शेषः । जयश्रीर्नोपयाति खलु नूनम् । कुतः । यत् यस्मात् । विभुः समर्थोऽप्यनङ्गः शशिमयूखानां सखा सहचरस्तथोक्तः । ससहायः सन्नित्यर्थः । विजयि विजयशीलम् । ‘जिदृक्षि--’ इत्यादिनेनिप्रत्यः । चापमाददे । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ।

हिन्दी—तेजसे पूर्ण होने पर भी सहायरहित (पुरुष) के पास विजयलक्ष्मी नहीं जाती यह निश्चित है । क्योंकि समर्थ होकर भी कामदेवने चन्द्रकिरणोंका मित्र होकर ही विजयशील धनुको ले लिया ॥ ३३ ॥

सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् ।
सन्निकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीषे ॥ ३४ ॥

मल्लि०—सद्मनामित्यादि ॥ संनिकृष्टरतिभिरासन्नसुरतोत्सवैरत एव सुरदारैः सुरवधूभिः । आहितशोभैः प्रागेव विहितकेलिगृहमण्डनैरपि पुनः सद्मनां केलिगृहाणां विरचना मण्डनम् । ईषेऽभिलेषे । इषेः कर्मणि लिट् । आगतप्रियकथैः प्राप्तप्रियजनवृत्तान्तैरपि दूतस्य कर्म दूत्यं दूतोव्यापार ईषे । दूतस्य भावकर्मणोर्यत् प्रत्ययः । तथा भूषितैरपि विभूषणं प्रसाधनम् । ईषे । औत्सुक्यातिरेकादिति भावः।

हिन्दी—निकट सुरतक्रीडावाली सुरसुन्दरीयों ने पहले ही क्रीडागृहको सजाने पर भी फिर क्रीडागृहोंकी रचना करनेका अभिलाष किया । प्रियजनका वृत्तान्त सुनकर भी दूतीको भेजनेकी इच्छा की, तथा भूषित होकर भी भूषण करनेका अभिलाष किया ॥ ३४ ॥

नवमः सर्गः १६७

न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा ।
साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥ ३५ ॥

**मल्लि०—**नेति ॥ विरहे वियोगावस्थायां स्रजो माल्यानि चन्दनानि गन्धा मदिरा मद्यानि वा रमणीभ्यः । ‘रुच्यर्थानां प्रीयमाणः’ इति संप्रदानत्वाच्चतुर्थी । न रुरुचिरे न रोचन्ते स्म । हि यस्मात् प्रियसमागम एव रतेः साधनेषु स्रगादिषु रम्यतां मनोहरत्वम् । रुचिकरत्वमिति यावत् । उपाधत्त आदत्ते । तदभावादरुचि-र्युक्तैवेत्यर्थः । अत एव वैधर्म्यात्कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः । रम्यन्त एष्विति रम्याणि । ‘पोरदुपधात्’ इति यत्प्रत्ययः, ‘कृत्यल्युटो बहुलम्’ इत्यधि-करणार्थः ।

**हिन्दी—**सुरसुन्दरियों ( अप्सराओं ) को वियोगकी अवस्थामें न मालाओं-की, न चन्दनोंकी और न मदिराकी ही रुचि थी, क्योंकि प्रियका समागम ही रतिके साधनोंमें मनोहरताको प्राप्त करता है ॥ ३५ ॥

प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः ।
मानिनीभिरपहस्तितधैर्यः सादयन्नपि मदोऽवलम्बे ॥ ३६ ॥

**मल्लि०—**प्रस्थिताभिरिति ॥ अधिनाथनिवासं प्रियगृहं प्रति प्रस्थिताभिः प्रच-लिताभिर्ध्वंसितानि खण्डितानि प्रियसखीवचनानि स्वय प्रस्थानं लाघवायेत्येवं-रूपाणि याभिस्ताभिः । मानिनीभिः । कोपनाभिः । ‘स्त्रीणामीर्ष्याकृतः कोपो मानोऽ-न्यासङ्गिनि प्रिये’ । इति लक्षणात् । अपहस्तितं निरस्तं धैर्यं येन सः । तथा साद-यन् मानं शरीरं च कर्षयन्नपि सदोषोऽपीत्यर्थः । मदोऽवलम्बे स्वीकृतः । अज्ञान-व्याजेन लाघवापह्नवसौकर्यादिति भावः ।

**हिन्दी—**पहले प्रियसखीके मिलापके लिए किये गये वचनोंको भी ठुकरानेवाली मानिनी स्त्रियोंने प्रियके निवासस्थानमें प्रस्थान कर धैर्यको दूर करनेवाले, अभि-मान और शरीरको कृश करनेवाले मद ( मद्य ) का अवलम्बन किया ॥ ३६ ॥

कान्तवेश्म बहु सन्दिशतीभिर्यातमैव रतये रमणीभिः ।
मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥ ३७ ॥

**मल्लि०—**कान्तेति ॥ रतये सुरताय बहु संदिशतीभिरनेकं कथयन्तीभिः । संदेशव्यसनाद् गन्तव्यमप्यजानतीभिरित्यर्थः । रमणीभिः । कान्तवेश्म यातं प्राप्त-

१६८ | किरातार्जुनीयम्

मेव। न तु मध्येमार्गान्निवृत्तमित्यर्थः। तथा हि—मन्मथेन परिलुप्तमतीनां स्खलितं विरुद्धाचरणमपि प्रायश उपकारि भवति।

हिन्दी—रतिक्रीडाके लिए अनेक सन्देशोंको भेजती हुई अप्सराओंने प्रिय-भवनको प्राप्त ही कर लिया, कामदेवसे लुप्त बुद्धिवालोंका विरुद्ध आचरण भी प्रायः उपकार करनेवाला होता है॥ ३७॥

आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम्।
निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या॥ ३८॥

मल्लि०—आश्विति॥ आशु कान्तमभिसारितवत्याः अभिगतवत्याः। स्वार्थे णिच्। योषितः सम्बन्धि पुलकै रुद्धावावृतौ कपोलौ यस्य तत्। खण्डा प्रमृष्टा पत्राणां पत्रलेखानां तिलकस्य च आकृतिः सन्निवेशः यस्य तत् व्यक्तं मुखं कान्त्याऽखण्डं पूर्णम्। इन्दुं निर्जिगाय जयति स्मेत्यार्योपमया , जयति द्वेष्टि' इति दण्डिना सादृश्यार्थेषु गणनात्।

हिन्दी—शीघ्र प्रियके पास अभिसार करनेवाली स्त्रीका रोमांचसे आवृत्त कपोलवाले, और मिटी हुई पत्ररेखाओं और तिलकके आकृतिवाले मुखने अपनी कान्तिसे पूर्णचन्द्रको जीत लिया॥ ३८॥

उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि! साध्वी।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः॥ ३९॥

मल्लि०—उच्यतामिति। तत्र नायिकाह—स धूर्तोऽशेषमखिलं वचनीयं वक्तव्यमुच्यताम्। निःशङ्कमपालभ्यतामित्यर्थः। ब्रूञो दुहादित्वादप्रधाने कर्मणि लोट्। अथ सख्याह—हे सखि, ईश्वरे भर्तरि नायके विषये परुषता पारुष्यं न साध्वी न हिता। अथ नायिकाह—तर्हि एनमनुनीय सान्त्वयित्वा, आनय। पुनः सख्याह—विप्रियाणि जनयन् अप्रियाणि कुर्वन् स कथं वाऽनुनेयोऽनुनयार्हः।

हिन्दी—नायिका कहती है—उस धूर्तको सब कुछ कहना चाहिए (उलाहना देना चाहिए)।
सखी कहती है—नायकके विषयमें कठोरता हित करनेवाली नहीं होती है।
नायिका कहती है—तब उनको सान्त्वना देकर ले आओ।
सखी कहती है—अप्रिय करते हुए वे कैसे सान्त्वनाके योग्य होंगे?॥ ३९॥

नवमः सर्गः १६९

नवमः सर्गः १६९

किं गतेन न हि युक्तमुपैतुं, कः प्रिये सुभगमानिनि ! मानः ।
योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥ ४० ॥

मल्लि०—किमति । पुनर्नायिकाह—तर्हि गतेन तं प्रति गमनेन किम् । कोऽर्थ इत्यर्थः । अत उपैतुं गन्तुं न युक्तं हि । पुनः सख्याह—हे सुभगमानिनि सौन्दर्य-मानिनि । सुभगमात्मानं मन्यत इति । ‘आत्ममाने खश्च’ इति चकाराण्णिनिप्रत्ययः । तस्मिन्, प्रिये विषये को मानः । मानो न कर्तव्य इत्यर्थः । यद्वा—नहीत्यादि सखीवाक्यम् । तत्र नहीत्येकं वाक्यम् । यदुक्तं सखीत्यर्थः । हे सखि, किं तूपैतुं युक्तम् । कुतः । सुभगमानिनि प्रिये को मानः । तादृग्जनस्य दुर्लभत्वादिति भावः । इति एवंरूपासु योषितां कथासु विषये समेतैः । समीपमगत्याऽऽकर्णयद्भिरित्यर्थः । कामिभिर्बहुरसाऽनेकास्वादा धृतिः संतोष ऊहे ऊढा । अत्र परोक्षोक्त्युक्तनिर्वेशाद्य-नेकभावशबल्यपरिपूर्णकान्ताकथाकर्णनादुत्तरोत्तरमपूर्वहृदयानन्दनिष्ठामन्दानन्दसंदो-हमविन्दन्नित्यर्थः । प्रविभक्ता प्रौढाः कलहान्तरिताश्च नायिकाः ।

हिन्दी—फिर नायिका कहती है---तब फिर उनके पास जाना ठीक नहीं है । सखी कहती है—अरे ! अपने सौन्दर्यका अभिमान करनेवाली ! प्रियके विषयमें क्या मान (अभिमान) करती हो ? इस प्रकारके स्त्रियोंके वचनोंमें समीप आकर सुनते हुए प्रियजनोंने अनेक आस्वादवाले सन्तोषको प्राप्त किया ॥ ४० ॥

योषितः पुलकरोधि दधत्या घर्मवारि नवसङ्गमजन्म ।
कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥ ४१ ॥

मल्लि०—योषित इति । पुलकरोधि रोमाञ्चव्यापि नवसंगम एव जन्म यस्य तत् । घर्मवारि स्वेदोदकं दधत्या इति सात्त्विकोक्तिः । कान्तवक्षसि पतन्त्या इत्योत्सुक्योक्तिः । योषितो या लुलितमण्डनता उत्सृष्टप्रसाधनत्वम् । भावे तल् । सैव मण्डनं बभूव । तादृशफलवत्त्वात्स्येति भावः ।

हिन्दी—रोमाञ्चको व्याप्त करनेवाले, नव समागमसे उत्पन्न श्रमजल- ( पसीने ) को धारण करती हुई और प्रियके वक्षःस्थल (छाती) पर पड़ती हुई स्त्रीकी शरीरकी सजावट मिटना भी भूषणरूप हो गया ॥ ४१ ॥

शीधुपानविधुरासु निगृह्णन्मानमाशु शिथिलीकृतलज्जः ।
सङ्गतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥ ४२ ॥

मल्लि०—शीध्विति ॥ शेरतेऽनेनेति शीधु पक्वेक्षुरसविकारो मद्यविशेषस्तस्य

१७०किरातार्जुनीयम्

पानेन विधुरासु विमूढासु । तथा दयितैः संगतासु स्वयं प्राप्तासु च कामिनीषु दक्षि- मानवतीषु । आशु मानं कोपं निगृह्णन् निवर्तयन् शिथिलीकृता लज्जा येन स मदनो नु मदो नु । उपलेभे । लक्ष्यते स्मेत्यर्थः । प्रियसमागमशीधुपानरूपोभयकारण- भङ्गादुभयथा माननिग्रहाद्यनुभावसाधारण्याच्च सन्देहः । स एवालङ्कारः

हिन्दी — शीधु (मदिराविशेष) पीनेसे मतवाली और अपने प्रियके पास पहुँची हुई मानवती अप्सराओंमें शीघ्र मान (कोप) को दूर करता हुआ और लज्जाको भी शिथिल करनेवाला कामदेव है या मद है? (नहीं कह सकते हैं।)

द्वारि चक्षुरधिपाणि कपोलो, जीवितं त्वयि, कुतः कलहोऽस्याः ? कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय ॥ ४३ ॥

मल्लि० — द्वारीति ॥ द्वारि त्वदागमनमार्ग एव चक्षुः, इत्यौत्सुक्योक्तिः । अधिपाणि पाणौ करे कपोलो इति चिन्तोक्तिः । किं बहुना, जीवितं त्वयि त्वदधीनम् । त्वां विना न जीवतीत्यर्थः । इति गाढानुरागोक्तिः । अतोऽस्याः कलहो विग्रहः कुतः । इति एवं कामिनां प्रीतये पुनरुक्तं पुनःपुनःरुच्यमानं वचो दूती- वाक्यं नवनवत्वं नवप्रकारत्वमपूर्ववद्भावम् । इयाय । प्रकारार्थे द्विर्भावः । कर्मधार- यवद्भावात्सुपो लुक् । कान्तानुरागप्रकट्नात् कामिनः प्रहृष्यन्तीति भावः । कल- हान्तरितेयम् ।

हिन्दी — कलहान्तरिता नायिकाओंकी सखियाँ उनके प्रिय नायकोंसे कहती है—'आपकी प्रियाकी दरवाजेमें दृष्टि, हाथमें कपोल, और आपमें अधीन जीवन है, इस कारण इनका कलह (झगड़ा) ही कहाँ है?' इस प्रकार कामुक नायकोंकी प्रीतिके लिए वारंवार कहा गया दूतीका वाक्य अपूर्व भावको प्राप्त हुआ ॥ ४३ ॥

साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् । सुभ्रुवो जनयति स्म विभूषां, सङ्गतावुपरराम च लज्जा ॥ ४४ ॥

मल्लि० — साचीति ॥ लोचनयुगं साचि तिर्यङ् नमयन्ती प्रिये तिर्यक् पात- यन्ती । न तु समरेखयेत्यर्थः । दयितवक्षसि पातं रुन्धती दृष्टिमपि प्रतिबध्नती लज्जा सुभ्रुवो नायिकाया विभूषां शोभां जनयति स्म । सङ्गतौ सुरतप्रसङ्गे सति, उपरराम च । एवं यतस्तदा चाभूषणमेवेति भावः । 'विभाषाकर्मका' इति परस्मै- पदम् ।

नवमः सर्गः१७१

हिन्दी—दोनों नेत्रोंको नायकमें तिरछे (सीधे नहीं) डालती हुई, प्रियके वक्षःस्थल (छाती) में पतनको रोकती हुई लज्जा सुन्दरीकी शोभाको उत्पन्न करती थी; परन्तु संभोगके प्रसङ्गमें वह (लज्जा) भी दूर हो गई ॥ ४४ ॥

सव्यलीकमवधीरिखिन्नं प्रस्थितं सपदि कोपपदेन ।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः ॥ ४५ ॥

मल्लि०सव्यलीकमिति। सव्यलीकं सापराधम्, अत एव अवधीरितोऽवज्ञानः सन् खिन्नस्तम् । 'पूर्वं काल' - इत्यादिना तत्पुरुषः । सपदि कोपस्य पदेन व्याजेन प्रस्थितं निर्गच्छन्तं प्राणनाथं प्रियं योषितः संबन्धी अभिवाष्पनिपातः आभिमुख्येना-श्रुमोक्षः सुहृदिव रुणद्धि स्म रुरोध । बाष्पपातस्य मन्युमोक्षलिङ्गतया प्रस्थान-प्रतिबन्धकत्वात् सुहृदोपम्यम् । इयमधीरा खण्डिता—ज्ञातेऽन्यासङ्गिनि पतौ खण्डिते-र्ष्याकषायिता । अधीराश्रु विमुञ्चन्ती विज्ञेया चात्र नायिका ॥' इति दशरूपके।

हिन्दी--किसी (अधीरा खण्डिता) नायिकाके अपराधी होनेसे तिरस्कृत, खिन्न और उसीक्षण क्रोधके बहाने प्रस्थान करते हुए प्राणनाथको सामने ही किये गये नायिकाके अश्रुपातने मित्रके समान रोक डाला ॥ ४५ ॥

शङ्किताय कृतबाष्पनिपातामोर्ष्यया विमुखितां दयिताय ।
मानिनीमभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥ ४६ ॥

मल्लि०शङ्कितायेति ॥ शङ्किताय दयितायाविश्वस्ताय नायकाय । ईर्ष्यया विमुखितां विमुखीकृताम् । अत एव कृतबाष्पनिपातां मानिनीं घनरोमविभेदः सान्द्रपुलकोदयोऽभिमुखमाहितं चित्तं यया ताम् । निष्कोषामित्यर्थः । शंसति स्म । व्यनक्तिस्मेत्यर्थः । अन्यथा सात्त्विकानुदयादिति भावः । अत्रापि पूर्वोक्तैव नायिका ।

हिन्दी--अविश्वस्त नायकके लिए ईर्ष्यासे पराङ्मुख की गई मानिनीको गाढ रोमाञ्चको उत्पत्तिने यह अब कोपरहित है ऐसी सूचना दे दी ॥ ४६ ॥

अथ संभोगशृङ्गारमाह, तत्रापि बाह्यरंतमाह—

लोलदृष्टि वदनं दयितायाश्चुम्बति प्रियतमे रभसेन ।
व्रीडया सह विनीवि नितम्बादंशुकं शिथिलतामुपपेदे ॥ ४७ ॥

मल्लि०लोलेति ॥ प्रियतमे लोलदृष्टि चञ्चलेक्षणं दयिताया वदनं रभसेन बलात्कारेण चुम्बति सति विनीवि निर्गतबन्धनम् । अंशुकं नितम्बाद् व्रीडया सह