भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

द्वादशः सर्गः २५९

शीघ्रमेव हरिष्यतीति भावः । 'निकटागामिके पुरा' इत्यमरः । 'यावत्पुरा- निपातयोर्लट्' इति भविष्यदर्थे लट् । तथा हि—यत् कर्म तपसामदुष्करं तत्किमि- वास्ति । न किञ्चित्तेन दुष्करमस्तीत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तर- न्यासः ॥ २९ ॥

हिन्दी—वह पुरुष जीते गये सारवाले देवताओं और दैत्योंसे युक्त इस संसार को शीघ्र तिरोहित कर डालेगा, क्योंकि जो कर्म तपस्यासे दुष्कर है वह कर्म क्या है ? ( कुछ भी नहीं ) ॥ २९ ॥

न चैतदन्यफलकं तप इत्याह— विजिगोषते यदि जगन्ति युगपदय संजिहीर्षति । प्राप्तुमभवमभिवाञ्छति वा वयमस्य नो विषहितुं क्षमा रुजः ॥ ३० ॥

मल्लि०—विजिगीषत इति । स पुरुषो जगन्ति भुवनानि युगपद्विजिगोषते यदि विजेतुमिच्छति वा । 'पूर्ववत्सनः' इत्यात्मनेपदम् । अथ युगपत् संजिहीर्षति संहर्तुमिच्छति वा । अभवमपवर्गं प्राप्तुमभिवाञ्छति वा, न विद्मो वयमिति शेषः । किन्तु वयमप्यस्य रुजस्तेजांसि विषहितुं सोढुम् । 'तोषमह्लुम्रुष्वरिखः' इति विकल्पादिडागमः । नो क्षमा न शक्ताः । केचित् रुजः कान्तितानि विषयितुमवधार- यितुम्' इति व्याचक्षते, तत्र सहेरवधारणार्थत्वं विचार्यम् ॥ ३० ॥

हिन्दी—वह तपस्वी लोकोंको एकबार ही जीतना चाहता है या एकबार ही संहार करना चाहता है अथवा मोक्ष पाना चाहता है । हमलोग इसके तेजको सहनेमें असमर्थ हैं ॥ ३० ॥

किमुपेक्षसे कथय नाथ ! न तव विदितं न किंचन । त्रातुमलमभयदाऽर्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ॥ ३१ ॥

मल्लि०—किमिति । हे नाथ ! किमर्थमुपेक्षसे ? कथय । त्वमिति शेषः । तव न विदितम् । त्वयाऽज्ञायमानमित्यर्थः । 'क्तस्य च वर्तमाने' इति षष्ठी । न किंचन किमपि न । हे अभयद ! नोऽस्मान् अलं त्रातुमर्हसि । त्वयि शासति सति पराभवो मा स्म भवत् मा भूत् । 'स्मोत्तरे लङ् च' इति लङ् ॥ ३१ ॥

हिन्दी—हे नाथ ! आप क्यों उपेक्षा कर रहे हैं? कहिए । आपसे अविदित कुछ भी नहीं है । हे अभय देनेवाले भगवन् ! आप हमलोगोंकी रक्षा करनेको पूर्णरूपसे योग्य हैं, आपके शासनमें हमलोगोंका मत हो ॥ ३१ ॥

२६० किरातार्जुननीयम्

इति गां विधाय विरतेषु मुनिषु, वचनं समाददे।
भिन्नजलधिजलनादगुरु ध्वनयन्दिशां विवरमन्धकान्तकः॥ ३२॥

मल्लि०—इतीति। इति इत्थं गां वाचं विधाय। अभिधायेत्यर्थः। सामान्यस्य विशेषपर्यवसानात्। मुनिषु विरतेषु तूष्णींभूतेषु सत्सु। अन्धकान्तकः शिवो भिन्नस्योद्वेलस्य जलधेर्जलस्य नादमिव गुरु गम्भीरं यथा दिशां विवरमन्तरालं ध्वनयन् वचनं समाददे स्वीकृतकार। उवाचेत्यर्थः॥ ३२ ॥

**हिन्दी—**ऐसा वचन कहकर मुनियोंके चुप रहनेपर शिवजी उठी हुई तरङ्गोंवाले समुद्रके जलके शब्दके समान गम्भीररूपसे दिशाओंके अन्तरालको ध्वनित करते हुए बोलने लगे॥ ३२ ॥

बदरीतपोवननिवासनिरतमवगात माऽन्यथा।
धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम्॥ ३३॥

मल्लि०—बदरीति। बदरीतपोवने बदरिकाश्रमे निवासनिरतं नित्यनिवासिनं गां गतं भुवमवतीर्णं जगतामुदयनिधने सृष्टिसंहारौ धातुः। तयोः कर्तुरित्यर्थः 'तृन्' इति दधातेस्तृन्प्रत्ययः। अत एव 'न लोके--'त्यादिना कर्मणि षष्ठीप्रतिषेधः। आदिपुरुषस्य विष्णोः। अंशमंशभूतम्। नरम्, नरसंज्ञकमित्यर्थः। यो नारायणसखेति भावः। अन्यथा उक्तवैपरीत्येन, एनं माऽवगात। मनुष्यमात्रं मा जानीतेत्यर्थः। 'इणो गा लुङि' इति गादेशः॥ ३३ ॥

**हिन्दी—**बदरिकाश्रममें निवास करनेवाले, भूतलम अवतीर्ण लोकोंकी सृष्टि और संहार करनेवाले आदि पुरुष (विष्णु) के अंशभूत नरसंज्ञक इसको आपलोग दूसरा (मनुष्यमात्र) मत समझें॥ ३३ ॥

द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः।
क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान्महत्तपः॥ ३४॥

मल्लि०—द्विषत इति। एष नरः सकलभुवनान्यभितापयन्त्यभीक्ष्णमिति तथोक्तान्। 'बहुलमाभीक्ष्ण्ये' इति णिनिः। क्रान्ते आक्रान्ते कुलिशकरस्येन्द्रस्य वीर्यबले शक्तिसैन्ये यैस्तान् द्विषतः शत्रून् परासिसिषुः परासितुमिच्छुः अस्यतेः सन्नन्तादुप्रत्ययः। मदुपासनं मदाराधनम्। करणे ल्युट्। महत्तपो विहितवान्। अत्र निमित्तं शत्रुक्तय एवेति भावः॥ ३४ ॥

**हिन्दी—**इस (नर) ने समस्त लोकोंको सन्तप्त करनेवाले और इन्द्रकी शक्ति

द्वादशः सर्गः २६१

द्वादशः सर्गः २६१

और सैन्यको आक्रान्त करनेवाले शत्रुओंको परास्त करनेकी इच्छा कर मेरी आराधना-स्वरूप बड़ी तपस्या की है ॥ ३४ ॥

अथास्य मानुषावतारे कारणमाह—
अयमुच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः ॥
पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥ ३५ ॥

मल्लि०—अयमिति । विभू प्रभू अयं नरोऽच्युतः कृष्णश्च सरसिरुहजन्मनो ब्रह्मणो वचनेन प्रार्थनया । असुराणां निधनेन मारणेन प्रजाः पातुं रक्षितुं भुवमभ्युपेत्य मनुजेषु तिष्ठतः । वस्तुस्तु साक्षान्नारनावणावेतौ कृष्णार्जुनवित्यर्थः ॥ ३५ ॥

हिन्दी—समर्थ यह ( नर ) और अच्युत ( नारायण ) ब्रह्माकी प्रार्थनासे दैत्योंके संहारसे प्रजाओंकी रक्षा करनेके लिए भूतलपर अवतीर्ण होकर रहते हैं ॥ ३५ ॥

अथास्य सत्त्वसंपदं प्रकाशयितुमाह—
सुरकृत्यमेतदवगम्य निपुणमिति मूकदानवः ।
हन्तुमभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ॥ ३६ ॥

मल्लि०—सुरेति । मूकदानवो मूकाख्यः कश्चिदसुरः । एतत् पाण्डवकृत्यं सुरकृत्यमिति निपुणमवगम्य साधु निश्चित्य पाण्डुसुतमर्जुनं हन्तुमभिपतति । तत् तस्मात्कारणात्, अत्रार्जुनाश्रमे । आश्रमं प्रतीत्यर्थः । मया सह त्वरया गम्यताम् । द्रष्टुमिति शेषः ॥ ३६ ॥

हिन्दी—( हे तपस्विगण ! ) मूक नामका दानव यह ( तपस्यारूप ) कार्य देवताओंका कार्य है ऐसा अच्छी तरहसे निश्चय कर पाण्डुपुत्र अर्जुनको मारनेके लिए आ रहा है इस कारणसे अर्जुनके आश्रममें मेरे साथ आपलोग शीघ्र आयें ॥ ३६ ॥

विवरेऽपि नैनमनिगूढमभिभवितुमेश पारयन् ।
पापनिरतिरविशद्वितया विजयं व्यवस्यति वराहमायया ॥ ३७ ॥

मल्लि०—विवर इति । पापे निरतिरतिप्रीतिर्यस्य स एव दानवो विवरे रन्ध्रेऽपि । एकान्तेऽपीत्यर्थः । एनं पाण्डवम् । अनिगूढं प्रकाशं स्पष्टं यथा तथा, अभिभवितुं न पारयन् न शक्नुवन् । विभाषायाम् 'नञ' इति नञ्समासः ।

२६२ किरातार्जुनीयम्

अविशङ्कितया स्वरूपगूहनान्निःशङ्कितया वराहमायया वराहभूमिकया विजयाय व्यवस्यति । विजयं प्रत्युद्युक्त इत्यर्थः ॥ ३७ ॥

हिन्दी— पापमें प्रीति करनेवाला यह मूक दानव, एकान्तमें भी इस (अर्जुन) को प्रकाशरूपसे अभिभूत करनेमें असमर्थ होकर अपना रूप छिपानेके कारण निःशङ्क होकर वराहकी मायासे अर्जुनको जीतनेका व्यवसाय (उद्योग) कर रहा है ॥ ३७ ॥

ततः किं भविष्यतीत्यत्राह—

निहते विडम्बितकिरातनृपतिवपुषा रिपौ मया ।
मुक्तनिशितविशिखः प्रसभां मृगयाविवादमयमाचरिष्यति ॥ ३८ ॥

मल्लि०— निहत इति । विडम्बितमनुकृतं किरातनृपतिवपुर्येन । तद्रूपधारिणेत्यर्थः । मया निहते रिपौ वराहे मुक्तनिशितविशिखः सन् । अयं पाण्डवः प्रसह्य प्रसद्य मृगयाविवादं मृगप्रहारकलहम् । आचरिष्यति करिष्यति । मत्प्रहतमेव पूर्वं प्रहृत्य स्वयमहमेव प्रहृते॑ति कलहिष्यति इत्यर्थः ॥ ३८ ॥

हिन्दी— किरातराजके शरीरका वेष लेनेवाले मुझसे मारे गये वराहमें तीक्ष्ण बाण छोड़कर यह (पाण्डव) हठात् मृगयाके विषयमें कलह (विवाद) करेगा ॥ ३८ ॥

ततोऽपि किं भावीत्यत्राह—

तपसा निपीडितकृशस्य विरहितसहायसंपदः ।
सत्त्वविहितमतुलं भुजयोर्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥ ३९ ॥

मल्लि०— तपसेति । तपसा नितरां पीडितोऽत एव कृशस्तस्य निपीडितकृशस्य । 'पूर्वकाले--'त्यादिना समासः । तथा, विरहिता सहायसंपद्यस्य, तस्यैकाकिनो मृधे रणे । 'मृधमास्कन्दनं संख्यम्' इत्यमरः । अधिकुप्यतोऽस्य पाण्डवस्य सत्त्वविहितं स्वभावकृतम् । स्वाभाविकमित्यर्थः । 'सत्त्वोऽस्त्री जन्तुषु' क्लीबे व्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः' । 'प्राणे बलेऽन्तःकरणे' इति वैजयन्ती । अतुलं निरुपमं भुजयोर्बाह्वोर्बलं शक्तिं पश्यत । 'बलं शक्तिर्बलं सैन्यम्' इति शाश्वतः ॥ ३९ ॥

हिन्दी— तपस्याके कारण अत्यन्त पीडित अत एव कृश, सहायता सम्पत्तिसे

द्वादशः सर्गः २६३

रहित युद्धमें अत्यन्त कोप करते हुए इस ( पाण्डय ) का स्वाभाविक अनुपम बाहुबलको आपलोग देख लें ॥ ३९ ॥

अथ त्रिभिरस्य किरातभावं वर्णयति— इति तानुदारमनुनीय विषमहरिचन्दनालिना । घर्मजनितपुलकेन लसद्गजमौक्तिकाबलिगुणेन वक्षसा ॥ ४० ॥

**मल्लि०—**इतीत्यादि । शिव इति इत्थं तान् मुनीन् । उदारं युक्तियुक्तं यथा तथाऽनुनीय शिक्षयित्वा । उक्त्वेति यावत् । 'रुचिरः किरातपूतनापतिः संबभूवे' इत्युत्तरेणान्वयः । किरातसेनापतिवेषधारी बभूवेत्यर्थः । कथंभूतः । विषमा विकृतविषमा वा हरिचन्दनस्यालयो रेखा यस्मिंस्तेन । घर्मेण स्वेदेन जनिताः पुलका रोमाञ्चा यस्मिंस्तेन । 'पुलकः पुनः । रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम्' हेमचन्द्रः । 'घर्मः स्यादातपे ग्रीष्मे उष्णस्वेदाम्भसोरपि' इति विश्वः । लसन्तः शोभमाना गजमौक्तिकानां करिकुम्भोद्भवमौक्तिकानाम् आवलय एव गुणाः सूत्राणि यस्मिंस्तेन वक्षसा वक्षःस्थलेनोपलक्षितः । करिणां मुक्तायोनित्वे प्रमाणमाहागस्त्यः—'जीमूतकरिमत्स्याहिवंशशङ्खवराहजाः । शुक्त्युद्द्भवाश्च विज्ञेया अष्टौ मौक्तिकयोनयः ॥' इति ॥ ४० ॥

**हिन्दी—**शिवजी इस प्रकार उन मुनियोंको युक्तिके साथ कहकर विकृत हरिचन्दनकी रेखावाले, पसीनेसे उत्पन्न रोमाञ्चवाले और शोभित होते हुए गजमुक्ताओंकी पङ्क्तिरूप सूत्रवाले छातीसे उपलक्षित ( सुन्दर किरातसेनापति हो गये ) ॥ ४० ॥

वदनेन पुष्पितलतान्तनियमितविलम्बि मौलिना । विभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥ ४१ ॥

**मल्लि०—**वदनेनेति । पुष्पितैर्लतान्तैर्विकसितलताग्रैर्नियमिताः संयता विलम्बितश्च ते मौलयः संयतकेशा यस्य तेन । 'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' । इत्यमरः । शिखिपिच्छलाञ्छिते बर्हिबर्हाङ्किते कपोलभित्ती यस्य तेन । अरुणनयनेनारक्तनेत्रेण वदनेन रुचं शोभा विभ्रत् ॥ ४१ ॥

**हिन्दी—**शिवजी पुष्पयुक्त लताओंके अग्रभागोंसे बाँधे गये और लटकते हुए जूडोंवाले, मोरपंखसे चिह्नित कपोलोंसे युक्त लाल नेत्रोंवाले मुखसे शोभाको धारण करते हुए ( सुन्दर किरात-सेनापति हो गये ) ॥ ४१ ॥

२६४किरातार्जुनीयम्

बृहदुद्वहञ्जलदनादि धनुरुपहितैकमार्गणम् ।
मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥ ४२ ॥

मल्लि०— बृहदिति । पुनश्च, जलद इव नदतीति जलदनादि । 'कर्मण्युपमाने' इति णिनिः । उपाहितैकमार्गणं संहितैकबाणं धनुरुद्वहन् । अत एव मेघनिचय इव स्थित इत्युपमा । अत्र विशेषके स्वभावोक्तिरलंकारः । 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' । इति लक्षणात् ॥ ४२ ॥

हिन्दी— शिवजी मेघके समान आवाज करते हुए, रखे गये एक बाणसे युक्त धनुको धारण करते हुए अत एव मेघसमूहके समान स्थित होकर सुन्दर किरात-सेनापति हो गये ॥ ४२ ॥


अनुकूलमस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः ।
शूलपरशुशरचापभृतैर्महति वनेचरचमूर्विनिर्ममे ॥ ४३ ॥

मल्लि०— अनुकूलमिति । अस्य शिवस्य । अनुकूलं विचिन्त्य प्रियमिति निश्चित्य । आत्तविग्रहैर्गृहीतकिरातदेहैः । शूलानि परशवः कुठाराः शराश्चापाश्चेति च तानि भृतानि यैस्तैः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यो' इति निष्ठायाः परनिपातः । गणपतिभिः प्रमथमुख्यैर्महती वनेचरचमूः सेना विनिर्ममे निर्मिता । माङः कर्मणि लिट्, 'ह्रस्व' इत्यभ्यासस्य ह्रस्वत्वम् ॥ ४३ ॥

हिन्दी— इन (शिवजी) के प्रीतिविषयका विचार कर किरात शरीरका धारण किये हुए शूल, फर्सा, बाण और धनु लिये हुए शिवजीके प्रधान प्रमथोंने विशाल किरातसेनाकी रचना की ॥ ४३ ॥


विरचय्य काननविभागमनुगिरमथेश्वराज्ञया ।
भीमनिनादपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥ ४४ ॥

मल्लि०— विरचय्येति । अथ ईश्वराज्ञयाऽनुगिरं गिरौ । विभक्त्यर्थेऽव्ययीभावः । 'गिरेञ्श्च सेनकस्य' इति समासान्तः । काननविभागं वनविभागं विरचय्य । अस्यायं मिति देशविभागं कृत्वेत्यर्थः । भीमनिनादैः कलकलैः पिहिता उरवो भुवो यैस्ते तथोक्ताः सन्तः । मृगयामपदिश्य व्याजीकृत्य परितः प्रतस्थिरे प्रस्थिताः ॥ ४४ ॥

हिन्दी— तब शिवजी आज्ञासे पर्वतमें वनविभागकी रचना कर भयङ्कर कोलाहलसे विस्तीर्ण पृथिवीको व्याप्त करते हुए शिकार खेलनेका बहाना कर प्रमथगणने प्रस्थान किया ॥ ४४ ॥

द्वादशः सर्गः २६१

क्षुभिताभिनिःसृतविभिन्नशकुनिमृगयूथनिःस्वनैः ।
पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः ॥ ४५ ॥

मल्लि०—क्षुभितेति। क्षुभितास्त्रस्ता अभिनिःसृताः स्वस्थानान्निर्गता विमिश्रा मुक्तसंघाश्च ये शकुनयः पक्षिणो मृगाश्च तेषां यूथानि तेषां नि स्वनैः पूर्णानि पृथूनि वनानि गुहाविवराणि च यस्य भूधरः सहसा भयादिवेत्युत्प्रेक्षा । ररास चुक्रोश ॥ ४५ ॥

**हिन्दी—**डरे हुए और अपने स्थानसे निकले हुए भिन्न-भिन्न पक्षी और पशुओंके समूहकी आवाजोंसे पूर्ण, विशाल वन और कन्दराओंका विवरवाला पर्वत सहसा मानों भयसे चिल्लाने लगा ॥ ४५ ॥

न विरोधिनी रुषमियाय पथि मृगविहङ्गसंहतिः ।
घ्नन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापदः ॥ ४६ ॥

मल्लि०—नेति । पथि पलायनमार्गे विरोधिनी जातिवैरिणो मृगाणां सिंह-व्याघ्रादीनां विहङ्गानां काकोलूकाना च संहतिः सङ्घो रुष परस्परक्रोधं नेयाय न प्राप । किन्तु सहैव वचारेत्यर्थः । तथा हि—भूरिः प्रभूता भीर्यासु ताः समं साधारण्येन आगता आपदो विपत्तयः सहजं स्वाभाविकमपि वैरं सपदि घ्नन्ति । नोह संघातव्यसनेषु प्रजायते वैरानूबन्ध इति भावः ॥ ४६ ॥

**हिन्दी—**भागनेके मार्गमें जन्मसे ही विरोधी पशु और पक्षियोंका समूह ( गिरोह ) भी एक दूसरेपर क्रुद्ध नहीं हुआ ( किन्तु साथ-साथ चलने लगा ) । प्रचुर भयवाली तथा तुल्यरूपसे आई हुई विपत्तियां स्वाभाविक शत्रुताको उसी समय नष्ट कर डालती हैं ॥ ४६ ॥

चमरीगणेणंगणबलस्य बलवति भवेऽप्युपस्थिते ।
वंशविततिषु विषक्तपृथुप्रियबालवालधिभिराददे धृतिः ॥ ४७ ॥

मल्लि०—चमरीति । वंशविततिषु वेणुगुल्मेषु विषक्ता लग्नाः पृथवो भृशं प्रियबालाः प्रियरोमाणो बालधयः पुच्छानि येषां तैः । ‘पुच्छोऽस्त्री लूमलाङ्गूले बालहस्तश्च बालधिः’ । इत्यमरः । चमरीगणेमृगविशेषेऽङ्गगणबलस्य शवबलस्य संबन्धिनि । तद्धेतुक इत्यर्थः । संबन्धमात्रविवक्षायां षष्ठी । अन्यथा ‘भीत्रार्थानां भयहेतुः’ इति पञ्चमी स्यात् । बलवति प्रबले भय उपस्थिते प्राप्तेऽपि धृतिर्धैर्यम् । आददे स्वीकृता । बालच्छेदभयात्प्राणहानिमप्यवगणय्य स्थितमित्यर्थः ॥ ४७ ॥

२६६ किरातार्जुनीयम्

हिन्दी—बाँसोंकी झाड़ियोंमें फँसे हुए प्रचुर प्रियरोमवाले पुच्छोंसे युक्त चमरी गायोंने किरातसेनासे प्रबल भयके उपस्थित होनेपर भी बालच्छेदके भयसे धैर्यधारण किया ॥ ४७ ॥

हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरे। स्वस्थमभिददृशिरे सहसा प्रतिबोधजृम्भितमुखमृगाधिपैः ॥ ४८ ॥

मल्लि०— हरेति । प्रतिभयं भयहेतौ । 'भयङ्करं प्रतिभयम्' इत्यमरः। प्राप्तेऽपीति शेषः। गजमदैः सुगन्धयः सुरभयः केशराः सटा येषां तैः। दृप्तानक-गजैरित्यर्थः। सहसा सेनाकलकलश्रवणानन्तरमेव प्रतिबोधेन निद्रापगमेन जृम्भि-तानि व्यात्तानि मुखानि येषां तैः मृगाधिपैः सिंहैः स्वस्थं निःशङ्कमेव यथा तथा हरसैनिकाः अभिददृशिरे ईक्षिताः । न तु किञ्चित्क्षुभितमित्यर्थः । युक्तं चैतदवदा-तचारिणां केसरिणामिति भावः ॥ ४८ ॥

हिन्दी—भयका हेतु प्राप्त होनेपर भी हाथियोंके मदसे सुगन्धित अयालवाले सहसा सेनाओंका कोलाहल सुनकर जागनेसे जमुहाई लेते हुए सिंहोंने निःशङ्क ही होकर शिवगणोंको देख लिया ॥ ४८ ॥

बिभरांबभूवुरपवृत्तजठरशफरीकुलाकुलाः । पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥ ४९ ॥

मल्लि०—बिभरामिति । अपवृत्तजठरैस्तत्कालक्षोभाल्लुठितोदरैः शफरीकुलै-राकुला व्याप्ताः पङ्कविषमितानि दुर्गमीकृतानि तटानि कूलानि यासां ताः । सरितः करिभिः, पलायमानैरिति शेषः । रुग्णानां मार्गरोधितया भग्नानाम् । 'ओदितश्च' इति निष्ठानत्वम् । चन्दनानां रसेररुणं करिरुग्णचन्दनसारुणं पयो बिभरांबभूवुः। भृधातोः 'भीह्रीभृहुवां श्लुवच्च' इत्याम्प्रत्ययः श्लुवद्भावश्च । 'कृञ्चानुप्रयुज्यते लिटि' इति भुवोऽनुप्रयोगः ॥ ४९ ॥

हिन्दी—उस समय उदरको लोटपोट करनेवाले मत्स्यविशेषके समूहसे व्याप्त, कीचड़से दुर्गम किये गये तटोंवाली नदियोंने भागते हुए हाथियोंसे तोड़े गये चन्दन-के रससे लाल जलको धारण किया ॥ ४९ ॥

महिषक्षतागुरुतमालनलदसुरभिः सदागतिः । व्यस्तशुकनिभशिलाकुसुमः प्रणुदन्नवौ वनसदां परिश्रमम् ॥ ५० ॥ मल्लि०— महिषेति । महिषैर्लुलायैः क्षतानि विदलितानि तैरगुरुभिस्तमालै-

द्वादशः सर्गः २६७

द्वादशः सर्गः २६७

नलदरुशीरैश्च सुरभिः सुगन्धिः । व्यस्तानि विक्षितानि शुकनिभानि शुकसवर्पानि शिलाकुसुमानि शैलेयाख्या औषधिविशेषा येन सः । अतः शीतल इति भावः । ‘कालानुसार्यवृद्धाइमपुष्पशोतशिवानि तु । शैलेयम्’ इत्यमरः । ‘शुकनिम’ इति स्वरूपकथनम् । सदागतिर्वायुः वनसदां वनेच्चरगां परिश्रमंप्रणुदन् । अतो मन्द इति भावः । 'मातरिश्वा सदागतिः' इत्यमरः । ववौ वाति स्म ॥ ५० ॥

हिन्दी - महिषोंसे विदलित अगुरु, तमाल और उशीरोंसे सुगन्धित तोतेके वर्णके सदृश शैलेयको विक्षीर्ण कर हवा किरातोंके परिश्रमको दूर कर मन्द गतिसे बहने लगी ॥ ५० ॥

मथिताम्भसो रयविकीर्णमृदितकदलीगवेधुकाः । क्लान्तजलरुहलताः सरसीविदधे निदाघ इव सत्त्वसंप्लवः ॥ ५१ ॥

मल्लि० - मथिताम्भस इति । सत्त्वसंप्लवः प्राणिसंक्षोभो निदाघो ग्रीष्म इव सरसीः सरांसि 'कासारः सरसी सरः' इत्यमरः । मथिताम्भसः संक्षोभितोदका रयेण पलायनवेगेन विकीर्णं व्याकीर्णं यथा तथा मृदितः निष्पीडिताः कदल्पो गवेधुकास्तृणधान्यविशेषाश्च यासां तास्तथोक्ताः । 'तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका' । इत्यमरः । मृदित इति, 'म्विडेति च' इति गुणप्रतिषेधः । क्लान्ता जलरुहलताः पद्मिन्यो यासु ता एवम्भूता विदधे चकार ॥ ५१ ॥

हिन्दी - उस समय हुए प्राणियोंके संक्षोभने ग्रीष्म-ऋतुके समान तालाबको संक्षोभित जलवाला और पलायनके वेगसे बिखरी गई कदली और गवेधुकावाली तथा कुंभली गई पद्मिनीवाला बना दिया ॥ ५१ ॥

इति चालयन्नचलसानुवनगहनजानुमापतिः । प्राप मुदितहरिणोदशनक्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥ ५२ ॥

मल्लि० - इतीति । इति इत्थम् । उमापतिरचलसानुषु वनेषु उपभोग्य-वृक्षेषु गहनेषु दावेषु च जातांस्तत्रोक्तान् । सत्त्वानिति शेषः । चालयन् । मुदितानां हरिणीनां दशनैः क्षता वीरुधो लता यस्यां ताम् । इन्द्रसूनोरिमाम् ऐन्द्रसूनवीम् । वसत्यत्रेति वसतिमाश्रयम् । ‘वह्विवस्यतिभ्यश्चित्’ इत्यौणादिको वस्तेरतिप्रत्ययः । प्राप ॥ ५२ ॥

हिन्दी - इस प्रकार शिवजी पर्वतके समतल प्रदेशोंमें उपभोग योग्य पेड़ोंमें

२६८किरातार्जुनीयम्

और वनोंमें उत्पन्न जन्तुओंको विचलित कर प्रसन्न मृगियोंके दांतोंसे सत विस्तृत लतावाले अर्जुनके आश्रममें पहुँच गये ॥ ५२ ॥

स तमाससाद घननीलमभिमुखमुपस्थितं मुनेः ।
पोत्रनिकषणविभिन्नभुवं दनुजं दधानमथ सौकरं वपुः ॥ ५३ ॥

मल्लि०— स इति। अथ अनन्तरं स शिवो घननीलं मेघमेचकं मुनेरर्जुनस्य अभिमुखमुपस्थितमागतं पोत्रस्य मुखाग्रस्य निकषणेनोल्लेखनेन विभिन्ना विदारिता भूर्येन तम् । 'मुखाग्रे क्रोडहलयोः पोत्रम्' इत्यमरः । 'हलसूकरयोः पुवः' इति ष्ट्रन्प्रत्ययः । सूकरस्येदं सौकरं वाराहं वपुर्दधानं दनुजं दानवम् । आससाद प्राप । ददर्शति यावत् ॥ ५३ ॥

हिन्दी— अनन्तर शिवजी मेघके समान कृष्णवर्ण, मुनि (अर्जुन)के सम्मुख आये हुए थूथनको घिसकर पृथ्वीको विदीर्ण करते हुए सूकरशरीर लिए हुए दानव (मूक)के पास प्राप्त हुए ॥ ५३ ॥

कच्छान्ते सुरसरितो निधाय सेनामन्वितः स कतिपयैः किरातवर्यैः।
प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवाननुपदमस्य संप्रतस्थे ॥ ५४ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये द्वादशः सर्गः ।

मल्लि०— कच्छान्त इति । लक्ष्मीवान् । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' इति मतुपो मकारस्य वकारादेशः । स शिवः । सुरसरितो मन्दाकिन्या कच्छान्तेऽनूपप्रान्ते । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' । इत्यमरः । सेनां निधाय । स्थापयित्वेत्यर्थः । कतिपयैः किरातवर्यैरन्वितोऽनुगतः सन् । 'ई गतौ' इति धातो-रनुपूर्वात्कर्मणि क्तः । सगुल्मजालैर्लताप्रतानसहितैः । तरुगहनैः प्रच्छन्नश्छादितः । 'वा' दान्तशान्त-' इत्यादिना निपातः । अस्य वराहस्य पदमनु अनुपदम । पदानुसारेणेत्यर्थः । संप्रतस्थे प्रस्थितः । 'समवप्रविभ्यः स्थ' इत्यात्मनेपदम् । प्रहर्षिणीवृत्तम् ॥ ५४ ॥
इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां द्वादशः सर्गः समाप्तः ॥

हिन्दी— शोभासम्पन्न शिवजीने मन्दाकिनीके जलप्राय स्थानके समीप सेनाको रखकर कतिपय श्रेष्ठ किरातोंसे अनुगत होकर लतासमूहसे प्रच्छन्न हो उस वराहके पदका अनुसरण कर प्रस्थान किया ॥ ५४ ॥

इति श्रीकिरातार्जुनीये द्वादशः सर्गः ।

त्रयोदशः सर्गः

वपुषा परमेण भूधराणामथ संभाव्यपराक्रमं विभेदे ।
मृगमाशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ १ ॥

मल्लि०— वपुषेति । अथ ईश्वरप्रस्थानान्तरं महेन्द्रसूनुरर्जुनः परमेण महता वपुषा हेतुना भूधराणां विभेदे विदारणे संभाव्यपराक्रमं क्षमोऽयमिति प्रतर्क्यंपौरुषं स्थिराभ्यां दृढाभ्यां दंष्ट्राभ्यामुग्रं मुखं यस्य तं मृगम् । वराहमित्यर्थः । आशु तदागमनान्तरम् । अविलम्बेनेत्यर्थः । विलोकयांचकार ददर्श । अस्मिन्सर्गे प्राक्पञ्चत्रिंशच्छ्लोकादौपच्छन्दसिकं वृत्तम् ॥ १ ॥

हिन्दी— शिवजीके प्रस्थानके अनन्तर इन्द्रपुत्र अर्जुनने विशाल शरीरसे पर्वतोंको विदारण करनेमें समर्थ पराक्रमवाले और दृढ़ दाढ़ोंसे भयङ्कर मुँहवाले वराहको शीघ्र देखा ॥ १ ॥


स्फुटबद्धसटोन्नतिः स दूरादभिधावन्नवधोरितान्यकृत्यः ।
जयमिच्छति तस्य जातशङ्के मनसीमं मुहुराददे वितर्कम् ॥ २ ॥

मल्लि०— स्फुटेति । स्फुटा स्पष्टा बद्धा विरचिता सटानां केसराणामुन्नतिरुद्धतिर्यस्य सः । क्रोधादुत्थितलोमेत्यर्थः । ‘सटा जटाकेसरयोः’ इति विश्वः । दूरादभिधावन् संमुखमापतन् । तथा, अवधोरितान्यकृत्यस्त्यक्तान्यकर्मा स वराहो जयमिच्छति जयार्थिनि अत एव जातशङ्के । स्वयं जिघांसोद्विषामेकलक्ष्यत्वादिति भावः । तस्य मुनेर्मनसि मुहुरिमं वितर्कं वक्ष्यमाणमूहम् । ‘अभ्याहारस्तर्क ऊहः’ इत्यमरः । आददे उत्पादयामास ॥ २ ॥

हिन्दी— व्यक्तरूपसे अयालोंको उन्नत कर दूरसे दौड़ता हुआ सब काम छोड़कर वह वराह जयकी इच्छा करनेवाले और शङ्कित मुनि (अर्जुन) के मनमें बारंबार इस प्रकारका तर्क उत्पन्न करने लगा ॥ २ ॥


अथैकादशभिर्वितर्कमेव निरूपयति—

'घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः ।
अयमेकचरोऽभिवर्तते मां समरायेव समाजुहूबमाणः ॥ ३ ॥

मल्लि०— घनपोत्रेति । घनेन कठिनेन पोत्रेण मुखाग्रेण विदीर्णानि विदलि-

२७०किरातार्जुनीयम्

तानि शालमूलानि वृक्षमूलानि येन सः। निविडस्य स्कन्धस्य निकाषेण निकषणेन रुग्णवप्रो भग्नसानुः। अतो महासत्त्वसंपन्न इति भावः। एकश्वासौ चरश्चेति एकचर एकाकी। यूथादपेत इत्यर्थः। अतः, अयं वराह समराय समरं कर्तुम्। 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी। समाजुहूषमाण इव समाह्वातुमिच्छन्निव। 'इव' शब्दः संभावनायाम्। समाहूयतेः सन्नन्ताच्छानच्प्रत्ययः। 'स्पर्धायां माङ्', 'पूर्ववत्सनः' इत्यात्मनेपदम्। 'अभ्यस्तस्य च' इति संप्रसारणम्। मामभिवर्तते मामभिधावति। उपसर्गवशात् सकर्मकत्वम्। अतः सर्वथा नायमुपेक्ष्य इति भावः ॥ ३ ॥

हिन्दी — कठोर यूथपति वृक्षमूलोंको विदीर्ण करनेवाला वृक्षके घने स्कन्धको रगड़नेसे प्राकारको तोड़नेवाला अकेला यह वराह, युद्ध करनेके लिए ललकारता हुआ-सा मेरे सम्मुख आ रहा है ॥ ३ ॥

इह वीतभयास्तपोऽनुभावाज्जहति व्यालमृगाः परेषु वृत्तिम्।
मयि तां सुतरामयं विधत्ते विकृतिः किं नु भवेदियं नु माया ? ॥ ४ ॥

मल्लि०—इहेति । इह आश्रमे तपोऽनुभावाद्वीतभयाः । लक्षणया विगतवैरा इत्यर्थः । अतएव व्यालमृगाः क्रूरव्याघ्रादयः । 'व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनि' इति विश्वः । परेषु प्राण्‍यन्तरेषु वृत्तिं जीविकां जहति । हिंसया न जीवन्तीत्यर्थः । अयं वराहो मयि मद्विषये तां वृत्तिं सुतरां विधत्ते करोति । मां हन्तुमिच्छतीत्यर्थः । तदियं विकृतिस्तपःसामर्थ्यभङ्गरूपा भवेत्किं नु । यद्वा, माया कस्यचिद्‍दैत्यस्य वराहभूमिका भवेत् नु । 'किन्तु' शब्दौ वितर्के ॥ ४ ॥

हिन्दी—इस आश्रममें तपस्याके प्रभावसे परस्पर विरोधको छोड़े हुए क्रूर व्याघ्र आदि पशु अन्य जन्तुओंमें मारनेका व्यवहार छोड़ रहे हैं, यह वराह मुझपर उस हिंसाका व्यवहार भलीभाँति कर रहा है, अतः यह विकार है या किसी दैत्यकी माया है ॥ ४ ॥

अथवैष कृतज्ञयेव पूर्वं भृशमासेवितया रुषा न मुक्तः ।
अवधूय विरोधिनीः किमारातन्मृगजातीरभियाति मां जवेन ॥ ५ ॥

मल्लि०—अथवेति । 'अथवा' इति पक्षान्तरे । एष मृगः पूर्वं जन्मान्तरे भृशमत्यर्थम् । आसेवितयाऽतिपरिचितया रुषा क्रुधा । मद्गोचरयेति शेषः । कृतज्ञयेव पूर्वकृतं वैरानूबन्धं संप्रति जानात्येवेत्युत्प्रेक्षा । न मुक्तो न त्यक्तः । अद्यापीति शेषः।

त्रयोदशः सर्गः २७१

नूनमयं प्राग्भवीयवैरानुबन्धो कश्चित् । संप्रति वैरबीजासंभवादिति भावः । कुतः यद्यत आरात् समीपतः । 'आराद्दूर समीपयोः' इत्यमरः । विरोधिनीमृगजाती-रवधूय त्यक्त्वा जवेन मामभियाति अभिधावति । अन्यथा नाभियायादिति भावः ॥ ५ ॥

हिन्दी--अथ वा यह जानवर पूर्वजन्ममें अत्यन्त परिचित मेरे प्रति कृतज्ञक समान क्रोधसे नहीं छोड़ा गया है क्योंकि यह समीपसे विरोधिनी पशु-जातियोंको छोड़कर मेरे सम्मुख दौड़ कर आ रहा है ॥ ५ ॥

न केवलमभिधानादेव, किं च मनोवृत्तिरप्यत्र प्रमाणमित्याह—

न मृगः खलु कोऽप्ययं, जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे ।
विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ॥ ६ ॥

मल्लि०—न मृग इति। अयं मृगो न खलु, किंतु कोऽपि कश्चिदन्य एव जिघांसुर्हन्तुमिच्छुः हन्तेः सन्नान्तादुप्रत्ययः । 'अभ्यासाच्च' इति कुत्वम् । 'अज्झन-गमां सनि' इति दीर्घः । कुतः । हि यस्मात्, अत्रास्मिन्मृगविषये मे मनस्तथा भृशं स्खलति क्षुभ्यति । यद्ययं जिघांसुरिति बुद्धिस्त्पद्यत इत्यर्थः । तथा हि—विमलं प्रसन्नं तथा कलुषीभवत् क्षुभ्यच्च चेत एव हितैषिणं रिपुं वा मित्रममित्रं च कथ-यति । यत्र यत्र मनः प्रसीदति तदेव मित्रम् । अन्यथा त्वन्यथेति निश्चितमित्यर्थः । अतोऽयं वध्य इति भावः ॥ ६ ॥

हिन्दी—यह जानवर नहीं है, किन्तु कोई दूसरा ही मारनेकी इच्छा करने-वाला है, क्योंकि इसमें मेरा मन ज्यादा ही क्षुब्ध हो रहा है, प्रसन्न तथा क्षुब्ध होनेवाला चित्त मित्र वा शत्रु की सूचना करता है ॥ ६ ॥

ननु मुने! किमनया दुःशङ्कया, तत्राह—

मुनिरस्मि, निरागसः कुतो मे भयमित्येष न भूयतेऽभिमानः ।
परवृद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ॥ ७ ॥

मल्लि०—मुनिरिति । मुनिरस्मि । अतो निरागसो निरपराधस्य मे कुतो भयमित्येषोऽभिमानोऽहंकारः अनपकारिणं मां कोऽपि किं करिष्यतीति बुद्धिर्भूत्ये श्रेयसे न भवति । तथा हि—परवृद्धिषु विषये बद्धमत्सराणां दुरात्मनामलङ्घयं किमिवास्ति न किंचिदकार्यमस्तीत्यर्थः । 'इव' शब्दो वाक्यालंकारे ॥ ७ ॥

  • हिन्दी—मैं तपस्वी हूँ अतः निरपराध मुझे कहाँसे भय है ? ऐसा अभिमान

२७२ किरातार्जुनीयम्

कल्याणकारक नहीं हैं, क्योंकि दूसरेकी उन्नतिमें द्वेष करनेवाले दुरात्माओंको कुछ भी अकार्य नहीं हैं ॥ ७ ॥

अस्तु जिघांसुरपि क्षुद्रः किं करिष्यतीत्यत्राह — दनुजः स्विदय क्षपाचरो वा वनजे नेति बलं बतास्ति सत्त्वे । अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ ८ ॥

**मल्लि०—**दनुज इति । अयं दनुजः स्वित् दानवो वा क्षपाचरो राक्षसो वा । न तु मृग एवेत्यर्थः । कुतः । वनजे सत्त्वे वन्यप्राणिनि । इति ईदृशं बलं नास्ति । बतेत्याश्चर्ये । बलमेव समर्थयते । तथा हि—मेघनीलोऽयं वराहः सकलं शैलराजमभिभूय आक्रम्य कम्पयतीव । पदविष्टम्भात्तथा प्रतीयत इत्यर्थः । अत्र कम्पयतीवेत्युत्प्रेक्षागर्भोऽयं शैलकम्पनरूपकार्येण तत्कारणबलातिरेकसमर्थनात्मककार्येण कारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ ८ ॥

**हिन्दी—**यह दानव वा राक्षस है, क्योंकि वनमें उत्पन्न जानवरमें ऐसा बल नहीं होता है। मेघके समान कृष्ण-वर्ण यह वराह समूचे पर्वतराजको आक्रमण कर कम्पित कर रहा है ॥ ८ ॥

किंच, योऽयं शैले मृगयाकलकल इव श्रूयते सोऽप्येतन्मायापरिकल्पित एवेत्याह— अयमेव मृगव्यसत्रकामः प्रहरिष्यन्मयि मायया शमस्थे । पृथुभिर्ध्वजिनीरवैरकार्षीच्चकितोद्भ्रान्तमृगानि काननानि ॥ ९ ॥

मल्लि० -- अयमिति । अयमेव शमस्थे शान्तिनिविष्टे इति रन्ध्रोक्तिः । मयि । अधिकरणविवक्षाया सप्तमी । मायया प्रहरिष्यन् । प्रहर्तुमिच्छन्नित्यर्थः । 'लृट् शेषे च' इति चकारात्क्रियार्थायां क्रियायाम् लृट् । 'लृटः सद्वा' इति शत्रादेशः । मृगव्यं, मृगया तस्य सत्रं वनं, तदर्थ वनमित्यर्थः । तत्कामयत इति मृगव्यसत्रकामः मृगयाभूमिपरिग्रहार्थी सन्नित्यर्थः । 'कर्मण्यण्' 'आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम्' । इति, 'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इति चामरः । पृथुभिर्बृहद्भिर्ध्वजिनीरवैः सेनाकलकलैः । स्वमायया कल्पितैरेवेत्यर्थः । काननानि चकितोद्भ्रान्तास्त्रस्तपलायिता मृगा येषु तानि । अकार्षीच्चकार । अयमेव रन्ध्रान्वेषी मत्प्रहारार्थं स्वयमेव मृगयुर्भूत्वा वनावरोधाय सेनाघोषं कल्पयामास । स मृगरूपेणागच्छतीत्यर्थः ॥ ९ ॥

**हिन्दी—**यह ( वराह ) ही शान्तिमें स्थित मुझपर मायासे प्रहार करनेकी

त्रयोदशः सर्गः

त्रयोदशः सर्गः २७३

इच्छा करता हुआ मृगयाके वनकी चाह कर विशाल सेनाके कोलाहलसे वनोंको भीत और दौड़नेवाले जानवरोंवाला बना रहा है ॥ ९ ॥

वितर्कान्तरमाह - बहुशः कृतसत्कृतेर्विधातुं प्रियमिच्छन्नथवा सुयोधनस्य । क्षुभितं वनगोचराभियोगाद् गणमाशिश्रियदाकुलं तिरश्चाम् ॥ १० ॥

मल्लि०—बहुश इति । अथवा बहुशः कृता सत्कृतिः सत्कारो येन तस्य सुयोधनस्य प्रियं मद्वधरूपं प्रतिप्रियं विधातुं कर्तुमिच्छन् । यः कश्चिदिति शेषः । वनं गोचरस्थानं येषां तेषां वनगोचराणामभियोगादवरोधात् । 'अभियोगोऽवरोधः स्यात्' इति हलायुधः । क्षुभितमुद्विग्नमाकुलं चलं तिरश्चां मृगादिपशूनां गणमाशिश्रियत् वराहरूपेण प्राविशत् । 'णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' 'चङि' इति द्विर्भावः ॥ १० ॥

हिन्दी—अथवा कई बार सत्कार किये हुए दुर्योधनका अभीष्ट करना चाहता हुआ यह कोई वनमें रहनेवालोंको रोकनेसे उद्विग्न और चञ्चल मृग आदि पशुओंके गणका आश्रय ले रहा है ( वराहरूपसे प्रवेश कर रहा है ) ॥ १० ॥

वितर्कान्तरमाह— अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा । प्रतिकर्तुमुपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ॥ ११ ॥

मल्लि०-अवलीढेति । खाण्डवजातवेदसा खाण्डववनाग्निना प्रसभमवलीढसनाभिर्दग्धबन्धुः । 'सपिण्डास्तु सनाभयः । सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ।' इत्यमरः । अत एव समन्युर्बद्धवैरः । तस्यार्जुनस्यापकारयितृत्वादिति भावः । अश्वसेनस्तक्षकपुत्रः कश्चिन्महामर्पः प्रतिकर्तुं वैरनिर्यातनार्थम् । उपागतो वा । वराहमाययेति शेषः । पक्षान्तरमाह--यदि वा वृकोदरेण भीमसेनेन कृतमन्युर्जनितक्रोधो वा । कश्चिदिति शेषः । पुरा किल पाण्डवः खाण्डवदाहे पावकभयात् पलायमानांस्तक्षकपुत्रानश्वसेनस्य बन्धून् बाणैरवरुध्य दाहयामासेति भारतकथा ॥ ११ ॥

हिन्दी—अथवा खाण्डव वनकी आगसे जला हुआ बन्धुवाला अत एव वैर ( दुश्मनी ) करता हुआ अश्वसेन ( तक्षकका पुत्र कोई सर्प ) बदला लेनेके लिए वराहरूप लेकर आया हुआ है अथवा भीमसेनसे उत्पन्न क्रोधवाला यह कोई आया हुआ है ॥ ११ ॥ १८ कि०

२७४ किरातार्जुनीयम्

अथ द्वाभ्यामनन्तरकरणीयमव्यवस्यति—बलेत्यादिना—

बलशालितया यथा तथा वा धियमुच्छेदवरामयं दधानः ।
नियमेन मया निवर्हणीयः, परमं लाभमरातिभङ्गमाहुः ॥ १२ ॥

**मल्लि०—**किं बहुना, यथा तथा वाऽस्तु । अयं मायिकः पारमार्थिको वा स्त्वित्यर्थः । सर्वथापि बलशालितया । बलदृप्ततयेत्यर्थः । उच्छेदपरां धियं दधानः। मां जिघांसुरित्यर्थः । अतोऽयम् मृगो नियमेनावश्यं मया निवर्हणीयो वध्यः। 'प्रमापणं निवर्हणम्' इत्यमरः । तथा हि—अरातिभङ्गं शत्रुक्षयं परमं लाभमाहुः।

**हिन्दी—**अथवा यह जो कोई हो सर्वथा बलवान् होनेसे नाश करनेको मति लेता हुआ यह जानवर अवश्यही मुझसे वध्य है, क्योंकि विद्वान् लोग शत्रुनाशको उत्तम लाभ कहते हैं ॥ १२ ॥

ननु तपोविरोधिनीं हिंसेत्याशङ्क्याह—

कुरु तात ! तपांस्यामार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् ।
बलिनश्च वधादृतेऽस्य शक्यं व्रतसंरक्षणमन्यथा न कर्तुम् ॥ १३ ॥

**मल्लि०—**कुर्विति । हे तात वत्स! मार्गदायी न भवतीति अमार्गदायी। रन्ध्रान्वेषिणां प्रवेशमयच्छन्नित्यर्थः । कुतः । जयधित्वादित्याह—विजयाय तपांसि कुर्विति मुनिर्व्यासो मामलं भृशम् । अन्वशात् अनुशिष्टवान् । अनुशासेर्लङ् । ननु मुनिर्वा कथमधर्ममन्वशात्, तत्राह—बलिन इति अस्य मृगस्य बलिनः प्रबलस्य वधादृते वधं विना । 'अन्यारादितरर्ते—' इत्यादिना पञ्चमी । अन्यथा उपायान्तरेण व्रतसंरक्षणं तपोरक्षणं कर्तुं न शक्यम् । हिंसापि दुष्टनिग्रहात्मिका नोधर्म इत्यर्थः ॥ १३ ॥

हिन्दी—'हे वत्स ! रन्ध्रका अन्वेषण करनेवालोंको प्रवेशका मार्ग नही देते हुए तुम विजयके लिए तपस्या करो' ऐसा व्यास मुनिने मुझे अनुशासन किया है। बलवान् इस वराहको मारे बिना दूसरे उपायसे तपस्याकी रक्षा नहीं की जा सकती है ॥ १३ ॥

इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे ।
उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः !! १४ ॥

**मल्लि०—**इतीति । तेनार्जुनेन । इतीत्थं विचिन्त्य वितक्यं चापनाम चापाख्यं प्रथमं पौरुषचिह्नम् । तस्य मुख्यायुधत्वादिति भावः । आललम्बे गृहीतम् ।

त्रयोदशः सर्गः २७५

कर्मणि लिट् । अथ परस्य शत्रोर्भेदे विदारण उपजाते च उपलब्धगुणो ज्ञातशक्तिः बाणस्तु प्राप्तश्रीर्वाकर्षवेति शेषः । शुद्धः ऋजुदिग्धत्वादिवोपरहितो वा । 'न कर्मभेदीनं दिग्वैर्नाग्निज्वलिततैजसैः' । इति निषेधात् । अन्यत्र-शुद्धो निर्मलचित्त इति यावत् । बाणश्च सचिव इव । आददे जगृहे । अत्र बाणसचिवयोः शब्दमात्रसामर्थ्याच्छ्लेषालंकारः । प्रकृताप्रकृतविषय इति सर्वस्वकारः । उपमैवेति केचित् ॥ १४ ॥

हिन्दी — उन्होंने (अर्जुनने) ऐसा विचार कर धनु नामवाले पहले पुरुषार्थके चिह्नको उठाया, शत्रुको विदारण करनेमें जानी गई शक्तिवाला और प्रत्यञ्चापर चढ़ाया गया शुद्ध (सीधा वा दोषरहित) मन्त्रीके समान बाणको ले लिया ॥ १४ ॥

अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनञ्जयेन ।
स्ववलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥ १५ ॥

मल्लि०अनुभावेति । गुरु महत्पूज्यं च स्थिरात् सारवत्त्वात् । अविसंवादि अभङ्गुरम्, अन्यत्र प्रतिष्ठितत्वादसत्यरहितम् । गुणवत् सज्यम् । अन्यत्र-औदार्यादिगुणवत् । धनुर्मित्रमिवानुभाववता निश्चयबुद्धिमता । 'अनुभावः प्रभावे च सतां च मतिनिश्चये ।' इत्यमरः । धनञ्जयेन स्वबलव्यसनेऽपि तपसा क्षीणत्वेऽपि । अन्यत्र स्वं धनं तदेव बलं तस्य व्यसने ह्रासेऽपि । पीड्यमानमाकृष्यमाणमवरुद्ध्यमानं च सत् मित्रमिव । आनतिं नम्रतामानुकूल्यं च प्रपेदे । अलंकारस्तु पूर्ववत् ॥ १५ ॥

हिन्दी — गुरु (विशाल और पूज्य) सारयुक्त होनेसे अभङ्गुर (नहीं टूटनेवाला) अथवा प्रतिष्ठित होनेसे असत्यसे रहित, गुण (प्रत्यञ्चा वा उदारताआदि) से युक्त धनुने मित्रके समान, निश्चय बुद्धिवाले अर्जुनसे तपस्यासे क्षीण होनेपर भी अथवा स्व (धन) रूप बलका ह्रास होनेपर भी खींचा जाकर उत्तम मित्रके समान आनति (नम्रता वा अनुकूलता) को प्राप्त किया ॥ १५ ॥

प्रविकर्षणनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् ।
अधिरोहति गाण्डिवं महेषौ सकलः संशयमारुरोह शैलः ॥ १६ ॥

मल्लि०प्रविकर्षेति । तदानीं तस्मिन् काले महेषौ बाणे गण्डिवमर्जुनधनुः । अधिरोहति सति । 'कपिश्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ' इत्यमरः । 'गाण्डघ-जगात्संज्ञायाम्' इति वप्रत्ययः । प्रविकर्षेण ज्यास्फालनेन यो निनादस्तेन भिन्नरन्ध्रो विदलितगह्वरः तथा, पदविष्टम्भेन पादाक्रमणेन निपीडितो नुन्नः सकलः समूलः

२७६किरातार्जुनीयम्

शैलः संशयं जीवितसंदेहम् । आरुरोह । प्रापेत्यर्थः । अत्र शैलस्य संशयासंबन्धेऽपि संबन्धकथनादतिशयोक्तिरलंकारः ॥ १६ ॥

हिन्दी -- उस समय विशाल बाणके अर्जुनके धनु गाण्डीवपर चढ़ाये प्रत्यञ्चाके ताडनसे विदीर्ण गह्वरवाला तथा पैरके आक्रमणसे प्रेरित मूलके पृष्ठ पर्वत ही संशयको प्राप्त हो गया ॥ १६ ॥

ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायितचापमण्डलस्थः । रचितस्तिसृणां पुरां विघातुं वधमात्मेव भयानकः परेषांम् ॥ १७ ॥

मल्लि० -- ददृश इति । अथ बाणसंधानानन्तरं शिवेन स्थिरं निश्चलं पूर्णं यथा तथा, आयत आकृष्टे चापमण्डले तिष्ठतीति तथोक्तः । चापमण्डलभान्तर्भावे स्थितः इत्यर्थः । तिसृणाम् । 'न तिसृचतसृ' इति दीर्घप्रतिषेधः । पुराम् । त्रिपुरासुरस्येत्यर्थः । वधं संहारं विधातुं कर्तुं रचितः कल्पितः । स्थानविशेषे स्थापित इति यावत् । आत्मा स्वयमिव परेषां भयानकः भयंकरः सोऽर्जुनः सविस्मयं ददृशे दृष्टः। उपमालंकारः ॥ १७ ॥

हिन्दी -- बाणसन्धानके अनन्तर शिवजीने निश्चल और पूर्णरूपसे आकृष्ट धनुर्मण्डलको आच्छादित कर रहे हुए त्रिपुराऽसुरका वध करनेके लिए उद्यत अपने ही समान दूसरोंको भयङ्कर अर्जुनको आश्चर्यके साथ देखा ॥ १७ ॥

अथ पिनाकिवृत्तान्तमाह --

विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः । धनुरायतभोगवासुकिज्यावदनग्रन्थिविमुक्तवह्नि शंभुः ॥ १८ ॥

मल्लि० -- विचकर्षेति । अथ शंभुश्च संहितेषुः सन् उच्चैर्भृशं चरणास्कन्दनेन पदविष्टम्भेन नामितोऽधो नीतोऽचलेन्द्रो येन स तथोक्तः । आयतभोग आकृष्टकायो वासुकिरेव ज्या तस्य वदनमेव ग्रन्थिस्तेन विमुक्त उत्सृष्टो वह्निर्यस्य तत् धनुर्विचकर्षेति स्वभावोक्तिः ॥ १८ ॥

हिन्दी -- तब बाणका सन्धान करते हुए शिवजीने उन्नत रूपसे चरणके आक्रमणसे पर्वतराजको झुकाते हुए शरीरको आकृष्ट करनेवाला सर्पराज वासुकि-रूप प्रत्यञ्चा, उसके मुखरूप ग्रन्थिसे अग्निको छोड़नेवाले धनुको आकृष्ट किया ॥ १८ ॥

त्रयोदशः सर्गः २७७

त्रयोदशः सर्गः २७७

स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहायम् । रिपुराप पराभवाय मध्यं प्रकृतिप्रत्ययोरिवानुबन्धः ॥ १९ ॥ मल्लि०—स इति । सह संभूय अर्थमरिबधरूपप्रयोजनं विधास्यतोः करिष्यतोः । अन्यत्र—सहाथंमभिधेयमभिधास्यतोरित्यर्थः । 'प्रकृतिप्रत्ययौ सहार्थं ब्रूतः' इति वचनात् । भवक्षयैकहेतोः संसारोच्छेदनिदानस्य भवस्य शिवस्य सितसप्तेरर्जुनस्य च मध्यं रिपुर्वराहः । यस्मात्प्रत्ययो विधीयते सा प्रकृतिर्द्धादिः, प्रत्ययः सनादिः, तयोर्मध्यमनुबन्ध इत्संज्ञको वर्णः । यथा भूतं भूतिररित्यादो क्कारः । स इव पराभवाय नाशाय लोपार्थमेव आप । न तु स्थित्यर्थमित्यर्थः ॥ १९ ॥

हिन्दी—मिलकर शत्रु का वध रूप प्रयोजन को करनेवाले, दूसरे पक्ष में—साथ-साथ अर्थ का प्रतिपादन करनेवाले, संसार के संहार के लिए एकमात्र कारण-स्वरूप शिवजी और अर्जुन के भी बीच में शत्रु (वराह) प्रकृति (धातु आदि) प्रत्यय (सन् आदि) उनके बीच में अनुबन्ध (इत्संज्ञक वर्ण) की तरह लोप के लिए प्राप्त हुआ ॥ १९ ॥

अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणादवार्यः । निपपात जवादिषुः पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानुः ॥ २० ॥ मल्लि०—अथेति । अथ रिपोर्मध्यप्रवेशानन्तरं दीपितं वरिवाहवर्त्म आकाशं येन सः । अवार्यो दुर्वार इषुः शरो रववित्रासितवारणात् स्वघोषभोषितगजात् पिनाकात् शिवधनुषः । 'पिनाकोऽजगवं धनुः' इत्यमरः । महतोऽभ्रान्मेघात्, विद्युतोऽयं वैद्युतः कृशानुरशनिरिव जवाद्द्वेगात् । निपपातादघाव ॥ २० ॥

हिन्दी—तब आकाश को प्रकाशित करनेवाला और निवारण नहीं किया जा सकनेवाला बाण अपनी आवाज से हाथियों को डरानेवाले शिवधनु पिनाक से विशाल मेघ से बिजली वाले वज्र के समान वेग से छूटा ॥ २० ॥

व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्थ्योपनिपातवेगशङ्कः । प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ॥ २१ ॥ मल्लि०—व्रजत इति । व्रजतो धावतोऽस्य बाणस्य बृहद्भ्यः पतत्त्रेभ्यः पक्षेभ्यो जन्म यस्य स तथोक्तः । कृता तार्थ्योपनिपातवेगशङ्का गरुडागमनवेगभ्रमो येन सः । अत एव, महोरगाणां सर्पाणां हृदयानि श्रोत्राणि च भिनत्तीति हृदयश्रोत्रभित् । 'समुद्राद्याठः' इति सूत्रे पूर्वनिपातव्यभिचारात् 'श्रोत्र' शब्दस्य पूर्वनिपातः

२७८किरातार्जुनीयम्

व्यभिचारः । प्रतिनादैः प्रतिध्वनिभिः महान् संमूर्च्छितो नाद उत्पपात बलिष्ठः अत्र नादस्योरगहृदयभेदकत्वासम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्तिः। सा च तार्क्ष्यवेगभ्रमोत्थापितेति तयोरङ्गाङ्गिभावेन संकरः ॥ २१ ॥

हिन्दी—दौड़ते हुए इस बाणके विशाल पूंछोंसे उत्पत्तिवाली गरुड़के बाणके के वेगकी शङ्का उत्पन्न करनेवाली अत एव विशाल सर्पोंके हृदय और कछारोंके फाड़नेवाली, प्रतिध्वनियोंसे भारी आवाज उत्पन्न हुई ॥ २१ ॥

नयनादिव शूलिनः प्रवृत्तेर्मनसोऽप्याशुतरं यतः पिशङ्गैः ।
विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः ॥ २२ ॥

मल्लि०—नयनादिवेति । शूलिनो नयनात् प्रवृत्तेर्निर्गतैरिव स्थितैरित्युत्प्रेक्षा। नेत्राग्निशिखाकल्पैरित्यर्थः । पिशङ्गैः पिङ्गलैः विलसत्तडिल्लताभैर्विद्युद्दामतुल्यैरित्युपमा । मनसश्चित्तादपि आशुतरं शीघ्रतरम् । 'आशु' शब्दादनव्ययातस्तरप् अतः 'किमेत्तिङव्यये-'त्यादिनाम्प्रत्ययो न । 'क्लीवे शीघ्राद्यसत्त्वे स्यात्त्रिलिङ्गे सत्त्वगामि यत् ।' इत्यमरः । यतो गच्छतः । इणः शतृप्रत्ययः । मार्गणस्य शरस्य। 'कदम्बमार्गणशराः' इत्यमरः । किरणैर्व्योमनि आकाशे मार्ग उल्कारेखाकारः पन्था विदधे विरचित इति स्वभावोक्तिरलंकारः ॥ २२ ॥

हिन्दी—शिवजीके नेत्रसे निकले हुएके समान स्थित, पीली चमकती हुई बिजलीके समान, मनसे भी अतिशीघ्र जाते हुए बाणकी किरणोंसे आकाशमें उल्काकी रेखाके आकारवाला मार्ग बनाया गया ॥ २२ ॥

अपयन्धनुषः शिवान्तिकस्थैर्विवरेसदद्भिरभिख्यया जिहानः ।
युगपद्ददृशे विशन्वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ॥ २३ ॥

मल्लि०—अपयन्निति । पृषत्को बाणः । 'पृषत्कवाणविशिखाः' इत्यमरः। धनुषः पिनाकात् अपयन् निर्यन् । निर्गच्छन्नित्यर्थः । इणः शतृप्रत्ययः । शिवान्तिकस्थैर्नभश्चरैः । अभिख्यया शोभया जिहानः । शोभां गच्छन्नित्यर्थः । 'ओहाक् गतौ' इति धातोः शानच् । 'अभिख्या नामशोभयोः' इत्यमरः । विवरे सीदन्तीति विवरेसदस्तैः विवरेसदद्भिरन्तरालवर्तिभिर्नभश्चरैः । 'सत्सूद्विषे--'त्यादिना क्विप् । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । अथ वराहं विशन् प्रविशन्, तदुपोढैस्तं वराहमुपोढैः प्रत्यासन्नैः । बहेः कर्तरि क्तः । नभश्चरैर्युगपद्ददृशे दृष्ट इति बाणवेगोक्तिः । अत्र क्रमेण पिनाकनिष्क्रमणादिक्रियाविशिष्टस्य बाणस्य शिवान्तिकादिभिन्नदेशस्थ-