भारतकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

प्रथमोऽङ्कः । ३९ मकरन्दः—वयस्य, मालत्या अपि स्नेहदर्शनात्सुश्लिष्टमेतत् । यो हि कपोलपाण्डुतादिचिह्नः सूचितः प्रागनुरागस्तस्याः कामाभि- षङ्गः सोऽपि त्वन्निबन्धन इति व्यक्तमेतत् । एतत्तु न ज्ञायते क दृष्टपूर्वस्तस्या वयस्य इति । न खलु तादृश्यो महाभागधेयजन्मा- नोऽन्यत्रासक्तचेतसो भूत्वा परत्र चक्षूरागिण्यो भवन्ति । अपि च । अन्योन्यसंभिन्नदृशां सखीनां तस्यास्त्वयि प्रागनुरागचिह्नम् । कस्यापि कोऽपीति निवेदितं च माधवः—किं चान्यत् । मकरन्दः— धात्रेयिकायाश्चतुरं वचश्च ॥ ३६ ॥ रागमात्मन्यप्रत्ययादाशङ्कमानं लिङ्गैर्दृढं कृत्वा तन्मनोऽवस्थापयितुमाह—मक- रन्दःवयस्येति । तस्या अपि त्वद्वचनात्त्वय्यनुरागप्रतीतेरेतत्कार्यं साधु संघटितमित्यर्थः । न च मम दर्शनात्पूर्वमेव सा कपोलपाण्डिमाद्युपेता वर्तते, तेन मदन्यस्मिन्नेव कापि यूनि प्रागवलोकिते बद्धभावेयं न तु मयीत्याशङ्कनीयम् । यतस्त्वमेव कुत्रचित्पूर्वं दृष्टस्तस्याश्चिरादनुबध्यमानस्य मन्मथविकाराभिनिवेशस्य हेतुः । किं तु क्व वा तया प्रागवलोकितोऽभूरित्येतावदेव ज्ञातव्यमित्याह—यो हीत्यादिना । अहमेव तत्र हेतुरिति कुतोऽवधारणमित्यत आह—न ख- ल्विति । तादृश्यः प्रशस्तकुलशीलगुणगणोज्ज्वला महाभागधेयजन्मानः प्रकृष्टसु- चरितपरिपाकलब्धजनुषः । चक्षूरागश्चक्षुःप्रीतिरासामस्तीति तथा । यथा- ‘कुलीना गुणवत्यश्च कुमार्यो भाग्यभूषणाः । ईदृशास्त्वयशोदोषभाजनं नैव जातु- चित् ॥ यदन्यासक्तचित्ता सा न चक्षुस्त्वयि पातयेत् । मनोऽन्यत्र दृगन्यत्र चेतीनां नोत्तमस्त्रियाः ॥’ इति भावः । अन्यदपि त्वयि पूर्वानुरागे लिङ्गमस्ती- त्याह—अपि चेतिअन्योन्येति । अन्योन्यसंभिन्नदृशां सप्रत्यभिज्ञं स एवायमिति निर्धारयितुं परस्परमुखावलोकनेन संमिश्रदृष्टीनां तस्याः सखीनां क- स्यापि जनस्य कोऽपि दयित इहैव वर्तत इत्येवंरूपं निवेदितम् । स्वसख्यै प्र- ज्ञापनं चैकं तस्यास्त्वय्येवासौ पाण्डिमादिसूचितः प्रागनुराग इत्यास्मिन्नर्थे चिह्नं लिङ्गमित्यर्थः ॥ अथ माधवः स्वनिर्धारितं लिङ्गान्तरं लवङ्गिकाश्लिष्टवचनरूपमसा- वुद्भावयिष्यति वा न वेत्यौत्सुक्यात्तद्वचनावसरप्रतीक्षणमसहमानः कस्यापि को- ऽपीति निवेदितं चेति चशब्देन किमन्यत्समुच्चिनोषीति पृच्छति—माधवः— किं चेति । चकारः किमन्यत्प्रागनुरागलिङ्गं द्योतयतीत्यर्थः ॥ मकरन्दः— धात्रेयिकाया इतिचतुरं छिद्द्रम् । प्रागनुरागचिह्नमिति शेषः ॥ ३६ ॥ ५ माल०

४० मालतीमाधवे कलहंसः—(उपसृत्य ।) एदं अ । (चित्रं दर्शयति ।) (उभौ पश्यतः ।) मकरन्दः—कलहंसक, केनेदं माधवस्य रूपमभिलिखितम् । कलहंसः—जेणे एव्व से हिअअं अवहरिदं । मकरन्दः—अपि नाम मालत्या । कलहंसः—अह इं । माधवः—वयस्य मकरन्द, प्रसन्नप्रायस्ते तर्कः । मकरन्दः—कुतोऽस्याधिगमस्ते । कलहंसः—मँह दाव मन्दारिआहत्थादो । ताए वि लवङ्गि- आसआसादो । मकरन्दः—कथय किमाह मन्दारिका माधवलेख्यप्रयोजनं मालत्याः । कलहंसः—उक्कँठाविणोअणं ति । मकरन्दः—वयस्य, समाश्वसिहि । या कौमुदी नयनयोर्भवतः सुजन्मा तस्या भवानति मनोरथबन्धबन्धुः । १. एतच्च । २. येनैवास्य हृदयमपहृतम् । ३. अथ किम् । ४. मम तावन्मन्दारिकाहस्तात् । तया अपि लवङ्गिकासकाशात् । ५. उत्कण्ठाविनोदनमिति । कलहंसः। एतच्च । इदमपि प्रागनुरागचिह्नमिति प्राप्तावसरश्चित्रमर्पयतीत्यर्थः ॥ चित्रलेखनपर्यन्तस्य मालतीव्यापारस्य मकरन्देनापाततोऽधिगमात्केनेति सामा- न्यतो निर्देशः ॥ कलहंसः । पुनर्विमर्शपूर्वकं तेनैव वाचयितुमाह—येनैवास्य हृदयमपहृतमिति ॥ मकरन्दः । अपि नामेति प्रश्ने । लिखितमिति शेषः ॥ कल- हंसः। अथ किमित्यङ्गीकारे । बाढं मालत्यैवेत्यर्थः ॥ माधवः । वयस्येति । प्रसन्नप्रायः संदेहलक्षणकालुष्यापगमान्निर्मलीभूतस्तर्कस्त्वय्येव सानुरक्तेत्यूहः । अत्र चित्रदर्शनात्तस्मिन्मालत्यनुरागनिश्चयेन सुखागमप्रतीतेः प्राप्तिर्नाम संध्यङ्ग- मुक्तं भवति । यथा—'प्राप्तिः कोऽपि सुखागमः' इति ॥ मकरन्दः । कलहं- सक, कस्मादेतत्त्वया प्राप्तमित्यर्थः ॥ कलहंसः । मम तावन्मन्दारिकाहस्तात् । तया अपि लवङ्गिकासकाशात् ॥ कलहंसः । उत्कण्ठाविनोदनमिति ॥ या कौमुदीति । या त्वन्नेत्रचकोरयोश्चन्द्रिकेव निरतिशयसौहित्यकारिणी तस्याः सु-

प्रथमोऽङ्कः । ४१ तत्संगमं प्रति सखे न हि संशयोऽस्ति यस्मिन्विधिश्च मदनश्च कृताभियोगः ॥ ३७ ॥ द्रष्टव्यरूपा च भवतो विकारहेतुस्तदत्रैवालिख्यताम् । माधवः—यदभिरुचितं वयस्याय । (लिखन् ।) सखे मकरन्द, वारंवारं तिरयति दृशावुद्गतो बाष्पपूर- स्तत्संकल्पोपहितजडिमस्तम्भमभ्येति गात्रम् । सद्यःस्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥ ३८ ॥ तथाप्यवहितोऽस्मि । (चिरादभिलिख्य दर्शयति ।) मकरन्दः—(चित्रं निर्वर्ण्य ।) उपपन्नस्तावदत्रभवतोऽभिषङ्गः । (सकौतुकम् ।) कथमचिरेणैव निर्माय लिखितः श्लोकः । (वाचयति ।) जन्मा लमपि मनोरथबन्धस्य दृढानुरागस्य बन्धुः । आश

४२ मालतीमाधवे जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदिदं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ ३९ ॥ (प्रविश्य ।) मन्दारिका—१कलहंस कलहंस, चोर चोर, पआणुसारेण ल- १. कलहंस कलहंस, चोर चोर, पदानुसारेण लब्धोऽसि कथं तावपि महानुभावावत्रैव प्रणमामि । त्कम्पेनानवरतवेपथुना लोलाश्लथा अङ्गुलयो यस्य स तादृशो वर्तते । तत्किं करोमि । इदानीं चित्रकर्मवैदग्ध्यप्रकटनं दुर्घटमित्यर्थः । स्वेदवेपथू यथा—'वपुर्ज- लोद्गमस्वेदो रतिघर्मश्रमादिभिः । रागरोगभयादिभ्यः कम्पो गात्रस्य वेपथुः ॥' इति ॥ ३८ ॥ तथापीत्यादि स्पष्टम् ॥ जगतीति । जगति भुवने ते ते नवेन्दुक- लादयो भावाः पदार्था जयिनो मन्मथसाहाय्याचरणेन विरहिजनवशीकरणशीलाः। प्रकृतिमधुराः स्वभावेनैव मनोहराः । 'इह वटे यक्षः' इति न्यायेन न केवलमन्धपर- म्परया प्रसिद्धाः । अन्ये मालतीव्यतिरिक्ताः सन्त्येव येऽन्येषामदृष्टमालतीमुखा- म्बुजानामविवेकिनां वा मनो मदयन्त्युत्सुकयन्ति । नैतदपूर्वम् । सन्तु नाम । तैः किमिदानीं तदपेक्षया वराकप्रायैरिति भावः । 'भिन्नरुचिर्हि लोकः' इति न्या- येनान्येषां यथा तथा वास्तु नाम । मम पुनर्विलोचनचन्द्रिका नेत्राह्लादकारिणी । लोके लोकप्रसिद्ध्या केवलमिदमुच्यते, न तु स्वापेक्षया । माधवस्य मालत्यपेक्षया चन्द्रिकादेरतितुच्छत्वेन मालत्यामुत्कर्षप्रतिपादनार्थं चन्द्रिकात्वारोपस्य स्ववचो- व्याहतत्वात् । तेन यथा लोकस्य चन्द्रिका नेत्रयोराह्लादकारिणी एवं मम मालती- त्येतावता चन्द्रिकात्वारोपो न तूत्कर्षप्रतिपादनायेति व्याख्येयम् । एवं च व्याह- तार्थदोष इति तु परिहृतम् । इयं मालती नयनविषयम् । भावप्राधान्येन निर्देशः । नेत्रगोचरतामापन्नेति यत्स एवास्मिञ्जन्मनि लोके कृत्स्नेऽपि प्रपञ्च एकोऽद्वि- तीयो महानुत्सवः सौख्यहेतुः । नान्ये चन्द्रकलादय इत्यर्थः । अतिशयोक्तिरलं- कारः ॥ ३९ ॥ प्रविश्य । मन्दारिकेति । माधवाय प्रदर्श्य शीघ्रं प्रत्यानयेति कलहंसस्य हस्ते चित्रमर्पितवती मदनोद्यानात्प्रतिनिवृत्य क्रीडासौधवर्तिन्यां माल- त्यामथ विशेषदर्शनप्रबलतरोत्कण्ठाविनोदाय क्व चित्रफलकमिति विमृशन्त्यां तदसंनिधानादुपजातसंभ्रमा मन्दारिका जनसंकुले कलहंसमन्विष्य तत्रादृष्टवती प्रविश्य वदतीति भावः । द्विरुक्तिः संभ्रमसूचनार्था । प्लुतश्च 'निगृह्यानुयोगे च' इति विहितो देशभाषास्वपि व्यवह्रियते । चोरेत्यामन्त्रणं मद्धस्ताच्चित्रफलं त्वया चोरे- णानीतमित्युपहासपरम् । अत एवाह—पादानुसारेण लब्धोऽसीति ।

द्धोसि । (सलज्जम् ।) कहं दे वि महाणुहावा एत्थ एव्व । (उपसृत्य ।) पणमामि । उभौ—मन्दारिके, इत आगम्यताम् । मन्दारिका—केलहंसक, उवणेहि चित्तफलअं । कलहंसः—गिण्हे इमं । मन्दारिका—केनँ किंणिमित्तं वा एत्थ मालदी अहिलिहिदा । कलहंसः—जो एव जंणिमित्तं मालदीए । मन्दारिका—(सहर्षम् ।) दिट्ठिआ उवदंसिदफलं विण्णाणं पआवइणो । मकरन्दः—सखि मन्दारिके, यदत्र वस्तुन्येष ते वल्लभः कथयति, अपि तत्तथा । मन्दारिका—महाभाअ, तत्तहा । मकरन्दः—क्व पुनर्मांलती माधवं प्राग्दृष्टवती । १. कलहंसक, उपनय चित्रफलकम् । २. गृहाणेदम् । ३. केन किंनिमित्तं वात्र मालत्यभिलिखिता । ४. य एव यन्निमित्तं मालत्या । ५. दिष्ट्या उपदर्शितफलं विज्ञानं प्रजापतेः । ६. महाभाग, तत्तथा । चोरो हि पदन्यासलिङ्गानुसरणेनैव गृह्यते । सलज्जामिति । तत्स्वामिसं- निधौ तेन सहोपहसनानौचित्यात् । कथं तावपि महानुभावावत्रैव ॥ इत आ- गम्यतामित्यादरोक्तिः । तस्याः समनन्तरकार्योपयोगात्तदनुनयार्थम् ॥ मन्दा- रिका । कलहंसक, उपनय चित्रफलकम् ॥ कलहंसः । गृहाणेदम् ॥ मन्दा- रिका । कलहंसकं प्रति । केन किंनिमित्तं वात्र मालत्यभिलिखिता ॥ कलहंसः । य एव यन्निमित्तं च मालत्या लिखितो माधवस्तेनैव तद- र्थमेवोत्कण्ठाविनोदार्थमेव मालती लिखितेत्यर्थः । मन्दारिका—सहर्ष- मिति । कामन्दकीपरिजनस्यास्मदाद्दर्श्यव्यापारः फलोन्मुख इति हर्षहेतुः । दिष्ट्या उपदर्शितफलं विज्ञानं प्रजापतेः । ईदृशयुवद्वयनिर्माणं विधातुः शिल्पकौ- शलमनयोरन्योन्यानुरागप्रकर्षेण दर्शितफलं जातम् । परिणयरूपा परिणतिरेवैतः परमवशिष्टेति भावः ॥ मकरन्दः । अत्र प्रतिच्छन्दकरूपे वस्तुनि यदेष ते पतिः कथयति मालत्या लिखितमुत्कण्ठाविनोदनायेति । अपि प्रश्ने । किं तत्तथा सत्य- मित्यर्थः ॥ मन्दारिका । महाभाग, तत्तथा ॥ मकरन्दः—केति । येन

४४ मालतीमाधवे मन्दारिका—१लवङ्गिका भणादि वादाअणगदेत्ति । मकरन्दः—नन्वमात्यभवनासन्नरथ्यैव बहुशः संचरावहे । तदुपपन्नमेतत् । मन्दारिका—२अणुमण्णादु महाभाओ । जाव एदं भववदो दे- वस्स मअणस्स सुचरिअं पिअसहीए लवङ्गिआए णिवेदिस्सामि । मकरन्दः—प्राप्तावसरमेतद्भवत्याः । (उत्थाय परिकामतः।) मकरन्दः—वयस्य, मध्याह्नोऽतिवर्तते । तदेहि । संस्त्यानमेव प्रविशावः । (उत्थाय परिकामतः।) माधवः—एवं हि मन्ये । घर्माम्भोविसरविवर्तनैरिदानीं मुग्धाक्ष्याः परिजनवारसुन्दरीणाम् । तत्प्रातर्विहितविचित्रपत्ररेखा- वैदग्ध्यं जहति कपोलकुङ्कुमानि ॥ ४० ॥ १. लवङ्गिका भणति वातायनगतेति । २. अनुमन्यतां महाभागः । यावदिदं भगवतो देवस्य मदनस्य सुचरितं प्रियसख्यै लवङ्गिकायै निवेदयिष्यामि । उत्कण्ठाविनोदाय तद्रूपमलिखदिति भावः ॥ मन्दारिका । लवङ्गिका भणति वातायनगतेति ॥ एतद्गवाक्षमार्गेण दर्शनमित्यर्थः ॥ मन्दारिका । अनुमन्यतां महाभागः यावदिदं भगवतोऽप्रतिहतभावस्य देवस्याशक्यसंघटनेदृशमिथुनसंघ- टनानुगुणव्यापाराहमकक्रीडावतो मदनस्य सुचरितमन्योन्याकृतिनिर्माणहेतुपरस्प- रानुरागलक्षणं लवङ्गिकायै निवेदयिष्यामि । तथैवाहमत्र नियुक्ता, तमिमं वृत्तान्तं तस्यै निवेदयामि । सा पुनर्यथोचितमाचरिष्यतीति भावः ॥ मकरन्दः—प्रा- प्तेति । भवत्या । एतन्माधवालोकितस्य दृढीकृततदनुरागस्य तदभिलिखितमा- लतीरूपसंपादयिष्यमाणमालतीमनःप्रत्ययस्यास्य प्रतिच्छन्दकस्य लवङ्गिकायै नि- वेदनं प्राप्तोऽवसरो यस्य तत् । अवसरोचितमित्यर्थः ॥ संस्त्यानं सदनम् ॥ धर्माम्भ इत्यादि । मुग्धे सुन्दरे अक्षिणी यस्यास्तस्याः परिचारिकाणां वारविलासिनीनां कपोलकुङ्कुमानि कर्तॄणि कपोलयोरनुलिप्तानि कुङ्कुमानि । अनेनानुलेपनविशेष उक्तः । यथा—'वैदग्ध्येनोपरचितं स्तनयोर्वा कपोलयोः । उन्मादनं नयनयोर्य- त्प्रसादनुलेपनम् ॥' इति । घर्माम्भसः स्वेदजलस्य विसरो बिन्दुसमूहस्तस्य

-" (no, "चमत्कार-") Wait, look at line 10 end: "चमत्का-" or "चमत्कार-"? It is "चमत्का-" with a hyphen! And line 11 starts with: "रकारिणी"! Wait, चमत्कारकारिणी -> चमत्का- / रकारिणी. Yes!

तर्कयामीत्यर्थः । स्वेदवशात्प्रमृष्टरचनानि विच्छिन्नचातुर्याणि कपोलकुङ्कुमानि मध्याह्ने स्युरिति भावः ॥ ४० ॥ अयोन्मादविजृम्भणमहिम्ना वायोरचेतनादपि Wait, "अयोन्माद-" or "अथोन्माद-"? Look at the first letter of the sentence: "अयोन्माद" or "अथोन्माद"? It's "अथोन्मादविजृम्भणमहिम्ना"! In Devanagari, 'थ' often looks like 'य' with an upper loop. In classical texts, "अथोन्माद..." is standard. Wait, look at the loop: yes, it has a loop at the top left, which is 'थ': "अथोन्मादविजृम्भणमहिम्ना".

तत्संगमं प्रार्थयन्नाह—उन्मीलदित्यादि । हे पवन, तामालिङ्गन्ने

४६ मालतीमाधवे अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः ॥ ४२ ॥ तदत्रभवती कामन्दकी नः शरणम् । माधवः—(स्वगतम् ।) पश्यामि तामित इतः पुरतश्च पश्चा- दन्तर्बहिः परित एव विवर्तमानाम् । उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती- मासङ्गतैर्यगपवर्तितदृष्टिवक्त्रम् ॥ ४३ ॥ (प्रकाशम् ।) वयस्य, मम हि संप्रति ज्वरः । स चासौ दारुणश्चेति विग्रहः । कठोरोऽतितीव्रः । कूटपाकलो गजरोग- विशेषः । कूटेन कपटेनाकस्मादागत्य तस्मिन्नेव निपातयतीति कूटपाकलः । य- था—'यथाभिहन्यात्कूटेन मृगयूथं वनेचरः । तथा पातात्मको नागं हन्ति वै कूटपाकलः ॥ मृगः कूटेन शबरैर्हन्यते दारुणं यथा । तथा तेन द्विपः सीदत्यतः स्यात्कूटपाकलः ॥' इति । केचित्कूटीभूय संधीभूय दोषत्रयेण जनितो गजज्व- रविशेषः कूटपाकल इति व्याचक्षते । अनेनोन्मादावस्था सूचिता । उपमालंकारः ॥ ४२ ॥ तदत्रेति । नान्या गतिरस्तीत्यर्थः । इयमर्थसंप्रसारणरूपा युक्तिर्मुखसं- धेरङ्गम् । यथा—'संप्रसारणमर्थानां युक्तिरित्यभिधीयते' इति । माधवस्तु तामेव गमनसमये दृष्टामिदानीं सर्वत्रापि विलोकयन्नात्मन्येव स्वकीयमुन्मादातिशयं विमृ- शन्नाह—पश्यामीति । तामेव गमनसमये दृष्टामिदानीं बहुधा विवर्तमानाम् । प्रातिभासिकाकारो विवर्तः । प्रतिभासमात्रशरीरतया स्फुरन्तीम् । बाहुविध्यं व्य- नक्ति—इत इत इति । कदाचित्कर्णान्तिकमागत्य रहस्याख्यानसस्पृहामिव पर्यायेण पार्श्वद्वये मदीयबाहुसंस्पर्शरोमाञ्चकञ्चुकितेकपयोधरं निषेदुषीम्, अन्यदा पुरतोऽ- भिमुखमुपविश्य 'किमित्येवमतिविषण्णः खिद्यसे । सर्वथा त्वदायत्तजीविताहम्' इति प्रौढवनितावन्मामभुनयन्तीम्, क्षणान्तरे पुनः पश्चान्मां मन्दसंचारमागत्य मन्नयने पिधाय कराभ्यां 'काहं कथय' इति मां विनोदयन्तीम्, कदाचिदसौ किमन्यां वा निरन्तरं निध्यायति मामेवेति विचारयितुमिवान्तः प्रविशन्तीम्, तत्र च स्वात्मान- मेवोपास्यामिव परदेवतामाकारान्तरेण मदिच्छापरिकल्पितेन भासमानमवलोक्य वनितान्तरशङ्कया 'नूनं शठोऽसि । नाहं त्वत्संनिधौ वर्तितुमुत्सहे' इत्यसूययेव बहि- र्निर्गत्य चेलाञ्चले गृह्यमाणामपि बलादपसरन्तीम्, कदाचिद्योगिनीमिव परिगृह्य बहूनि शरीराणि परितःपरिवृत्य मामनेकप्रकारैर्विलासैरानन्दयन्तीमिति स्वमनोरथ- विजृम्भणप्रपञ्चप्रकारः । पुनः कीदृशीम् । विकसन्मनोहरकनककमलसदृशम् । आ- सङ्गेन मय्यासक्ततया तिर्यगपवर्तितं तिर्यग्वलितं दृष्टिर्यस्य तत्तादृशं वक्त्रं वहन्ती-

प्रथमोऽङ्कः । ४७ प्रसरति परिमाथी कोऽप्ययं देहदाह- स्तिरयति करणानां ग्राहकत्वं प्रमोहः । रणरणकविवृद्धिं बिभ्रदावर्तमानं ज्वलति हृदयमन्तस्तन्मयत्वं च धत्ते ॥ ४४ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे प्रथमोऽङ्कः । मिति ॥ ४३ ॥ एवं स्वात्मनि विमृष्टमेवार्थं वयस्याय मकरन्दाय निवेदयन्नाह— प्रसरतीति । कोऽप्यनिर्व्वाच्यः केनाप्यविदितनिदानः परिमाथी परिमथनशीलः सद्य एव विपत्तिशङ्काकार्यं देहदाहो मदनज्वरः प्रसरति सर्वावयवव्याप्तो व- र्त्तते । ज्वराख्यस्य दशाविशेषस्य लक्षणमुक्तम् । प्रमोहः । 'सुखदुःखादिजनितो मोहश्चित्तस्य मूढता' इत्युक्तरूपः करणानामिन्द्रियाणां ग्राहकत्वं स्वस्वविषयग्र-

द्वितीयोऽङ्कः । (ततः प्रविशतश्चेट्यौ ।) एका—हँला, संगीतसालापरिसरे अवलोइआदुईआ भअवदी कामन्दई किं वि मन्तअन्ती आसी । द्वितीया—सहि, तेण किल माहवपिअवअस्सेण मअरन्देण सअलो मअणुज्जाणउत्तन्तो भअवदीए णिवेदिदो । तदो भट्टिदारिअं दट्टुकामाए पउत्तिनिमित्तं अवलोइदा अणुप्पेसिदा । मए वि ताए कहिदं जह लवङ्गिआदुईआ विवित्ते भट्टिदारिआ हवदित्ति । १. सखि, संगीतशालापरिसरेऽवलोकिताद्वितीया भगवती कामन्दकी किमपि मन्त्रयन्त्यासीत् । २. सखि, तेन किल माधवप्रियवयस्येन मकरन्देन सकलो मदनोद्यान- वृत्तान्तो भगवत्यै निवेदितः । ततो भर्तृदारिकां द्रष्टुकामाया प्रवृत्तिनिमित्त- मवलोकितानुप्रेषिता

द्वितीयोऽङ्कः । ४९ प्रथमा—सहि, लवङ्गिआ खु केसरकुसुमाई अवइणुम्मि त्ति गआ मअणुज्जाणं किं संपदं णिउत्ता । द्वितीया—अह इं । तं खु आपतन्तीं एव हत्थे घेत्तूण अप- रिअणा भट्टिदारिआ उपरिअलिन्दं समारूढा । प्रथमा—३णूणं तस्स महाणुहावस्स संकहाए अत्ताणं विणोदेइ । द्वितीया—(निःश्वस्य ।) ४कुँदो क्खु से आस्सासो । एदिणा अज्ज सविसेसदंसणेण अदिभूमिं क्खु ताए अहिणिवेसो गमिस्सदि । अण्णं अ । कले एव णन्दणस्स कारणादो महाराओ भट्टिदारिअं पत्थअन्तो अमच्चेण विण्णत्तो । प्रथमा—किं५ ति । १. सखि, लवङ्गिका खलु केसरकुसुमान्यवचिनोमीति गता मदनोद्यानं किं सांप्रतं नि

५० मालतीमाधवे द्वितीया—पेहवइ णिअस्स कण्णआजणस्स महाराओ त्ति । अदो आमरणं खु मालदीए हिअअसलं माहवाणुराओ त्ति तक्केमि । प्रथमा—अवि णाम भअवदी एत्थ किं वि भअवदित्तणं दंसइस्सदि । द्वितीया—अइ असंबद्धमणोरहे, एहि । (इति निष्क्रान्ते ।) प्रवेशकः । (ततः प्रविशत्युपविष्टा सोत्कण्ठा मालती लवङ्गिका च) १. प्रभवति निजस्य कन्याकाजनस्य महाराज इति । अत आमरणं खलु मालत्या हृदयशल्यं माधवानुराग इति तर्कयामि । २. अपि नाम भगवत्यत्र किमपि भगवतीत्वं दर्शयिष्यति । ३. अयि असंबद्धमनोरथे, एहि । कथयेति शेषः ॥ द्वितीया । प्रभवति निजस्य कन्याकाजनस्य महाराज इति । विज्ञप्त इति शेषः । अत आमरणं खलु तस्या मालत्या माधवानुरागः शल्यमनभि- लषितवरप्रदानशङ्काविषाक्तं मन्मथनाराचफलतुल्यमिति तर्कयामि ॥ प्रथमा । अपि नाम भगवती किमप्यत्र भगवतीत्वं दर्शयिष्यति । मालत्यामतिवत्सला काम- न्दकी तन्मनोरथसंपादने स्वकीयज्ञानवैराग्यैश्वर्यादिसंपत्तिरूपं माहात्म्यं प्रकट- यिष्यतीति संभाव्यत इत्यर्थः ॥ द्वितीया । अयि असंबद्धमनोरथे, एहि । प्रकृ- तकृत्यानुसरणायेति शेषः ॥ एवं मकरन्देन कामन्दक्यै माधवावस्थानिवेदनम्, लवङ्गिकाप्राप्तिम्, मालतीलवङ्गिकयोः प्रवेशम्, तदनन्तरं मालत्यवस्थापरिज्ञानार्थं कामन्दक्यागमनम्, तया च प्रसज्यमानं नन्दनवृत्तान्तं सूचयित्वा चेट्यौ निष्क्रान्ते प्रवेशकः ॥ तत इत्यादि । लवङ्गिकाद्वितीया विविक्ते वर्तत इति सूचितप्र- वेशे मालतीलवङ्गिके प्रविशत इत्यर्थः । नन्वत्र नायकप्रवेशाभावात्प्रत्यक्षनायक- चरितवर्णनाख्याङ्गलक्षणाभावात्कथमस्याङ्कत्वम् । नेतृग्रहणेन नायिकाया अप्येक- शेषेण ग्रहणाददोषः । किं चाङ्कद्वयस्याप्येकदिनव्यापारत्वात् , एकसंध्यात्मकत्वाच्च पूर्वाङ्कशेष एवायं पात्रप्रवेशनिर्गमसौकर्यार्थं नायकव्यापारानुसंधानं परिसमाप्य नायिकाव्यापारानुसंधानात्मकसौकर्यार्थं चाङ्कान्तरं कृतमिति मन्तव्यम् । कथमङ्क- द्वयस्यैकसंधित्वमिति चेदुच्यते—'अन्वितानां कथांशानां परमेते प्रयोजने । संबन्धः संधिरित्युक्तोऽवान्तरैकप्रयोजने ॥' इत्येवंरूपम् । तदत्र मालतीमाधव- योर्विवाहलक्षणपरमप्रयोजनसमन्वितानामवान्तरैकप्रयोजने तदन्योन्यानुरागस्य बीजस्य दृढीकरणलक्षणे प्रवृत्तानामद्यतनकामन्दक्यवलोकितादिप्रयत्नो मदनो-

द्वितीयोऽङ्कः । ५१ मालती—सँहि, तदो तदो । लवङ्गिका—तँदो तेण महाणुहावेण उवणीदा इमं वउल- माला (इत्यर्पयति ।) मालती—(मालां गृहीत्वा सहर्षं निर्वर्ण्य ।) सँहि, एक्कपासविसम- पडिबद्धा इअं विरअणा । लवङ्गिका—एँत्थ अरमणिज्जत्तणे तुमं एवं अवरद्धासि । मालती—कँहं विअ । लवङ्गिका—जेँण सो दुब्बासामलङ्गो तह विहत्थीकिदो । मालती—सँहे लवङ्गिए, सबहा आसासणसीलासि । लवङ्गिका—सँहि, एत्थ का आसासणसीलदा । णं भणामि । १. सखि ततस्ततः । २. ततस्तेन महानुभावेनोपनीतेयं बकुलमाला । ३. सखि, एकपार्श्वविषमप्रतिबद्धेयं विरचना । ४. अत्रारमणीयत्वे त्वमेवापराद्धासि । ५. कथमिव । ६. येन स दूर्वाश्यामलाङ्गस्तथा विहस्तीकृतः । ७. सखि लवङ्गिके, सर्वथाश्वासनशीलासि । ८. सखि, अत्र काश्वासनशीलता । ननु भणामि सोऽपि प्रिय- 'मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा' इत्युक्तलक्षणात् इत्यलं प्रपञ्चेन ॥ मा- लती । सखि, ततस्ततः । मदनोद्याने ऽविलम्बं माधवसमीपगमनं चतुरवचनै- र्बकुलदामप्रार्थनं चेत्येतावदुक्तवतीं लवङ्गिकां प्रत्युपरितनवृत्तान्तश्रवणकौतुको- त्कर्षात्ससंभ्रमप्रश्नः । आदरसूचनार्था वीप्सा । अनन्तरवृत्तान्तं कथयेति शेषः ॥ लवङ्गिका । ततस्तेन महानुभावेनोपनीतेयं बकुलमाला ॥ मालती । निर्वर्ण्य सादरं विलोक्य । सखि, एकपार्श्वविषमप्रतिबद्धेयं विरचना ॥ लवङ्गिका । अत्रारमणीयत्वे त्वमेवापराद्धासि । मालती । कथमिव । माधवकर्तृकायाः स्रग्वि- रचनाया एकपार्श्ववैषम्ये कथमहं निमित्तं भवामीत्यर्थः । लवङ्गिका । येन स दूर्वाश्यामलाङ्गस्तथा विहस्तीकृतः । वस्तुतो ग्रथनक्रियाया विकलहस्तः कृतः । त्वमेव स्वसौन्दर्यसंपदा गम्भीरमपि तन्मनः समाकर्षन्ती प्रस्तुतक्रियाविकलहस्तं कृतवती । तत इदं विरचनावैषम्यं जातमिति भावः ॥ मालती । सखि लव- ङ्गिके, सर्वथाश्वासनशीलासि । मत्समाश्रासनाय केवलमिदं त्वयोच्यते । तस्य मय्यनुरागोऽसंभावित इति भावः ॥ लवङ्गिका । सखि, कात्राश्वासनशी- ६ मालतीमा०

५२ मालतीमाधवे सो वि पिअसहीए मन्दमारुअप्पअलिअप्पफुल्लपुण्डरीअविब्भमेहिं प- ढमारद्धवडलावलीविरअणावदेससंअमणबलामोडिअवित्थिरन्तेहिं लो- अणेहिं विअम्भमाणविम्हअत्थिमिददीहपेरन्तपरिअन्तणाविलासुल्लसि- अभूलदाविभाविदणङ्गसरसंरम्भविव्भमविअद्धं ओलोअन्तो पच्च- क्खीकिदो एव्व । मालती—(लवङ्गिकां परिष्वज्य १) आम पिअसहि, किं दाव तस्स साहाविआ एव्व ते मुहुत्तसंणिहाइणो जणस्स विप्पलम्भइ- त्ता विलासा, आदु पिअसही जहा संभावेदि । सख्या मन्दमारुतप्रचलितप्रफुल्लपुण्डरीकविभ्रमाभ्यां प्रथमारब्धबकुलावलीवि- रचनापदेशसंयमनबलात्कारविस्तृताभ्यां लोचनाभ्यां विजृम्भमाणविस्मयस्ति- मितदीर्घपर्यन्तपरियन्त्र

द्वितीयेाऽङ्कः । ५३ लवङ्गिका—(विहस्य सासूयमिव ।) तुमं वि सहावेण एव्व तस्सिं अवसरे असंगीदं णत्तिदासि । मालती—(सलज्जं विहस्य ।) हूँ, तदो तदो । लवङ्गिका—तदो पडिणिउत्तमाणजत्ताजणसंकुलेण अन्तरिदे तस्सिं मन्दारिआघरं उवगदह्नि । ताए चित्तफलं पहादे हत्थी- किदं आसी । मालती—किंणिमित्तं । लवङ्गिका—तं क्खु माहवाणुअरो कलहंसओ कामेदि । सा तस्स दंसइस्सिदित्ति । तदो पिअणिवेदिआ मन्दारिआ संवृत्ता । मालती—(स्वगतम् । सानन्दम् ।) णू्र्णं देण वि कलहंसएण १. त्वमपि स्वभावेनैव तस्मिन्नवसरेऽसंगीतकं नर्तितासि । २. हुं, ततस्ततः । ३. ततः प्रतिनिवर्तमानयात्राजनसंकुलेनान्तरिते तस्मिन्मन्दारिकागृह- मुपगतास्मि । तस्याश्चित्रफलं प्रभाते हस्तीकृतमासीत् । ४. किंनिमित्तम् । ५. तां खलु माधवानुचरः कलहंसकः कामयते । सा तस्य दर्शयिष्य- तीति । ततः प्रियनिवेदिका मन्दारिका संवृत्ता । ६. नूनं तेनापि कलहंसकेनैतत्प्रतिच्छन्दकमात्मनः प्रभोर्दर्शितं भवि- ष्यति । सखि, किमिदानीं ते प्रियम् । लवङ्गिका । निश्चित्यापि भावगुप्तये केवलमियं संदिग्ध इति विहस्य निश्चितेऽप्यर्थे ममापि किमाच्छाद्यत इति सासूयम् । आहेति शेषः । सावज्ञमित्यव्ययं प्रणयक्रोधे । त्वमपि स्वभावेनैव तस्मिन्नवसरेऽसंगीतकं स्त्रीगानशून्यम् । 'स्त्रीणां रहोप्रविष्टानां गानं संगीतकं मतम्' इति वचनात् । नर्तितासि । यदि तस्य सहजविलासैस्त्वं वञ्चितासि तर्हि त्वदीया अपि विलासाः स्वाभाविकास्तदुद्दीपिका एव । न त्वनुराग- प्रभवा इति । प्रतिवन्दितः प्रकृतार्थनिर्धारणमेतत् ॥ मालती । इतःपरं गो- पनाशक्तेः सलज्जम् । हुमिति प्रश्ने । ततस्ततः वक्तव्यशेषं ब्रूहीत्यर्थः । लव- ङ्गिका । ततः प्रतिनिवर्तमानयात्राजनसंकुलेनान्तरिते तस्मिन्माधवे मन्दारि- कागृहमुपगतास्मि । तस्याश्चित्रफलं प्रभाते हस्तीकृतं न्यासीकृतमासीत् ॥ मालती । किंनिमित्तम् ॥ लवङ्गिका । तां खलु माधवानुचरः कलहंसकः कामयते । सा तस्य दर्शयिष्यतीति हेतोस्तस्या हस्ते दत्तमासीदित्यर्थः । ततो मन्दारिका प्रियनिवेदिका संवृत्ता ॥ मालती । स्वगतम् । नूनं तेनापि कलहंस-

५४ मालतीमाधवे एदं पडिच्छन्दं अत्तणो पहुणो दंसिदं भविस्सदि । (प्रकाशम् ।) सहि, किं दाणीं दे पिअं । लवङ्गिका—ऐदं क्खु संदाविदस्स तुह संदावआरिणो दुल्ल- हमणोरहावेसदूसहाआसदज्जन्तचित्तस्स खणमेत्तणिवावइत्तं तुह पडिच्छन्दं । (इति चित्रं दर्शयति ।) मालती—(सहर्षोच्छ्वासं चिरं निर्वर्ण्य ।) अह्मो, दाणीं वि हिअ- अस्स मे अणासासो । जेण एदं वि आसासणं विप्पलम्भोत्ति संभावीअदि कहं अक्खराईं पि । ('जगति जयिनः' इत्यादि पठति । सानन्दम् ।) महाभाअ, सरिसं क्खु दे णिम्माणस्स वअणमहुरदाए । दंसणं उण तक्कालमणोहारि परिणामदीहसंदावदारुणं अ । घण्णाओ १. एतत्खलु संतापितस्य तव संतापकारिणो दुर्लभमनोरथावेशदुःसहा- यासदह्यमानचित्तस्य क्षणमात्रनिर्वापयितृकं तव प्रतिच्छन्दकम् । २. अहो, इदानीमपि हृदयस्य मेऽनाश्वासः । येनेदमप्याश्वासनं विप्रलम्भ इति संभाव्यते कथमक्षराण्यपि । महाभाग, सदृशं खलु ते निर्माणस्य वच- नमधुरतया । दर्शनं पुनस्तत्कालमनोहरं परिणामदीर्घसंतापदारुणं च । धन्याः केनैतत्प्रतिच्छन्दकमात्मनः प्रभोर्दर्शितं भविष्यतीति । कथमन्धथा मन्दारिका- प्रियनिवेदिका स्यादिति भावः । प्रकाशम् । सखि, किमिदानीं ते प्रियम् । यन्म- न्दारिकाया निवेदितमित्यर्थः । लवङ्गिका । एतत्खलु संतापितस्य त्वदप्राप्त्या संतप्यमानस्य तव संतापकारिणो दुर्लभे लभ्यैव विषये यो मनोरथावेशस्तेन यो दुःसहायासस्तेन दह्यमानस्य चित्तस्य क्षणमात्रनिर्वापयितृकं तव प्रतिच्छ- न्दकम् । ममेदानीं प्रियमिति शेषः । त्वया यथा तद्दर्शनमन्तरेण जीवितुमपारयन्त्या चित्रदर्शनेनापि प्राणान्धारयितुं प्रतिच्छन्दकं लिखितं तेनाप्येवमेव त्वत्प्रतिकृति- र्लिखितेत्येतदेव मे प्रियम् । अन्योन्यानुरागप्रकर्षस्य प्राप्तिबीजस्य निश्चयादिति भावः । मालती । सहर्षोच्छ्वासम् । समाश्वासः प्रियस्य त्वत्सामत्यन्तानुराग- निश्चयहेतोः । तल्लिखितात्मप्रतरूपस्य दर्शनात् । हर्षाश्वासौ 'मनःप्रसादो हर्षः स्यादिष्टप्राप्तिस्तवादिनिः' इति लक्षणात् । क्वचित् 'सहर्षसाध्वसम्' इति पाठः । तत्र कुमारीजनानुचितपरपुरुषानुरागप्रत्यायकमेतत्कस्य वा बन्धुजनस्य दृष्टिपथं गच्छेदिति साध्वसहेतुः । अहो इदानीमपि हृदयस्य मेऽनाश्वासः । येनेदमप्याश्वा- सनं विप्रलम्भ इति संभाव्यते । कथमक्षराण्यपि । दृश्यन्त इति शेषः । जगतीति विवृतं प्राक् । सानन्दमिति । श्लोकार्थानुसंधानमानन्दहेतुः । महाभाग, सदृशं खलु निर्माणस्य वचनमधुरतया । निर्माणे वचने च तुल्यैव मधुरतेत्यर्थः । दर्शनं पु-

सहत्वाद्सद्यो" -> wait, is it "अतिदुःसहत्वाद्सद्यो" or "अतिदुःसहत्वात्सद्यो"? Look at the letter: 'त्' + 'स' = 'त्स' (त्सद्यो): "अतिदुःसहत्वात्सद्यो"! Wait, look at 'त्सद्यो': 'त्' on top, 'स' below? Or 'द्' + 'स'? Sanskrit sandhi: -tvāt + sadyo = -tvātsadyo. Looking at the image: 'त्वा' then 'त्सद्यो' (half ta attached to sa). Yes, "अतिदुःसहत्वात्सद्यो विपत्तिशङ्कया".

Line 34: "सास्रत्वम्। संस्कृतमाश्रित्येति। यदाहुः—‘वेश्यानामप्सरसामन्तःपुरिकासु" Wait, is there a quote mark or dash? "यदाहुः—‘वेश्यानामप्सरसामन्तःपुरिकासु" Look closely: "यदाहुः—‘वेश्यानामप्सरसामन्तःपुरिकासु" Yes, a dash and single open quote: "यदाहुः—‘वेश्यानामप्सरसामन्तःपुरिकासु".

Let's do a final check of line numbers and content. Total lines: L1: द्वितीयोऽङ्कः। ५५ L2: क्खु

५६ मालतीमाधवे मनोरोगस्तीव्रो विषमिव विसर्पन्नविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥ १ ॥ लवङ्गिका—ऐव्वं एदं । पच्चक्खसोक्खदाइणो परोक्खदुक्ख- दूसहा सज्जणसमाअमा होन्ति । अवि अ पिअसहि, जस्स वादा- अणन्तरमुहुत्तदंसणेण वि सुसमिद्धहुदवहाअन्तपुण्णचन्दोदया णिक्- करुणाम्वावारसंसइदजीविदा दे सरीरावत्था, तस्स एव्व संपदं सविसेसदंसणादो अज्ज संतप्पसि त्ति किं एत्थ भणिदव्वम् । ता १. एवमेतत् । प्रत्यक्षसौख्यदायिनः परोक्षदुःखदुःसहाः सज्जनस- मागमा भवन्ति । अपि च प्रियसखि, यस्य वातायानन्तरमुहूर्तदर्शनेनापि सुसमिद्धहुतवहायमानपूर्णचन्द्रोदया निष्करुणकामव्यापारसंशयितजीविता ते शरीरावस्था, तस्यैव सांप्रतं सविशेषदर्शनादद्य संतप्यस इति किमत्र भणि- चान्यमहिषीणाम् । संस्कृतमपि योग्यं स्यात्प्रस्तावेनागतं किंचित् ॥' इति ॥ माल- त्याश्चान्तःपुरिकात्वान्तःपातः । अत एव भर्तृदारिकाव्यवहारोऽपि । मनोरोग इति । विषमिवाविरतमनवरतं विसर्पन्सर्वधातुषु व्याप्नुवन् । प्रमाथी तीव्रः सद्यो विपत्तिकृत् । अयं मान्मथो मनोरोगो मन्मथव्यथालक्षणो व्याधिः । निर्धूमं धू- मरहितं यथा विधुतः संधुक्षितः पावक इव ज्वलति । तथा गरीयान्संनिपातिको ज्वर इव प्रत्यङ्गं सर्वेष्वप्यवयवेष्वित इतोऽन्तर्बहिश्च हिनस्ति पीडयति । ततो मां दुस्तरादसाध्यसन्त्रातुं तातोऽपत्यस्नेहपरवशोऽपि तावन्नरपतिमनोरञ्जनप्रवण- त्वात्र प्रभवति । पुमपत्येष्वाधिकत्वाद्रात्सल्यस्य पितुः कन्यकाजने माता निरति- शयप्रेमनिग्नहृदया यद्यपि भवति तथाप्यम्बा भर्तृपराधीना न मां रक्षितुं समर्था । जनन्यपेक्षयापि सहपांसुक्रीडनादिभिः समदुःखसुखाः स्वमनोनिर्विशेषाः सख्य- स्थापि भवती मद्विषयेऽस्वतन्त्रत्वात्र रक्षणक्षमा । किं तु यदि रक्षणे समर्थः स्यात्स एवैकोऽमृतसंजीवनौषधिरिव माधवः । स च मम दुर्लभ एवेति मरणमे- वेदानीं शरणम्, नान्यत्किंचिदित्यर्थः । विषज्वलनज्वराख्योपमानत्रयोपादानं नैके- नायमुपमातुं शक्यत इत्यतिशयसूचनार्थम् । संज्वरोन्मादौ चानेनोक्तौ । तल्लक्षणं प्रागेवोक्तम् ॥ १ ॥ लवङ्गिका । एवमेतत् । प्रत्यक्षसौख्यदायिनः परोक्षदुःख- दुःसहाः सज्जनसमागमा भवन्ति । नेदमाश्चर्यं यदत्र संतापः । कुत इत्यत्र हेतु- माह—अपि चेति । प्रियसखीति । यस्य वातायानन्तरमुहूर्तदर्शनेनापि सुसमिद्धहुतवहायमानपूर्णचन्द्रोदया निष्करुणकामव्यापारसंशयितजीविता ते श- रीरावस्था । भवतीति शेषः । तस्यैव सांप्रतं सविशेषदर्शनेनाद्य संतप्यस इति किमत्र भणितव्यम् । तदत्र प्रियसखि, श्लाघनीयं दुर्लभविषये यो मनोरथस्तस्य

द्वितीयोऽङ्कः । ५७

एत्थ पिअसहि, सलाहणिज्जं दुल्हहमणोरहफलं जीअलोअस्स जं गुरु- आणुराअसरिसो महाभाअवल्लहसमाअमो त्ति एत्तिअं जाणीमो ।

मालती—सहि, दइदमालदीजीविदे साहसोव्वणासिणि, अवे- हि । (सास्रम् ।) अहवा । अहं एव्व वारंवारं विलोअअन्ती पलाअंतपडि- ट्ठाविदधीरत्तणावट्ठम्भेण अत्तणो हिअएण दूरं विलीअन्तलज्जत्तेण दु- व्विणअलहुआ एत्थ अवरद्धम्मि । तहावि पिअसहि । (संस्कृतमाश्रित्य ।)

तव्यम् । तदत्र प्रियसखि, श्लाघनीयं दुर्लभमनोरथफलं जीवलोकस्य यद्गुरु- कानुरागसदृशो महाभागवल्लभसमागम इत्येतावज्जानीमः ।

१. सखि, दयितमालतीजीविते, साहसोपन्यासिनि, अपेहि । अथवा । अहमेव वारंवारं विलोकयन्ती पलायमानप्रतिष्ठापितधीरत्वावष्टम्भेनात्मनो हृद- येन दूरं विलीयमानलज्जात्वेन दुर्विनयलघ्व्यत्रापराध्यामि । तथापि प्रियसखि ।

फलं तत्सिद्धिरूपं जीवलोकस्य प्राणिवर्गस्यैतदेव यद्गुरुकानुरागस्य गरीयसः पर- स्परप्रेमबन्धनस्य सदृशोऽनुरूपो महाभागवल्लभसमागम इत्येतावज्जानीमो वयम् । शरीरवियोगानन्तरं कस्य किं वा फलमिति केवलं शिवो वेद । जीवतां पुनः स्व- जन्मसाफल्यमभिलषतां प्राग्भवीयसुचरितातिरेकात्तुल्यानुरागो महाभागश्च प्रण- यिजनो यदि लभ्यते, तर्हि यथाकथंचिदपि तत्समागम एव श्लाघ्यं मनोरथफल- मित्येष सकलजनसंमतो राद्धान्त इत्यर्थः ॥ मालती । सखि, दयितमालती- जीविते साहसोपन्यासिनि, अपेहि । तव तावन्मदीयं जीवितमेव दयितं प्रियतमम् । तेन मज्जीवलोभेन कन्यकाजनविरुद्धमत्यन्तगुरुबन्धुवर्गानङ्गीकृताशयं कुलकलङ्कं स्वयमेव स्वप्रदानसाहसं उपन्यस्यसि । नैवमुपदेष्टव्यम् । ततः साहसोपदे- शादपसरेति निषेधो वाच्यः । तवैव मे जीवितं दयितम् , न तु गुरूणामन्येषाम् । तस्मात्तवैव प्राणसख्या मम मनो यथा शङ्काशूकविहीनं भवति तथोपदेष्टव्यमिति विधिर्व्यङ्ग्यः । सास्रमिति । स्नेहात्केवलं त्वया यद्यपि साहसोपदेशः क्रियते तथाप्युपदेशमात्रेण न तत्फलिष्यति । केवलं गुरुजनाज्ञातिक्रमणसाहसाध्यवसायः कृतो भवेत् । ततो ममाविनयस्य फलं मयैवानुभोक्तव्यम् । किमत्र त्वया कर्त- व्यमिति रुदन्त्याहेत्यर्थः । अथवा । अहमेव वारंवारं बहुकृत्वो विलोकयन्ती । तमि- त्यध्याहारः । पलायमानं सत्प्रतिष्ठापितं पुनर्निंरुध्य स्थापितं यद्धीरत्वं तस्यावष्टम्भो- ऽवलम्बनं यस्य तादृशेनात्मनो हृदयेन दूरं विलीयमानलज्जात्वेन दुर्विनयलघ्व्य- त्रापराध्यामि । कुलकुमारीजनमर्यादामतिलङ्घ्य बहुशस्तमवलोकय

५८ मालतीमाधवे ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यतः । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥ २ ॥ लवङ्गिका—(स्वगतम् ।) ऐत्थ दाणीं को उवाओ । (नेपथ्यार्धप्रविष्टा ।) प्रतिहारी—ऐसा भअवदी कामन्दई । उभे—किं³ भअवई । प्रतिहारी—भट्टिदारिअं दट्ठुआमा आददा । उभे—तैदो किं विलम्बीअदि । १. अत्रेदानीं क उपायः । २. एषा भगवती कामन्दकी । ३. किं भगवती । ४. भर्तृदारिकां द्रष्टुकामागता । ५. ततः किं विलम्ब्यते । सखि । ज्वलत्वित्यादि । रात्रौ रात्रौ सर्वासु शुक्लकृष्णपक्षरात्रिषु मद्वैरात्प- रित्यक्तस्वीयकालनियमोऽत एव सर्वदाखण्डकलो विरहिजनजीवितेन्धननिचय- जाज्वल्यमानसंपूर्णकलाच्छलज्वालाजालजटिलः शशी विप्रयुक्ताबलाजनवधपात- केनैव शशाख्येन धूमेनाङ्कितो विपरीतलक्षणया शिशिरकरादिव्यपदेश्यो दहनो ज्वलतु । यथेच्छं मामेवेन्धनं दहतु । तमेव दहनमादाय मदन एव दहतु । उभौ चैतौ मृत्योः परेण मरणादधिकं किं वा विधास्यतः करिष्यतः । स च मृत्युर्मयै- वाङ्गीकृत इत्यङ्गीकृता ग्लानिर्दोषायेति भावः । मम पुनः श्लाघ्यो निखिलजन- श्लाघनीयगुणस्तातो दयितः । निर्मलकुलप्रसूता जननी दयिता । अमलनिमियन्तं कालं कलङ्कलेशेनापि विवर्जितं कुलं दयितम् । न पुनरयं हृदयवर्तिजीवितादपि स्पृहणीयत्वात्ततोऽपि प्रथमपरिगणनीयो माधवाख्यो जनो दयितः । तथा तं विना वराकप्रायं तत्परित्यागसाहसव्यवसायेऽप्यविलीयमानतयातिकृतघ्नम् । अत एव पश्चादुपात्तं जीवितमपि न दयितमिति वाच्योऽर्थः । भावस्तु बहुधा परि- स्फुरन्नपि विस्तरभयान्न लिखितः सहृदयैरूहनीयः ॥ २ ॥ लवङ्गिका । स्व- गतम् । अत्रेदानीं क उपायः । मया सूचितं साहसोपदेशं न गृहीतवती, संनि- हिता चान्तिमा दशा। किमत्र विधेयमित्यर्थः ॥ अत्रेदानीं क उपाय इति विचार- यन्त्या लवङ्गिकाया उपश्रुतिव्याजेनोपायमिवोपदिशन्ती नेपथ्यार्धप्रविष्टा प्रतिहारी वदति—एषा भगवती कामन्दकीति ॥ अत्रेदानीं क उपाय इति संबन्धप्रतीत्या-