भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

प्रमाणस्वरूपम् २७ ६ नैयायिकानां सिद्धान्ते प्रमाणमपि चेश्वरः । तत्साधनादाश्रयाच्चाप्यतिरिक्तत्वमिश्रितम् ॥ प्रमाव्याप्तं प्रमाणं स्यात् साधनं त्विन्द्रियादिकम् आश्रयस्त्वात्मवस्तु स्यात् तयोः प्रामाण्यनिर्णयः। मितिस्सम्यक्परिच्छित्तिः तद्वत्ता च प्रमातृता । तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ॥ ७ अथ शाबरसिद्धान्ते प्रमाणमिदमुच्यते । या बुद्धिर्जायते पुंसः प्रमाणं सैव कथ्यते ॥ बुद्धिर्जन्मनि पुंसश्च विकृतिर्यद्यनित्यता । अथाविकृतिरात्माऽयं प्रमातेति न युज्यते ॥ इति शाक्यविकल्पस्य भङ्गार्थमिदमुच्यते । पुमान् विक्रियते चैवेतीष्यते बुद्धिजन्मना ॥ न तद्विकारमात्रेण वस्तुनो नाशसंभवः । कुण्डलादिविकारेऽपि सुवर्णादिपदार्थवत् ॥ उपादानदशाभेदः वस्तुनो जननक्रिया । यस्य चानन्तरं सत्ता कार्यस्येत्यवगम्यते ॥ कारणे समवायस्तु कार्यस्यौलूक्यसम्मतः । स नित्योऽतीन्द्रियश्चाक्षानधीन इति दूषणम् ॥ व्यापारः कारकाणां हि दृष्टो जन्मातिरेकतः । प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते ॥

280 मानमेयरहस्यश्लोकवार्तिके बुद्धेर्जन्मैव विषये व्यापार इति कीर्त्यते । तदेवच प्रमारूपं तद्वती करणं च धीः ॥ ततश्च जायमाना सा प्रमाणं बुद्धिरिष्यते । अतश्च बुद्धिर्जन्मेति सूत्रयामास जैमिनिः ॥ ४ सिद्धान्तस्यास्य विवृतिः कुमारिलमता यथा । ज्ञानं नाम क्रिया काचित्पुंसो व्यापारलक्षणा ॥ चितिशक्तेः कार्यभूता विकारः सूक्ष्म इष्यते । फलानुमेया तस्याश्च फलं स्यादर्थदृष्टता ॥ तामावरणभङ्गोक्त्योपचरन्ति बुधाः परे । धात्वर्थफलशालित्वं कर्मत्वमिति शिक्षिताः ॥ कारकाणां मिथो योगः स्यात्क्रियागर्भ एवहि । स्थाल्यादीनि हि सिद्धानि साध्यं धात्वर्थलक्षणम् ॥ पाकमेकं पुरस्कृत्य संसृज्यन्ते यथा मिथः । आत्मेन्द्रियमनोवस्तुसन्निकर्षादयस्तथा ॥ कुर्वन्ति कंचिद्व्यापारं सुसूक्ष्मं ज्ञानलक्षणम् । इति कौमारिलमते ज्ञानतत्त्वं सुनिश्चितम् ॥ शब्दाधिकरणे चैतच्छ्रूयते श्लोकवार्तिकम् । बुद्धीनामपि चैतन्यस्वाभाव्यात्पुरुषस्य नः ॥ नित्यत्वमेकता चेष्टा भेदस्तु विषयाश्रयः । व्याख्यात्रा विषयार्थोऽत्र सूक्ष्मः व्यापार ईरितः ॥

प्रमाणवादः 281 9 प्राभाकरमते चापि क्रियैव ज्ञानलक्षणा । तस्याः विषयसंवित्तिः फलमभ्युपगम्यते ॥ संवित्तौ फलरूपायां प्रकाशात्मस्वभावतः । स्वरूपं भासते ग्राह्यरूपत्वेन घटादिकम् ॥ आत्मा तु ग्राहकत्वेन घटं जानाम्यहं त्विति । आकारस्संविदो ज्ञेय एष तन्मतसंग्रहः ॥ 10 अथ सांख्यादिसिद्धान्ते प्रमाणपरिशोधनम् । अर्थोपलब्धिकरणं प्रमाणमिति तन्मतम् ॥ लक्षणं तद्विवरणं किंचिदत्र प्रदर्श्यते । विषयाकारिणी बुद्धिवृत्तिर्ज्ञानमितीर्यते ॥ बुद्धेस्सत्त्वसमुद्रेकोऽध्यवसायस्तु स स्मृतः । इदं तावत्प्रमाणं स्यात् प्रबोधोऽनुग्रहः फलम् ॥ अनुग्रहश्च चिच्छक्तेः छायाऽऽपत्त्याऽर्थयोगिता । अतः पदार्था भिद्यन्ते बुद्धिज्ञानोपलब्धयः ॥ 11 एतन्मतनिराकृत्यै गौतमेन हि सूत्रितम् । बुद्ध्यादित्रितयं चैतदनर्थान्तरमित्यपि ॥ अन्तःकरणवृत्तीनां बहिःकरणवृत्तिवत् । न ज्ञानताऽन्यथा भूतचैतन्यं स्यादुरुद्धरम् ॥ आत्मनो हि गुणः ज्ञानं न क्रियेति हि तन्मतम् । आगमश्चाप्यपायश्च स्यातां तस्य निरन्वयौ ॥ M.R. 36

282 मानमेयरहस्यश्लोकवार्तिके 12 वैशेषिकमतेऽप्येवमथौपनिषदे मते । निर्विशेषविदः प्राहुः सच्चिदानन्दलक्षणा ॥ अनुभूतिः स्वप्रकाशा ब्रह्मात्मा ज्ञानमुच्यते । संविदेषा प्रकाशैकस्वरूपा सिद्धयति स्वतः ॥ प्रकाशरूपस्सविता स्वप्रकाशो यथोच्यते । निवृत्तगतिरप्यद्रिस्तिष्ठतीति यथोच्यते ॥ तथा स्वयंप्रकाशाऽसावित्युक्तिस्त्वौपचारिकी । प्रायेणापोहवादेन साध्यते निर्विशेषता ॥ परागर्थप्रमेयेषु या फलत्वेन सम्मता । संवित्सैव हि सिद्धान्तः वेदान्तोक्तिप्रमाणतः ॥ इति वार्तिककारोक्तिस्सिद्धिद्वय उदाहृता । वृत्तिज्ञानं तु सांख्यादिसिद्धान्तवदपीष्यते ॥ स्वरूपभिन्नं ज्ञानाख्यं द्रव्यमात्माश्रितं सदा । प्रभावतः प्रभेवेति विशिष्टाद्वैतिनो विदुः ॥ धर्मभूतं च तत् ज्ञानं परिणामीत्युपेयते । यथा सांख्यमते चित्तं, तत्सर्वं धर्मधीर्मता ॥ द्वैतिभिस्तु स्वरूपस्य साक्षित्वात् ज्ञानतेष्यते । प्रसाददैन्यप्रमुखावस्था अप्यात्मनो मताः ॥ तथाऽपि तन्नित्यतायाः विरोधो नैव कश्चन । यथाऽऽत्मा शाबरो नित्यः प्रायस्सर्वैस्तथेष्यते ॥

प्रमाणविभागः 283 तथैव वृत्तिधीवादः सांख्यानामिव सम्मतः । सांख्यशाबरसिद्धान्तसमवाय इति स्थितम् ॥ यथार्थत्वं प्रमाणस्य लक्षणं परिकीर्तितम् । असतोऽपि भ्रमे भानोपगमान्न यथार्थता ॥ (57) प्रमाणविभागः. 1 प्रत्यक्षमेकं चार्वाकाः प्रमाणं प्रतिपेदिरे । अतीन्द्रियपदार्था ये न विद्यन्ते हि तन्मते ॥ तेष्वेवैकेऽनुमानस्याप्यत्रान्तर्भाववादिनः । अनुमानप्रमाणोदेरप्रामाण्यं परे विदुः ॥ प्रत्यक्षमनुमानं च काणादास्सौगता अपि । आगमः पौरुषेयत्वान्न ताभ्यामतिरिच्यते ॥ तत्र पूर्वेऽनुमाने हि शब्दान्तर्भावमूचिरे । अप्रामाण्यं परे केचिदन्तर्भावं तु केचन ॥ ते चागमं च सांख्याद्या अपि भूषणयायिनः । पूर्वेऽनादिं वेदमाहुः परे त्वीश्वरनिर्मितम् ॥ तानि स्मृतिं च काणादाः केचित् केचिच्च वैदिकाः सोपमानानि तान्याहुः स्मृतिहीनानि गौतमाः ॥ आगमः पौरुषेयोऽपि स्वतन्त्रः समयान्मतः । संकेतग्राहकत्वेनोपमानमपि तन्मतम् ॥

284 मानमेयरहस्यश्लोकवार्तिके

तानि सार्थापत्तकानि प्राहुः प्राभाकराः पुनः । अर्थापत्त्याऽतीन्द्रियार्थास्सिद्धयन्तीति हि तन्मतम् सादृश्यस्यातिरिक्तत्वादुपमानं पृथङ्कृतम् । अभावानभ्युपगमात् षष्ठं मानं न चाहतम् ॥ तान्येवाभावषष्ठानि विदुः कौमारिलाः पुनः । मेयानुसारान्मानस्य भिन्नता तैर्विचिन्तिता ॥ संभवैतिह्ययुक्तानि तानि पौराणिका विदुः । ऐतिह्येन ह्यनेकेऽर्थाः पौराणिकमते मताः ॥ लिपिः लोकप्रसिद्धिश्च चेष्टा प्रातिभमेवच । अन्यैश्चान्यैः स्वतन्त्रैर्हि मानान्तरमितीष्यते ॥ स्वयंसिद्धं च दिव्यं च प्रत्यक्षमनुमाऽऽगमः । इति पञ्चविधं केचित्प्रमाणं प्रविविश्चते ॥ स्पष्टास्पष्टविभेदेन प्रमाणद्वयवादिनः । जैनास्त एव प्रत्यक्षपरोक्षद्वयवादिनः ॥ स्मरणप्रत्यभिज्ञानुमानतर्कागमैः परम् । पञ्चप्रकारमित्याहुः पूर्वं त्विन्द्रियभेदतः ॥ प्रत्यक्षं च परोक्षं चापरोक्षमिति भेदतः । आत्माऽपरोक्षसंसिद्ध इत्यौपनिषदा विदुः ॥ केवलं चानुप्रमाणं चेति द्वेधा विभज्यते । प्रमाणमिति सिद्धान्तः जयतीर्थबुधैरितः ॥

प्रमाणप्रक्रियेदानीमियमेषोपलभ्यते । पूर्वापरे ह्यनन्तेऽस्मिन् काले कोऽङ्गीकरोति किम्। निराकरोति वा कः किं देवो जानाति सर्ववित् । 2 विभागान्तरसारांशः प्राज्ञैस्त्वित्थं विशोधितः ॥ बहुष्वेकैकमुद्धृत्य तदन्येष्वैकराश्यतः । द्वैधक्लृप्तौ घटादावप्येवमेव प्रसज्यते ॥ अनुमाऽनुमानत्वशब्दाशब्दविभागतः । प्रत्यक्षत्वापरोक्षत्ववादिनां किं न रोचते ॥ स्पष्टमस्पष्टमिति च जैना यद्वैधमूचिरे । तत्प्रत्यक्षपरोक्षत्वविभागान्न विशिष्यते ॥ अतो न तावति द्वैधे विवादोऽस्ति हि साधिते । परोक्षस्यैकमानत्वं दुर्वचं भेददर्शनात् ॥ 3 नन्वध्यक्षेऽपि भेदोऽस्ति बाह्यान्तरविभागतः । दिव्यादिव्यतया चक्षुःश्रोत्रादिभिदयाऽपि च ॥ अत्रेन्द्रियानपेक्षं यत् ज्ञानमर्थावभासकम् । दिव्यं प्रमाणमित्येतत् प्रमाणज्ञाः प्रचक्षते ॥ परमेश्वरविज्ञानं मुक्तानां च धियस्तथा । सञ्जयार्जुनवाल्मीकिप्रभृत्यार्षधियोऽपि तत् ॥ तद्वत्परोक्षस्यैकस्य प्रमाणस्य विभागतः । अनुमानागमाद्याख्याः न भवेयुः कुतो भिदाः ॥

286 मानमेयरहस्यश्लोकवार्त्तिके

अत्रोच्यते श्रुतं दृष्टमेतज्ज्ञानुमितं त्विति । लोकोक्त्या चोपलम्भेन त्रित्वादि प्रतिपेदिरे ॥ अतस्स्मृत्यनुभूत्याख्याविभागादपि नोचिता । प्रमाणद्वित्वमित्युक्तिः भूयसां दृष्टिरिष्यते ॥ 4 प्रामाण्यमविसंवाद इति सौगतपद्धतिः । प्रमेयाव्यभिचारित्वं प्रामाण्यमिति चार्हताः ॥ प्रामाण्यमर्थताथार्थ्यं विपरीतं विपर्ययः । तदर्थस्थमपि ज्ञानसंबद्धमिति वैदिकाः ॥ अर्थनिश्चायकत्वं स्यात्प्रामाण्यमिति तार्किकाः । यथार्थविषयत्वं तत्स्यादित्यन्ये विदुर्बुधाः ॥ तद्वद्विशेष्यकत्वेनावच्छिन्ना तत्प्रकारिता । इति नव्यविनिष्कर्षः विशेष्यांशः स्वतः मतः ॥ प्रामाण्यमर्थजन्यत्वमप्रामाण्यमनर्थजम् । इत्यपि व्यवहारोऽस्ति जयन्तादिमनीषिणाम् ॥ अर्थक्रियाकारिता तन्मतमित्यपरे विदुः । प्रवृत्तेर्वा निवृत्तेर्वा स्यात्प्रयोजकता तु तत् ॥ इत्याहुरपरे प्राज्ञाः ते चाधिगतिवादिनः । सर्वप्रमाणप्रामाण्यमेतादृगिति केचन ॥ शब्दप्रमाणप्रामाण्यमेतादृक्षमितीतरे । एवं विकल्पबीजं तु पुरस्तादवधार्यते ॥

(58) स्वतस्त्ववादिविचारः 1 प्रमाणत्वाप्रमाणत्वे स्वतः सांख्यास्समाश्रिताः । नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥ प्रथमं परतः प्राहुर्वेदवादरताः पुनः । प्रामाण्यं स्वत एवाहुः परतश्चाप्रमाणताम् ॥ सामान्येन विभागोऽयं क्रमेणाथोपपादनम् । द्वयोस्स्वतस्त्वं वक्तॄणां सांख्यानामाशयस्त्वयम् ॥ सर्वं सवृत्तिकं चित्तं विदितं साक्षिणा सदा । गृहीते एव ते स्यातामेकत्वाद्धर्मधर्मिणोः ॥ अप्रामाण्ये गृहीतेऽपि प्रवृत्तिर्योपलभ्यते । मुग्धप्रवृत्तिवत्तत्र सैषा स्याद्वासनावशात् ॥ स्वतोऽसतामसाध्यत्वात् तत्स्वाभाविकमुच्यते । ज्ञप्त्युत्पत्त्यविवेकोऽपि सिद्धान्तस्यास्य साधनम् ॥ कार्यकारणभावस्य मीमांसायामयं स्फुटः । अथ सौगतसिद्धान्तसारांशोऽत्रोपपाद्यते ॥ 2 अप्रामाण्यमवस्तुत्वान्न स्यात्कारणदोषतः । वस्तुत्वात्तु गुणैस्तेषां प्रामाण्यमुपजायते ॥ इत्युत्पत्तौ प्रसिद्धं हि परतस्त्वं विपश्चिताम् । अथ ज्ञप्तौ सत्त्वमर्थक्रियाकारित्वलक्षणम् ॥ व्याप्तं हि सत्त्वं भावानां क्रमतो यौगपद्यतः । नित्येषु तु पदार्थेषु व्यापकानुपलम्भनात् ॥

288 मानमेयरहस्यश्लोकवार्तिके तद्व्याप्तमपि सत्त्वं हि बलात्तेभ्यो निवर्तते । क्षणिकत्वेन तान् भावान् सत्त्वं समवलम्बते ॥ ज्ञानोत्पत्त्यैव तद्धेतोरसामर्थ्यमपोद्यते । असमर्थात्समुत्पादो दृश्यते न हि कस्यचित् ॥ समर्थकारणज्ञानादयं प्रामाण्यनिश्चयः । इत्यतः परतस्त्वं तत्प्रामाण्यस्येति निर्णयः ॥ द्वितीयज्ञानसंवादादाद्यविज्ञानसंस्थितम् । प्रामाण्यं गृह्यत इति विदुः केचन सौगताः ॥ अप्रामाण्यस्य संवादः प्रायशो नैव दृश्यते । अप्रामाण्यं स्वत इति सिद्धान्तः तदभीप्सितः ॥ अर्थक्रिया वा संवादः गुणो वा परशब्दितः । . 3 अथ वैदिकसिद्धान्तः संग्रहेण विलिख्यते ॥ घटोऽस्तीत्यत्र विज्ञाने सन् घटो हि प्रतीयते । प्रामाण्यमर्थसद्भावः स तु स्वेनैव गृह्यते ॥ प्रज्ञायतेऽतः प्रामाण्यं स्वत इत्युच्यते बुधैः । अर्थक्रियाहेतुगुणसंवादैः क्रियते स्थिरम् ॥ अर्थान्यथात्वं नास्तित्वं अप्रामाण्यं तदिष्यते । न तत्प्रतीयते भ्रान्तौ बाधज्ञाने प्रतीयते ॥ अप्रामाण्यं परत इत्यतएवाभिधीयते । अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः ॥

[Header] स्वतस्त्ववादिविचारः 289

वस्तुत्वाद्द्विविधस्यात्र संभवो दुष्टकारणात् । अविज्ञाने तु दोषाणां व्यापारो नैव कल्प्यते ॥ कारणाभावतस्त्वेव तत्सिद्धं सौगतोक्तिवत् । स्वतः परत इत्यस्य तत्त्वमित्थं बुधा विदुः ॥ तस्मात्सर्वप्रमाणानां प्रामाण्यं स्वतः इष्यते । नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ॥ अपिचेतरसंवादात्पूर्वपूर्वप्रमाणताम् । वदन्तो नाधिगच्छेयुः अन्त युगतैरपि ॥ सुदूरमपि गत्वा तु प्रामाण्यं यदि कस्यचित् । स्वतएवाभिधीयेत को द्वेषः प्रथमं प्रति ॥ अर्थक्रियाचेत्संवादः स्वप्ने सीमन्तिनीं विना । नस्याद्धातुविसर्गोऽपि व्यभिचारो महानयम् ॥ अथवाऽऽप्तफलत्वेन किं तत्प्रामाण्यचिन्तया । कृतक्षौरस्य नक्षत्रपरीक्षावद्वृथा भवेत् ॥ तत्रापि नाप्रवृत्तस्य प्रामाण्यपरिनिश्चयः । एवमेव प्रवृत्तौ तु निश्चितेनापि तेन किम् ॥ तन्निश्चयात्प्रवृत्तौ वा पुनरन्योन्यसंश्रयः । तन्निश्चयात्प्रवृत्तिस्स्यात्प्रवृत्तेस्तदिनिश्चयः ॥ उत्सर्गः ज्ञानसम्यक्त्वं भूयोविषयलक्षणम् । अपवादो वैपरीत्यं विषयाल्पत्वलक्षणम् ॥

[Footer] M.R. 37

290 मानमेयरहस्यश्लोकवार्तिके यत्तत्त्वपक्षपातोऽस्ति स्वभावो हि धियामयम् । अनुपप्लवभूतार्थस्वभावस्य विपर्ययैः ॥ न बाधोऽयत्तत्त्वेऽपि बुद्धेस्तत्पक्षपाततः । इत्याहुरपि बाह्याश्च स्यात्प्रमाणं ततः स्वतः ॥ दोषतश्चाप्रमाणत्वे स्वतःप्रामाण्यवादिनाम् । गुणज्ञानानवस्थावत् न दोषेषु प्रसज्यते ॥ साक्षाद्विपर्ययज्ञानाल्लघ्वेव त्वप्रमाणता । पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिद्ध्यति ॥ एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः । प्रार्थ्यते तावतैवैंकं स्वतः प्रामाण्यमश्रुते ॥ 4 अख्यातिपक्षे सर्वत्र सम्यग्ग्रहणं भ्रमः । न मिथ्याप्रत्ययः कश्चिदस्ति शङ्कानिबन्धनम् ॥ अजातमिथ्याशङ्कश्च न संवादमपेक्षते । तस्मान्न कश्चित्परतः प्रामाण्यमधिगच्छति ॥ एवं स्वतः प्रमाणत्वे सिद्धे वेदेऽपि सा गतिः । नेदं रजतमित्यत्र बाधार्थस्त्ववगम्यताम् ॥ यदेवेदं तदेवात्र रजतं त्विति नावितु । विविक्तं स्यादिदमिदं रजतं रजतं त्विति ॥ 5 अत्र नैयायिकाः प्राहुः परतो द्वयवादिनः । प्रमाणत्वपरिच्छित्तौ विसंवदति तत्कथम् ॥

स्वतस्त्ववादिविचारः 291 अप्रामाण्यगृहीतौ वा तस्मिन् कस्मात्प्रवर्तते । अतो द्वयं स्वत इति पक्षोऽस्मभ्यं न रोचते ॥ प्रयोजनस्य सिद्धत्वात्तत्परीक्षानपेक्षणात् । नान्योन्यसंश्रयो नानवस्था वाऽत्र प्रसज्यते ॥ कौमारिलमतेऽप्येवमनवस्था दुरुद्धरा । प्रामाण्यं ज्ञाततालिङ्गजन्यज्ञानेन गृह्यते ॥ तत्प्रामाण्यं तादृशेनेत्यनवस्था न किं नु सा । स्वयंभानज्ञानवादिप्रभाकरगुरोर्मते ॥ प्रामाण्यस्य स्वतस्त्वं यत्तन्मानान्तरगोचरः । तत्प्रामाण्यस्वतस्त्वं चाप्येवं सैषाऽनवस्थितिः ॥ तादृग्ज्ञानानपेक्षायामस्माकं सैव पद्धतिः । रागोद्वेगात्पित्तधातुविकाराद्वा विसर्ज्यते ॥ स्वप्ने तु चरमो धातुः न दोषोऽतः प्रसज्यते । स्वतःपरत इत्यस्य विवादस्य फलं त्विदम् ॥ वेदस्यापौरुषेयत्वपौरुषेयत्वनिर्णयः । 6 अत्र वेदान्तसिद्धान्ते विशेषांशोऽवधार्यताम् ॥ कथं पुनरनभ्यासद्शायां तस्य संशयः । इत्याशङ्का विपश्चिद्भिरेवमत्र समाहिता ॥ विशेषतो गृह्यमाणेष्वपि संशयदर्शनम् । अभीक्ष्णं शुक्तिकामोहाऽन्धीकृतधियां मतम् ॥

292 मानमेयरहस्यश्लोकवार्तिके यथोपलभ्यमानेऽपि कलधौतेऽस्ति संशयः । यथेदं रजतं वाऽथ पूर्ववच्छुक्तिरेव वा ॥ तथाऽत्र गृह्यमाणेऽपि प्रामाण्ये किमियं प्रमा । उत पूर्वभ्रमवदप्रमा वेति हि संशयः ॥ अथात्र संदेहसहस्वतोग्रहणतः फलम् । किंवा स्यान्निश्चयस्त्वन्याधीन एवेति चेच्छृणु ।) शक्यं नियन्तुं ग्रहणमिह नास्मदपेक्षया । सिद्ध एवानुसर्तव्यः तत्प्रकारः परीक्षकैः ॥ 7 सोऽपि स्वतः कथं सिद्ध इति चेदवधार्यताम् । अस्ति स्वालम्बनं ज्ञानं प्रकाशयदिति स्फुटम् । ज्ञानान्तरानपेक्षं तत्स्वयमेव प्रकाशते । इतितावत्स्वप्रकाशवादिवेदान्तिसम्मतम् ॥ अस्वप्रकाशवादेऽपि व्यवसायो हि गृह्यते । प्रागनुव्यवसायेनासंशयात्मैव केवलम् ॥ स्मृत्यप्रामाण्यवादेऽपि स चापूर्वार्थगोचरः । अबाधितोऽविपर्यस्तः मतः स्मृतिविलक्षणः ॥ ततो यद्विषयत्वेन व्यवसायः प्रकाशते । परस्परपरिक्षोदात्पश्चादपि तथैव सः ॥ यत्तद्विषयतारूपं प्रामाण्यं व्यवतिष्ठते । आदावेव गृहीतं तत्स्वतः प्रामाण्यमुच्यते ॥

प्रमाविचारः 29 नन्वेवं संशयत्वाद्यमप्रामाण्यमपि स्वतः । शक्यं ग्रहीतुं स्वेनानुव्यवसायेन वेति चेत् ॥ विपर्ययस्वरूपं यत्त्वप्रामाण्यं न तत्तथा । यद्गृह्यमाणवैरूप्यं स्वेन स्वग्राहिणाऽथवा ॥ तस्यादौ ग्रहणायोगे न विवादोऽत्र वादिनाम् । इममंशमुपादाय स्वतःप्रामाण्यसंभ्रमः ॥ (59) प्रमाविचारः. 1 एवमस्य स्वतस्त्वस्य विशेषांशो विचारितः । अथ प्रमापदार्थस्य विकल्पोऽयं विमृश्यताम् ॥ ज्ञानं प्रमेति सिद्धान्तस्स्यान्निरालम्बवादिनाम् । आत्मख्यातिं विदुः स्वप्ने भ्रमे चापि भिदा ततः॥ अविसंवादिविज्ञानं प्रमेत्याहुरथापरे । वैभाषिकादयः, भ्रान्तिर्निरधिष्ठानधीर्मता ॥ 2 अन्यथाख्यातिमिच्छन्तस्त्वनिच्छन्तस्स्मृतिं प्रमाम् नैयायिकादयस्सम्यगनुभूतिं प्रमां विदुः ॥ केचित्तूभयमिच्छन्तः यथार्थां तु धियं प्रमाम् । व्यवहारस्यानुगुणं ज्ञानमन्ये प्रमां विदुः ॥ तथाऽऽर्हताः पुनरभिमतानभिमतार्थयोः । परिग्रहपरित्यागक्षमं ज्ञानं प्रमां विदुः ॥

294 मानमेयरहस्यश्लोकवार्तिके यथा बुहुदपक्ष्यादौ विसंवादस्त्वपक्रमात् । तथा मणिप्रभास्थाने संवादोऽन्यनिबन्धनः ॥ विषय कारतापन्नेन्द्रियवृत्त्यनुपातिनी । पुरुषेणोपरक्ता च बुद्धिवृत्तिः प्रमा मता ॥ पातञ्जलैः कापिलैश्च चेतनाशक्त्यनुग्रहः । पौरुषेयो बोध इति चिच्छायेत्यपि कीर्त्यते ॥ ३ अबाधितानधिगतवस्तुज्ञानं प्रमां विदुः । विपरीतख्यातिवादिकौमारिलमतानुगाः ॥ अनिच्छन्तोऽन्यथाख्यातिमनिच्छन्तः स्मृतिं प्रमाम् अनुभूतिं प्रमामाहुः गुरवोऽख्यातिवादिनः ॥ ४ स्वयं प्रकाशते ज्ञानं त्रिपुटीज्ञानवादिनाम् । मानसप्रत्यक्षवादः तार्किकैरुररीकृतः ॥ ज्ञानातीन्द्रियवादं तु कौमारिलमतं विदुः । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ॥ सहोपलम्भनियमादभेदो नीलतद्धियोः । इति वादो निराकारि ज्ञानातीन्द्रियवादिभिः ॥ क्षणान्तरविलम्बेन मानसाध्यक्षवादिभिः । स्वानुभूतिविरोधेन स्वप्रकाशत्ववादिभिः ॥ विज्ञानवादो निर्धूत इति वेदान्तपद्धतिः । तस्मात्सौगतशिक्षार्थं मतिजाड्यमिति स्थितम् ॥

भ्रमविचारः 295 एवं प्रमाप्रमाणानां प्रायः तत्त्वं विचारितम् । विशिष्य विस्तरः तत्तत्तीर्थिकैः प्रकटीकृतः ॥ (60) भ्रमविचारः. 1 अथ भ्रान्तिज्ञानतत्त्वं किंचिदत्रावधार्यताम् । आत्मख्यातिरसतख्यातिः अन्यथाख्यातिरित्‍यपि ॥ अख्यातिस्सदसद्भिन्नख्यातिस्सत्ख्यातिरित्‍यपि । शून्यख्यातिश्च निरधिष्ठानख्यातिरिहाष्टमी ॥ अर्थसंसर्गजाकारख्यातिश्च नवमी मता । बाह्याकारार्पिताकारख्यातिस्तु दशमी स्थिता ॥ भ्रान्तिस्थले पक्षभेदाः विद्वद्भिरुररीकृताः । तेषां विभागवचनमेतदत्र प्रवर्तते ॥ तत्रार्थशून्यं विज्ञानं योगाचारास्समाश्रिताः । आत्मख्यातिं विदुः स्वप्ने ह्यसत्ख्यातिं च जाग्रति॥ 2 कल्पिताकारिणी ख्यातिरसतख्यातिरितीतरे । तत्तु वैभाषिकमतं कल्पनावादिनो हि ते ॥ असतोऽपि भ्रमे भानं केचिद्वेदान्तिनो विदुः । विलक्षणाऽन्यथाख्यातिरेषोक्ताऽसत्प्रकारिणी ॥ शून्यख्यातिं विदुस्तत्र मध्यमागमवादिनः । योगाचारैः पुनस्तत्र न्याय एष प्रयुज्यते ॥

96 मानमेयरहस्यश्लोकवार्तिके स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात्तथाहि यः । प्रत्ययस्स मृषा दृष्टः स्वप्नादिप्रत्ययो यथा ॥ तत्र प्रत्यक्षबाधोक्तौ शून्यख्यातिं समाश्रिताः । तां चाकारयुतां केचित्केचित्स्वच्छां विजानते ॥ ३ विकल्पाख्यां वृत्तिमिह शब्दज्ञानानुपातिनीम् । वस्तुशून्यां विदुः प्राज्ञाः पातञ्जलमतस्थिताः ॥ एते निर्विषयख्यातिवादिनः बौद्धसोदराः । असत्ख्यातिप्रसङ्गश्च ख्यात्यपह्नव इत्यपि ॥ अस्मिन्निर्विषयख्यातिवादे दोषो न कश्चन । अख्यातौ वाऽन्यथाख्यातौ विश्रमस्सर्ववादिनाम् ॥ असावन्यासक्तदृष्टिन्यायादिति तदाशयः । अन्यासङ्गे दृष्टिरेव नोत्पद्यत इतीतरे ॥ ४ एवं निरालम्बवादं शून्यवादं च तादृशम् । असत्कर्तुं हि सुधियो भ्रान्तिशिक्षां प्रचक्रिरे ॥ न तत् ज्ञानं नाम किंचित् यत्स्याद्विषयमन्तरा । तस्माद्भ्रमेऽपि विषयं शोधयन्ति विपश्चितः ॥ बाह्यार्थवादिनः केचित्सौगताः निरधिष्ठितिम् । ख्यातिमिच्छन्ति केशोण्ड्रूटिट्टिभादिमतिर्यथा ॥ इदं रजतमित्यत्र पुरोवर्तिनि वस्तुनि । नाध्यस्यते च रजतं किंतु संस्कारलेशतः ॥

भ्रमविचारः 297 तं दोषवशतः भाति स्वयमिदंतया । ्यातिस्सा निरधिष्ठाना स्याद्वैभाषिकसम्मता ॥ न्ये त्वाहुर्निराकारौ बुद्धिश्चार्थश्च वस्तुतः । पि सितरक्तादिराकारो जायते ततः ॥ च रजनीचूर्णसंयोगाद्रागसंभवः । एव बाह्य आकारः गृह्यते बुद्धिशक्तितः ॥ संसर्गजाकारख्यातिवादोऽयमीरितः । द्याकारार्पिताकारख्यातिवादः पुनर्यथा ॥ प्रकाशाध्यक्षसिद्धं विज्ञानं क्षणिकं यतः । परक्षणस्पर्शितया तचु न भासते ॥ बाह्यार्थमिथ्यात्वं व्यवहाराव्यवस्थितेः । लादिसंततौ पीताद्यनुत्पत्तिप्रसङ्गतः ॥ प्रत्यक्षस्स बाह्योर्थः संप्रयोगनिरोधतः । त्रकालं कथं ग्राह्यमितिचेद्ग्राह्यतां विदुः ॥ त्वमेव युक्तिज्ञाः ज्ञानाकारार्पणक्षमम् । हेतुत्वमेवात्र ग्राह्यत्वेनोपचर्यते ॥ नार्थयोस्समुत्पादे तुल्यसामग्र्यधीनयोः । नजन्मनि च ज्ञानमुपादानमितीष्यते ॥ र्थश्च सहकारी स्यात् अर्थोत्पत्तौ विपर्ययः । हेत्वर्पिताकारः स्वात्मा प्रत्यक्षगोचरः ॥

298 मानमेयरहस्यश्लोकवार्तिके तेनानुमीयते बाह्यस्सर्वोऽर्थ इति निर्णयः । एतत्सौत्रान्तिकमतं उभयं किंचिदन्तरम् ॥ 7 अन्यथाख्यातिवादेऽपि नासद्विषयकल्पना । इत्यत्र पद्ययुगळं ज्ञेयं सर्वार्थसिद्धिगम् ॥ इह त्वारोप्यसंसर्गिसंसर्गासत्त्ववर्णनम् । नासद्ग्रहणकॢप्तौ स्यात् प्रमाविषयसाम्यतः ॥ अदुष्टबुद्धौ तत्रैव संसर्गस्सन् विशेषकः । अन्यत्रसिद्ध एवासौ दुष्टायां दोषवैभवात् ॥ अन्यथाख्यातिवादेऽत्र विशेषांशोऽवधार्यताम् । कैश्चिदालम्बनं भ्रान्तावुक्तं सूर्यमरीचयः ॥ निगूहितनिजाकारास्सलिलाकारधारिणः । अन्ये त्वालम्बनं प्राहुः पुरोऽवस्थितधर्मिणः ॥ सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः । अन्यदालम्बनं चान्यत्प्रतिभातीति केचन ॥ आलम्बनं दीधितयः तोयं च प्रतिभासते । कर्तुः करणतो भिन्नं विज्ञानजनकं तु यत् ॥ तदालम्बनमित्युक्तं अन्यथाख्यातिवित्तमैः । कथंचिदपि विज्ञाने निरालम्बनता हता ॥ 8 अख्यातिपक्षे दोषाद्धीः शुक्तेः केवलधर्मिणः । धर्मसारूप्यमात्रेण रजतं स्मर्यते तदा ॥