मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
22 मानमेयरहस्यश्लोकवार्तिके आद्यं समुदयाख्यं स्यात् सर्वमुत्पत्तिमत् स्थितम्। इति यन्निर्णयज्ञानं तदेव स्यात् स्वलक्षणम् ॥ क्षणिकं सर्वमिति यत् तन्निरोधाख्यमुच्यते । सर्वं दुःखमिति ज्ञानं दुःखसत्यं विनिश्चितम् ॥ सर्वं शून्यमिति ज्ञानं मार्गसत्यं निरात्मकम् । इति भावयतो रागहानौ नाशो ह्यहेतुकः ॥ प्रायश्शास्त्रं सर्वमपि चतुर्धैव विभज्यते । रोगस्तद्धेतुरारोग्यं तद्धेतुश्चेति वैद्यके ॥ भूतं च भौतिकं चैव चित्तं चैत्तं च कृत्स्नशः । उत्पाद्यं क्षणिकं दुःखं निस्स्वभावं निरूपितम् ॥ 7 द्विधस्समुदयश्च स्यात् आद्यो हेतुनिबन्धनः । अनन्तरः प्रत्ययोपनिबन्धन इतीरितः ॥ यदिदं प्रत्ययफलमिति संक्षिप्तसूत्रणम् । तत्प्रतीत्यसमुत्पादलक्षणं बुद्धदेशितम् ॥ स प्रतीत्यसमुत्पादः बाह्यश्चाभ्यन्तरो द्विधः । भूतभौतिकमाद्यं स्यात् चित्तचैत्तमनन्तरम् ॥ भूतं प्रसिद्धं देहादिर्विषयो भौतिको मतः । पञ्चस्कन्धी चित्तचैत्तं तद्विभागोऽवगम्यताम् ॥ विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च । प्रवृत्त्यालयविज्ञानधारा विज्ञानमुच्यते ॥
सौगतदर्शनम् 23 चित्तावस्था वेदना स्यात् सुखदुःखादिलक्षणा । शब्दसंसर्गयोग्यार्थभासः संज्ञेति कीर्त्यते ॥ रागद्वेषादिसंतानः संस्कारस्कन्धसंज्ञितः । रूपस्कन्धः सविषयाणीन्द्रियाण्युच्यते बुधैः ॥ 8 द्विप्रतीत्यसमुत्पादे द्विधस्समुदयो मतः । बीजादङ्कुरपत्रादिफलपर्यन्तसन्ततौ ॥ नास्ति कस्यापि चैतन्यं नान्यो वाऽत्राधितिष्ठति । कार्यकारणभावस्य नियमो न न दृश्यते ॥ एष प्रतीत्योत्पादे स्याद्बाह्ये हेतुनिबन्धनः । अत्रैवायं प्रत्ययोपनिबन्धोऽप्यवगम्यताम् ॥ अङ्कुरो जायते बीजात् षड्धातुसमवायतः । ऋतुश्च पञ्च भूतानि षड्धातव इति स्मृताः ॥ संगृह्णाति क्षितिर्बीजं अङ्कुरः कठिनस्ततः । जलधातुः स्नेहयति तेजो बीजं पचेदपि ॥ वायुधातुर्निर्हरति निर्गच्छति ततोऽङ्कुरः । आकाशधातुर्बीजस्य त्वनावरणकृत्यकृत् ॥ ऋतुधातोः परीणामः प्रसिद्धोऽङ्कुरबीजयोः । नातिरिक्तश्चेतनोऽत्र यः स्यात्कारकचक्रगः ॥ 9 एवमाध्यात्मिकेऽप्यूह्यः यस्स्याद्धेतुनिबन्धनः । अविद्यया हि संस्काराः रागद्वेषादिलक्षणाः ॥
24 मानमेयरहस्यश्लोकवार्तिके जायते तैर्हि विज्ञानं नामरूपं ततो भवेत् । स्यात् षडायतनं तस्मात् स्पर्शस्तस्माद्भवेदपि । ततश्च वेदनातृष्णाभवजातिजरादयः । स्पष्टा रागादयस्तेभ्यः चित्ताभिज्वलनात्मकम् ॥ विज्ञानं तच्च गर्भस्थे चित्ते विषयसंजनम् । चित्तचैत्तात्मकं नामरूपं, आयतनं पुनः ॥ षडिन्द्रियाणि देहस्तु स्पर्शशब्देन कीर्त्यते । स्पृष्टे हि वेदनातृष्णे धर्मोऽधर्मो भवो मतः ॥ स्कन्धप्रादुर्भवो जातिः प्रसिद्धा हि जरादयः । तथाऽत्रैव प्रत्ययोपनिबन्धोऽप्यवगम्यताम् ॥ क्षित्यप्तेजोवायुनभोविज्ञानसमवायतः । कायस्य तत्र काठिन्यं पृथिवीधातुलक्षणम् ॥ अब्धातुस्तं स्नेहयति तेजोधातुः तनुस्थितम् । पीताशितं पाचयति वायुः श्वासयति त्वमुम् ॥ आकाशोऽन्तस्सुषिरकृत् विज्ञानं पुनरारभेत् । नामरूपाङ्कुरं तेन धातवस्सकला इमे ॥ उत्पादयन्ति सकलं कार्यं नात्रापि चेतनः । सोऽयं विज्ञानधातुर्यत्सकार्यं सास्रवं मनः ॥ आलम्बनं चाधिपतिः समनन्तर एव च । सहकारीति चत्वारः प्रत्ययाः ज्ञानहेतवः ॥
सौगतदर्शनम् 25 प्रत्ययांश्चतुरस्त्वेतान् प्रत्येत्योत्पत्तियोगतः । शब्दाद्या बाह्यविषयाः सुखाद्या आन्तरा मताः॥ तत्र नीलालम्बनतः चित्तं स्यान्नीललक्षणम् । चक्षुराद्याधिपत्येन प्रतिरूपव्यवस्थितिः ॥ अनन्तरप्रत्ययेन बोधरूपत्वमश्नुते । आलोकादिकसाहाय्यादन्धकारादिसंक्षयः ॥ अर्थसत्ताविवादेऽपि प्रक्रियेयं समा मता । चतुर्णामपि वै मन्दमध्यमोत्तमयायिनाम् ॥ यस्मिन् सति समुत्पादो यस्य तत्तस्य कारणम् । इत्याहुस्सौगताः यस्मिन् सत्येवेतीतरे विदुः ॥ कारणं द्विविधं हेतुः प्रत्ययश्चेति निश्चितम् । प्रधानकारणं हेतुः प्रत्ययास्सहकारिणः ॥ तृतीयमिति यत्प्राहुर्निमित्तं न्यायवादिनः । तद्बुद्धिमदधिष्ठानं तदेवैतैर्निषिध्यते ॥ 10 यद्यपि क्षणिका भावाः कार्यकारणलक्षणाः । तथाप्यविद्याशक्त्यैव तत्सर्वमुपपद्यते ॥ सैषाऽविद्या स्थायिजातिसुखवस्तुत्वबुद्धयः । विशेषे क्षणिके दुःखे शून्येऽप्यर्थे स्वभावतः ॥ भवन्ति रागद्वेषाद्याः ताभिस्संस्कारलक्षणाः । ते सूक्ष्मं चित्तसंतानं मातृकुक्षिं नयन्ति तम् ॥ M.R. 4
८० मानमेयरहस्यश्लोकवार्तिके स नीयते निराधारश्चापि देशान्तरं स्वयम् । ज्वालाबुद्बुदवद्वृत्तिरन्तरालेऽस्य सम्मता ॥ प्रतिक्षणं जायते यो दीपसंतानवत्सदा । स ग्राहकाभिमानेनारूढ आत्मेति कीर्त्यते ॥ गर्भं गतस्ततस्सोऽयं विज्ञानत्वं समश्रुते । चित्ताभिज्वलनं नाम, संसर्गो विषयैरसौ ॥ उत्तरोत्तरविज्ञानं स्थूलं चित्तमितीर्यते । सह तेनोत्पत्तिनाशभाजश्चैत्ता उदाहृताः ॥ स्पर्शश्च वेदना संज्ञा चेतना च वितर्कणा । विचारः प्रीतिरैकाग्र्यं श्रद्धा वीर्यं स्मृतिस्तथा ॥ प्रज्ञादयश्च धर्मा ये कुशलाकुशलात्मकाः । त एते चित्तचैत्तास्स्युः ये नामाख्या इतीरिताः ॥ ततः पृथिव्यादिरूपिद्रव्यं तत्पुञ्जलक्षणम् । ततस्त्विन्द्रियषट्कं स्यात् षडायतनसंज्ञितम् ॥ ततः स्पर्शाभिधः कायः ततः स्युः वेदना स्पृहा । उपादानं भवो जातिः जरा मरणमेव च ॥ शोकश्च परिवेदश्च दुःखं दौर्मनसं तथा । मदमानादयश्चोपक्लेशाः प्रादुर्भवन्त्यपि ॥ स्पृहा वाक्कायचेष्टा स्यात् धर्माधर्मौ भवो मतः । शुभाशुभा वासना सा चित्तसन्तानवर्तिनी ॥
सौगतदर्शनम् 27 तस्मादेतैर्मता चित्तवासना कर्मशब्दिता । स्कन्धप्रादुर्भवो जातिः अविद्यादिस्ततः पुनः ॥ अनादि चक्रमेतत्स्यात् संततं परिवर्तते । विच्छेदस्तस्य कर्तव्यः कुशलैरिह विद्यया ॥ प्राक्प्रतीत्यसमुत्पादे स्कन्धोत्पत्तिर्निरूपिता । प्रत्ययोत्पत्तिरपि च सैषा सौगतपद्धतिः ॥ सर्वं विवर्तं शून्यस्य मध्यमागमसम्मतम् । ज्ञानस्यैवायमाकारः योगाचारमतेऽखिलम् ॥ सौत्रान्तिकैरनुमितं बाह्यं क्षणिकमिष्यते । वैभाषिकमते बाह्यं प्रत्यक्षं क्षणभङ्गुरम् ॥ 11 सर्वे स्वयंप्रकाशं तं ज्ञानमात्मानमभ्यधुः । स्वयंप्रकाशहीनस्य बाह्यस्योपासनं मतम् ॥ ज्ञानान्तरेणानुभवोऽनिष्टः तत्रापि च स्मृतेः । विषयान्तरसंचारः तथा न स्यात्स चेष्यते ॥ नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥ 12 न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥ इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथायथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथातथा ॥
28 मानमेयरहस्यश्लोकवार्तिके रजतं न मया दृष्टमित्येवमुपलम्भनम् । निषेधविषयं स्वप्ने जागरे चानुभूयते ॥ द्रष्टृदर्शनसंसर्गाध्यासाधिष्ठानलक्षणे । समूहे कस्य वाऽसत्त्वं कस्य सत्त्वं विविच्यते ॥ अविशेषेण सर्वस्य निषेधोऽत्र विनिश्चितः । न चार्धजरतीयं चोचितं प्रेक्षावतां यथा ॥ न ह्येकभागः कुक्कुट्याः पाकाय प्रविभज्यताम् । प्रसवायापरो भागः कल्प्यतामिति कल्पते ॥ बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः ॥ यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्षते । सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥ पूर्वोपलम्भोपशमः प्रपञ्चोपशमाञ्शिवः । न क्वचित्कस्यचित्कश्चित् धर्मो बुद्धेन देशितः ॥ यो हेतुप्रत्ययापेक्षो भावोत्पादश्च कीर्त्यते । स प्रतीत्यसमुत्पादः नेश्वरात् न च कालतः ॥ नाणुभ्यो न स्वभावाच्च न वा प्रकृतितोऽपि च । अहेतोरेकहेतोर्वा विषमाद्वा न संभवः ॥ अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्वचित् । न कदाचित्क्वचित्कश्चित् विद्यते तेन शाश्वतः ॥
सौगतदर्शनम् भावानां निस्स्वभावानां न सत्ता विद्यते यतः। सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥ फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः। कथमस्वंमयेभ्यो यत् तत्प्रत्ययमयं कथम् ॥ पटः कारणतस्सिद्धः सिद्धं कारणमन्यतः। सिद्धिर्यस्य स्वतो नास्ति तदसज्जनयेत्कथम् ॥ अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम्। अथोत्पन्नो जनयति जातः किं जन्यते पुनः ॥ यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति। दुःखं समुदयं चैव निरोधं मार्गमेव च ॥ प्रपञ्चोपशमायैव शून्यता सोपदिश्यते। तस्मात् प्रपञ्चोपशमः शून्यतायां प्रयोजनम् ॥ शून्यत्वं नास्तितारूपं भवांस्तु परिकल्पयन्। प्रपञ्चं वर्धयन्नेव न च वेत्ति प्रयोजनम् ॥ अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम्। निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥ प्रपञ्चविनिवृत्त्येकस्वभावा या च शून्यता। तस्यां तु नास्तितादृष्टिरमलायां नयुज्यते ॥ यं चार्थं शून्यताशब्दस्समुपादाय वर्तते। स प्रतीत्यसमुत्पादः मध्यमा प्रतिपत्तु सा ॥
30 मानमेयरहस्यश्लोकवार्तिके आसीदसदेवेदमग्रे ततो वै सदजायत । इति छान्दोग्योपनिषद्ब्राह्मणं श्रूयते सदा ॥ इदं चापिहितं तुच्छेनेति ब्राह्मणदर्शनम् । यच्च तित्तिरिशाखायां तदप्यत्र समञ्जसम् ॥ आसीदिदं तमोभूतमित्याद्याः श्रुतयोऽपि च । स्मृतयश्चात्र सिद्धान्ते कटाक्षान् पातयन्ति हि एवं माध्यमिकैकान्तः स माध्यमिकपूर्वके । वृत्तिग्रन्थे च सव्याख्ये पर्यष्कारीति निर्णयः ॥ 13 अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥ तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् । यदा तदा न संचोद्या ग्राह्यग्राहकलक्षणा ॥ अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति । उपलम्भोपलम्भेन व्यवहारोऽखिलो मतः ॥ अन्यथा परकीयोपलम्भेनापि पुमानयम् । चेष्टेत तस्मात् स्वस्यैव स्वयमेवोपलभ्यते ॥ सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवाद्वये ॥
सौगतदर्शनम् ३१ तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम् । तत्तु प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ॥ सवासनालयज्ञानानुवृत्तिः बन्ध इष्यते । विशुद्धालयविज्ञानसंततिर्मोक्ष ईरितः ॥ 14 कल्पनापोढमभ्रान्तं प्रमाणं निर्विकल्पकम् । विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः ॥ ग्राह्यं वस्तु प्रमाणं तु ग्रहणं निर्विकल्पकम् । न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥ विकल्पविषये वृत्तिरिष्टा शब्दानुमानयोः । अवस्तुविषयाश्चैते विकल्पा इति निर्णयः ॥ विकल्पोऽध्यवसायः स्यात् ग्रहणं निर्विकल्पकम्। तस्मादध्यवसेयं च ग्राह्यं चेति द्विधं जगत् ॥ शब्दसंसर्गयोग्यार्थप्रतिभासा हि बुद्धयः । सविकल्पा भवन्त्येते व्यपदेशपदास्पदम् ॥ विकल्पयोनयश्शब्दाः विकल्पाश्शब्दयोनयः । कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी ॥ मानमेयफलानामध्येक्यं विज्ञानवादिनः । “अविभागोऽपी”ति विदुः निरालम्बनसिद्धये ॥ फलक्रियाकारकाणामैक्यं वैभाषिकादयः । “क्रियैव कारकम्” इति क्षणभङ्गाय चाश्रयन् ।
प्रत्यक्षवेद्यं यद्वस्तु विशेषः तत्स्वलक्षणम् । परोक्षवेद्यं यच्चापि तत्स्यात्सामान्यलक्षणम् ॥ सजातीयविजातीयव्यावृत्तं स्वत एव यत् । तत्स्वलक्षणमित्युक्तं विशेष इति निर्णयः ॥ यथा च पृथवी गन्धलक्षणा स्पर्शलक्षणम् । जलमित्यादिकं नैवं किंचित्स्यादन्यलक्षणम् ॥ धर्मधर्मिविभङ्गेन जात्यादेरपि भङ्गतः । नैव किंचित्त्वनुगतं यत्स्यात्सामान्यलक्षणम् ॥ अभिन्नदेशकालं यत् तत्स्वलक्षणमुच्यते । इति सर्वार्थसिद्धौ हि स्वलक्षणमनूदितम् ॥ सौत्रान्तिकाः पुनरिहापोहसामान्यवादिनः । स वादश्शून्यनिष्ठेति न्यायरत्नाकरोदितम् ॥ वात्सीपुत्रास्तु शब्दादीन् पञ्च वैभाषिका विदुः । शब्दात्मानश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥ निर्धर्मका निराधाराः रूपाद्यास्स्युः चतुर्विधाः । पदार्थास्ते चक्षुरादिप्रत्येकेन्द्रियगोचराः ॥ स्पर्शाद्येकद्वित्रिचतुःस्वभावाणुचतुष्कतः । पुञ्जः प्रपञ्चः संबन्धो नाम वस्तु न हीष्यते ॥ षट्केन युगपद्योगात्परमाणोष्षडंशता । तेषामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः ॥
सौगतदर्शनम् 33 प्रतिसंख्याऽप्रतिसंख्यानिरोधौ व्योम चेति यत् । बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तत् ॥ स निरन्वयनाशः स्याद्धर्मो धर्म्यपि वा पुनः । पूर्वसंघातभावो वा यद्भावे नानुवर्तते ॥ उत्पत्तिश्च तथाभूता निरन्वयसमुद्भवा । तावुभौ सर्वभावानां नियताविति सौगताः ॥ 15 त्यज्यतां दीर्घसंसारकारणं स्थिरताग्रहः । गृह्यतां क्षणभङ्गित्त्वं परवैराग्यकारणम् ॥ यत्सत्तत् क्षणिकं सन्तश्चामी भावा इति स्थितम् । सत्ताऽर्थकर्मकारित्वं तत् व्याप्यं व्यापकः पुनः ॥ क्रमाक्रमान्यतरयोर्योगः स स्थिरवस्तुनः । व्यावर्तमानो व्याप्यं च विनिवर्तयतीत्यतः ॥ व्यतिरेकेण सा व्याप्तिः स्यात्तथाऽन्वयतः पुनः । सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता ॥ तयोर्विरोधो युक्त्यापि वक्तुं न हि न शक्यते । एवं द्विधा व्याप्तियोगात् सत्त्वं साध्ये व्यवस्थितम् ॥ किंचात्र कारकावस्था स्यादेकक्षणवर्तिनी । सामग्री सा यतः कार्यसर्वदोत्पत्त्यदर्शनम् ॥ व्यापारावेशवशतः साह्यसन्निधितोऽपि वा । कारकत्वं वस्तुरूपं तदेकक्षणवृत्ति हि ॥ M.R. 5
34 मानमेयरहस्यश्लोकवार्तिके कार्योत्पत्त्यैव तत्क्लृप्तिः तत्पूर्वोत्तरयोरसत् । तदेव परमार्थं सत् अन्यस्याजनकत्वतः ॥ कारकत्वस्य चाभावे ह्यस्तित्वमपि दुर्वचम् । ततश्च सर्वैः प्रायेण क्षणिकत्वमुपाश्रितम् ॥ सौगताः पीतवन्तश्च यश एव हि केवलम् । यत्कारकं यच्च सत्स्यात् तत्सर्वं क्षणिकं तत् ॥ विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः । अनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः ॥ केचित्तु बुद्धोपदिष्टं तत्त्वं नित्यं च किंचन । सत्त्वाख्यसाधनं तेन भवेदागमबाधितम् ॥ ध्रुवभावित्वाख्यहेतुं मन्यन्ते क्षणसिद्धये । तत्प्रकारस्य संक्षेप एषोऽस्ति श्लोकवार्तिके ॥ अहेतुको विनाशो हि ध्रुवभावितया स्थितः । जनित्वा ध्वंसते सर्वं स्थूलस्सूक्ष्मो द्विधा च सः बुद्धिपूर्वं विनाशे हि प्रतिसंख्यानिरोधधीः । अबुद्धिपूर्वकस्तेषां निरोधोऽप्रतिसंख्यया ॥ तौ च द्वावप्यनाशित्वादिष्टौ अकृतकावपि । आहुः स्वभावतस्सिद्धं तं विनाशमहेतुकम् ॥ हेतुर्यस्य विनाशोऽपि तस्य दृष्टोऽङ्कुरादिवत् । विनाशस्य विनाशस्तु नास्ति तस्मादकृत्रिमः ॥
भवति ह्यग्निसंबन्धात्काष्ठादङ्गारसंततिः । मुद्गरादिहताच्चापि कपालं जायते घटात् ॥ स्वाभाविकॊ विनाशस्तु जातमात्रप्रतिष्ठितः । सूक्ष्मः सदृकसंतानानुवृत्तेरनुपलक्षितः ॥ यदा विलक्षणो हेतुः पतेत्सदृशसंततौ । विलक्षणेन कार्येण स्थूलोऽभिव्यज्यते तदा ॥ तेनासद्दशसंतानः हेतोस्संजायते यतः । तेनैवाक्रियमाणोऽपि नाशोऽभिव्यज्यते स्फुटः ॥ इत्येवं वर्तमानत्वप्रत्यक्षात् क्षणभङ्गिता । प्रत्यभिज्ञा चाप्रमाणं विरुद्धांशावगाहनात् ॥ 16 उपप्लवो वासना स्यात् वासनामात्रनिर्मिताः । कल्पिताळीकभेदादिप्रपञ्चाः पञ्च कल्पनाः ॥ द्रव्यक्रियाजातिगुणनामलक्षणका हि ताः । तत्र द्रव्यक्रियाजातिगुणाकाराश्च विश्रुताः ॥ डित्थादिशब्दाकारत्वं वस्तुनः शब्दकल्पना । गौरयं दण्ड्ययं शुक्लोऽप्ययं यात्ययमर्भकः ॥ अयमित्यादि पञ्चानां वस्तूनां स्यादुपप्लवः । परिव्राट्कामुकशुनामेकस्यां प्रमदात नौ ॥ कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः । रागादिवासनामूलं क्षणिकं सकलं ततः ॥
36 मानमेयरहस्यश्लोकवार्तिके इति सौगतसिद्धान्तं कुतर्क इति ये विदुः । कणादगौतममुखाः तैः पुनः परिशोधिताः ॥ मानमेयादयः सर्वैस्सुगृहीताः परीक्षकैः । तथापि संगतिज्ञानायानूद्यन्ते तदुक्तयः ॥ (7) न्यायदर्शनम्. 1 काणादं गौतमीयं चाप्येकीकृत्यैव दर्शनम् । मानमेयविनिष्कर्षः संक्षेपादिह कथ्यते ॥ प्रमेयशास्त्रं काणादं मानशास्त्रं तु गौतमम् । 2 आन्वीक्षिकी मानविद्याऽध्यात्मशास्त्रमितीर्यते ॥ प्रदीपस्सर्वविद्यानामालयस्सर्वकर्मणाम् । आश्रयस्सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥ ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा । तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥ 3 द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायस्तथाऽभावः पदार्थास्सप्त कीर्तिताः ॥ क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो मनः । द्रव्याण्यथ गुणा रूपं रसो गन्धः ततः परम् ॥ संयोगश्च विभागश्च परत्वं चापरत्वकम् । बुद्धिस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् ॥
न्यायदर्शनम् द्रवत्वं स्नेहसंस्कारावहृष्टं शब्द एव च । उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा ॥ प्रसारणं च गमनं कर्माण्येतानि पञ्च च । भ्रमणं रेचनं स्यन्दनोध्वर्ज्वलनमेव च ॥ तिर्यग्गमनमप्यत्र गमनादेव लभ्यते । सामान्यं द्विविधं प्रोक्तं परं चापरमेवच ॥ द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते । परभिन्ना तु या जातिस्सैवापरतयोच्यते ॥ द्रव्यत्वादिकजातिस्तु परापरतयोच्यते । व्यापकत्वात्पराऽपि स्याद्व्याप्यत्वादपराऽपिच ॥ अन्त्यो नित्यद्रव्यवृत्तिः विशेषः परिकीर्तितः । घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः ॥ तेषु जातेश्च संबन्धः समवायः प्रकीर्तितः । अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः ॥ प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एवच । एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ॥ अन्यथासिद्धिशून्यस्य नियता पूर्ववृत्तिता । कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥ समवायि निमित्तं चासमवायीति तत्रयम् । निमित्तत्वमधिष्ठानं तद्वीच्छाकृतिलक्षणम् ॥
38 मानमेयरहस्यश्लोकवार्तिके विवादाध्यासितं सर्वं बुद्धिमत्कर्तृपूर्वकम् । कार्यत्वात् उभयोस्सिद्धं कार्यं कुम्भादिकं यथा ॥ कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥ उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधकम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥ आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् । अहंकारस्याश्रयोऽयं मनोमात्रस्य गोचरः ॥ विभुः द्रव्यादिगुणवान् बुद्धिस्तु द्विविधा मता । 4 अनुभूतिः स्मृतिश्च स्यात् अनुभूतिश्चतुर्विधा ॥ प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे । प्रमाणं करणं तासां तत एव चतुर्विधम् ॥ प्रमा चैवाऽप्रमा चेति साऽनुभूतिश्चतुर्विधा । दोषोऽप्रमाया जनकः प्रमायास्तु गुणो मतः ॥ सा प्रमा तत्प्रकारं यत् ज्ञानं तद्विशेष्यकम् । तच्छून्ये तन्मतिर्या स्यात् अप्रमा सा निरूपिता ॥ ज्ञानं यन्निर्विकल्पाख्यं न प्रमा नापिच भ्रमः । प्रमात्वं न स्वतोग्राह्यं संशयानुपपत्तितः ॥ साक्षात्कारे सुखादीनां करणं मन उच्यते । अयौगपद्यात् ज्ञानानां तस्याणुत्वमिहेष्यते ॥
वैशेषिकदर्शनम् भावनाख्यस्तु संस्कारः जीववृत्तिरतीन्द्रियः । स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते ॥ शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः । कण्ठसंयोगादिजन्यः वर्णास्ते कादयो मताः ॥ सर्वश्शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते । तारङ्गद्वा मौकुलाद्वा न्यायात्तस्य जनिर्मता ॥ तस्मादनित्या एवेति सर्वे शब्दाः व्यवस्थिताः । धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् ॥ अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः । लोकान्तराणि तद्योग्यशरीराणि च सन्ति नः ॥ इमौ तु वासनानाश्यौ ज्ञानादपि विनश्यतः । क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥ यदा चर्मवदाकाशं वेष्टयन्तीह मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ (8) वैशेषिकदर्शनम् 1 योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रं कणादं तं नमाम्यहम् ॥ काणादन्यायमतयोस्समानार्था इमे स्थिताः । वैशेषिके विशेषोऽपि त्वियानेवावगम्यते ॥
40 मानमेयरहस्यश्लोकवार्तिके
शब्दोपमानयोर्नैव प्रामाण्यमतिरिच्यते । अनुमानगतार्थत्वादिति वैशेषिकं मतम् ॥ पीलुपाकविदस्त्वेते गौतमीयाः पुनर्विदुः । पिठरे पाकमित्येतत् विदितं सर्ववादिनाम् ॥ समवायोऽतीन्द्रियस्स्यादिति वैशेषिकं मतम् । प्रत्यक्षस्समवायीति नैयायिकविनिर्णयः ॥ एते वैशेषिकाः प्रायः जरत्तार्किकलक्षणाः । प्रायो नैयायिका एव नव्यतार्किकशब्दिताः ॥ तेष्वपि प्रायशः प्राच्यनव्यभेदास्त्वनेकधा । भूता अपि भविष्यन्ति सर्वेषां दर्शनेष्विव ॥ आत्माऽनुमेयो जरतां नव्यानां मानसो मतः । इत्यौपनिषदैः भेदाः बहवः स्युः प्रदर्शिताः ॥ द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिः तं वै वैशेषिकं विदुः ॥ विनाशकविनाशस्य या बुद्धिः प्रतियोगिनी । साऽपेक्षाधीः तद्विनाशात् द्वित्वादिर्हि विनश्यति । अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत्स्यात् एकेन द्वितयेन वा । विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥
वैशेषिकदर्शनम् 41 विद्याऽविद्याविभागोऽपि विशेषो न्यायनिर्णयात् । उपघातात्मकं दुःखं प्रसादजनकं सुखम् ॥ वीचीसंतानवच्छब्दसंतानश्च निरूपितः । सर्वा सर्वगता जातिरिति वैशेषिकं मतम् ॥ 2 एवं सामान्यतः प्रोक्तस्समुद्देशः तथा पुनः । तत्तत्प्रकरणे तत्तद्विशेषः प्रतिपाद्यते ॥ एकं शास्त्रमिति प्रायः बहुभेदं विदुर्बुधाः । सांख्यास्तु निर्विशेषां तां प्रकृतिं कारणं विदुः ॥ भूतानि तु विशेषाः स्युः तस्मादाव्यक्तिकास्तु ते । विशेषेष्वेव विश्रान्ताः ये ते वैशेषिका इति ॥ सामान्यस्य प्रधानस्य प्रतिद्वन्द्वितया स्थिताः । प्राक्पाकजविशेषेण विशिष्टाः परमाणवः ॥ तंतं कार्यं प्रारभन्ते कलमाद्यङ्कुरं स्वयम् । संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥ स्वगुणाः परमाणूनां विशेषाः पाकजा मताः । इत्यौदयनभारत्या सविशेषस्य हेतुताम् ॥ वदतां काणभक्षाणां ख्यातिर्वैशेषिका इति । विशेषाख्यपदार्थस्य स्वीकर्तृत्त्वविशेषतः ॥ वैशेषिका इति ख्यातिः आपातादिति तात्त्विकाः । 3 अत्र तत्त्वावबोधार्थाः पदार्थपरिशुद्धयः । M.R. 6