मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
३९ ] प्रथमाध्याये द्वितीयपादः २२९
त० वा०—अदितिद्यौरदितिरिति । नात्र द्युत्वादीनि विवक्षितानि । किं
तर्हि ? अदितौ प्रकाशयितव्यायामविद्यमानविप्रतिषिद्धधर्मोपादानं स्तुत्यर्थम् ।
गुणवादेन त्वौदुम्बराधिकरणवत्संवादो योजयितव्यः ॥ ३९ ॥
न्या० सु०—यस्त्वर्थविप्रतिषेधः शङ्कितः, स गौणत्वात्परिहर्त्तव्य इत्येवं सूत्रं
व्याख्यातुमदितिरित्यादिभाष्यं व्याचष्टे—अदितिरिति । स्तुतिविषयत्वाद गौणत्वस्य स्तुतित्वस्य
चार्थवादाधिकरणव्युत्पादितस्याप्यौदुम्बराधिकरणविधित्वशङ्कानिराकरणेन प्रतिष्ठानार्थमुदुम्ब-
राधिकरणवदित्युक्तम् ॥ ३९ ॥
भा० प्र०—गुणात् = गौण प्रयोग होने से, अप्रतिषेधः = विरोध नहीं है।
“अदितिद्यौरदितिरन्तरिक्षम्” इत्यादि मन्त्रों में जो विरोध प्रदर्शन किया गया है
वह ठीक नहीं है आप ही 'माँ-बाप हैं' इस लौकिक वाक्य के समान ही यह गौणार्थक
है, अतः किसी तरह का विरोध नहीं है ।
एको रुद्रः एवं सहस्राणि सहस्रशो ये रुद्राः आदि मन्त्रों का भी विरोध नहीं है,
क्योंकि एक रुद्र जिस कर्म का देवता है 'एको रुद्रः' यह मन्त्र उसी में पढ़ना चाहिए
एवं जो कर्म शतरुद्रदैवत्य है, उसमें 'सहस्राणि सहस्रशो ये रुद्राः' आदि मन्त्र उसी में
पढ़ना चाहिए। अतः कर्मभेदनिबन्धन देवता का भेद होने से किसी प्रकार का
असामञ्जस्य नहीं है।
इस प्रसङ्ग में वेदान्तियों ने कहा है कि रुद्र अनेक नहीं हैं, किन्तु एक ही रुद्र हजार
या करोड़ मूर्तियों को धारण करता है—यह एक ही रुद्र की महिमा या विभूति के
अतिरिक्त कुछ भी नहीं है। इसीलिए बृहदारण्यक उपनिषद् में कहा है कि “त्रयश्च त्री च
शता च त्रयश्च त्री च सहस्रा, महिमान एव एषामेते त्रयंस्त्रिंशत्त्वेव देवाः”। एको देव
इति प्राण इति स ब्रह्मेत्यादित्याचक्षते” (बृ० उ० ३।९।१,२,९) शाकल्य ने याज्ञवल्क्य
से प्रश्न किया था कि कितने देवता हैं ? याज्ञवल्क्य ने प्रथम उत्तर दिया तीन सौ तीन,
द्वितीय बार उत्तर दिया तीन हजार तीन। इसके बाद कहा कि देवता तैंतीस हैं और
सब इन्हीं की महिमा है। अन्त में उत्तर दिया देवता एक है, वही प्राण अर्थात् हिरण्यगर्भ
वही ब्रह्म, इसी को ज्ञानी 'त्यत्' शब्द से कहते हैं। हम लोगों में देवता की संख्या तैंतीस
करोड़ है—यह प्रवाद निराधार नहीं है। क्योंकि, इस शास्त्र के सिद्धान्त से तैंतीस
देवता की ही यह महिमा या विभूति है। तैंतीस देवताओं का भी एक में ही पर्यवसान होता
है। यद्यपि आठ वसु, ग्यारह रुद्र बारह आदित्य, इन्द्र एवं प्रजापति आदि विभिन्न नाम
धारण करने वाले सभी देवताओं की समष्टि को लक्ष्य कर ही श्रुतियों में तैंतीस देवता
कहा गया है। एक ही ब्रह्म को औपाधिक भेद के अनुसार ही यह प्रकार भेद कहा गया
है। इसलिए श्रुति ने आगे भी कहा है—एको देव इति प्राण इति स ब्रह्मं त्यादित्या-
चक्षते। श्रुति ने अन्यत्र भी कहा है कि—
२३० मीमांसादर्शनम् [ सू०
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद् विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
—(ऋग्वेद १।१६४।४६)
एक ही सत् वस्तु को ब्राह्मणों ने इन्द्र, मित्र, वरुण, अग्नि, गरुत्मान्, यम,
मातरिश्वा आदि नाम से अभिहित किया है। इसलिए सायणाचार्य ने ऋग्वेदभाष्योप-
क्रमणिका में कहा है कि—'परमेश्वरस्यैव इन्द्रादिरूपेणावस्थानात् ।' यतः परमेश्वर ही
इन्द्रादि रूप में अवस्थान करता है । अतएव एक एव रुद्रः एवं सहस्रशो रुद्राः, इन दो
मन्त्रों के मध्य में कोई भी विरोध नहीं है एवं अर्थ की भी किसी तरह की सन्दिग्धता
नहीं है ॥ ३९ ॥
विद्यावचनमसंयोगात् ॥ १.२.४० ॥
शा० भा०—यत्त्वकर्मकालेऽवहन्तिमन्त्रेण माणवको न पूर्णिकाऽहन्ति
प्रकाशयितुमिच्छतीति । अयज्ञसंयोगाद्, न । यज्ञोपकारायैतत्प्रकाशयितु-
मिच्छतीति । ननु प्रकाशनानभ्यासः, अक्षराभ्यासश्च परिचोदितः । उच्यते ।
सौकर्य्यात्प्रकाशनानभ्यासः । दुर्ग्रहित्वाच्चाक्षराभ्यासः ॥ ४० ॥
भा० वि० —नन्वक्षराभ्यासादध्ययनविधिविहितत्वाविशेषे कथमर्थप्रकाशना-
नभ्यास इति पूर्वोक्तमाशङ्कते—नन्विति । विशेषहेतुं वदन् परिहरति—उच्यत
इत्यादिना ॥ ४० ॥
त० वा०—यद्यपि पूर्वपक्षेऽयमभिप्रायो नोपन्यस्तः, तथापि संभवादुपन्यस्यते ।
यदि हि स्वाध्यायकालेऽर्थवचनमुपयुज्येत, ततस्तदाश्रीयेत, न त्वेवमस्ति, कर्म-
भिरसंयोगात् । तदनभ्यासस्तु प्रोक्षणादिवत्सौकर्यात् ॥ ४० ॥
न्या० सु०—यत्त्वित्यादिना भाष्येण विद्याकाले सन्निहितस्याप्यर्थस्य यद्वचनमन-
भिधानम्, तत्तस्य कर्मानङ्गत्वाद्युक्तमिति सूत्रं व्याख्यातम् । तदर्थस्य प्रागनुपन्यासाद्युक्त-
माशङ्कयाह — यद्यपीति । व्याचष्टे—यदि हीति । नन्वित्यादिना प्रागुपन्यस्तामभिधानानभ्या-
साशङ्काऽनुभाषणपूर्वकं परिहृता । तद्व्याचष्टे तदनभ्यासस्त्विति ॥ ४० ॥
भा० प्र०—विद्यावचनम् = विद्या-अवचन । माणवक का अवघात मन्त्रपाठ अवचन
अर्थात् अवघातरूप अर्थ का प्रकाशक नहीं है । असंयोगात्—क्योंकि यज्ञ का संयोग
अर्थात् संश्रव नहीं है ।
स्वाध्यायवद्वचनात् (१।२।३१) इस सूत्र के द्वारा उठायी गई आपत्तियाँ भी ठीक
नहीं है । क्योंकि पूर्णिका नाम की नारी के द्वारा धान्य का अवहनन एवं ब्रह्मचारी के द्वारा
मन्त्रपाठ का एक काल में होने में किसी प्रकार का वाचनिक संयोग नहीं है । अर्थात् न
४१ ] प्रथमाध्याये द्वितीयपादः २३१
तो पूर्णिका नाम की नारी यज्ञ के लिए अवहनन कर रही है और न ब्रह्मचारी ही यज्ञ
के लिए मन्त्रपाठ कर रहा है । किन्तु काकतालीयन्याय से स्वाभाविक रूप में दोनों की
एक कालीनता है । यही कारण है कि माणवक के द्वारा पढ़ा गया अवघात मन्त्र वहाँ
अर्थ का प्रकाशक नहीं है । किन्तु यज्ञ का मन्त्रपाठ वाचनिक अर्थात् शास्त्रवचन से सिद्ध
है और उन दोनों में वैसा वाचनिक या वैध सम्बन्ध रहता है । इसलिए इस स्थल में
स्वतः प्राप्त अर्थ का प्रकाश निवारण के योग्य नहीं है । अथवा स्वाध्याय विधि स्थल के
समान यहाँ भी विद्या-अवचन विद्या अर्थात् अर्थज्ञान का अवचन अर्थात् अविधान
असंयोगात् अर्थात् अर्थ सिद्ध होने से दोष नहीं है ।
आशय यह है कि स्वाध्यायविधि स्थल में जैसे अर्थ का ज्ञान विधि से बोधित नहीं
है, क्योंकि वह अर्थ सिद्ध है वैसे ही मन्त्र के उच्चारण स्थल में मी अनुष्ठेय अर्थ का
प्रकाशन अर्थ सिद्ध है । क्योंकि स्वाध्याय वेद के अध्ययन से सभी मन्त्र पढ़ने योग्य एवं
उनका अर्थबोध मी स्वारसिक है ॥ ४० ॥
सतः परमविज्ञानम् ॥ १.२.४१ ॥
शा० भा०—विद्यमानोऽप्यर्थः प्रमादालस्यादिभिर्नोपलभ्यते । निगमनिरुक्त-
व्याकरणवशेन धातुतोऽर्थः कल्पयितव्यः । यथा सृण्येव जर्भरी तुर्फरीतू इत्येव-
मादीन्यश्विनोरभिधानानि द्विवचनान्तानि लक्ष्यन्ते । अनेन 'अश्विनोः काममप्रा'
इत्याश्विनं सूक्तमवगम्यते । देवताभिधानानि च घटन्ते जर्भरीत्येवमादीनि ।
अवयवप्रसिद्ध्या च लौकिकेनाथेन विशेष्यन्ते । एवं सर्वत्र ॥ ४१ ॥
भा० वि०—अविज्ञानादित्युक्तमनुभाष्यं दूषयति—सत इति । तत्र पर
इत्यनुवादभागं व्याचष्टे—यत्त्विति । न ज्ञायत इत्यस्मादूर्ध्वमिति परं कारण-
मुक्तम्, तदयुक्तमिति वाक्यं पूरणीयम्, सतो विज्ञानमिति सूत्रावयवं व्याचष्टे—
विद्यमानोऽपीति । नोपलभ्येतेति शेषः । अतो नानुपलब्धिमात्रेणासत्त्वमिति
भावः ।
ननु लोके तेनाप्यप्रयुक्तपूर्वपदार्थस्य कथं सत्त्वावधारणमत आह—निगमेति ।
उपलक्षणमेतत् अर्थप्रकरणार्षसूक्तदेवतावशेन चेति द्रष्टव्यम्, तत्र तावत् सृण्येवेति
मन्त्रस्य सूक्तार्न्तर्गतत्वेन सूक्तदेवताविषयत्वं दर्शयितुं सूक्तदेवतां तावद्दर्शयति—
यथेति । कुत इत्यत आह—द्विवचनेति ।
ननु द्विवचनान्ततया द्वित्वाभिधायित्वेऽपि कथमश्विनोरभिधानं मित्रावरु-
णाद्यभिधानोपपत्तेरत आह—अनेनेति । अश्विनोः काममप्रा इत्यन्ते प्रत्यक्षात्
सङ्कीर्तनात् अश्विनामित्येव सूक्तं निश्चीयत इत्यर्थः ।
ननूक्तदेवतापरत्वेऽपि मन्त्रस्य कथं तदभिधानसामर्थ्यं पदानामत आह—
देवतेति । जर्भरी तुर्फरीतू इत्येवमादीति प्रकृतिप्रत्ययरूपार्थप्रसिद्धथैवेति निग-
२३२ मीमांसादर्शनम् [ सू०
मादयो दर्शिताः सृण्येव जर्फरी तुर्फरी तू नैतौ शेव तुर्फरी पूर्फरीका उदन्यजे वज-
मेनामदेरुतामे जरात्वजरम्मरात्यनेन मन्त्रेण भूतांशो नाम ऋषिरश्विनाव-
स्तुवत् तत्र सरणसाधनत्वात् सृणिरङ्कुशः तमर्हत इति सृण्यौ, गजौ, आकार-
श्चच्छन्दसि द्विवचनस्यादेशः ताविव जर्फरी जृम्भमाणौ प्रहरणव्यापृतौ तुर्फरीतू
हिंसन्तौ नितो शेवधस्तत्कारिणौ नैतोशौ योद्धारौ ताविव तूर्फरी त्वरमाणौ
पर्फरीका शोभायुक्तौ उदन्या पिपासा तेन यत्र चातकान्या [ना ?] मुदन्या, स
प्रावृट्कालो लक्ष्यते तत्र जातौ चातकाविव जेमना उदकवन्तौ तौ यथोदकला-
भेन मत्तौ भवतः, तथा यौ मदेरूतौ मे जरायु मरायु च जरामरणधर्मकं शरीर-
मजरममरं च कुरुतमति वाक्यशेषः, ततश्च जरामरणयोः कुपितावजरत्वस्याम-
रत्वस्य कुपितौ सन्तौ मम शरीरमजरममरं च कुरुतामिति वाक्यार्थः, एवं च
युक्तं देवताभिधानसामर्थ्यं पदानामिति भावः ।
नन्वर्थाभिधानेऽपि कथं विवक्षितार्थत्वं तत्राह—लौकिकेनेति । अविशिष्टस्तु
वाक्यार्थ इत्युक्तन्यायादित्यर्थः । उक्तन्यायं मन्त्रान्तरेऽप्यतिदिशति--एवमिति ।
अभ्यक् सात इन्द्र ऋष्टिरस्मे न सनम्यभ्यं मरुतो जुनन्ति अग्निश्चिद्धिष्मातसे
शुशुक्वानापो न द्वीपं दधति प्रयांसीत्यत्रैकया प्रतिधापिवत् साकं सरांसि त्रिशतं
इन्द्रस्सोमस्य काणुकेत्यत्र चेत्यर्थः, तत्र प्रथमया अगस्त्येनेन्द्रो मघवान् धनं
प्रार्थितः अम्यगित्यत्रामाशब्दोऽव्ययस्साहित्यवाची अमा साहित्येनाञ्जनि गच्छ-
तीत्यम्यक् सात इन्द्र ऋष्टिरायुधविशेषः कथं भूतेत्यपेक्षायां तृतीयपादान्वयः
यातसे शुष्कतृणे शुशुकवान् दीप्तवान् अग्निश्चिदग्निरिव सा त्वत्प्रसादादस्मे
अस्माकमित्यर्थः; हि स्मेति पादपूरणार्थः, येऽप्यमी मरुत सनेमि पुराणमभ्रं जलं
जुनन्ति वृष्टिरूपेण क्षिपन्ते आपोन । आपइव द्वीपमन्नाद्यानि दधति धारयन्ति, तव
प्रियसखास्तेऽप्यस्माकं एवं साधारणद्रव्यः सन्नपि रयिन्नः केवलं दा अस्माकमेव
देहीत्युत्तरमन्त्रेणान्वयः, एकयेत्यनया तु इन्द्रस्यैव स्तुतिः एकया प्रतिधा एकेन
प्रयत्नेन साकं यौगपद्येन सोमस्य पूर्णानि त्रिशतं सरांसि पात्राणि इन्द्रोऽपिबत्
काणुका कामयमानः कामुकशब्दस्य च्छान्दसो वर्णव्यत्ययः आकारश्च विभक्त्या-
देशः तदेवं सर्वत्राभियुक्तानाम् अर्थोत्प्रेक्षोपपत्तेः नानर्थक्यमित्यभिप्रायः ॥ ४१ ॥
त० वा०—यत्तू परं कारणमविज्ञेयत्वमुक्तम्, तदयुक्तम् । सत एवार्थस्य पुरुषा-
पराधेनाविज्ञानात् । तत्र चार्थप्रकरणसूक्तदेवताऋषि निगम निरुक्त व्याकरणज्ञानान्यधि-
गमोपायाः । तेषां ह्येवमर्थमेवं परिपालनम् । यथैव च व्याकरणेन नित्यपदान्वा-
ख्याने क्रियमाणे लोपविकारादीनामुपायत्वेनोपादानम्, अव्युत्पन्नाश्च तैरेव पदो-
त्पादनमिव मन्यन्ते । तथाऽत्र नित्यवाक्यार्थप्रतिपत्तावार्षोपाख्यानमनित्यवदा-
भासमानमुपायत्वं प्रतिपद्यते । तत्र यथा कश्चिद्व्याचक्षाणः पदतदवयवादीनां
चेतनत्वमिवाध्यस्य विशेषबाधादिव्यापारं निरूपयत्येतेनैवमुक्तोऽयमेवं प्रत्याहेति ।
४१ ] प्रथमाध्याये द्वितीयपादः २३३
यथा च पूर्वपक्षोत्तरपक्षवादिनी व्यवहारार्थं कल्पितौ, एवमृष्यार्षेयविषया
कल्पना ।
अथ वा परमार्थेनैवेदमृषिभिस्तथोक्तम्, न तु स मन्त्रस्तैरेव कृतः तदानीं वा
पुरुषान्तरेष्वसन्नेव तेषामाविर्भूतः । किं तर्हि ? यथाऽद्यत्वेऽपि कैश्चित्प्रकृतार्थ-
विवक्षायां तदर्थं वाक्यमुपादित्समानस्तदर्थसरूपं मन्त्रम्, श्लोकं वाऽन्यदीयं
स्मृत्वा स्ववाक्यस्थाने प्रयुङ्क्ते तत्प्रत्ययेन चान्ये तदर्थमवधारयन्ति, एवमिहापि
वेदार्थविद्भिस्तद्वासितान्तःकरणैर्भृग्वादिभिरात्मीयव्यवहारेषु श्रुतिसामान्यरूपेण
विशिष्टार्थप्रत्यायनार्थं मन्त्रा प्रयुक्ताः तद्वलेन चास्मदादीनां तदनुरूपाऽनित्यार्थ-
प्रतिपत्तिर्भवति । प्रत्ययदृढत्वार्थमेव चाऽऽर्षस्मरणम् ।
तत्रैवमुपाख्यानं स्मरन्ति यथा किल भूतांशो नाम कश्चिदृषिर्जरामरण-
निराकरणार्थी सृण्येवेत्येवमादिना सूक्तेनाश्विनौ स्तुतवान् भूतांशो अश्विनोः
काममप्रा इति चान्ते संकीर्तनात्, तस्याऽऽर्षमाश्विनं सूक्तमिति च द्योतितम् ।
तत्र सृणिरङ्कुशः सरणसाधनत्वात्तमर्हन्तौ, तत्र वा साधू इति सृण्यावर्त्ता-
त्कुञ्जरौ । आकारश्छन्दसि द्विवचनादेशः । ताविवात्यर्थं जृम्भमाणावष्टाङ्ग-
प्रहरणव्यापृतौ जर्भरी । तुर्फरीतू-हिंसन्तौ । नितोशतिर्वधकर्मा तत्कारिणौ
नैतोशौ-योद्धारौ ताविव तुर्फरी-त्वरमाणौ, हिंसकाविति वा । पर्फरीका-
शोभायुक्तौ । उदन्यतिः पिपासार्थः, तत्र जातौ, उदन्यजौ प्रावृषिजो चातको
जेमना-उदकवन्तौ जेमशब्दात्पामादिविहितो मत्वर्थीयो नप्रत्ययः । तौ यथौद-
कलाभेन मत्तौ भवतः तथा यौ मदेरू, तौ मे जरायमरायु जरामरणधर्मकमर्था-
च्छरीरमजरममरं च कुरुतामिति वाक्यशेषः ।
तेनैवं वाक्यार्थो यावङ्कुशचोदिताविव कुञ्जरौ सर्वतो जृम्भमाणौ शत्रूणां
निहन्तारौ भवतः, हिंसाविव च हिंसनव्यापृतौ दाक्ष्येण च शोभेते चातकाविव
चोदकलाभेन मदात्प्रीयेते, तावुभावपि जरामरणयोः कुपिताविवाजरत्वस्या-
मरत्वस्य वा प्रीतावजरममरं मे शरीरं विधत्तामिति ।
“अम्यक्सा त” इत्यगस्त्यार्षं तेन किलेन्द्रोऽमरत्वं धनं प्रार्थितः तथा
चोपरितन्यामृचि .“त्वं तू न इन्द्र तं रयिं दा” इति श्रूयते । तदेवास्यामृच्यनु-
षङ्गेण द्रष्टव्यम् । इयं च च्छन्दोमद्वितीयेऽहनि मरुत्वतीये शस्त्रे विनियुक्ता ।
तत्राम्यगित्यमाशब्दोऽव्ययं साहित्यवाची । यतोऽमात्य इति भवति, सहाञ्च-
तीत्यम्यक्सा त इन्द्र, ऋष्टिरायुधविशेषः पाणिक्षेप्यः, अस्मे इति—अस्माकं
सनेमि—पुराणम् । अम्रं—तोयं मरुतो जुनन्ति—क्षिपन्ति । अग्निश्चिदित्युप-
मार्थो हि स्म, अतसे-शुष्क तृणे शुशुक्वान्—दीप्तवान् आप इव द्वीपं दधति
पयांसि—अन्नाद्यानि । वाक्यार्थे तु प्रथमतृतीयोर्द्वितीयचतुर्थयोश्च पदानां
सम्बन्धः । तत्र सेत्येतदाक्षिप्तो यच्छब्दस्तृतीयपादे कल्प्यते । शुष्कतृणे
२३४ मीमांसादर्शनम् [ सू०
दीप्तोऽग्निरिव या लक्ष्यते तव सहचारिणी नित्यमृष्टस्तव वल्लभा सा, तावत्त्व-
त्प्रसादेनास्माकमेव । येऽप्यमी पुराणं जलं वृष्टिरूपेण विक्षिपन्त आप इव
द्वीपमन्नाद्यानि धारयन्ति तव प्रियसखास्तेऽप्यस्माकमेव स त्वमेवं साधारणद्रव्यः
सन्नभरत्वं न केवलं देहि ।
एकया प्रतिधाऽपिवदितीन्द्रस्यैव स्तुतिः । एकेन प्रयत्नेनापिबत्साकं --
यौगपद्येन, सरांसि-पात्राणि सोमस्य पूर्णानि इन्द्रः काणुका-कामयमानः-
कामुकशब्दस्य च्छान्दसो वर्णव्यत्ययः आकारस्तु विभक्त्यादेशः ।
अथ वा कान्तकानीत्यादयो निरुक्तोक्ताः काणुकाशब्दविकल्पा योजनीयाः ।
तदेवं सर्वत्र केनचित्प्रकारेणाभियुक्तानामर्थोत्प्रेक्षोपपत्तेः प्रसिद्धतरार्थाभावेऽपि
वेदस्य तदभ्युपगमात्सिद्धमर्थवत्त्वम् ॥ ४१ ॥
न्या० सु० - सूत्रव्याख्यानार्थं विद्यमानेऽपीति भाष्यं व्याचष्टे-यस्त्विति । लोकाप्रयुक्त-
पदार्थस्य केनापि ज्ञातुमशक्यत्वात्कथं सत्त्वावधारणेत्याशङ्क्य निगमेत्यादिभाष्यकृतोक्तम्,
तद्व्याचष्टे-तन्न चेति । अर्थः - सामर्थ्यम्, पदान्तरसामानाधिकरण्याधियोग्यता, प्रकरणम्
प्रक्रमः । तयोः सर्वत्र लोकवेदयोरर्थज्ञानोपायत्वं प्रसिद्धम् । सूक्तं देवताज्ञानमव्यक्त-
लिङ्गायामृचि देवताज्ञानहेतुत्वेनार्थज्ञानोपायः । आर्षज्ञानस्याहं मनुरभवं सूर्यश्चेत्यादावस्मद-
र्थज्ञानहेतुत्वेनार्थज्ञानोपायत्वम् । निगमादेरपि प्रसिद्धमेवार्थज्ञानोपायत्वम् । सूक्तदेवतादिस्मर-
णाददर्शनाच्चैषामर्थज्ञानोपायत्वं विदुषामभिमतमिति निश्चीयत इत्याह - तेषां हीति ।
ननु स्वार्थज्ञानस्योपायत्वे भूतांशो नाम ऋषिर्जरामरणनिरासायाश्विनौ तुष्टावेत्येव-
मार्षस्योपाख्यानादनित्यसंयोगेऽनित्यत्वं वेदस्यापद्येत, अत आह- यथैवेति । ननु लोपविका-
रादीनामुपायमात्रत्वेनापारमार्थिकत्वात्पदानित्यत्वापादकत्वन्न जातम्, आर्षे तु कथमित्या-
शङ्कयार्षस्याप्युपायत्वेनाङ्गीकारेण तत्परिहारमाह-तन्नेति । पारमार्थिकत्वेऽपि वा मन्त्रा-
णामृषिकृतत्वाभावात्प्रयोगस्य च प्रवाहरूपेण सर्वदा सद्भावान्न वेदानित्यत्वापादकत्व-
मित्यह- अथ वेति ।
ननु वृद्धव्यवहारावगतपदार्थानुसारेणैव मन्त्रार्थवगतिसम्भवान्नास्मदादीनां ऋषिप्रत्य-
क्षबलेन मन्त्रार्थप्रतिपत्तिरित्याशङ्कयाह-प्रत्ययेति । आर्षस्मरणादेरदर्शनात् ऋषिसम्प्रदाया-
नुसारेणैव मन्त्रार्थतत्त्वावधारणं भवति नान्यथेति भावः ।
सृण्येव जर्भरी तुर्फरीतू नैतो शेव तुर्फरीपर्फरीका उदन्यजेव जेमना मदेरुता मे जरा-
स्वजरं मरायु' इति मन्त्रार्थतत्त्वावधारणायार्षोपाख्यानं दर्शयति - तत्रेति । अस्या ऋचः
सूक्तादित्वाभावात् उमा उ नूनं तद्विदशंयेथे इत्यादिनेकादशर्चेन सूक्तेन सृण्येवेत्यादिनो-
पमानरूपेणाश्विनौ स्तुतवानिति व्याख्येयम् । भाष्यकारेण च द्विवचनान्तत्वादश्विनोर-
भिधानानीत्युक्त्वा मित्रावरुणादिष्वपि द्विवचनोपपत्तेः कथमश्विपरत्वनिर्णय इत्याशङ्का-
निराकरणायाश्विनोः काममित्युक्तम् । तद्व्याचष्टे - भूतांश इति । मन्त्रव्याख्यापरतया
देव ताभिधानानि चेत्यादिभाष्यं व्याख्यातुमाह - तत्रेति । चत्वारः पादा द्वौ दन्तौ शुण्डा
४१ ] प्रथमाध्याये द्वितीयपाद। २३५
च पुच्छं वेत्यष्टावङ्गानि कस्यचिज्जन्तोः पिपासायामनुत्पत्तेस्तत्र जातावित्युक्तमाशङ्क्य
चातकयोः पिपासाकालः प्रावृडिह लक्ष्यत इति प्रावृषि जातावित्युक्तम् । कथं जेमनशब्दे-
नोदकवत्त्वमुच्यत इत्याशङ्क्योदकवाचिनो जेमशब्दस्य पामादिषु पाठाल्लोमादिपामादि-
पिच्छादिभ्यः शनेलच इति यथासंख्यन्यायेन पामादिभ्यः परो विहितो नप्रत्ययो जेमश-
ब्दात्परो भवतीत्युक्तम् । मे इतिषष्ठ्याः शरीरसम्बन्धजनितत्वं दर्शयितुं मे शरीर-
मित्यक्तम् । पदार्थान्व्याख्याय वाक्यार्थं व्याचष्टे—तेनेति ।
एवं सर्वत्रेति भाष्येणोत्तरयोरपि मन्त्रयोः सूचितां व्याख्यां वक्तुम् ।
अम्यक्सात इन्द्रऋषिरस्मे सनेम्यश्वं मरुतो जुनन्ति ।
अग्निश्चिद्धिष्माऽतसे शुशुक्वानापोन द्वीपं दधति प्रयान्सीत्येतस्यां ऋच्यार्षोपाख्यानं
तावद्दर्शयति-अम्यगिति मरुत्वद्गुणकस्येन्द्रस्य देवतात्वं वक्तुं विनियोगं दर्शयति—इयं
चेति । छन्दोमसंज्कानां त्रयाणामह्नां मध्ये द्वितीयेऽह्नि महत्वतीयसंज्ञके शस्त्रे 'महसि त्वमिन्द्र
यत एतानीति सूक्तमिति श्रुत्या विनियुक्तेत्यर्थः । पदार्थांस्तावद्व्याचष्टे तत्रेति अकारस्य
छान्दसवर्णेप्रत्ययेनैकारादम्यगिति रूपसिद्धिः चिच्छब्दस्यैवार्थे प्रयोगादुपमानार्थत्वम् ।
हिस्मेतिपदयोः पदपूरणार्थत्वादर्थाकथनम् । नकारस्येवार्थत्वकथनायाप इवेत्युक्तम् ।
द्वीपं पुलिनम् । वाक्यार्थं व्याख्यातुमाह—वाक्यार्थे त्विति । दीपमन्नाद्यानि चेति चकारोऽत्र
कल्पः ।
एकया प्रतिधापि वत्साकं सरांसि त्रिशतं इन्द्रः सोमस्य काणुकेत्यृचं व्याचष्टे—
एकयेति । कान्तं-प्रियम्, कनुदकं सोमं रसात्मकं येषु तानि कान्तकानि । सर्वत्र शब्दसूचितां
मन्त्रान्तरव्याख्यां दर्शयित्वा भाष्यं व्याचष्टे—तदेवमिति ॥ ४१ ॥
भा० प्र०—सतः = विद्यमान अर्थ का, अविज्ञातं = न जानना, परम् = मूल ।
'स्तृण्येव' इत्यादि मन्त्र का भी अर्थ है, किन्तु वह दुर्बोध होने से साधारण जन के मध्य
में अप्रचलित होने पर पूर्व पक्षी ने नहीं जाना ।
आशय यह है कि 'स्तृण्येव जर्भरी, अम्यक् सा' इत्यादि मन्त्र का अर्थ ही नहीं है—
इस प्रकार की आपत्ति की गई है, वह सङ्गत नहीं है । क्योंकि इन मन्त्रों का भी अर्थ
होता है । किन्तु यह प्रमाद आलस्य आदि के कारण साधारण लोगों को अवगत नहीं
होता है । क्योंकि निगम, निरुक्त एवं व्याकरण की पर्यालोचना कर इसका अर्थ जानना
चाहिए । इन मन्त्रों का पूर्णरूप और अर्थ निम्नलिखित है ।
स्तृण्येव जर्भरी तुर्फंरोतू नैतोशेव तुर्फरी . पर्फरीका ।
उदन्यजेव जेमना मदेरू ता मे जरायु मरं मरायु ॥
—(ऋग्वेद १०।१०६।६)
स्तृण्या इव = अङ्कुश के द्वारा ताडन के योग्य दो गजों के समान, जर्भरी = विक्रम
दिखाने वाले, तुर्फरी = हिंसा करने वाले, नैतोशा = शत्रु को वध करने वाले गजद्वय
२३६ मीमांसादर्शनम् [ सू०
के समान, तुर्फरी = त्वरायुक्त अर्थात् शीघ्रता से शत्रु का वध करने वाले, पर्फरीका =
शोभायुक्त, उदन्यजा इव = वर्षाकालीन चातकद्वय के समान, जमना = जलयुक्त अर्थात्
जल प्राप्त कर, मदेरू = मत्त अर्थात् आनन्दित, ता = वे अश्विनीकुमार, जरायमरायु =
जरामरणशील अर्थात् शरीर, अजरम् = जराहीन (करे) । स्तृण्या, नेत्याशा, उदन्यजा,
जेमवा, एवं ता में द्विवचन, औ के स्थान में वैदिक नियम के अनुसार आ हो गया ।
आशय यह है- अङ्कुश से प्रेरित दो हाथियों के समान जो अतिशय पराक्रम को
व्यक्त कर शीघ्रतायुक्त हाथ से शत्रुओं का नाश कर कुशलता के कारण शोभायमान
हो रहे हैं, एवं चातक जिस प्रकार जल को प्राप्तकर आनन्दित होता है, वे भक्तों के
प्रति उसी प्रकार प्रसन्न होते हैं, वे अश्विनीकुमारद्वय हमारे इस जरामरणशील शरीर को
अजर और अमर करें। भूतांश नामक ऋषि इस मन्त्र से अश्विनीकुमारद्वय की
स्तुति कर रहे हैं।
अभ्यक् सा त इन्द्र ऋष्टिरस्मे सनेम्यमूं मरुतो जुनन्ति ।
अग्निश्चित्द्धि स्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥ (१।१६९।३)
अभ्यक् = सहचारी, सा = वह प्रसिद्ध, ते = तुम्हारा, इन्द्र = हे इन्द्र, ऋष्टिः =
अस्त्र विशेष या वस्त्र, अस्मे = हम लोगों का, सनेमि = पुराण (सञ्चित) अमूं = जल,
मरुतः = वायु, (इन्द्र का वाहन पर्जन्य) जुनन्ति = निक्षिप्त करता है या वृष्टि करता है,
अग्निःचित् = अग्नि के समान, हि स्मे = पादपूरणार्थक अव्यय, अतसे = शुष्कतृणे,
शुशुक्वान् = दीप्यमान, आपः = जल, द्वीपम् = द्वीप को, दधति = धारण करता है,
प्रयांसि = अन्न (शस्यादि) ।
आशय यह है—हे इन्द्र ? शुष्कतृणपुञ्ज में प्रदीप्त अग्नि जैसे शोभा प्राप्त करती
है, तुम्हारा नित्य सहचारी वज्र, वह भी उसी रूप में बाधारहित हो शोभा प्राप्त करता
है, एवं वह तुम्हारा अत्यन्त प्रिय वज्र तुम्हारी कृपा से हमलोगों का उपकारक है।
और वह आकाश में चिर सञ्चित जल को वृष्टि के रूप में निक्षिप्तकर जल जैसे द्वीप
को धारण करता है, वैसे ही हमलोगों के अन्न (शस्यादि) को धारण करता है । तुम्हारा
प्रिय मित्र मरुत् अर्थात् पर्जन्य हमलोगों का ही उपकारक है। इस मन्त्र के ऋषि अगस्त्य
है, इस मन्त्र से उन्होंने इन्द्र की स्तुति की है ॥ ४१ ॥
उक्तश्चानित्यसंयोगः ॥ १.२.४२ ॥
शा० भा०—परं तु श्रुतिसामान्यमात्रमित्यत्रेति ॥ ४२ ॥
भा० वि०—अनित्यसंयोगप्रसङ्गं परिहरति—उक्तश्चेति। प्रत्युक्तः-परिहृत
इत्यर्थः, कुत्र परिहृत इत्यपेक्षायां पूरयन् व्याचष्टे—परमिति । एवं श्रुतिसामान्यं
यजमानः प्रार्थयिता इन्द्रश्च प्रार्थ्यमानोऽन्यम (अनित्याः) एव कीकटाः कृपणाः
४२ ] प्रथमाध्याये द्वितीयपादः २३७
प्रमगन्दः कुसीदवृत्तिः प्रकर्षेण धनं मामागमिष्यतीति एवं ददातीति प्रमगन्द.,
नीचाशाखः = षण्ढः तदीयं धनं नैचाशाखं तत्सर्वमयज्ञाङ्गभूतं तेषां कर्मण्यप्रवृत्तेः
तदस्माकमाहरेति ॥ ४२ ॥
त० वा०—परं तु श्रुतिसामान्यमात्रमिति । यजमानस्तावत्प्रार्थयिता, इन्द्रश्च
प्रार्थ्यमानः सर्वदाऽस्ति । कीकटा नाम यद्यपि जनपदाः तथाऽपि नित्याः ।
अथ वा सर्वलोकस्थाः कृपणाः कीकटाः । प्रमगन्दः—कुसीदवृत्तिः । स हि
प्रभूततरमागमिष्यतीत्येवं ददाति । नीचाशाखः—षण्ढः तदीयं धनं नैचा-
शाखम् । तच्च सर्वमयज्ञाङ्गभूतम्, तेषां कर्मण्यप्रवृत्तेः तदस्माकमाहरेति । शेषं
गतार्थम् ॥ ४२ ॥
न्या० सु०—यस्त्वनित्यसंयोगः शङ्कितः, स परं तु श्रुतिसामान्यमित्यत्र सूत्रे
प्रत्युक्त इति । सूत्रव्याख्यानार्थं परं त्विति भाष्यं व्याचष्टे—परमिति । श्रुतिसामान्यमात्रतां
दर्शयति—यजमानस्तावदिति । प्रमगन्दनैचाशाखशब्दयो राजनगरविशेषसंज्ञत्वे सत्यनित्य-
संयोगापत्तेरन्यथा व्याख्यानम् ॥ ४२ ॥
भा० प्र०—उक्तः = कह दिया गया है, अर्थात् दे दिया गया है। च = और,
अनित्यसंयोगः = अनित्य संयोग अर्थात् अनित्य या नश्वर अर्थ के साथ वाचकता
संयोग । जन्ममरणशील अर्थ के साथ मन्त्र का वाचकता सम्बन्ध रहने से मन्त्रार्थ विवक्षित
होने पर वह अनित्य है, अतः अप्रमाण होता है, इस प्रकार की आपत्ति का निराकरण
किया है अर्थात् पूर्वपाद में उसका उत्तर दे दिया गया है।
आशय यह है कि—मन्त्रों का स्वार्थ विवक्षित नहीं है, यह प्रतिपादन करने के
लिए पूर्वपक्षी ने अनित्यसंयोगात् (१।२।११) इस सूत्रांश में 'किं ते कृण्वन्ति कीकटेषु
गावः' इत्यादि मन्त्रों के दृष्टान्त में आपत्ति का उत्थापन कर कहा है कि मन्त्रों का स्वार्थ
विवक्षित होने पर 'कीकट' नामक जनपद, नैचाशाख नामक नगर एवं प्रमगन्द नामक
राजा आदि अनित्य जन्ममरणशील अर्थ के वाचक हैं, अतः मन्त्र अनित्य अर्थात् पौरुषेय
एवं अप्रमाण हो जायगा, किन्तु यह कथन ठीक नहीं है, क्योंकि इन सभी मन्त्रों में जन्म-
मरणशील अनित्य वस्तु के विषय में नहीं कहा गया है। "परं तु श्रुतिसामान्यमात्रम्"
(मी० १।१।३१) इस सूत्र में प्रतिपादन किया गया है। वस्तुतः वेद में जिस रूप में
कहा गया है, उसके अनुरूप घटना हुई थी यह कहने पर भी कोई असम्भव बात नहीं
कही गई है, क्योंकि आज के समय में भी इस प्रकार की अनेक घटनाएँ घटित होती हैं,
जो किसी की उक्ति या भविष्यवाणी के अनुरूप रहती हैं।
आचार्य कुमारिलभट्ट ने तन्त्रवार्तिक में कीकट शब्द का अर्थ निर्देश करते हुए लिखा
है कि कीकट = कृपण । प्रमगन्द = कुसीदवृत्ति । नीचशाख = षण्ढ, (नपुंसक) उसका धन
नैचाशाख है, अर्थात् नपुंसक का धन । इन अर्थों को कहने वाले इन शब्दों का जनन-
सूत्रं व्याचष्टे—आग्नेय्येति, लिङ्गेनेति । अग्निना देवतया लिङ्गेनेत्यर्थः ।
२३८ मीमांसादर्शनम् [ सू०
मरणशील मनुष्य के साथ सम्बन्ध नहीं है । इसलिए मन्त्र के द्वारा जन्ममृत्युयुक्त मनुष्य
की चर्चा नहीं की गई है, अतः अप्रमाण नहीं है ॥ ४२ ॥
लिङ्गोपदेशश्च तदर्थवत् ॥ १.२.४३ ॥
शा० भा०—आग्नेय्याऽग्नीध्रमुपतिष्ठत इति विधानाद्विवक्षितार्थानामेव
मन्त्राणां भवति लिङ्गेनोपदेशः । यदि तेऽग्निप्रयोजनाः, ततस्त आग्नेय्या,
नाग्निशब्दसंनिधानात् ॥ ४३ ॥
भा० वि०—एवं तदर्थशास्त्रादीनि पूर्वपक्षलिङ्गानि परिहृत्य सिद्धान्ते लिङ्गत्रयं
दर्शयितुं सूत्रत्रयं तेषां मन्त्राणामर्थो यथास्ति तथा लिङ्गोपदेशो भवति इत्याद्यं
सूत्रं व्याचष्टे—आग्नेय्येति, लिङ्गेनेति । अग्निना देवतया लिङ्गेनेत्यर्थः ।
नन्वविवक्षितार्थत्वेऽप्यग्निशब्दसन्निधानमात्रेणाग्निलिङ्गत्वमुपपत्स्यते तत्राह
—अग्नीति । तत्प्रयोजनत्वं तत्प्रकाशकत्वं त्वां हि मन्द्रतममर्कशोकैरित्यादाव-
नेकदेवतापदप्रयोगेऽप्येकदेवत्यत्वव्यपदेशादित्याशयः ॥ ४३ ॥
त० वा०—आग्नेय्येत्यग्निना देवतया, लिङ्गेन तदभिधानसामर्थ्येन वा य
उपदेशः स तदर्थार्हतां मन्त्रस्य द्योतयति । देवताताद्धितो ह्येष स्मर्यते, यं
चार्थप्राधान्येन मन्त्रः प्रकाशयति, सा तस्य देवता, नाभिधानमात्रेण ।
एकदैवत्येऽपि मन्त्रेऽनेकदेवतान्तरपदप्रयोगे सति तद्दैवत्यव्यपदेशाभावात् ।
प्राधान्याभिधानं च नार्थपरत्वेन विनोपपद्यते ॥ ४३ ॥
न्या० सु०—तदर्थशास्त्रादीनि पूर्वपक्षलिङ्गानि परिहृत्य, सिद्धान्ते लिङ्गत्रयं
दर्शयितुं सूत्रत्रयम् । तत्र तेषां मन्त्राणामर्थो यथाऽस्ति, तथा लिङ्गोपदेशो भवतीति,
सूत्रव्याख्यानार्थमाग्नेय्येति भाष्यं व्याचष्टे-आग्नेय्येति । लिङ्गशब्दस्य सामर्थ्यं मीमांसकानां
प्रसिद्धत्वात्तद्धितप्रतिपादिताग्निदेवत्यत्वकल्पितं देवताभिधानसामर्थ्यं लिङ्गशब्देन विवक्षि-
तमिति व्याख्यानान्तरं लिङ्गशब्दस्योक्तम् । तृतीया चेत्थंभूतलक्षणार्था ।
नन्वविवक्षितार्थत्वेऽप्यभिधानमात्रेणाग्निलिङ्गत्वमुपपत्स्यते, अत आह—देवतेति । ननु
देवतात्वमप्यभिधानमात्रेण सेत्स्यत्यत आह—यं चेति । एकदेवत्ये मन्त्रे त्वां हि मन्द्रतम म-
र्कशोकैरित्यादावनेकेन्द्रवाय्वादिदेवतान्तरपदप्रयोगे सत्यप्यनेकदेवत्यव्यपदेशाभावादित्यर्थः ।
नन्वस्तु नामाऽत्राग्नेः प्राधान्येनाभिधानम्, तात्पर्यं तु नास्तीत्याशङ्क्याह प्राधान्येति ॥४३॥
भा० प्र०—लिङ्गोपदेशः = लिङ्ग के द्वारा अर्थात् अर्थ के ज्ञापक साधन से उपदेश
अर्थात् विधि है । च = क्योंकि, तत् = वह अर्थात् मन्त्रवाक्य, अर्थवत् = सार्थक
या विवक्षित अर्थ को कहने वाला है । क्योंकि, श्रुतियों में मन्त्र का लिङ्ग अर्थात् अर्थ के
ज्ञापक हेतु से कर्म की विधि कही गई है, अतः मन्त्रवाक्य अर्थवान् है अनर्थक नहीं है,
वरन् सार्थक या विवक्षितार्थक है ।
४४ ] प्रथमाध्याये द्वितीयपादः २३९
आशय यह है कि पूर्वंकथित सूत्रों में यह आपत्ति दी गई है किन्तु प्रकृत में सिद्धान्त
के अनुकूल युक्तियों का प्रदर्शन किया जा रहा है—लिङ्गोपदेशः इत्यादि। मन्त्र विव-
क्षित अर्थ को कहने वाले हैं, क्योंकि, स्थल-स्थल में मन्त्र के अर्थ का उल्लेख कर कर्म
की विधि कही गई है। जैसे "आग्नेय्या आग्नीध्रमुपतिष्ठते", आग्नेयी ऋचा के द्वारा
आग्नीध्र अर्थात् आग्नीध्र का जो स्थान उसका उपस्थान = संस्कार या पूजा करनी
चाहिए—इस प्रकार की एक विधि है, इस स्थल में "अग्ने नय" आदि मन्त्र से उप-
स्थान करें—यह न कह कर आग्नेयी ऋचा के द्वारा करें—यह कहा गया है। अग्नि
जिसका देवता है वही आग्नेयी ऋक् है। इस मन्त्र में अग्नि का ही विषय प्रधान
रूप से वर्णित है या नहीं यह अवगत नहीं होता है, इसलिए, यह कहना पड़ेगा कि
मन्त्र का अर्थ विवक्षित है। अतः मन्त्र अनर्थक नहीं है, अपितु विवक्षित अर्थ को कहने
वाले हैं—"आग्नेय्या अग्नीध्रमुपतिष्ठते" इत्यादि विधि ही इसका लिङ्ग .या ज्ञापक
है। ।। ४३ ।।
ऊहः ।। १.२.४४ ।।
शा० भा०—ऊहदर्शनं च विवक्षितार्थानामेव भवति । किमूहदर्शनम् ? 'न
पिता वर्धते न मातेति । अन्ये वर्धन्त इति गम्यते । प्रत्यक्षं कौमारयौवनस्था-
विरैर्वर्धन्ते मात्रादयः । शब्दो न वर्धत इति ब्रूते । का पुनः शब्दस्य वृद्धिः ?
यद्विवचनबहुवचनसंयोगः ॥ ४४ ॥
भा० वि०—ऊह इत्येतत्पूर्वसूत्राच्चशब्दमर्थवच्छब्दं चादाय व्याचष्टे—
ऊहदर्शनं चेति ।
ननूहः कार्यं इति वचनादर्शनात् किमूहदर्शनमिति पृच्छति—किमिति, ऊह-
प्रतिषेधकवाक्यस्य प्राप्तिमन्तरेणायोगात् मात्रादिविशेषोपादानेन शब्दान्तरे
प्रतीतेश्चास्त्येवोहदर्शनमित्याह—न मातेति ।
ननु मात्रार्थस्यैव वृद्धिप्रतिषेधात् कथं शब्दान्तरोहप्रापकत्वं तत्राह—
प्रत्यक्षमिति । अर्थवृद्धेः प्रत्यक्षत्वेन प्रतिषेद्धुमशक्यत्वाच्छब्दवृद्धेरेव प्रतिषेध
इत्यर्थः ।
ननु वर्णेषु स्थौल्यादेरसम्भवात् कथं वृद्धिरिति पृच्छति—का पुनरिति ।
उत्तरं—यद्विवचनेति । अर्थाधिक्येन द्विवचनादिसंयोग एव वृद्धिः, न पुनः स्थो-
ल्यादिरिति भावः ॥ ४४ ॥
त० वा०—ऊहदर्शनं 'न माता वर्धत' इति । अर्थे च पुष्ट्यादिवृद्धेः
प्रत्यक्षत्वात्प्रतिषेधासंभवादानर्थक्यात्तदङ्गेष्विति शब्दे विज्ञायते । तत्रापि
स्थौल्यादिवृद्ध्यसंभवादधिकार्थवाचित्वेन द्विवचनबहुवचनयोः प्रतिषेधः । स
Here is the accurate transcription of the scripture page into pure Markdown:
२४० मीमांसादर्शनम् [ सू०
चार्थपरत्वे सर्वपशुविशेषणमात्राद्युपादित्सायां सत्यामवकल्पते । या चान्यपद-
वृद्धिसद्भावप्रतीतिरियं च अर्थपरत्वेऽवकल्पत इति । यद्यपि मातृप्रभृतीनां
पारार्थ्यात्संबन्धिभेदादेव च भेदसिद्धेरनूह्यत्वं सदेवानुवदति; तथाऽपि न्यायाव-
गतानूहसंकीर्तनानन्यायरहितेषूहसंप्रत्ययात्प्रकृतौ विवक्षितार्थता विज्ञायते ।
अन्यथा तु तददृष्टम् विकृतेरेव साध्येत । तथा यद्यप्यन्यदैवत्यः पशुराग्नेय्येवमनोता
कार्येत्यूहप्राप्तिदर्शनम्, एवमुक्ष्णां वपानामित्येवमादीनां यथार्थमूहितानामेवाऽऽ-
म्नानमपि विवक्षितार्थं भविष्यति । इतरथा प्राकृतपदत्यागे, अन्यकल्पने
चादृष्टद्वयं कल्प्येत ॥ ४४ ॥
न्या० सु०—भाष्यकारेणोहश्च तदर्थवदिति पूर्वसूत्रगतपदद्वयानुषङ्गेणेदं सूत्रमूह-
•दर्शनं चेत्येनेन व्याख्याय वेदे क्वचिदूहः कार्यं इत्यश्रवणात्किमहदर्शनमिति पृष्टे न माता
वर्द्धते न पितेत्यूहप्रतिषेधस्यैवाप्राप्तप्रतिषेधायोगेनॊहप्रापकत्वात् मात्रादिविशेषोपादान-
सामर्थ्येन वा शब्दान्तरोहप्रतीतेरूहदर्शनमित्युत्तरे दत्ते, मात्राद्यर्थस्येह वृद्धिप्रतिषे-
धात्कथं शब्दोहप्रापकत्वमित्याशङ्कानिराकरणार्थं वृद्धेः प्रत्यक्षत्वेन प्रतिषेद्धुमशक्यत्वाच्छ-
ब्दवृद्धिप्रतिषेध इति प्रत्यक्षमिति भाष्येणोक्तम् तद्वयाचष्टे-ऊहदर्शनमिति । शब्दवृद्धेरपि
वर्णान्तरोपजननादिनोपपत्तेः । तस्यार्थपरत्वेऽपि वचनमन्तरेणासेनं सिद्धान्तलिङ्गत्वमिति
प्रतिपादनार्थं का पुनरिति भाष्येण पृष्ट्वा, यत् द्विवचनबहुवचनसंयोग इत्युक्तम् । तद्वयाचष्टे-
तत्रापीति । वर्णान्तरोपजनने पदान्तरत्वापत्तेरपदत्वापत्तेर्वा तत्पदवृद्धचसम्भवात्स्थो-
ल्यादेश्च नादधर्म्मत्वेन वर्णेष्वसम्भवाद् द्विवचनबहुवचनान्तत्वेनाधिकार्थद्वारा शब्दवृद्धि-
रूहात्मिकेह प्रतिषिद्ध्यत इत्यर्थः ।
ऊहदर्शनस्य सिद्धान्तलिङ्गत्वं भाष्योक्तमुपपादयति-स चेति । प्रसक्तत्वादिति भावः ।
मात्रादिशब्दोहदर्शनस्य सिद्धान्तलिङ्गत्वमुपपाद्य, शब्दान्तरोहदर्शनस्योपपादयति-या चेति ।
अर्थपरत्वे च कल्प्यते इत्यनुषङ्गः । नन्विडा निगदगतयज्ञपतिशब्दवन्मात्रादीनां परार्थ्याद-
परार्थ्येऽपि चैकैकमात्रादिसम्बन्धे पशुभेदोऽपि मात्रादिशब्दोहस्यानाशङ्क्यत्वान्मात्रादिभेदे
ऽप्येकपशुसंबन्धाभावात् संबन्धिभेदेनैव भेदसिद्धेः न्यायादेवानूहावगतेः प्रतिषेधायोगात्कथं
तद्बलेनोहप्राप्तिरत आह-यद्यपीति । न्यायसिद्धानुवादस्यापि प्रयोजनापेक्षायां न्यायरहि-
तेषूहप्राप्तिरेव प्रयोजनमवसीयत इति भावः । अविवक्षितार्थत्वेन सिद्ध्येदित्याह
अन्यथेति ।
ऊहदर्शने स्वयमुदाहरणन्तरमाह-तथेति । त्वं ह्यग्ने प्रथमो मनोतेति मनोतासूक्तस्य
वायव्ये पशावतिदेशप्राप्तस्योहः प्रसक्तोऽनेन वचनेन वार्यंते । उदाहरणन्तरमाह-एवमिति ।
गवादिपशुके अतिदेशप्राप्तस्य 'छागस्य वपाया मेदसो ऽनुब्रूहीति मन्त्रस्योहप्रसक्तौ
उक्षादिपदयुक्तस्यार्थपरत्वे छागपदस्थानेऽस्य प्रयोगपाठः अपर्यायान्तरनिवृत्यर्थः अर्थवान्
भविष्यतीत्यर्थः । नन्वर्थपरत्वेऽप्युक्षादिपद नियमस्यादृष्टार्थपरिहारात् केन विशेषेणाविव-
क्षितार्थता निराक्रियते इत्याशङ्क्य अविवक्षितार्थे कल्पनागौरवमाह-इतरथेति ॥ ४४ ॥
४५ ] प्रथमाध्याये द्वितीयपाद। १४१
आ० प्र०—ऊहः = पद का अध्याहार मन्त्र का अर्थ विवक्षित है—इसका
ज्ञापक है।
आशय यह है—मन्त्र का अर्थ विवक्षित है, इसका कारण 'ऊह' है। प्रकृतिभूत
कर्म में जो मन्त्र पढ़े गये हैं, विकृतिभूत कर्म में भी स्थल विशेष में उसी मन्त्र के पद
की विभक्ति, वचन आदि का परिवर्तन कर पाठ किया गया है। क्योंकि, प्रकृति के
अनुरूप पाठ करने पर वह मन्त्र विरुद्ध अर्थ का प्रतिपादन करेगा। जैसे प्रकृतिभूत
एक पशु से सम्पन्न होने वाले यज्ञ में पशु के संस्कार के समय में "अन्वेनं माता मन्यता-
मनु पिता नु भ्राता" (मै० सं० ४।१३।४) अर्थात् इसकी माता इसको अनुमति दे,
इसका पिता एवं भाई अनुमति दे । किन्तु विकृतिभूत अनेक पशुओं से साध्य याग में
'एनम्' के स्थान पर एनौ पद 'एनान्' पद देकर अन्वेनम् के स्थान पर 'अन्वेनौ' अन्वे-
नान् करना पड़ेगा। यह परिवर्तन करना ही ऊह है। यह " न पिता वर्द्धते, न माता",
इस ब्राह्मण वाक्य से निर्णय होता है। क्योंकि, यह ब्राह्मणवाक्य माता पिता आदि की
वृद्धि अर्थात् इन पदों के आगे द्विवचन और बहुवचन के प्रयोग का निषेध करता है।
अतः, अवशिष्ट 'एनम्' इस पद में द्विवचन और बहुवचन के प्रयोग की सूचना देता है।
यदि मन्त्र का अर्थ विवक्षित न होता तो 'एनम्' आदि में 'ऊह' का कोई प्रयोजन ही
नहीं रहता, किन्तु मन्त्र का अर्थ विवक्षित है, इसलिए विकृति स्थल में ऊह किये विना
मन्त्र विरुद्ध अर्थ का प्रतिपादक होगा, अतः विकृति में परिवर्तन (ऊह) आवश्यक है।
ऐसा मानने पर मन्त्र क्रिया-समवेत अर्थ का प्रकाशक होता है, इसलिए बाधा न होने पर
मन्त्र का स्वार्थ अविवक्षित नहीं हो सकता है। ऊह कहाँ-कहाँ कर्तव्य है, इसका विशेष
विचार नवम अध्याय में किया गया है ॥ ४४ ॥
विधिशब्दाश्च ॥ १.२.४५ ॥
शा० भा०—विधिशब्दाश्च विवक्षितार्थानिव मन्त्राननुवदन्ति । शतं हिमाः
शतं वर्षाणि जीव्यासमित्येतदेवाऽऽहेति सिद्धान्ते युक्तिः । मन्त्राधिकरणम् ॥४५॥
इति श्रीशबरस्वामिकृतौ मीमांसाभाष्ये प्रथमाध्यायस्य द्वितीयः पादः ।
भा० वि०—विधिशब्दाश्चेत्येतदपि तदर्थवदिति पदानुषङ्गेण व्याचष्टे—
विधिशब्दाश्चेति । ब्राह्मणमित्यर्थः, कोऽसौ विधिशब्द इत्यपेक्षायां हिमाशब्द-
व्याख्यानपरं ब्राह्मणमुदाहरति—शतमिति । तस्माद्विवक्षितवचना मन्त्रा इति
सिद्धमिति भावः ॥ ४५ ॥
॥ इति श्रीमन्नारायणामृतपूज्यपादशिष्यदेवेन्द्रसरस्वत्युपनामधेय-
श्रीगोविन्दामृतमुनिविरचिते धर्ममीमांसाभाष्यविवरणे
प्रथमाध्यायस्य द्वितीयः पादः ॥ १।२ ॥
१६
२४२ मीमांसादर्शनम् [ सू०
त० वा०—विधिरेव च ब्राह्मणाभिधः तत्र तत्र पर्यायैरवयवान्वाख्यान-
निर्वचनादिभिश्चार्थप्रकाशनपरत्वं दर्शयति । अर्थनाश्रयणे हि सर्वं तदनर्थकं
स्यात् । तस्माद्विवक्षितवचना मन्त्रा इति सिद्धम् ॥ ४५ ॥
इति मन्त्राधिकरणम् ॥ ४ ॥
इति श्रीमद्भट्टकुमारिलस्वामिविरचिते धर्ममीमांसाभाष्यव्याख्याने
तन्त्रवार्तिके प्रथमस्याध्यायस्य द्वितीयः पादः ॥
न्या० सु०--भाष्यकारेण विधिशब्दश्च तदर्थवदिति पूर्वसूत्रगतपदानुषङ्गेण सूत्रं
व्याख्याय 'शतं हिमा' इति मन्त्रगतहिमाशब्दव्याख्यानार्थं 'शतं वर्षाणी'त्यर्थवाद
उदाहृतः । तत्र विधिशब्दानुपपत्तिमाशङ्क्याह—विधिरेवेति । सिद्धान्तमुपसंहरति—
तस्मादिति ॥ ४५ ॥
॥ इति श्रीमत्त्रिकाण्डमीमांसामण्डनप्रतिवसन्तसोमयाजिमाधवभट्टात्मज भट्टसोमेश्वर-
विरचितायां सर्वनिवद्यकारिण्यां न्यायसुधाख्यायां तन्त्रवार्तिकटीकायां
प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥
भा० प्र०—विधिशब्दाः = विधिको अर्थात् ब्राह्मण का शब्द अर्थात् मन्त्रार्थ का
व्याख्यारूप शब्द, 'च' एव है, ब्राह्मण वाक्य में मन्त्र की व्याख्या है, इसलिए, मन्त्र का
अर्थ विवक्षित है ।
आशय यह है कि विधिशब्दाश्च इस हेतु के द्वारा मन्त्र का अर्थ विवक्षित है—यह
कहा गया है । मन्त्र की व्याख्या रूप में ब्राह्मण में स्थित शब्द ही विधि शब्द है । जैसे
“शतं हिमाः शतं वर्षाणि जीवामसम इत्येव एतदाह" (श० ब्रा० २।३।४।२१)
इत्यादि । इस स्थल में 'शतं हिमाः' इस मन्त्र का अर्थ ब्राह्मण ग्रन्थ में भी कहा गया
है—"शतं वर्षाणि" । अतः इन कारणों के विद्यमान रहने से यह मानना ही पड़ेगा
कि कर्म के समय मन्त्र का अर्थ विवक्षित है ॥ ४५ ॥
॥ इति मीमांसादर्शन की भावप्रकाशिका में मन्त्राधिकरण नामक प्रथमाध्याय का
द्वितीय पाद समाप्त हुआ ॥
॥ अथ प्रथमाध्यायस्य तृतीयः पादः ॥
प्रथमं स्मृत्यधिकरणम् ।
[ १] धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् ॥ १.३.१ ॥ पू०
शाबरभाष्यम्
शा० भा०—एवं तावत्कृत्स्नस्य वेदस्य प्रामाण्यमुक्तम् । अथेदानीं यत्र न
वैदिकं शब्दमुपलभेमहि, अथ च स्मरन्त्येवमयमर्थोऽनुष्ठातव्य एतस्मै च प्रयो-
जनायेति । किमसाौ तथैव स्यात्, न वेति । यथा अष्टकाः कर्तव्या; गुरुर-
नुगन्तव्यः, तडागं खनितव्यम्, प्रपा प्रवर्तयितव्या, शिखाकर्म कर्तव्यमित्येवमा-
दयः । तदुच्यते । धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति । शब्दलक्षणो
धर्म इत्युक्तम् चोदनालक्षणोऽर्थो धर्म इति । अतो निर्मूलत्वान्नापेक्षितव्यमिति ।
ननु ये विदुरित्थमसौ पदार्थः कर्तव्य इति कथमिव ते वदिष्यन्त्यकर्तव्य
एवायमिति । स्मरणानुपपत्त्या । ह्यननुभूतोऽश्रुतो वाऽर्थः स्मर्यते, न चास्या-
वैदिकस्यालौकिकस्य च स्मरणमुपपद्यते, पूर्वविज्ञानकारणाभावादिति । या
हि बन्ध्या स्मरेदिदं मे दौहित्रकृतमिति, न मे दुहिताऽस्तीति मत्वा न जातुचि-
दसौ प्रतीयात्सम्यगेतज्ज्ञानमिति ।
एवमपि ययैव पारम्पर्येणाविच्छेदादयं वेद इति प्रमाणमेषां स्मृतिरेवमिय-
मपि प्रमाणं भविष्यतीति । नैतदेवम् । प्रत्यक्षेणोपलब्धत्वाद् ग्रन्थस्य नानुपपन्नं
पूर्वविज्ञानम् । अष्टकादिषु त्वदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद्व्यामोहस्मृतिरेव
गम्यते । तद्यथा कश्चिज्जात्यन्धो वदेत्स्मराम्यहमस्य रूपविशेषस्येति । कुतस्ते
पूर्वविज्ञानमिति च पर्यनुयुक्तो जात्यन्धमेवापरं विनिर्दिशेत् । तस्य कुतः ?
जात्यन्धान्तरात् एवं जात्यन्धपरम्परायामपि सत्यां नैव जातुचित्संप्रतीयुर्विद्वांसः
सम्यग्दर्शनमेतदिति । अतो नाऽऽदर्तव्यमेवंजातीयकमनपेक्षं स्यादिति
पूर्वपक्षः ॥ १ ॥
भाष्यविवरणम्
भा० वि०—सङ्गतिं वक्तुं वृत्तवर्त्तिष्यमाणार्थं वक्ति—एवमित्यादि । सक-
लस्य विध्यर्थवादमन्त्रनामधेयात्मकस्य प्रामाण्यम्—धर्मप्रमितिहेतुत्वम्, तत्रापि
कृत्स्नप्रामाण्यं चोदनोपयोगश्च प्रथमेन पादेन, द्वितीयेन मन्त्रार्थवादयोश्चोपयोग-
१४४ मीमांसादर्शनम् [ सू०
विशेषो दर्शितः, नामधेयानां तु विध्यन्तर्गतत्वेन सिद्धप्रामाण्यानां नामधेयत्वमात्रं
प्रामाण्यप्रतिपादनाय नामधेयपादे प्रतिपादयिष्यत इति विवेकः ।
अथेदानोमिति । भवति विचारणेति सम्बन्धः विध्यर्थवादमन्त्रात्मिकानां
स्मृतीनामनिबद्धानां चाचाराणां प्रामाण्यस्य तथाविधवेदमूलकत्वेन वक्तव्यत्वात्
तत्प्रामाण्यप्रतिपादनानन्त्यं स्मृत्यादिप्रामाण्यप्रतिपादनस्य युक्तमिति वक्तु मथेत्यु
क्तम्, अष्टकादिनामधेयानां तु यागादिनामधेयादिवत् लोकसिद्धानां वेदमूलत्वाभावेन
नामधेयत्वविचारानपेक्षत्वात् ततः प्रागेवापेक्षितप्रामाण्यप्रतिपादनानन्तरमारम्भः
स्मृत्यादिप्रामाण्यविचारस्य युक्त इति वक्तुमिदानीमित्युक्तम्, न च वाच्यं चोदनैव
धर्मे प्रमाणमित्यध्यायप्रतिपाद्यत्वेन प्रतिज्ञातं स्थितमेव, न च तत्स्मृत्यादिप्रामा-
ण्याभावे परावर्तते अतः स्मृत्याचारप्रामाण्यविचारस्य कथध्यायसङ्गतिरिति, यतो
धर्मजिज्ञासैव प्रमाणाधीनत्वात् प्रमेयज्ञानस्य यथा वेदप्रामाण्यविचारं प्रयोजयति,
तथा स्मृत्यादिप्रामाण्यविचारमपि प्रयोजयेत् यो धर्मः स चोदनालक्षणः इति
धर्मोद्देशेन विहितस्य वेदप्रामाण्यस्य यावद्धर्मभावितया स्मृत्याद्यवगतधर्मस्यापि
वैदिकत्वसाधनाय वेदमूलत्वेन स्मृत्यादिप्रामाण्यविचारप्रयोगादिति भावः। प्रयोजनं
तु विचारस्य स्मृत्याचारसिद्धानां अष्टकावसन्तोत्सवादीनां श्रेयस्साधनतयानुष्ठान-
सिद्धिः सम्प्रत्यधिकरणस्य विषयमाह—यत्रेत्यादिना । यस्मिन्नष्टकाः श्रेयस्साधन-
त्वादौ उपलभन्ते अद्यतना इत्यर्थः ।
अथ च तत्रापि स्मरन्ति मन्वादयः—असावष्टकादिपदार्थः एवमितिकर्तव्य-
ताक एतस्मै प्रयोजनाय स्वर्गादिरूपाय कर्तव्य इति स्मरन्तीत्यर्थः, स्मृत्युदाहरण-
माचारस्याप्युपलक्षणम्, विषयमुक्त्वा विशयमाह—किमिति । असौ श्रेयस्साधन-
त्त्वरूपोऽर्थः कर्तव्य एव प्रामाणिक इति यावत्, तदनेन तद्विषयस्मृत्यादिः प्रमाण-
मप्रमाणं वेति संशयो दर्शितः, स च महाजनपरिग्रहान्मूलप्रमाणानुपल-
म्भाच्च, स्मरन्तीति सामान्यनिर्दिष्टं विषयं नैराकाङ्क्ष्याय विशेषतो दर्शयति—
यथेत्यादिना ।
ननु न मन्वादिग्रन्थोऽत्र विचार्यः, तत्रामाण्याप्रामाण्यविचारो हि वक्तृवग-
तार्थविषयो न वेत्येवंरूपस्संभवति, स चात्र मन्वादीनामविप्रलम्भकत्वेऽर्थे बुद्धिस्थे
ग्रन्थरचना नान्यथेति असन्देहादेव न समस्ति, तत्कथं मन्वादिवाक्यान्युदाहृता-
नीति चेत्, नैष दोषः । यस्मादप्रमाणधीमूलकृता प्रामाण्यशङ्केह निरस्यते, तेन
मन्वादिवाक्यप्रामाण्याप्रामाण्यविचारो वाक्यकारणधियोऽर्थनियतानियतहेतुजत्व-
विचारः पर्यवसितो भवति, तेन धियः तदर्थचिन्ताविषयत्वेऽपि नावाक्य-
स्योदाहरणत्वविरोधः ।
अत्र पूर्वपक्षमाह—तदुच्यत इत्यादिना । तत्र किं प्रमाणान्तरविषयविषयतया
तन्मूलत्वेन । नाद्य इति सूत्रावयवं योजयति—शब्देति । धर्मस्य साध्यस्वभावस्य
१ ] प्रथमाध्याये तृतीयपादः २४५
न सिद्धविषयप्रत्यक्षादिगोचरत्वम्, अपि तर्हि वैदिकशब्दप्रमाणकत्वमेवेति गदितं
चोदनासूत्र इत्यर्थः । अस्तु तर्हि शब्दस्यैवाष्टकादिविषयस्य स्मृतिमूलत्वमित्या-
शङ्कयाशब्दमिति सौत्रं पदं तद् यत्र न वैदिकं शब्दमुपलभन्त इत्यनेन व्याख्यात-
मित्यपेक्षितम् ।
तदयमर्थः—न तावदग्निहोत्रादिवाक्यवत् प्रत्यक्षमेवाष्टकादिवाक्यमुपलभ्यते,
न च कल्पयितुं शक्यते अनुपलब्धिविरोधात् नाप्यनुमानादिना तदवगन्तुं शक्यं
व्याप्तिलिङ्गाद्यभावात् इति । अतः प्रमाणमूलासंभवात् भ्रान्त्यादिमूलत्वेन स्मृतेर-
प्रामाण्यात् तदर्थो नापेक्ष्यः, तद्विषयं स्मृतिप्रामाण्यं नापेक्ष्यमिति सूत्रशेषं
व्याचष्टे—अत इति ।
ननु प्रसिद्धाप्तभावस्य मन्वादेरन्यथा संविदानस्यैवान्यथा वादानुपपत्तेः
अवश्यमाश्रयणीयं मूलप्रमाणमिति शङ्कते—नन्विति । ये विदुरकर्तव्य एवायमिति
व्यवहितेन संबन्धः कर्तव्य एवायमिति, ये न विदुरित्यर्थः । त एवमितिकर्तव्यताक
एवं फलकश्चासौ पदार्थः कर्तव्य इति कथमिव वदिष्यन्तीति शेषान्वयः ।
यद्यपि कर्तव्यतावादात् कर्तव्यतास्मरणमनुमीयते, तथापि न तद्यथार्थः अनुप-
पत्तेरिति परिहरति—स्मरणेति । अनुपपत्तिमुपपादयति—नहीति ।
नन्वाप्तोपदेशमूलत्वात्स्मरणस्य न तन्मूलानुभवः, शब्दो वा कल्प्यते
तत्राह—न चेति । स्मृतेः पूर्वरूपं विज्ञानं पूर्वविज्ञानं तस्य कारणं शब्दप्रत्यक्षादि,
तदभावादित्यर्थः । तदभावमुपपादयितुं अवैदिकस्येत्याद्युक्तम् । संभवति हि
मूलतया तत्कल्पना, अन्यथा तु मन्वादेरेव पुरुषत्वेन मोहादिकल्पना भागिनीति
भावः । कारणाभावे कार्याभावं दृष्टान्तेनाह—या हीति । यदा बन्ध्या दौहित्रेण
कृतमिदं कर्मेति ज्ञानं न समीचीनं मन्यते दुहितुरभावे दौहित्रस्याभावावगमात् ।
एवमवितथस्य पूर्वविज्ञानस्यासंभवेन स्मरणस्यापि तथाविधस्याभावनिश्चयाद्,
न तन्निमित्तमुपदेशमपि यथार्थं मंस्यते मन्वादिरित्यर्थः । एवं मूलप्रमाणासंभवेन
मन्वाद्युपदेशस्य प्रामाण्ये निरस्ते, स्मृत्यनुमेयश्रुतिमूलत्वेन प्रामाण्यं मन्वान-
श्शङ्कते—एवमपीति । अविच्छिन्नपूर्वपूर्वसंप्रदायपूर्वपूर्वस्मृतिमूलत्वादियं वेद
इति, एषा स्मृतिः यथाप्रमाणम्, एवमियं मन्वाद्युपदेशलक्षणापीत्यर्थः, स्मृत्या
श्रुत्यनुमानासंभवं मन्वानः परिहरति—नैतदिति । अष्टकादिस्मृतिप्रामाण्यं
वेदस्मृतिप्रामाण्यवत् न संभवतीत्यर्थः, वैषम्यं विवृणोति—प्रत्यक्षेणेति ।
ग्रन्थस्य=वेदस्यादृष्टार्थेषु=प्रत्यक्षाद्यविषयेष्वर्थेषु कारणाभावान्न मन्वाद्युपदिष्टतया
व्यामोहादिति ।
ननु किमिति व्यामोहमूला पूर्वपूर्वस्मृतिमूलत्वादत आह—तद्यथेति ।
स्मरामीति स्मरणं ज्ञानं कर्मणि षष्ठ्यौ अमुं रूपविशेषमित्यर्थः, तस्य कुतः
पूर्वविज्ञानमिति पर्यनुयुक्तो जात्यन्धान्तरादेवेति यथा व्यपदिशेदित्यन्वयः, एवं
२४६ मीमांसादर्शनम् [ सू०
व्यपदेशे को दोषस्तत्राह—एवमिति । एवं नावधारयेयुरित्येतद्विवृणोति—
सम्यगिति । एतदिति रूपविशेषस्मरणं तादृशं चेदमष्टकादिस्मरणमूलापेक्षपूर्व-
पूर्वस्मरणमूलत्वस्य त्वयोक्तत्वादित्याशयः । तेन प्रमाणमूलासंभवेन निर्मूलतया
स्मृत्यप्रामाण्यात् तदर्थोऽष्टकादिरपि नादर्तव्यः । ततश्चाननुष्ठेय इत्युपसंहरति—
अत इति । पौरुषेयी हि वाक्यरचना यदर्थविषयोपलभ्यते, तदर्थविषयमेव
रचयितुर्ज्ञानं कल्पयति, नार्थं निश्चाययतीत्यष्टकादिवाक्यरचनाप्यष्टकादिकर्तव्यता-
ज्ञानमात्रमनुमापयेत्, तच्च ज्ञानं मूलप्रमाणाधीनप्रामाण्यमिति तन्मूलापेक्षायां
यदि मन्वादिज्ञानमपि स्मृत्यन्तराधीनमेव कल्प्येत ततस्तस्याः स्मृत्यन्तराधीन-
त्वादपर्यवसानमेव स्यात् ।
अथैतद्दोषपरिहाराय मन्वादिज्ञानमूलतया श्रुतिरेव कल्पयितव्येति । तदप्य-
भद्रम्, ज्ञानमूलतयापि हि प्रथमं श्रुतिज्ञानमेव कल्प्यते, न श्रुतिः । तेन च श्रुति-
सद्भावनिश्चयः; ततश्चार्थज्ञानवच्छ्रुतिज्ञानस्यापि मूलापेक्षायाः स्मृत्यन्तरमेव
मूलतया कल्पनीयम्, तत्र च पूर्ववदपर्यवसानमेव इति श्रुतिस्वरूपानिश्चयात्
न मन्वादिज्ञानस्य तन्मूलत्वनिर्णय इति न स्मृत्या श्रुत्यनुमानसंभवः, ततश्च
कारणाभावात् भ्रान्तिमूलैव स्मृतिरिति अष्टकाद्यनपेक्ष्यत्वेन च तद्विषयस्मृति-
प्रामाण्यस्यानपेक्ष्यत्वमनादेयत्वमभिसंहितम् ।
एतेनाचाराणामप्यनन्तानामेकश्रुतिमूलत्वासंभवात्, आचरितॄणां चानन्त-
श्रुतिदर्शनानुपपत्तेः 'आचारश्चैव साधूनाम्' इत्याचारप्रामाण्यश्रुतेश्च संभवन्मूला-
न्तरतया श्रुत्यननुमापकत्वान्निर्मूलतया स्मृतिवदप्रामाण्यमुक्तं वेदितव्यम् ।
सिद्धान्तमाह—अपि चेति । सूत्रावयवं पूर्वपक्षव्यावर्तकतया व्याचष्टे—
अपि वेति । सौत्रं प्रमाणपदं सिद्धान्तप्रतिज्ञार्थत्वेन व्याचष्टे—प्रमाणमेवेति ।
कुत इत्यपेक्षायामूलसूत्रं हेतुमाह—विज्ञानं हीति । अन्यथा अप्रमाणमित्यर्थः ।
अत्र विज्ञायतेऽनेनेति करणव्युत्पत्त्या ज्ञानोत्पादकत्वं हेतुकृतम्, ततश्च न
मन्वादिवचनानामनुत्पादकत्वलक्षणमप्रामाण्यम्, भ्रममूलकत्वलक्षणं तु भविष्य-
तीत्याशङ्कते—पूर्वेति । विज्ञानं-विशिष्टं ज्ञानं प्रमाणरूपं कारणमस्या नास्ति ।
कुत इत्यत आह—कारणेति । अर्थनियतस्य कारणस्याभावादित्यर्थः । अनुमानं
स्यादिति सूत्रावयवेन परिहरति—अस्या इति । आप्तप्रमाणीकृतत्वमहाजनपरि-
गृहीतत्वादृढत्वम्, यथा स्मृतेः कार्यात् कारणानुमानम्, तथा द्रढिम्नः
कारणस्यार्थनियतत्वमपि अनुमातव्यमित्यर्थः, तर्हि स्मृतिदार्ढ्यात् तन्मूलविज्ञान-
कारणं प्रत्यक्षमेवानुमीयतामत आह—तत्त्विति । तदपि कारणमनुभूयतेऽनेनेत्यनु-
भवनं प्रत्यक्षं नानुमास्यामहे इति संबन्धः । तत्र हेतुरनुपपत्तेरिति । तामेव
विवृणोति—नहीति । किमिदं मन्वादीनां स्वर्गाष्टकादिसाध्यसाधनसंबन्धविषयं
प्रत्यक्षं साधनावस्थायाम्, फलावस्थायां वा ? नाद्यः अस्मदादीनामिव
१ ] प्रथमाध्याये तृतीयपादः २४७
मन्वादीनामपि अतीन्द्रियार्थदर्शित्वाभावस्य प्रथमपाद एव सिद्धत्वादित्यर्थः,
यदि चाष्टकाफलस्य विश्वजिन्यायावगतस्य निरतिशयसुखरूपस्य स्वर्गस्य
मर्दनादिफलवदानन्तर्यं स्यात् ततः प्रत्यक्षेणापि साध्यसाधनसंबन्धो गम्येत,
न त्वेतदस्ति तथाविधसुखस्य मनुष्यैरनुभवितुमयोग्यत्वादिति दर्शयितुं मनुष्या
इत्युक्तम् । न द्वितीयः इत्याह - जन्मान्तरेति । यदि साधनावस्थायामनुभूतं
फलावस्थायां स्मर्येत ततोऽस्येदं फलमिति साध्यसाधनसंबन्धः प्रतिसन्धीयेत ।
न चैतदस्ति निश्शेषसंस्कारोच्छेदिमरणान्तरितत्वेन स्मरणायोग्यत्वादित्यर्थः ।
किं तर्ह्यनुमीयते इत्यपेक्षायां पारिशेष्याच्चोदनैवेत्याह-ग्रन्थस्त्विति ।
ननु मन्वादिषु ग्रन्थस्यापि चोदनापरपर्यायस्य कथमुपपत्तिरित्याशङ्क्य कर्तृ-
सामान्यादिति सूत्रावयवं व्याचष्टे-कर्तृसामान्यादिति । मन्वादीनां वेदसंयो-
गोपपत्तौ हेतुस्त्रैवर्णिकानामिति त्रैवर्णिकत्वमुपपादयितुं स्मृतिवैदिकपदार्थयोः
कर्तृसामान्यादिति । ये ह्यग्निहोत्रादिवैदिकपदार्थाननुतिष्ठन्ति, त एव मन्वादयः
स्मृतिप्रणेतार इति तेषां त्रैवर्णिकतया वेदसंयोगोपपत्तौ तन्मूलता स्मृतेरनुमीयत
इति अभिसन्धिः । अनुपलब्धिविरोधान्न चोदनामूलत्वकल्पना युक्तेति चोदयति-
नन्विति । नोपलभन्त आधुनिका इत्यर्थः । न तावदनुपलब्धिमात्रमभावं गमयति;
अतिप्रसङ्गात्; विप्रकीर्णानैकशाखाप्रकरणस्थत्वे च योग्यानुपलब्ध्यभावान्ना-
नुपलब्धिविरोध इति मन्वानः परिहरति-अनुपलभमाना अपीति । उपलभ्य-
मानानामेव वाक्यानामिदमत्रेति विशेषस्मरणाभावमात्रत्वादनुपलब्धिरेवासिद्धे-
त्याह-विस्मरणमपीति । एवं कारणसंभवेन पूर्वविज्ञानसंभवमुपपादयितु-
मुपसंहरति-तदिति । स्मर्तॄणां त्रैवर्णिकतया वेदसंयोगित्वेन पूर्वविज्ञान-
स्योपपन्नत्वाद्भेदानुमानमुपपद्यत इत्यर्थः । एवमविशेषतः स्मृतीनां श्रुतिमूल-
कत्वमुक्त्वा, अष्टकास्मृतेः लिङ्गमूलतामप्याह-अष्टकेति । रात्रि धेनु-
मिवायती संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गल्यष्टकायै सुराधसे
स्वाहेति मन्त्रशेषः । तत्र चाष्टकाये सुराधस इति स्पष्टमष्टकालिङ्गत्वे
अस्त्वदृष्टार्थेषु अष्टकादिवाक्येषु अप्रामाण्याशङ्का दृष्टार्थेषु तु
गुर्वनुगमनादिवाक्येषु सापि न संभवतीति विशेषमाह-तथेति ।
ये ह्युपस्थितमुपस्थितं निमित्तमासनोत्थानगमनादिरूपं प्रति नियम्यन्ते ते
प्रत्युपस्थितनियमा नीचासनप्रत्युत्थानगमनादयः तथाविधाचारा विद्यन्ते,
येषामर्थतया येषां स्मृतिग्रन्थानामिति विग्रहः गुर्वनुगमनादिनियमस्य वैदिक-
मूलतया वैदिकत्वे सत्यपि दृष्टार्थत्वरूपमतिशयं वक्तुमेवकारः, दृष्टार्थमुपपादयति-
गुरोरिति । अर्थग्रन्थिभेदिनश्चेति निगूढार्थविवरणनिपुणतया न्यायानां नैर्मल्य-
मुक्तम्, गुर्वंनुगमनेऽपि लिङ्गदर्शनमाह-तथा चेति । यस्माच्छ्रेयानश्वः पापीयसा
गर्दभेनानुगन्तव्यः, तस्मादेव लोके श्रेयांसं श्रेष्ठं पूर्वं यन्तम् अग्रे गच्छति पापीयान्
२४८ मीमांसादर्शनम् [ सू०
न्यूनः पश्चात् पृष्ठतोऽन्वेति—गच्छतीत्यर्थः, प्रपादावपि दृष्टार्थत्वमाह—तथा
चेति । प्रपेति, न धर्मयेति केवलादृष्टार्थत्वनिषेधः प्रपातटाकयोः परोपकारत्वे
लिङ्गमाह—तथा चेति । यथा धन्वन्नि—निरुदके प्रदेशे कृता प्रपा परेषामुपकरोति,
तथा त्वमपीत्यग्निसुतिपरोऽयं मन्त्रः । स्थलया-कृत्रिमेण स्थलेन सेतुना
कृतेनेत्यर्थः । अकृत्रिमस्थले ङीष्प्रत्ययविधानेऽपि कृत्रिमे टाप्प्रत्ययानपवादस्मृतेः
स्थलाशब्दस्य कृत्रिमतीरवाचित्वात् तटाकलिङ्गत्वं व्यक्तमित्याशयः ।
शिखाकर्मणोऽपि दृष्टार्थत्वं प्रतिपादयति—तथागोत्रेति । गोत्रज्ञानं तावच्च-
तुरवत्तपञ्चावत्तविभागद्वारेण कर्माङ्गं गोत्रज्ञानस्य च त्रिशिखत्वपञ्चशिखत्वादिरूपं
शिखाकर्म चिह्नमिति शिखाकर्मणोऽपि दृष्टार्थत्वमित्यर्थः, तत्रापि लिङ्गदर्शन-
मित्याह—दर्शनं चेति । कुमारा विशिखा इवेति विविधशिखत्वप्रतिपादनात्
शिखाकर्मलिङ्गत्वमस्य, अधिकरणार्थमुपसंहरति—तेनेति । दृष्टार्थगुर्व्वनुगमनादि-
विषयाश्शब्दाः अदृष्टार्था अष्टका कर्तव्येत्येवमादयः, ततश्च दृष्टादृष्टार्थस्मृतीनां
कथंचिद्दृष्टार्थत्वाविशेषाच्चोदनामूलत्वेनैव प्रामाण्यमाश्रयणीयमिति भावः ।
अत्र यद्यप्याचरयितॄणामाचारमूलानन्तश्रुतिदर्शनासम्भवः तथापि स्मर्तुरेकस्य
शाखान्तरविप्रकीर्णानेकश्रुतिदर्शनसंभवात् स्मृतिदार्थ्येन च मूलान्तरकल्पना-
नुपपत्तेः आचाराणामपि धर्मबुद्ध्यानुष्ठीयमानानां स्मृतिव्यवधानेन श्रुत्यनुमा-
पकतया धर्मप्रामाण्यमित्यपि अदृष्टार्थेषु वैदिकशब्दानुमानमित्यनेन सूचितम् ॥१॥
तन्त्रवार्तिकम् ।
त० वा०—एवं तावद्विध्यर्थवादमन्त्रनामधेयात्मकस्य वेदस्य धर्मं प्रत्युपयोगः
साधितः इदानीं पौरुषेयीषु स्मर्यमाणार्थावधिषु मन्वादिप्रणीतनिबन्धनासु
स्मृतिषु अनिबद्धेषु चाऽऽचारेषु चिन्ता । तत्र किंचिदुदाहृत्य विचारः कर्तव्य
इत्यष्टकादिस्मरणानि मन्वादिस्थानि तद्ग्रन्थसमर्पितानि प्रमाणाप्रमाणविचार-
विषयत्वेनोदाह्रियन्ते । सन्देहहेतुश्चाभिधीयते ।
पारतन्त्र्यात्स्वतो नैषां प्रमाणत्वावधारणा ।
अप्रामाण्यविकल्पस्तु द्रढिम्नैव विहन्यते ॥
मन्वादिवचनं स्मृत्यपेक्षम्,१ स्मृतिश्च मूलप्रमाणापेक्षिणीति, नैकस्यापि वेदव-
न्निरपेक्षप्रामाण्यनिश्चयः । यतस्तु वेदवादिनामेवाविगानेनाविच्छिन्नपारम्पर्य-
परिग्रहदाढ्यंम्, अतो नाप्रामाण्याध्यवसानमिति, युक्तः संदेहः ।
१. अत्र वार्तिकेऽनपेक्षम्, अनपेक्ष्यमिति पाठद्वयमङ्गीकृत्य श्रौतस्मार्तविज्ञानविरोधे यदन-
पेक्षमपेक्षावर्जितं यस्य वापक्षणीयमन्यन्नास्ति, तत्, प्रमाणमिति व्याख्यातमिति
बोध्यम् ।