मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पादनात् कथं तेनैव तेषामेवाकृत्यर्थत्वसाधनमित्याशङ्क्य विषयान्तरे तावत्सूत्रं
३३ ] प्रथमाध्याये तृतीयपादः ६६७
तत आकृतिरवगता, न गोशब्द आकृतिवचन इति । न च यथा दण्डिशब्दो न
दण्डे प्रयुक्तः, एवं गोशब्दो नाऽऽकृतौ । तर्थमेव निदर्शितं केवलाकृत्यभिधानः
श्येनशब्द इति । तदेवमन्वयव्यतिरेकाभ्यामसति श्येनव्यक्तिसम्बन्धे श्येनशब्दो-
च्चारणादाकृतिवचन इति गम्यते । न तु व्रीह्याकृतिसम्बन्धमन्तरेण व्रीहिव्यक्तौ
शब्दस्य प्रयोगो दृष्टः । तस्मादाकृतिवचनः शब्दः इत्येतज्ज्यायः ॥३३॥ सिद्धान्तः ।
भा० वि०—सिद्धान्तमाह—इति । तदक्षराणि व्याचष्टे—तुशब्द इत्या-
दिना । ननु क्रियार्थत्वे नालम्भनप्रोक्षणादिवाक्यं पश्वादिपदानां व्यक्त्यर्थत्वोप-
पादनात् कथं तेनैव तेषामेवाकृत्यर्थत्वसाधनमित्याशङ्क्य विषयान्तरे तावत्सूत्रं
योजयति—श्येनचितमिति । यद्ययमांकृतिवचनः श्येनशब्दः स्यात्, तर्ह्येव श्येन-
चितं चिन्वीतेति विहितं चयनमाकृतौ जात्युपाधौ संभवतीत्युपस्कृत्यान्वयः । अत्र
हि मुख्यश्येनाकृतिव्यक्त्योरिष्टकाभिश्चेतुमशक्यत्वादिटकासाध्यं श्येनसदृशम्
अग्न्याख्यं फलं श्येनशब्दार्थः । तत्र च नियतैकव्यक्तिसादृश्यस्य सम्पादयितुम-
शक्यत्वात्, यया कया च व्यक्त्या सादृश्यमुपादेयम्, तस्य चाकृतिमात्रप्रयुक्तत्वा-
दाकृतिवचन एव श्येनशब्द इत्याशयः । नियतैकव्यक्तिसादृश्यं कस्मादशक्य-
सम्पादकमत आह—व्यक्तिवचने त्विति । श्येनव्यक्तिरिति तत्सादृश्यं लक्ष्यते ।
चिन्वीतेति विहितस्येष्टकाचयनस्य नियतैकव्यक्तिसादृश्यसम्पादनाक्षमत्वादिति
भावः ।
ननु व्यक्तिसादृश्यस्यासम्पाद्यत्वेऽपि व्यक्तिवचनता शब्दस्य कस्मान्न भवेदत
आह—अशक्यार्थेति । यस्मादानर्थक्यं व्यक्तिवचनत्वे स्यात्, तस्मादित्युपसंह-
रति--तस्मादिति ।
ननु मुख्यश्येनव्यक्तेश्चयनोत्पाद्यत्वाभावेऽपि तदुत्पादकत्वेन विधेयत्वात् श्येने-
श्चितं श्येनचितमिति व्युत्पत्तिसम्भवात् न सादृश्यार्थतयाकृतिवचनता श्येनशब्द-
स्याश्रयणीयेति चोदयति—ननु चेति । चयनस्यैकव्यक्तिसाध्यत्वाभावात् बहुवचनं
श्येनशब्दार्थस्येप्सिततमत्वावगमान्न साधनत्वेन विधिसंभवतीत्याह—न साध-
कतम इति । हि शब्दः स्मृतिप्रसिद्धिमवद्योतयति कर्मणि हन् इत्यस्मात् कर्मणी-
त्यधिकृत्य “कर्मण्यग्न्याख्यायाम्” इति सूत्रेण कर्मण्युपपदे कर्मणि च वाच्ये
चिनोतेः धातोः क्विप्प्रत्ययस्मरणेन क्विबन्तचिनोत्युपपदस्य श्येनशब्दस्य कर्म-
वाचित्वात् कर्मणश्चेप्सिततमत्वान्न तदर्थस्य श्येनशब्दस्य साधकतमार्थता युक्ते-
त्याशयः, यत ईप्सिततमः श्येनः, न साधकतमः । अतः चयनेन श्येनो निर्वर्त-
यितव्यः, न श्येनेश्चयनमित्याह—अत इति । एवं च श्येन इव चीयत इति
६६८ · मीमांसादर्शनम् [ सू०
श्येनचित् तं चयनेन भावयेत् इति सादृश्यार्थत्वस्यावश्याश्रयणीयत्वात् आश्रय-
णीयाकृतिवचनतेत्याह—स आकृतिवचनत्व इति । तच्छब्द कर्मभूतश्येनविषयः ।
एवं सूत्राक्षरार्थमुक्त्वेदानीं तात्पर्यार्थं दर्शयितुमाक्षिपति—तावदुभयत्रेति ।
असंभव इति च्छेदः । व्यपदेशं विशदयति—नाकृतिरिति । व्यक्तिवादिना आकृतौ
शब्दार्थे व्रीहीन् प्रोक्षतीत्यत्र क्रियाया असंभवमात्रं व्यपदिश्यते । न तु श्येनचितं
चिन्वीतेत्यत्र व्यक्तौ क्रियासंभवोऽपि, आकृतिवादिनापि चिन्वीतेत्यत्र व्यक्तौ
क्रियाया असंभवमात्रम्, न तु प्रोक्षतीत्याकृतौ तत्संभवः, तेनोभयपक्षान्निर्णयः
इत्यर्थः । सिद्धान्त्यभिमतं स्वपक्षे विशेषमनुवदति--यदप्युच्येत इति । सर्वत्रा-
कृतिश्शब्दार्थः । व्रीहीन् प्रोक्षतीत्यत्र क्रियान्वययोग्यव्यक्तिलक्षणेति नाकृतिपक्षे
काचिदनुपपत्तिरित्यर्थः, सर्वत्र व्यक्तिरेव शब्दार्थः, चयनवाक्ये तु कार्यान्वय-
योग्याकृतिलक्षणेति पूर्वपक्षिणा शक्यं वदितुमित्याक्षेप्ता दूषयति-शक्यमत्रापीति ।
ननु तथाप्यन्यतरेणोपपत्तिमन्तरेण भाव्यमित्याशङ्कय व्यक्तिपक्ष एवोपपत्त्य-
तिशयं सूचयितुमाह—किं पुनरिति । आलम्भनप्रोक्षणादिवाक्यानां बहुतवाच्चये-
नवाक्यस्य चैकत्वात् बहुनुरोधेन चैकत्र लक्षणाश्रयणस्य न्याय्यत्वात् सङ्ख्या-
कारकान्वयसंभवाच्च व्यक्तिपक्ष एव ज्यायानित्यर्थः ।
एवमुपपत्तिमत्तरत्वेनाक्षेप्तृपूर्वपक्षे पर्यवसायिते तुशब्दसूचितमाकृतिपक्षस्यै-
वोपपत्तिमत्तरत्वमादर्शयन् सिद्धान्ती परिहरति—आकृतिरिति । ज्याय इत्य-
नुषङ्गः गामानयेत्युक्ते प्रथमं सामान्याकारप्रत्ययोदयात् विचित्रव्यक्तिबुद्ध्य-
नुदयाद् व्यक्तीनां यथारुचि परिग्रहात् संबन्धग्रहणासंभवाच्च सर्वव्यक्त्यर्थत्वा
संभवादाकृतिरेव शब्दार्थ इति भावः । अस्तु तर्ह्यैका व्यक्तिरभिधेयेति तत्राह—
यदीति । व्यक्त्यन्तरेऽभिधेयरूपस्याभावादिति भावः ।
ननु केनचित्सामान्येन व्यक्त्यन्तरे प्रयोगो भविष्यतीत्याशङ्कयाह—अथेत्या-
दिना । कुत इत्यत आह—सर्वेति । सर्वसामान्यविशेषेभ्यो वियुक्ता विभक्ता
व्यतिरिक्तेति यावत्, असाधारणरूपत्वाद् व्यक्तेरिति भावः ।
ननु यथैका व्यक्तिस्सर्वसामान्यविशेषाद् व्यतिरिक्ता, तथा अपरापि, तेन तत
एव सादृश्याद् व्यक्त्यन्तरे वर्तिष्यत इति शङ्कते—नैष दोष इति । उत्तरम्—
यदीति । यदि व्यक्त्यन्तरमपि सामान्यविशेषव्यतिरिक्तम् । तदा सामान्यमेवानु-
वृत्तत्वात् सामान्याविशेषव्यतिरिक्तत्वं नामेति तस्यैवाभिधेयत्वप्रसङ्ग इत्यर्थः ।
शङ्कते—नेत्युच्यत इति । इतिरेवंशब्दपर्यायः । नैव व्यक्त्यन्तरे सामान्यविशेष-
विनिर्मुक्तत्वं निमित्तीकृत्य शब्दः प्रवर्तते इति एवं मयोच्यत इत्यर्थः । कथं
३३ ] प्रथमाध्याये तृतीयपादः ६६९
तर्ह्युच्यत इत्यपेक्षायामाह—योऽर्थ इति । सामान्यविशेषाश्रय शब्देन सामान्य-
विशेषव्यतिरिक्तं लक्ष्यते, तेन सामान्यविशेषव्यतिरिक्तत्वेनोपलक्षणेनोपलक्षितो
योऽर्थः, तस्माद् व्यक्तिः, सैव चाभिधेयेति मयोच्यत इत्यर्थः ।
ननु व्यक्तेः सामान्यविशेषाश्रयत्वे तयोस्तदन्तर्गतत्वात् कथं सेवाभिधेयेति,
तत्राह—व्यक्तिविषयश्चेति । सत्यप्याश्रयाश्रयिभावे निष्कृष्याश्रयमेवाभिवद-
तीत्याह—तेषान्विति । शङ्कामुपसंहरति—तेनेति । सामान्यशब्दो विशेषस्या-
प्युपलक्षणार्थः । सामान्यविशेषव्यतिरिक्तत्वाद् व्यक्त्यन्तरस्यापीत्यर्थः । परिहरति-
यदीत्यादिना । सामान्यविशेषव्यतिरिक्तस्योपलक्षणस्य गोव्यक्त्यन्तरवदश्वव्यक्ता-
वपि भावात्तत्रापि वर्त्तेतैवेत्यर्थः अतिप्रसङ्गं परिहरन्नाशङ्कते—आहेति । केवल-
स्योपलक्षणस्याश्वा दिव्यक्तावभावान्नातिप्रसक्तिरित्यर्थः । तर्हि यत्र प्रयोगो न दृष्टः,
तस्यां गोव्यक्तौ न वर्त्तेत । इतरथाश्वव्यक्तावपि वर्त्तेतेति दूषयति—यदीत्यादिना ।
किंचानुगतैकनिमित्ताभावे गौर्न पदा ऽस्प्रष्टव्या इत्यादिप्रयोगमात्रेण गोव्यक्तिष्वनु-
गतैकाकारप्रत्ययो न स्यात् । अक्षशब्दप्रयोगमात्रेण विदेवनादिष्वदर्शनात् ।
किंतु अनियतैकव्यक्तिविषयत्वात् सन्देह एव स्यादिति, अत्राह—सामान्यप्रत्यय-
श्चेति । अपूर्वगोदर्शनेऽपि नेयं पदा स्प्रष्टव्येति प्रत्ययदर्शनान्नेदमिष्टापादक-
मित्याह—अवांत त्विति । प्रयोगस्यानियामकत्वे फलितमाह—तस्मादिति । अस्तु
तर्हि शक्तेः नियामकत्वमिति चोदयति—एवं तर्हीति । यस्यां व्यक्तौ शब्दस्य
शक्तिः तत्र वर्तते, नेतरत्रेति तस्य स्वभाव इत्यर्थः । शक्तेर्वा कथं प्रतिनियमः
इत्याशङ्कायां औष्ठ्यादिवत्तदनुभवादित्याह—यथेति । नैवमपि प्रयोगप्रवृत्ति-
व्यवस्था सिद्ध्यतीति परिहरति—नैवमिति । कुत इत्याशङ्क्यौष्ठ्यादिप्रति-
नियमवत् शक्तिप्रतिनियमस्याप्रत्यक्षतया प्रयोगप्रवृत्त्यनुमेयत्वेन प्राक् प्रयोगादे-
रविज्ञेयस्य प्रयोगव्यवस्थापकत्वानुपपत्तेरित्याह—न ह्येतदिति । अस्तु तर्हि
जातिनिबन्धना प्रयोगव्यवस्थेति चोदयति-सांख्यमेतदिति१। अवगन्तुमिति
विपरिगतस्यानुषङ्गः । कथमित्याह—गोत्वमिति । यंत्र गोत्वमुपलक्षणम्, तत्र
गोशब्दो वर्तिष्यते, यत्र तन्नास्ति । न तत्राश्वादिव्यक्ताविति शक्यमवगन्तु-
मित्यर्थः । अपसिद्धान्तापत्त्या दूषयति—एवं तर्हीति । व्यक्तिमात्रप्रतीतौ गोत्वो-
पलक्षितत्वाप्रतीतेरिति भावः । ततः किमत आह—यदि चेति । कुत इत्यत
आह—नहीति । ततश्च पूर्वतरमवगताया आकृतेरेव शब्दार्थत्वापात इति भावः ।
एवं केवलव्यक्त्यभिधानपक्षे निरस्ते पूर्ववादी द्वितीयं प्रकृतिविशिष्टव्यक्त्य-
भिधानपक्षमुपन्यस्यति—अस्त्विति । आकृत्यभिधानमात्रमङ्गीकरोति कथमुभया-
१. सत्यमेतदिति मु. भा. यु. पा. ।
६७० मीमांसादर्शनम् [ सू०
भिधाने व्यक्त्यभिधानपक्षः ? तत्राह—विशेषणत्वेनेति । व्यक्तेः प्राधान्या-
दित्यर्थः । एतदेव विवृणोति—नहीति । उभयमुभयस्येति । एवं हि सत्युभय-
प्रतीतिः चयनालम्भनादिक्रियोपपत्तिश्च भविष्यतीत्याशयः । कस्तर्हि विवाद-
स्तत्राह—कस्यचित्त्विति । आकृतिवादिनः आकृत स्वरूपम्, व्यक्तिवादिनस्तु
तदित्यर्थः । फलितमाह— तेनेति । विवक्ष्यत इति सम्बन्धः । न व्यक्त्यभिधान-
पक्षक्षतिरिति शेषः । उभयोरुच्यमानत्वे गुणप्रधानभाव एव निष्प्रमाणक इति
परिहरति—नैतदेवमिति । उभयाभिधानमपि न संभवतीत्याह— यदि चेति ।
विशेषणतयाकृतेः पूर्वमभिधेयत्वे, तत्रैवंशब्दस्योपक्षीणत्वादिति भावः ।
ननु जातिप्रतीतेर्विना व्यक्तिमपर्यवसानाद् व्यक्तेश्च कार्यानन्वयितया प्रत्येतव्य-
त्वात् सापि शब्दार्थ एवेत्याक्षिपति—कुत इति । अनन्यलभ्यस्य शब्दार्थत्वात्
व्यक्तेश्चाकृतिसम्बन्धादपि प्रत्येतुं नास्याः शब्दार्थतेति समाधत्ते—आकृति-
रिति । आकृत्यवगतेः व्यक्त्यवगतिं विना पर्यवसानाभावाद् सैव व्यक्तेरवगतिः ।
न चैवं व्यक्तेरपि वाच्यत्वप्रसङ्गः अनिर्धारितरूपाया एव तस्या अवगमान्निर्धा-
रितरूपाया अर्थप्रकरणादिलभ्यत्वादाकृतेस्तु निर्धारितरूपत्वात् सैव शब्दार्थ
इति भावः ।
ननु शब्दाकृतिप्रत्ययसन्निधाने व्यक्तिप्रत्ययस्य आकृतिप्रत्यय एव हेतुः । न
शब्द इति कथं निश्चय इति चोदयति—तदेतदित्यादिना । न प्रत्यक्षः न स्फुट
इति यावत् । परिहरति—सोऽन्वयव्यतिरेकाभ्यामिति । व्यक्तिप्रतीतेराकृति-
प्रतीत्यन्वयव्यतिरेकानुविधायित्वाच्छब्दान्वयव्यतिरेकानुविधानाभावाच्च स
विभागो लभ्यत इत्यर्थः । तत्राकृतिप्रत्ययान्वये व्यक्तिप्रत्ययान्वयमाह—अन्तरेणा-
पीति । प्रत्यक्षादिप्रमाणान्तरेणापीति भावः । अनेनैव शब्दव्यतिरेके व्यतिरेका-
भावोऽपि दर्शितः । आकृतिप्रत्ययव्यतिरेके व्यक्तिप्रत्ययव्यतिरेकमपि दर्शयति--
यस्त्विति । मानसव्यभिचारो अनेकाग्रतादिः । यथा हि कदाचिदाकृतिं स्वतन्त्रा-
मवबुध्यते, शब्दात् नैवमाकृतिमबुद्ध्वा व्यक्तिं कदाचिदपीति भावः ।
भवत्वन्वयव्यतिरेकाभ्यामाकृतिप्रत्ययस्यैव व्यक्तिप्रत्ययनिमित्तत्वादाकृतिः
शब्दार्थः तथापि व्यक्तिधर्मत्वेन तन्निरपेक्षायाः प्रतीत्ययोगात् व्यक्तिविशिष्टैवाकृतिः
शब्दार्थो भविष्यतीति शङ्कते—ननु व्यक्तीति । यदि व्यक्तिविशिष्टा जातिरभिधी-
येत । तदा व्यक्तिपक्षोक्तदोषो व्यक्त्यन्तरे प्रयोगासिध्यादिरूपः प्राप्नोतीति
परिहरति—व्यक्तिविशिष्टायाश्चेदिति । व्यक्तिविशिष्टाना मपि व्यक्तिवदनेकत्वा-
३३ ] प्रथमाध्याये तृतीयपादः ६७१
दितिभावः । यस्मादनुगतस्यैव शब्दशक्तिप्रतियोगित्वं तस्मादाकृतिरेवानुगता
शब्दार्थः । व्यक्तिप्रत्ययस्तु तदन्तर्भाविनेति निगमयति-तस्मादिति ।
यदुक्तम्-आकृतेरनुवृत्तत्वेऽपि विशेषणतया गुणभूतत्वादन्येन केनचित्प्रधान-
भूतेन भवितव्यमिति प्रधानं व्यक्तिः शब्दार्थः इति, तदनुवदति-नन्विति ।
शब्दात्प्रतीयमानस्य शब्दार्थत्वादाकृतेश्च तथाभावात्सैव शब्दार्थ इति परिहरति-
न गुणभाव इति ।
ननु शब्दात्प्रतीयमानोऽपि गुणभूतैवाकृतिः प्रतीयत इति कथं शब्दार्थोऽत
आह-अर्थादिति । अर्थः-सामर्थ्यम् । एतदेव विवृणोति स्वार्थश्चेदिति ।
चयनवाक्ये श्येनशब्दस्याकृत्यर्थत्वादाकृतिः प्रधानभूता । प्रोक्षणवाक्ये तु व्रीहि-
शब्दस्य व्यक्तिपरतया गुणभूता न गुणत्वप्रधानत्वयोः शब्दस्य व्यापार इत्यर्थः ।
एवं व्यक्त्यन्तरे प्रयोगानुपपत्त्या व्यक्त्यर्थत्वनिराकरणेनाकृत्यर्थत्वे समर्थिते
परः स्वोक्तमाकृत्युपलक्षितत्वपक्षमुत्थापयति-नन्विति । दण्डीत्यत्र तावदिनि-
प्रत्ययान्तेन दण्डिशब्देन न दण्डोऽभिधीयते । तथापि दण्डविशिष्टः प्रतीयते ।
एवमिहापि नाकृतिरुपलक्षणभूताभिधीयते । व्यक्तयस्तु तदुपलक्षिताः अभिधीयन्ते
इति न व्यक्त्यन्तरे प्रयोगानुपपत्तिरित्यर्थः । आकृतिविशिष्टा आकृत्युपलक्षितेति-
यावत् । न चाकृतेरुपलक्षणभूताया दण्डो विशेषणभूतः कथं दृष्टान्तस्स्यादिति
वाच्यम्; व्यावर्तकत्वसाम्येन विशेषणोपलक्षणयोः दृष्टान्तदार्ष्टान्तिकभावोपपत्ते-
रित्यवसेयम् । तदेतद् दूषयति-नैतदित्यादिना । दृष्टान्तेऽपि किमिति प्रत्ययेना-
भिहितोऽपि दण्डो विशेषणमित्युच्यते किं वा अप्रतीतोऽपीति तत्राद्यमङ्गीकरोति-
सत्यमिति । द्वितीयं प्रत्याह-न त्विति । केन तर्हि दण्डः प्रत्यायितस्तत्राह-
अस्ति तत्रेति । द्वितीयपक्षनिरासफलमाह-तस्मादिति । इहापि तर्हि गोशब्दावयवो
गोत्वप्रत्यायकोऽस्तु तत्राह-न त्विति । यतोऽवयवसद्भावाद् हेतोः ततोऽवय-
वादाकृतिरवगता न गोशब्द आकृतिवचन इत्युच्येत, सोऽवयवो नास्तीति योजना,
तेनास्याखण्डशब्दत्वेनावयवाभावादप्रतीतस्य चाविद्यमानकल्पत्वेनोपलक्षणत्वा-
भावादनेनैव गोत्वप्रतीतिराश्रयणीयेति भावः ।
ननु यथा दण्डिशब्दस्य दण्डे प्रयोगाभावादेव विशिष्टवचनत्वमेवं गोशब्द-
स्यापि कल्प्यताम्, अत आह - यथेति । नाकृतावप्रयुक्तः किं तु प्रयुक्त एवेत्यर्थः ।
कथमाकृतौ प्रयुक्तस्तत्राह-तदर्थमेवेति । सर्वत्राकृतौ प्रयोगप्रतिपादनाय हि
श्येनशब्दस्याकृत्यर्थता दर्शितेत्यर्थः । केवलशब्दः प्राधान्याभिप्रायः । श्येनशब्द-
प्रयोगस्याकृतिप्राधान्यमुक्तमुपजीव्य शब्दानामाकृत्यर्थत्वे हेत्वन्तरमाह-तदित्या-
६७२ मीमांसादर्शनम् [ सू०
दिना । यथा सत्यन्वयव्यतिरेकाभ्यां चाकृतिवचन इति गम्यत इति सम्बन्धः ।
तत्र व्यक्त्यन्वयं विनैवाकृत्यन्वये प्रयोगान्वयमुदाहरति—असतीति । व्यक्त्यन्व-
येऽप्याकृतिव्यतिरेके प्रयोगव्यतिरेकमाह—न त्विति । व्रीहिशब्दो भावप्रधानः,
पूर्वं व्यक्तिप्रतीतेराकृतिप्रत्ययाधीनत्वेऽन्वयव्यतिरेकावुक्तौ । इदानीं चाकृतिप्रत्य-
यस्य शब्दाधीनत्वम् इति भेदः । सूत्रतात्पर्यार्थमुपसंहरति---तस्मादिति ॥ ३३ ॥
त० वा०—किं च १ नैवेष्टकाभिराकृतिसम्पादनमभ्युपगतम्, यतः स्वभावा-
त्स्नाय्वाद्यारब्धद्रव्यसमवायित्वेनोपालम्भः स्यात्, पिष्टपिण्डसिंहवत्साद्दश्यसंपत्तिः
पक्षद्वयेऽपि चोदनार्थः । सा त्वाकृत्यन्तरविलक्षणश्येनाकृत्या स्यात्, न तु व्यक्त्यन्तर-
विलक्षणश्येनविशेषेणाऽसाधारणेन वा । निर्विकल्पत्वात्सामान्यविशेषानपेक्षं व्यक्ति-
मात्रसादृश्यमविधेयम्, सर्वद्रव्येषु तुल्यत्वात् । एकव्यक्तिपरिग्रहाच्च व्यक्त्यन्तरेण
सादृश्यं न कार्यं स्यात् । तस्माच्छ्येनचित्क्रिया व्यक्तौ शब्दार्थे न सम्भवति ।
न साधकतम इति । न ह्येवं स्मृतिः श्येनेश्चीयत इति श्येनचित्, कर्मण्यन्त्या-
ख्यायाम्' (पा. सू. ३।२।९२) इति हि सा । श्येनं चयनेन साधयेदितीप्सिततमत्वम् ।
तत्रापि मुख्यासम्भवात्सादृश्यपरिग्रहः असाधारणे २ शब्दप्रवृत्त्यसम्भवात्,
अव्यपदेश्यत्वेन च सर्वत्राविशेषात्, सामान्याकारेण च निरूपणे विकल्पात्,
व्यापकापेक्षया, व्याप्यसामान्यस्य नैव ३ विशेषव्याप्यापेक्षयेतरत्राऽऽकृतिः । तत्र
विशेषपक्षे सम्बन्धनानन्वाख्यान-व्यभिचार-सामान्यबुद्ध्यभाव-प्रत्यर्थशक्तिकल्पनादयो
दोषाः । न च यत्र संशयः तत्प्रत्याय्यः भवतीति निर्विषयता शब्दस्य ।
एतेन स्वतन्त्रोभयाभिधानमार्गः प्रत्युक्तः । व्यक्तिविशिष्टाकृतिमार्गोऽपि ।
'नागृहीतविशेषणा' इति न्यायाद् व्यक्तेः प्रथमग्रहणप्रसङ्गात् । सम्बन्धसमुदाय-
योरपि स्वरूपप्रत्ययाभावात्सर्वत्र चाविशेषादवश्यं सम्बन्धिसमुदायिविशेषणताऽ-
भ्युपगन्तव्या भवति । तत्रापि शक्तित्रयकल्पना । व्यक्त्यंशे चोक्तदोषप्रसङ्गः । न
च व्यक्त्याकृत्योर्भिन्नकार्ययोर्गुणप्रधानानावस्थयोः समुदायोपगमनं युक्तम्,
अनत्यन्तभेदाच्च । भिन्नधर्मौ सम्बन्धसमुदायौ न युक्तौ ।
१. 'अन्यदर्शनाच्च' इति पूर्वपक्षसूत्रगतं भाष्यं स्पष्टत्वादुपेक्ष्य, 'आकृतिस्तु क्रियार्थत्वात्'
इति सिद्धान्तसूत्रगतं 'श्येनचितं चिन्वीत' इति वचनमाकृतौ सम्भवतीति भाष्यं
यथाश्रुतार्थमसङ्गतमिव मन्वानो दृष्टत्वेन बुद्धिस्थं दूषयितुमुपक्रमते-किंचेत्यादिना ।
२. असाधारणेत्यारभ्येतरत्राऽऽकृतिरित्यन्तो वार्तिकग्रन्थः यथा आकृतिः शब्दार्थः इत्या-
रम्य-शक्यत आश्रयितुमित्यन्तमभाष्यग्रन्थव्याख्यानार्थस्तथा न्यायसुधायां विस्तारः ।
३ क. नैवं ।
३३ ] प्रथमाध्याये तृतीयपादः . ६७३
आकृतिविशिष्टोऽपि व्यक्तिविशेषो नैव प्रतीयते । व्यक्तिविशेषबुद्ध्यभावाद्
व्यक्तिमात्रमिति चेत् ? न तदानीं तस्याऽऽकृतितोऽन्यत्वेनानिरूपणात् । मात्रशब्दो
हि सामान्यवाचीत्याकृतिरेवोच्यते । नानाकारेषु च वस्तुषु तद्भेदानुसारित्वाच्छ-
क्तीनामन्वयव्यतिरेकाभ्यां गोत्वाकारनिबन्धनेव गोशब्दवाच्यत्वशक्तिर्गम्यते ।
तदेकाधारसामान्यान्तरादवगतिर्विशेषाकाङ्क्षा वेत्यर्थव्याप्यव्याप्तिभ्याम् ।
अनत्यन्तव्यतिरेकाच्चाऽऽकृतेरमूर्तत्वाच्चाश्रयदोषाप्रसङ्गः । सा हि निष्कृष्ट-
रूपा, क्रियायोगिनी तु व्यक्त्युपेता भवतीवेति प्रोक्षणावेक्षणादि तु न कथंचिन्न
सम्भवति । विशसनाद्यपि तु व्यक्त्यव्यतिरेकापेक्षया सम्भवत्येव । तथा
हि-पश्वादिष्वपनीताङ्गेषु विशेषबुद्ध्यभावात्सामान्यरूपैव विशसनादिविशिष्टा
बुद्धिर्दृष्टा ।
नन्वेवमनित्याऽऽकृतिः स्यात्, तेनांशेनेष्टैव । आश्रयान्तरविनाशात्तु सर्वैरप्य-
विनाशोऽवश्यमेवेष्टव्यः । तेन यत्तावन्मात्रमेव तस्य विनाशः अनेकदेशस्य तु न
कथंचिद्विनाशः स्यादित्युभयथा व्यवहारः । अत्यन्तव्यतिरेके तु नैष धर्मविधि-
विषयो व्यवतिष्ठेत । न च पशुत्वममूर्तत्वात् । तदुपलक्षितं तु यद् द्रव्यम्, तद्
द्रव्यत्वादृते न ताद्रूप्येण गम्यत इत्येकार्थसमवायाद्व्यापकत्वाच्च द्रव्यं गमयि-
तव्यम्, तत्राप्यमूर्तत्वे दोषः । आश्रयोपलक्षणाच्च द्रव्यमात्रप्रसङ्गः । विशेषस्तु
पशुत्वस्य वा द्रव्यत्वस्य वाऽव्यापकत्वादगम्यः । न वाऽप्रतीतं विधिना संबध्यते ।
न च यत्र संशयः तत्प्रतीतम् । न चान्यत्रोक्तो धर्मस्तत्रासंभवादन्यत्र कार्यः ।
तस्मान्न सामान्यकृतो विशेषेषु युक्तः, विशेषा अपि व्यपदेशात्सामान्यमेवेत्य-
मूर्तता । असाधारणेन तु नैव व्यवहारस्तस्मादनिरूप्यो धर्मविधिविषयः ।
सामानाधिकरण्यादि च प्रसिद्धिविपरीतं लक्षणया कल्प्यम् । भाष्यकारेण
तु व्यतिरेकाभ्युपगमेनाऽऽश्रयमात्रगतिरुक्ता । विशेषरूपा न कदाचिद् व्यक्तिः
प्रतीयते । योऽप्याश्रयिभावः, सोऽप्यौपचारिकः । सामान्याच्च विशेषलक्षणं तत्र
नाऽऽश्रयितव्यम् । आक्षेपमात्राभावात्, अथ वैतद्विषय एवायं प्रपञ्चः ।
किं शब्देनाऽऽकृत्या वेति । अन्वयव्यतिरेकाभ्यां चाऽऽकृत्येति निर्णयः । यो
हि धूमादग्निमत्त्वं प्रतिपद्यते, तस्य तैक्ष्ण्येऽप्याकाङ्क्षा सिद्धा । मानसादपचरा-
दिति । यो हि जाड्यात्सामान्यवाचितां हित्वा, कंचिदेव विशेषं यत्र सम्बन्धानु-
भवः तं वाच्यं मन्यते, तस्य सामान्याप्रतीतेर्न विशेषान्तरापेक्षा भवति ।
अथ वा यथा शब्दात्स्वतन्त्रामाकृतिं बुध्यते, नेवं कदाचिदाकृतिमबुद्ध्वा
व्यक्तिमिति । केन तर्हि गोत्वगोशब्दयोर्विशेषः ? व्यतिरेकांशस्यैकत्र विवक्षा ।
४३
पादीयमानत्वे संशयः, स संख्याधारविषयः । उद्दिश्यमानेषु निर्णय एव । गवादि-
६७४ मीमांसादर्शनम् [ सू०
गोत्ववानिति तु स्फुटं प्रत्ययेन जातिमदभिधानम् । विभागोपपत्तेः । सामान्यस्य
वोपलक्षणत्वान्न भेदपक्षदोषः । भेदानामेव चायं प्रत्येकं सर्वेषां वाचकः । यस्तू-
पादीयमानत्वे संशयः, स संख्याधारविषयः । उद्दिश्यमानेषु निर्णय एव । गवादि-
शब्दग्रहणं सर्वनामाख्यातशब्दानामन्तर्भावार्थम् । प्रयोजनं सामान्यविशेषशब्द-
योरेकविषयत्वात्सामान्यशिष्टस्य विशेषशिष्टेनाबाधः पूर्वपक्षे ।
परमतेनाधिकरणं व्याख्याय स्वमतेन नामाख्यातयोरर्थनिर्णयः इति निरूपणम्
एवं वा—गौरित्येवंविधाः शब्दाः साधुत्वेन निरूपिताः ।
तेषामेवाभिधेयेऽर्थे व्यापारः क्वेति चिन्त्यते ॥ ९९८
चतुर्विधे' पदे चात्र द्विविधस्याऽर्थनिर्णयः ।
क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः ॥ ९९९
तयोरर्थाभिधाने हि व्यापारो नैव विद्यते ।
यदर्थद्योतकौ तौ तु वाचकः स विचार्यते ॥ १०००
वाचकत्वेऽपि पाश्चात्यमनुयात्येवमादिषु ।
प्रतीयते विशेषो यः संशयेन स नाऽऽप्यते ॥ १००१
यदि ह्यर्थद्वये बुद्धिर्निपातोच्चारणाद्भवेत् ।
ततो विचारो जायेत न सामान्यधिया विना ॥ १००२
आख्याताथविचारस्य भावार्थाधिकरणे कृतत्वात् अत्र प्रकृत्यर्थविचारः
आख्यातस्यापि नन्वत्र न युक्ताऽर्थविचारणा ।
द्वितीयादावियं यस्माद्विस्तरेण करिष्यते ॥ १००३
कः पुनर्भाव² इत्यादौ विवेकेनार्थनिर्णयः ।
आख्यातस्य कृतस्तेन तच्चिन्ता नोपपद्यते ॥ १००४
प्रत्ययार्थस्य भावस्य वाच्यता प्रतिपादिता ।
प्रकृत्यर्थविवेकार्थं विचारः क्रियतेऽधुना ॥ १००५
प्रत्ययस्यापि वा तत्र भावार्थत्वे निरूपिते ।
सामान्यं वा विशेषो वा किं वाक्यमिति चिन्त्यते ॥ १००६
अत्र सिद्धस्यैव तत्र व्यवहारो भाष्यकृतः
या चोक्ता भाष्यकारेण यागादेरभिधेयता ।
सिद्धा सेह विवेकार्थं तत्र भावस्य भाषिता ॥ १००७
१. नामाख्यातोपसर्गनिपातरूप इत्यर्थः ।
२. जै० सू० २-१-१ इत्यत्र भाष्यकारेण ।
३३ ] प्रथमाध्याये तृतीयपादः ६७५
यज्याद्यर्थेऽपि वा वाच्ये किं सामान्यविशेषयोः ।
अभिधेयमिति प्राप्ता चिन्ता कर्तुं क्रियापदे ॥ १००८
अपूर्वं कस्मादिति प्रधानविचारे न पुनरुक्तिशंका
अपूर्वं भावशब्देभ्यो द्रव्यादिभ्यः किमिष्यते ।
एषा तत्र च चिन्तोक्ता शेषा प्रासङ्गिकी कथा ॥ १००९
नामाख्यातपदे तेन कस्यार्थस्याभिधायके ।
किमाकृतेरुत व्यक्तेरिति चिन्ता प्रवर्तते ॥ १०१०
प्रयोगस्य प्रतीतेश्च तुल्यत्वाच्छब्दलक्षणे ।
व्यक्तिपक्षाभिधानाच्च संशयः प्रतिभाति नः ॥ १०११
संगतिसंशययोरुपपादनम्
कथं लक्षणसंबन्धश्चिन्तायाः प्रकृतेन वा ।
स्मृतिमूलविचारेण वक्तव्यं त्विदमादितः ॥ १०१२
इयं प्रासङ्गिकी चिन्ता साधुशब्दे निरूपिते ।
उदाहृतस्य तस्यैव क्रियतेऽर्थविनिश्चयः ॥ १०१३
वक्तव्यः पूर्वमर्थश्चेच्छब्दरूपनिरूपणात् ।
न हि वाच्यमविज्ञाय साधुत्वमवधार्यते ॥ १०१४
अनिश्चितेऽपि वाच्यत्वे व्यक्ताकृत्योर्विवेकतः ।
साधुत्वं शक्यते ज्ञातुं तेन वाच्यमिहोच्यते ॥ १०१५
वाच्यमात्रे हि साधुत्वमविज्ञाते न लभ्यते ।
न चाऽऽकृत्या न च व्यक्त्या विना तन्नोपपद्यते ॥ १०१६
प्रकारान्तरेण संगत्यूत्पादनम्
अथ वोक्तेन मार्गेण सर्वा व्याकरणस्मृतिः ।
प्रयाणमिति सिद्धस्य किंचिदत्र विचार्यते ॥ १०१७
व्यक्तिर्वाच्येति विज्ञानं न सन्मूलमसंभवात् ।
तेन व्याचरणेऽपीदृग् न प्रमाणं स्मृतिर्मता ॥ १०१८
स्मृतेस्तेनापवादोऽयं प्रामाण्यस्य क्वचित्कृतः ।
युक्तो लक्षणपादाभ्यां पूर्वया चापि चिन्तया ॥ १०१९
आकृतिपक्षेऽपि क्रियाया उपपत्तिर्व्यक्तिमादायैव वाच्येति फलवैकल्या-
भावशंका-समाधाने
ननु चाऽऽकृतिपक्षेऽपि व्यक्तावेव क्रियाक्रिये ।
शब्दार्थे संभवात्तेन किमर्थैषा विचारणा ॥ १०२०
६७६ मीमांसादर्शनम् [ सू०
यद्यप्येवं न भेदोऽस्ति वेदार्थकरणे नृणाम् ।
दधि विप्रेभ्य इत्यादौ फलं लोके भविष्यति ॥ १०२१
व्यक्तिपक्षे विकल्पः स्यात्कौण्डिन्ये दधितक्रयोः ।
सामान्यवाक्यदौर्बल्यात्क्रममेवेतरत्र तु ॥ १०२२
वेदेऽपि च विशेषोऽस्ति व्रीहिप्रोक्षणचोदके ।
दध्नेत्यादिषु भेदश्च जायते होमचोदके ॥ १०२३
प्रोक्षणं पूर्वपक्षेऽपि कर्तव्यं लौकिकेष्वपि ।
व्रीहिषु श्रुतिसामर्थ्याद्वाधित्वा संनिधिक्रमम् ॥ १०२४
प्रकृतेष्वेव सिद्धान्ते श्रुतिसंनिध्यनुग्रहात् ।
तत्रापि कृत्स्नमस्त्येव व्रीहित्वं हि श्रुतीरितम् ॥ १०२५
एवं होमेऽपि दध्यादौ प्रकृतेऽप्रकृतेऽथ वा ।
प्रकृते श्रुतिवाच्यस्य होमत्वस्यापि संभवात् ॥ १०२६
सोपपत्तिकमन्यच्च वक्तव्यमनया दिशा ।
कर्तव्या तेन यत्नेन चिन्तेयं सप्रयोजना ॥ १०२७
ननु गौरितिशब्दादौ सर्वमेतद्विचारितम् ।१
तेन तेन गतार्थत्वात्पुनश्चिन्ता न युज्यते ॥ १०२८
आकृतिश्शब्दार्थ इत्यत्र हेतूपन्यासार्थमिति कथनम्
आकृतेरभिधेयत्वप्रतिज्ञा केवला कृता ।
तत्रेदानीं सहेतुत्वं तस्या एवाभिधीयते ॥ १०२९
यथा वाऽऽकृतिरित्यादौ भाष्यकारेण चोदितम् ।
पुनरस्याः प्रतिज्ञाया हेतुरप्यभिधास्यते ॥ १०३०
आकृतिश्शब्दार्थत्वं पूर्वसिद्धं व्यक्तेर्वाच्यावाच्यत्वचिन्ता
यद्वोक्तस्तत्र सद्भावः शब्दार्थत्वमिहोच्यते ।
या तु शब्दार्थता प्रोक्ता सेह सिद्धा न चिन्तिता ॥ १०३१
उक्ते वाऽप्यभिधेयत्वे जातेः सद्भावसिद्धये ।
व्यक्तिर्वाच्या न वेत्येतदगतार्थं विचार्यते ॥ १०३२
एतच्चिन्ताप्रसिद्धयर्थमिदं तावद्विचार्यते ।
शब्दार्थौ लौकिकौ वेदे किमन्याविति संशयः ॥ १०३३
१. जै० सू० ( १-१-५ ) इत्यत्र वृत्तिकारमतानुवादे शब्दार्थसम्बन्धाक्षेपपरिहारग्रन्थे
भाष्यकारैरिति शेषः ।
३३ ] प्रथमाध्याये तृतीयपादः ६७७
एकत्वे सति कर्तव्यो विचारः शब्दवाच्ययोः ।
भेदे तु संशयाभावान्न चिन्तावसरो यतः ॥ १०३४
शब्दार्थेन न कार्यं हि व्यवहारेऽर्थलक्षणे ।
लौकिकव्यवहारार्थं तेनेदं न विचार्यते ॥ १०३५
वेदे तु प्रत्यभिज्ञाने शब्दार्थविषये सति ।
विवेकः शक्यते ज्ञातुं प्रतीतेर्वाच्यगम्ययोः ॥ १०३६
अलौकिके च शब्दार्थे वाच्यवाचकरूपयोः ।
अज्ञातयोर्न जायेत सन्देहो वाच्यवस्तुनि ॥ १०३७
तेन प्रतीतशब्दार्थे निर्णयार्थमिदं पुरा ।
शब्दनित्यत्वाधिकरणे लौकिकशब्दानामभेदो विचारितः । अत्र लौकिकानां
वैदिकानां शब्दानां भेदाभेदविचार इति प्रकारान्तरम्
एकत्वं विद्यते नेति चिन्त्यं शब्दाभिधेययोः ॥ १०३८
संख्याभावादिति१ ह्येतन्ननु स्पष्टं निरूपितम् ।
शब्दस्य प्रत्यभिज्ञानान्नान्यतोच्चारणान्तरे ॥ १०३९
अभेदकारणं चात्र प्रत्यभिज्ञानमेव ते ।
अन्यतूपचयत्वेन तेन चिन्ता न युज्यते ॥ १०४०
लौकिकेष्वेव शब्देषु तत्राभेदः प्रसाधितः ।
वैदिकानामभेदार्थं चिन्तनीयमिदं पुनः ॥ १०४१
व्यपदेशादिभेदाच्च कथं भेदो न जायते ।
तवानुक्तमिदं वक्तुं विचारोऽयं प्रवर्तितः ॥ १०४२
लौकिकवैदिकानां शब्दानांमर्थभेदाभेदविचारः
एकत्वेऽपि च शब्दस्य सिद्धे तत्रेह चिन्त्यते ।
किमर्थो भिद्यते नेति तेनाप्यपुनरुक्तता ॥ १०४३
अर्थभेदे च चिन्तेयं शब्दाभेदे तु सत्यपि ।
घटते कस्य वाच्यत्वं व्यक्त्याकृत्योर्द्वयोरपि ॥ १०४४
व्यपदेशादिभेदेन शब्दे च प्रत्यभिज्ञया ।
भेदाभेदनिमित्ताभ्यां क्रियते संशयोद्भवः ।
पूर्वपक्षः
किं प्राप्तमुच्यते भिन्नौ शब्दार्थौ लोकवेदयोः ॥ १०४५
१. जै० सू० (१-१-६)।
६७८ मीमांसादर्शनम् [ सू०
व्यपदेशस्य भिन्नत्वादाख्याया लक्षणस्य च ।
स्वरोच्चारणभेदाच्च लोपव्यत्ययदर्शनात् ॥ १०४६
स्वरयूपादिशब्दैश्च स्पष्टभेदैः सह श्रुतेः ।
अनध्यायादिभेदाच्च शूद्रोच्चारणवर्जनात् ॥ १०४७
अश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनात् ।
अग्न्यादीनां च भिन्नत्वं भाष्ये यदभिधीयते ॥ १०४८
तदयुक्तं क्रियाभेदे कर्तृभेदे१ हि नेष्यते ।
हन्ति कर्तृत्वमग्नेश्च पदार्थेभ्यः प्रतीयते ॥ १०४९
अशाब्दं वह्निशब्दस्य तद्वाच्यं कथमुच्यते ।
हननं किं कृतं नेति प्रमाणं चात्र नास्ति नः ॥ १०५०
असता कथमन्यत्वं कर्मणाऽतः प्रतीयते ।
अपूर्वे वृत्रशब्दार्थे क्रियाशब्देऽप्यलौकिके ॥ १०५१
हन्तिकर्त्तरि वह्नित्वं कथमध्यवसीयते ।
स्तुतिमात्रपरत्वाच्च न वह्नित्वं विधीयते ॥ १०५२
अक्रियत्वाच्च भाष्योक्तैर्वाक्यैरित्यभिधास्यते ।
तेनोक्तस्यैव शब्दस्य त्रिवृदादेर्नवादिषु ॥ १०५३
वृत्तिरर्थेष्वपूर्वेषु वक्तव्या भेदसिद्धये ।
भेदपक्षे हेत्वन्तरोपन्यासः
यच्चान्यदिदमित्याह२ रूपभेदं क्रियाश्रुतेः ॥ १०५४
तदसत्यं न शब्दस्य भेदोऽर्थगुणकारितः ।
तेन स्वरादिभेदेन वक्तव्या भिन्नरूपता ॥ १०५५
पूर्वोक्तेनैव मार्गेण नार्थभेदनिबन्धना ।
तस्माच्छब्दार्थयोर्भेदः स्पष्ट इत्यवधारिते ॥ १०५६
तावेव वेदे शब्दार्थौ लोके याविति भाष्यते ।
वेदस्यैव प्रसज्येत सकलस्याप्रमाणता ॥ १०५७
अविज्ञातार्थसंयोगात्स्थितप्रामाण्यबाधया ।
प्रयोगस्याग्निहोत्रादेश्चोदनायाश्च जायते ॥ १०५८
१ क. कर्तृभेदो ।
२. लोकवेदयोः शब्दार्थानामनन्यत्वनिरूपणावसरे भाष्यकार इति शेषः ।
३३ ] प्रथमाध्याये तृतीयपादः ६७९
अभावः प्रत्ययार्थस्य विधेरप्रतिपादनात् ।
अर्थान्तरे च शब्दस्य न प्रयोगो विधीयते ॥ १०५९
वेदेनाशास्त्रहेतुत्वात्सम्बन्धस्येति हि स्थितम्१ ।
सिद्धान्तः
किं चाविभक्तरूपत्वं प्रत्यभिज्ञायते स्फुटम् ॥ १०६०
वैदिकेष्वपि शब्देषु प्रत्यक्षेण पुनः पुनः ।
यद्वा विभागशब्देन शब्दस्योच्चारणे सति ॥ १०६१
गोत्वबुद्धेः समानत्वान्न भेद इति कीर्त्यते ।
लक्षणस्याविभक्तत्वं शब्दानां वेदमुच्यते ॥ १०६२.
सर्वथा शक्यते भेदो न वक्तुं शब्दवाच्ययोः ।
एकत्वे याज्ञिकानां च प्रसिद्धिर्नुगृह्यते ॥ १०६३
मीमांसा चापि वेदार्थतत्त्वनिर्णयकारणम् ।
व्यपदेशादिभेदैश्च न भेदोऽत्रानुमीयते ॥ १०६४
प्रत्यक्षप्रत्यभिज्ञाते वेदशब्देऽन्यरूपता ।
व्यपदेशादिभेदश्च स्वरभेदादिकारितः ॥ १०६५
स्वरादयश्च भिद्यन्ते वेदत्वात्किमिहोच्यते ।
स्वरयूपादिशब्दानामन्यत्वेनेतरत्र२ च ॥ १०६६
नान्यत्वं युज्यते बाधात्प्रत्यक्षप्रत्यभिज्ञया ।
वचनाद्धर्मभेदस्तु शूद्रवर्जितताऽपि वा ॥ १०६७
धर्मवुच्चारणस्यैतौ न शब्दस्य स्वरश्च यः ।
अश्वबालादिशब्दार्थभेदे वचनकारिते ॥ १०६८
न च भिन्नत्वमन्येषु प्रज्ञातार्थेषु युज्यते ।
उत्तानानां च केषांचिद्वह्रतां न विधीयते ॥ १०६९
गोत्वं तेषामसिद्धत्वात्पदार्थग्रहणादपि ।
विधेरन्यस्य शेषत्वात्स्तुतिरेषाऽवगम्यते ॥ १०७०
उत्तानेत्यादिका तेन नातो भेदः प्रतीयते ।
तस्माद्यावेव शब्दार्थौ लोके पूर्वं निरूपितौ ॥ १०७१
१. जै० सू० ( ३-२-२ ) इत्यत्र ।
२ ब. स्वर ।
६८० मीमांसादर्शनम् [ सू०
वेदे तावेव विज्ञेयाविति सिद्धं प्रमाणवत् ।
प्रकारान्तरोपन्यासेन प्रकृतस्यानुसन्धानम्
यद्वा चैवं यदा युक्ता चिन्तेयं क्रियतेऽधुना ॥ १०७२
किमाकृतेः पदार्थत्वं किं व्यक्तेः किं द्वयोरिति ।
बहवः प्रतिभान्त्यत्र पक्षाः प्रतिपदं च ये ॥ १०७३
ते च सर्वेऽभिधीयन्ते व्यामोहविनिवृत्तये ।
गौरित्युच्चरिते सप्त वस्तूनि प्रतिभान्ति नः ॥ १०७४
जातिर्व्यक्तिश्च सम्बन्धः समूहो लिङ्गकारके ।
संख्या च सप्तमी तेषामष्टपक्षी द्वयोर्द्वयोः ॥ १०७५
किं जातिरेव शब्दार्थो व्यक्तिरेवाथ वोभयम् ।
किं विकल्पोऽथ सम्बन्धः समुदायो निरूप्यताम् ॥ १०७६
जातिर्व्यक्तिविशिष्टा वा व्यक्तिर्जातिविशेषिता ।
जातिसम्बन्धयोरेवं सामान्यसमुदाययोः ॥ १०७७
जातिकारकयोश्चैवं संख्यासामान्ययोरपि ।
लिङ्गसामान्ययोरेवमेकैकस्येतरैः सह ॥ १०७८
अष्टौ पक्षा नियोक्तव्याः षड्भिः प्रत्येकमुक्तवत्
एवमानन्त्यमेतेषां पक्षाणामिह गम्यते ॥ १०७९
पक्षाणामानन्त्येऽपि भाष्यमतेन पक्षचतुष्टयवर्णनम् ।
पूर्वपक्षेऽपि चत्वारो भाष्ये चैते प्रदर्शिताः ।
व्यक्तेरेवाभिधेयत्वं द्वयोर्वा स्वप्रधानयोः ॥ १०८०
व्यक्तेर्जातिविशिष्टाया विपरीतमथापि वा ।
उपन्यासेन चैतेषां ज्ञेयाः सर्वे प्रपञ्चिताः ॥ १०८१
निराकरणयुक्त्या च निषिद्धा इति नोदिताः ।
तेनाऽऽद्यौ द्वावेव पक्षौ विचार्येते किमाकृतिः शब्दार्थो व्यक्तिरिति ।
भाष्यकारेण च संशयकारणमुक्तं सामान्यप्रत्ययाद्व्यक्तौ च क्रियासंभवा-
दिति । एतदयुक्तम् ! व्यक्तेरपि प्रतीयमानत्वात्कथं जातेरेव प्रतीतिरुपन्यस्यते ?
यदि च व्यक्तिर्न संप्रतीयेत, ततः संशय एव न स्यात्किमभिधीयतेऽनेनेति । न च
क्रियासंभवोऽभिधेयत्वे कारणं व्यक्त्यन्तराणामपि प्रसङ्गात् । तेन पूर्वोक्तमेव
संशयकारणं मन्तव्यम् । प्रयोजनप्रतीत्योः साधारणत्वात् शास्त्रान्तरे व्यक्तिपक्षाभ्यु
पगमात्संशयः ।
३३ ] प्रथमाध्याये तृतीयपादः ६८१
यद्वा शब्द उच्चारिते सामान्यप्रत्ययाद् व्यक्त्याकृत्योः सामान्यात्तुल्यात्प्रत्ययात्
व्यक्तौ च शब्दादाकृतावालम्भनस्पर्शनशयनसहशयनादिक्रियासंभवात्सामान्ये
व्यक्तौ च प्रत्ययात्क्रियासंभवादिति चोक्तम् ।
का पुनराकृतिः, का व्यक्तिरिति । कथं पुनरयं प्रश्नो यदा गौरित्येतस्य
शब्दस्य कोऽर्थ इत्यत्र जातिर्निरूपिता । नैष दोषः । येनैतन्न ज्ञातमसौ पृच्छति
का पुनराकृतिः ? का व्यक्तिरिति ? संदेहाद्वाऽत्र पुनरुभयस्मिन्प्रतीयमाने का
व्यक्तिः ? कियती वा जातिरिति । वैपरीत्येनैव कश्चित्पृच्छति यदा शाबलेयादि-
पिण्डान्न किंचिद् व्यक्तं वस्त्वन्तरं भिन्नमुपलभ्यते, तदा कुतोऽयं विवेको
व्यक्तिरियम्, जातिरियमिति ।
अथ वा व्यवहारार्थं सर्वैव चिन्ता क्रियते जातेश्च पदार्थत्वेऽपि व्यक्तौ क्रियासं-
भवान्निष्प्रयोजना चिन्ता । यतस्त्वसौ प्रयत्नेनैतद्विचारयति । तेन नूनं काऽप्यस्य
पिण्डादत्यन्तभिन्नव्यवहारयोग्या जातिरभिप्रेतेत्यभिप्रायः । तत्राऽऽह । द्रव्यगु-
णकर्मणां सामान्यमात्रमाकृतिरिति । यौ तावदज्ञानसंशयवादिनौ, तयोः
स्वरूपकथनमात्रेणैव निराकरणं वक्तव्यम् ।
यस्तु विपरीतवादी तस्यैव निराकरणमभिधीयते । यद्यपि जातिर्व्यक्तेर-
त्यन्तभिन्ना नोपलभ्यते, तथाऽपि शबलाकारे तस्मिन्नुपलभ्यमाने सामान्यबुद्धेरा-
लम्बनं प्रथमपादोक्तेन न्यायेनाऽऽकृतिः । इतरा व्यक्तिः । न चानेन ग्रन्थेन
जातेः सद्भावः, प्रमाणं वा प्रतिपाद्यते । व्यक्तेर्विवेकः केवलं कथ्यते । तेनैवाभि-
प्रायेण मात्रशब्दप्रयोगः अन्यथा तस्य गतार्थतैव भवेत् यदप्युक्तं नूनं काऽप्यत्यन्त-
भिन्ना जातिरभिप्रेतेति । तस्याप्युत्तरं द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिरभि-
प्रेता, नात्यन्तव्यतिरिक्तेति । द्रव्यादीनां च सर्वेषां यत्सामान्यं सत्तारूपं तदनेन
निर्दिश्यते, तन्निर्देशेनावान्तरसामान्यानामपि निर्देशसिद्धिः ।
यद्वा सामान्यशब्दस्य प्रत्येकसंबन्धाद् द्रव्यत्वादीनि त्रीणि सामान्यानि निर्दि-
श्यन्ते, सत्तया व्यवहाराभावात् ।
अथ वा मात्रशब्दप्रयोगाद् द्रव्यादिषु यावन्त्यवान्तरसामान्यानि, महासा-
मान्यं च तत्सर्वमभिधीयते । असाधारणविशेषा व्यक्तिरिति बहुव्रीहिः ।
असाधारणविशेषा यस्यां व्यक्तौ, सेयमसाधारणविशेषा, न त्वसाधारणाश्च
ते विशेषाश्चेति सामानाधिकरण्यं संभवति , उपरिष्टाद्विशेषाधारस्य व्यक्तित्वाभि-
धानात् । स्मृतेश्च १ । तेन सम्यगभिहितं किमाकृतिर्वा व्यक्तिरिति ।
१. नित्यद्रव्यवृत्तयो विशेषा इति स्मृति ।
६८२ मीमांसादर्शनम् [ सू०
तत्र पूर्वपक्षः
किं प्राप्तम् । आलम्भन-प्रोक्षण-विशसनादिप्रयोगचोदनाया व्यक्तिपक्षे भावात्,
अकृतिपक्षे चाभावात्, 'ब्राह्मणो न हन्तव्यः' 'सुरा न पातव्या' इत्यादिप्रतिषेध-
चोदनायाश्च व्यक्तिपक्ष एव संभवाद्देवदत्त गमभ्याजयेत्येवमादिलौकिकव्यवहार-
चोदनायाश्चोपपत्तेर्व्यक्तिः शब्दार्थ इति निश्चीयते । संख्याकारकोपपत्तेश्च । यदि हि
व्यक्तिः शब्दार्थो भवति, ततो वृक्षौ वृक्षाभ्यामिति प्रातिपदिकाभिहितासु
व्यक्तिषु प्रत्ययाभिहितद्वित्वादिसंख्या, करणादिकारकं चोभयमुपपद्यते, इतरत्र
तु जातेरसंख्येयत्वादकारकत्वाच्चोभयमप्यनुपपन्नम् १। लाक्षणिकव्यक्त्याश्रयणं
चाऽऽपद्येताम् । तथा च सर्ववैदिकवाक्यार्थानां लाक्षणिकत्वं स्यात् । व्यक्तिपक्षे च
पुरुषो देवदत्त इति मुख्यशब्दसामानाधिकरण्योपपत्तिः । जातिपक्षे लाक्षणिकद्वारं
सामानाधिकरण्यं कल्पयितव्यं भवेत् । तेनापि व्यक्तेः पादर्थत्वमवसीयते ।
'पशुमालभेत' इति च श्रुतेर्हृदयजिह्वादिभिर्व्यक्त्यवयवैरुपस्रिष्टाद् व्यवहारो दृश्यते,
न जात्या । कर्मभिश्च द्रव्यस्यापेक्षितत्वाद् व्यक्तिपक्षेऽपेक्षिताभिधानम्, नेतरत्र ।
सिद्धस्वरूपायाश्च व्यक्तेरभिधेयत्वं युक्तम्, नाप्रसिद्धाया जातेः । अतो व्यक्तिः
शब्दार्थः ।
किमित्युभयं वाच्यं नाऽऽश्रीयते, प्रयोगप्रतीतिक्रियोपपत्तेरिति चेत् ? न ।
अनेकक्तिकल्पनाप्रसङ्गादेकाभिधानेनैव संबन्धादिरत्र प्रतीतेरुपपन्नत्वाद् व्यक्तेरे-
वाभिधेयत्वम् । सामान्यप्रत्ययः कथमिति चेद् ? व्यक्तिसंबन्धादुपपत्स्यते ।
यत्रैव क्रियानुपपत्तिः, तत्रैव वाऽर्थापत्त्या व्यक्तिवचनत्वं युक्तम्, अन्यत्र तु पूर्वं-
प्रतीतेर्जातिवचनत्वमेव न्याय्यमिति चेत् ? न । उक्तमार्गेणानेकक्तिकल्पनादि-
दोषप्रसङ्गात् । अनवस्थितशब्दार्थसंबन्धापत्तेः, संशयापत्तेश्च । व्यक्तिवादिनः
कथं निर्निमित्तता व्यक्त्यन्तरे शब्दस्य प्रवृत्तिरिति चेत् ? तदाकृतिचिह्ननिमित्त-
त्वाद् व्यक्त्यन्तरे प्रयोगस्याविरोधः ।
भाष्यकारस्तु कथं सामान्यावगतिरित्युपन्यस्याऽऽकृतिश्चिह्नभूता भविष्यती-
त्युत्तरं ददाति, तदसंबद्धम् । कथं सामान्यप्रत्ययकारणे २ पृष्टे व्यक्त्यन्तरप्रयोग-
निमित्तं कथ्यते । तेनाध्याहारेणैतद् व्याख्येयम् । कथं सामान्यावगतिरिति चेत् ?
व्यक्तिसंबन्धात् । कथं व्यक्त्यन्तरे प्रयोगः ? चिह्नत्वादाकृतेरित्येवम् ।
यद्वा कथं सामान्यावगतिरिति चेदित्यपन्यस्ते, पूर्वपक्षवादी सामान्यावगति-
मपह्नोतुमशक्नुवन्नाकृतिविशिष्टव्यक्त्यभिधानपक्षं परिगृह्णात्याकृतिश्चिह्नभूता-
१. ब. संख्येयत्वाद् कारकत्वाच्चो । २. क. सामान्याप्रत्ययः कारणे ।
३३ ] प्रथमाध्याये तृतीयपादः ६८३
विशेषणभूताऽभिधेया भविष्यति । अतश्च तत्प्रतीतिरचोद्या । तेन केवला,
विशिष्टा वा व्यक्तिः शब्दार्थः । तथा च 'षड् देया' इत्येवमादिषु षडादिका
संख्योपपत्स्यते अन्यं तद्गुर्णमिति१ च व्यक्त्यन्तरेऽन्यशब्दोपपत्तिस्तद्धर्मता च
भविष्यति । अन्यथा व्यक्त्यन्तरानयनेऽपि जातेरन्यत्वादगुणत्वाच्चोभयमनुप-
पन्नम् । तस्माद् व्यक्तिः शब्दार्थ इति प्राप्ते ।
सिद्धान्तः
अभिधीयते । नैतत् शब्दवाच्येति; किं त्वाकृतिः पदार्थ इति विज्ञायते,
'श्येनचितं चिन्वीत' इति श्रवणात् । अत्र हि श्येनव्यक्तिं चयनेन कुर्यादाकृतिं
वेति वाक्यार्थी स्याताम् । यावदिष्टकाभिः२ श्येनव्यक्तेः कर्तुमशक्यत्वात्, स्नाव्या-
दिभिरप्यनिर्वृत्तेरिष्टकाबाधाच्छ्येनव्यक्तेः प्रयोजनकल्पनाच्चिनोतेर्मुख्यार्थत्वात्
'कर्मण्यग्न्याख्यायाम्३ इति स्मृतिपरित्यागप्रसङ्गाच्च । चयनेन श्येनव्यक्तिं
कुर्यादित्येवं तावन्नोपपद्यते । तथाऽऽकृतेरपीष्टकाभिः कर्तुमशक्यत्वात् दैवनिर्मित-
त्वात्, प्रयोजनकल्पनाच्चिनोतेर्यथार्थत्वप्रसङ्गात्स्मृतिबाधाच्चाऽऽकृतिं कुर्या-
दित्यपि नोपपद्यते । परिशेषाच्छ्येनमिव चितमग्निस्यलं चयनेन निर्वर्तयेदिति
वाक्यार्थः । ततश्च यया कयाचिच्छ्येनव्यक्त्या सदृशस्याग्नेश्चेतुमशक्यत्वात् ।
सर्वव्यक्तिसादृश्यासम्भवात्, अतीतानागतव्यक्तिसादृश्यानुपपत्तेश्च श्येनाकृति-
सादृश्यसंपत्तिसंभवाच्चाकृतिः शब्दार्थ इति निश्चीयते ।
अथ कस्माच्छ्येनव्यक्तिभिश्चयनचोदनेयं नाऽऽश्रीयते 'श्येनचितं चिन्वीत'
इति । तत्र भाष्यकारेणोत्तरं दत्तम् 'ईप्सिततमो ह्यसौ४ श्येनशब्देन निर्दिश्यते'
इति । तदयुक्तम् । न ह्यत्र श्येनशब्दः स्वार्थः, न च सकलश्येनचिच्छब्दोत्तरकालं
श्रुतत्वाद् द्वितीयायास्तदन्तो५, येनेप्सिततमार्थप्रतिपादकः स्यात् । तेन कर्मण्यग्न्या-
ख्यायामिति स्मृतेः श्येनशब्दार्थस्य करणत्वं निषेद्धव्यम् । कर्मणि हि कारके चिनोतेः
क्विप्प्रत्ययः स्मर्यते । यदि चिनोतिरग्न्याख्या भवति । न च चिनोतेः केवल-
स्याग्निवचनत्वं संभवति । तेन क्विबन्तचिनोतिश्रुतेः श्येनचिच्छब्दस्य सकल-
स्याग्निवचनत्वं निश्चीयते, न श्येनशब्दस्य पृथगर्थता । तेन न श्येनशब्दार्थं
करणतया विज्ञायते । यदि वासौ करणं स्यात्ततो लक्षणाभावात्तृतीयासमास-
वचनानुपपत्तिर्भवेत् । तृतीया चाश्रुता कल्पनीया । श्रुतकरणत्वे इष्टकापरित्यागश्च
१. क. तद्गुर्णामिति । २. क. दिष्टकादिः ।
३. पा० सू० ( ३-२-९२ ) । - ४. क. न ह्यसौ ।
५. नच श्येनशब्दो द्वितीयान्त इत्यर्थः ।
५८४ मीमांसादर्शनम् [ सू०
स्यात् । सत्यां च गतौ प्रतिषिद्धाऽनेकश्येनव्यक्तिहिंसा जायते, तेन करणत्वानु-
पपत्तेः श्येनमिव चितमग्निं चिन्वीतेति वाक्यार्थः । अतश्चोक्तेन न्यायेनाऽस्य
वाक्यस्याऽऽकृतिपक्षे संभवादाकृतिः पदार्थ इति ।
नैतदेवम् । न हि चयनक्रियासंभवमात्रेणाऽऽकृतेरभिधेयत्वं लभ्यते, व्यक्तिप-
क्षेऽप्युपलम्भनादिक्रियासंभवात् । बहुत्वाच्चालम्भनादिवाक्यानां तदन्यथानुपपत्त्या
व्यक्तेरेव पदार्थत्वमवसीयते । अथाकृतिपक्षेऽपि व्यक्तिलक्षणया तान्युपपत्स्यन्त
इत्युच्यते, तदैतदपि¹ शक्यमेव वक्तुं श्येनवाक्ये व्यक्तिराकृतिलक्षणार्थेति । युक्ता
चैकत्र लक्षणा, नेतरेषु बहुषु । अगत्या वा तृतीयासमासाश्रयणं श्येनवाक्ये
करिष्यते । संख्याकारकाद्युपपत्तिश्च व्यक्तिपक्षे तेन व्यक्तिः शब्दार्थ इति स्थिते
अभिधीयते जातिरभिधेयेति ।
कुतः—पूर्वं सामान्यविज्ञानाच्चित्रबुद्धेरनुद्भवात् ।
गामानयेतिवाक्याच्च यथारुचिपरिग्रहात् ॥ १०८२
गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्यं प्रतीयते तदाकार-
ज्ञानोत्पत्तेः पश्चाद् व्यक्तयः प्रतीयन्ते अतश्चाऽऽकृतिप्रत्ययस्य निमित्तान्तरा-
भावाद् व्यक्तिप्रत्यये च पूर्वप्रतीतसामान्यनिमित्तत्वादाकृतिः शब्दार्थ इति
विज्ञायते । यदि च व्यक्तयोऽभिधेया भवेयुः ततः तासां चित्रखण्डमुण्डादिविशेष-
स्वरूपग्रहणाद्विचित्रा शब्दोच्चारणे बुद्धिः स्यात् । एकाकारा तूत्पद्यते । तेनाप्या-
कृतिः शब्दार्थ इति निश्चीयते ।
सामान्यस्य वाच्यत्वसमर्थनम्
गामानयेति चोदितेऽर्थप्रकरणाभावे यां कांचित्सामान्ययुक्तां व्यक्तिमानयति,
न सर्वाम्, न विशिष्टाम् । यदि च व्यक्तेरभिधेयत्वम्, ततः सर्वासां युगपदभिहि-
तत्वादशेषानयनं स्यात् । या वाऽभिधेया सैवैकाऽऽनीयेत, यतस्त्वविशेषेण जाति-
मात्रयुक्ताऽऽनीयते । तेनापि सामान्यस्य पदार्थत्वं विज्ञायते ।
व्यक्तेर्वाच्यत्वेऽनुपपत्तिप्रदर्शनम्
व्यक्तिपक्षे च सर्वा वा स्वतन्त्रा व्यक्तयोऽभिधीयेरन्, व्यक्तिविशिष्टो वा समु-
दायः, काचिद्ध्येका व्यक्तिरिति । तत्र सर्वव्यक्त्यभिधानं तावदयुक्तम् । अनेकवाचक-
शक्तिकल्पनाप्रसङ्गादनित्यशब्दार्थसम्बन्धापत्तेरशेषव्यक्तिग्रहणशक्तेश्च सम्बन्धा-
ग्रहणे सति व्यवहारानुपपत्तेः । नित्यवद् गोशब्दस्याष्टशब्दवद् बहुविषयत्वादेक-
१. क. तदेतदपि ।
· ३३ ] प्रथमाध्याये तृतीयपादः ६८५
वचनद्विवचनश्रुत्यसम्भवाद् गोशब्दाभिहितासु च सर्वव्यक्तिषु शुक्लगुणाभावे गौः
शुक्ल इति सामानाधिकरण्यासम्भवात् । 'पशुना यजेत' इति च पशुशब्दोपात्ताभिः
सर्वव्यक्तिभिर्यागस्य कर्तुमशक्यत्वात्ततश्च वेदप्रामाण्यप्रसक्तिः ।
समुदायस्य वाच्यत्वनिरासः
एवं समुदायपक्षोऽपि न संभवति । तत्रापि हि विशेषणत्वेन व्यक्तयोऽभि-
धातव्याः ततश्चोक्तदोषप्रसङ्गः । व्यक्तिव्यतिरिक्तसमुदायकल्पना, तेन च
व्यवहाराभावादभिधानानानर्थक्यम्, समुदायिविनाशे च तस्याप्यनित्यत्वादनित्य-
शब्दार्थसम्बन्धप्रसङ्गः । समुदायस्य चैकत्वाद् द्विवचनबहुवचनानुपपत्तिः सामाना-
धिकरण्यासम्भवश्च चामूर्तेन यागाद्यसम्भवाद् वेदस्याप्रामाण्यम् ।
अथैका व्यक्तिरभिधीयत इत्युच्यते ? तत्रापि सम्बन्ध्यानित्यत्वम् । काऽसाव-
भिधीयत इत्यज्ञानाद्व्यवहाराणामसम्भवः । सामान्यप्रत्ययानुपपत्तिर्द्विवचनबहु-
वचनाभावप्रसङ्गः । प्राक् चाभिधेयव्यक्त्युत्पत्तेरुत्तरकालं च प्रयोगासम्भवः ।
समाने च गोत्वे प्रतीतौ चेयमभिधीयते, नेयमिति विशेषकारणं नास्ति ।
एतावता वार्तिकेन व्यक्तिसमुदायपक्षौ दूषयित्वा जातिपक्षः
समर्थितः अपरभाष्यव्याख्यायाम्
अतः परं भाष्यार्थः । यदि चैका व्यक्तिरभिधेया भवेत्, व्यक्त्यन्तरे प्रयोगो
न स्यात् अभिधेयव्यक्तेस्तत्राभावादत्यन्तविलक्षणत्वाच्च । सामान्यविशेषविनि-
र्मुक्ता हि व्यक्तिरित्युच्यते । न च सामान्यविशेषौ मुक्त्वा व्यक्त्यन्तरेऽन्यदस्ति,
येन शब्दप्रयोगः स्यात् । ननु च यथैवैका सामान्यविशेषविनिर्मुक्ता, तथा द्वितीया,
यतश्च यथैवैकस्यां सामान्यविशेषविनिर्मुक्तायां शब्दस्य प्रवृत्तिः एवमविशेषा-
दितरत्रापि भविष्यति । यदि सामान्यरूपम्, विशेषरूपं वा व्यक्त्यन्तरं स्यात्
ततो विलक्षणत्वाच्छब्दो न प्रवर्तेत. यदा तु तदप्युभयविनिर्मुक्तं रूपम्, तदा
तुल्यरूपत्वादयुक्ता शब्दस्य प्रवृत्तिरिति । यद्येवं सामान्यविशेषविनिर्मुक्तत्वा-
देकत्रैतरत्र च शब्दो वर्तते; हन्त तर्हि सामान्यविशेषविनिर्मुक्तत्वमेव सामान्यं
शब्दस्याभिधेयं स्यादिति सिद्धो नः पक्षः । तस्याऽऽकृतिशब्दवाच्यत्वे केवलं
भवतः प्रद्वेष इति ।
पूर्वपक्षवाद्याह नेवं मयोच्यते सामान्यविशेषविनिर्मुक्तत्वाद् व्यक्तौ शब्दो
वर्तते व्यक्त्यन्तरे वेति, किन्तु सामान्यविशेषव्यतिरेकेणान्यापोहवद्व्यक्तिः
कथ्यते । तत्र कथं सामान्यमेव तर्हि वाच्यमित्युच्यते । यो ह्यर्थः सामान्यस्य
६८६ मीमांसादर्शनम् [ सू०
विशेषाणां चाऽऽश्रयः, सा व्यक्तिः न सामान्यविशेषौ ततश्च यथैकस्यां सामान्य-
विशेषव्यतिरिक्तायां व्यक्तौ शब्दस्य वृत्तिः तथाऽन्यस्यापि भविष्यति ।
सिद्धान्तवाद्याह—यदि तावत्सामान्यविशेषविनिर्मुक्तत्वाच्छब्दो वर्तते, ततः
सामान्यमेव वाच्यम् । अथ समानं निमित्तं नास्ति, तदा व्यक्त्यन्तरे वृत्तिर्न
प्राप्नोति , तदभावेऽपि चेद्वर्तेत, ततोऽश्वव्यक्तावपि वृत्तिप्रसक्तेरतिप्रसङ्गः
स्यादिति । नैवम् । सामान्यनिरपेक्षायामेव शब्दप्रवृत्तौ प्रयोगकृतव्यवस्थाश्रयणा-
न्न'तिप्रसङ्गो भविष्यति । यद्येवं प्रयोगवशेन शब्दो वर्तेत, ततोऽद्य जातायां गवि
न दृष्ट इति शब्दो न प्रवर्तेत । तेन प्रयोगकृता चेद् व्यवस्था, क्वचिदप्रसङ्गः न
चेदतिप्रसङ्ग इति ।
यत्तु भिन्नासु व्यक्तिषु सामान्यप्रत्ययो न प्राप्नोत्ययमपि गौः, अयमपीति
तदिहातिप्रसङ्गापादनेन न संबध्यत इति व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीत्यस्मिन्न-
वसरे वक्तव्यम् । शक्त्या र्तार्ह व्यवस्था भविष्यति । यत्र शक्तः शब्दः तत्र
वर्तिष्यते प्रयोक्ष्यते च, यत्र तु शक्तिर्नास्ति, तत्र प्रयोगप्रवृत्ती न भविष्यतः ततश्च
गोव्यक्तिष्वेव शक्तेः प्रयोगव्यवस्था भविष्यति ।
नैवमपि व्यवस्था लभ्यते । प्राक् प्रयोगाच्छब्दशक्तेरविज्ञानात्प्रयोगप्रतीत्य-
धीनं हि शब्दशक्तिज्ञानम् । तत्कथमिवाऽनुत्पन्नं प्रयोगकालेन व्यवस्थाकारण-
त्वेनाऽऽश्रयितुं युक्तम् । यद्यपि प्रयोगाच्छक्तिं जानाति, तथाऽपि प्रयोक्त्रा
कथं ज्ञातं गोव्यक्तावयं शक्तः शब्दः नाश्वव्यक्ताविति, तेनाश्वव्यक्तावपि
प्रयोगः प्राप्नोति ।
जात्या किमिति व्यवस्था नाऽऽश्रीयते यत्र गोत्वमुपलक्षणम्, तत्र शब्दो
वर्तिष्यते, यत्र तन्नास्ति, तत्राश्वव्यक्तादौ वृत्तिर्न भविष्यति ततश्च व्यवस्था-
सिद्धिरिति । सत्यमेवं सिध्यति, किं त्वापन्नो भवानस्मत्पक्षमाकृतिर्वाच्येति । न
ह्यनभिधाय गोत्वमुपलक्षणं गोव्यक्तावेव प्रयोगव्यवस्था लभ्यते, तच्चेदमभिहितं
सिद्धमाकृतिशब्दार्थत्वमिति ।
पूर्वपक्षवादी तु द्वितीयं पूर्वपक्षमुपन्यस्यति सत्यमाकृतिरभिधीयते, किं तु
गुणत्वेन स्थिता, व्यक्तिः प्राधान्येन शब्दार्थः । न चाऽऽवयोरुभयं नाभिधीयत
इति प्रतिज्ञा । कस्यचित्प्राधान्येन किंचिदभिधेयतया विवक्षितम्, किंचिद्
गुणत्वेन, तदुक्तं व्यक्तिः प्राधान्येनाभिधेयेति । एवं सति प्रयोगव्यवस्थोभय-
प्रतीतिश्च तथाऽऽलम्भनादिक्रियोपपत्तिश्च भविष्यति ।