मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
७ ] प्रथमाध्याये द्वितीयपादः ७५ कथं तेषामुपयोगोऽत आह—इत्येषा दिगिति । युक्तोपयोगोपाख्यानमार्गेण सृष्टिप्रलयादि- वाक्यानामपि यथासम्भवं धर्माद्युपयोगितोन्नेया । सा च स्मृत्यधिकरणे वक्ष्यते । अर्थवादो- पयोगमात्रस्यैवात्र विवक्षितत्वादिति भावः । एवं सिद्धान्तस्वरूपं व्युत्पाद्य भाष्यमिदानीं व्याख्यातुमुपन्यस्यति—विध्युद्देशेनेति । कैश्चिदेतत्सकलं भाष्यं सार्थवादवाक्येष्वर्थवादादेव प्रवृत्तिसिद्धेर्विधिप्रत्ययपरित्यागपरत्वेन व्याख्यातं तेषां व्याख्यानं दूषयितुमुपन्यस्यति—केचिदाहुरिति । अयमर्थः । अर्थवादाना- मप्यध्ययनविधिबलेनैव पुरुषार्थपर्यवसायित्वाद्यथासम्भवं स्तुतिनिन्दार्थत्वावसायात्तद्वारा कथं रोचतेति भाष्योक्तरीत्या प्रवर्त्तितव्यं निवर्त्तितव्यमित्येवंरूपप्रवृत्तिनिवृत्तिहेतुभूतार्थ- प्रतिपादकत्वाल्लिङादीनामपि तदभिधायकत्वात्तुल्यार्थतया समुच्चयायोगे केवलानां व्यवस्थयाऽर्थवत्त्वेऽप्युभयसम्भवेऽन्यतरेण सिद्धेरवश्यं त्याज्येऽन्यतरस्मिन्भूयोऽर्थवाद- पदानुसारेणैकस्य लिङादेस्त्यागो युक्तः । प्रकृत्यनुग्रहार्थं च कस्मिंश्चित्प्रत्यये प्रयोज्ये स्तुत्योत्पादितेच्छाल्लब्धकर्त्तव्यानुवादिनी लिङ् प्रयुज्यते, इति दृष्टं लिङोऽन्यतः सिद्ध- कर्त्तव्यतानुवादिनीत्वमिति परमतेन दृष्टान्तितम्—यथेति । प्रत्ययश्चेत् त्यज्यते किं तर्हि विवक्षितमित्यपेक्षिते—तस्मादित्युक्तम् । एवं सोपपत्तिकं भाष्याभिप्रायमुक्त्वा, अक्षर- योजनमाह—स एव चेति । वायव्यश्वेतालम्भ एव भाष्ये विध्युद्देशशब्देनोक्त इत्यर्थः । ननु भूतिकामान्तस्य विध्युद्देशत्वं वदता विधिप्रत्ययोऽपि गृहीतो लक्ष्यते । अन्यथा स्तुत्यन्वयात्प्राक् कर्त्तव्यत्वाप्रतीतेः फलानापेक्षत्वाद् भूतिकामान्तवचनानर्थक्यं स्यादत आह—फलादीति । अनुष्ठानयोग्यस्यानुष्ठानसिद्धयर्थं स्तुत्यपेक्षणात्फलाद्यन्वयं च विना- नुष्ठानायोग्यत्वाद्विध्यविवक्षायामर्थवद्भूतिकामान्तवचनमिति भावः । कस्मादेवं व्याख्यायते अत आह—अन्यथेति । ननूद्देशग्रहणेऽप्यनुवाद्येन विधिनेवैकवाक्यत्वप्रतीतेः कथमालम्भो- पादानमत आह—सूत्रोक्तेन त्विति । उद्देशग्रहणस्योक्तेन न्यायेन विवक्षितार्थत्वादविवक्षि- तस्य च पदान्तरान्वयायोगात्षष्ठीसमासस्य कर्मधारयस्य चानुपपत्तेर्विधेरुद्देशोऽविवक्षा- स्मिन्निति कण्ठेकालादिवद्व्यधिकरणबहुव्रीह्याश्रयणात्कर्मणि वोद्देशशब्दं व्युत्पाद्य सामानाधिकरण्योपपत्तेस्तद्विषयालम्भोपादानमित्यर्थः । स्फुटीकृतं चैतद्भाष्यकृतेत्याह— तथा चाहेति । कथमनेनैतद्व्याख्यानं स्फुटीकृतमत आह—विधीति । स्तुतिस्तुत्यसम्बन्ध- विवक्षा केनोक्तेत्यपेक्षिते पठति—यत इति । ये अनेन भाष्यावयवेन स एवैनं भूतिं गमय- तीत्यादिस्तुत्यन्वयं दर्शयता स्तुतिस्तुत्यसम्बन्धं विवक्षितं वदन्तीति पूर्वेणान्वयः । प्रत्यया- सहिष्णुत्यालभेतत्याद्यपदत्यागेन भाष्ये शेषपाठः कृतः । ननु विधित्यागे शब्दभावनायाः कथम्भावाभावेन स्तुत्यनाकाङ्क्षणात्कथं स्तुतिस्तुत्यसम्बन्धविवक्षा अत आह—सैव चेति । वायव्यश्वेतालम्भस्य भूतिसाधनत्वेऽभिहिते कस्माद्धेतोस्तस्य भूतिसाधनत्वमित्यपेक्षायां हेतुत्वन्निगदार्थवादवदन्वयो भविष्यतीति तेषामाशय इत्यर्थः । अस्मिन्नर्थे फक्किकैवं योज्या । विधेयस्यालम्भस्य विधिसम्बन्धे सति याऽर्थवाद- योजना पूर्वमुक्ता, योज्यते सम्बध्यतेऽनेनेत्युभयाकाङ्क्षालक्षणोऽन्वयप्रकारो योजना-
७६ मीमांसादर्शनम् [ सू० शब्देनाभिप्रेतः । सा विधिविधेयसम्बन्धनिषेधेऽपि शुद्धस्यैवालम्भस्य भविष्यति—निमि- त्त्वेनोक्तत्वादिति । आलम्भस्यार्थवादानाकाङ्क्षत्वेऽप्यर्थवादस्य पुरुषार्थानुबन्धित्वाय साकाङ्क्षत्वादन्यतराकाङ्क्षयापि सम्बन्धोऽपि भविष्यतीति चशब्देन सूचितम् । एवं वाऽनेन भाष्ये व्याख्यातमालभेतेतिमध्यप्रतीकेन समस्तविध्युद्देशनिर्देशात्तदर्थो भूतिसाधनत्वमालम्भस्योक्तम् । कस्मादित्यपेक्षिते पूर्वभाष्यनिर्दिष्टं वायुं तच्छब्देन परा- मृश्य यस्माद्वायूर्भूतिं साधयतीति स्तुत्यन्वयप्रदर्शनमिति । कस्माद् भूतिकामेनालब्ध- व्यमित्यभिसम्बन्धो न विवक्षित इत्याशङ्क्याविवक्षाकारणमुक्तम्—भिन्नविमावर्थाविति । तदेकस्यैव सम्बन्धस्यानिराकार्यार्थतयोपन्यस्तत्वादयुक्तमित्याशङ्क्य व्याचष्टे—भिन्नाविति । भूयार्थवादानुग्रहायावश्यविवक्षणीये स्तुतिस्तुत्यसम्बन्धे सतीतरसम्बन्धविवक्षां वदतोभय- विवक्षाङ्गीकारात् तत्र च वाक्यभेदापत्तिरित्यर्थः । किमर्था स्तुतिरिति प्रश्नभाष्यं स्तुतेरिच्छोत्पादनेन प्रवर्त्तकत्वस्य स्फुटत्वादयुक्त- माशङ्कयाभिप्रायद्वयमाह—किमर्थेति । कथं रोचेतेत्युत्तरभाष्यम् यथाक्रममभिप्रायद्वय- निरासार्थत्वेन व्याचष्टे—आचार्यस्त्विति ननु प्रागित्याशङ्काभाष्यं द्वितीयप्रश्नाभिप्राये पुनरुक्तमाशङ्क्य विवरणपरत्वेन व्याचष्टे—इतरेति । न हि यदेत्यादिपरिहारभाष्यं तत्र नञ्द्वययोगेन सन्निधानमेवोक्तं स्यान्न च तदा विधिविधेयसम्बन्धाविवक्षाङ्गीक्रियते, विरोधश्चोत्तरभाष्येण स्यादित्याशङ्क्य न हीति छित्त्वाऽऽनर्थक्यनिरासार्थत्वेन व्याचष्टे—न हीति । कथं नानर्थक्यमित्यपेक्षिते केवलश्रवणावधारितसामर्थ्यस्यापि विध्युद्देशस्यार्थवादसन्निधौ विधायकत्वाभावादिति कारणम्—यदेत्यादिनोक्तम् । यथेत्यादिना—दृष्टान्तद्वारोपपादितम्, तत्प्रपञ्चयति—सर्व- त्रेति । दृष्टान्त एव किं व्यवस्थाकारणमित्यपेक्षायामाह—योग्यति । आकाङ्क्षणीयाऽलाभ- निमित्ता ह्याकाङ्क्षानिवृत्तिर्नान्येत्यर्थः । ननु यथाप्राकृतपदार्थलाभान्निवृत्ताकाङ्क्षाया अपि विकृतेः सन्निधिपठितपदार्थाकाङ्क्षावशादाकाङ्क्षोत्थापनम्, तथेहापि पदार्थान्तरा- काङ्क्षावशादाकाङ्क्षोत्थापनेऽपि स्वतो निराकाङ्क्षत्वात् प्रकरणगतानां प्रयाजादि- वाक्यानामिव¹ कस्मात्प्रामाण्यं न स्यादत आह—इतरथेति । इतरेण प्रकारेण योग्य- पदान्तरानुच्चारणमनालोच्य स्वरूपमात्रालोचने सर्वत्राकाङ्क्षा भवत्येव श्रुतपदातिरेके- णापि दर्शनादित्यर्थः । स्वाभाविकीमाकाङ्क्षामुपपादयति—तथा चेति । एवं यदेत्यादि- भाष्यं पूर्वेण पुनरुक्तमाशङ्क्योपसंहारार्थतया व्याचष्टे—तदिहेति । नन्वेवं सतीत्याशङ्काभाष्यं महावाक्येऽवान्तरवाक्याप्रामाण्यस्योक्तत्वादयुक्तमाशङ्क्य व्याचष्टे—नन्वेवमिति । सत्यं विनापीति परिहारभाष्याभिप्रायमाह—सत्यमिति । गवादि- प्रचारार्थं ग्रामस्य समन्ताद्या भूःकर्षंकैः परिहियते सा परिहारशब्देनोच्यते । [१धनुः शतं १. प्रकरणगतानामपि प्रयाजादिवाक्यानां स्वतो निराकाङ्क्षत्वात् प्रमाजनकत्वं भावनया कथं भावेनापेक्षणात् विध्येकवाक्यत्वं तद्विधेः स्वार्थप्रतिपादकत्वं पदार्थान्तराकाङ्क्षा- वशादेकवाक्यत्वमित्यर्थः ।
७ ] प्रथमाध्याये द्वितीयपादः ७७ परिहारो ग्रामस्य स्यात्समन्तत इति स्मृतेः] । तस्य पन्थाः परिहारपथः; तेन ग्रामगमन- वदिति दृष्टान्तार्थः । ननु सत्स्वपीत्याशङ्काभाष्यं वेदस्यापर्यंनुयोज्यत्वेनोक्तवादयुक्तमाशङ्क्य व्याचष्टे— नन्विति । आहेति परिहारभाष्यं व्याचष्टे—तत्र उत्तरमिति । भवन्वितीशङ्काभाष्यं व्याचष्टे--भवन्त्विति । नेत्यादिपरिहारभाष्यं व्याचष्टे-नोक्तेनेति । प्रतीतिमात्रेणार्थस्य विवक्षितत्वमतिप्रसङ्गादयुक्तमाशङ्क्य योऽसावित्यादिनोपपादितं तद्व्याचष्टे-द्वयसम्भवं हीति । अर्थवादानुग्रहो युक्त इत्यनेनातोऽस्मादितिभाष्यमेव व्याख्यातम्, यतः प्रत्यक्षो वाक्यशेषभावः, अतः कारणादस्मात्सार्थवादकाद्विधेः सकाशाच्छ्रुतिमिव प्रवर्त्तकत्वेन विवक्षितामवगच्छामो न विधिम्, भूयोऽल्पविरोधे भूयोऽनुग्रहस्य न्याय्यत्वादिति । ननु निरपेक्षादपीतीत्याशङ्काभाष्यमन्यत्रावधारितविधिशक्तिर्विध्युद्देशस्यात्रापि प्रत्य- भिज्ञानात्स्तुतिसम्बन्धाविवक्षाप्रतिपादकत्वेनाभासमानं ननु सत्स्वपीत्यनेन पौनरुक्त्ये- नाक्षिपति-नन्विति । सत्यपि समस्तस्य स्तुतिस्तुत्यसम्बन्धरूपेऽर्थे पूर्वस्य विधिविधेय- सम्बन्धरूपार्थोपप्लवनिरासार्थतया समाधत्ते-तदुच्यत इति । अथांस्येत्यनेन भाष्योपक्षिप्तं कारणमुक्तम् । भवत्वितिपरिहारभाष्यं व्याचष्टे-तद्विधीयत इति । अनेनैवं व्याख्यातं भवतु निरपेक्षार्थत्वादरहिताद्वसन्तादिवाक्येषु विध्यवगतिः, न हि निरपेक्षे सत्यर्थद्वया- सम्भवलक्षणो विरोधोऽस्ति, न चात्र शक्त्यभावाद्द्व्यर्थत्वासम्भवः, येनास्यैव क्व- चिच्छक्तिः क्वचिदशक्तिरिति विरोधः स्यात् । बाधाबाधौ तु बाधकसदसद्भावाभ्यां न विरुध्येते इति काक्वा सूचितम् । इह तु स्तुत्यर्थत्वस्योक्तन्यायेनावश्याङ्गीकार्यत्वाद्वक्य- भेदप्रसङ्गेनाशक्यो विध्यर्थ इति । द्वौ चेदितिवाक्यभेदभाष्यं भिन्नाविमावर्थावित्यनेन पुनरुक्तमाशङ्क्य पूर्वंन्युत्पादित- स्यैव वाक्यभेदस्य स्तुतिसम्बन्धे सत्यशक्यो विध्यर्थ इत्युक्ते कुतोऽशक्य इत्यापन्नहेतुप्रश्नो- त्तरत्वेन पुनरुपन्यास इति परिहरति-प्रश्नोत्तरत्वेनेति । ननु यदि स्तुत्यसम्बन्ध एवात्र विवक्षितो न विधिविधेयसम्बन्धः । ततोऽनुष्ठानाप्रतिपादकत्वेनाक्रियार्थत्वाद्वर्मप्रामाण्यानु- पपत्तेर्विध्युद्देशेनैकवाक्यत्वात् प्रमाणमित्युपक्रमानुपपत्तिः स्यादत आह--तस्मादिति । यस्मादन्यथा वाक्यभेदः प्रसज्येत तस्मात्प्ररोचनयैवात्र विधिः तथा सत्यैकार्थ्यादित्यर्थः । अनेन चाथ यदुक्तमित्यनूदिताशङ्कानिरासार्थत्वेन भाष्यकारावतारितस्तुत्यर्थेन विधीनां स्युरिति सूत्रावयवमेवं व्याख्यातम् । स्तुतेरर्थः प्रयोजनं प्ररोचना तद्द्वारेण कर्मव्युत्पन्न- विधिशब्दोक्तानां क्रियाणामुपकारिणोऽर्थवादा इति एतत्सूत्रावयवव्याख्यानार्थं स्तुतिशब्दा इति भाष्यम् । तत्रानुष्ठातॄणामिति षष्ठीमाक्षिपति--प्ररोचयमाना इति । नन्विक्स्तिपौ धातुनिर्देश इति धातुमूतुरुचियोगे सम्प्रदानसंज्ञा विहिता, न च तत्प्रयोगे पूर्वंप्रकृतेर्धातुत्वमस्ति । तथा सति धातुद्वयप्रसङ्गेन धातोरिति विवक्षितैकत्वधातू परिविहितप्रत्ययानुपपत्तिप्रसङ्गादित्या-
७८ मीमांसादर्शनम् [ सू० शङ्कते—परोचयतेरिति । परिहरति—अयमाशयः । सनाद्यन्ता धातव इत्यन्तग्रहण- सामर्थ्यात्केवलस्य सनादेर्धातुत्वाभावेन धातुद्वयाप्रसक्तेर्न पूर्वप्रकृतेर्भूवादयो धातव इति विहिता धातुसञ्ज्ञा नापह्रवमर्हतीति संबन्धिविशेषाविवक्षया चतुर्थ्यप्रसङ्गमाशङ्कते— अथेति । परिहरति—सापीति । रुचिसंबन्धाविवक्षायां तद्व्यतिरेकषष्ठ्यनुपपत्तेः प्राति- पदिकार्थव्यतिरेके प्रथमैव स्यात् । रुचिसंबन्धविवक्षायां तु तस्य चतुर्थी निमित्तत्वेन विशेषरूपत्वात्सामान्यविवक्षा कुतो न तस्येति भावः । पदान्तरसंबन्धमङ्गीकृत्य षष्ठीमुपपादयति—तस्मादिति । एवं तु व्यवहितान्वयाप- त्तेरुपकरिष्यन्तीत्यनेनान्वयमाह—अथ वेति । अस्मिन्पक्षे क्रियाया इत्यस्य विच्छिन्नस्यार्थ- माह—क्रियाया इति । क्रियाशब्देन तद्विषयत्वाद्विधिरभिप्रेतः । विध्युत्खातिपक्षनिरासः तदेतत् दूषयति—इदं त्विति । किं सर्वप्रत्ययार्थाविवक्षया प्रत्ययत्यागः, विधिमात्रा- विवक्षया वा । तत्राद्ये कल्पे तावत् दूषणान्याह—यदि हीति । ननु भूतिकाम आलभेत, कस्माद्यतो वायुः क्षेपिष्ठा देवतेति हेत्वाकाङ्क्षायामर्थवादान्वयस्य भाष्यकृतोक्तत्वाच्छब्द- मात्रेनाकथम्भावासम्भवेऽपि न कश्चिद्दोष इत्याशङ्क्याह—यापीति । वेदावगतस्यार्थस्य हेत्वनपेक्षत्वान्न तद्द्वारेणार्थवादान्वयः सम्भवतीति कल्पेतेति काक्वा द्योतितम् । यापि भाष्यकृता कस्मादित्यपेक्षा दर्शिता । सापि कस्मात्कारणान्मया प्रवर्त्तितव्यमिति प्रवृत्ति- सिद्धयर्थं प्राशस्त्यरूपकारणविषयत्वाद्विध्यभावे न युक्तेत्यर्थः । नन्वितिकर्त्तव्यताविषयत्वे कथमित्येवाकाङ्क्षा किमिति न दर्शिता, अत आह—शब्दान्तरेति । विधायकस्याध्ययन- विधिना पुरुषप्रवर्त्तने नियुज्यमानस्य कथं मया पुरुषः प्रवर्त्तयितव्य इत्यर्थवादान्वयासिद्धय- र्थमचेतनस्यापि पुरुषगतचैतन्यारोपेणाकाङ्क्षोपचर्यते । भाष्यकृता तु पारमार्थिकी पुरुष- स्याकाङ्क्षा तद्विषयैव दर्शिता, न त्वनयोर्भिन्नविषयतेत्यर्थः । अथापि हेतुविषया कस्मादि- त्यपेक्षा, तथापि यागादिस्वरूपस्य द्रव्यदेवतामात्रेण सिद्धेः फलसाधनत्वस्य च स्वसामर्थ्य- मात्रेण सिद्धेः कर्त्तव्यत्वाभिधानं विना न युक्तेत्याह—सापि चेति । ननु क्रियानपेक्षितमपि प्राशस्त्यमर्थवादोक्तं सत्कर्त्तव्यताङ्गमयिष्यतीत्यत आह— तदनपेक्षितं चेति । प्राशस्त्यस्य श्रौतत्वाभावान्न स्वरसतोऽर्थवादप्रतिपाद्यत्वं सम्भव- तीत्यर्थः । प्रतिपादितस्यापि कथंचित्प्राशस्त्यस्य न तावद्धात्वर्थेन संबन्धः अनपेक्षित्वा- दित्याह—न चेति । न केवलं प्राशस्त्यस्यासंबन्धः, किं तु फलादेरपीति—कस्यचिदिति । काक्वोक्तम् । भावनया सह तर्हि संबन्धो भवत्वत आह—भावना त्विति । किमपेक्षेतेति— न किं चिदित्यर्थः । अनपेक्षायां वा सर्वाभावः स्यादित्याह—तस्मादिति । अथापि कथंचित्प्राशस्त्यमभिधीयते संबध्यते च, तथापि न कर्तव्यतामालम्भस्य गमयतीत्याह—उक्तेऽपि चेति । माभूत्तर्हि कर्त्तव्यबुद्धिः प्राशस्त्यप्रतिपादनमात्रेणार्थवाद- पर्यवसानं भविष्यतीत्यत आह—अकल्पिते त्विति । आनर्थक्यपरिहारार्थमेव तर्हि
७ ] प्रथमाध्याये द्वितीयपादः ७९ कर्त्तव्यता कल्पयिष्यतेऽत आह—प्रत्यक्षं चेति । क्लृप्तस्य कल्पनाऽनुचितेति भावः । न केवलमनुचिता, किं त्वशक्यापीत्याह—न चेति । अशक्यत्वे कारणमाह—अनुक्तो हि सन्नेति । एवं तावत्कर्त्तव्यतायाः क्लृप्तत्वान्नाथर्वादकल्पकत्वमित्युक्तम् । अर्थवादानामपि तत्कल्पकत्वं न सम्भवति, प्ररोचनामात्रपर्यवसानादित्याह—तथेति । ननु तर्हि नार्थवादैः प्ररोचनोच्यताम्, कर्त्तव्यताप्रतिपादनेनैव पुरुषार्थानुबन्धित्व- सिद्धेरत आह—अवश्यकर्त्तव्या चेति । तया विना प्रवृत्त्यसिद्धेरिति भावः । ननु माभू- दर्थवादानां कर्त्तव्यताप्रतिपादनपर्यन्तं व्यापारः, तत्प्रतिपादितप्राशस्त्यान्यथानुपपत्त्या सा कल्पयिष्यते अत आह—सर्व्वत्र चेति । यच्च तुल्यार्थत्वं समुच्चयासम्भवकारणमुक्तम्, तदसिद्धमित्याह—तुल्यार्थयोश्चेति । न चात्रालपभूयोविरोधिन्यायोऽस्ति, प्रत्ययत्यागे भूयसां तदर्थानां वाधापत्तेरित्याह—यदि चेति । परस्मैपदात्मनेपदरूपोपग्रहविशेषः । आदिशब्देन विधिभावनयोरुपादानम् । एतत्सर्वं दोषपरिहारार्थं कल्पान्तरं शङ्कते—स्यादेतदिति । एतदपि निराचष्टे--एत- च्चेति । अशक्यत्वे कारणमाह—यत इति । उदितमप्यविवक्षितं भविष्यत्यत आह— प्रतीतस्य चेति । ग्रहैकत्वं ह्यप्राप्तत्वान्नानुवदितुं शक्यते, सम्मार्गभावनया गुणत्वेन प्रधान- त्वेन चान्वयायोगाच्च विधिना स्पृश्यते । इन्द्रियकामहोमस्त्वाश्रयमन्तरेण गुणस्य फल- साधनत्वायोगाद्विधिमन्तरेण च प्रकरणावगतस्यापि होमस्याश्रयत्वे प्रमाणाभावान्नप्रकरणा- वगतं स्वरूपमनूद्य गुह्यफलसम्बन्धविध्यन्यथानुपपत्तिप्रसूतेन विधिना आश्रयत्वेन विधीयत एवेति श्रौतेन विधिना वाक्यभेदप्रसङ्गेनापरिग्रहादविवक्षितत्वमिति । ननु विध्यसंस्पर्शादेव विधिरविवक्षितो भविष्यत्यत आह—न तावदिति । विधि- व्यतिरिक्तस्य विध्यसंस्पर्शित्वं विधिविवक्षाकारणं युक्तम् । विधेस्त्वविधिरहितत्वं विध्य- संस्पर्शित्वेनाविवक्षाकारणं सर्व्वविधिनामविवक्षाप्रसङ्गादित्यर्थः । अनुवादोऽपि विधेर्युक्त इत्याह—नापीति । कारणमाह—तस्यामिति । अयमाशयः—न तावद्य आलम्भः, स प्रशस्त इत्यालम्भमात्रोद्देशेन प्राशस्त्येऽभिहितेऽपि कर्त्तव्यबुद्धिः सम्भवति, येन प्ररोचनालब्ध- विधित्वानुवादो घटेत । एतच्चोक्तंऽपि च प्राशस्त्य इत्यादिनाेपपादितम् । यदि तु योऽयं वायव्यश्वेतालम्भः कर्त्तव्यः, स प्रशस्त इतिकर्त्तव्यतारूपस्य विधेरनुवाद इष्यते । स तर्हि न सम्भवति । अनुवादावस्थायामप्राप्तत्वादिति । ननु त्वत्पक्षे वायव्यश्वेतालम्भः कर्त्तव्य इति विध्यर्थो भवेत्, तस्य चालम्भः प्रशस्त इत्यर्थवादार्थेन नान्वयः स्यादित्याशङ्कयाह भवति त्वेवमिति । दृष्टान्तोऽपि साध्यविकल इत्याह—यत्त्विति । दशमे हि सत्रादुदवसाय¹ पृष्ठशमनीयेन ज्योतिष्टोमेन सहस्रदक्षिणेन यजेरन्नित्युदाहृत्य किं तत्र सहितानां कर्तृत्व- १. यथा गवामयने सत्रे अवभृथानन्तरं पृष्ठशमनीयमेकाहः क्रियते तत्र समानकर्तृकयोः पूर्वकाले इति विधानेन उत्तरक्रियाकर्त्तव्यतायाः क्त्वाप्रत्ययविधानात् तद्बलेनैवोत्तर- क्रियाकर्त्तव्यताप्राप्तेति तत्र लिङोऽनुवादिनीत्वं तथेति भावः ।
८० मीमांसादर्शनम् [ सू० मेकैकशो वेति सन्दिह्य बहुवचनस्य श्रवणात् साहित्ये प्राप्ते, क्त्वाश्रुत्यैवौदवसानसमान- कर्तृकत्वप्रतीतेरवगतसङ्ख्यत्वेन च बहुवचनस्यानपेक्षितसङ्ख्याविधायित्वायोगादपेक्षित- धात्वर्थविशेषविधायिन्याख्याते यथाप्राप्तप्रत्ययशिष्टसङ्ख्यानुवादिबहुवचनप्रयोगोपपत्तेर्न प्राकृतैककर्तृकत्वबाधो युक्त इति सिद्धान्तो वक्ष्यते क्त्वाश्रुत्या ह्यनन्तरक्रियामात्रमाक्षेप्सुम्। न च नियोगतः कर्त्तव्यता। न मांसं भुक्त्वाऽधीयीतेति प्रतिषेधोऽपि भुक्त्वा व्रजतीति च वर्त्तमानापदेशेऽपि क्त्वाश्रुतिदर्शनादित्यर्थः। न च केवलं कारणाभावाद्द्विध्यविवक्षा- नुचिता किं त्वतिव्याप्तेरपीत्याह—यदि चेति। स्वमतेन व्याख्यानम् स्वमतेन व्याख्यातुमुपक्रमते—तस्मादिति। अत्रैव भाष्यानुमतिमाह—तथा चेति। विधिविषयाभिप्रायेषु भाष्यकारीयविध्युद्देशशब्दे फलपदस्य विधिविषयसमर्थकत्वाभावा- दुपन्यासो न युक्त इत्याह—अन्यथेति। विध्यभावे च धात्वर्थस्य तद्विषयत्वायोगात्तदभिप्रायो विध्युद्देशशब्दो न युक्त इत्याह—न चास्येति। कस्तर्हि विध्युद्देशशब्दस्यार्थोऽत आह— तस्मादिति। विधेरुद्देशकः प्रतिपादक इति कर्तृव्युत्पन्नं करणव्युत्पन्नं वोद्देशशब्दमङ्गीकृत्य षष्ठीसमासाश्रयेण लिङादिरेव विध्युद्देशशब्देनोक्त इत्यर्थः किमर्थं तर्ह्युद्देशग्रहणमत आह—विध्यर्थेन त्विति। विधिशब्दस्य लिङादिशब्दे तदर्थे चोभयत्र प्रयोगदर्शनादिह शब्दपरतयापि व्याख्यानेन सूत्रनाश इति चोद्यमिति। नन्वस्मिन्पक्षे प्रत्ययो विध्युद्देश इत्येवं वक्तव्यं न भूतिकाम इत्येवमन्त इत्यत आह—भूतिकाम इति। ननु यदि फलादिसङ्गत्युत्तरकालं तद्विशिष्टायां भावनायां पुरुषं नियुञ्जाने विधाव- नुग्रहार्थं स्तुत्यर्थावसरः, तदभावे तद्याकाङ्क्षाभावादर्थवादान्वयो न स्यादित्याशङ्कते— नन्विति। परिहरति—एवमेवैतदिति। का तर्ह्यर्थवादानां तत्र गतिरत आह—तथेति। यद्यपि विध्यभावेनार्थवादाः सम्बध्यन्ते, तथापि नानर्थक्यापत्तिः; प्रयोगवचनेन पञ्चमल- कारेण वा कल्पितविधित्वेऽर्थवादसङ्गतिसम्भवादिति वक्ष्यमाणानुपङ्गेण योज्यम्। आग्नेयोऽष्टाकपालो भवतीत्यादौ भवतिपरस्य पञ्चमलकारस्य प्रयोजकव्यापारविधाना- शक्तेः प्रयोगवचनेन वानुत्पन्नस्य प्रयोगासम्भवादुत्पत्तिरप्याक्षिप्यते। उपांशुयाजमन्तरा यजतीत्यादौ पञ्चमलकारेण अव्यवस्था लिङर्थे लेडिति पञ्चमलकारस्य विधौ स्मरणेऽपि वर्त्तमानापदेशसन्दिग्धत्वात्पञ्चमलकारनिर्णयाक्षेपाद्विधित्वस्य कल्पितत्वमभिप्रेतम्। इदं तु प्रयोगवचनोत्पत्तिकल्पनं दुरुपपादम्। अनुत्पन्नस्य प्रयोगविधिविषयत्वायोगादुत्पत्तौ कल्पितायां प्रयोगविधिविषयत्वं प्रयोगविधिविषयत्वाच्चोत्पत्तिकल्पनमितीतरेतराश्रयापत्तेः। पञ्चमलकारचिन्हाभावे न तन्निर्णयः स्यादित्यपरितोषादन्यथाविधित्वकल्पनमाह— अथ वेति। ननूक्तेन प्रकारेण 'आग्नेयो ऽष्टाकपालो भवतीत्यादौ विधिं प्रकल्प्य, तच्छेषत्वेन अङ्गिरसो वा इत उत्तमाः स्वर्गलोकमायन्नित्यादेरर्थवादस्यान्वयो भवतु नाम, 'ताभ्या-
७ ] प्रथमाध्याये द्वितीयपादः ८१ मेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छदि'त्यादौ त्वर्थवादमात्रकल्पविधिदर्श- नाद्विधेः प्राक् "स्तुत्यनवसरत्वप्रतिपादनमयुक्तमित्याशङ्कयाह—यत्रापीति । तत्रापि पूर्वं- चरितकीर्त्तनान्यथानुपपत्तिमार्त्रेण कर्त्तव्यतां कल्पयित्वा शेषपदानां स्तुत्यर्थत्वेनान्वयः । न तु प्रागेव कस्यचित्स्तुतिः प्रतीयत इत्यर्थः । सिद्धरूपार्थकीर्त्तनाभिप्रायोऽर्थवादशब्दः, न स्तुत्यभिप्राय इति भ्रमितव्यम् । नन्वेवमपि सिद्धरूपार्थकीर्त्तनमात्रेण कर्त्तव्यतायाः प्रतीतिसिद्धेः प्रत्ययानर्थक्यं तदवस्थमित्याशङ्कयाह—सम्भवत्यां त्विति । ननु श्रौतार्थद्वयाश्रयणे वाक्यभेदापत्तेः प्रत्ययश्रवणेऽपि भूयोऽर्थवादपदानुग्रहाय स्तुत्यैव कर्त्तव्यताकल्पनमगत्याऽङ्गीकार्यमित्युक्तमत आह—यस्त्विति । प्राशस्त्यकर्त्तव्य- तयोर्विशेषणविशेष्यभावात्प्राशस्त्यविशिष्टकर्त्तव्यतात्वरूपैकार्थप्रतिपादनादेकव्यापारोपपत्ते- नार्थभेदनिबन्धनवाक्यभेदापत्तिरित्यर्थः । नन्वर्थभेदाभावेऽप्यप्राशस्य विधिसम्बन्धा- न्त्रासस्य च विशेषणभूतप्राशस्त्यसम्बन्धाद्वैरूप्यलक्षणो वाक्यभेदः प्रसज्येत अत आह— विधीयमानस्यैव हीति । प्राशस्त्यं विना विध्यपर्यवसानादप्राप्तावस्थस्यैवालम्भस्य विधिर्नैव प्राशस्त्येनापि सम्बन्धाद्वैरूप्यमित्यर्थः । नन्वेवमपि विशिष्टार्थप्रतिपादनाद् गौरवापत्तिरत आह—यदि चेति । का तर्हि नायमभिसम्बन्धो विवक्षत इत्यादिर्भाष्यस्य गतिः । अत आह—तस्मादिति । अनेन ग्रन्थेनैवमेतद्भाष्यं व्याख्यातम् । भूतिकाम आलभेत कस्माद्यतो वायुः क्षेपिष्ठेत्यनेन यः सार्थवादकस्य विध्युद्देशस्य विधस्तुतिसम्बन्धरूपो विशिष्टोऽर्थो दर्शितः । नायं विध्यु- द्देशमात्रेण विवक्षितः, किं तु सार्थवादकेनेति । तत्रालभेतेतिमध्यप्रतीकेन विध्युद्देशोप- लक्षणम्, ततो भूतिरिति पूर्वप्रकृतवायूपरामर्शितच्छब्दयोगिना भूतिपदेन । स एवैनं भूतिं गमयतीत्यन्तार्थवादोपलक्षणं विशेषणविशेष्यरूपार्थद्वयस्य विशेष्यप्रतिपादकविध्युद्देशमात्रेणा- भिधाने गौरव लक्षणवाक्यभेदापत्तेरिति । विधित्वादीत्यादिशब्देन फलेतिकर्त्तव्यताग्रहणम् । किमर्थेत्याशङ्काभाष्यं विधिविवक्षायां तदितिकर्त्तव्यताभूतस्तुत्याकाङ्क्षानिराकरणा- योगाद्युक्तमाशङ्क्य व्याचष्टे—किमर्थेति । अयमाशयः—प्रवृत्तिप्रतिबन्धकालस्यादिभङ्ग- रूपाप्ररोचनाविधेरितिकर्त्तव्यता; न स्तुतिः । स्वार्थं तु तथा स्तुतिराकाङ्क्षते, विध्य- वगतश्रेयःसाधनत्वादेव तु प्रवृत्तिहेत्विच्छाजननेन तद्विरोध्या लस्यादिनिराकरणसिद्धेर- र्थिका स्तुतिरिति भाष्यं चैवं व्याख्येयम् । यद्यपि विधस्तुतिरूपार्थद्वयप्रतिपादनं विध्यु- द्देशमात्रेण न क्रियते, तथाप्यर्थवादानर्थक्यं विधित एव प्ररोचनासिद्धेः, तदर्थ्येन स्तुत्य- नाकाङ्क्षणादिति । कथं रोचेतेत्युत्तरभाष्याभिप्रायमाह—कथमिति । श्रेयःसाधनत्वाधि- गमेऽपि बहुव्ययायासदर्शनाद्द्वेषोत्पत्तेः स्तुतिमन्तरेणानिराकरणात् दुर्वा रा स्तुत्या- काङ्क्षेतेति भावः । १. भूतिकामान्तविध्युद्देशप्रदर्शनेनेत्यर्थः । ६
८२ : मीमांसादर्शनम् [ सू० ननु प्रागित्याशङ्काभाष्यं किमर्था स्तुतिरित्यनेन पुनरुक्तमाभासमानम् । तदभिप्राय- विवरणार्थतया व्याचष्टे—नन्विति । न हीत्यादिपरिहारभाष्यम् । तस्यायमर्थः—न तावत्प्राशस्त्यं विना प्ररोचना संभवतीत्युक्तं कथं रोचतेत्यनेन । यदि तु विध्युद्देशेनैव प्राशस्त्याक्षेपस्य वसन्तादिवाक्येषु दर्शनादिहापि तत एव प्राशस्त्याक्षेपसिद्धेः, स्तुतिपदा- नर्थक्यमुच्येत, तन्निराकरणार्थं यदेत्याद्युक्तम् । तद्व्याचष्टे—न हीति । न हीत्यादिनैतदा- हेत्यन्वयः । शक्तिद्वयनिराकरणासमर्थत्वमस्य ग्रन्थस्य दर्शयितुं विधीयते इत्येतत्समाप्ति- परत्वेन न तदेत्यादिना व्याख्यातम् । अनेन च तदा पूर्वेण विधिरित्यत्रापि समाप्यत इत्यध्याहारो दर्शित इत्यवगन्तव्यम् । प्ररोचनया च विधिसमाप्तेः प्ररोचनाशक्तिः समाप्युक्त्या दर्शिता भवतीति, न भाष्योऽवाचकत्वोपालम्भः । दृष्टान्तभाष्यं पूर्ववदेव व्याख्येयमित्याह—यथेति । यच्चास्माभिः प्रत्ययार्थवादयोः पुनरत्यन्तभिन्नानुग्राह्यानुग्राहकार्थभेदात्समुच्चय इति प्रागुक्तम्, तदनेन दार्ष्टान्तिकयोजना- भाष्येण स्पष्टीकृतमित्याह—विधिशब्देनेति । नन्वेवं सतीत्याशङ्काभाष्यगतमविधायक- पदप्ररोचकत्वाभिप्रायं व्याख्यातुमाह—नन्विति । सत्यमित्यादिपरिहारभाष्यं प्रतीकेन गृहीत्वा तस्मिन्विद्यमान इत्यादिभाष्यशेषं तस्मादित्यध्याहारपूर्वकं साधारणत्वेन व्याचष्टे- सत्यमिति । अविद्यमाने हि स्तुतिवचने विध्युद्देशमात्रस्य प्राशस्त्यविशिष्टविधिरूपोऽर्थो भवेत्; इह तु स्तुतिवचनस्य विद्यमानत्वाद् योऽर्थो न्याय्यो भवति, सोऽङ्गीकार्य इत्यर्थः । स्तुतिः प्रयोजनमिति भाष्यावयवमवतारयितुम्—कश्चासावित्युक्तम् । अर्थवादमात्रस्य स्तुतिप्रयोजनत्वाद् द्विवचनानुपपत्तिमशङ्क्य—न तस्यैवेत्याद्युक्तम् । अर्थवादाभावे त्वित्यनेन तस्मिन्सतीति भाष्यावयवो व्याख्यातः । ननु सत्स्वपीत्यादि प्रत्यक्षश्च वाक्यशेषभाव इत्यन्तं भाष्यं पूर्ववदेव व्याख्येयमित्याह- नन्विति । अत्राप्युपात्ते लघूपाये गुरूपायाश्रयणानुपपत्तिमशङ्क्य आनर्थक्यपरिहारायो- पात्तेऽपि लघौ गुरोराश्रयणमित्येतावदर्थतुल्यत्वमिति । अतोऽस्मादित्यपसंहारभाष्यं विधेरिति पञ्चम्या विधेः स्तुत्यवगतिप्रतिपादनादभिप्रेतविरुद्धमाशङ्क्याह-अतोऽस्मादिति । किं सम्बन्धनिबन्धनयं षष्ठीत्यपेक्षिते आह—वाक्येति । पूर्वप्रकृतवाक्यशेषोऽस्मादिति सर्वनाम्ना परामृष्टो विधेरिति षष्ठ्या सम्बध्यत इत्यर्थः । एवं सत्येष भाष्यार्थो भवती- त्याह—इत एवेति । अस्य विधेः सम्बन्धिन इतो वाक्यशेषादेव स्तुतिमवगच्छामो न स्वतो विधिमात्रादित्यर्थः । ननु निरपेक्षादपीत्याशङ्काभाष्याभिप्रायमाह—नन्विति । भवत्विति परिहारभाष्य- माशङ्कानुज्ञानादयुक्तमाभासमानं सोपहासत्वेन व्याचष्टे—आचार्यस्त्विति । एवमर्थ- विरोधशक्यत्वयोः परस्परव्याघातात्तत्परिहारार्थं व्यवस्था यत्रासावित्यादिना दर्शिता । सर्वेऽमी विधिशब्दाः सप्ररोचनविधिपरा व्याख्येयाः । अशक्यत्वोपपादनार्थं पूर्वोक्तगौरव- लक्षणवाक्यभेदस्मारकं वाक्यं हीत्यादिभाष्यं व्याचष्टे—वाक्यं हीति । एकमेकस्यैवेति ।
७ ] प्रथमाध्याये द्वितीयपादः ८३ वाक्यसंबन्धपदगतयोरेकवचनयोर्विवक्षितसङ्घत्वं दर्शितं । तच्चात्र विध्युद्देशरूपमभिप्रेत- मिति, विध्युद्देश एवेत्यनेन दर्शितम् । सम्बन्धशब्देन चात्र कर्म्मव्युत्पत्त्या विशेषणविशेष्य- रूपौ सम्बन्धिनावभिप्रेतौ एष हि गुणो भवतीत्यर्थवादप्राशस्त्यप्रदर्शनम् । यतस्ततो भूति- रितिवदिति कस्यचिच्छङ्का स्यात्तद्वयुदासार्थं—विध्युद्देशोत्यापितानामेकेत्याद्युक्तम् । नायमभिसंबन्धो विवक्षित इत्यादिना यत्प्रबन्धेन विध्युद्देशस्य प्राशस्त्याक्षेपकत्वं निराकृतम्, तस्य प्रकृतैकवाक्यतासिद्धिप्रयोजनतां दर्शयन्स्वाभिप्रेतं सूत्रार्थमुपसंहरति—तस्मादिति । अनेनैवं सूत्रं व्याख्यातं विधेयभावनांशाप्रतिपादकत्वेऽपि तदनुष्ठापकानां विधीनामङ्ग- मर्थवादा स्युः । केनोपकारेणेत्याक्षिप्ते; स्तुत्यर्थेनेत्युक्तम् । विधिनानुष्ठानसिद्ध्यर्थं स्तुते- रुपकारकत्वेऽभिहिते विधिमात्रेणानुष्ठानसिद्धेः किं स्तुत्येत्याशङ्कानिराकरणार्थमर्थवादानां धर्म्मप्रमोपयोगित्वसिद्धावतिक्लिष्टलाक्षणिकस्तुत्यर्थत्वाङ्गीकारकारणं विधिनैकवाक्यत्वादि- त्यनेनोक्तमिति ॥ ७ ॥ भा० प्र०-विधिनाः स्तुति साकाङ्क्ष विधि के साथ 'तु' शब्द पूर्वपक्ष का व्यावर्तक है 'एकवाक्यत्वात्' प्रयोजन साकाङ्क्ष अर्थवादों की एकवाक्यता होने से “विधीनां” विधि- विहित कर्म कलापों की प्रशंसा रूप प्रयोजन हेतु या प्रशंसा रूप प्रयोजन साकाङ्क्ष लाक्षणिक अर्थ के द्वारा “स्युः” अर्थवाद सार्थक या सफल होते हैं । विधिवाक्य प्रशंसा सापेक्ष हैं एवं अर्थवाद प्रयोजनसापेक्ष हैं, अतः अर्थवाद विधिवाक्य के साथ एकवाक्य अर्थात् मिलित होकर विधिविहित कर्मों की प्रशंसा रूप प्रयोजन के द्वारा प्रयोजनवान् अर्थात् सार्थक या सफल होने से प्रमाण हैं । आशय यह है कि—पूर्वपक्षी ने अर्थवादवाक्यों का अप्रामाण्य सिद्ध करने का प्रयास किया था, अतः सिद्धान्ती ने इसके उत्तर में कहा है कि अर्थवाद अप्रमाण नहीं है । कारण, स्वाध्यायविधि से ही अवगत है कि वेद के विधि, मन्त्र, नामधेय एवं अर्थवाद ये सभी अंश प्रमाण हैं, वेद का एक अक्षर भी निष्प्रयोजन नहीं है । विधि के प्रामाण्य का विश्लेषण पूर्व में ही किया है । अर्थवाद का प्रामाण्य प्रस्तुत प्रसङ्ग के द्वारा सिद्ध किया जा रहा है । क्योंकि, पूर्वपक्षी ने अर्थवाद वाक्यों का आनर्थक्य प्रदर्शित कर इनके अप्रामाण्य की सिद्धि करने की चेष्टा की है । प्रत्यक्ष या अनुमान से सिद्ध लौकिक फल के विषयों में ही पुरुष का स्वतः सिद्ध अनुराग के कारण स्वाभाविक प्रवृत्ति होती है; और उस फल के साधन अर्थात् जिस उपाय से फल की प्राप्ति हो सकती है; उसमें जीव प्रवृत्त होता है । किन्तु, स्वर्गादि अलौकिक फल प्रत्यक्षगम्य या अनुमान सिद्ध न होने से उसके उपायभूत यागादि क्रियाओं में भी स्वाभाविक प्रवृत्ति नहीं हो सकती है । अतः, “भूतिकामो यजेत', 'अभ्युदय चाहने वाला व्यक्ति याग करे' इस विधिवाक्य को सुनकर अभ्युदयरूप फल के साधन या उसके उपायभूत याग में पुरुष की प्रवृत्ति उत्पन्न होने पर भी वह बलवती प्रवृत्ति नहीं होती है । इसमें कष्ट ही होगा वह अनिष्ट है; अर्थात्
८४ मीमांसादर्शनम् [ सू० अनभिप्रेत यागानुष्ठानरूप दुःख में अवसान लाभ करेगा—यह सोच कर निष्प्रभ हो जाता है। फलतः, प्रवृत्ति उत्पादन करने वाली विधि की शक्ति भी कुण्ठित हो जाती है। अतः, ऐसी स्थिति में कुछ ऐसे साधन की आवश्यकता होती है, जिससे पुरुष की प्रवृत्ति बलवती हो जाय, और फल की सुन्दरता का बोध होने से पुरुष की प्रवृत्ति तीव्र हो जाय-यह स्वाभाविक है। अतः, फल की प्रशंसा करने पर उन विषयों में पुरुष की आकाङ्क्षा अधिक होने लगती है। इसका परिणाम यह होता है कि फलप्राप्ति के उपायों को केवल क्लेशरूप फल को देने वाला मानकर उससे निवृत्त नहीं होता है, अतः अर्थवाद- वाक्य से फल की प्रशंसा या प्रशस्तता अर्थात् सौन्दर्य-बोधन करने पर पुरुष की प्रवृत्ति बलवती हो जाती है। पुरुष की प्रवृत्ति बलवती होने पर विधिशक्ति भी अव्याहत होती है। इसलिए अर्थवाद विधिशक्ति का उत्तम्भक या उत्तेजक होता है। "वायव्यं श्वेतमाल- भेत पशुकामः” (तै० सं० २।१।१।१) “अभ्युदय की कामना रखने वाला व्यक्ति वायु- देवता के उद्देश्य में श्वेत छाग का वध करे", इस विधिवाक्य को सुनकर प्रथमतः पुरुष की क्रिया में प्रवृत्ति अवश्य होती है, किन्तु, अनन्तर, अनिष्ट की उत्प्रेक्षाकर प्रवृत्ति से निवृत्त हो जाता है, अतः बाद की श्रुति में कहा है "वायुर्वे क्षेपिष्ठा देवता" वायु अति- क्षिप्र 'शीघ्रगामी' देवता है अर्थात् यतः वायु देवता क्षिप्रतम है, अतः, वायु जिस यज्ञ का देवता होता है, उस यज्ञ का फल भी अतिक्षिप्री अर्थात् शीघ्र ही होता है। इस अर्थवाद वाक्य को सुनने पर अनिष्ट की आशङ्का से स्तम्भित प्रवृत्ति पुनः तीव्र हो जाती है, इसलिए, विधिवाक्य वैधविषय में पुरुष की प्रवृत्ति को उत्पन्न कराने के लिए अर्थवाद की अपेक्षा करता है और अर्थवाद वाक्य स्वयं निरर्थक होने पर भी अर्थात् निष्प्रयोजन होने से विधिविहित प्रयोजनों के द्वारा अपनी प्रयोजनीयता का निर्वाह करने के लिए विधि की अपेक्षा करते हैं। इस प्रकार विधिवाक्य और अर्थवाद 'नष्टाश्वदग्ध- रथन्यायः'१' से परस्पर मिलकर एक प्रयोजन का निर्वाह करते हैं। इसी प्रकार निन्दात्मक अर्थवाद वाक्य भी निषेध्य विषय की प्रशस्तता का बोधन कर निषेध्य विषय से शीघ्र निवृत्ति करने के लिए साधन होता है, फलतः निषेध विधि की सहायता कर १. मार्ग में दो व्यक्ति अपने-अपने रथ से कहीं की यात्रा कर रहे थे, भाग्यवश एक व्यक्ति के रथ से घोड़ा भाग गया है, वह रथ को आगे ले जाने में असमर्थ थे, दूसरे रथयात्री के पास घोड़ा था; किन्तु उसका रथ टूट गया था, वह भी आगे की यात्रा में असमर्थ था, एक का रथ घोड़े के बिना निष्कर्म था और दूसरे का अश्व रथ के बिना निष्कर्म था, इस सन्दर्भ में दोनों ने विचार किया कि एक का घोड़ा और दूसरे का रथ परस्पर मिलाकर उपयोग में लिया जाय तो दोनों का प्रयोजन सिद्ध हो सकता है। इसी प्रकार अर्थवाद वाक्य और विधिवाक्य परस्पर मिलकर एक ही प्रयोजन के सिद्ध कराने में समर्थ होते हैं।
७ ] प्रथमाध्याये द्वितीयपादः ८५ निषेध्य विषय से निवृत्त करा देता है, निषेधविधि और निन्दात्मक अर्थवाद का परस्पर सम्प्रयोग से दोनों की एक प्रयोजनता सिद्ध होती है। इसी प्रकार विधि और अर्थवाद की कल्पना करनी चाहिए, जहां अर्थवाद है, किन्तु विधि नहीं है, वहां विधि का विचार करना चाहिए। इस प्रसङ्ग में आचार्य शङ्कर का मत इस प्रकार है:-पूर्वपक्ष में कहा गया है कि वेदवाक्य क्रिया के प्रतिपादक न हो तो वे अनर्थक अर्थात् निष्प्रयोजन हैं। यह कथन जैमिनि के १।२।१ सूत्र के आधार पर किया गया है और इस पूर्वपक्ष के अनुसार वेद के अर्थवाद वाक्यों का अर्थात् 'सोऽरोदीत्' इस निन्दावाक्य आदि का भी अप्रामाण्य सिद्ध होता है। इस पूर्वपक्ष का सिद्धान्तवाक्य "विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः। (१।२।७) यह सूत्र है, जिसका विश्लेषण प्रस्तुत कर चुका हूँ। इसके सन्दर्भ में आचार्य ने कहा है कि मन्त्रों का जिस तरह विधिवाक्यों के साथ पदैकवाक्यता न रहने पर भी उनके साथ विधिवाक्य की वाक्यैकवाक्यता रहने से उनका प्रामाण्य रहता है, विधि के साथ किसी प्रकार सम्बन्ध न रहने पर ही उनका प्रामाण्य नहीं हो सकता है। इसी प्रकार प्रकृत में उपनिषदों का भी विधि के साथ वाक्यैकवाक्यता होने से प्रामाण्य हो सकता है और वे उपनिषद् वाक्य क्रियाविधि के ही अङ्ग होकर रहते हैं। यह सत्य है कि क्रिया के साथ असम्बद्ध रह कर स्वतन्त्र रूप में ब्रह्मप्रतिपादक होने पर उनका प्रामाण्य नहीं रह सकता है पदैकवाक्यता और वाक्यैक वाक्यता निम्नलिखित है। दर्शपूर्णमास प्रकरण में छः वाक्यों का निर्देश है, स्वर्गकामी व्यक्ति दर्शपूर्णमास याग करें, इसके बाद समिधो यजति आदि वाक्य हैं। प्रथम दृष्टि मे ये सभी वाक्य परस्पर निराकाङ्क्ष रहकर अपने-अपने अर्थ की अवगति कराते हैं, किसी वाक्य का किसी वाक्य के साथ सम्बन्ध नहीं रहता है। किन्तु, एक प्रकरण में पठित हैं, अतः, इनका निश्चय ही कोई सम्बन्ध है, यह प्रतीत होता है। इसीलिए इन वाक्यों में गुण- प्रधानभाव या अङ्गाङ्गिभाव की कल्पना करनी पड़ती है, अन्यथा एक प्रकरण में पाठ निरर्थक होगा। इस प्रकार मूलभूत दर्शपूर्णमासयाग-बोधक-वाक्य के साथ समिध् आदि अङ्गबोधक वाक्यों का सम्बन्ध होने पर भी सभी वाक्यों का अपने-अपने अर्थ में अव्याहत तात्पर्य है। यही इनमें वाक्यैकवाक्यता है। पदैकवाक्यता का स्वरूप सर्वथा भिन्न है। अर्थवाद वाक्यों से प्रथम प्रतीत अर्थ ही मूल विधि वाक्य के साथ अन्वित होने के समय परित्यक्त हो जाता है, एवं समग्र वाक्यों से लक्षित एक निन्दा या प्रशंसा रूप अर्थ विधि वाक्यार्थ में प्रविष्ट हो जाता है। अतः, इन दोनों एक वाक्यताओं में अतिशय भेद है। इस दृष्टान्त के अनुरूप वेद के मन्त्र भागों के साथ ब्राह्मणभागान्तर्गत विधि वाक्य की भी वाक्यैकवाक्यता होती है। मन्त्र भाग में देवता या यागसंक्रान्त वस्तु के परिचायक वाक्य का भी अपना स्वार्थरक्षणपूर्वक
८६ : मीमांसादर्शनम् [ सू० ब्राह्मण भाग के विधिवाक्य के साथ अन्वय होता है । ब्राह्मण भाग के विधि में “ऐन्द्रं हविर्जुहोति” अर्थात् इन्द्र देवता के उद्देश्य से घृत दान करे और मन्त्र भाग में “वज्रहस्तपुरन्दरः इन्द्रो वृत्रम् अवधीत्” अर्थात् इन्द्र के हाथ में वज्र है और उस वज्र से वृत्र का वध किया । इस स्थल में विधिवाक्य के द्वारा अवगत अर्थ इन्द्र के विशेषण के रूप में अन्वित होकर वाक्यार्थ में प्रविष्ट हो जाता है । अतः मन्त्र भाग के साथ विधिवाक्य की वाक्यैकवाक्यता ही सम्भव है । इसी के आधार पर भाष्यकार ने उपनिषद् का सादृश्य प्रदर्शन करते हुए क्रियाविधिशेषत्व का वर्णन किया है । पूर्वपक्षियों ने यह आशंका की है कि ब्राह्मण भाग के अर्थवाद और मंत्र भाग के मंत्र के समान वेदान्तवाक्यके क्रिया सम्बद्ध न होने पर वेदान्त का प्रामाण्य नहीं रहेगा । इस प्रसङ्ग में यह कहा जा सकता है कि वेदान्त वाक्य के क्रियापरक न होने पर भी ब्रह्मस्वरूपविधिपरक हो सकता है और ऐसा होने पर “विधिना त्वेकवाक्यत्वात्” इस जैमिनिसूत्र के सिद्धान्त की रक्षा भी हो सकती । अप्रवृत्त प्रवर्त्तक ही विधि होती है— ऐसी बात नहीं है, क्योंकि उत्पत्ति विधि किसी को प्रवृत्त नहीं करती है, केवल अज्ञात- विषय की ज्ञापक ही उत्पत्ति विधि होती है । जैसे “अग्निहोत्रं जुहुयात्” अर्थात् अग्निहोत्रहोम करे यह वाक्य अज्ञात अग्निहोत्र की कर्त्तव्यता का ही ज्ञापन करता है, क्योंकि इतिकर्त्तव्यता या स्वरूपादि का जब तक वर्णन नहीं होता है तब तक वह किसी को प्रवृत्त नहीं कर सकता है, अतः, उत्पत्ति विधि के द्वारा अप्रवृत्त-प्रवर्त्तकता के समान ही अज्ञात-ब्रह्मज्ञापक-वेदान्त में विधि क्यों नहीं होगी ? ऐसी स्थिति में वेदान्त का ब्रह्म विषय में प्रमाण होगा ही । परिनिष्ठित अर्थात् सिद्ध वस्तु में विधि कैसे सम्भव है ? विधि का विषय क्रिया ही होती है, सिद्ध वस्तु नहीं । उत्पत्ति विधि साक्षात् प्रवर्त्तक भले ही न हो क्रिया- बोधक होने से विनियोग विधि के साथ मिलित होकर प्रयोग विधि के रूप में परिणत होती है । ब्रह्मस्वरूपज्ञापक वेदान्त-वाक्य वैसा नहीं है । अतः उत्पत्ति विधि के समान ब्रह्मस्वरूप-प्रतिपादक वेदान्त-वाक्य-प्रमाण नहीं हो सकता है । कोई भी अनागत अर्थात् उत्पाद्य भाव को ही विषय करता है । प्रकृत में भाव शब्द का अर्थ भावना होता है । जिस पुरुष-व्यापार के द्वारा किसी कार्य के करने में प्रवृत्ति उत्पन्न होती है—वही भावना है । णिच्प्रत्ययान्त √भू धातु से भाव अर्थ में घञ् प्रत्यय कर 'भाव' शब्द सिद्ध होता है । इसी भाव का अर्थ भावना है । केवल √भू धातु से घञ् प्रत्यय करने पर जो भाव शब्द की निष्पत्ति होती है उस भाव शब्द का अर्थ उत्पत्ति होता है । भावनाबोधक ही विधि होती है । भावना अनागत और उत्पाद्य दोनों होती है । उत्पाद्यत्व का हेतु ही अनागतत्व है । यह विधि चार प्रकार की है—अधिकार, विनि- योग, प्रयोग और उत्पत्ति । अधिकार विधि पुरुष के साथ फल का सम्बन्ध अवगत कराती है । यदि अन्य पुरुष को फल की प्राप्ति होती है तो फल के जनक कार्य में कर्त्ता
७ ] प्रथमाध्याये द्वितीयपादः ८७ की प्रवृत्ति नहीं हो सकती है। अतः, कर्ता के साथ फल का सम्बन्ध बताना आवश्यक है और यह अधिकारी विधि के द्वारा होता है। विनियोग विधि क्रिया फल जनक होती है, इसी की अवगति कराती हुई प्रधानक्रिया के साथ अवान्तर क्रिया का अङ्गाङ्गिभाव या गुणप्रधानभाव को भी अवगत करती है। प्रयोग विधि अनेक अवान्तर अङ्गक्रियाओं का पूर्वापर भाव प्रदर्शन करती है। क्योंकि अङ्गक्रियाओं का एक साथ अनुष्ठान सम्भव नहीं है, अतः, इनमें क्रम आवश्यक है। इस विधि से उसी क्रम का प्रदर्शन होता है। इसीलिए इस विधि को अनुष्ठापन भी कहा जाता है। उत्पत्ति कहने से कर्म के स्वरूप का ज्ञान होता है, अतः, इन कर्म के स्वरूपों का ज्ञान जिस विधि से होता है—वहीं उत्पत्ति विधि है। पूर्वोक्त विधियों में सिद्ध वस्तु प्रतिपादक ब्रह्मविषयक ज्ञान का अन्तर्भाव सम्भव नहीं है। यदि यह कहा जाय कि कर्मविधि के प्रकरण में ये वाक्य नहीं कहे गये हैं, अर्थात् कर्मकाण्ड प्रकरण के मध्य में वेदान्त वाक्य नहीं कहे गये हैं, इसलिए भिन्न प्रकरण में पठित वाक्य के साथ एकवाक्यता सम्भव ही नहीं है। पूर्वपक्षी ने इसके समाधान में कहा है कि उपनिषद् में कथित उपासना विधि उपलब्ध है; और उसी प्रकरण में ब्रह्मबोधक वाक्य भी पठित है, अतः, उपासना विधि का यह शेष है। आचार्य शङ्कर ने अपने भाष्य में एवं उसकी व्याख्याओं में इसका विस्तृत विश्लेषण किया है। “तत्तु समन्वयात्”, (बा० सू० १।१।४) का भाष्य द्रष्टव्य है। अन्य प्रमाणों से अज्ञात ब्रह्म का ही प्रतिपादन उपनिषद् के उपक्रम, उपसंहार आदि वाक्यों से उपलब्ध है। 'तत्केन कं पश्येत्' आदि श्रुति वाक्यों से कारक और फल का निराकरण होने से कर्ता का भी निराकरण हो जाता है। 'अहं ब्रह्मास्मि' यह याज्ञिक भावना करने पर यज्ञ की सिद्धि सम्भव ही नहीं है। परिनिष्ठित ब्रह्म प्रत्यक्षादि प्रमाणों का विषय नहीं है। अतः, लौकिक वाक्य घट, पट आदि सिद्ध वस्तु का प्रतिपादक होने से अनुवादक या सापेक्ष होने से अप्रमाण होने पर भी प्रकृत में यह दोष नहीं है। इसी प्रकार उपासना विधि शेष भी नहीं है, क्रिया कारक आदि द्वैतज्ञान का सर्वथा विलयन हो जाने से वह ब्रह्म किसी प्रकार भी उपास्य और उपासक नहीं हो सकता है। परिनिष्ठित वेद वाक्यों के अप्रामाण्य का प्रश्न भी नहीं है, क्योंकि, उपनिषद् से बोधित आत्मा और ब्रह्म का एकत्व विज्ञान भी सर्वदुःख निवृत्तिरूप मोक्ष का उत्पादक है, अतः ब्रह्म- प्रतिपादक वेदान्त के प्रामाण्य का प्रत्याख्यान उचित नहीं है। क्योंकि वेद का प्रामाण्य स्वतः सिद्ध है। वेद ही ब्रह्म विषय में प्रमाण है अर्थात् ब्रह्म ही वेदानुशास्त्र का प्रतिपाद्य है। 'तत्तु समन्वयात्' सूत्र में अनेक भाष्य हैं। आचार्य शंकर के मत का दिग्दर्शन मात्र किया है। उपासना परक सिद्धान्त में समन्वय की भिन्न प्रक्रिया है। इस विषय की वहीं से अवगति करे ॥ ७ ॥
८८ मीमांसादर्शनम् [ सू० तुल्यं च साम्प्रदायिकम् ॥ १.२.८ ॥ शा० भा०—अथोच्येत प्राक् स्तुतिपदेभ्यो निराकाङ्क्षाणि विधायकानि विधिस्वरूपत्वात् । स्तुतिपदानि तु प्रमादपाठ इति । तन्न । एवमर्थावगमात् । तुल्यं च साम्प्रदायिकम् । सम्प्रदायः प्रयोजनं येषां धर्माणाम्, सर्वे ते विधिपदा- नामर्थवादपदानां च तुल्याः । अध्यायानध्ययने, गुरुमुखात्प्रतिपत्तिः, शिष्यो- पाध्यायता च । सर्वस्मिन्नेवंजातीयकेऽविधानार्थे तुल्यमाद्रियन्ते । स्मरणं च दृढम् । अतो न प्रमादपाठ इति ॥ ८ ॥ भा० वि०—ननु तुल्यं चेति च शब्देन विधिनात्वेकवाक्यत्वादित्यनेन यः स्तुत्यर्थत्वमर्थवादानामुपयोग उक्तस्तत्रैव युक्त्यन्तरं समुच्चीयत इति प्रतीयते, तच्चायुक्तम्, तुल्यसाम्प्रदायिकत्वस्य भवितव्यं प्रयोजनेनेत्येतावन्मात्रसाधकत्या स्तुत्यर्थत्वासाधकत्वादित्याशङ्क्य नानेन स्तुत्यर्थत्वे हेत्वन्तरं समुच्चीयते, किन्तु स्तुत्यर्थत्वान्नानुपयोग इत्यनुपयोगपरिहार उक्तस्तत्रैव हेत्वन्तरमिति दर्शयितुं तामेवानुपयोगपरिचोदनामनुवदति—अथेति । स्तुतिप्रतिपादकत्वेना- भिमतेभ्यः प्राग्विधायकानि विधिपदानीति शेषः, तत्र 'हेतुर्विधिसरूपत्वादिति, अर्थवादमनपेक्ष्यैव विधिपर्यवसायिवसन्तादिवाक्यसारूप्यादित्यर्थः, किमर्थानि तर्हि तानीत्याह—स्तुतीति । प्रमादपतितानि अबुद्धिपूर्वाधीतानि अनर्थका- नीत्यर्थः, अत्रेतिरध्याहार्यः, तत्र पूर्वोपपादितोपयोगप्रतीतं परिहारमन्तर्भाव्य, तेन परिहान्तरसमुच्चये च शब्दं व्याख्यातुं पूर्वसूत्रोक्तमनुपयोगपरिहारं स्मार- यति—तन्नेति । तत्र हेतुः—एवमिति । पूर्वोक्तप्रकारेण स्तुत्यर्थतया अर्थवत्वाव- गमादित्यर्थः, न केवलमर्थवत्त्वावगमादनुपयोगासंभवः, साम्प्रदायिकतुल्यत्वा- च्चेत्येतत्सूत्रगतं च शब्दं योजयति—तुल्यं चेति । साम्प्रदायिकपदार्थं दर्शयन्वा- क्यार्थमाह—सम्प्रदाय इति । सम्प्रदायो अध्ययनं प्रयोजनं येषां भावानामध्या- यानध्ययनादीनामित्यर्थः सम्प्रदायाख्याध्ययनानुग्राहकत्वं च धर्माणाम् । 'तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यस्सरहस्यो द्विजन्मना ॥ इति स्मृत्या विनियोगादवगन्तव्यम् । ननु योऽर्थवादानर्थक्यमभ्युपैति, तस्य साम्प्रदायिकतुल्यत्वमप्यसिद्धमिति शङ्कां साम्प्रदायिकान् धर्मान् विवृण्वन् परिहरति—अध्यायेत्यादिना । अध्यायान- ध्ययनपरिच्छेदपरिसमाप्त्यादावुत्थानादिः गुरुमुखात् प्रतिपत्तिः ग्रहणं तन्नियम इति यावत् । शिष्योपाध्यायतो अधीहि भो इत्याद्युपसदनक्रियायां कर्तृकर्मभावः, १. स्वरूपत्वादिति० मु० भा० पु० पा० ।
८ ] प्रथमाध्याये द्वितीयपादः ८९ च शब्देन भैक्षाचरणगुरुशुश्रूषाऽधश्शय्यादयो गृह्यन्ते, ते सर्वे सर्वस्मिन् वायुर्वे क्षेपिष्ठेत्येवं जातीयके वायव्यं श्वेतमित्यादिविधिवाक्यैः तुल्यमाद्रियन्ते आदर- णेनानुष्ठातृभिरनुष्ठीयन्त इत्यर्थः, भवत्वध्ययनानुग्राहकधर्माणामर्थवादेष्वप्यादरः तथापि कथमानर्थक्यपरिहारः तत्राह-अविघ्नार्थमिति- 'अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ब्रह्माष्टमीपौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥ इत्यादिस्मृतेः तावद्विघ्नहेतुद्ध्यायनिरासेनाक्षरग्रहणं साधयतः सम्प्रदायस्या- नध्यायादिनियमजातमनुग्राहकमवगम्यते, न च निष्प्रयोजनस्य विघ्नेन किंचित् कार्यं तत्र क्लेशपरिहाराय विघ्नस्यैव युक्ततरत्वात्, तेनैषां धर्माणां सम्प्रदाया- विघ्नार्थमादरेणानुष्ठीयमानत्वात् सप्रयोजनार्थवादाध्ययनस्यावसीयत इति भावः। नन्वादरस्य स्मृतिमूलत्वाभिधानात्, तस्याश्च मूलरहितत्वात् कथं प्रयोजन- वत्त्वाध्यवसायः, स्मरणाच्चेति स्मृत्यधिकरणे वक्ष्यमाणन्यायेन वेदमूलत्वा- दृढमिति वेदमूल एवायमादर इत्यर्थः। वेदमूलश्चादरः प्रयोजनवत्त्वाद्भेदाव- गताहते न सम्भवतीति सामान्येन प्रयोजनावगमान्नानर्थक्यमर्थवादानामित्याह- अत इति। यस्मान्न प्रमादपाठः, तस्मात्प्रयोजनविशेषाकाङ्क्षायां स्तुत्यर्थेनार्थ- वत्त्वं भविष्यतीति हेत्वर्थेन इति शब्देनेति दर्शितम्। अथवा साम्प्रदायिकधर्मादिरान्यथानुपपत्त्या प्रयोजनवत्त्वमुक्त्वा, इदानीं यदेवेदं वेदस्य स्मरणं धारणात्मकपालनापरपर्यायं साम्प्रदायिकम्, तेनाप्यध्येतृ- पुरुषवर्त्तिप्रयोजनवत्त्वाभिप्रायोनुमानपूर्वकं प्रयोजनत्वप्रतिपादकवाक्यानुमानात् नानर्थक्यम् इत्यन्यथा सूत्रं व्याचष्टे-स्मरणं चेत्यादिना। इतिशब्देन पूर्ववद्विशेष- पर्यंवसानं दर्शितम् ॥ ८ ॥ त० वा०-चशब्दव्याख्यानार्थं परिचोदनोपन्यस्ता। आनर्थक्यमेवास्त्विति। तन्नैव। कुतः ? पूर्वोक्तेन न्यायेनार्थस्यावगम्यमानत्वात् । अथ वा तन्नेत्यवच्छिद्यैवमर्थावगमादित्युक्तप्रकारपरामर्शः। किं च तुल्यं चेत्ति योजना। संप्रदायानुग्रहार्थं धर्मजातम्। तत्संबन्धस्मरणात्। स्वर्गादिसंयो- गाच्च। न चास्य प्रयोजनवत्संनिहिताध्ययनपरित्यागेनार्थत्वे प्रमाणमस्ति। संप्रदायाङ्गत्वेऽपि चाविघ्नस्याऽऽकाङ्क्षितत्वात्। तादर्थ्यस्मरणाच्चाविघ्नार्थ- त्वम्। न ह्यान्यत्कल्प्यमानं स्वाध्यायेतिकर्त्तव्यतानुगुणं भवति। यदि तावत्स्वर्गः कल्प्येत, ततः पुरुषार्थत्वमेवाऽऽपद्यते। अथ पुनः क्रतुफलसिद्धिरेवं पठिते वेदे भवतीति। एवमपि दूरस्थोपकारितैव। तस्मात्संप्रदायस्याक्षरग्रहणं साधयतो नियमजातमनुग्राहकम् ।
९० मीमांसादर्शनम् [ सू० न च निष्प्रयोजनस्याविघ्नेन कार्यं वरं तादृशस्य विघ्नमेवोत्पन्नं येन क्लेशोऽपि तावन्न स्यात् । यतस्ते सप्रयोजनैर्विधिवाक्यैस्तुल्यमेवाऽऽद्रियन्ते । तेनावश्यं तद्वदेव प्रयोजनवन्त्यपीति । नियमस्मृतेश्च वेदमूलत्वाद्द्वेदकृत एवाय- मादरः । स च प्रयोजनवत्त्वाहते नोपपद्यत इति, प्रयोजनवत्त्वमपि सामान्येना- नुमायाऽर्थाद्वा कल्पनैकदेशत्वाद् १.४.२४ सूत्र इति । सामर्थ्यतोऽर्थवादानां स्तुतिर्नाम प्रयोजनविशेषो लभ्यते । स्मरणं च दृढमित्येतेदेवाऽऽह । अथ वा यदेवेदं ग्रन्थस्मरणं परिपालनात्मकम्, तेनाध्येतृपुरुषप्रयोजनवत्त्वा- भिप्रायप्रतिपत्तिपूर्वकं प्रयोजनवत्त्वानुमानम् । सम्भाव्यते च कुतश्चिद्वाक्यादियं प्रतिपत्तिरिति, नाप्रमाणम् । अन्यथा हि निष्प्रयोजनान्येतानीति केचित्परित्य- ज्यार्थवादान्विधिमात्रं प्रतिपद्येरन् । तत्र दृढस्मरणमेतेषु न स्यात् । अस्ति तु तत् । तस्मान्न प्रमादपाठः । ततश्चार्थवन्त इति । तुल्यं च सांप्रदायिकमित्यस्यापरा व्याख्या । सम्प्रदायः प्रयोजनं यस्य वाक्यस्य, येन प्रवर्तितः सम्प्रदायः, तस्मात्स्वाध्यायोऽध्येतव्य इत्येतत्स्वाध्याय- त्वाविशेषाद्विध्यर्थवादयोस्तुल्यं यः प्रागुक्तेन न्यायेन प्राक् पुरुषार्थसिद्धेरवस्थातुं न लभ्यत इति, शक्त्यनुसारेण स्थितमर्थवादानां स्तुत्यर्थत्वमिति ॥ ८ ॥ न्या० सु०-सामान्योपयोगप्रतिपादनं विनाऽर्थवादानां द्वारविशेषोपयोगप्रतिपादनाशक्तेः सामान्योपयोगप्रतिपादनार्थमेतत्सूत्रं पूर्वं कार्यमपि प्रथमसूत्रव्युत्पादिताध्ययनविधिदृष्टार्थत्व- बलेन सामान्योपयोगस्य सिद्धस्य विशेषोपयोगमन्तरेणानिर्वाहात्, तत्सम्भवप्रदर्शनोत्तरकालं कृतम् । तत्र भाष्यकारीयपरिचोदनोपन्यासस्य प्रयोजनमाह-चशब्देति । तुल्यासाम्प्र- दायिकत्वस्यादृष्टार्थत्वेऽप्युपपत्तेः पूर्वप्रतिज्ञातस्तुल्यार्थत्वासाधकत्वाद्विध्येकवाक्यत्वलक्षणस्तु- त्यर्थत्वसाधकहेतुसमुच्चयार्थं चशब्दाद्योगात्प्रमादपाठत्वशङ्कानिराकरणार्थार्थवत्त्वावगम- लक्षणहेत्वन्तरसमुच्चयार्थत्वेन चशब्दो भाष्यकृता व्याख्यात इत्यर्थः । परिचोदनार्थं व्याचष्टे-आनर्थक्यमेवेति । निराकरणभाष्यं व्याचष्टे-तत्रैवमिति । एवं त्वर्थावगमप्रकारानुक्तेः साकाङ्क्षत्वप्रसङ्गादपरितोषेणाऽन्यथा छेदं करोति- अथ वेति । अनेन च विधिना त्वेकवाक्यत्वादित्येतदेव सूत्रं प्रमादपाठत्वशङ्कानिराकरणे अपि योजितम् । विध्येकवाक्यत्वेन स्तुत्यर्थतयाऽर्थवत्त्वावगमादप्रमादपाठत्वनिराकरण एव हेत्वन्तरसमुच्चयार्थं तुल्यं साम्प्रदायिकत्वं योजयति-किं चेति । साम्प्रदायिकशब्दव्याख्या- नार्थमनध्यायादिधर्म्माणां वेदाध्ययनाख्यसम्प्रदायप्रयोजनत्वं भाष्यकृतोक्तमुपपादयति- सम्प्रदायेति । तादर्थ्यस्मरणादिति- 'तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥'
प्रकरणपठितस्यापि तस्य स्वरूपे कार्यं चानुपयोगादध्ययनेनैव फलवत्कर्म्मावबोधं
इत्यादिना धर्म्मजातस्य सम्प्रदायार्थत्वस्मरण।दित्यर्थः पुरुषार्थत्वं तु निष्प्रमाणक- मित्याह—स्वर्गादिति । नन्वध्ययनस्वरूपे, तत्कार्ये च ग्रहणे धर्म्मजातस्यानुपयोगात्तत्पूर्व्व- कज्योतिष्टोमादिकर्म्माङ्गत्वं भविष्यत्यत आह—न चास्येति । एतच्च द्वादशाधिकरण- सिद्धमुक्तं तत्र ह्याध्यायानध्ययनाय द्वादशाध्यायाधिकरणार्थं संग्रहादिधर्म्मजातस्याध्ययन- प्रकरणपठितस्यापि तस्य स्वरूपे कार्यं चानुपयोगादध्ययनेनैव फलवत्कर्म्मावबोधं भावयेदित्यध्ययननियमस्याना रभ्य विहितस्याप्यध्ययन जनितज्ञानोपस्थापितज्ञेयकर्म्माङ्गतया सामर्थ्योपबृंहितेन सन्निधिनावधारणात्, तद्द्वारा कर्म्माङ्गत्ववावगतेरमावास्यादौ कर्म्माङ्ग- भूतयाज्यानुवाक्यादिमन्त्रोच्चारणं न कार्यमिति । मन्त्राणां कर्मसंयोगे स्वधर्मेण प्रयोगः स्यात्, धर्म्मस्य तन्निमित्तत्वादितिसूत्रेण पूर्वपक्षयित्वा प्रकरणेनाध्ययनाङ्गतयाऽवधारि- तस्यान्यार्थत्वे प्रमाणाभावादविघ्नपरिसमाप्त्यर्थत्वेन तदुपयोगसम्भवात्कर्म्माङ्गत्वाभावेन कर्म्मकालेऽध्यायानध्ययनादिधर्म्मनादरेणामावास्यादावपि कर्म्माङ्गमन्त्रोच्चारणं कार्यं- मिति विद्यां प्रतिविधानाद्वा, सर्व्वकालं प्रयोगः स्यात् कर्म्मार्थत्वात्प्रयोगस्येति सूत्रेण सिद्धान्तयिष्यते । केनोपकारेणाध्ययनाङ्गत्वं कर्म्मजातस्येत्यपेक्षायामविघ्नार्थत्वं भाष्य- कृतोक्तमुपपादयति--सम्प्रदायाङ्गत्वेऽपि चेति । विघ्ने सत्यध्ययनेनाक्षरग्रहणस्य कर्त्तुम्- शक्यत्वात्, तत्सिद्ध्यर्थमविघ्नमेवापेक्षितम्—तादर्थ्यस्मरणाच्चेति । ‘अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ब्रह्माष्टमौ पौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥’ इत्यादिना धर्म्मजातस्याविघ्नार्थत्वस्मरणादित्यर्थः । प्रकरणावगताध्ययनाङ्गत्वा- न्यथानुपपत्त्याप्यविघ्नोऽर्थतोऽवसीयत इत्याह—न हीति । एतदेव प्रपञ्चयति—यदि तावदिति । नन्वध्ययनजनितज्ञानसाध्यकर्म्मानुष्ठानजन्या- पूर्वार्थत्वेऽपि धर्म्मजातस्य व्रीहिसाध्ययागापूर्वत्वेऽपि प्रोक्षणस्य व्रीह्यर्थत्वाविघातवदध्यय- नाङ्गत्वाविघातः स्यादत आह—अथ पुनरिति । व्रीहीणां यागापूर्वार्थत्वात्तदुत्पत्त्युपयोगि- प्रोक्षणादिधर्म्मग्राहकत्वं युक्तम् । अध्ययनस्य क्रत्वनङ्गत्वान्न तत्साम्यमिति भावः । कः पुनरध्ययनस्याविघ्नेनोपकारो जन्यत इत्यपेक्षायामक्षरग्रहणाख्यकार्ययोग्यतालक्षणमुपकारं दर्शयितुमाह—तस्मादिति । तुल्यसाम्प्रदायिकत्वस्य प्रकृतानर्थक्यनिराकरणोपयोगितां दर्शयति—न चेति । न चाध्ययनादिधर्मनियमस्मृतेर्निर्मूलत्वेनाप्रामाण्यं शङ्क्यम्, स्मृत्य- धिकरणे स्मृतीनां वेदमूलत्वस्य वक्ष्यमाणत्वादित्याह—नियमस्मृतेश्चेति । तुल्यसाम्प्रदायि- कत्वसाधितसामान्योपयोगोपसंहारपूर्वकं तस्य पूर्वसूत्रोक्तस्तुत्यर्थत्वलक्षणविशेषोपयोग- सिद्धयुपयोगितामाह—स चेति । अत्रैवार्थे स्मरणं च दृष्टमित्यादिभाष्यं योजयति— स्मरणं चेति । इतिकरणः प्रभृत्यर्थः, तत्र स्मरणं च दृष्टमिति वेदशब्दत्वाभिधाने योजितम् ; अतो न प्रमादपाठ इति सामान्योपयोगोपसंहारे इतिकरणः, तस्य विशेषो- पयोगित्वे यस्मान्न प्रमादपाठः । अतः कारणात्प्रयोजनविशेषापेक्षायां सामर्थ्यात्स्तुत्यर्थतार्थ- वादानां सिध्यतीतिकरणो हेत्वर्थे व्याख्येय इत्यर्थः ।
९२ मीमांसादर्शनम् [ सू० साम्प्रदायिकशब्दो वा धारणाऽध्ययनपरतयानेन भाष्येण व्याख्यायत इत्याह-अत वेति । यत्त्वस्मिन्व्याख्याने पुरुषाधीनप्रामाण्यप्रसङ्गादित्यादिना दूषणं पूर्वसूत्रव्याख्योप- क्रमेऽभिहितम्, तत्परिहरति-सम्भाव्यते चेति । पूर्वोक्तमध्ययनविधिप्रमाणकं सर्वस्य यदस्य प्रयोजनवदर्थपर्यवसायित्वमेतत्सूत्राऽढं कर्तुमध्ययनविधिपरतया साम्प्रदायिकशब्दं स्वयं व्याचष्टे-तुल्यं चेति । उनयोरपि व्याख्यायोरतत्सूत्रोक्तस्य सामान्योपयोगस्य पूर्वसूत्रोक्त- विशेषोपयोगसिद्धयर्थत्वप्रतिपादनार्थमतो नेत्यादिभाष्यमिति दर्शयितुं ग्रन्थशेषः ॥ ८ ॥ भा० प्र०-यह सन्देह स्वाभाविक है कि विधिवाक्य न रहने पर अर्थवाद वाक्य सप्रयोजन नहीं हो सकते हैं, और प्राशस्त्यज्ञापक अर्थवाद वाक्यों की सहायता के बिना भी विधिवाक्य प्रवृत्ति-जनक हो सकता है, क्योंकि, बाद में किसी कारण से पुरुष की प्रवृत्ति कुण्ठित होने पर भी विधिवाक्य के सुनने पर प्रथम प्रवृत्ति उत्पन्न होती है । ऐसी स्थिति में अर्थवादों को प्रमाद से पठित मानने पर भी कार्य चल सकता है, क्योंकि पूर्वोक्त रीति से अर्थवाद वाक्यों के प्रति अनेक आपत्तियाँ उत्थापित हो सकती हैं । इसी आशङ्का के उत्तर में कहा गया है-"तुल्यं तु साम्प्रदायिकम्" । साम्प्रदायिक अर्थात् अनध्याय आदि नियमों का पालन करते हुए गुरु शिष्य क्रम में वेद का अध्ययन आ रहा है, अर्थवाद भी इसी रूप में अध्ययन का विषय है और अर्थवाद वाक्यों का वेदत्व भी सभी ने दृढ़तापूर्वक स्वीकार किया है । अतः, अर्थवाद वाक्य को प्रामादिक पाठ नहीं कहा जा सकता है । अनवधानतावश वेदाध्ययन के मध्य में अर्थवाद वाक्यों ने स्थान प्राप्त कर लिया है-यह नहीं कहा जा सकता है । इसलिए अर्थवाद प्रमादवश पठित होने से अप्रमाण है-यह नहीं कहा जा सकता है । तुल्य = समान या एक रूप । च शब्द का अर्थ हेतु है । साम्प्रदायिक=गुरु शिष्य परम्परा से प्राप्त अध्ययन । अर्थात् अर्थवाद वाक्य भी गुरु शिष्य परम्परा क्रम में विद्यात्मक वेद के अध्ययन के समान है । अथवा अर्थवाद भी विधि के समान ही वेद के ही अन्तर्गत होने से उनका अप्रामाण्य नहीं कहा जा सकता है ॥ ८ ॥ अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छब्दार्थ- स्तवप्रयोगभूतस्तस्मादुपपद्येत ॥१.२.९॥ शा० भा०-अपि च यैषाऽनुपपत्तिरुक्ता शास्त्रदृष्टविरोधादित्येवमाद्या सा, सोऽरोदीदित्येवमादिषु न प्राप्नोति । कुतः ? प्रयोगे हि स्तेयादीनामुच्यमाने विरोधः स्यात् । शब्दार्थस्तवप्रयोगभूतः । तस्मादुपपद्यते-स्तेनं मनोऽनृतवादिनी वागिति ॥ ९ ॥ भा० वि०-एवं सूत्रद्वयेन स्वसिद्धान्तकथनेनानर्थक्यसूत्रोक्तदोषं निरस्योत्तर- सूत्रोक्तदोषान्तरपरिहारार्थमप्राप्ता चेत्यादिसूत्रम् । तत्र न केवलं स्तुत्यर्थत्वेनानर्थक्य-
९ ] प्रथमाध्याये द्वितीयपादः ९३ परिहार एव त्वदुक्तदोषान्तराप्राप्तिश्चेति च शब्दं व्याकुर्वन् प्रतिज्ञां व्याचष्टे— अपि चेति । यद्यपि पूर्वं स्तेयादिवाक्यमुदाहृत्य शास्त्रदृष्टविरोधो दर्शितः, तथापि सोऽरोदीदित्यादिष्वपि सो विशेषादनुसन्धेयः इति वक्तुमाह—सोऽरो- दीदिति । प्रश्नपूर्वकं प्रयोगे हीत्यादीत्यादिहेतुं व्याचष्टे—कुत इत्यादिना प्रयोगः अनुष्ठानः, कर्त्तव्यतेति यावत् । तस्मिन् हि प्रयोगे स्तेयादोनां रोदनवपोत्खनन- दिङ्मोहस्तेयानृतवदनादीनाम् उच्यमानेकल्प्यमाने शास्त्रदृष्टविरोधः स्यात् न चासौ कल्प्यत इत्यर्थः । ननु श्रुतस्यार्थस्य प्रयोजनवत्त्वाय विधिः कल्पनीय इत्याशङ्कयापाकरणार्थं शब्दार्थस्त्वप्रयोगभूत इतीदं व्याचष्टे शब्दार्थ इति । सूत्रे तुशब्दश्शङ्काव्यावर्त्तकः, वाच्यार्थविषयोऽर्थशब्दः तेषु सोऽरोदीदित्यादिषु प्रयुज्यतेऽनेनेति व्युत्पत्त्या प्रयोजन-प्रयोगः, विवक्षितश्चार्थः प्रयोजनं भवतीति लक्षणया प्रयोगशब्देन विवक्षितत्वमुक्तम् प्रयोगमप्राप्तोऽप्रयोगभूतः अविवक्षित इत्यर्थः । एतदुक्तं भवति विवक्षितार्थस्य हि प्रयोगवत्त्वसिद्धयेऽध्याहारादिनानुष्ठान- कल्पना अयं तु न विवक्षितः, तेन कल्पकाभावान्नाध्याहारादिभिर्विधिकल्पनेति, यस्मान्न विधिकल्पना, तस्मान्न शास्त्रदृष्टविरोधादीत्युपसंहारभागं व्याचष्टे— तस्मादिति । स्तेयादिवाक्यं रोदनादिवाक्यस्याप्युपलक्षणं गुणवादस्त्वित्यनेन त्रयोऽर्थाः सूचिताः । तत्र प्रथमं तावच्छब्दार्थस्त्वप्रयोगभूत इत्यन्तेन विवक्षयार्थभावना- नुपयोग उक्ते कथं नामोपयोगः इत्यपेक्षायां गुणस्य वाद इति षष्ठीसमासाश्रयणेन स्तुत्यर्थत्वं सिद्धान्तसूत्रोक्तं पूर्वसूत्रनैराकाङ्क्ष्यात्यनेन स्मारितम्, तत्रापि स्वार्था- सत्यत्वे कथं स्तुतिरित्त्यपेक्षायां गुणाद्वाद इति पञ्चमीसमासाश्रयणेन स्वार्थं- सत्यत्वानादरोऽप्यनेनाभिधीयते, तथा भवतु स्तुत्यर्थत्वम्, तथापि कथं क्वचित् विधेयस्तुतिपरत्वम् अविधेयगतायाः स्तुतेः भिन्नविषयत्वादित्यपेक्षायां गौण्या- वृत्त्याप्यनेनोच्यते ॥ ९ ॥ त० वा०—उक्तदोषपरिहारोऽतः परम् । शास्त्रदृष्टविरोधिका याऽत्रानुपपत्ति- र्विधिकल्पनायामुक्ता तामस्मत्पक्षमप्राप्तां मन्यामहे । अथवेदं स्तुतिव्याख्यानं तामनुपपत्तिमप्राप्तमिति व्याख्येयं येषां ह्रस्वः पाठः । प्रयोगे ह्यनुष्ठाने रोदनवपोत्खननदिङ्मोहस्तेयानृतवादादीनां कल्प्यमाने विरोधः स्यात् । अस्माकं तु पुनर्य एषां शब्दानां श्रोतोऽर्थः, स नैव विवक्षितः । न चाध्याहारादिभिर्विधिः, किं तर्हि ? स्तुतिमात्रं विवक्षितः । न च तद्विरुध्यते । तस्मादुपपद्येत ।
९४ मीमांसादर्शनम् [ सू० अथ वा शब्दार्थस्त्विति विधायकशब्दानुग्रहार्थः सन्नयमर्थवादो न स्वार्था- नुष्ठानेन सम्बध्यते, प्रयोगमप्राप्तोऽप्रयोगभूतस्तस्मादुपपद्येत । त्रयोऽत्र पाठाः । अप्राप्तां चानुपपत्तिमित्यत्र मन्यामह इति वाक्यशेषः, अप्राप्तं चानुपपत्तिमित्यपरः, तत्रास्मद्व्याख्यानमित्यध्याहारः । अप्राप्ता चानुपपत्तिरित्यपरः तत्रास्मत्पक्षे विज्ञायेति ॥ ९ ॥ न्या० सू०-सूत्रद्वयेनैव सिद्धान्तसिद्धेरुत्तरसूत्रानर्थक्यमाशङ्क्य पूर्वपक्षनिराकरण- परतया सामान्यतो व्याचष्टे— उक्तेति । अप्राप्तामनुपपत्तिमिति द्वितीयान्तं पदद्वयं साकाङ्क्षत्वादध्याहारेण व्याचष्टे-शास्त्रेति । ह्रस्वपाठे अन्यथाध्याहारमाह-अथ वेति । प्रयोगे हीति सूत्रावयवव्याख्याभाष्ये स्तेयादीनामित्यादिशब्देन पूर्वोपन्यस्तस्य रोदनादेरपि ग्रहणमिति व्याचष्टे-प्रयोगे हीति । सूत्रशेषं व्याचष्टे—अस्माकं पुनरिति । श्रौतार्थाभिप्रायोऽर्थशब्दः प्रयुज्यतेऽनेनेति व्युत्पत्त्या प्रयोजनवचनः प्रयोगशब्दः अविवक्षितस्वार्थः प्रयोजनं न भवतीत्यप्रयोगशब्देना- विवक्षितत्वमुक्तम् । नन्वनुष्ठानविवक्षायां विरोधापत्तेस्तत्परिहारार्थं तस्यैवाविवक्षा वाच्या । न श्रौतार्थाविवक्षात आह—न चेति । अतः शब्दार्थे चशब्दः, निपातानामनेकार्थत्वात् । विवक्षितत्वे हि श्रौतस्यार्थस्य प्रयोजनवत्त्वसिद्धयेऽध्याहारादिनानुष्ठानकल्पना स्यात्; यतःस्वसौ न विवक्षितः अतः कल्पकामावान्नाध्याहारादिभिर्विधिकल्पनेत्यर्थः । अनेन चानुष्ठानाविवक्षार्थं श्रौतार्थाविवक्षेत्युक्तम् । किं तर्हि विवक्षितमित्यपेक्षायामुत्तरसूत्रे वक्ष्य- माणं स्तुत्यर्थत्वमाकाङ्क्षानिवृत्तयेऽभिहितम् । ननु स्तुतेरपि श्रौतार्थकत्प्यत्वादविवक्षितस्य चासत्यत्वेन कल्पकत्वायोगात्तद्विवक्षा- पत्तेरपरिहार्यो विरोधोऽत आह--न चेति । असत्येनापि स्तुत्येनापि स्तुत्युपपत्तेर्वक्ष्य- माणत्वान्नास्मत्पक्षे श्रौतार्थविवक्षापत्तिरिति भावः । स्तुत्यर्थत्वमेव वाशब्दार्थस्त्वित्यनेनो- च्यत इत्यन्यथा व्याचष्टे--अथ वेति । तदानुष्ठानवचन एव प्रयोगशब्दः प्राप्तशब्दार्थे च भूतशब्द इति, न स्वार्थानुष्ठानेनेत्यादिनोक्तम् । ननु भाष्यकारेणाप्राप्ता चाऽऽनुपपत्तिरिति प्रथमान्तमेव पदद्वयं पठितम्, कथं भवतान्यदेव पाठद्वयं व्याख्यातमत आह-त्रयोऽत्रेति । पाठत्रयविवेकार्थं पूर्वोक्तवाक्यशेषस्मरणायोत्तरो ग्रन्थः ॥ ९ ॥ भा० प्र०-अर्थवाद वाक्य प्रमादपठित अर्थात् वेद से बहिर्भूत नहीं है—इसका युक्तिपूर्वक विवेचन कर पूर्वपक्षियों के द्वारा उत्थापित विरोध का परिहार प्रदर्शित किया जा रहा है । पूर्वपक्षी ने "शास्त्रदृष्टविरोधाच्च" इस सूत्र से जिस दोष का आपादन किया है—वह ठीक नहीं है । कारण, अर्थवाद का स्वार्थ में तात्पर्य नहीं है । "सोऽरोदीत्" "प्रजापतिरात्मनो वपामुदखिदत्", "दिशो न प्राजानन्", "स्तेनं मनः, अनृतवादिनी वाक्", इत्यादि अर्थवाद वाक्य यदि स्वार्थबोधित क्रिया को कर्तव्य के रूप में सूचित