मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
३ ] प्रथमाध्याये तृतीयपादः ३११ स्यसंशयाशुद्धिकारणत्वानुपपत्तेः पतितचण्डालसूतिकोदक्याशवस्पृष्टिवत्तत्स्पृष्टाशने सचेलो जलमाविशेदित्यस्य च मनुष्यमात्रविषयत्वोपपत्तेर्न चण्डालस्पृष्टवस्त्रस्पर्शे दोषकल्पनं युक्तमित्याशङ्कते—कथं पुनरिति । ननु सूत्यादिवदनिषिद्धोऽपि वस्त्रस्याशुचिस्पर्शो शुचित्वमापादयिष्यतीत्याशङ्क्यानिष्टापादनेन प्रत्याचष्टे—कथं वेति । तत्स्पृष्टेषु स्पृश्य- मानेष्विति विग्रहः । अनिष्टापत्तिं तावत्परिहरति—तदुच्यत इति । काष्ठादीनां चण्डालादि- स्पर्शापादितस्याप्यशुचित्वस्य । अष्टाङ्गुलं भवेत्काष्ठं तृणमुष्टिर्यदा भवेत् । मारुतेनैव शुद्धिः स्यादूर्ध्वं स्पृष्टिनं दूष्यति ॥ इति स्मृतेः आदिशब्दोक्तानां च रथ्याकर्दमादीनाम्— रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्वेष्टकचितानिति ॥ स्मृतेर्वायुस्पर्शेनापनयात् स्पर्शस्य च दोषकारणत्वं न जातमशुचित्वानापादना- दित्याशयः । ननु निर्वातस्थस्य काष्ठादेश्चण्डालादिस्पृष्टस्यापि शुद्ध्यन्तरास्मरणेन मारुत- शुद्धिस्मृतेरशुचित्वानापत्तिप्रतिपानपरत्वावसायान्न तावत्तत्साम्येन वस्त्रस्याशुचित्वापत्तिर्वक्तुं शक्यते । न च प्रक्षालनशुद्धिस्मृतेर्वस्त्रस्याशुचित्वापत्तिर्वक्तुं शक्यते । "तस्याः" गन्धलेपाप- कर्षणे शौचममेध्यस्ये'ति लेपापकर्षणोपदेशाल्लिप्तविषयत्वप्रतीतेरित्याशङ्कते—नन्विति । प्राक्तनलेपापकर्षणविषयत्वेनापि विध्युपपत्तेनश्रुतलिप्तविषयत्वकल्पनं युक्तमिति परि- हरति-नेति । तुशब्दः शङ्कानिवृत्त्यर्थः । यद्यपि केनचिदमेध्येन लिप्तस्येति लिप्तपदं प्रक्षिप्य पठ्यते, तथाप्यभियुक्तबहुजनापठितत्वान्नासावार्षः पाठ इति चिरन्तनग्रहणेन सूचितम् । तवं तर्हि वस्त्रस्यामेध्यत्वाभावान्नानेन शुद्धिरुक्ता स्यादित्याशङ्क्याह-चण्डालेति । आशङ्का- वादी स्वाभिप्रायं प्रकटयति — ननु चेति । गवाश्वादितुल्यत्वावधारणहेतुः स्वाभाविका- शुचित्वनिषेधाधिकाराभावरक्षणः प्रागेवास्माभिरुक्तः । स्वाभाविकाशुचित्वनिषेधाधिकार- योरभावेऽपि प्रक्षालनविधिसामर्थ्याच्चण्डालादिस्पर्शेन वस्त्रस्याशुचित्वापत्तिरवसीयत इति परिहारवादी स्वाभिप्रायं प्रकटयति — उच्यत इति । चण्डालस्पृष्टवस्त्रस्पर्शनिमित्त- दोषप्रतिपादनस्य प्रकृतोदुम्बरीस्पृष्टवस्त्रस्पर्शनिमित्तो दुम्बरीस्पर्शबुद्ध्यभावोपयोगितामाह- अतश्चेति । शाखान्तरे चौदुम्बर्योद्गाता स्पृष्टव्य इति विधानात्तस्याश्चाचेतनत्वेन स्पर्श- संवेदनलक्षणस्पर्शयोगात्प्राप्तिमात्रवचनत्वेन स्पर्शश्रुतेः प्राप्तेश्च व्यवधानेऽनुपपत्तेरविरोधा- शङ्कव नास्तीत्याह—यदा त्विति । ननु कस्यांचिच्छाखायामोदुम्बर्याश्रयत्वमात्रविधानाद्वस्त्रान्तरिताया अपि चौदुम्बर्याः पतनप्रतिबन्धकत्वेनाश्रयत्वोपपत्तेरविरोधो भविष्यतीत्याशङ्कयाह-अपाश्रयणेति । अस्पृष्टायाः संयोगाभावेनाश्रयत्वायोगादपाश्रयणहस्तसंयोगाद्यनेकोपायसाध्ये च स्पर्शेऽपाश्रयणनियमार्थ- त्वेनापाश्रयणविधेरपाश्रयणेनैवौदुम्बरीं स्पृष्ट्वेत्येकवाक्यत्वावसायादस्त्येव विरोध इत्याशयः ।
३१२ मीमांसादर्शनम् [ सू० ननु संयुक्तस्यापि वस्त्रस्य पतनप्रतिबन्धकत्वायोगात्संयुक्तसंयोगो नास्पृष्ट्वाप्यौदुम्बर्येवाश्रयो मविष्यतीत्याशङ्कयाह — परेति । संयुक्तसंयोगमात्रेणाश्रयत्वाङ्गीकरणेऽविन्ध्यसंयुक्ताकाश- संयुक्तस्य हिमवतोऽपि विन्ध्याश्रयत्वापत्तेर्वस्त्रस्यैवोदुम्बरीसंयोगलब्धस्थैर्यस्य पतनप्रति- बन्धकत्वं प्रसज्येतेत्यपाश्रयणस्पर्शयोर्विरोधोऽस्तीत्याशयः । ननु सत्यपि विरोधे सर्वशब्दस्य कतिपयवेष्टनेऽत्यन्तवाधानापत्तेः । स्पर्शश्रुतेश्वौदुम्बरी- सम्बद्धवस्तुस्पर्शेऽप्यौपचारिकत्वेनोत्पत्तेः कथंचिद् बाधमात्रेण चानुपपत्तिपरिहार- सम्भवेऽत्यन्ताबाधायोगान्न सर्ववेष्टनस्मृतेर्व्यामोहत्वं युक्तमित्याशङ्क्य कथंचिद् बाधोऽपि श्रुतेः कारणाभावादयुक्त इति तामुद्गायतेतिभाष्येणोक्ताः सर्वैत्यनेन स्मृतेर्वाधिकारिकत्व- माशङ्क्य, नन्वित्यनेन निर्मूलत्वान्निराकृत्य वैदिकमित्यनेन श्रुतिमूलत्वामाशङ्क्य भवेदित्यादिना प्रत्यक्षश्रुतिविरोधान्मूलश्रुतिकल्पनासम्भवमुक्त्वा, कथं न हीत्यनेन किं तर्हि मूलमिति पृष्ट्वा व्यामोहादित्युत्तरे दत्ते कथमित्यनेन व्यामोहमूलत्वे किं प्रमाणमिति पृष्ट्वा श्रोतेत्यनेन विरुद्धश्रुत्यवगता यथार्थत्वान्यथानुपपत्तिः प्रमाणमित्युक्तम्, तत्सर्वं संक्षेपेण तात्पर्यतो व्याचष्टे — इति युक्तमिति । पूर्वोक्तबलाबलहेतुपरामर्शोऽय- मितिकरणः । अथेत्याशङ्काभाष्यं श्रुतिमूलत्वस्य निराकृतत्वात्स्वातन्त्र्येण चाप्रामाण्याद्विधि- त्वाच्चायुक्तमाशङ्क्य, विकल्पाङ्गीकरणेन विरोधपरिहारसम्भवाच्छ्रुतिकल्पनोपपत्ति- मङ्गीकृत्यैतदुक्तमिति व्याचष्टे — अथेति । नास्तीत्यादितुल्यकारणत्वादित्यन्तं भाष्यं तात्पर्यतस्तावद्व्याचष्टे — नास्तीति । (हसे हसने मृङ् प्राणत्यागे, गृ निगरणे, इण् गतौ, वा गतिगन्धनयोः, अम गतौ, दम उपशमे, लूञ् छेदने, पूञ् पवने, धुर्वी हिंसायाम्, हस्तः करनक्षत्रयोः । मतंः, 'भूर्लोकः । गर्तः अवटः' । एतः-लबुर्बरः । वातो-वायुः, रोगश्च । अन्तः-अन्तेऽन्तिके च । दन्तःदशनम् । लोतः-अश्रुवह्नयोः । पोतः-बालवह्नियोः । धूर्त्तः शठः) । औणादिके तन्प्रत्यये कृते गम्यतेऽसावित्यस्मिन्नर्थेऽयमन्तशब्दः । एकेनाम्यते गम्यते प्राप्यते योऽसावैकान्तो व्यामोहाश्वासावैकान्तश्चेति तृतीयासमासगर्भः कर्मधारयः । विकल्पेऽङ्गी- क्रियमाणे पूर्वोक्तेनैव तुल्यकक्षकविकल्पोऽपीत्यादिना मार्गेण व्यामोहस्यैकविज्ञानगतस्य कल्पना- मवश्यमापन्नां पूर्वोक्तेनैव द्वितीयेन प्रकारेणेत्यादिना मार्गेण स्मृताबेव नियच्छतीति प्रथमपादावृत्त्या योज्यम् । एतदेव भाष्यमवयवशो व्याचिख्यासुर्व्यामोहविज्ञानसमासं द्वेधा विगृह्णाति — व्यामो- हेति । विकल्पं त्विति भाष्ये न पाक्षिकीयपाक्षिकत्वाभिधानमेकस्मिन्प्रयोगेऽङ्गीकृत- प्रामाण्याया अपि स्पर्शश्रुतेः प्रयोगान्तरे व्रीह्यादिश्रुतिवदप्रमाण्याङ्गीकरणोपपत्तेरयुक्त- माशङ्क्योपपादयति — विकल्पं त्विति । अपाक्षिकं चेति पाठे सर्ववेष्टनस्मरणं चेति भिन्नक्रमश्चाकारः । पक्षे तावदित्यादिपाक्षिकत्वोपपादनार्थमिति व्याचष्टे — एवमिति । यथा श्रुतिरपाक्षिकी तथा स्मरणमपीत्येवं शब्देनाभिधानाद्भिन्नक्रमत्वं सूचितम् । पाक्षिकं चेति
३ ] प्रथमाध्याये तृतीयपादः ३१३ तु पाठे विकल्पेऽङ्गीक्रियमाणे पाक्षिकत्वमेवात्यन्ताप्रामाण्यहेतुरिति व्याचष्टे—पाक्षिकं चेति । ततश्चाव्यामोहे तस्मिन्स्पर्शनविज्ञाने पक्षान्तरेऽपीत्यध्याहृत्य भाष्यं योज्यम् । ननु पक्षान्तरे स्पर्शनश्रुतेर्व्यामोहत्वात्स्मृतिमूलश्रुतिकल्पनं भविष्यतीत्याशङ्कानिवृत्त्यर्थं न चासावितिभाष्यं व्याचष्टे — एकदापि चेति । यदेव हीत्यादिभाष्यं श्रुत्यपाक्षिकत्वो- पपादनार्थतया व्याचष्टे — इति समर्थयमान इति । तस्याव्यामोहत्वस्य निरपेक्षप्रमाजनकत्वं मूलम्, तदपाक्षिकत्वात्तद्वशेनैव च स्मृतिब्यामोहत्वस्यापाक्षिकत्वात्सर्वदा निर्विचिकित्स- श्रुतिप्रामाण्यसिद्धिरिति भाष्यार्थः । ननु पक्षान्तरे प्रमादपाठत्वान्निरपेक्षप्रमाजनकत्वं न सम्भवतीत्याशङ्कानिरासार्थं नासाविति भाष्यं व्याचष्टे—न हीति । स्मृतेः श्रुत्यादिमूलत्वं वैधर्म्यदृष्टान्तत्वेनोक्तम् । तेनेति भाष्यं श्रुत्यपाक्षिकं चोपसंहारार्थत्वेन ताथद्वयाचष्टे—तेनेति । व्यामोहादिति हेतौ पञ्चमीत्यर्थः । अन्यपर्यायान्तरशब्दयोगनिमित्तपञ्चम्यङ्गीकरणेन वा तेन श्रुतिविरोध- परिहारासम्भवेन नैतत्स्मार्त्तंविज्ञानं व्यामोहपक्षात्प्रामाण्यरूपं पक्षान्तरं संक्रान्तम्, किं तु दुःश्रुततादिविज्ञानं सर्वदा तस्य मूलमित्येवमेतद् भाष्यं योजयमित्याह—यद्वेति । दुःश्रुत- स्वप्नादिमूलत्वेनैकदाङ्गीकृतेन सर्वदापन्नेन हेतुना पक्षान्तरं न संक्रान्तमित्यर्थः । ननु सत्यपि विरोधे शिष्टत्रैवर्णिकदृढपरिग्रहस्य श्रुतिकल्पनहेतोर्भावात्किमिति श्रुतिनं कल्प्यत इत्याशङ्क्य, प्रमित्सानिरपेक्षपरोक्षार्थविषयप्रमाणानुत्पत्तैनं विरोधे श्रुतिकल्पनं युक्तमिति प्रतिपादनार्थं 'न हीति' भाष्यं किं कर्त्तव्यमिदानीं चेत्यनेन पूर्वमेव व्याख्यात- प्रायत्वान्न व्याख्यातम् । तस्मादित्यपसंहारभाष्ये तुल्यकारणत्वं व्याचष्टे—श्रुतीति । विषमशिष्टत्वादपि विकल्पो न युक्त इति प्रतिपादनार्थमपि चेति भाष्यम् । प्रमाणायां स्मृता- वित्यत्रोभयं प्रामाण्यविरोधविवरणदर्शनाद्युक्तमाशङ्क्य विरोधप्रतिपादनपरतयैव ताव- द्वयाचष्टे – अपि चेति । इतरस्मृतिप्रामाण्यं श्रुतिप्रामाण्यं चेतरच्छ्रुतिप्रामाण्यं स्मृति- प्रामाण्यं वा नाश्रयतीति नञ्समासो । नन्वयमकारो दीर्घ इत्याशयः । अन्यतो बलाबल- परिच्छेदाभावे तुल्यबलत्वावगत्या विकल्पः स्यात्सति तु तस्मिन्नष्टदोषविकल्पाङ्गीकरणं न युक्तमिति भाष्याभिप्रायः । क्व पुनरितरेतराश्रयविरोधेऽन्यतः परिच्छेदोदृष्ट इत्या- शङ्क्याह—परस्परेति । प्रतिज्ञा यत्र बाध्यत पूर्वोक्तैयंस्य बाधकैः । तत्पराजयतः कार्यो निर्णयो बाधवजर्नात् ॥ —श्लो० वा० अनु०, ९३-९४ इत्यत्रोक्तो विरुद्धाद् व्यभिचारिणो विरोधे, अन्यतः परिच्छेदो दृष्टान्तितः । प्रमाणशब्दमाक्षिपति—प्रमाणशब्दस्येति । प्रमाणशब्दस्य स्मृतिसामानाधिकरण्य- प्रयोगेण ज्ञानसमानाधिकरण्याभावात् स्मृतेश्चाप्रमितित्वेन भावोत्पन्नल्युडन्तत्वायोगानानेन कारणद्वयेन नपुंसकलिङ्गत्वसिद्धिरित्याशङ्क्य प्रमाणशब्दस्य वेदाः प्रमाणमित्यादिप्रयोगेण
३१४ मीमांसादर्शनम् [ सू० लोके नियतलिङ्गत्वत्वावधारणात्, करणसाधनत्वेऽपि ज्ञानशब्दवत्सामान्यविवक्षया नपुंसक- लिङ्गत्वात् भावे ल्युट् चेति ल्युट्प्रत्ययस्मरणात्तदाश्रयणेन नपुंसकलिङ्गत्वसमर्थनार्थं वेदाः प्रमाणमितिदर्शनम् । ज्ञानसामानाधिकरण्येनेति च तस्य ज्ञानमुपदेश इति करणव्युत्पन्न- स्यापि ज्ञानशब्दस्य नपुंसकलिङ्गत्वदर्शनाद्यदेव ज्ञानशब्दस्याधिकरणमभिधेयम्, नपुंस- कलिङ्गं तदेवास्यापीति व्याख्येयम् । ज्ञानशब्दस्य विषयाव्यभिचारिबुद्धिविशेषवाचिद- वयंवार्यप्रत्यभिज्ञानेन च च रूढित्वायोगाद् बुद्धिवोधादिसामानाधिकरण्याविशेषेण चानेक- लिङ्गतापत्तेरव्युत्पन्नस्यैव प्रमाणशब्दस्य ज्ञानशब्दपर्यायत्वाभिप्रायं समानाधिकरण्य- व्याख्यानं कथं निर्वहतीति न विद्मः । भावव्युत्पत्तौ तु स्मृतिजन्यसंवेष्टनज्ञानलक्षण्या स्मृतिशब्दस्य प्रमाणशब्दसामानाधिकरण्यं द्रष्टव्यम् । करणविशेषविविक्षायां वेति विशेष- शब्देन पूर्वं सामान्यविवक्षा द्योतिता । समर्थनं प्रतिजानीते—तन्मिममिति । समर्थयते—प्रमाणमिति । मूलप्रमाणाश्रितायाः स्मृतेः श्रुत्या सह स्पर्द्धा भवति, न स्वतन्त्राया इति प्रतिपादयितुं प्रमाणशब्दात्परात्रअय- गतावित्येष धातुर्भाष्यकृता प्रयुक्तः । न शुद्धः प्रमाणशब्दः ततश्च प्रमाणमयनायां गच्छन्त्यां प्रमाणायां स्मृतौ स्पर्शनं व्यामोहो न तन्निरपेक्षायामिति भाष्यार्थो भवतीत्या- शयः । योजना चैवम् । यतः स्मृतिः प्रमाणमयते तस्मात्प्रमाणोच्यते धात्वन्तरेण यतिधात्व- र्थव्याख्यानार्थम्—यातीत्युक्तम् । किं तत्प्रमाणमित्यपेक्षिते—मूलभूतां श्रुतिमित्युक्तम् । नन्वयतेर्यकारान्तरत्वात्कथं प्रमाणेति रूपसिद्धिरित्याशङ्क्य, क्विपो बलादित्वेन लोपो व्योर्वलीति यकारलोपे सत्येतरूपसिद्धिरिति सूचनार्थं—क्विवन्तादयतेरित्युक्तम् । ननु कृताकृतप्रसङ्गितया नित्यत्वेन क्विपो लोपस्य प्राथम्यात् वलः परभूतस्याभावे सति कथं यकारलोपः स्यादित्याशङ्क्य वल्प्रत्ययपरत्वनिमित्तयकारलोपाभ्युपगमेनैव तावत्परि- हरति—तत्रेति । प्रत्ययलोपे प्रत्ययलक्षणमितिज्मरणात्प्रथमं क्विपो लोपेऽपि तत्कार्यं- सिद्धिरिति भावः । नन्विदं वल्ग्रहणं वर्णविषयम् । तथा सति गोधाया अपत्यमित्यस्मिन्नर्थे गोधाया ढूगिति विहित ढक्छूत्ययादिभूतढकारस्यायनेयीनियियः फढखच्छघां प्रत्ययादीना- मित्ययादेशे कृते लोपोव्योर्वलीति यलोपाद् गोधेर इति रूपं सिद्ध्यति । प्रत्ययविषयत्वे तु प्रत्ययमध्यगतस्य वलो रेफमात्रस्य प्रत्ययत्वाभावात्प्रत्ययमध्यगतयकारलोपनिमित्तत्वाभावेन न रूपसिद्धिः स्यादित्याशङ्कयाह—न चेति । वल्ग्रहणस्य वर्णविषयत्वेन, प्रत्ययविषयत्वेन च द्वेधा वैयाकरणैर्व्याख्यानादिह लक्ष्यानुसारेण प्रत्ययविषयत्वाभ्युपगमेन वलादिपत्यय- निमत्तोऽत्र यलोपः प्रत्ययलोपलक्षणेन युक्त इति भावः । मामूद्वा वल्प्रत्ययपरत्वनिमित्तो यकारलोपः, तथापि यदि वा कानिचिदन्यान्यपि वर्णाश्रयाणि कार्याणि प्रत्यययलोपलक्षणेन भवन्ति तद्वदिदमपि भविष्यतीत्युक्त्वाऽथ वैवं वक्ष्यामि लोपोव्योर्वलिं ततः वेव्यंन्तस्य व्योर्लोपो भवतीति भाष्ये पतञ्जलिना वेरपृक्त- स्येति योगविभागाभिधानाद्विमक्तस्य वेदिति सूत्रस्य येनविधिरतदन्तस्येति स्मरणेन व्यन्तस्ये- त्यर्थावगतेः कृताकृतप्रसङ्गित्त्वेन च नित्यत्वेऽपि विलोपस्य प्रथमकरणे व्यन्तशब्दाभावेन
३ ] प्रथमाध्याये तृतीयपादः ३१५ वेरिति सूत्रस्यानवकाशापत्तेः सावकाशनिरवकाशयोर्निरवकाशो विधिर्बलवानिति विलोप- प्राथम्यबाधेनास्य व्यन्तत्वानपायाल्लोपो व्योरिति पूर्वसूत्रगतपदद्वयानुवृत्त्या व्यन्तस्य वकारयकारयोर्लोप इति सूत्रार्थनिष्पत्तेर्व्यन्तत्वनिमित्तो यकारलोपो भविष्यतीति परि- हारन्तरमाह—यद्वेति । वेरितीतिकरणाध्याहारेणैव योज्यम् । वेरिति योगविभागेन लोपो भविष्यतीत्युक्ते कथमित्यपेक्षायां व्यन्तस्य वकारश्च यकारश्च लुप्यत इत्येवमर्थावगमादिति न केवलं वल्परत्वनिमित्त एव वकारयकारयोर्लोपः किं तु व्यन्तत्वनिमित्तोऽपीति चकारार्थः । ननु यकारलोपेऽप्यकारस्य ह्रस्वस्य पिति कृति तुगिति तुगागमापत्तेरनित्यमागमशासनमिति स्मरणाद्वा तदकरणेऽपि शुद्धस्याकारस्यादन्तत्वात्प्रमाणपदसंहितायां वा दीर्घत्वापत्तेष्टाप्प्रत्य- याभावेन याडाप इति तन्निमित्तयाडागमाभावात्कथं प्रामाणायामिति रूपसिद्धिरित्या- शङ्क्याह — यलोपे चेति । शुद्धग्रहणेन तुगागमदीर्घत्वापादके निराकृते शुद्धस्याप्याद्यन्तवदे- कस्मिन्नित्यन्तवत्कार्यसिद्ध्या टाप्प्रत्ययोत्पत्तिसमर्थनार्थम् -- तदन्तावधिकादित्युकम् । यः शुद्धः परिशिष्टाकारः स एवान्तरूपो विधिः स्वार्थे कप्रत्ययः । तस्माददन्तरूपावधिभूतादतः पश्चात् स्त्रियां विषये टाप् क्रियत इत्यर्थः । ननूपपदाकारसंहितायाः प्रथमातिक्रमकारणा- भावेन पूर्वकार्यत्वादीर्घत्वापत्तेष्टाप्प्रत्ययानुत्पत्तिः स्यात् । पूर्वकरणे वा भ्रष्टवसरत्वेन पश्चादप्यकार्यत्वात्प्रमाणेतिरूपं न सिद्धेदित्याशङ्क्याह—अक इति । एकपदाकार- संहितायाः पदान्तरसंहितातः शीघ्रप्रतीतेर्दीर्घादीर्घयोश्च धातुप्रत्ययाकारयोर्दीर्घादेशस्यान्तरत- मत्वातिशयाद्धातुह्रस्वाकारद्वयदीर्घादेशाच्छीघ्रप्रतीतेः पर्योर्धातुप्रत्ययगतयोरकारा- कारयोरकः सवर्णदीर्घत्वं पूर्वं कृत्वा ततः पूर्वणाप्युपपदाकारेण अकः सवर्णदीर्घत्वं कृत्वा प्रमाणेत्यनुगम्यत इति योज्यम् । तदितरेतराश्रयमित्युपसंहारभाष्यमपीतरेतरविरोधपरतया पूर्ववद् व्याख्यातं भवतीत्याह—तदेतदिति । उपक्रमोपसंहारानुरोधेन वा विवरणभाष्यमेवेत रेतराश्रयपरमध्याहारेण व्याख्येय- मित्याह—यद्वेति । प्रमाणायामित्यत्र स्पर्शने व्यामोहे स्मृतिः प्रमाणमित्यध्याहारः, स्पर्शनं इत्यत्र स्मृतौ व्यामोहे स्पर्शनं प्रमाणमिति । [प्रमाणेत्याद्यमध्याहृतं भाष्यमिष्य- माणाथंवेन व्याख्यायते रुदित्यपसंहारभाष्यं श्रुतावारोप्यमाणाप्रामाण्यपरतया व्याख्यातम् । एवं तथेत्यादिनां संहारभाष्यमावृत्त्या स्मृत्यप्रामाण्यसमानार्थत्वेन व्याख्यायेत्यध्याहृतं स्पर्शने प्रमाणे इत्यादिभाष्यं श्रुतिप्रामाण्यास मर्थनार्थत्वे व्याख्यातम् । एतच्छ्रुतिप्रामाण्य- पक्षेऽप्यन्योन्याश्रयस्य सुपरिहरत्वं स्मृतिप्रामाण्यपक्षेऽन्योन्याश्रयस्य दुःपरिहरत्वं वक्ष्यमाण- मभिप्रेत्योक्तम्] । तत्राद्यश्लोकेनेष्यमाणार्थतयाध्याहृतं भाष्यं व्याख्याय, आरोप्यमाणार्थं- तया पठितं व्याख्यातम् । द्वितीयेन समर्थ्यमानार्थतया पठितं व्याख्याय, निश्चीयमानार्थं- तयाध्याहृतं भाष्यं व्याख्यातम् । ननु श्रुतिप्रामाण्यगतमितरेतराश्रयं सिद्धान्तवादिनोऽपि समानात्वान्नोग्द्भावनीयमित्या- शङ्क्याह—तदिदमिति । तस्यैकत्रैवेतरेतराश्रयं तच्च सुपरिहरमिति भावः । अन्यतः
३१६ मीमांसादर्शनम् [ सू० परिच्छेदप्रदर्शनार्थं तत्रेति भाष्यं तत्प्रदर्शनासमर्थत्वेनाक्षिपति —तत्रेति । तत्रेतरेतराश्रयेऽ- न्यतः परिच्छेदस्य प्रतिज्ञातत्वात् स्फुटमत्यन्तव्यतिरिक्तं हेत्वन्तरं वाच्यम् । भाष्यकार- स्त्वेवमुक्त्वा तयोरेव श्रुतिस्मृत्योर्धर्ममेकं श्रुतिप्रामाण्यपरिच्छेदे क्लृप्तमूलत्वम्, स्मृतिप्रामाण्य- परिच्छेदे चैकं कल्प्यमूलत्वं हेतुमिह किं प्रमाणं किमप्रमाणमिति परिच्छेदवेलायामुक्तवा- नित्यर्थः । (श्रुतेः क्लृप्तमूलत्वम्, स्मृतेः कल्प्यमूलत्वं धर्ममुक्तवान् । न च सधर्मिणोऽन्यो धर्मधर्मिणोरभेदात् तेन नान्यतः परिच्छेदोऽयमित्याशयः) द्वितीयव्याख्याने तु श्रुतिप्रामाण्य- गतेतरेतराश्रयस्य सुपरिहरत्वपरिच्छेदे हेतुं क्लृप्तमूलत्वम् स्मृतिप्रामाण्यगतेतरेतराश्रयस्य दुष्परिहरत्वपरिच्छेदे कल्प्यमूलत्वम्, इह किं सुपरिहरं किं दुष्परिहरमिति परिच्छेद- वेलायामित्यर्थः । समाधत्ते —नैवेति । श्रुतिस्मृत्योर्विपरीतार्थत्वकृतमितरेतरविरोधित्वमितरेतराश्रयत्वं तु श्रुतिस्मृतिप्रामाण्याप्रामाण्ययोः स्वरूपकृतं समाहितं भाष्यं व्याचष्टे—स्वत इति । स्मृतिप्रामाण्यगतेतरेतराश्रयस्य दुष्परिहरत्वपरिच्छेदे कल्प्यमूलत्वस्य हेतुत्वमुपपादयति— ततश्चेति । नन्वात्मलाभाय स्मृतेर्मूलप्रमाणापेक्षत्वेऽप्यर्थप्रतिपादने निरपेक्षतया पुरुषवाक्य- वत्स्वतः प्रमाणत्वेन श्रुत्यप्रामाण्यानपेक्षत्वात्तत्परिग्रहपक्षे वैकल्पिकशास्त्रान्तरवच्छ्रुत्य- प्रामाण्याध्याहारारोपेऽपीतरेतराश्रयानापत्तिरित्याशङ्क्याह-न चेति । न तुल्यबलयोर्विकल्पः सम्भवतीत्याशयः । दृष्टान्तेनैतदेवोपपादयति — बलवन्तन्निति । स्मृतिप्रामाण्यगतेतरेतराश्रयस्य दुष्परिहरत्व- मुपसंहरति—एवं तावदिति । श्रुतिप्रामाण्यगतेतरेतराश्रयस्य सुपरिहरत्वपरिच्छेदे क्लृप्त- मूलत्वस्य हेतुत्वमुपपादयति—यदा त्विति । तदा पूर्वसिद्धस्मृतिप्रामाण्यलिप्सायां पूर्वानु- भवपारतन्त्र्यलक्षणस्मृतिस्वरूपाश्रयमप्रमाणत्वमादितः सिद्धमेव प्राप्य श्रुतिः प्रामाण्यमश्नुत- इत्यन्वयः । श्रुतेः स्वतः प्रामाण्यात्स्मृतिप्रामाण्यलिप्सानुपपत्तिमाशङ्क्य, तत्रापि श्रुतावपि निरपवादप्रामाण्यावधारणसिद्धेः—पराधीनत्वादित्युक्तम् । किं तत्परमित्यपेक्षिते—प्रति- पक्षेत्याद्युक्तम् । पर्यालोचनापेक्षानिवृत्त्यर्थं क्षणमात्रमपीत्युक्तम् उपसंहरति—तेनेति । अननुमितावस्थायामित्यनेनाद्ये पदक इति व्याख्यातम् । क्लृप्तकल्प्यमूलस्यान्यतः परिच्छेदहेतुत्वप्रतिपादनार्थत्वेन सोऽसाविति भाष्यं व्याचष्टे— इतीति । सर्वमेव वा ततश्चेत्याद्येतद्भाष्यव्याख्यानार्थं ततः क्लृप्तकल्प्यमूलत्वादुक्तेन प्रकारेणान्यतः परिच्छेद इत्यर्थः । उक्तमेव प्रकारं कल्प्यमूलत्वादित्यादिभाष्यारूढं कर्तुं संक्षिप्य यथाक्रमं दर्शयति—तेनेति । उक्तेन प्रकारेणैकत्र स्मृतिप्रामाण्यगतेतरेतराश्रये श्रुतेराद्यस्य स्वतः सिद्धस्य प्रामाण्यस्यापवादासम्भवेनापेक्षितश्रुत्यप्रामाण्यालाभाद् दुष्परि- हरत्वावसानं परिच्छेदो भवति । अवसीयत इति भावे लकारः । अन्यत्र श्रुतिप्रामाण्यगते- तरेतराश्रये स्मृत्यप्रामाण्यस्यापेक्षितस्य लाभात्सुपरिहरत्वस्यावसानमित्यर्थः । नन्वेवं सत्यपेक्षितस्मृत्यप्रामाण्यलाभमात्रेण श्रुतिप्रामाण्यगतेतरेतराश्रयस्य सुपरिहरत्वपरिच्छेदसिद्धेः किमर्थं भाष्यकृताऽनुपूर्वी दर्शितेत्याशङ्क्याह—कृत्वेति । अपेक्षितलाभालाभोपपादनार्थं-
३ ] .प्रथमाध्याये तृतीयपादः ३१७ मुभयत्राप्यानुपूर्वी दर्शनीयेत्याशयः । श्रुतिप्रामाण्यगतेतरेतराश्रयपरिहारायापेक्षितो यः स्मृत्यप्रामाण्यरूपोऽर्थः, तमाद्ये क्षणे दृढसिद्धत्वेनावधिं कृत्वा विरोधे स्मृत्यप्रामाण्याच्छ्र- त्यबाधः । श्रुत्यबाधाच्च तद्विरोधे स्मृतिमूलश्रुतिकल्पनानुपपत्तिर्यावत्तावद्गच्छेत्तावता ह्यपरश्रुतिप्रामाण्यगतेतरेतराश्रयपरिहारसाध्यः श्रुतिप्रामाण्यरूपोऽर्थः सिद्धयति । तथा स्मृतिप्रामाण्यगतेतरेतराश्रयस्यापरिहार्यतयापेक्षितो यः श्रुतिप्रामाण्यरूपोऽर्थः तमाद्ये क्षणे दृढसिद्धत्वेनावधिं कृत्वा विरोधे श्रुतिप्रामाण्यात् स्मृतिमूलश्रुत्यकल्पनम्, तदकल्पनाच्च स्मृतेर्भ्रान्त्यादिमूलत्वकल्पनं यावत्तावद् गच्छेत् तावता ह्यपरः स्मृतिप्रामाण्यगतेतरेतराश्रया- परिहार्यत्वसाध्यः स्मृत्यप्रामाण्यरूपोऽर्थः सिद्धयतीत्यर्थः । ननु भाष्यकृतैकविधानुपूर्विकथनादानुपूर्वीद्वयाभिधानं भाष्यव्याख्यानानुपयोगित्वाद- नर्थकं स्यादित्याशङ्कयाह—तदेकेनेति । उपलक्षणार्थमेकानुपूर्विकथनमित्याशयः । कीदृशी तर्हि द्वितीयानुपूर्वी दर्शनीयेत्यपेक्षायामाह—द्वितीयेति । स्वयं पूर्वोक्तस्याप्यस्य मार्गस्य भाष्योक्तापेक्षया द्वितीयत्वम् । नन्वित्याशङ्कापूर्वकं तुल्यबलविकल्पोपपत्तिप्रतिपादनार्थं भाष्यं व्याचष्टे—व्रीहीति । तस्माद्युक्तमिति सूत्रार्थोपसंहारभाष्यं व्याचष्टे—अत इति । ॥ इति वार्तिकव्याख्यायां सर्वानवद्याकारिण्यां द्वितीयं विरोधाधिकरणम् ॥ ३ ॥ भा० प्र०—पूर्वं अधिकरण में स्मृति का प्रामाण्य प्रतिष्ठापित किया गया है । प्रकृतमें यह विचारणीय है कि श्रुतिविरुद्ध स्मृति प्रमाण है या नहीं ? जैसे "औदुम्बरवृक्ष से निर्मित स्थूणा = स्तम्भ का समग्रभाव से वेष्टन करना चाहिए" यह स्मृति वाक्य "औ- दुम्बरीं स्पृष्ट्वा उद्गायेत्" अर्थात् उदुम्बर निर्मित स्तम्भ का स्पर्शंकर उद्गाता गान करे इस श्रुति वाक्य से विरुद्ध है । क्योंकि, स्मृति के अनुसार सम्पूर्ण का वस्त्र के द्वारा वेष्टन करने पर उनका स्पर्श सम्भव नहीं है अर्थात् स्तम्भ के साथ त्वचा का संयोग सम्भव नहीं है । इसी प्रकार "अष्टाचत्वारिंशद् वर्षाणि वेदब्रह्मचर्यं चरेत्" अड़तालीस वर्ष तक वेद के अध्ययन के लिए ब्रह्मचर्यंका अवलम्बन करे, यह स्मृतिवाक्य "जातपुत्रः कृष्णकेशः अग्नीनादधीत" अर्थात् जिसको पुत्र हो गया है ऐसा व्यक्ति कृष्णकेश की अवस्था में ही अर्थात् केशपकने से पूर्व ही अग्नि का आधान करे, इस श्रुतिवाक्य का विरोध है, कारण, अडतालीस वर्ष तक ब्रह्मचर्यं का पालनकर इसके बाद दश वर्ष से कम वर्ष की कन्याके साथ पाणिग्रहणपूर्वकं पुत्रकी उत्पत्ति पर्यन्त अपेक्षाकरने से पूर्व ही उसका केश पक जायगा, अतः बाल पकने से पूर्व अग्नि का आधान सम्भव नहीं है । इस प्रकार उपलभ्यमान श्रुति के विरुद्ध स्मृतियाँ प्रमाण है या अप्रामाण्य है पूर्व अधिकरण में उल्लिखित युक्ति के अनुसार श्रुति के समान स्मृति भी जब प्रमाण है, तब स्मृति के अप्रमाण होने की आशङ्का उचित नहीं है, क्योंकि ऐसा मानने पर सभी स्मृतियों का ही अप्रामाण्य प्राप्त होगा । अतः परस्पर विरुद्ध श्रुति वाक्यों में जिस प्रकार विकल्प का आश्रयण कर दोनों का ही प्रामाण्य माना जाता है, प्रकृत में भी ऐसी स्थिति में उसी के समान परस्पर विरुद्ध श्रुति और स्मृति में भी वैसा ही विकल्प मानना उचित है ।
३१८ मीमांसादर्शनम् [ सू० विकल्प दो प्रकार का होता है—(१) इच्छा विकल्प (२) व्यवस्थित विकल्प । जिस स्थल में कर्ता अपनी इच्छा के अनुसार शास्त्र में उल्लिखित एक से अधिक पदार्थों में जिस किसी पक्ष का इच्छा से अनुसरण कर सकता है—वह इच्छा विकल्प है । जैसे—'व्रीहिभिर्यजेत यवैर्वा यजेत' अर्थात् व्रीहि के द्वारा याग करे या यव के द्वारा याग करे । इस स्थल में कर्ता का स्वातन्त्र्य है । व्रीहि या यव किसी के द्वारा भी याग कर सकता है । जिस स्थल में विकल्पित पदार्थ विशेष अधिकारी के मध्य में व्यवस्थित रहता है — उसको व्यवस्थित विकल्प कहते हैं । जैसे—"उदिते जुहोति" अनुदिते जुहोति" अर्थात् सूर्योदय होने पर अग्निहोत्र होम करे, एवं सूर्योदय होने से पूर्व अग्निहोत्र होम करे । इस स्थल में एक शाखा के व्यक्तियों के लिए उदित होम का विधान है, और अन्य शाखा के व्यक्तियों के लिए अनुदित होम व्यवस्थित है, इस शाखा के लिए उदित होम अकर्तव्य है । क्योंकि दोनों स्थलों में अर्थवाद वाक्य में निन्दा की गई है । प्रकृत में परस्पर विरुद्ध श्रुति और स्मृति में इच्छा का विकल्प होगा । इस प्रकार पूर्वपक्ष के उत्तर में सिद्धान्त के रूप में कहा गया है कि "विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्" श्रुति और स्मृति में विरोध रहने पर श्रुति ही प्रमाण है, स्मृति प्रमाण नहीं है । क्योंकि श्रुति शब्द प्रमाण है; वह स्वतः प्रमाण है और स्मृति का प्रामाण्य श्रुति सापेक्ष है । इसलिए, श्रुति बलवती है और स्मृति दुर्बल है । उपजीव्य और उपजीवक में विरोध होने पर उपजीव्य ही प्रमाण होता है, क्योंकि, उपजीवक उपजीव्य के आश्रित होने से उपजीव्य को छोड़कर अर्थात् अप्रमाण कर उपजीव्य स्थान नहीं पा सकता है, और न प्रमाण हो सकता है । प्रकृत में श्रुति उपजीव्य है और स्मृति उपजीवक है । अतः, स्मृति और श्रुति का समान बल नहीं है । समान बल में ही विकल्प होता है, इसलिए इन दोनों में विकल्प नहीं हो सकता है । पूर्वपक्षी के द्वारा प्रस्तुत विकल्प की चर्चा भी ठीक नहीं है, क्योंकि, विकल्प मानने पर आठ दोष होते हैं । अतः अन्य पक्ष सम्भव रहने पर आठ दोषों से युक्त विकल्प नहीं माना जाता है। जैसे 'व्रीहिभिर्यवैर्वा यजेत' व्रीहि या यव के द्वारा याग करे । इस विधि में व्रीहि और यव का समुच्चय निरर्थक होने से विकल्प माना गया है । इस विकल्प को मानने पर यव से यज्ञ करने पर (१) व्रीहि में शास्त्र के द्वारा प्राप्त प्रामाण्य का त्याग (२) अप्राप्त अप्रामाण्य का स्वीकार (३) व्रीहि के ग्रहण के समय यव शास्त्र का प्रामाण्य परित्यक्त हुआ था उसका पुनः उज्जीवन या पुनः स्वीकार । (४) प्राप्त अप्रामाण्य का हान या परित्याग करना होगा—इस प्रकार यव के पक्ष में चार दोष हैं और इसी प्रकार व्रीहि के द्वारा यज्ञ करने पर (१) यव- शास्त्र के पूर्वप्राप्त प्रामाण्य का परित्याग (१) अप्रामाण्य की कल्पना (३) यव के ग्रहण के समय व्रीहिशास्त्र का प्रामाण्य जो परित्यक्त हुआ था उसका पुन उज्जीवन, (४) प्राप्त अप्रामाण्य का परित्याग—इस प्रकार व्रीहिपक्ष में भी चार दोष होते हैं । इस प्रकार
आठ दोष की प्राप्ति विकल्प के पक्ष में होती है। अतः अन्य गति न रहने पर ही विकल्प स्वीकार किया जाता है, अन्यथा नहीं । विकल्प मानने पर श्रुति को प्रमाण मानने पर स्मृति अप्रमाण होगी । किन्तु स्मृति के प्रामाण्य का उपजीवन अन्य किसी के न रहने से स्मृति को प्रमाण और श्रुति के पक्ष में अप्रमाण नहीं कहा जा सकता है । इस प्रकार के स्थल में इतरेतराश्रय अर्थात् अन्योऽन्याश्रय दोष भी होगा, क्योंकि श्रुति का अप्रामाण्य स्मृतिप्रमाणत्वसापेक्ष है और स्मृति का प्रामाण्य श्रुति सापेक्ष है । इसलिए जिसका प्रामाण्य पूर्व से ही निरपेक्ष रूप में सिद्ध है, वह अनपेक्ष श्रुति अप्रमाण नहीं हो सकती है । अतः श्रुति के साथ स्मृति का विकल्प नहीं है। यदि यह कहा जाय कि उक्त स्मृति का क्या मूल है ? यह जिज्ञासा करने पर यही कहना होगा कि सम्यक् रूप से न सुनना या स्वप्न विज्ञान, या लाभ या मोह आदि ही उक्त स्मृति का मूल है ॥ ३ ॥ हेतुदर्शनाच्च ॥ ४ ॥ शा० भा०—लोभाद्वास आदित्समाना औदुम्बरीं कृत्स्नां वेष्टितवन्तः केचित् । तत्स्मृतेर्बीजम् । बुभुक्षमाणाः केचित्क्रीतराजकस्य भोजनमाचरितवन्तः । अपुंस्त्वं प्रच्छादयन्तश्चाष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यं चरितवन्तः । तत एषा स्मृतिरित्यवगम्यते । अधिकरणान्तरं वा । ‘वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णाति’ इति ‘यूपहस्तिनो दानमाचरन्ति इति । तत्कर्तृसामान्यात् प्रमाणमिति प्राप्ते अप्रमाणं स्मृतिः । अत्रान्यन्मूलम् । लोभादाचरितवन्तः केचित् एषा स्मृतिः । उपपन्नतरं चैतत् । वैदिकवचनकल्पनात् ॥ ४ ॥ भा० वि० —अथ यदि हेतुदर्शनविशिष्टश्रुतिविरुद्धता व्याप्ता स्मृत्यप्रमाणता, हन्त तर्हि यत्र श्रुतिविरोधाभावः, तत्र सा न स्यादित्याशङ्क्य, हेत्वन्तरेणापि व्याप्तिं दर्शयितुमावृत्त्याऽधिकरणान्तरतयापीदं सूत्रं व्याकरोति —अधिकरणान्तरं वेति । आचारपक्षे त्वर्थसुखाद्यर्थानामाचाराणामविरोधात् कर्तृसामान्याच्च धर्म- प्रामाण्यमाशङ्क्य लोभादिहेत्वन्तरदर्शनेनाप्रामाण्यं साधयितुमारम्भः । तस्य विषयमाह —वैसर्जनेति । अग्नीषोमप्रणयनार्थविसर्जनहोम संबन्धि वासोऽध्वर्यु- र्हरति यूपहस्तिनः-यूपपरिवेष्टनवाससोऽध्वर्यवे दानमाचरन्तीति च श्रूयत इत्यर्थः । तत्रापि कर्तृसामान्यहेतुदर्शनाभ्यां धर्मे प्रामाण्याप्रामाण्यसन्देहे पूर्वपक्षमाह— तदिति । विचारप्रयोजनं तु श्रुत्यदर्शने दृष्टहेतुमूलस्मृत्यर्थाननुष्ठानम् । यथा शिष्टत्रैवर्णिकप्रणीततया तत्परिगृहीततया प्रत्यक्षवेदविरोधाभावेन चाष्टकादि- स्मृतयः प्रमाणम्, तद्वदियमपि स्वार्थानुष्ठापकतया प्रमाणमेवेत्यर्थः, अत्र च शब्द-
३२० मीमांसादर्शनम् [ सू० सूचितां प्रतिज्ञां व्याकुर्वन् सिद्धान्तमाह-अप्रमाणं वेति । एवेत्यर्थः यथाष्टकादि- स्मृतेः वेदातिरिक्तमूलं न दृश्यते, नैवमत्र, लोभादिमूलत्वदर्शनादिति हेतुभागं व्याचष्टे-स्मृतेरत्रेति । तदेव दर्शयति-लोभादिति । ततः-लोभाचरणात्, तदेवास्या मूलमित्यर्थः । ननु वेदमूलत्वस्यापि संभवात् कथं लोभादिमूलत्वनियम इत्याशङ्क्याह- उपपन्नतरं चेति । दृष्टे सत्यदृष्टकल्पनानुपपत्तेरित्यभिसन्धिः १ ॥ ४ ॥ त० वा०-इतश्च न प्रमाणत्वं मूलहेत्वन्तरेक्षणात् । व्यभिचारे हि नोत्पत्तिरर्थापत्त्यनुमानयोः ॥ १८३ श्रुतिविरोधभग्नप्रसरायां हि स्मृतौ पूर्वोक्तेन न्यायेन श्रुत्यनुमानप्रतिबन्धा- दाकाङ्क्षितमूलान्तरावश्यकल्पयितव्यत्वाच्च । क्वचिद् भ्रान्तिः क्वचिल्लोभः क्वचियुक्तिविकल्पनम् । प्रतिभाकारणत्वेन निराकर्तुं न शक्यते ॥ १८४ स्मृतेश्च श्रुतिमग्नायाः कारणान्तरसंभवः । न तु श्रुतेरतः सैव तद्विरोधे हि बाध्यते ॥ १८५ यथैव वेदमूलत्वमनेकान्तान्न लभ्यते । तथाऽन्यमूलताऽपीति तदाशङ्क्येदमुच्यते ॥ १८६ उपपन्नतरं चैतद्वेदावाक्यानुमानतः । दृष्टे हि सत्यदृष्टस्य कल्पना निष्प्रमाणिका ॥ १८७ भाष्यमतेन विरोधाधिकरणम् । अधिकरणान्तरं वेति । सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् । पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वा ॥ १८८ अपरितोषस्तावत्प्रथमेनैव श्रुतिविरुद्धत्वहेतुना बलवता सिद्धे बाधे, नान्वा- चयहेतुरतीव प्रयोजनवान् । अधिकरणान्तरे पुनः पूर्वोक्तहेतुनिरपेक्षः पर्याप्त एवैकः स्मृतिबाधनायेति स्वतन्त्रत्वेन प्रदर्शनम् । विरोधेन च व्याप्तायाः स्मृतेरप्रमाण- तद्वचासौ नापवादान्तरोद्भवः । 'वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णाति' इत्यग्नीषोम- प्रणयनार्थं विसर्जनहोमकालसंबन्धियजमानाच्छादनं वासोऽध्वर्युर्हरति मुक्तकमेवैत- दावरणानुमितं स्मरणम् । एवं यूपहस्तिनो दानमाचरन्तीति यूपपरिव्यासशाटकं यूपहस्तिशब्देन निर्दिश्याध्वर्युहर्तव्यतयाऽऽचारानुमितयैव स्मृत्या प्रतिपादयन्ति । १. सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् । पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वेतिवार्तिकमन्त्रानुसन्धेयम् ।
४ ] प्रथमाध्याये तृतीयपादः १२१ तत्रापि वेदमूलत्वकल्पना नोपपद्यते । कर्तृसामान्यतः प्राप्ता लोभसंभवपूर्वकात् ॥ १८९ ऋत्विजो हि प्रयोगमध्यपतितं यजमानं प्रक्रान्तकर्मावश्यसमापनीयत्वनि- बद्धसमाप्त्युत्तरकालभावि स्वाच्छन्द्यं च विदित्वा कार्यवत्तावेलायामेव खलगत्- प्राधान्यविभागव्यावृत्तमूलकवत्स्वयमुत्पाद्योत्पाद्य तानि तान्यादेयकानि श्रद्धाजन- कार्थवादपुरःसरं याचन्ते । प्रत्यक्षश्रुतिविहितदेयान्तरनिदर्शनव्यामोहितश्च यज- मानः श्रद्दधानतया तथैव प्रतिपद्य तेभ्यः प्रयच्छतीति, तैरेषा स्मृतिः प्रवर्तिता स्यादित्याशङ्कायाम्, वेदमूलत्वं नानुमीयते । पूर्ववच्च लोभपूर्वकत्वकल्पनमेवोपपन्न- मिति निर्णयात्संदेहनिवृत्तिः । इदं च भाष्यकारेण प्रदर्शयता तुल्यकारणत्वात्पूर्व- त्रापि प्रदर्शितमेवेति योजयितव्यम् । ( भाष्यकारीयाधिकरणाक्षेपः । ) एतावत्त्विहाधिकरणद्वयेऽपि वक्तव्यम् । स्मृतीनां श्रुतिमूलत्वे दृढे पूर्वं निरूपिते । विरोधे सत्यपि ज्ञातुं शक्यं मूलान्तरं कथम् ॥ १९० शाखान्तरविप्रकीर्णानि हि पुरुषान्तरप्रत्यक्षाण्येव वेदवाक्यानि पुरुषधर्मा- नुष्ठानक्रमेणापठितानि वेदसाम्नायविनाशभयात्स्वरूपेणानुपन्यस्यार्थोपनिबन्धन- द्वारलभ्यानि विशिष्टध्वनिस्थानीयेन तेनैव परोक्षाण्यपि व्यज्यमानानि पिण्डीकृत्य स्मर्यन्ते । तत्र यथैवाऽऽप्तप्रत्ययादिदमङ् पठयत इति कथितमुच्चारितमनुच्चारितं वा शिष्याः प्रतिपद्यन्ते तथैव सूत्रकारवचनान्यध्यापकवचनस्थानीयानि स्वानुरू- पवेदवाक्यसमर्पणमात्रं कृत्वा निवृत्तव्यापाराणीति न ताल्वादिध्वनिप्रेरणवत्पौरुषे- यत्वेन परिभवितव्यानि । वेदो हीदृश एवायं पुरुषैर्यः प्रकाश्यते । स पठद्भिः प्रकाशेत स्मरद्भिर्वेति तुल्यभाक् ॥ १९१ अनुच्चारणकाले च संस्कारैरेव केवलैः । तत्कृतस्मरणैर्वाऽयं वेदोऽध्येतृषु तिष्ठति ॥ १९२ तेनार्थं कथयद्भिर्या स्मृतार्था कथ्यते श्रुतिः । पठिताभिः समानाऽसौ केन न्यायेन बाध्यते ॥ १९३ स्मृतिशास्त्रं च यच्चैकं भवेत्कृत्स्नमवैदिकम् । तन्मुक्तवैकं ततोऽन्यानि व्यवहाराङ्गतामियुः ॥ १९४ कठमैत्रायणीयादिपठितश्रुतिमूलिकाः।' दृश्यन्ते स्मृतयः सर्वा भद्रोपनयनादिषु ॥ १९५ २१
१२२ मीमांसादर्शनम् [ सू० तदा तन्मध्यपात्येकं वाक्यं किंचिदपस्मृतिः । मूलान्तरोद्भवं वक्तुं जिह्वा नो न प्रवर्त्तते ॥ १९६ बाधिता च स्मृतिर्भूत्वा काचिन्न्यायविदा यदा । श्रूयते न चिरादेव शाखान्तरगता श्रुतिः ॥ १९७ तदा का ते मुखच्छाया स्यान्नैयायिकमानिनः । बाधावाधानवस्थानं ध्रुवमेवं प्रसज्यते ॥ १९८ यच्चैतत्सर्ववेष्टनस्मरणं स्पर्शनश्रुतिविरुद्धत्वेनोदाह्रियते । एतज्जैमिनिनैव च्छान्दोग्यानुपादे शाट्यायनिब्राह्मणगतश्रुतिमूलत्वेनौदुम्बरीप्रकरणे च शाट्याया- निनां तामूर्ध्वदेशेनोभयत्र वाससी दर्शयतीति 'वैष्णुतं वै वासः श्रियै वासः श्रेयः सामे' इति दर्शिते तत्प्रसङ्गेनौदुम्बरीवेष्टनवाससोऽपि प्रकाशश्रुतिमूलत्वमेवा- न्वाख्यातम् । ततश्च श्रुतिमूलत्वाद्भाष्योदाहरणं न तत् । विकल्प एव हि न्याय्यस्तुल्यकक्षप्रमाणतः ॥ १९९ विरुद्धत्वे च बाधः स्यान्न चेहास्ति विरुद्धता । नहि वेष्टनमात्रं नः स्पर्शश्रुत्या विरुध्यते ॥ २०० यदि द्वित्राङ्गुलं मध्ये विमुच्योत्तरभागतः । वेष्ट्येतोदुम्बरो तत्र किं नाम न कृतं भवेत् ॥ २०१ सर्वा वेष्टयितव्येति न ह्येवं सूत्रकृद्वचः । न ह्यस्याः क्रियते कैश्चित्कर्णमूलेषु वेष्टनम् ॥ २०२ परिशब्दोऽपि यस्तव सर्वतो वेष्टनं वदेत् । तद्गार्तसमन्तत्वे सोऽर्थवानेव जायते ॥ २०३ लोभमूलं च यत्तस्याः कल्प्यते सर्ववेष्टनम् । तल्लोभः सुतरां सिध्येन्मूलाग्रपरिधानयोः ॥ २०४ अन्तरीयोत्तरीये हि योषितामिव वाससी । स्मरेत्कौशेयजातीये नोद्गातेकं गुणैर्विना ॥ २०५ प्राक् च लोभादिह स्पर्शः कुशैरेवान्तरीयते । वेष्टितेषा कुशैः पूर्वं वाससा परिवेष्ट्यते ॥ २०६ कुशवेष्टनवाक्ये च न किंचिद्धेतुदर्शनम् । नियमेऽपि च तद् दृष्टं नैवोर्ध्वदशवाससः ॥ २०७ दीक्षितान्नभोजनविचारः क्रीतराजकभोज्यान्नवाक्यं चाथर्ववैदिकम् । न च तस्याप्रमाणत्वे किंचिदप्यस्ति कारणम् ॥ २०८
४ ] प्रथमाध्याये तृतीयपादः १२३ यदि यज्ञोपयोगित्वं नेहास्त्याथर्वणश्रुतेः । अर्थान्तरप्रमाणत्वं केनास्याः प्रतिहन्यते ॥ २०९ शान्तिपुष्ट्यभिचारार्था ह्येकब्रह्मर्त्विगाश्रिताः । क्रियास्तया प्रमीयन्तेऽत्राप्येवाऽऽत्मीयगोचराः ॥ २१० न चायमपि यज्ञाङ्गविधिः शान्त्यादिशास्त्रवत् । अतोऽस्यापि प्रमाणत्वं पुरुषार्थेन वार्यते ॥ २११ न ह्येतद्यजमानस्य र्त्विजामुपदिश्यते । सर्वेभ्यः पुरुषेभ्यो हि भोज्यान्नत्वमिदं श्रुतम् ॥ २१२ वाक्यान्तरैर्निषिद्धं यद्दीक्षितान्नस्य भोजनम् । तस्यैव श्रूयते पश्चादभ्यनुज्ञाविधिद्वयम् ॥ २१३ अग्नीषोमीयसंस्थायां क्रीते वा सति राजनि । सोऽयं कालविकल्पः स्यादाशौचच्छेदकालवत् ॥ २१४ ननु चाशौचकालोऽपि धर्मपीडाद्यपेक्षया । अतः समविकल्पत्वं नैव तस्यापि संमतम् ॥ २१५ यस्य ह्यल्पेन कालेन शुद्धिर्भोज्यान्नताऽपि वा । स कस्मात्तावता शुद्धो दीर्घकालत्वमाश्रयेत् ॥ २१६ एकरात्रे त्रिरात्रे वा शुद्धस्य ब्राह्मणस्य च । अशुद्धिरनुवर्तेत दशरात्रं कथं पुनः ॥ २१७ पापक्षयो हि शुद्धत्वं धर्मयोग्यत्वमेव वा । प्राग्दशाहात्कथं तस्य सदसद्भावकल्पना ॥ २१८ एवं प्राक् पशुसंस्थानाद्दीक्षितान्नविशुद्धता । अस्ति नास्तीति चेत्येवं सहते नावधारणम् ॥ २१९ स्यादेतद्येन यः कालः पुरस्तात्परिगृह्यते । तस्यासावेव होमस्य प्रागूर्ध्वोदयकालवत् ॥ २२० युक्तं समविकल्पत्वमुदितानुदितत्वयोः । न काचिदत्र पूर्वोक्ता सदसत्त्वविरोधिता ॥ २२१ न चानुदितहोमोक्तावुदितोक्तिरनर्थिका । क्लेशक्षयव्ययादीनां नातिरेकोऽत्र कश्चन ॥ २२२ इह त्वल्पेन कालेन शुद्धेर्या दीर्घकालता । न वर्धयेदघाहानि साऽनेनापि निवार्यते ॥ २२३ क्लेशप्रायं च तं पक्षं नाऽऽश्रयेतैव कश्चन । ततोऽनङ्गीकृते तस्मिन् स्यात्तद्वाक्यमनर्थकम् ॥ २२४
३२४ मीमांसादर्शनम् [ सू० तेनतैं विषयान्त्यत्वान्न विकल्पोऽवकल्पते । स चोक्तो धर्मपीडाख्यस्तत्र चाह्नामवर्धनम् ॥ २२५ दन्तजातानुजातान्यकृतचूडेषु च क्रमात् । चितिक्रिया त्र्यहैकाहास्तत्र चाह्नामवर्धनम् ॥ २२६ तथा गौतमेनाप्युक्तम्—राज्ञां च कार्याविघातार्थं ब्र'ह्मणानां च स्वाध्याया- निर्वृत्त्यर्थमिति । अथ वाऽन्तर्यदाऽऽशौचं निमित्तं किंचिदापतेत् । तत्र शेषेण या शुद्धिस्तच्छेषोऽयं भविष्यति ॥ २२७ न वर्धयेदथाहानि निमित्तादागतान्यपि । पूर्वस्यैव हि कालस्य प्रसङ्गेन तदङ्गता ॥ २२८ प्रवृत्तोऽनपवृत्तश्च दशरात्रादिकोऽवधिः । अन्तः पतितमाशौचं स व्याप्नोति स्वसंख्यया ॥ २२९ वितत्य दश संख्या हि तान्यहानि व्यवस्थिता । शक्नोत्येव परिच्छेतुमन्तराशौचमागतम् ॥ २३० शुद्धयशुद्धी ह्यदृष्टत्वाद्विजायेते यथाश्रुति । नन्वेवं भोजनस्यास्ति विषयावधिकारणम् ॥ २३१ तत्र दीर्घविधिर्व्यर्थः स्यादलपावध्यनुज्ञया । तस्मादिहापि वैषम्यहेतुर्वाच्योऽवधिद्वये ॥ २३२ अत्राप्यसंभवे तस्य दीक्षिते वा ददत्यपि । तन्नियुक्तकदत्तान्नं भोज्यं सोमक्रये कृते ॥ २३३ आपद्धर्मा यथैवान्ये मुख्यासंभवहेतुकाः । तथैव प्राणपीडायां क्रीतराजकभोजनम् ॥ २३४ हन्तैवमप्रमाणत्वमुक्तमन्यप्रकारकम् । जग्धवानापदि ह्यार्तो विश्वामित्रः श्वजाघनीम् ॥ २३५ उच्यते— एकं विनाऽप्यनुज्ञानात् क्रियते गत्यसंभवात् । क्रियतेऽनुज्ञया त्वन्यद्विशेषश्च तयोर्महान् ॥ २३६ सामान्येनाभ्यनुज्ञानाद्विशेषश्च विशिष्यते । विशेषोऽत्यन्तनिर्दोषः स्तोकदोषेतरक्रिया ॥ २३७ तथा च मनुनाऽप्युक्तमापद्धर्मगतं प्रति । तत्रत्यपापशेषाणामन्ते शौचं भविष्यति ॥ २३८
४ ] प्रथमाध्याये तृतीयपादः ३२५ कर्मणा येन केनेह मृदुना दारुणेन वा । उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ इति । २३९ धर्मश्च प्रथमं तावत्प्रायश्चित्तात्मको भवेत् । ततस्तेन विशुद्धस्य फलार्थोऽन्यो भविष्यति ॥ २४० यत्तु क्रीतराजकभोज्यान्नत्ववचनं तद्गत्यन्तरासंभवे निर्दोषत्वज्ञापनाथमेव ज्ञायते । तत्रापि तु—प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । स नाऽऽप्नोति फलं तस्य परत्रेति विचारितम् ॥ २४१ इति निन्दितत्वान्न संभवद्भोज्यान्तरेणापि लोकयात्रादिवशेन भोक्तव्यम् । यदि वा कालवैषम्यादसत्समविकल्पयोः । अर्थभेदव्यवस्थानादविरोघोऽवधार्यते ॥ २४२ दीक्षितान्नमभोज्यं स्यादक्रीते राजनि ध्रुवम् । क्रीते त्वभोजनं नाम मनःकर्म नियम्यते ॥ २४३ यथैवाश्राद्धभोजित्वं यथा वाऽमांसभक्षणम् । श्रेयसे विहितं धर्म्यं न सर्वत्र निषिध्यते ॥ २४४ श्राद्धमन्तर्दशाहं हि नियोगेन निषिध्यते । एकोद्दिष्टं सदेकेषां न तु पित्र्यं कदाचन ॥ २४५ तत्राश्राद्धभोजितत्वनियमः स्वर्गायेति विज्ञायते । तथा षष्ठ्यष्टमीचतुर्दशी- पञ्चदशीषु मांसभक्षणमैथुनादिक्रियाप्रतिषेधाद् गृहस्थस्यान्यत्र कामचारे प्राप्ते तदकरणनियमः श्रेयसे विहितः । यथाऽऽह । न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ।॥ इति । २४६ ननु च वाक्यद्वयदर्शनात्तत्र संयोगपृथक्त्वं युक्तमिह त्वेकमेव दीक्षितान्नभोजन- प्रतिषेधवाक्यं कथं क्रयात्प्रतिषेधति तदुत्तरकालं च प्रागग्नीषोमीयसमाप्तेर्निः- श्रेयसेन नियच्छतीति । तदुच्यते— स्याद्वाक्यद्वयमेवैतदवधिद्वयकल्पितम् । यः पूर्वः प्रतिषेधोऽत्र संस्थितः क्रीतराजके ॥ २४७ परोऽवधिः पुनस्तस्य नैकत्वादवकल्पते । द्वितीयान्नादनानुज्ञादर्शनात्तेन गम्यते ॥ २४८
३२६ मीमांसादर्शनम् [ सू० अभोजनविधिर्नूनमस्त्यन्योऽप्यान्तरालिकः । न हि पूर्वमनुज्ञाते स्यादनुज्ञान्तरं पुनः ॥ २४९ वरणादभ्यनुज्ञाते निर्वापे किमनुज्ञया ॥ २५० यथाऽध्वर्योर्वरणवेलायामेव सर्वं यजमानेन यज्ञोपयोगि स्वयमनुज्ञातमेवेति निर्वापमन्त्रे प्रसवशब्देन तदानींतनयजमानानुज्ञाप्रकाशनं न क्रियते तथेह क्रीत- राजकावस्थानुज्ञातभोजनानुज्ञावचनमग्नीषोमीयसमाप्तौ पुनरुक्तमित्यवश्यं नियमेन प्रतिषेधान्तरेण वा वारितस्यानुज्ञानार्थमित्यवगम्यते । प्रतिषिद्धाभ्यनुज्ञा च विकल्पेनैव दूष्यते । पर्युदस्ताभ्यनुज्ञानं तस्मादिष्टं व्यवस्थया ॥ २५१ दीक्षितान्नविशिष्टाभोजननियमो हि श्रेयोर्थिभ्यो विधीयते । पाश्चात्यभोजनानुज्ञा नान्यथा ह्युपपद्यते । अदृष्टार्थप्रसङ्गित्वात्न विधिश्चायमिष्यते ॥ २५२ एवं विषयनानात्वादविरोधादबाधनम् । अष्टाचत्वारिंशदिति उदाहरणनिरासः अष्टाचत्वारिंशद्वर्षं वेदब्रह्मचर्यचरणस्यापि स्मृितावेव पक्षान्तरविकल्पापेक्ष- निबन्धनादाश्रमन्तरविषयत्वसंभवाद्वा विरोधाभावः । तथा हि— 'वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ।' सामर्थ्याश्रमयोग्यत्वमङ्गीकृत्यैतदुच्यते ॥ २५३ गौतमेनापि द्वादशवर्षाण्येकवेदब्रह्मचर्यं चरेदिति प्रथमकल्पमाशु गार्हस्थ्य- प्रतिपत्त्यर्थमुक्तवा, द्वितीयकल्पे द्वादशप्रतिवेदं वा, सर्वेष्वित्यष्टाचत्वारिंशत्परि- ग्रहः कृतः । तत्रैवं शक्यते वक्तुं येऽन्धपङ्गवादयो नराः । गृहस्थत्वं न शक्ष्यन्ति कर्तुं तेषामयं विधिः ॥ २५४ नैष्ठिकब्रह्मचर्यं वा परिव्राजकताऽपि वा । तैरवश्यं ग्रहीतव्या तेनाऽदावेतदुच्यते ॥ २५५ उपकुर्वाणकेनैव याप्यः कालो बहुतस्ततः । संप्राप्य ज्ञानभूयस्त्वं पवित्रैः क्षीणकल्मषैः ॥ २५६ सर्वाश्रमातिरिक्तेन स्वाध्यायेनैव शोधितः । स्तोकेरप्याश्रमाचारैर्गतिमिष्टां गमिष्यति ॥ २५७
सूत्रार्थोऽप्येवं योजयितव्यः—श्रौतस्मार्तविज्ञानविरोधे यदनपेक्षम् अपेक्षा-
४ ] प्रथमाध्याये तृतीयपादः ३२७ प्रसङ्गाद् बादरायणमतस्य निर्देशः द्वैपायनादयश्चाहुः— परिनिष्ठितकार्यस्तु स्वाध्यायेनैव हि द्विजः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ २५८ यानि च प्रतिदिनप्रयुज्यमानर्क्सामयजुर्ब्राह्मणकल्पव्याख्यानादिब्रह्मयज्ञ- निमित्तानि फलानि ऋत्वधिकृतपुरुषेभ्योऽन्यानर्थक्यप्रसङ्गाद्व्यावृत्तानि जपध्यान- मात्राधिकृतब्रह्मचारिपरिव्राजकविषयत्वेनावतिष्ठन्ते तान्यपि स्वाध्यायविज्ञानभूय- स्त्वेन भूयिष्ठानि भविष्यन्तीति प्रतिवेदब्रह्मचर्योपदेशः । यो वा कश्चिन्मेधावितया शीघ्रमेव वेदचतुष्टयमप्यधीत्य यथोपपत्तिकालं तदर्थज्ञानाभियोगमपरित्यजन्ग्रहणान्तं वेत्येतत्पक्षाश्रयणेन गृहस्थो भवेत्तं प्रति द्वादशाष्टाचत्वारिंशद्वर्षपक्षावनेनैव स्मरणेन पूर्वपक्षकृताविति नातीव श्रुतिविरुद्ध- त्वेनोदाहर्तव्यौ । तेन नैव श्रुतिस्मृत्योर्विरोधोऽतीव दृश्यते । श्रुत्योरेव ह्यसौ दृष्टः क्वचिद्द्वा नैव विद्यते ॥ २५९ तेनात्र यदि वा कर्मप्रयोगोऽयं निरूप्यते । यदि वा बाध्यमानत्वमुक्तं बाह्यं स्मृतीः प्रति ॥ २६० अत्र जैमिनिमतस्योपन्यासः एतद्धि जैमिनिनाऽत्यन्तं हितोपदेशिना जिज्ञासुभ्यः प्रतिपाद्यते । यावदेकं श्रुतौ कर्म स्मृतौ वाऽन्यत्प्रतीयते । तावत्तयोरविरुद्धत्वे श्रौतानुष्ठानमिष्यते ॥ २६१ व्रीहियवादिश्वपि तावत्प्रत्यक्षश्रुतिविहितेषु यदि कश्चिद्यावज्जीवमप्येकमेव पक्षमाश्रित्य व्यवहरेन्न स कदाचिदप्युपालम्भास्पदं गच्छेत् । ततश्च तुल्यकक्षाऽपि यदि नाम स्मृतिर्भवेत् । तथाऽपि नैव दोषोऽस्ति श्रुत्यर्थमनुतिष्ठताम् ॥ २६२ यानि स्मृतिवचनान्यर्थमात्रमेव प्रतिपाद्य, मूलभूताः श्रुतीरनुदाहृत्य निवृत्त- व्यापाराणि तेषु श्रुत्यनुमानव्याजसापेक्षप्रामाण्येषु सत्सु वेदवचनमनपेक्षत्वात्प्रमाण- तरत्वेन सुतरां विश्रम्भणीयमिति, श्रद्धाविशेषेण ग्राह्यतरार्थं विज्ञायते । वार्तिकमतेन सूत्रार्थवर्णनम् सूत्रार्थोऽप्येवं योजयितव्यः—श्रौतस्मार्तविज्ञानविरोधे यदनपेक्षम् अपेक्षा- वर्जितम्, यस्य वाऽपेक्षणीयमन्यन्नास्तीत्येवं पाठद्वयेऽपि, पूर्वसूत्रात्प्रमाणशब्दमनु-
३२८ मीमांसादर्शनम् [ सू० षङ्गेन संवद्द्य यदनपेक्षं तत्तावत्प्रमाणं स्यादिति तदानींतनव्यवहारमात्रप्रति- पत्त्यर्थमेवोच्यते । ततश्च न तावच्छाखान्तरीयविद्यमानश्रुतिमूलत्वाशङ्कायां सत्यामेवात्यन्त- निराकरणपक्षः परिग्रहीष्यते । न च प्रत्यक्षश्रुत्यर्थानुष्ठानहानिः यदा तु क्वचिच्छाखान्तरे स्मरणमूलं श्रुतिरपि प्रत्यक्षीभविष्यति, तदोभयोस्तुल्यबल- त्वाद्विकल्पो भविष्यत्येव । नन्वनेनैव न्यायेन स्वशाखाविहितविरुद्धं शाखान्तरगतमप्यग्राह्यं स्यात् । सत्यम्— वार्तामात्रेण तद्यावत्तावन्नेव ग्रहीष्यते । यदा तु श्रवणं प्राप्तं तदाऽस्मान्न विशिष्यते ॥ २६३ अतश्चैवं श्रुतिस्मृत्योर्विशेषोऽनेन दर्शयते । नात्यन्तमेव बाध्यत्वं न चाप्यत्यन्ततुल्यता ॥ ५६४ (वार्तिकमतेन बाह्यग्रन्थानामप्रामाण्यनिरूपणम् ।) यद्वा—यान्येतानि त्रयीविद्भिर्न परिगृहीतानि, किंचित्तन्मिश्रधर्मकञ्चुकच्छा यापतितानि लोकोपसंग्रह-लाभ-पूजा-ख्यातिप्रयोजनपराणि त्रयीविपरीता- संबद्धदृष्टशोभादिप्रत्यक्षानुमानोपमानार्थापत्तिप्राययुक्तिमूलोपनिबद्धानि सांख्य- योगपाञ्चरात्रपाशुपतशाक्यग्रन्थपरिगृहीतधर्माधर्मनिबन्धनानि विषचिकित्सा- वशीकरणोच्चाटनोन्मादनादिसमर्थकतिपयमन्त्रौषधिकादाचित्कसिद्धिनिदर्शनबलेना- हिंसासत्यवचनदमादानदयादिश्रुतिस्मृतिसंवादिस्तोकार्थगन्धवासितजीविकाप्राया - र्थन्तरोपदेशीनि, यानि च बाह्यतराणि म्लेच्छाचारमिश्रकभोजनाचरणनिबन्ध- नानि, तेषामेवैतच्छुतिविरोधहेतुदर्शनाभ्यामनपेक्षणीयत्वं प्रतिपाद्यते । न चैतत्क्व- चिदधिकरणान्तरे निरूपितम्, न चावक्तव्यमेव गाव्यादिशब्दवाचकत्वबुद्धिवदति- प्रसिद्धत्वात् । यदि ह्यनादरेणैषां न कल्प्येताप्रमाणता । अशक्यैवेति मत्वाऽन्ये भवेयुः समदृष्टयः ॥ २६५ शोभासौकर्यहेतूक्तिकलिकालवशेन वा । यज्ञोकपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः ॥ २६६ ब्राह्मणक्षत्रियप्रणीतत्वाविशेषेण वा मानवादिवदेव श्रुतिमूलत्वमाश्रित्य सचेतसोऽपि श्रुतिविहितैः सह विकल्पमेव प्रतिपद्येरन् । तेन यद्यपि लभ्येत स्मृतिः काचिद्विरोधिनी । मन्वाद्युक्ता तथाऽप्यस्मिन्नेतदेवोपयुज्यते ॥ २६७
४ ] प्रथमाध्याये तृतीयपादः ३२९ त्रयीमार्गस्य सिद्धस्य ये ह्यात्यन्तविरोधिनः । अनिराकृत्य तान्सर्वान्धर्मशुद्धिर्न लभ्यते ॥ २६८ महाजनगृहीतत्वं पित्राद्यनुगमादि च । तेऽपि द्वीपान्तरापेक्षं वदन्त्येव स्वदर्शने ॥ २६९ तत्र श्रद्धामात्रमेवैकं व्यवस्थानिमित्तं सर्वेषां स्वपितृपितामहादिचरितानुया- यित्वात् । यैश्च मानवादिस्मृतीनामप्युत्सन्नवेदशाखामूलत्वमभ्युपगतम्, तान्प्रति सुतरां शाक्यादिभिरपि शक्यं तन्मूलत्वमेव वक्तुम् । को हि शक्नुयादुत्सन्नानां वाक्यविषयेयत्तानियमं कर्तुम् । ततश्च यावत्किंचित्कियन्तमपि कालं कैश्चिदाद्रिय- माणं प्रसिद्धि गतं तत्प्रत्यक्षशाखाविसंवादेऽप्युत्सन्नशाखामूलत्वावस्थानमनुभव- तुल्यकक्षतया प्रतिभायात् । अत आह—विरोधे त्वनपेक्षं स्यादिति । पारतन्त्र्यं तावदेषां स्मर्यमाणपुरुषविशेषप्रणीतत्वात्तैरेव प्रतिपन्नं शब्दकृतकत्वादिप्रतिपा- दनादराच्च पार्श्वस्थैरपि ज्ञायते । शाक्यादिवचसां प्रायेण श्रुतिस्मृतिविरुद्धत्ववर्णनम् वेदमूलत्वं पुनस्ते तुल्यकक्षमूलत्वाक्षमयैव लज्जया च मातापितृद्वेषिदुष्टपुत्र वन्नाभ्युपगच्छन्ति । अन्यच्च स्मृतिवाक्यमेकमेकेन श्रुतिवचनेन विरुद्ध्येत । शाक्यादिवचनानि तु कतिपयदमदानादिवचनवर्जं सर्वाण्येव समस्तचतुर्दशविद्या- स्थानविरुद्धानि त्रयीमार्गव्युत्थितविरुद्धाचरणैश्च बुद्धादिभिः प्रणीतानि । त्रयी- बाह्येभ्यश्चतुर्थवर्णनिरवसितप्रायेभ्यो व्यामूढेभ्यः समर्पितानीति न वेदमूलत्वेन संभाव्यन्ते । स्वधर्मातिक्रमेण च येन क्षत्रियेण सता प्रवक्तृत्व-प्रतिग्रहौ प्रतिपन्नौ, स धर्ममविप्लुतमुपदेक्ष्यतीति कः समाश्वासः ? । उक्तं च—परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽतिसंधत्ते सोऽन्यस्मै स्यात्कथं हित इति ॥ २७० बुद्धादेः पुनरयमेव व्यतिक्रमोऽलंकारबुद्धौ स्थितः, येनैवमाह— कलिकलुषकृतानि यानि लोके । मयि निपतन्तु विमुच्यतां तु लोकः, इति । स किल लोकहितार्थं क्षत्रियधर्ममतिक्रम्य ब्राह्मणवृत्तं प्रवक्तृत्वं प्रतिपद्य, प्रतिषेधातिक्रमासमर्थैर्ब्राह्मणैरननुशिष्टं धर्मं बाह्यजनाननुशासद्धर्मपीडामप्यात्म- नोऽङ्गीकृत्य परानुग्रहं कृतवानित्येवंविधैरेव गुणैः स्तूयते, तदनुशिष्टानुसारिणश्च सर्व एव श्रुतिस्मृतिविहितधर्मातिक्रमेण व्यवहरन्तो विरुद्धाचारत्वेन ज्ञायन्ते । तेन प्रत्यक्षया श्रुत्या विरोधे ग्रन्थकारिणाम् । ग्रहीत्राचरितॄणां च ग्रन्थप्रामाण्यबाधनम् ॥ २७१
३३० मीमांसादर्शनम् [ सू० न ह्येषां पूर्वोक्तेन न्यायेन श्रुतिप्रतिबद्धानां स्वमूलश्रुत्यनुमानसामर्थ्यमस्ति । न च शाखान्तरोच्छेदः कदाचिदपि विद्यते । प्रागुक्ताद्वेदनित्यत्वान्न चैषां दृष्टमूलता ॥ २७२ न हि यथोपनयनादिस्मृतीनां शाखान्तरदृष्टश्रुतिसंवादः । एवं चैत्यकरण- तद्वन्दनशूद्रसंप्रदानकदानादीनां संवादः संभवति । मूलान्तरकल्पनं च प्रागेव प्रत्याख्यातम् । हेतुदर्शनेन शाक्यमतनिरासः । लोभादिकारणं चात्र बह्वेवान्यत्प्रतीयते । यस्मिन्सन्निहिते दृष्टे नास्ति मूलान्तरानुमा ॥ २७३ शाक्यादयश्च सर्वत्र कुर्वाणा धर्मदेशनाम् । हेतुजालविनिर्मुक्तां न कदाचन कुर्वते ॥ २७४ न च तैर्वेदमूलत्वमुच्यते गौतमादिवत् । हेतवश्चाभिधीयन्ते ये धर्मा दूरतः स्थिताः ॥ २७५ एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् । पाखण्डिनो विकर्मस्था हैतुकाश्चैत एव हि ॥ २७६ एतदीया ग्रन्था एव च मन्वादिभि परिहार्यत्वेनोक्ताः । 'या वेदबाह्याः स्मृतयो याश्च काश्चित्कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृता ॥ इति । २७७ तस्माद्धर्मं प्रति त्रयीबाह्यमेवंजातीयकं प्रामाण्येनानपेक्ष्यं स्यादिति सिद्धम् ॥ ४ ॥ न्या० सु०—सूत्रव्याख्यानार्थं लोभादित्यादिभाष्यं सर्ववेष्टनादिस्मृतीनां लोमकृन्त- पुंसकत्वप्रच्छादनप्रयोजनमूलत्वे प्रमाणाभावादयुक्तमाशङ्क्य श्रुत्यतिरिक्तसम्भवे, मूल- मात्रोपलक्षणार्थतया व्याचष्टे—इतश्चेति । विरोधो व्यभिचारशब्देनोक्तः । श्लोकं व्याचष्टे- श्रुतीति । ननु सत्यपि विरोधे भ्रान्त्यादिमूलत्वं विना बाध्यत्वायोगाद् बाध्यत्वेनैव भ्रान्त्यादिमूलकल्पनायामितरेतराश्रयं स्यात्, इत्याशङ्क्याह—स्मृतेश्चेति । विरोधपरि- हारायाऽवश्याङ्गीकार्येऽन्यतरस्य बाध्यत्वे स्मृतेरेव भ्रान्त्यादिमूलत्वनिश्चयापत्तेरितरेतरा- श्रयापत्तिरित्यशयः । उपपन्नतरं चैतदिति वक्ष्यमाणवर्णकभाष्यमिहापि योज्यमिति सूचयितुमाशङ्कोत्तर- त्वेन व्याचष्टे—यथैवेति । भाष्यकृतास्यैव सूत्रस्याधिकरणान्तरविषयत्वेन वर्णकान्तरं कृतम्, तत् पूर्वापरितोषविषयव्याप्तिव्यतिरेकेण क्वचिद्वर्णकान्तरस्य प्रयोजनान्तरा- दर्शनात्तयोश्चापरितोषकारणविषयान्तरादर्शनेनासम्भवादयुक्तमित्याक्षिपति—सर्वेति । न