मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
This page is blank and contains no text to transcribe.
Prachayabharti Series—16 THE MĪMĀMSĀ DARŚANA OF MAHARṢI JAIMINI With Śābarabhāṣya of Śābaramuni, Tantravārtika by Kumārila-Bhaṭṭa with its Commentry Nyāyasudhā of Someśvara-Bhaṭṭa, Bhāṣyavivaraṇa of Govindāmṛtamuni and Bhāvaprakāśikā by Dr. Mahāprabhulāla Gosvāmī. Foreworded by PADMABHUṢAṆA VIDYĀVĀCASPATI PAṆḌITRĀJA PAṬṬĀBHIRĀMA ŚĀSTRI Edited and Introduction by Dr. MĀHĀPRABHULĀLA GOSVĀMĪ M.A., Ph. D., D. Litt., Nyaya-Vyakarana-Sahitya- Vedantacharya, Mimamsa Shastri (Gold Medalist) PROF. & HEAD, Department of Philosophy Sampurnananda Sanskrit University, Varanasi Volume I TARA PRINTING WORKS VARANASI 1984
Published by Tara Printing Works Kamacha, Varanasi-221010 Available at Tara Book Agency Kamacha Varanasi First Edition Price Rs. 85.00 (Rupees Eightyfive only) Printed at Tara Printing Works Kamacha vranasi-221010
प्रथमो भागः
प्राच्यभारतीग्रन्थमाला—१६ टीकापञ्चकसनाथीकृतं महर्षिजैमिनिप्रणीतं मीमांसादर्शनम् भट्टसोमेश्वरकृतया न्यायसुधाख्यटीकयोद्भासितया श्रीकुमारिलभट्टनिर्मितया तन्त्रवार्तिकव्याख्ययालङ्कृतेन श्रीगोविन्दामृतमुनिविरचित-भाष्यविवरणव्याख्यया भूषितेन श्रीमहाप्रभुलालगोस्वामिकृतभाष्यभावप्रकाशिकाहिन्दीव्याख्याक्तेन श्रीशबरमुनिविरचितभाष्येणानुगतम् पद्मभूषण-विद्यावाचस्पति-पण्डितराज- श्रीपट्टाभिरामशास्त्रिकृतप्रस्तावनया समेतम् एम० ए०, पी-एच० डी०, डी० लिट्० इत्युपाधिविभूषितेन न्याय- व्याकरणसाहित्यवेदान्ताचार्यमीमांसाशास्त्रिणा विद्यावाचस्पतिना श्रीमहाप्रभुलालगोस्वामिना विस्तृतभूमिकयालङ्कृत्य सम्पादितम् प्रथमो भागः तारा प्रिंटिंग वर्क्स वाराणसी २०४१ तमो विक्रमाब्दः
प्रकाशकः तारा प्रिंटिंग वर्क्स कमच्छा वाराणसी २२१०१०. प्राप्तिस्थानम् तारा बुक एजेंसी कमच्छा, वाराणसी प्रथमसंस्करणम् मूल्यम् : ८५.०० ( पञ्चाशीतिरूप्यकाणि ) मुद्रकः तारा प्रिंटिंग वर्क्स कमच्छा, वाराणसी
प्रस्तावना महर्षिजैमिनिना प्रणीतं मीमांसादर्शनं शाबरभाष्यसहितं प्रकाशपथ- मानीयते। यद्यप्यनेकत्र भाष्योपेतं दर्शनमिदं प्रकाशितम्, तथापि प्रकाशनमिदं किञ्चिद्वैलक्षण्यमावहेदध्येतॄणाम्। यतो ह्यत्र भाष्यव्याख्यानस्य भट्टपादविरचितस्य तन्त्रवार्तिकस्य, तद्व्याख्याया भट्टसोमेश्वरप्रणीताया न्यायसुधायाः श्रीगोविन्दा- मृतमुनिविरचितस्य भाष्यविवरणस्य, पण्डितश्रीमहाप्रभुलालगोस्वामिविरचि- तस्य 'भावप्रकाशिका' हिन्दी भावार्थस्य च संयोजनं विद्यते। शबरस्वामिविरचितं भाष्यं सरलैर्वाक्यैर्ग्रथितमप्यतिगभीरं विशेषेण महर्षिजैमिनेर्हृदयसमुद्धारकं व्याख्यासापेक्षमिति भट्टपादैस्तन्त्रवार्तिकमाविष्कृतम्, किन्तु तदपि दुरूहमिति भट्टसोमेश्वरो वार्तिकमर्मप्रकाशिकां न्यायसुधां प्रणिनाय। तन्त्रवार्तिकं न्यायसुधा- चेति द्वयमपि विना शाबरभष्येण पृथक् पृथगेव प्राक्प्रकाशितमासीत्। तदत्र भाष्येण सह संयोजितं विनेयानामध्यापकानाञ्च महत् उपकाराय स्यादिति तर्कयामि। सुकुमारमतीनामध्येतॄणामद्यतनानां तन्त्रवार्तिकन्यायसुधातो भाष्य- काराशयोऽवगन्तुमशक्य इति मन्वानः श्रीमन्नारायणामृतपूज्यपादशिष्य- श्रीगोविन्दामृतमुनिः शाबरभाष्यविवरणं रचयामास, तदप्यत्र समावेशितम्। एतावतापि तृप्तिमलभमानः श्रीमहाप्रभुलालगोस्वामी, संस्कृतविश्वविद्यालये दर्शनविभागाध्यक्षपदमधितिष्ठन् हिन्दीजगति वर्तमानैरपि मीमांसापरिष्कृत- मतिभिर्भाव्यमिति निर्धार्य हिन्दीभाषया भावार्थप्रकाशिकां व्याख्यां प्राणेषीत्। सापि व्याख्यात्र प्रकाशने संयोजिता। एवमत्र पूर्वापेक्षया वैलक्षण्यं वर्तते। मीमांसाशास्त्रमिदं धर्मशास्त्रमिति न्यायनिबन्धनात्मकं शास्त्रमिति, अध्वरमीमांसाशास्त्रमिति पूर्वतन्त्रमित्येवं नानाभिधानैर्व्यवह्रियते, न केवलम- भिधानमात्रं किन्तु 'मीमांसाख्या तु विद्येयं बहुविद्यान्तराश्रिता' इति भट्टपादोक्त्या विद्यान्तराणामाश्रयत्वेनापि परिग्राह्येयं मीमांसा। मीमांसा- शब्दनिर्वचनमेव तमिमं विषयं दृढीकरोति। तथा हि मीमांसाशब्दः पूजितविचा- रार्थे प्रसिद्धः। 'मानपूजायाम्' 'माङ्माने' इति पूजार्थे मानार्थे च धातुद्वयम्। तत्र 'मान्वधदान्शान्भ्यो दीर्घश्चाभ्यासस्य' इति सूत्रे 'माङ्' इत्यस्य ङकारानुबन्धस्य धातोर्नान्तित्वं निपात्यानिच्छार्थे सन् प्रत्ययेऽभ्यासस्य च दीर्घे मीमांसाशब्दो निष्पन्नः। 'धातोः कर्मणः' इत्याद्युत्तरसूत्रे इच्छार्थे सन्विधानात् अयमनिच्छार्थे सन्नित्यभ्युपगन्तव्यं भवति। 'मान विचारे' इत्यपि चुरादिगणपठितो धातुः।
( २ ) तस्मादपि मीमांसाशब्दो निष्पद्यते । तत्र पूजार्थे कश्चन धातुर्विचारार्थे चापरः । पूजितविचारार्थे च न कोऽपि धातुः । अतः पूजितविचारार्थे मीमांसा शब्दः कथ- मिति प्रश्नस्य कल्पतरुपरिमलकाराः श्रीमदप्पय्यदीक्षितास्समादधति--'प्रसिद्धि- बलात्पूजितविचारार्थत्वम्' इति । प्रसिद्धिश्च व्यवहारः । तस्यापि शक्तिग्राहकत्वं नानुपपन्नम् । व्याकरणप्रसिद्धयभावेऽपि व्यवहारस्य शक्तिग्राहकत्वाङ्गीकारात् । अनेन सन्दर्भेण स्फुटमवगम्यते यदिदं शास्त्रं निष्पक्षपातं विचार्य वेदवाक्यतार्थ- निर्णयाय जैमिनिना प्रवर्तितमिति । न केवलं वेदवाक्यानामेवार्थनिर्णयाय शास्त्रमिदम्, किन्तु तेषु तेषु शास्त्रेषु विवादग्रस्तवाक्यानां तात्पर्यनिर्णयायापि मीमांसाया आवश्यकतारस्तीति तत्तच्छास्त्रकाराः स्वीयेषु ग्रन्थेषु मीमांसान्यायान् सादरमुपाददत इति पश्यामः । विशेषतो निबन्धग्रन्थेषु धर्मशास्त्रीयेषु मीमांसा- न्यायान् परिदर्शयतो ग्रन्थकारान् अनुभवामः । अत एव 'बहुविद्यान्तरग्रथितत्वम्' भट्टपादोक्तं सङ्गच्छते । किञ्च महर्षिर्जैमिनिः स्वीयानि सूत्राण्यधिकरणात्मना जग्रन्थ । अधिकरणशब्देन न्यायालयः कथ्यते । विवादग्रस्तेषु विषयेषु विवाद- प्रशमनाय लोका न्यायालयानन्यायं कामयन्ते । न्यायालयेषु निर्णीतानां न्यायानां संमुखं न समस्तैर्लोकैर्भाव्यमिति न्याय्यः पन्थाः । तमिमं पन्थानं जैमिनिना प्रवर्तितं सर्वेऽपि शास्त्रकारा आश्रितवन्त इत्यत्र किमाश्चर्यम् । 'मीमांसा तु लोका- देव प्रत्यक्षानुमानादिभिः अविच्छिन्नसम्प्रदाय-पण्डितव्यवहारैः प्रवृत्ता । न हि कश्चिदपि प्रथममेतावन्तं युक्तिकालापमुपसंहर्तुं क्षमः' ( तं. वा. पृ. १६७ आनन्दाश्रमसंस्करणम् ) इति निर्दिशन्तो भट्टपादा मीमांसाया अतिचिरन्तनादेव कालादविच्छिन्नगुरुशिष्यपारम्पर्यसमागतत्वम्, शास्त्रकाराभिलषितन्यायकला- पोपबृंहितत्वञ्चावगमयन्ति । 'अन्यैस्सह विरोधे तु वयं पञ्चोत्तरंशतम्' इति वैयासिकन्यायमवलम्बमानास्सर्वं एव दार्शनिकाः वेदबाह्यानां सिद्धान्तं खण्डयन्तो वैदिकमार्गावलम्बिन एव किन्तु वेदसन्दर्भे मीमांसकानां विशेषतश्च भट्टपादानां यादृशोऽभिनिवेशो न तादृशोऽन्येषामिति स्थितायामपि वस्तुस्थितौ वेदप्रामाण्या- भ्युपगमे न कस्याप्यास्तिकदार्शनिकस्य सङ्कोचः । कामं प्रामाण्यसाधनप्रकारे भेदस्स्यात् । एकैकोऽप्यास्तिकदार्शनिकः 'परस्परं विरोधे तु वयं पञ्चशतञ्च ते' इति न्यायं स्वीकुर्वन् मिथः खण्डनेऽवश्यं प्रवृत्तो भवतीति तु सत्यम्, किन्तु भट्टकुमारिलाः सर्वानिव दार्शनिकान् एकीकृत्य नेतुमिच्छन्त इव प्रतिभान्ति । स्मृत्यधिकरणे वेदमूलकत्वेन स्मृतीनां प्रामाण्यसाधनावसरे 'कर्तृसामान्यात्' इति सौत्रं हेतुमाश्रित्य न केवलं धर्मग्रन्थेषु स्मृतिषु किन्तु षडङ्गेषु दर्शनेषु पुराणेषु च कर्तृसामान्यहेतुं सङ्गमयन्तो भट्टपादा लिखन्ति- 'याश्चैताः प्रधान- पुरुषेश्वरपरमाणुकारणादिप्रक्रियाः सृष्टिप्रलयादिरूपेण प्रतीतास्तास्सर्वा मन्त्रार्थ- वादज्ञानादेव दृश्यमानसूक्ष्मस्थूलद्रव्यप्रकृतिविकारभावदर्शनेन च द्रष्टव्याः । प्रयोजनञ्च स्वर्गायागाद्युत्पाद्योत्पादकविभागज्ञानम् । सर्गप्रलयोपवर्णनमपि
( ३ )
दैवपुरुषकारप्रभावप्रविभागदर्शनार्थम्—सर्वत्र हि तद्वलेन प्रवर्तते तदुपरामे चो- परमतीति । विज्ञानमात्र-क्षणभङ्ग-नैरात्म्यादिवादानामप्युपनिषदर्थवादप्रभवत्वं विषयेष्वात्यन्तिकं रागं निवर्तयितुमित्युपपन्नं सर्वेषां प्रामाण्यम्' (तं. वा. पृ. १६८ आन. सं ) इति । एतेषु वाक्येष्वेकेकमक्षरमवधानमर्हति । क्व ते वेद- विज्ञान-क्षणिक-शून्य-नैरात्म्यवादिनः क्व वा तन्निराकरणप्रकाराः ? स्वस्वप्रति- भावेशद्येन दार्शनिकाः दर्शनप्रवर्तकैः परिकल्पितेऽध्वनि गच्छन्तः परैराविष्कृतान् दोषान् दूरीकुर्वन्तो गच्छन्ति, परं भट्टपादास्तु सविशेषं वेदविरुद्धान् पक्षान् निरस्यन्तोऽपि तेषां सङ्ग्रहैक्तानमतयो दृश्यन्त इति वैशिष्ट्यं भट्टपादानां नाप्रत्यक्षम् । स्वयूथ्या भवन्तु परयूथ्या वा, उभयेषां समन्वयेन यादृशं तत्त्वं निर्गलति तेन मिथः प्रसूतस्य कलहस्य शान्तिरनुभवितुं शक्यते । वादिप्रतिवादिनौ यदि समन्वयं कुरुतस्तर्हि न्यायालयस्य नीतिपतेर्वा काऽऽवश्यकता ? वेदप्रामाण्य- मङ्गीकुर्वन्तोऽपि मीमांसासम्प्रदायसिद्धान् पदार्थान् खण्डयन्ति, वेदस्य प्रामाण्यम- नङ्गीकुर्वन्तो वेदबाह्याः खण्डयन्ति । तांश्च मीमांसेतरदार्शनिकाः खण्डनव्यापारे प्रवर्तन्ते । एवमस्मिन् व्यापारे प्रचलति कथं शान्तिरवाप्यताम् । शान्त्यवासय एव खलु सर्वाणि शास्त्राणि दर्शनानि च प्रवृत्तानि । साधूक्तं व्यासाचार्यैः— शमार्थं सर्वशास्त्राणि निर्मितानि मनीषिभिः । य एव सर्वशास्त्रज्ञस्तस्य शान्तं मनस्सदा' ।। इति । पूर्वं प्रदर्शिता भट्टपादोक्तिरेव न्यायात्मना ग्रहीतुं शक्यते । भाष्यकाराणां वार्तिककाराणाञ्च च उक्तयस्ता न्यायरूपेण परिगृह्णन्तेस्म परवर्तिमीमांसकैः । न हि भूते भाविनि च तादृशी प्रीतिर्यादृशी वर्तमाने' इति भाष्यकारोक्तिं न्यायत्वेन, एवम् 'अत्यन्तवलवन्तोऽपि पौरजानपदा जनाः । दुर्बलैरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैः ।। इति कारिकां न्यायत्वेन एवं सूत्रकारस्य जैमिनेः सूत्राणि 'गुणे त्वन्याय्यकल्पना' 'गुणानाञ्च परार्थत्वात्' लोकवत् परिमाणतः फलविशेषः स्यात्' इत्यादीनि न्यायत्वेन व्यवहरन्ति मीमांसकाः । अतः न्याय्यात्पथोऽच्युतेयं भगवती मीमांसा 'बहुविद्यान्तराश्रिता' इत्यङ्गीकारे का न्यूनता ? पृथक् पृथगवस्थिता अप्येकी- भवितुमर्हन्तीति मार्गं प्रदर्शयन्ति कुमारिलपादाः । सर्वाण्येव दर्शनानि समा-' जोन्नत्यौपयिकानि तथापि मीमांसादर्शनं तत्राग्रेसरमिति निश्चितं वक्तुं शक्यते । यतो हि सूत्रकारोऽनेकेषु स्थलेषु नानाप्रकारेण लोकशब्दं प्रयुङ्क्ते । तञ्च शब्दं विवृण्वाना भाष्यकाराः लौकिकजीवने यथोपयुक्ता भवन्ति न्यायास्तथा वैदिक- वाक्यानामर्थं परिदर्शयन्ति । धर्म एव खलु समाजस्य धारकः । धारकस्तम्भे दृढीकृते समाजसमुन्नतिः कुतो न भवेत् ? स्वं स्वं धर्ममनुतिष्ठन् मानवः कथं
( ४ ) स्खलद्गतिस्स्यात् ? स्खलद्गतौ सत्यामेव समाजस्य शैथिल्यं यथा समाजस्य न स्यात्तथा मीमांसादर्शनं धारकं धर्मं व्यवस्थापयति। व्यवस्थिते च धर्मे समाजसमुन्नतिर्निवार्या। समाजसमुन्नतिर्नाम सामाजिकानामनुशासने वर्तनम्। अनुशासनञ्च धर्मरूपम् तदनुशासकञ्च वेदपूरुषः। वेदपूरुषस्य तात्पर्यनिर्णायको महर्षिजैमिनिः। अत एव जैमिनिसूत्राणि वेदवाक्यगर्भितान्युपलभामहे। जैमिनिश्च सम्प्रदायसमागतान् विविधासु गोष्ठीषु महर्षिभिर्विचार्यनिर्णीतानेव विषयान् सूत्ररूपेण जग्रन्थ मीमांसादर्शनम्। सम्प्रदायश्चाविच्छिन्नगुरुशिष्य- भावेन विद्याप्राप्तिरिति न्यायवार्त्तिककारः। विद्याशब्देन वेदो विवक्ष्यते। वेदविद्यायाः प्राप्तिः गुरुमुखोच्चारणानूच्चारणविधयैव भवति। सर्वोऽपि वेदाध्यायी स्वीयं गुरुमेव निर्दिशति। आ च सृष्टेराचैतन्निमेषादिमामेव सरणिं विलोकयामः। एतेनेदं न निश्चेतुं शक्यते यदस्माकं देशे वेदविद्याध्ययनपरम्परा कस्मात्कालादारभ्य सम्प्रवृत्तेति। अनादिरियं वेदाध्ययनपरम्परा। तथा तदर्थविचारपरम्पराप्यनादिरित्येष्टव्यम्। एतेनास्माकं देशे शिक्षाविहीनः कालः कश्चनासीदिति स्थापयितुं न शक्यते। शाबरभाष्यारम्भात्पूर्वमपि सूत्ररूपेण मीमांसादर्शनाध्ययनम्, सूत्ररचनातः पूर्वमपि गोष्ठीविचाररूपेणाध्ययनमासी- दिति बलात्स्वीकर्तव्यमेवेति वेदाध्ययनपारम्पर्येण सिध्यति। वेदाध्ययनञ्च संस्कारः। संस्कारश्च तस्य भवति यो भूतोपयुक्तः भाव्युपयोक्ष्यमाणो वा। भूतोपयुक्तत्वस्यासम्भवात् भाव्युपयोक्ष्यमाणत्वं स्वीकार्यम्। कुत्रोपयोगः संस्कृतस्य वेदस्येति शङ्कापि सुसमाधेया। यथा चिरन्तनाः वेदाध्ययनपरम्परां परिरक्षन्त आसन् तथैव वेदेषूच्चावचं विहितानि कर्माणि चानुतिष्ठन्त आसन्निति साधनं न दुष्करम्। यथाध्ययनविहीना नाभवंस्तथा कर्माचरणविहीना अपि नाभूवन्। कर्माचरणे मन्त्राणामावश्यकता यथा, तथा विधेयावलम्बाय विधीनामप्यावश्यकता। नष्टाश्वदग्धरथन्यायेन विधिमन्त्रयोमिथस्सम्प्रयोगः। अत एव 'मन्त्रब्राह्मणयोर्वेदनामधेयम्' इत्यापस्तम्बाचार्यसूत्रयामास। ब्राह्मण- भागेष्वधीयमानेषु लक्षशः कर्माणि विहितान्युपलभामहे। किं तेषामनुष्ठानेन विना केवलं पठनायार्थावगमनाय वा प्रयोजनं सिद्ध्येत्? यथा खलु महाकविभिर्वि- रचितानि नैकविधानि नाटकानि केवलं नार्थावबोधाय कल्पन्ते, किन्तु मञ्चेष्वभि- नीय ततोऽखण्डमानन्दमनुभवितुं तानि कल्पन्ते, तथैवेमानि कर्माण्याचरणाय विहितानि। यथायथमिमानि व्यष्टिरूपेण समष्टिरूपेण चाचरन्तश्चिरन्तना अभवन्। कल्पानां सूत्राणाञ्च रचनाकालतः पूर्वमपि चिरन्तनप्रयोगविषये कर्माण्यासन्नित्येव साधनं साधीयः। तदिदं कर्माचरणं तदर्थावगतिपूर्वकमजाय- तेत्यप्येष्टव्यम्। कर्मानुष्ठानं प्रत्यर्थज्ञानस्य सामान्यसम्बन्धबोधकप्रमाणान्तर- निरपेक्ष रूपाल्लिङ्गादङ्गत्वं मीमांसका अस्थिषत। 'किमहं करोमि' 'कथं वा कुर्याम्' इत्यवगत्यैव कर्माण्यनुतिष्ठेत्। ईदृशमर्थज्ञानं मीमांसाशास्त्रैकसमधिगम्य-
( ५ ) मित्यपि निर्विवादम्, निष्कृष्टवाक्यार्थावबोधनायैव मीमांसायाः प्रवृत्तत्वात् । अत एव वार्तिककारैरुक्तम्—'इति कर्तव्यताभागं मीमांसा पूरयिष्यति' श्लो० वा० इति । एवं चक्रनेमिक्रमेण चाध्ययनम्, तदर्थावगतिः, यथार्थं वेद- विहितकर्मणामनुष्ठानम् अनुष्ठानायानुष्ठेयकर्मस्वरूपावगतिः, तदर्थं मीमांसा- ध्ययनम्, मीमांसाध्ययनतः पूर्वं वेदतदङ्गाध्ययनम्, तदर्थावगमनम् इत्येवं मिथःसापेक्षाणामध्ययनार्थावगमनकर्मानुष्ठानपरम्परा अनिदमप्रथमताकात्काला- त्सम्प्रवृत्तेति मीमांसायाः पूज्यत्वं विचारपरत्वमनिदमप्रथमताकात्कालात्प्रवृत्त- त्वञ्चेति मनसि निधाय वार्तिककाराः प्राहुः—'मीमांसा तु लोकादेव प्रत्यक्षानु- मानादिभिरविच्छिन्नसम्प्रदायपण्डितव्यवहारैः प्रवृत्ता' इति । एवं महर्षिजैमिनिमारभ्याद्य विंशतितमशतकपर्थ्यन्तं तैस्तैर्ग्रन्थकारैः उच्चा- वचानां परस्सहस्रस्य ग्रन्थानां लेखनेनाध्यापनेन च परिवर्धितेयं मीमांसाद्राक्षालता दृढबद्धमूलं वेदार्थं नानाशाखोपशाखाभिः आ च हिमवतः आ च कुमारिकायाः आश्रितान् जनान् स्वाच्छच्छायया परिरक्षन्तं महान्तं वटमहीरुहमाश्रित्य तरुणीव शोभमाना विराजते । नियतिकृतनियमसिद्धमिदम्, यच्छाखासु शुष्यमाणासु तदाश्रिता लता अपि शुष्यदवस्थां प्राप्नोतीति । जैमिनेः कालत एव विशा- लस्य वटतरोः बह्व्यः शाखाः शुष्यदवस्थामापन्ना इति 'अपि वा कर्तृसामान्या- त्प्रमाणमनुमानं स्यात्' (जै० सू० १.३.२.) इति सूत्रादवगच्छामः । एतत्सूत्र- भाष्यं विवृण्वाना वार्तिककारा वदन्ति-- 'शाखानां विप्रकीर्णत्वात् पुरुषाणां प्रमादतः । नानाप्रकरणस्थत्वात्स्मृतेर्मूलं न दृश्यते' ॥ इति । (तं० वा० पृ० १६४) ये यां वृक्षस्य शाखामाश्रित्यातिष्ठन' ते यदि प्रमादात् अलस्येन वा अध्ययन- परम्परातो विच्युताः तर्हि सा शाखा कथमाद्रां तिष्ठतु । वेदवृक्षशाखायाः अध्ययनाध्यापनमेव खलु जलसेचनम् । अनेन जलेन यदि न सिञ्चामस्तर्हि वृक्षस्य तच्छाखायाश्च कथमिवार्द्रता स्यात् ? तदाश्रिताया मीमांसातन्व्या अपीय- मेव दशा समापन्ना । सम्प्रत्यतिविरलप्रचारापीयं जीवतीत्येव वक्तव्यम् । ग्रन्थानां सम्पादनेन साहित्योपबृंहणं नूनं भवेत् सम्पादकानां ज्ञानवृद्धिरपि स्यात्, किन्तु शास्त्रोज्जीवनाय तदध्ययनं परमावश्यकम् । तच्च तच्छास्त्राध्यायकेक- साध्यम् । अध्येतृभिर्विनाध्यापकः किं करोत्विति तूष्णींभावो नोचितः । कथमपि, छात्रानन्विष्य रुचि परिकल्प्य तेऽध्यापनीयाः । तत्तच्छिक्षणसंस्थाया अपि कर्त- व्यमिदम् यत्केचन छात्राः विरलविषयाणामध्ययनाय छात्राः प्रोत्साहनीयाः । मीमांसासाहित्यभिदमतिविपुलम् । महर्षिजैमिनिप्रभृत्यद्य यावत् परस्सहस्रं- ग्रन्था विविधप्रान्तियैर्मनीषिभिः प्रणीताः । सर्वेऽपि ग्रन्थाः प्रकाशिता इति नाभ्युप- गन्तुं शक्यते । अप्रकाशिता ग्रन्था अनेके विद्यन्ते । तत्र केचन नाम्ना उपलभ्यन्ते,
( ६ )
केचन खण्डिताः, अन्ये समग्रतया उपलभ्यमाना अपि न प्रकाशिताः । शास्त्र- मिदमतिविस्तृतम्, दुरवगाहञ्चेति मन्वानाश्चिरन्तनाः ‘मीमांसापल्वलम्’ ‘मीमांसा- कुतूहलम्’ इत्यादीन् लघुग्रन्थान् प्राणैषुः सुखेन द्राक् शास्त्रतत्त्वाधिगमाय । यथा यथा लोका मीमांसाया अध्ययने प्रवर्तेरंस्तथा तथा ग्रन्थानां प्रणयने चिर- न्तनाः प्रवृत्ताः । एवं मीमांसाया अध्ययनाय सौलभ्ये सम्पादितेऽपि अतिविरल- प्रचारैयं समभवदिति महान् खेदस्य विषयः । सत्यमुक्तं कुसुमाञ्जलिकारैः ‘ह्रास- दर्शनातो ह्रासः’ इति । सर्वेषु शास्त्रेषु सम्प्राप्तवैदुष्यप्रकर्षेषु सत्सु विद्वद्वपश्चिमेषु देशस्यैव खलु भवति समुत्कर्षः । इदमेवोद्देश्यं सर्वोपरि निश्चित्य चतुर्दश विद्या स्थानानि प्रवर्तयाम्बभूवुर्महर्षयः । तत्र महर्षिर्जैमिनिः त्रिसहस्रादप्यधिकवर्षेभ्यः पूर्वं जननेन भुवाममामलञ्च- कारेति प्रतीयते । व्याकरणाधिकरणे (१.३.८) सर्व एव ग्रन्थकाराः व्याकरणं प्रमाणं न वेति सन्देहशरीरं परिकल्प्याधिकरणमारचयन्ति । भाष्यकारास्तु गौर्गावो गोणी गोपोतालिका इत्यादीन् शब्दानुदाहृत्य ‘प्रयोगोत्पत्त्यशास्त्रत्वा- च्छब्देषु न व्यवस्था स्यात्’ (१.३.२४) इति सूत्रानुसारेण ‘गोशब्दो यथा सास्ना- दिवति प्रमाणं किं तथा गाव्यादयोऽप्युत न’ इति सन्देहं निर्दिश्य पूर्वोत्तरपक्षौ प्रदर्शयन्ति । सूत्रं च ‘शब्देषु न व्यवस्था स्यात्’ इति व्यवस्थाया अभावे हेतुरुक्तः ‘अशास्त्रत्वात्’ इति । किमपि शब्दव्यवस्थापकं शास्त्रं नास्तीत्यर्थः । सिद्धान्त- सूत्रे ‘तत्र तत्त्वमभियोगविशेषात्स्यात्’ इत्यत्र व्यवस्थापकं किमपि शास्त्रमनिर्दिश्य केवलम् अभियोगविशेषं हेतुं निर्दिशति । हेतुं विवृण्वाना भाष्यकाराः- ‘दृश्यते चाभियुक्तानां गुणवतामविस्मरणमुपपन्नम् प्रत्यक्षञ्चैतद् गुण्यनुमानं न भ्रश्यत इति । तस्माद्यमभियुक्ता उपदिशन्ति एष एव साधुरिति’ इति । अनेन सन्दर्भे- णेदमनुमातुं शक्यते—यत् सूत्रकारसमये किमपि व्याकरणं न निबद्धमासीत् किन्तु अभियुक्तव्यवहारेणैव शब्दगतसाधुत्वासाधुत्वपरिज्ञानं लोकानामभवत् । तेन च पाणिनैर्व्याकरणसूत्रप्रणेतुः पूर्वमेव जैमिनेः काल इति । कथमन्यथा शबर- स्वामिनः स्वीये भाष्ये तत्र तत्र पाणिनिं स्मरन्तोऽपि पाणिन्यादय उपदिशन्ति इत्यनिर्द्दिश्य ‘अभियुक्ता उपदिशन्ति’ इति ब्रूयुः । यथासूत्रं भाष्यमारचनीयमि- त्यभिसन्धाय तथाऽभाषिषत । अतः पाणिनेः पूर्वं जैमिनेः काल इत्याहुः । पाणि- निस्तु ईसातः पूर्वं चतुर्थशतके पञ्चमशतके वाऽवर्ततेति इतिहासविदां मतम् । अत ईसातः पूर्वं षष्ठशतके मीमांसासूत्रकार आसीदिति ज्ञायते । शबरस्वामिनस्तु—औत्पत्तिकसूत्रे ‘न हि वृद्धिशब्देनापाणिनेर्व्यवहरत आदैचः प्रतीयेरन्, पाणिनिकृतिमन्मनुमन्यमानस्य वा’, इत्यत्र पाणिनिम्, दशमाष्टमप्रथमा- धिकरणे चतुर्थसूत्रे वार्तिककारो भगवान् कात्यायनो मन्यते स्म । ....वेति भगवान् पाणिनिः, .....‘सद्भादित्वाच्च पाणिनेर्वचनं प्रमाणम् असद्भादित्वात्र कात्यायनस्य’ इति पाणिनिं कात्यायनञ्च स्मरन्ति । क्वापि महाभाष्यकारं
( ७ ) पतञ्जलिं न स्मरन्ति। अतोऽनुमातव्यं भवति यत् पतञ्जलेः पूर्वं तत्समकाले वा शबरस्वामिन आसन्निति। पतञ्जलेः काल ईसातः पूर्वं तृतीयशतकमिति इति- हासमर्मज्ञैर्निणीतमस्ति। सर्वैरपीतिहासविद्भिः निर्णीतः काल आनुमानिक एव। पाश्चात्यैः प्रदर्शिते पथि गच्छन्तो भारतीया अपीतिहासविदः पाश्चात्याने- वानुकुर्वन्ति। वस्तुत विचार्यमाणे भारतीयानामितिहासोऽनिदम्प्रथमताकात्काला- त्प्रवर्तत इति स्वीकारे कालनिर्णयव्यापारः स्वस्वप्रतिभाविलासप्रकाशनमात्रमेव, नानेन किमपि तथ्यं वस्तु निश्चेतुं शक्यते। एवं न्यायसुधाकारो भट्टसोमेश्वरः ईसातः परं द्वादशशतक आसीदिति लिखन्ति। तन्त्रवार्तिकोपरि बह्वीषु टीकासु विद्यमानास्वपि इयमेव टीका चौखम्बा मुद्रणालयतः प्रथमं मुद्रिता। परं तन्त्रवार्तिकेन सह न मुद्रिता। विना न्याय- सुधया तन्त्रवार्तिकाधिगमो न सुकरः। अतिगभीराणां तन्त्रवार्तिकगतविचाराणां विवरणं स्वप्रतिभासमुद्भूवानां तत्त्वानामुल्लेखनं न्यायसुधाकाराणामनितरसाध- रणं पाटवमवद्योतयति। अत एव परवर्तिनो ग्रन्थकारा न्यायसुधाकृन्मतत्वेन सगौरवं निर्दिशन्ति। अस्मिन् संस्करणे तन्त्रवार्तिकेन सह न्यायसुधामपि संयोज्य अनुपलभ्यमानानां मीमांसाग्रन्थानां प्रकाशनव्यापारे समुद्यतः पण्डितगोस्वामि- महोदयः साधु कर्म करोतीति प्रसीदामि। अधुनातनानां भाष्यसन्दर्भाधिगमे लाघ- वमुद्दिश्य हिन्दीभाषयापि विवरणं संयोजितवानिति ग्रन्थस्यास्यात्यन्तोपादेयत्वं निश्चिन्वानः तस्मै साधुवादान् वितरामि। विशेषतः तारामुद्रणालयाधिपाय 'पाण्ड्या'महोदयाय धन्यवादान् अर्पयामि, यतो हि विरलप्रचारे विद्यमानमपि मीमांसादर्शनं द्रव्यव्ययेन प्रकाशयामास। तारामुद्रणालयोऽतिचिरन्तनादेव कालात् संस्कृतग्रन्थानां प्रकाशने बद्धश्रद्धः, मुद्रणकलाविधौ प्रसिद्धश्च। अतोऽहं धन्यवादशतेन 'पाण्ड्या'-महोदयं पूरयामि। वेदमीमांसानुसन्धानकेन्द्रम् पी० एन० पट्टाभिरामशास्त्री वाराणसी, माघकृष्णामावास्या, १.२.१९८४ सं० २०४०
( २ ) नन्वेवमपि यत्र यौगिकं रूपं तत्रापि गौणताप्रसक्तिः । न चेष्टापत्तिः । गङ्गायां घोष इत्यादावपि यौगिकार्थसम्भवेन लाक्षणिको न स्यादिति चेन्न । रूढिशब्दानां हि स्वावयवार्थनिरपेक्षतयैव स्वाभिधेयेऽर्थे वृत्तिः । यथा गवादिशब्दानाम् । अतोऽत्र स्वावयवार्थानपेक्षत्वात् गौणत्वप्रसङ्गो न । तस्मात्संज्ञानामसंज्ञानां च शब्दानां न गौणत्वं किन्तु मुख्यत्वमेव । न चैवं सति प्रकृतिप्रत्ययविभागो निरर्थक इति वाच्यम् । व्युत्पाद्यशब्दानां विशिष्य व्युत्पत्ति- प्रदर्शनार्थत्वादिति संक्षेपः ॥ अतोऽत्रैकस्य ग्रन्थकारस्य मतं सर्वथैव सर्वैरभ्युपेयं भवत्येवेत्यत्र न किञ्चिदपि संशीतिरस्ति किन्त्विदानीं येऽपि नूतना विद्वांसोऽत्र भारते वर्षे प्रादुरभवन् तेऽपि ग्रन्थान्तरं विलोक्यैव ग्रन्थकारस्याशयमुद्भावयामासुः । न च स्वेच्छया किमपि नवं न्यरूपीति न तिरोहितं प्राचामपि पण्डितानाम् यथाऽस्मत्परमपूज्यचरणैः परमविद्वद्भिः पण्डितप्रवर-शिवदत्तशर्मभिः प्रसिद्धकाव्यप्रकाशस्य व्याख्यायां व्यधायि तच्च सर्वं तत्र द्रष्टव्यम् । यतस्ते बहुतरप्रयत्नेन तत्र तदुपयोगि यत्किञ्चिद् व्याख्यानं विहितं तत्तु सर्वैरभिनन्दितं दृश्यते । तस्मात्सर्वमेतद्विचार्य मयाऽप्यत्र कल्पलतातन्त्रे परम्परागतप्राचीनग्रन्थानामेवावष्टम्भेन व्याख्यानं कृतमिति विभाव्य विबुधैर्मयि कृपां विधायास्य संशोधनकार्ये दत्तचित्तैर्भवितव्यमिति साञ्जलिप्रणतिपूर्वकम- भ्यर्थ्यत इत्यलमतिप्रपञ्चेन । सुधीभिः कृतानि संशोधनानि सानन्दमङ्गी- करिष्यन्त इति विभाव्य विरमामि । बहुना किम् ? परगुणपरमाणून्पर्वती- कृत्य नित्यं निजहृदि विकसन्तः सन्तः सन्ति कियन्तः ॥ इति शम् ॥ ग्रन्थस्य सम्पादक-प्रकाशकौ विजयादशमी संवत् १९७० विजयानन्दशर्मा ४।१०।१९१३ रसिकमोहनपुस्तकालय, नवलगढ, १९७४ वि०
[ ७ ] प्राक्कथन वेद, मन्त्र और ब्राह्मण है। वेद के मन्त्रों की ब्राह्मण में व्याख्या की गई है। वेद के मन्त्रों में ही मन्त्र शब्द का पुनः पुनः उल्लेख मिलता है। ऋक्संहिता के प्रथम अष्टक में 'मन्त्रं मनसा वनोषिष्टम्'१ 'मन्त्रं वदत्युक्थ्यम्'२ 'हृदा यत्तष्टान् मन्त्रं अशंसन्'३ 'मन्त्रं वोचामग्नये'४ 'आनो मन्त्रं सरथे होपयातम्'५ 'अहे बुध्निये मन्त्रं मे गोपाय'६। अब यह विचारणीय है कि इस मन्त्र शब्द का क्या अर्थ है ? आचार्य जैमिनि ने मन्त्र का लक्षण निर्दिष्ट करते हुए लिखा है:-'तच्चोदकेषु मन्त्राख्या' (जै० सू० २।१।३२) वेद सम्प्रदाय के रक्षक अभियुक्तों ने वेद के जिन अंशों को मन्त्र के रूप में स्मरण किया है या मन्त्र के रूप में व्यवहार किया है; वे ही मन्त्र हैं७। इस प्रसङ्ग में भट्टकुमारिल ने कहा है 'अध्येतृवृद्धव्यवहारसिद्धं चेदम्' । आशय यह है कि शब्द के अर्थ ज्ञान में शिष्टों का व्यवहार ही प्रमाण है। वेद सम्प्रदाय के रक्षक वैदिकों या याज्ञिकों ने जिसको मन्त्र कहकर व्यवहार किया है—वेही मन्त्र माने गये हैं। इस विषय में अभियुक्तों की उक्ति और व्यवहार ही प्रमाण है। यह सत्य है कि बहुकाल तक भारत विदेशियों के अधीनस्थ रहा, किन्तु मन्त्र शब्द के अर्थ की परम्परा सदा ही अक्षुण्ण रूप में प्रवाहित रही। इसलिए यह एकान्त सत्य है कि वेद के धारक, वाहक और प्रधानतया वेद के अनुष्ठापक वेद के लिए एक मात्र अभियुक्त हैं। वेद ही वेदार्थ निर्णायक है। वेद का विभाग ऋग्वेद की शाकल, शाङ्खायन और बाष्कलसंहिता प्रसिद्ध हैं। बालखिल्यसूक्त शाकलसंहिता के परिशिष्ट रूप में कथित होने से इसी संहिता के अन्तर्भुक्त हैं। संज्ञान- सूक्त को यद्यपि शाकलसंहिता का परिशिष्ट कहा जाता है, किन्तु शांखायन संहिता के मध्य में पठित है, अतः शाकलसंहिता के परिशिष्ट में पठित मन्त्र भी ऋक् मन्त्र ही है। ऋग्वेद के निविदध्याय के परिशिष्ट के रूप में होने पर ऋक् संहिता में निवित् का उल्लेख है।८ १. ऋ. सं. १।२५।१३, २. ऋ. सं. १।३१२.१५, ३. ऋ. सं. १।५१।१४, ४. ऋ. सं. १।२१।१, ५. ऋ. सं. ८।६१।११, ६. तै. ब्रा.।२।१. ७ अभिधानस्य चोदकेषु एवं जातीयकेषु अभियुक्ता उपदिशन्ति मन्त्रान् अधीमहे मन्त्रान् अध्यापयामः, मन्त्राः वर्तन्त इति' शा. भा. २।१।३२, ८. शंसन्ति केचिन्निविदो मनाना। । (ऋ. सं. ५।१।१०) ।
पादव्यवस्था (जै० सू० २।१।३४) गीतिषु सामाख्या (जै० सू० २।१।३६) शेषे यजुः-
[ १० ] मन्त्र का भेद वेद के मन्त्र तीन प्रकार के हैं। ऋक् मन्त्र, यजुर्मन्त्र और साममन्त्र। इसका उल्लेख ऋग्वेद में ही सुलभ है-- 'तमर्केभिस्तं सामभिस्तं गायत्रैश्चषणयः। इन्द्रं वर्धन्ति क्षितयः१।' प्रकृत में 'अर्क' शब्द से यजुर्मन्त्र, 'साम' पद के द्वारा साममन्त्र और 'गायत्र' पद के द्वारा गायत्री आदि छन्दोयुक्त शस्त्ररूप अप्रगृहीत ऋक् मन्त्र का निर्देश किया गया है। इस वैदिक आधार पर आचार्य जैमिनि ने तीन सूत्रों से तीन मन्त्रों को कहा है---तेषामृग् यथार्थवशेन- पादव्यवस्था (जै० सू० २।१।३४) गीतिषु सामाख्या (जै० सू० २।१।३६) शेषे यजुः- शब्दः (जै० सू० २।१।३७) आशय यह है कि नियत अक्षर युक्त पाद एवं नियतसंख्यक पादयुक्त और किसी विशिष्ट अर्थ के प्रकाशक मन्त्र ऋक् मन्त्र कहे जाते हैं जैसे- 'अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम्' (ऋ. १।१।१) इस मन्त्र में आठ अक्षर का पाद, तीन पाद और गायत्री छन्द है। गायत्री छन्द होने से प्रत्येक पाद में आठ अक्षर है एवं एक विशिष्ट अर्थ का प्रकाशक भी है। किन्तु याज्ञिकों ने इस परम्परा को अक्षुण्ण रखी है कि किसी अन्य मन्त्र के पाद से इसे चार पाद का मन्त्र नहीं माना है। जो ऋङ् मन्त्र षड्ज, ऋषभ आदि स्वरों से युक्त होकर गेय रहते हैं-वे ही साममन्त्र कहे जाते हैं। इसीलिए छान्दोग्य उपनिषद में कहा गया है 'तस्म.दृच्यध्यूढं साम गीयते। (छा० २।६।५) गीतियुक्त ऋक् ही साम हैं, अतः साम मन्त्र की योनि ऋक् कही जाती है। ऋक् और साम से भिन्न मन्त्र ही यजुर्मन्त्र हैं। अर्थात् वे नियताक्षर पादबन्धशून्य स्वर-संयोग-सम्पन्न गीत-रहित होते हैं। अतः इस लक्षण के अनुसार पूर्वोक्त नियताक्षर, पादबद्ध, छन्दोबद्ध और एकार्थ-प्रतिपादक मन्त्र यजुः आरण्यक, ब्राह्मण आदि कहीं भी निर्दिष्ट हो, वे ऋक् मन्त्र ही कहे जायेगे। अतः, शाकल संहिता में निर्दिष्ट न होने से ही वे ऋक् मन्त्र से बहिर्भूत नहीं हैं। क्योंकि वेद एक है। मन्त्र तीन प्रकार के हैं। स्वरसंयोग से गीत होने से साममन्त्र कहे जाते हैं। पिङ्गल आदि छन्दः शास्त्र के अनुसार यजुः मन्त्रों में भी छन्द का निर्देश किया गया है, किन्तु, ऋग्वेद आदि के समान नियताक्षर पादबद्धता उनमें नहीं है, यजुर्मन्त्र के पाठ में छन्दः की प्रतीति भी नहीं होती है। इस कथन का एक मात्र आधार शेषे ब्राह्मणशब्दः (२।१।३३) यह जैमिनि सूत्र है। छन्दः वेद के लिए व्यापक नहीं है। क्योंकि शाबरभाष्य में ही कहा है, 'मन्त्राश्च ब्राह्मणाश्च वेदः' अर्थात् मन्त्र और ब्राह्मण दोनों में ही वेद शब्द का प्रयोग १. ऋक्सं० ६।१।२२
[ ११ ] होता है । आपस्तम्ब ने भी 'मन्त्रब्राह्मणयोर्वेदनामधेयम्' यह लिखा है, क्योंकि जैमिनि ने त्रिविध मन्त्रों को 'तच्चोदकेषु मन्त्राख्या' (२।१।३२) इस सूत्र के द्वारा सामान्य लक्षण निर्दिष्ट कर 'शेषे ब्राह्मणशब्दः' यह सूत्र कहते हैं । अतः, यह सुस्पष्ट है कि मन्त्र से भिन्न वेद भाग ही ब्राह्मण है । मन्त्र के लक्षण में छन्द का निर्देश नहीं किया गया है । छन्द के न रहने से यजुर्मन्त्र वेद से बहिर्भूत नहीं हो सकते हैं । पं० श्री गजानन्द शर्मा ने स्वाध्याय मण्डल से प्रकाशित तैत्तिरीय संहिता की भूमिका में लिखा है 'छन्दोवन्धाभावे शेषे ब्राह्मणशब्द इति शास्त्रात् यजुषां मन्त्राणामपि ब्राह्मणवाक्यत्वप्रसङ्गः' (वेदवेदिका पृ० १८) में लिखा था—यह पूर्व विश्लेषण से निरस्त हो जाता है । मीमांसा दर्शन आस्तिक नास्तिक के भेद से सामान्य रूप में दर्शन के दो वर्ग माने गये हैं । आस्तिक दर्शनों में मीमांसा का मुख्यतम स्थान है । मीमांसा पूजित विचार अर्थ में प्रयुक्त होता है । पूजा अर्थ के वाचक मान् धातु से जिज्ञासा अर्थ में (मान जिज्ञासायाम्) "मानेर्जिज्ञासायाम्" (३।१।६) इस वार्तिक के द्वारा सन् प्रत्ययघटित नित्य प्रयोग से अप्रत्यय कर मीमांसा शब्द निष्पन्न होता है । विचार पूर्वक वेदानुसार अर्थ निर्णय ही मीमांसा है । पूजितत्व का परिष्कृत रूप देते हुए आचार्यों ने कहा है— 'परमपुरुषार्थ-हेतुभूत-सूक्ष्मतमार्थनिर्णयजनकत्वम्' । परम पुरुषार्थ के साधन रूप सूक्ष्मतम अर्थ रूप प्रयोजनवान् पूजितत्व है । वैदिक धारा का अन्वेषण करने पर दो धारायें सम्मुख उपस्थित होती हैं । एक ऋषिधारा, और दूसरी मुनिधारा । वैदिक ऋषियों ने अनेक प्रसङ्ग में अदेव एवं देवनिन्द के प्रति अतिशय कटाक्ष किया है । यद्यपि इसका सामान्य अर्थ वेदनिन्दक होता है, किन्तु, नास्तिक के रूप में चार्वाक आदि का ग्रहण नहीं है, वरन् सम्प्रदाय- वाद के बाद की भूमि पर किसी सिद्धान्त के प्रवर्तक का ही ग्रहण किया है । दार्शनिक चिन्ता धारा वैदिक हो या अवैदिक इतना सत्य है कि दर्शन मनन का ही फल है अतः दर्शन को तर्क प्रस्थान कहा गया है, और इसी की धरा पर प्रवहमान मीमांसा है । दूसरे शब्दों में यह कहा जा सकता है । एक बौद्ध धारा (Rationalist) और दूसरी ब्राह्मण्य (Intuitionist) धारा है यही मुनि धारा है, जो तार्किक आघात-प्रतिघात में अपनी धारा की रक्षा के लिए लक्ष्य से बहुत दूर हो जाती है । यही मुनि धारा दार्शनिक इतिहास की पृष्ठभूमि है । इसका आयतन इतना विशाल है कि सहस्र धाराओं में प्रवा- हित इस धारा के लिए मुनिमत-द्वैध के कारण श्रुतिद्वैध आभासित होने लगता है । इस धारा में ही कर्म, भक्ति और ज्ञान एवं ईश्वरवाद, अनीश्वरवाद, आत्मवाद, निरात्मवाद तक अवस्थित हुआ । योगभूमि पर मुनियों की आगन्तुक सर्वज्ञता का तारतम्य तथा
[ १२ ] उनके मौन की व्याख्या में तार्किक समीक्षा आधार के लिए प्रतिष्ठित ज्ञान को पाश्चात्य दार्शनिकों के विद्याविलासात्मक फिलौसफी के समान इसके अध्ययन को मनन तक ही सीमित कर दिया तथा आचार से उपक्रम कर प्रस्तुत ज्ञान को इच्छा, कृति, चेष्टा के रूप में आचार और प्रचार से शून्य कर दिया । यह है मनन के आधार पर प्रस्तुत मुनि धारा जिससे निरतिशय सर्वज्ञ से उपलब्ध ऋषि धारा सर्वथा म्लान क्षीण हतप्रभ हो प्रवह्या होने लगी । वेद मीमांसा तो दूर वेदमनन पर प्रतिष्ठित तर्कात्मक घात-प्रतिघात के अध्ययन में ही जीवन की इति श्री होने लगी । भारत की देवी अखण्डिता या अदिति एक थोथे विचार का विषय या देव जननी मात्र रह गई और पौराणिक गाथाओं में उनका सत्य स्वरूप विस्मृत होने लगा । यह सत्य है कि मन्त्र भूमि की व्याख्या ही ब्राह्मण है । प्राचीनतम वेद का विभाग मन्त्र और ब्राह्मण ही है, आरण्यक और उपनिषद ब्राह्मण के ही अन्तर्गत हैं । मन्त्र और ब्राह्मण की अपेक्षा उपनिषद् की भाषा और भाव की सरलता से इसका अतिशय प्रचार हुआ । मन्त्र की व्याख्या ब्राह्मण को मानने पर भी उसे कर्ममीमांसा माना जा सकता है, वेदार्थमीमांसा नहीं । मन्त्र के साथ ज्ञान के फल क्रिया या आचार का योग असाधारण है । क्रिया का सुश्रृंखल और सुस्पष्ट रूप का निदर्शन ही ब्राह्मण है । व्याख्या में मन्त्र के रहस्यार्थ का अविष्कार आवश्यक होने से मीमांसा के द्वारा रहस्यार्थ का अविष्कार किया गया है, अतः यह ऋषि धारा है । इस प्रसङ्ग में यह स्पष्ट करना आवश्यक है, ज्ञान और कर्म के मध्य में एक प्राचीर की रचना परवर्ती काल की देन है । वैदिक युग एक अदिति (अखण्ड) दीप्ति की उपा- सना होने से यहां यह भेदक प्राचीर नहीं था । द्रव्ययज्ञ और ज्ञानयज्ञ की चर्चा गीता में उपलब्ध है, वहाँ भी समस्त कर्मों की परिसमाप्ति ज्ञान में ही की गई है । आत्मा चेतना को लोकोत्तर चिन्मयभूमि में अवतीर्ण करना ही ज्ञान और कर्म का समान लक्ष्य है । इस चिन्मय भूमि का ही नाम स्वर्ग है, जिसकी प्राचीन संज्ञा 'स्वः' दीप्तिमय अनुभव है । ज्ञानयज्ञ से जिस भूमि पर उत्तीर्ण करना चाहते हैं, वही द्रव्ययज्ञ से भी उत्तीर्ण करना है । स्वर्ग और मोक्ष ये दोनों परस्पर विरुद्ध भावना नहीं वरन् एक ही की दो संज्ञा है । शुक्ल यजुर्वेद के संहिताभाग के अवसान में ईशोपनिषद् अन्तर्भुक्त है, यजुर्वेद को कर्मवेद माना गया है । इस उपनिषद् का कर्म के अवसान में सन्निवेश अतिशय अर्थपूर्ण है । उदार एवं उदात्त दृष्टि के साथ विराट् समन्वय की चेष्टा ही इसकी अतुलनीय देन है । कर्म के शेष में सार्वभौम ज्ञान की दीप्ति में ही कर्म का अवसान तत्त्व ज्ञान है, इसीलिए उत्तरमीमांसा अन्त में है : ज्ञान की धारा के प्रदीप को योगी याज्ञवल्क्य ने अपनी प्रियतमा मैत्रेयी को गृहस्थ कर्म के शेष में उद्दीप्त किया - 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासित-
[ १३ ] व्यक्ष' । याज्ञवल्क्य के इस उपदेश में भारतीय जनता का जीवन-प्रवाह आशा आकांक्षा का पर्यवसान परिलक्षित होता है । 'एतावदरे खल्वमृतत्त्वम्' । आत्मा का श्रवण मनन और निदिध्यासन ही मोक्ष का एक मात्र साधन है । इस उपदेश के व्याख्यान में ही भारतीय दर्शन की असंख्य धाराएँ प्रवाहित हैं । आत्मतत्त्व का अपरोक्षावभासन ही मोक्ष है, और इसी आत्मतत्त्व की चिन्मय भूमि में अवतीर्ण होना स्वर्ग है । इस आत्म- तत्त्व के निदिध्यासन या उपासना में प्रवृत्त होकर समस्त जगत्प्रपञ्च की आत्मव्यतिरिक्त प्रतीति ही सुलग रहती है । इस अवस्था का अवलम्बन कर ही कर्ममीमांसा की प्रवृत्ति मानी जा सकती है, किन्तु, कुमारिल का मङ्गलाचरण भी इस ज्ञान और कर्म के समन्वय भावना का परिचायक है— विशुद्धज्ञानदेहाय त्रिवेदीदिव्य-चक्षुषे । श्रेयःप्राप्तिनिमित्ताय नमः सोमार्द्धधारिणे ॥ शुक्ल यजुर्वेद का प्रवर्त्तक आचार्य याज्ञवल्क्य ही ज्ञान धारा का भी प्रवर्त्तक है, अतः ज्ञानवासना और कर्मवासना दोनों चरम में उपनिषद् से प्राप्त हो या मन्त्र से भूमि एक ही है । मन्त्र का मीमांसा से सम्बन्ध है । एक धातु से दोनों ही निष्पन्न हैं । मन्त्र शब्द एवं दीप्त्यात्मक देवाविष्ट मनन का स्वतः विच्छुरण है और संविद् का बोध करने की प्रचेष्टा ही मीमांसा है । मन्त्र के रहस्य को स्वतः सिद्ध मानकर उसके प्रतिपाद्य कर्मचोदना और ज्ञान प्रेरणा को सुसम्बद्ध रूप देने की चेष्टा से ब्राह्मण एवं मीमांसा का आविर्भाव है । ब्राह्मण में वेदार्थ की आदि मीमांसा है, जिसमें कर्ममीमांसा एवं ब्रह्म- मीमांसा भी प्राप्त होती है । मीमांसा की धारा अक्षुण्ण प्रवाहित होने पर भी इसे सुसम्बद्ध रूप जैमिनि ने दिया है । कालक्रम में मीमांसक के मतवाद का एक विशिष्ट आकार तार्किक बुद्धि की देन है । वैदिक साहित्य में अध्यात्म साधना का जो स्वरूप प्राप्त होता है, उसके मूल में शब्दमूर्ति देववाद है । देववाद की भित्ति श्रद्धा है और श्रद्धा मानव चित्त की मौलिक वृत्ति अतीन्द्रिय पदार्थ है । इसी के सन्निश्चय में एक अन्य वृत्ति भी प्राचीन काल से वर्त्तमान है, जिसको ऊह या बाद की तर्क संज्ञा हो गई है । तर्क की दृष्टि प्रत्यक् वृत्त है और उसके मूल में जिज्ञासा है । साधना के परिणाम स्वरूप आत्म- वाद है । देवता और आत्मा दोनों ही अतीन्द्रिय है । आत्मदर्शन या देवदर्शन दोनों ही अतिप्राकृत हैं । आत्मवाद संशय को निमित्त रूप से मानता है । देववादी या आत्मवादी दोनों ही सार्वभौम को ही प्राप्त करता है । वेद की भाषा में एक आवेग कल्पित विप्र है और एक पौरुषदृप्त नर है । एक के पास प्राप्ति का साधन श्रद्धा है और एक के पास तर्क या बुद्धि है । जिस वाणी की सङ्गति के साधन में मीमांसा की समस्त शक्ति नियोजित रहती है, वही वेद, श्रुति या मन्त्र है । समग्र वेद की मीमांसा आज भी दुर्लभ है । पूर्वमीमांसा २
[ १४ ] का उपजीव्य वेद का ब्राह्मण भाग है, और उत्तर मीमांसा का उपजीव्य उपनिषद् है । यह सत्य है कि समस्त वेद का प्रामाण्य मीमांसा ने स्वीकार किया है । पूर्वमीमांसा, कर्ममीमांसा, कर्मकाण्ड या साधन शास्त्र है । साधना का उपकरण स्थूल द्रव्य अवश्य है, किन्तु उसका लक्ष्य स्वर्ग या अध्यात्म चेतना की भूमि है । द्रव्ययज्ञ या ज्ञानयज्ञ ही इसकी प्राप्ति का साधन है । किन्तु इस स्थूल के साथ सम्बद्ध साधना का सूक्ष्मतम उपकरण है । मनोमय साधना की विवृत्ति और आलोचना से वैदिक ऋषि की अध्यात्म दर्शन की पूर्ण छवि सुलभ होती है । इसमें विप्रतिपत्ति का अवसर ही कहाँ है कि वेदमन्त्रों की रक्षा करने का शुद्ध प्रयास कर्मकाण्ड में किया गया है, आत्मचिन्तन में नहीं । पूर्वमीमांसा की अवतारणा वेद की रक्षा के लिए ही है, और उसी के आधार पर वेद का रहस्य अवगत किया जा सकता है । पूर्वमीमांसा ब्राह्मण पर अवस्थित है । आर्य समाजियों ने भी वेद की व्याख्या करने का असफल प्रयास किया था, किन्तु वह सम्प्रदाय में आबद्ध होने के कारण उसमें ऋषिधारा का पल्लवित रूप उपलब्ध नहीं हो सका, अतः मनन की भूमि पर तर्क प्रतिष्ठित यह व्याख्या नास्तिक से बहिर्भूत नहीं है । आगन्तुक सार्वज्ञ्य का आरोप कर प्रस्तुत वेदार्थ में कभी भी अपौरुषेय निरतिशय सहज सर्वज्ञ की व्याख्या की उपलब्धि नहीं हो सकती है । इसी क्रम में वेद व्याख्या के लिए वेदाङ्ग का भी अवसर प्राप्त होता है । इन वेदाङ्गों में निरुक्तकार का विशेष महत्त्व है । यद्यपि निरुक्त में आनुपूर्वी व्याख्या नहीं है, तथापि अनेक मन्त्रों की व्याख्या उपलब्ध होती है यह व्याख्या कर्मपरक होते हुए भी विद्युत्प्रकाश के समान अनेक रहस्यों का भी उद्घाटन करती है, इतना ही नहीं वेद की विभिन्न धाराओं का उल्लेख भी उपलब्ध होता है । यास्क इन व्याख्याकारों में अन्तिम आचार्य हैं । इसके साथ ही मध्ययुग के शेष भाग में सायणाचार्य उपलब्ध होते हैं, जिनकी समस्त वेद की आनुपूर्वी व्याख्या मिलती है । किन्तु इनकी व्याख्या आकस्मिक नहीं है, वरन् प्राचीन धारा का क्रमानुवर्तन है, जो आज भी व्याख्यान क्रम से अनुवर्तित है । सायण ने कर्मपरक व्याख्या प्रस्तुत करते हुए भी अन्य धाराओं को भी उदात्त उदार रूप में परिगृहीत किया है । इस प्रकार यह अवगत होता है कि वेद काल से ही ब्राह्मण, निरुक्त, मीमांसा आदि के क्रम में अविच्छिन्न अक्षुण्ण वेद की व्याख्या प्रवाहित हो रही है, किन्तु, मध्य में विच्छेद होते हुए भी ब्राह्मण्यधारा और सायणधारा में विशेष भेद नहीं है । यास्क की परम्परा से वेद के रहस्यार्थ के उद्बोधन की परम्परा भी चलती रही है । देवताकाण्ड में देवतत्त्व की आलोचना निगूढ रहस्य की ओर इङ्गित करती है । जिसे मीमांसा ने मन्त्रमूर्ति के रूप में प्रतिष्ठित किया, किन्तु, देवतत्त्व अचेतन तत्त्व नहीं है । अलौकिक अनुभव का फल होने से अध्यात्म व्यञ्जना से दूर रहना सम्भव ही नहीं है । कर्म के आधार पर मीमांसा शास्त्र पूर्व और उत्तर रूप में उपलब्ध
[ १५ ] है, जहां द्रव्य यज्ञ के बिना भी चिन्मयभूमि में उत्तीर्ण होने की सम्भावना है। किन्तु वेदार्थ का शैथिल्य तर्कमार्गियों को देन एवं प्रभाव है। तर्क में एक आवेश होता है। वहां एकाङ्गी होकर किसी विशेष व्याख्या में पूर्वपक्ष और उत्तर पक्ष का एक क्रम चलता है जो लक्ष्य से सहज ही दूर अवतीर्ण करा देता.है, ज्ञान काण्ड की आधारशून्य अवतरणा के साथ मन्त्रार्थ की उपेक्षा आरम्भ हो गयी थी। पूर्वोक्त विश्लेषण से यह स्पष्ट है कि वेद सार्वभौम अखण्ड दीप्ति की साधना है और इसका उद्देश्य आचार और आचार की भूमि पर प्रचार है। कर्म और ज्ञान की यात्रा का चरम लक्ष्य अमृतत्वलाभ है। इस अमृतत्व की प्राप्ति कर्म के द्वारा भी प्रतिपादित है। ऋग्वेद में सोम का बहुधा उल्लेख मिलता है। एक मण्डल ही सोम मन्त्रों का संग्रह है। वर्णन के आधार पर सभी यज्ञों में श्रेष्ठ सोम याग है। इसका अनुष्ठान भी जटिलतम है। देवत्व प्राप्ति का और अमृतत्त्व प्राप्ति का भी यही साधन है ।। अमृतत्व- लाभ ज्योतिर्मय जीवन में उत्तीर्ण होना है। यदि यह कहा जाय विश्वात्मक ज्योति से एकात्मता है। जिसमें सम्पूर्ण विश्व के साथ एकात्मक होकर सब के कल्याण के लिये एकाङ्गी जीवन से निरपेक्ष सार्वजनीन जीवन के रूप में कर्तव्य पथ पर आरूढ़ होना और आरूढ़ करने की भावना सन्निहित है, एक खण्ड सत्य के आधार पर एक गोष्ठी के कल्याण की भावना नहीं है। इस प्रकार यह जटिल कर्म रूप है और दूसरी ओर सरल रूप है। वेद में कहा है :- जिसने औषधि स्वरूप सोम का पान किया था उसने मानस सोम का पान किया, किन्तु जो सोम को ब्रह्म जानते हैं, उस रस को कोई नहीं पा सकता है। योग और तन्त्र की साधना में अग्निषोम तत्त्व की विवृत्ति एवं प्रयोग का अध्ययन एवं अनुशीलन करें तो इसके रहस्य का उद्घाटन सम्भव है। वेद की व्याख्या से पूर्व ऋषि का अर्थ ज्ञान अपेक्षित है---ऋष् गतौ धातु से सर्व- धातुभ्य इन् (उ० सू० ५५६) इस सूत्र से इन् इगुपधात् कित् (उ० सू० ५५९) से कित् कर 'ऋषि' शब्द निष्पन्न होता है। वेद की प्राप्ति के लिए तप का अनुष्ठान करने वाले पुरुष को स्वयम्भू वेद पुरुष ने प्राप्त किया। अजान् ह वै पृश्नींस्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत् ऋषयोऽभवत् (तै० आ० २।९।१) अतीन्द्रिय वेद का परमेश्वर के अनुग्रह से इस प्रथम दर्शन के कारण ही ऋषि कहे गये। युग के अन्त में अन्तर्हित इतिहास के साथ वेद का महर्षियों ने तप के आधार पर स्वयम्भू के द्वारा ज्ञान प्राप्त किया। तपोवन में महर्षि कल्प जीवन परायण मुनिगण त्रैगुण्य वेद को निस्त्रैगुण्य होते हुए भी जीवों के प्रति महाकरुणा से सदा आर्द्रचित्त आत्म अनुग्रह की इच्छा के बिना भी वेदकल्पतरु को दुःख-त्रयनाशक ज्ञानविज्ञान-फलक मीमांसा की योग समृद्धि से आविष्कृत