मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
४५८ मीमांसादर्शनम् [ ० सू सिद्धानां नित्यतैवैका सुबोधा वेदताऽपि वा । असंशयितवेदार्थविषयत्वात्प्रकल्प्यते ॥ ५३९ तस्माद्वर्षसहस्रेऽपि यस्य न ज्ञायतेऽवधिः । न तत्कृतकतां लब्ध्वा लभते नित्यमूलताम् ॥ ५४० यान्येव धर्मशास्त्राणां मूलवाक्यानि मन्यसे । तान्येवैतानि पठ्यन्त इत्येतत्कल्पितं वरम् ॥ ५४१ मन्वादिभिरवश्यं च स्वग्रन्थप्रतिपादने । तान्युपन्यसनीयानि शिष्याणां वेदवादिनाम् ॥ ५४२ तेन तान्येव तैरेभ्यः संप्रत्तानीति गम्यते । के हि तेषूपलब्धेषु गृह्णीयुः प्रतिकञ्चुकान् ॥ ५४३ यथा च धर्मशास्त्राणां नाद्यत्वे प्रतिकञ्चुकाः । ग्राह्यास्तथा पुराऽप्यासन्न वेदप्रतिकञ्चुकाः ॥ ५४४ सम्प्रदायविनाशाच्चेद्गीतेस्तदसमर्पणम् । मन्वादिष्वनुमीयेत स्वग्रन्थाकरणं तथा ॥ ५४५ वेदवाक्यार्पणं येषां खण्डशो नाभिसंमतम् । स्वग्रन्थकरणं तेषां वेदस्थाने कथं भवेत् ॥ ५४६ वेदादेव च विज्ञातो वेदार्थः साधयेत्फलम् । नान्यस्मात्पुरुषग्रन्थान्मन्त्राभासात्स्मृतो यथा ॥ ५४७ कृता मन्वादिभिर्यद्वन्न मन्त्रप्रतिकञ्चुकाः । न ह्येतेन स्मृतं कर्म सिध्यतीत्यवधारणात् ॥ ५४८ तथैव तैर्न कर्तव्या ब्राह्मणप्रतिकञ्चुकाः । नावेदविहितं कर्म फलतीति हि निश्चितम् ॥ ५४९ न चैभिर्भिन्नदेशस्थवेदवाक्यसमुच्चयः । कृत इत्यवगन्तव्यमीदृक् ग्रन्थावधारणात् ॥ ५५० ईदृगेवं क्रमश्चायं वेदग्रन्थ इतीदृशी । युज्यते हि मतिः कर्तुं न मूलान्तरकल्पना ॥ ५५१ तेन प्रयोगशास्त्रत्वं तदैवाऽऽपतितं बलात् । धर्मं प्रत्यप्रमाणत्वं यदैवैषां न संमतम् ॥ ५५२ चोदनालणे धर्मे पूर्वमेवावधारिते । अवेदस्य प्रमाणत्वं ब्राह्मणस्यापि नेष्यते ॥ ५५३ तेनैषां धर्मशास्त्राणां न वा धर्मोपयोगिता । वेदता वाऽभ्युपेतव्या गतिर्नास्त्यान्तरालिकी ॥ ५५४
११ ] प्रथमाध्याये तृतीयपादः ४५९ वदन्ति धर्ममेतानि चोदना गमयन्ति च । अशक्यमीदृशं वक्तुं यावदुक्तप्रमाणकैः ॥ ५५५ उक्तमर्थं परित्यज्य यदनुक्तं प्रतीयते । अनुक्तेन च सोऽप्यर्थ इति किं नोपपद्यते ॥ ५५६ तस्माद्धर्मप्रयोगस्य साक्षादुक्तस्य तत्स्वयम् । प्रमाणं धर्मशास्त्रं स्यान्न वेदव्यवधानवत् १ ॥ ५५७ शाक्यादिनिर्मिते धर्मशास्त्राभासे निराकृते । शाक्यग्रन्थानां वेदवत्स्वातन्त्र्येण प्रमाण्यमितिपक्षः धर्मप्रयोगशास्त्रत्वं तस्य वेदमिहोच्यते ॥ ५५९ येनैवाकृतकत्वं हि वेदस्य प्रतिपाद्यते । न्यायेन तेन शाक्यादिग्रन्थस्यापि भविष्यति ॥ ५५९ बोधकत्वात्प्रमाणत्वं स्वतस्तस्यापि लभ्यते । न च संदिह्यते बुद्धिर्न विपर्य्यते क्वचित् ॥ ५६० अकर्तृकतया नापि कर्तृदोषेण दुष्यति । वेदवद् बुद्धवाक्यादिकर्तृस्मरणवर्जनात् ॥ ५६१ बुद्धवाक्यसमाख्याऽपि प्रवक्तृत्वनिबन्धना । तद्द्रष्टृत्वनिमित्ता वा काठकाङ्गिरसादिवत् ॥ ५६२ यावदेवोदितं किंचिद्वेदप्रामाण्यसिद्धये । तत्सर्वं बुद्धवाक्यानामतिदेशेन गम्यते ॥ ५६३ तेन प्रयोगशास्त्रत्वं यथा वेदस्य संमतम् । तथैव बुद्धशस्त्रादेर्वक्तुं मीमांसकोऽर्हति ॥ इति ॥ ११ ॥ ५६४ न्या० सु०—अनुमानादित्यादिभाष्यात्स्मृत्याचाराणां किं व्यवस्थया प्रामाण्यम- व्यवस्थाया वेति चिन्ता प्रतिभाति । तत्र प्रमाणस्य तावदालोकवत्सर्वपुरुषसाधारण्यान्न व्यवस्थाशङ्कोपपत्तिमती । अथ स्मृत्याचारमूलभूता श्रुतिः किं व्यवस्थितविषया सर्वविषया वेत्यभिप्रायः । तथाऽप्यष्टकादिस्मृतीनां प्रदीपाद्याचाराणां च व्यवस्थितविषयमूलाथशङ्का निर्बीजैव मूलविशेषविषयचिन्तात्वाच्च स्मृत्यधिकरणानन्तरं सङ्गच्छेत । तस्माद्द्होलाका- दयः प्राच्यैरेवेत्यादिभाष्यात्त्वधिकारिव्यवस्था सदसद्भावाचिन्ता । सा च प्रमाणेन लक्षणे- न सङ्गतेत्याशङ्कयाह—देशधर्मानिति । १. व्यवधानतः पु० पाठः ।
सूत्रं योजितं भवति ।
४६० मीमांसादर्शनम् [ सू० व्यवस्थिताव्यवस्थितमूलचिन्तैवेयमधिकारव्यवस्था सदसद्भावप्रयोजनेत्याशयः । सा च देशाचारमात्रविषया, न सर्वस्मृत्याचारविषयेति देशधर्मानित्यत्वेनोक्तम् । पूर्वाधिकरणे च स्वातन्त्र्यनिराकरणेन वेदमूलत्वे दृढीकृते तद्विशेषविचार इति सम्प्रतिशब्देनोक्तम् । तत्र किं कल्पकानामाचाराणां व्यवस्थादर्शनात्तदनुसारेण व्यवस्थितविषयमेव मूलं कल्प्यम्, व्यवस्थितमूलासम्भवाद्वा तदनुसारेणाचाराणां सर्वधर्मता कल्प्येति । कल्प्यकल्पकविप्रतिपत्तेः सन्देहकारणत्वं दर्शयितुमप्रतियोगिभूतवचनव्यक्तिद्वयोपन्यासः । नन्वनुष्ठेयानामेव भाष्यकृतोदाहृतत्वात्कथमविशेषेण देशधर्माणामुदाहरणत्वमुक्तमित्या- शङ्क्योपलक्षणार्थं भाष्यमित्याह-विध्यर्थेति । विषयवचनोऽर्थशब्दः । विधिनिषेधयोरा- चारकल्पकत्वात्के विधिविषयभूताः, के वा निषेधविषयभूता इति कथं ज्ञेयमित्यपेक्षायां क्रियेत्युक्तम् । करणं विधिविषयचिह्नं वर्जनं निषेधविषयचिह्नमित्यर्थः । एतदेव प्रपञ्च- यति-प्राच्या इति । नन्वाचाराणामेवोदाहरणत्वे स्मृतेराचाराणां चेति भाष्ये स्मृतिग्रहणमनर्थकं स्यादित्या- शङ्क्याह-आद्येति । सूत्रान्तराणां देशाचारमात्रविषयत्वात्सर्वसूत्रव्यापिविचारविषय- प्रदर्शनार्थं देशधर्मानित्युक्तमित्याशयः । सूत्रशब्दो धर्मशास्त्रविषयः । सर्वेषां गृह्याणां गौतमादिप्रणीतानां च धर्मशास्त्राणां किं व्यवस्था, उत सर्वगामित्वेत्यर्थः । एतदपि प्रपञ्चयति-पुराणेति । प्रामाण्यस्यानुष्ठातॄनननुष्ठातॄंश्च प्रति साधारण्याद्ग्राह्यत्वाभिप्रायः प्रमाणशब्दः । किं यानि यैः पठ्यन्ते तानि तैरेव ग्राह्याणि, उत सर्वाणि सर्वैरित्यर्थः । इह च नानागृह्यविहितानामपि स्थालीपाकादीनां शाखान्तरन्यायेनाभेदात्तदङ्गानामपि व्यवस्थानुपपत्तेः पूर्वपक्षेऽपि सर्वधर्मत्वावधारणाद्यदेव किञ्चित्पुरुषधर्मत्वेन गृह्यादौ क्व- चिदेव विहितम्, तदेव पूर्वपक्षे व्यवस्थयानुष्ठेयम् । यथा कपालं भगलमिति ब्रूयादिति गौतमीये पूर्वपक्षच्छन्दागतं वाऽनुष्ठेयं सिद्धान्तच्छन्दागतं वा । उपनयनोपाकरणादीनां वेदाध्ययनाङ्गतत्तच्छाखाध्ययनानुग्राहकोपकारभेदसिद्धयर्थतिकर्त्तव्यताभेदापेक्षोपपत्तेः । 'बह्वल्पं वा स्वगृह्योक्तं यस्य कर्म प्रकीर्त्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ।।' इत्यादिवचनानां चात्यन्तानर्थक्यापत्तेः । सिद्धान्तेऽपि सर्वधर्मत्वान्नोदाहरणत्वमनुमा- नादित्यादिपूर्वपक्षसूत्रव्याख्यानार्थं भाष्यं व्यवस्थितविषयमूलप्रतिपादनपरत्वेन व्याचष्टे- किं तावदिति । किं व्यवस्थितमूला इति सन्देहावसरे पूर्वपक्षवचनव्यक्त्युपन्यासात्स्मृत्या- चारमूलानां व्यवस्थितविषयत्वेन व्यवस्था पूर्वपक्षार्थः । पाठग्रहणेनाचारोऽप्युपलक्षितः । पाठादाचाराद्वा व्यवस्थिताद्व्यवस्थितविषयैव श्रुतिः कल्प्येतेत्यर्थः । अनेन चानुमापकस्य कल्पकस्य पाठस्याचारस्य वा व्यावस्थानाद्व्यवस्थितविषयोपपदसंयुक्तं मूलप्रमाणं स्यादिति सूत्रं योजितं भवति । ननु मूलश्रुत्यनुमानेन स्मृत्याचारप्रामाण्यात्तेनैव श्रुत्यनुमानेन हेतुना स्मृत्याचाराः प्रमाणं तेनैव व्यवस्थितविषयश्रुत्यनुमानेन हेतुना व्यवस्थितविषयमेव स्मृत्याचार-
११ ] प्रथमाध्याये तृतीयपादः ४६१ प्रामाण्यमिति वदता भाष्यकृता व्यवस्थितविषयमूलत्वस्यैव स्मृत्याचारप्रामाण्य- व्यवस्थायां हेतुत्वाभिधानाद्विपरीतहेतुमद्भावाभिधानं भाष्यविरुद्धं स्यादित्याशङ्कयाह— अनुमीयतेऽनेनेति । मूलव्यवस्थायाः कल्पकत्वेन हेतुत्वायोगात्प्रामाण्यस्य च सर्वपुरुष- साधारण्य़ाद् व्यवस्थानुपपत्तेर्नैदं व्यवस्थितमूलत्वेन स्मृत्याचाराणां धर्मिधम प्रति व्यवस्थितप्रामाण्यप्रतिपादनपरं भाष्यं किं तु व्यवस्थितत्वाद् व्यवस्थितविषयामेव श्रुतिं प्रति प्रामाण्याप्रतिपादनपरमिति भावः । तेनैवं भाष्यं योज्यम् । अनुमापकत्वेन स्मृत्याचाराणां मूलं प्रति प्रामाण्याच्चैनेवान्यथानुपपत्तिलक्षणेन हेतुना तेषां मूलश्रुतिं प्रति प्रामाण्यम्, तेनैव व्यवस्थितत्वात्तादृशीमेव प्रति प्रामाण्यमिति । कल्पकाभिप्रायो वार्त्तिके लिङ्गशब्दः । व्यवस्थितस्य स्मृत्याचाररूपस्य कल्पकस्य व्यवस्थितविषयश्रुतिकल्पकत्वौचित्यमुक्त्वा दृष्टान्तद्वारेण प्रकृते योजयति—तच्चेति । श्लोकं व्याचष्टे—ग्रन्थेति । न चाहष्टधूमैरिति दृष्टान्ततयोक्तम् । यथा नादृष्टस्य लिङ्गत्वम् । एवमपक्षधर्मस्यापीत्यर्थः । ननु लिङ्गस्य पक्षधर्मत्वेन गमकत्वाद् व्यवस्थितलिङ्गानुमापकत्वं युक्तम् । स्मृत्याचाराणां त्वनुपपत्त्या कल्पकत्वात्तस्याश्च तद्विषयश्रुतिकल्पनमात्रेण परिहारान्नियतकर्तृकल्पना निष्प्रमाणिकेत्या- शङ्कयाह—यथेति । यथाग्निहोत्रादीनां नियतकर्तृकाधानोपनयनमन्त्रानि विद्यासाधन- कत्वान्यथानुपपत्त्या नियतविषयत्वं कल्पितम् । तथात्रापि नियतकर्तृविषयश्रुतिकल्पनं विना नियतकर्तृत्वानुपपत्तेर्नियतकर्तृविषयैव श्रुतिः कल्प्येत्याशयः । दृष्टं च केषांचित्स्मृत्या- चाराणां नियतकर्तृविषयश्रुतिकल्पकत्वमिति प्रतिपादनार्थं यथेति भाष्यं व्याचष्टे— यथा चेति । जातयो ब्राह्मणाद्याः तद्भेदा गोत्रचरणानि । तदवान्तरभेदाः कुलानि । ननु तत्र जात्यादिवाचकोपपदसम्भवाद् व्यवस्था युक्ता, होलाकाद्यनुष्ठातृवाचकोपपदासम्भवान्नेह व्यवस्थायुक्तेत्याशङ्कयाह—यदि स्यादिति । अत्राप्यनुपपत्त्या किंचिदुपपदं कल्प्यमिति भावः । एवं व्यवस्थितविषयोपपदरहितश्रुतिकल्पनमात्रेणानुपपत्तेरपरिहारादुपपदमपि कल्प्य- मित्य़ुक्तम् । इदानीं सर्वविषयश्रुतिकल्पने प्रमाणमेव नास्तीत्याह—अन्यथेति । श्लोकं व्याचष्टे—यस्मादिति । व्यवस्थितविषयस्य नियतश्रुतिकल्पकत्वं दृष्टान्तेनोपपादयति— तथा चेति । अनुमानशब्दस्य स्मृत्याचारविषयत्वम् प्रमाणशब्दस्य च श्रुतिविषयत्वं दर्शयन्पूर्वपक्षम़ुपसंहरति—अनुमानेति । अपि वा सर्वधर्मः स्यात्तन्न्यायत्वाद्विधानस्येति सिद्धान्तसूत्रं व्याचष्टे—अपि चेति । तस्य सर्वधर्मत्वस्योपपादको न्यायो विधेः सर्वविषयत्वं यस्मिन्कल्पे विधाने विधायके वाक्येऽस्ति । तत्तन्न्यायं तस्य भावस्तन्न्यायत्वम् । कथं कल्पके विधायके वाक्ये सर्वविषय- विधित्वन्याय इत्यपेक्षायाम्—शक्तेत्युक्तम् । यस्माच्छक्तमात्रं पुरुषं विधायकवाक्यमधि- करोति, नातिरिक्तं विशेषणमपेक्षते । तस्मात्तस्य सर्वविषयविधित्वं न्याय्यमित्यर्थः । ननु कर्तृविषयज्ञानं विना नैराकाङ्क्ष्याभावात्कथं विधेः प्रवृत्तिरित्याशङ्क्य साध्य- साधनेतिकर्त्तव्यताविशिष्टभावनाविधानमात्रेण भावनाक्षेपादेव तन्निष्पादनसमर्थकर्त्रवगम-
४६२ मीमांसादर्शनम् [ सू० सिद्धेर्नैराकाङ्क्ष्यं वक्तुं यावता विना नैराकाङ्क्ष्यं न भवति तावद्दर्शयति-इहेति । भावना च नाम विशेषणव्यवच्छिन्नो यागादिधात्वर्थविशेषश्च स्वर्गादिफलं च द्रव्यदेवतादि- कारकं च यावद्दृष्टेतिकर्त्तव्यता च । तद्विधायको विधिश्च श्रुतिष्वनुमीयमानास्वनुमीयत इत्यन्वयः। अवश्यमित्येतावतामनुमाने कारणत्वमुक्तम् । तदेव कुत इत्यपेक्षायाम्- कारणानुविधायीत्युक्तम् । कारणात्तथाविधत्वं विना कार्यंतथाविधत्वानुपपत्तिः । कार्यानु- रूपकारणानुमाने हेतुरित्यर्थः । निषेधे कियता नैराकाङ्क्ष्यमित्यपेक्षायामाह-एवमिति । नन्वेतावत्यनुमितेऽपि निरधिकारयोर्विधिनिषेधयोरप्रवृत्तेरधिकारिविशेषोपादानं विना नैराकाङ्क्ष्यं न सम्भवतीत्याशङ्क्याह-तावता चेति । अशक्यविधानानुपपत्तेरसामर्थ्य- व्यावृत्त्यवगमाच्छक्तमात्रस्य कर्तृत्ववधारणात्कर्तृत्वस्य चाधिकारं विनानुपपत्तेः । कर्तृ- विशेषेणैवाधिकारिविशेषावधारणसिद्धेनं होलादौ दिग्देशपरिच्छिन्नस्यैव कर्तृविशेषस्या- धिकार इति नियता प्रतिपत्तिर्लभ्यत इत्यर्थः । ननु शक्तस्यापि विधिमन्त्रेणाप्रवृत्तेस्तस्य चात्राचारकल्पकत्वात्तदानुरूप्येण दिग्देश- परिच्छिन्नकर्तृविशेषविषयत्वप्रतीतेः कथं तन्निराकरणमित्यभिप्रायेण पृच्छति-कुत इति । उत्तरमाह-त्रिधैवेति । स्वर्गकामो यजेतेत्यविशेषश्रवणेऽप्यग्निविद्यारहितत्वेनायोग्यस्य शूद्रादेः कर्तृत्वासम्भवाद्योग्यत्वेन त्रैवर्णिकः कर्ता विशेषरूपेण ज्ञायते 'पतितषण्ढयोर्द्वि- जातिकर्मभ्यो हानिर्'ति निषेधात्तद्वर्जितो प्रतिषिद्धत्वेन ज्ञायते । 'राजा राजसूयेन यजेतेति विशेषापादकत्वे येन क्षत्रियः कर्त्ता विशेषरूपेण ज्ञायते । न त्विहैषां मध्ये किं- चिद्दिग्देशपरिच्छिन्नकर्तृविशेषज्ञानकारणमस्तीत्याशयः । यत्र योग्यत्वस्य तावदविशिष्टत्वान्न दिग्देशपरिच्छिन्नकर्तृविशेषज्ञानकारणतास्तीत्याह-तद्विहेति । श्रावयेच्चतुरो वर्णानित्यादि- श्रुतिपर्यालोचनया शूद्राणामपि वैदिकमन्त्ररहितेषु स्मृत्याचारप्राप्तेषु कर्मस्वधिकारोऽस्तीति, समस्तशब्देनोक्तम् । सर्वधर्मबहिष्कृतत्वस्मृत्या म्लेच्छानां धर्मानधिकारावगादायंवर्त्त- निवासिग्रहणम् । निषेधाधिकारे त्वविशेषात्सर्वाधिकारोपपत्तेराचारकल्प्यत्वाद्द्विधेयस्या चारस्य यावद्भिर्वर्णैराश्रमभिर्म्लेंच्छादिभिर्वानुष्ठानं दृश्यते, तावतां तस्मिन्नाचारेऽधिकार इति प्रतिपादनायानवक्लृप्तिरुक्ता । अप्रतिषिद्धत्वस्य कर्तृविशेषज्ञानकारणत्वं पूर्वोपन्यस्तमप्युपपदनिराकरणाधीननिराकर- णत्वादुपेक्ष्योपपदं तावन्निराकरोति-न त्वत्रेति । यथा चात्र यः कर्तृविशेषः कल्पः, तद्वाचकत्वेन तदनुसारि यदुपपदमनुमीयते, तन्न सम्भवतीत्यर्थं । प्राच्याद्युपपदशङ्का- निराकरणार्थम्-देशश्रेत्युक्तम् । गृह्यादौ त्वाचारशब्दपाठोपलक्षणार्थमङ्गीकृत्य नात्र गृह्य- गौतमीयादौ यथापाठम्, छन्दोगादिकर्तृविशेषानुसाय्युंपपदं किंचिदुपात्तं यत् तन्मूलभूतायां श्रुतावनुमीयेतेति योज्यम् । प्रतिषेध्यवाच्युपपदासम्भवेनाप्रतिषिद्धत्वमपि कर्तृविशेषज्ञान- कारणं नेह सम्भवतीत्याह-येऽपि चेति । आचारानुरूपकर्तृविशेषवाच्युपपदासम्भवं न तस्याकृतिवचनतेति भाष्योक्तेन मार्गेणो- पपादयितुमुपक्रमते-योग्यत्वेनेति । प्रश्नपूर्वकमुपपादयति-कुत इति । श्लोकं
११ ] प्रथमाध्याये तृतीयपादः ४६३ व्याख्यातुमाकृतिवाच्युपपदासम्भवं तावत्प्रपञ्चयति—न तावदिति । व्यक्तिवाच्युपपदा- सम्भवं प्रपञ्चयति—व्यक्तिवाचि त्विति । एतदेवोपपादयति—न हीति । नन्वनन्तभेदा- नामपि पुरुषव्यक्तीनां शुक्लो होतेतिवदेकेन केनचिद् गुणेनैष्टव्यो विविक्ते इतिवद्वा कया- चिदेकया क्रिययोपलक्षितानामेकमभिधानमवकल्पिष्यत इत्याशङ्क्याह—एतेनेति । आचा- रानुरूपविशेषणानुपपत्तिरेतच्छब्देन परामृष्टा । गुणस्य क्रियाया वा विशेषरूपेणानेक- पुरुषव्यक्त्युपलक्षणशक्त्यसम्भवाज्जातिग्रहणम् । एतदेवोपपादयति-न हीति । ननु व्यक्त्या- कृतिवाच्युपपदासम्भवेऽप्यर्थान्तरवाचि किञ्चिद्भविष्यतीत्याशङ्क्याह-व्यक्तीति । उक्तेऽर्थे न तस्याकृतिवचनतेति भाष्यं योजयति — एतदेवेति । विधानपरामर्शिनस्तच्छब्दात्परा षष्ठी विधानविशेषणार्थोपपदव्यतिरेकजनितेत्याशयः। विधानविशेषणार्थस्योपपदस्य व्यक्त्याकृतिवचनत्वासम्भवेनोपपादनार्थं—न चेति भाष्यम् । हि शब्दार्थे च शब्दमङ्गीकृत्य व्याचष्टे—न हीति । व्यक्तिवाचित्वनिराकरणेऽनु- ष्ठातृविशेषाणां यदेकं सामान्यं साधारणमुपलक्षणं न तन्निमित्तानुष्ठातृविशेषाणां वाच- कोऽस्तीति तस्योपलक्षणार्थत्वेन सर्वेषां शब्द इति शब्दव्यतिरेकजनितषष्ठ्यङ्गीकरणेन योज्यम् । नञ्वर्जितपाठान्तरमाकृतिवाच्युपपदासम्भवादयुक्तमाशङ्क्योपन्यासपूर्वकं व्याचष्टे-केषाञ्चि- त्विति । स्वर्गकामो यजेतेत्याख्यातोपात्तभावनावक्षिप्तकर्तृविशेषणोपादेयार्थे स्वर्गकामपदे पुंल्लिङ्गनिर्देशात्स्त्रिया नाधिकार इति पूर्वपक्षं कृत्वा, कर्तृविशेषणत्वेनाप्यन्वितस्य स्वर्ग- कामस्य विध्यन्यथानुपपत्त्या प्राधान्यावगतेरुद्देश्यत्वाद्विशेषणाविवक्षेति षष्ठे सिद्धान्तयितुम्, यथा विशेषणाविवक्षाभिप्रायेण जातिशब्दः प्रयुक्त इति । नैव वयं ब्रूमो जातिवचन इह शब्दोऽधिकारक इति । किं तर्हि । स्वर्गकामशब्देनोभावपि स्त्रीपुंसावधिक्रियेते इत्यविवक्षितं पुंल्लिङ्गमिति भाष्ये वक्ष्यते । तथात्रापि विशेषणाविवक्षाभिप्रायेणाकृतिशब्दः प्रयुक्त इत्यर्थः । अस्मिंश्च पाठे ननु दिग्देशपरिच्छिन्नकर्तृविशेषमात्रवर्त्त्यवान्तरजातिवाच्ये च तर्ह्युपपदं कल्पयिष्यत इत्याशङ्कानिराकरणार्थत्वेन न चेति भाष्यं स्वार्थंचशब्दकं योज्यम् । पूर्वस्मिन्नेव पाठे वैयाकरणगन्धिनो मीमांसकस्य व्याख्यानं दूषयितुमुपन्यस्यति— कश्चित्पुनरिति । शब्दान्तरानाख्येयार्थत्वेनाख्यातशब्दमनेन भाष्येणोपवर्णयन्नेवमाहेत्यन्वयः । किमाहेत्यपेक्षिते भावइति तदीयो ग्रन्थः पठितः । तस्यार्थो भावाख्यो यो लिङ्गाद्यर्थः । सोऽतो लिङ्गादिशब्दजनिताद्भानादन्येन शब्दान्तरजनितेन ज्ञानेनानाख्येयः । तृतीयान्त- मन्यदित्यव्ययम् । भावादिशब्दैराख्यातदर्शनाच्छब्दान्तरानाख्येयत्वानुपपत्तिमाराङ्क्य स्वधर्मेण पूर्वापरीभावेन कालत्रयासंसृष्टत्वेन लिङ्गसम्बन्धायोग्यत्वेन च शब्दान्तरेण— नाख्यायत इत्युक्तम् । यद्वा शब्दान्तरानाख्येयत्वकारणम् —स्वधर्मेणेत्यनेनोक्तम् । शब्दान्तरेण ह्याख्याय- मानोऽर्थः सामान्यरूपेण विशेषरूपेण व्याख्यायते । न च लिङ्गाद्यर्थस्य सामान्यरूपता,
४६४ मीमांसादर्शनम् [ सू० विशेषरूपता वा स्वधर्मः। तस्याप्यपदेश्यत्वेनानुवृत्तिव्यावृत्तिप्रत्ययगोचरत्वाभावादित्याशयः। यथा कारकं क्रियायां व्याप्रीयमाणत्वरूपेण स्वधर्मेण द्वितीयादिविभक्तितोऽन्येन शब्देन नाख्यायते, यथा भावोऽनाख्यातादन्येन शब्देन स्वधर्मेणाख्यायत इति दृष्टान्तार्थः। नन्वा- कृतिवचनत्वस्यात्र न्याय्यत्वाभिधानात्तस्याश्च सत्त्वरूपत्वेन शब्दान्तरैराख्यातुं शक्यत्वान्नेदं भाष्यं शब्दान्तराख्येयत्वनिराकरणसमर्थमित्याशङ्क्येममित्युक्तम्। ननु पूर्वपाठेऽप्युक्तेन प्रकारेणोपपदस्याव्यक्ताकृतिवाचित्व-निराकरणप्रतीतेराख्यातार्थोपवर्णन-सामर्थ्यमित्या - शङ्क्य-सूत्रेत्युक्तम्। सूत्रगतस्याख्यातावाचिनो विधानशब्दस्य यावच्छ्रु तस्य स्वसम्बन्ध्यु- पपदप्रतिपादनानपेक्षस्य व्याख्येयत्वेन प्रकृतत्वान्न तस्य विधायकस्याख्यातस्य कर्तृविशेष- व्यवस्थापकव्यक्ताकृतिवचनता न्याय्या। न चान्योऽपि कश्चिच्छब्द; सर्वेषामनुष्ठातॄणां व्यवस्थापकस्य सामान्यस्य वाचकोऽस्तीति भाष्यार्थभ्रान्तिर्जयित इत्यर्थः। सूत्रगतेन यावच्छ्रु- तेन विधानशब्देन जनिता भ्रान्तिर्यस्येति विग्रहः। नन्वेवमपि विधायकाख्यातार्थस्य विधेः शब्दान्तरानाख्येयत्वं वाच्यं न भावशब्दाभिधेयाया भावनाया इत्याशङ्क्य- विधीत्युक्तम्। ननु भावार्थाधिकरणे 'यज्याद्यर्थंश्चातोऽवगम्यते, भावयेदिति चेति' भाष्ये विध्यर्थाति- रिक्तभावनाब्युत्पादनादभेदाङ्गीकरणं न युक्तमित्याशङ्क्योभयेत्युक्तम्। क्रियारूपत्वे भावनाया धात्वर्थादभेदापत्तेः कार्यरूपता वाच्या। ततश्च कार्यरूपाद्विधेर्विलक्षणं कीदृशं तस्याः स्वरूपमिति निरूपणीयमित्येवंरूपात्पर्यनुयोगः तेन भावार्थाधिकरणसिद्धान्तो नाशित इत्यर्थः। नन्वेवं सति को लिङाद्यर्थ इति पृष्टे कीदृशमुत्तरं देयमित्याशङ्क्याह- तेनेति। आख्यातशब्दो लिङाद्यभिप्रायः। भावनाशब्दो विध्यभिप्रायः तं प्रति कुर्या- च्छब्द उत्तरं दास्यत इत्यन्वयः। यथा कः पिक इति पृष्टे कोकिल इत्युत्तरं दीयते। तथा को विधिरिति पृष्टे कुर्यादित्यत्तरं देयमित्यर्थः। ननु करोतेः क्रियासामान्यवाचि- त्वात् तदर्थस्य शब्दान्तराख्येयत्वं प्रसज्येतेत्यांशङ्क्य लिङादीत्युक्तम्। करोत्युच्चारणं तर्हि किमर्थमित्याशङ्क्य-केवलेत्युक्तम्। ननु धात्वन्तरेण प्रत्ययानुग्रहसिद्धेः करोतिनियमः किमर्थं इत्याशङ्क्य-सर्वेत्युक्तम्। सर्वविधिष्व्यासङ्गार्थः करोतिप्रयोग इत्याशयः। शब्दान्तरानाख्येयत्वे कोपपत्तिरित्यपेक्षायां भाष्योक्तामेवोपपत्तिमाह-सर्वश्चेति। अत्रैव भाष्यं योजयति-तदेव चेति। किलेत्यपारमार्थिकत्वं द्योतितम्। विधानेत्यादिना भाष्यस्य सामर्थ्यं दर्शितम्। व्यक्ताकृतिवचनत्वाभावमुपपादयति-कुर्यादिति। करोतीति कार्यतामात्रं प्रपद्यतेऽ- ङ्गीकरोति, न तु विधेः सामान्यरूपतां, व्यक्तिरूपतां वाऽवगच्छतीत्यर्थः। विध्यतिरिक्त- भावनावादिमते तस्या अपि विधायकाख्यातात्कार्यंतया च प्रतीतेः, सिद्धरूपत्वाभावेनानु- वृत्तिव्यावृत्तिप्रत्ययगोचरत्वासम्भवात्सामान्यविशेषरूपत्वप्रतीत्यसम्भवं दर्शयितुम्-भावनाया वेत्युक्तम्। दूषयति-तदिदमिति। तदिदमन्यार्थमेव सदन्यस्मिन्नेवार्थे योजितमित्यन्वयः। किमर्थमित्यपेक्षायाम् भाष्यकारेत्युक्तम्। अयमेवाभिप्रायः कस्माद्भाष्यकृतोऽभिप्रेतो न
११ ] प्रथमाध्याये तृतीयपादः ४६५ भवतीत्याशङ्क्य — असम्बद्धत्वानुपपत्तिकत्वाभ्यामित्युक्तम् । कथं तर्ह्यत्र योजितमित्य- पेक्षिते—श्रुतीत्युक्तम् । यथा ‘चत्वारि शृङ्गेति मन्त्रो विषुवति होतुर्राज्ये विनियोगादा- दित्यरूपेणाग्नेः स्तुत्यर्थोऽन्यत्रापि विनियोगादादित्यरूपेणाग्नेः स्तुत्यर्थोऽन्यत्रापि विनियोगा- द्यज्ञमात्रस्तुत्यर्थः । वैयाकरणैर्नामाख्यातोपसर्गनिपाताः शब्दा ब्रह्मणः चत्वारि शृङ्गेति । भूतमविष्य- द्वर्त्तमानकालवाचिनः प्रत्यया उदात्तानुदात्तस्वरिता वा स्वरास्त्रयः पादाः । वर्ण-नादा- त्मकौ शब्दौ । प्रकृति-प्रत्ययौ च द्वे शीर्षे । नामिक्यो विभक्तयः सप्त हस्ताः । उरः कण्ठशिराश्च नाभ्युरःकण्ठेषु वा त्रिधा बद्धः स्वर्गादिसाधनकर्मविधानद्वारेण वर्षणाद् वृषभः शब्दात्मकत्वाद्रोरवीति सर्वंगतत्वान्महत्सर्वव्यवहारसाधनत्वादेव मनुष्यैरुच्चार्यमाणत्वा- न्मर्त्यानाविवेशेति नियोगानपेक्षेण श्रुतिसामान्यमात्रेण शब्दप्रतिपादनरूपेऽर्थे योजित इति दृष्टान्तार्थः । कथं पूर्वोक्तस्यार्थस्य भाष्यकारानभिप्रेतत्वमित्याशङ्कयाह — देशेति । परव्याख्या- नस्यासम्बद्धत्वम्, निरुपपत्तिकत्वं च पूर्वोक्तमुपपादयितुं विवृणोति—यदि त्विति । न प्रकृतेन सूत्रव्याख्यानेन सम्बध्यते । नापि सर्वधर्मत्वोपपत्ति प्रत्युपयुज्यत इत्यसम्बद्धत्वाद् द्वेधा व्याख्यातम् । तत्रासम्बद्धत्वं तावदुपपादयति—तथा हीति । एतदेव विवृणोति—यदि नामेति । निरुपपत्तिकत्वं त्वन्यानाख्येयार्थत्वमुक्त्वा, स्वयमेव च लिङाद्यर्थस्य पर्यायान्तरैराख्या- नात्स्पष्टीकृतमित्याह—अनाख्येयत्वमिति । एतदेव विवृणोति — विधीति । विध्युपदेश- शब्दयोः पर्यायत्वेऽपि कर्त्तव्यताशब्दस्य विधिविषयत्वरूपाभिधायित्वाद्भावनाशब्दस्य च पुंव्यापाराभिधायित्वादत्यन्ताविद्यमानपर्यायत्वारोपाभिधानमतीव स्थापितमित्युपहासः । ननु नानेन ग्रन्थेन भावनाख्यस्य विध्याख्यातार्थस्य व्यक्त्याकृतिरूपेणानभिधानात्सर्वं- धर्मत्वं साध्यते, किं त्वनेन दृष्टान्तेन कर्तुराख्यातार्थत्वेन व्यक्त्याकृतिरूपेणानभिधानाद्व्य- क्त्याकृतिद्वारकर्तृव्यवस्थाशङ्कानिरासेन सर्वधर्मत्वसिद्धयर्थमन्यानाख्येयत्वोपपत्तिमिशेण व्यक्त्याकृतिवाचित्वदिनिराकरणं नासम्बद्धमित्याशङ्कयाह — यद्यपि तावदिति । व्यक्त्या- कृतिरूपेण कर्तुराख्यातवाच्यत्वेऽपि कृदन्तयजमानपदोपात्तकर्तृवदुपपदं विना व्यवस्था- नुपपत्तेः । कर्त्रधिकरणे चाख्यातवाचित्वनिराकरणात्कर्तृव्यक्त्याकृतिवाचित्वनिराकरण- मनुपयोगीति भावः । ननु माभूत कर्तृव्यक्त्याकृतिवाचित्वस्य व्यवस्थानापादकत्वान्निरासः किं तु स्वरूपमात्रा- भिधाने विशेषाभावेन सर्वधर्मत्वसिद्धयर्थमित्याशङ्कयाह—यदि चेति । ननु राजसूयादीना- मप्याख्यातवशात्सर्वधर्मत्वं प्राप्नोति च किन्तूपपदं विशेषणापोदितम् । इह त्वपवादा- भावात्तत्सिद्धिरित्याशङ्कते—अथेति । एवमप्यपवादनिरासं विना सर्वधर्मत्वासिद्धेराख्या- तार्थनिरूपणं व्यर्थमिति परिहरति—एवं तत्रापीति । अतोऽस्मदीयमेव पाठद्वये व्याख्यानं युक्तमित्युपसंहरति —तच्चेति । ३०
४६६ मीमांसादर्शनम् [ सू० उत्तरसूत्रसङ्गत्यर्थमपि उपपदनिरासार्थंतयैवायं ग्रन्थो व्याख्येय इत्याह—तद्यथा चेति । तन्न्यायत्वादिति सूत्रावयवव्याख्यानाथं तस्मादिति भाष्यम् । सर्वधर्मत्वस्यैव साध्य- त्वाद्धेतुत्वानुपपत्तेरयुक्तमाशङ्क्य सर्वधर्मत्वसाधकसर्वाधिकारन्यायत्वादित्येवं व्याचक्षाणः सर्वधर्मत्वप्रतिज्ञायां योजयति--तस्मादिति ॥ ११ ॥ मा० प्र०—कल्पसूत्र आदि स्वतः प्रमाण है या नहीं अर्थात् ये भी अपौरुषेय हैं, या नहीं ? यज्ञ की पद्धतियाँ यज्ञों के प्रयोग-कौशल बोधक कल्पित करने वाले शास्त्र कल्प कहे जाते हैं। संज्ञा और परिभाषा के द्वारा यज्ञों के प्रयोग के सूचक-सूत्र कहे जाते हैं,—कल्प और सूत्र कल्पसूत्र है । यह सत्य है कि श्रौतसूत्र, गृह्यसूत्र और धर्मसूत्र को कल्पसूत्र कहा जाता है, किन्तु, प्रकृत में श्रौतसूत्र के अर्थ में कल्पसूत्र कहा गया है। जिस ग्रन्थ में प्रत्यक्ष वेद विधि से बोधित यज्ञ आदि कर्मों की परिपाटी उपदिष्ट होती है—उसको श्रौतसूत्र कहा जाता है । जिसमें अप्रत्यक्ष वेदविधि बोधित अर्थात् वेदमन्त्र आदि के द्वारा अनुमित विधियों के द्वारा बोधित संस्कार आदि कर्मों के प्रयोगों का विवरण रहता है—उसको गृह्यसूत्र कहा जाता है, इससे भिन्न क्रियाप्रतिपादक शास्त्र धर्मसूत्र है। इसी विवरण के अनुसार श्रौतसूत्रों में कथित कर्मों को श्रौत कर्म और इनसे भिन्न कर्मों को स्मार्त्त कर्म कहा जाता है। कात्यायन, आश्वलायन, शट्चायन आदि कल्पसूत्र हैं, इनका वेद के समान ही स्वतन्त्र रूप में प्रमाण है, क्योंकि, वेद को देखे विना ही याज्ञिक केवल कल्पसूत्रों की सहायता से यज्ञादि कर्मों का सम्पादन करते हैं। किन्तु, कल्पसूत्रों को छोड़कर केवल मन्त्र एवं ब्राह्मण के द्वारा यज्ञकर्मों का सम्पादन नहीं किया जा सकता है। 'षडङ्गमेके' इस प्रसिद्धि के अनुसार कल्पसूत्र को वेद कहा जाता है। इसीलिए कल्पसूत्र प्रयोग शास्त्र मी वेद के समान अपौरुषेय एवं अपौरुषेय होने से स्वतन्त्ररूप में प्रमाण है । 'प्रयोगशास्त्रम्'—कल्पसूत्र आदि यज्ञप्रयोग शास्त्र स्वतन्त्र रूप में ही प्रमाण अर्थात् अपौरुषेय हैं, 'इति चेत्'—यदि यह कहा जाय । कतिपय व्यक्ति पूर्वपक्ष कर सकते हैं कि कल्पसूत्र आदि यज्ञप्रयोग शास्त्र अपौरुषेय हैं। यह पूर्वपक्ष है ॥ ११ ॥ नासन्नियमात् १ ॥ १२ ॥ सि० शा० भा०—नैतदेवम् । असन्नियमात् । नैतत्सम्यङ्निबन्धनम् । स्वराभा- वात् ॥ १२ ॥ सिद्धान्तः ॥ १. क. संनियमादिति ।
१२ ] प्रथमाध्याये तृतीयपादः ४६७ भा० वि०—तत्र वेदव्यतिरिक्तविद्यास्थानानामनपेक्षत्वेन वेदत्वं वेदवत् प्रामाण्यं वा न युक्तमिति नञर्थमाह—नैतदेवमिति । तत्र हेतुमवतार्य व्याचष्टे— असन्नियमादित्यादिना । संशब्दस्सम्यगर्थः नियमशब्दो निबन्धनार्थ इत्यर्थः । असम्यङ्निबन्धत्वे हेतुमाह—स्वराभावादिति । स्वराभाव उपलक्षणार्थः । अलौकिकानां चतुष्षष्टिप्रपाठकादिनियतस्वरविशेषवत्, पदानाम्, तदर्थविशेषाणाम्, प्रयोजनविशेषाणां च कल्पादिष्वभावादित्यर्थः । न च प्रयोगशास्त्रत्वेनापौरुषेयतया वेदत्वं वेदरूपाभावाच्च वेदविहितार्थानुवादित्वोपपत्तेश्च प्रयोगशास्त्रत्वासम्प्रतिपत्तेः इति भावः ॥ १२ ॥ त० वा०—एवं प्राप्ते वदामोऽत्र तत्रासन्नियमादिति¹ । असन्निबन्धनं ह्येतत्पूर्वोक्तं सर्वमीक्ष्यते ॥ ५६५ इहैका परमार्थेन बुद्धिरर्थेषु जायते । अन्या भ्रान्तिरजाताऽपि त्वन्या जाताऽपि दुष्यति ५६६ परेण सह केषांचिद्वाकोवाक्यानि जल्पताम् । उक्तयः प्रातिभासिक्यो जायन्ते परवाक्यतः ॥ ५६७ स्वसंवेद्यं च सिद्धान्तमात्मीयमपि जानताम् । छायां तथाऽपि रक्षन्तो जल्पन्ति प्रतिशब्दकैः ॥ ५६८ यथा मीमांसकत्रस्ताः शाक्यवैशेषिकादयः । नित्य एवाऽऽगमोऽस्माकमित्याहुः शून्यचेतनम् ॥ ५६९ प्रद्वेषाद्वेदपूर्वत्वमनिच्छन्त कथंचन । तन्मात्रेऽपि च भूयिष्ठामिच्छन्तः सत्यवादिताम् ॥ ५७० भूयसां वेदबाह्यत्वाद् बुद्धादिवचसाममी । अहिंसाद्यप्यतत्पूर्वमित्याहुस्तर्कमानिनः ॥ ५७१ ततश्च पौरुषेयत्वादप्रामाण्यमतीन्द्रिये । प्रागुक्तैर्वेदनित्यत्वं वागाभासैर्विमोह्यते ॥ ५७२ यादृशतादृशमीमांसकैरप्यतीन्द्रियविषयपुरुषवचनप्रामाण्यनिराकरणादपौरुषेय- त्वाध्यवसायनिराकृतकारणदोषशङ्कनिरपवादप्रामाण्यसिद्धि प्रतिहन्तुमशक्यां मन्यमाना निरुत्तरीभूता बालानुकरणवाक्यसदृशैः स्ववाक्यैर्व्यवलिख्यमानहृदयाः सन्तोऽपि प्रक्षीणकुहेतुवचनजालाः कन्यावरणार्थिगतमूर्खवरगोत्रप्रश्नोत्तरवत् । १. ब. न असन्नियमात् ।
४६८ मीमांसादर्शनम् [ सू० यदेव भवतां गोत्रं तदस्माकमपीतिवत् । आहुः स्वागमनित्यत्वं परवाक्यानुकारिणः ॥ ५७३ अस्मदीयमिदं वाक्यं भवतामिति चोदिताः । जल्पन्त्यस्माकमेवैतच्छ्रुत्वा मीमांसकैर्हतम् ॥ ५७४ त्यक्तलज्जं ब्रुवाणो हि वाचोयुक्तिमनर्थिकाम् । कुर्वन् परातिसंधानमश्रान्तः कोऽवसीदति ॥ ५७५ तत्र शाक्यैः प्रसिद्धाऽपि सर्वक्षणिकवादिता । त्यज्यते वेदसिद्धान्ताज्जल्पद्भिर्नित्यमागमम् ॥ ५७६ धर्मस्तेनोपदिष्टोऽयमनित्यं सर्वसंस्कृतम् । क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया ॥ ५७७ बुद्धिबोध्यं त्रयादन्यत्संस्कृते क्षणिकं च तत् । तथा शब्देऽपि बुद्धेर्नियमान्नाभिव्यक्तिर्द्वेधाऽपि दोषादित्येवमादिभिः सर्वदा पदार्थसंबन्धानित्यत्वप्रतिपादनात्तद्विपरीतमागमनित्यत्वमभ्युपगम्यमानं लोकोप- हासास्पदमात्रमेव भवेत् । तथा हि—यस्तन्तूननुपादाय तुरीमात्रपरिग्रहात् । पटं कर्तुं समीहेत स हन्याद् व्योम मुष्टिभिः ॥ ५७८ यावदागमनित्यत्ववेश्मदारूपकल्पिते । हेत्वाभासाग्निानिर्दग्धे तस्मिंस्तद्द्रेश्म¹ दुष्करम् ॥ ५७९ व्यवहारनित्यताशब्दश्च क्रियानित्यत्वपर्यायः। तद्यस्य शब्दार्थसंबन्धानाम- नित्यत्वम्, तस्य तदाश्रयव्यवहारनित्यत्वं किमाधारं भविष्यतीत्यतिदुःसंपादम्। न च शब्दार्थसंबन्धकूटस्थत्वमनिच्छताम् । नित्यता व्यवहारस्य निराधाराऽवकल्पते ॥ ५८० शब्दादिषु विनश्यत्सु व्यवहारः क्व वर्तताम् । स्थितैषा धर्मतेत्येतदर्थशून्यमतो वचः ॥ ५८१ एषेत्यपि न निर्देष्टुं शक्या क्षणविनाशिनी । किमुत स्थितया साकं एषेत्यस्यैकवाक्यता ॥ ५८२ तेनाऽनित्यशब्दवादिनामागमनित्यत्वानुपपत्तेरतीन्द्रियविषयस्य च वाक्यस्य प्रयोगशास्त्रत्वाभावान्नासन्नियमादित्युच्यते । असाधुशब्दभूयिष्ठाः शाक्यजैनागमादयः । असन्निबन्धनत्वाच्च शास्त्रत्वं न प्रतीयते ॥ ५८३ १. तस्मिन्तद्वेश्म ।
१२ ] प्रथमाध्याये तृतीयपादः ४६९ मागधदाक्षिणात्यतदपभ्रंशप्रायासाधुशब्दनिबन्धना हि ते। मम१ वि हि भिक्खवे कम्मवच्चइ वसी सवं। तथा२ उक्खित्ते लोडम्मि उक्खेवे अत्थि कारणम्। पडणे णत्थि कारणम्। अत्युम्भवॆ३ कारणं इमे संखंडा धम्मा संभवन्ति सकारणा अकारणा विणस्संति। उप्पत्तिमणुकारणमित्येवमादयः। ततश्चासत्यशब्देषु कुतस्तेष्वर्थसत्यता। दृष्टापभ्रष्टरूपेषु कथं वा स्यादनादिता ॥ ५८४ वेदेषु हि तावदेव पदवाक्यसंघातात्मकत्त्वादिहेत्वाभासैः कृतकत्वभ्रान्तिर्भवति। या तद्विरवस्थानाद्वेदरूपं न दृश्यते। ऋक्सामादिस्वरूपे तु दृष्टे भ्रान्तिर्निवर्तते४ ॥ ५८५ आदिमात्रमपि श्रुत्वा वेदानां पौरुषेयता। न शक्याऽध्यवसातुं हि मनागपि सचेतनैः ॥ ५८६ दृष्टार्थव्यवहारेषु वाक्यैर्लोकानुसारिभिः। पदैश्च तद्विधैरेव नराः काव्यानि कुर्वते ॥ ५८७ प्रपाठकचतुःषष्टिनियतस्वरकैः पदैः। लोकेष्वप्यश्रुतप्रायैरृग्वेदं क करिष्यति ॥ ५८८ ऋग्वेदस्यापौरुषेयत्वे युक्तिः अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातममित्येतन्नृवचः कथम् ॥ ५८९ किमालोच्य क्व वा दृष्ट्वा वाक्प्रतिच्छन्दमीदृशम्। रचयेत्पुरुषो वाक्यं किं चोद्दिश्य प्रयोजनम् ॥ ५९० अग्नेः पुरोहितत्वं च क्व दृष्टं येन कीर्त्यते। ईळेशब्दप्रयोगश्च क्व दृष्टस्तोत्रगोचरः ॥ ५९१ देवत्वं चास्य यज्ञस्य विहितं क्वोपलक्षितम्। विधिनैव हि देवत्वं प्रतिकर्मविधार्यते ॥ ५९२ न जात्या देवतात्वं हि क्वचिदस्ति व्यवस्थितम्।' होतृत्वमपि यत्तस्य देवताह्वानहेतुकम् ॥ ५९३ १. ममापि भिक्षवः कर्म वर्तत एवाऽशरीरपातात्। २. तथा, उत्क्षिप्ते लोष्टे उत्क्षेपेऽस्ति कारणं पतने नास्ति कारणम्। ३. अस्त्युद्भवे कारणमिमे संस्कृता धर्माः संभवन्ति सकारणा अकारणा विनश्यन्ति। उत्पत्तिमनुकारणमपेक्षन्ते। ४. दृष्टेभ्रान्ति।
४७० मीमांसादर्शनम् [ सू० रत्नधायितमत्वं च तन्नरैर्ज्ञायते कथम् । अविज्ञातगुणानां च कल्पते स्तवनं न तु ॥ ५९४ स्वतन्त्रो वेद एवैतत्केवलो वक्तुमर्हति । यजुर्वेदस्यापौरुषेयत्वे हेतुः इषे त्वेत्ययमप्यर्थः पुरुषेणोच्यतां कथम् ॥ ५९५ शाखाच्छेदोपयोगश्च पुंभिरुत्प्रेक्ष्यतां कुतः । एवमूर्जेत्ययं मन्त्रः केन शाखानुमार्जने ॥ ५९६ वक्तुं शक्यो नियोक्तुं वा बुद्धिपूर्वककारिणाम् । वायवः स्थेत्ययं मन्त्रो वत्सापाकरणं प्रति ॥ ५२७ एकशो विनियोक्तव्य इति कः कथयिष्यति । वायुशब्देन बहुवचनान्तेन मातुर्वियोज्यमान एकैको वत्सोऽभिधीयत इति, नैतद् बुद्धिपूर्वकारिणा चिन्तितुं शक्यम् । सामवेदेष्वियं युक्तिः सामवेदे यदाग्नाइप्रभृतीनां प्रयुज्यते । रूपं तत्रापि पौंस्त्वे नाभिप्रायोऽस्ति कश्चन ॥ ५९८ को नाम बुद्धिपूर्वकारी पुरुषोऽर्थाभिधानपराणामृगक्षराणां लोकव्याकरणा- दिष्वनवगतपूर्वमग्न इत्यस्य पदस्याकारमाकारेण प्लुतेन विकुर्यात् । तथा वीतय इत्यस्मिन्नोकारस्यापि विक्रियाम् । तशब्दस्य च तो शब्दं ये शब्दस्यापि रूपताम् ॥ ५९९ को मूढो बुद्धिपूर्वो वा नियमात्कल्पयिष्यति । तेन वेदस्वतन्त्रत्वं रूपादेवावगम्यते ॥ ६०० किंचिदेव तु तद्वाक्यं सदृशं लौकिकेन यत् । तत्रापि च्छान्दसी मुद्रा दृश्यते सूक्ष्मदर्शिभिः ॥ ६०१ एवं च यदाऽध्येतारोऽध्यापयितारः, पार्श्वस्था वा वेद-पद-वाक्य-तदर्थरूपा- प्यालोचयन्ति, तदा स्वसंवेद्यमेवापौरुषेयत्वमध्यवस्यन्ति । तावता तु बाह्यतार्कि- काणां प्रतीतिभावना नोत्पद्यत इति, तत्तत्प्रतिपादनक्षमवेदोत्थापितन्यायोपनिब- न्धनान्मीमांसकैः केवलं यश एव पीतम् । शाक्यादिग्रन्थेषु पुनर्यदपि किंचित्साधुशब्दाभिप्रायेणाविनष्टबुद्ध्या प्रयुक्तम्, तत्रापि प्रज्ञसि-विज्ञसि-पश्यतातिष्ठतादिप्रायप्रयोगात्किंचिदेवाविप्लुतं लभ्यते । किमुत यानि प्रसिद्धपभ्रष्टदेशभाषाभ्योऽप्यपभ्रष्टतराणि भिक्खवे इत्येव- मादीनि द्वितीयाबहुवचनस्थाने ह्येकारा तं प्राकृतं पदं दृष्टम्, न प्रथमाबहुवचने
१२ ] प्रथमाध्याये तृतीयपादः ४७१ सम्बोधनेऽपि । संस्कृतशब्दस्थाने च ककारद्वयसंयोगः, अनुस्वारलोपः, ऋवर्णा- कारापत्तिमात्रमेव प्राकृतापभ्रंशेषु दृष्टम्, न डकारापत्तिरपि । सोऽयं संस्कृता धर्मा इत्यस्य सर्वकालं स्वयमेव प्रतिषिद्धोऽपि विनाशः कृत इत्यसाधुशब्दनिबन्धन- त्वादित्यन्तेन हेतुना वेदत्वाकृतकशास्त्रान्तरशङ्कानिवृत्तिः । यासांश्चाकृतको विनष्टः शब्दराशिः, तस्य व्याकरणमेवैकमुपलक्षणम्, तदुपलक्षितरूपाणि च । असन्नियमादित्यस्य त्रेधा व्याख्यानम् वेदे यथोपलभ्यन्ते नैवं शाक्यादिभाषिते । प्रयोगनियमाभवादतोऽप्यस्य न शास्त्रता ॥ ६०२ असन्नियमादिति१ च व्याकरणोक्तनियमाभावादित्यर्थः । क्षणिकत्वनिराकृतनित्यसिद्धानित्यत्वात्यन्ताविद्यमानग्रन्थनियमाभ्युपगमाभि- प्रायेण वाऽसन्नियमादित्युक्तम्२ । असतां वा क्षणभङ्गशून्यवादानानात्मकत्वादीनाम्, असद्धेतुभिर्वा प्रतिपादननि- यमात्तदेककर्तृकधर्मवचनानामप्यप्रामाण्यम् । कर्तृस्मरणदार्ढ्याच्च नैषामकृतता मता । तेनाकृतकगम्येऽर्थे स्वातन्त्र्यान्न प्रमाणता ॥ ६०३ एवं समस्तवेदाङ्गधर्मशास्त्रेष्वपीदृशात् । कर्तृस्मृतिदृढिम्नः स्यान्न स्वातन्त्र्येण शास्त्रता ॥ ६०४ एतेन कल्पसूत्राणां स्वातन्त्र्येण प्रामाण्यनिरासः अनेन कल्पसूत्राणां प्रत्याख्याता स्वतन्त्रता । कर्तृस्मृत्या दृढं ज्ञाता तेषामप्यसतां क्रिया ॥ ६०५ येन न्यायेन वेदानां साधिताऽनादिता पुरा । दृढकर्तृस्मृतेस्तस्य कल्पसूत्रेषु बाधनम् ॥ ६०६ यथैव हि कल्पसूत्रग्रन्थानितराङ्गस्मृतिनिबन्धनानि चाध्येतृध्यापयितारः स्मरन्ति, तथाऽऽश्वलायनबौधायनापस्तम्बकात्यायनप्रभृतीन्३ ग्रन्थकारत्वेन । ततश्च प्रागवस्थायामसतामेव बन्धनात् । कुतः प्रयोगशास्त्रत्वं वेदवद्वेदतैव वा ॥ ६०७ न चैषां समाख्यामात्रबलादेव कर्तृत्वमुच्यते । येन आख्यां प्रवचनादि (१-१-२९) त्युत्तरमुच्यते । पुरुषपरम्परयैव हि स्मृतेषु कर्तृषु समाख्याऽभ्युच्चयहेतुत्वेन ज्ञायते । यथा च कठादिचरणैरनादिभिः प्रोच्यमानानामनादिवेदशाखानामनादिसमाख्या- १ क. असंनियमा । २ क. संनियमा । ३ अ. कात्याय ।
४७२ मीमांसादर्शनम् [ सू० संभवो नैवं नित्यावस्थितमाशकादिगोत्रचरणप्रवचननिमित्तसमाख्योपपत्तिः। माशकबोधायनापस्तम्बादिशब्दा ह्यादिमदेकद्रव्योपदेशिन इति, न तेभ्यः प्रकृति- भूतेभ्योऽनादिग्रन्थविषयसमाख्याव्युत्पादनसंभवः । अतश्च माशकादिसमाख्याऽप्यविद्यमानग्रन्थनियमनादेव प्रवृत्तेत्यपि हेत्वर्थ- योजना। वेदरूपनियमाविद्यमानत्वादिति वाऽत्र हेतुव्याख्या । कात्स्नं तु वेदाङ्ग- नीत्यनध्यायनियमाभावादिति वा योज्यम् । यत्तु भाष्यकारेण स्वराभावादित्यन्ताथं १ व्याख्यानं कृतम् । तन्मन्त्रेष्वप्यवेदत्वं कल्पाधीतेषु साधयेत् । तथा गृह्योपदिष्टेषु च्छान्दोग्यब्राह्मणेषु च ॥ ६०८ ब्राह्मणानि हि यान्यष्टौ सरहस्यान्यधीयते । छन्दोगास्तेषु सर्वेषु न कश्चिन्नियतस्वरः ॥ ६०९ तेन तेष्वप्यवेदत्वं स्वराभावात्प्रसज्यते । तस्मादुक्तस्वसंवेद्यरूपाभावोऽत्र कारणम् ॥ ६१० स्वरोऽपि त्वस्ति रूपांशे न त्वसावेव केवलः ॥ १२ ॥ न्या० सु०-एतत्सूत्रावतारणार्थमेत्यनुभाषणभाष्यं व्याचष्टे—यस्त्विति । आर्षेय- पञ्चार्षेयगोत्रव्यवस्थया शिखाकल्पव्यवस्थादर्शनाद् गोत्रविशेषवाच्युपपदानुमानेन कर्तृविशेष- विनियोगः स्यादित्येवं सूत्रव्याख्यानाथं गोत्रेति भाष्यं व्याचष्टे—तत्रेति । श्लोकं व्याचष्टे—यथैवेति । वसिष्ठादिगोत्रस्यान्यतो नाराशंसो । व्यतिरेकः तनूनपादित्युप- लक्षणतेत्यर्थः ॥ १२ ॥ भाव० प्र०- प्रस्तुत पूर्वपक्ष के उत्तर में कहा गया है कि कल्पसूत्र आदि अपौरुषेय नहीं है, क्योंकि, कात्यायन आदि महर्षियों ने इसकी रचना की है, इसीलिए कात्याय- नीय, शाट्यायनीय, आश्वलायनीय आदि संज्ञा सार्थक होती है। कात्यायन के द्वारा प्रणीत इस अर्थ में तद्धित 'छ' प्रत्यय के द्वारा ये पद सिद्ध होते हैं। 'आख्याप्रवचनात्' (जै० सू० १।१।३०) इस सूत्र में मीमांसकों ने जिस प्रकार काठक कालापक आदि संज्ञा को प्रवचन मूलक कहा है। उसी प्रकार यहाँ भी नहीं कहा जा सकता है, क्योंकि, वेद के रचयिता पुरुष अस्मर्यमाण होने से काठक आदि स्थलों में प्रवचन ही संज्ञा का कारण है, किन्तु इस स्थल में कात्यायन, शाटघायन आदि महर्षियों के रचयिता होने से उसी रूप में शिष्य का स्मरण करते हैं, इसलिए वेद के समान प्रवचन समाख्या को = संज्ञा नहीं कहा जा सकता है, भाष्यकार ने कहा है वेद में स्वर पाठ लक्षित होता है, किन्तु कल्पसूत्र आदि में स्वर का नियम नहीं है, अतः वह अपौरुषेय नहीं है। वार्तिककार ने कहा है— १ क. दित्यानियमार्थम् ।
१३ ] प्रथमाध्याये तृतीयपादः ४७३ भाष्यकार का यह कथन सर्वथा समीचीन नहीं है, क्योंकि सामवेद में अनेक स्थलों पर स्वर नियम नहीं है। वार्तिककार ने यह भी कहा है कि जिन युक्तियों के आधार पर वेद को अपौरुषेय कहा गया है, शाक्य आदि की स्मृतियाँ उन युक्तियों के आधार पर अपौरुषेय नहीं कही जा सकती हैं, किन्तु दृढ़तापूर्वक कर्ता का स्मरण रहने से उनका पौरुषेयत्व है, अतः अयोग्य धर्माधर्म में विषय में उनका अप्रामाण्य ही सिद्ध होता है । न=नहीं, कल्पसूत्र अपौरुषेय नहीं है । असन्नियमात्=असत् का अर्थात् पूर्व में अविद्य- मान ग्रन्थ का नियमात् निर्माण या रचना होने से । अथवा असत् अर्थात् पूर्व में अविद्यमान अर्थात् परर्वतिकालीन कात्यायन आदि महर्षियों से नियमित अर्थात् रचित होने से । कल्पसूत्र आदि प्रयोगशास्त्र अपौरुषेय नहीं हैं, क्योंकि, वह रचना से पूर्व में नहीं थे, वरन् कात्यायन आदि महर्षियों ने इनकी बाद में रचना की है। यह सिद्धान्त पक्ष है ॥ १२ ॥ अवाक्यशेषाच्च¹ ॥ १३ ॥ शा० भा०—ऋत्विजो वृणीते । वृता यजन्ति । देवयजनमध्यवस्यन्तीति । नात्र विधिर्गम्यते, वर्तमानकालप्रत्ययनिर्देशात् । न चात्र वाक्यशेषः स्ताव- कोऽस्ति²। तस्मादप्रमाणम् । यश्चाऽऽदर उक्तः स नान्तरीयकत्वाद्वेदवाक्यमिश्र- समाम्नानात् । यत्तु श्रुतिरिति³, नैतत् । अर्थवादत्वात् । कथमर्थवादः ? विध्यन्तरं ह्यस्ति, आग्नेयोऽष्टाकपाल इति । अत्राऽऽचार्यो वेदोऽभिप्रेतः । आचिनोत्यस्य बुद्धिमिति ⁴यद्वाऽऽचार्यवचनं प्रमाणं तदपेक्षम् । कतरत्तत् ? यत् प्रमाणगम्यम् ॥ १३ ॥ इति सिद्धान्तः । भा० वि०—इति सूत्रं कल्पाद्यवेदत्वे हेत्वन्तरपरं व्याख्यातुं त्वप्रत्ययपर- मध्याहृत्य च शब्दं चावतारयति—अवाक्यशेषत्वाच्चेति । तत्र विधानार्था- च्छिषेर्शिष्यते विधीयतेऽनेनेत्यस्मिन्नर्थे व्युत्पत्तेर्विधायकवचनं शेषशब्दमङ्गीकृत्या- शेषवाक्यत्वादविधायकवाक्यत्वादिति व्याचष्टे—ऋत्विजो वृणीत इत्यादिना । वर्तमानकालप्रत्ययो लट्प्रत्ययः तेन निर्देशादित्यर्थः । ननु वर्तमानापदेशस्यापि समिधो यजतीत्यादेः विधित्वाङ्गीकरणान्न तेन विध्यभावश्शक्यो वक्तुमित्याशङ्क्य स्तावकवाक्यशेषान्वयान्यथानुपत्त्या तत्र विधिपरत्वं कल्प्यते न तु कल्पादिषु वाक्यशेषोऽस्तीत्येवं परतयाप्येतदेव सूत्रं व्याचष्टे—न चात्रेति । यस्माद्वेदरूपाभावादवेदत्वम्, तस्मान्न स्वयं प्रमाणम्, किन्तु वेदमूलतयेत्युपसंहरति—तस्मादिति । मन्त्रब्राह्मणैस्तुल्यादरत्वं निरपेक्ष- १ अ. शेषत्वाच्च । २ अ. कस्तस्मादप्रमाणं । ३ अ. रिति नार्थवादत्वात् । ४. यद्वेति-यल्लोकेऽध्यापयितृवचनं सिद्धप्रमाणम्, तदपेक्षं श्रुतिवाक्यं तदनुवादकमित्यर्थः ।
४७४ मीमांसादर्शनम् [ सू० प्रामाण्यकारणं अनूद्य दूषयति—यच्चेत्यादिना । वेदवाक्यमिश्राणां कल्पसूत्राणां समाम्नानात् इति नान्तरीयकतवमुपपादिकम्, आचार्यवचनं प्रमाणमिति श्रुतिर्न मशकादिवचनप्रामाण्यपरा किन्त्वन्यपरेत्याह—यत्त्वित्यादिना । विध्यन्वयं विना कथमर्थवादतेति पृच्छति—कथमिति । उत्तरम्—विध्यन्तरं हीति । तथापि स्वार्थाभिधानद्वारत्वात् स्तुतेराचार्यवचनप्रामाण्यसिद्धिरित्याशङ्क्य श्रुतिसामान्यमात्रत्वान्नैवमित्याह—अत्रेति । अस्याधिकारिणः व्युत्पन्नोऽव्युत्प- न्नोऽपि चायमाचार्यशब्दो व्याख्यात्राध्यापयितृविषयः, न कल्पसूत्रकारविषय इति, परिहारान्तरमाह—यद्वेति । यत्प्रमाणभूतमार्यवचनं तदपेक्ष्येयं श्रुतिरिति योजना । पृच्छति—कतरदिति । आचार्यवचनं हि सर्वं प्रमाणमिति भावः । व्याख्यात्रादिवचनमपि संभवन्मूलप्रमाणकमेव सत्यं न सर्वम् इत्युत्तरमाह— यत्प्रमाणमिति । तदनेनाचार्यवचनं कथं नामयं श्रोता आद्रियेत ? इत्येवमर्थेयं श्रुतिरिति व्याख्यातम् ॥ १३ ॥ त० वा०—अतश्च वाक्यशेषोऽपि तस्मिन्नेवोपयुज्यते । बहवो वाक्यशेषा हि येषां लोकेष्वसंभवः ॥ ६११ अबुद्धिपूर्वतासिद्धिस्तेन वेदस्य तैरपि । 'बृहस्पतिर्वै देवानामुदगायात् इन्द्रो वृत्रमहनत्'१, प्रजापतिर्वपामात्मन उदखिदत्, गावो वा एतत्सत्रमासत, तासां दशसु मास्सु शृङ्गाण्यजायन्तेत्यादयः कथमिव बुद्धिपूर्वककारिणोऽर्थवादाः प्रणीयेरन् । नित्यत्वे सति येषां हि क्लेशेन विधियोजना । तान् कृत्वाऽध्यापयन् कर्ता सुसमत्वं व्यजेज्जडैः ॥ ६१२ न च तादृशवाक्यशेषमुद्राऽपि कल्पसूत्रादिग्रन्थेषु काचिदस्ति, यद्बलेना- कृतकत्वमेषामवसीयेत । विधिशून्यतया चैषां विहिताऽऽख्यातरूपता । गम्यते न त्वपूर्वार्थप्रतिपादनशक्तता ॥ ६१३ वर्तमानाप्रदेशोऽपि त्वर्थवादप्ररोचितः । विधित्वं लभतेऽन्यत्र कल्पसूत्रेषु नास्ति सः ॥ ६१४ पञ्चमेन लकारेण विधिर्यश्छन्दसि स्मृतः । मन्त्रब्राह्मणभिन्नत्वात्सोऽप्येतेषु न युज्यते ॥ ६१५ यद्यपि षडङ्गमके इत्यनेन कल्पसूत्राणां वेदत्वं भवेत् । १ क. महत्प्रजा ।
१३ ] प्रथमाध्याये तृतीयपादः ४७५ तथाऽपि तर्कवत्तेषां छन्दस्त्वं नोपपद्यते । मन्त्रब्राह्मणयोरेव च्छान्दसा विधयः स्थिताः ॥ ६१६ यथैव 'विधिर्विधेयस्तर्कश्च वेदः' (पा गृ. सू. ६।१६) इत्येतस्मिन्दर्शने सति समस्त२वैदिकतर्कोपसंहारात्मिका मीमांसाऽपि वेदशब्दवाच्या भवति, न३ त्वमन्त्रब्राह्मणरूपत्वाच्छन्दोनिबन्धनानि कार्याणि लभते, तथा कल्पसूत्राण्यपीति विधिपर्यायप्रयोगशास्त्रत्वाभावः । इतिहासपुराणाभ्यां सा त्वनैकान्तिकी स्मृता । या त्वेषां ब्रह्मयज्ञेऽपि विधानान्नित्यतोदिता ॥ ६१७ इतिहासपुराणानि कल्पानिति हि सा श्रुतिः । तस्मात्कृत्रिममध्यत्र विद्यास्थानं ग्रहीष्यते ॥ ६१८ वेदार्थोपसंहारस्य कल्पसूत्रानपेक्षैः कर्तुमशक्यत्वात्, अवश्यं च यावद्वेदम्, यावत्कर्मप्रयोगं च क्रियमाणैरपि विद्यास्थानाशून्यतार्थं कैरपि कल्पसूत्रैर्भवितव्यम् । वेदार्थकल्पनात्कल्पो नित्ययैवाऽऽख्ययोच्यते । जपे च नित्यकर्तव्ये नित्यमेव विधीयते ॥ ६१९ कर्माभ्यासाभिसंधानं विध्यर्थश्चात्र गम्यते । स चार्थो नित्य एवेति नाऽऽपतेद् ग्रन्थनित्यता ॥ ६२० यः पुनर्वेदसंवादः स तत्पूर्वतयेष्यते । तदर्थानुगमाच्चैषां न स्वतन्त्रप्रमाणता ॥ ६२१ वेदशब्दाभिधेयत्वं नैषामध्येतृषु४ स्थितम् । षडङ्गमेक इत्येतन्न च सिद्धान्तभाषितम् ॥ ६२२ संवादत्वानुवादत्वमेकस्यैकान्तनिश्चितम् । ऐकान्तिकविधित्वाच्च ब्राह्मणे तन्न युज्यते ॥ ६२३ कल्पादावनुवादत्वमापन्नं परिशेषतः । न च शाखान्तरन्यायस्तुल्याध्येतृकतावशात् ॥ ६२४ सर्वशाखाविधित्वं हि सिद्धमध्येतृभेदतः । प्रतिशाखं तु ये कल्पास्तदर्थप्रतिपादकाः ॥ ६२५ समानाध्येतृकत्वात्ते न कदाचिद्द्विधिक्षमाः । विवृण्वन्तश्च दृश्यन्ते हेतुभिर्ब्राह्मणोत्थितैः ॥ ६२६ १. विधिः—ब्राह्मणम् । विधेयो—मन्त्रः । तर्को मीमांसेति सूत्रार्थः । २ क. समवैहिकतर्कापसंह। ३ क. तत्त्वमन्त्रः । ४. क मध्येतृषु ।
पादनार्थं वा इदमिति भाष्यं व्याचष्टे—व्यक्तीति । एतदेव विवृणोति—व्यक्तीति ।
४७६ मीमांसादर्शनम् [ सू० कल्पकारास्ततोऽप्येषां नैव ब्राह्मणतुल्यता । अन्यार्थैर्ब्राह्मणैश्चान्याज्ञापयन्त्यर्थनिर्णयान् ॥ ६२७ तस्मादपि स्वतन्त्रत्वं कल्पानां नोपपद्यते । अर्थकत्वेन केषांचिदक्षराणां च साम्यतः ॥ ६२८ सादृश्याद् ब्राह्मणभ्रान्तिर्जातैवंमपनीयते । आचार्यवचः प्रमाणमिति श्रुतेरभिप्रायवर्णनम् आचार्यवचसां यच्च प्रमाणत्वं श्रुतौ श्रुतम् ॥ ६२९ श्रुतिसामान्यमात्रत्वात्तस्याप्यन्यार्थतोदिता । व्याचक्षाणस्य वेदार्थान्वेदांश्च वदतः स्वयम् ॥ ६३० शिष्यान्प्रत्यप्तभावात्स्यादाचार्योक्तिप्रमाणता । आचार्यशब्दस्यार्थो मन्वादिभिरेवं व्याख्यातः । ‘उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । साङ्गं च सरहस्यं च तमाचार्यं प्रचक्षते’ ॥ इति । ६३१ वेदसंप्रदानकाले च शिष्यास्तद्वचःसु कथं नाम श्रद्धधीरन्नित्येवमर्थमाचार्य- वचनं प्रमाणमित्युक्तम् । न कल्पसूत्रकारवचनविषयम् । न च पुंवचनं सर्वं सत्यत्वेनावगम्यते । वागिह श्रूयते यस्मात्प्रायादनृतवादिनी ॥ ६३२ तथाऽन्यत्राप्युक्तम् ‘तस्माद् द्वयं वाचा वदति सत्यं चानृतं च, पाप्मना ह्येषां विद्धेति’ (बृ. उ. १-३) ॥ १३ ॥ न्या० सु०—श्यामादिचिह्नविशेषवाच्युपपादानुमानाशाङ्कानिरासार्थमेतत्सूत्रमिति प्रति- पादनार्थं वा इदमिति भाष्यं व्याचष्टे—व्यक्तीति । एतदेव विवृणोति—व्यक्तीति । नित्यस्य-व्यवस्थिताचारान्नियतस्य कर्तुरूपलक्षणभूतस्य लिङ्गस्याभावात्तद्वाच्युपपदानु- मानानुपपत्तेः । सर्वंधर्मंतेति लिङ्गीभूतकर्तृविशेषणनित्यशब्दाङ्गीकरणेन स्वयं सूत्रं व्याचष्टे- ऽिङ्गेति । नियमाभावमुपपादयदन्येऽपीति भाष्यं व्याचष्टे—यच्चिह्नमिवेति । अन्वयव्यभि- चारार्थं भाष्यं व्याख्याय नैवं लिङ्गा इति व्यतिरेकव्यभिचारार्थं भाष्यं व्याचष्टे— दृष्टमिति । तस्मादित्यपसंहारभाष्यं व्याचष्टे—तस्मादिति । ननु नास्ति तन्नित्यमेषां लिङ्गमिवेति भाष्यान्नित्यशब्दस्य लिङ्गविशेषणत्वप्रतीतेः । कर्तृविशेषणत्वेन व्याख्यानमयुक्तमित्याशङ्कयाह—यस्त्विति । नित्यकर्त्तुरूपलक्षणशक्ति- प्रदर्शनार्थं लिङ्गस्य नित्यत्वं भाष्यकृता निराकृतम् । ननु सौत्रो नित्यशब्दो लिङ्गविशेषण- त्वेन व्याख्यात इति मन्यते इति काक्वा सूचितम् । नित्यशब्दसापेक्षत्वाल्लिङ्गशब्दस्या-
१३ ] प्रथमाध्याये तृतीयपादः ४७७ भावशब्देन सह—असमासप्रसङ्ग इत्युक्तम् । ननु राजपुरुषः शोभन इति पुरुषशब्दस्य शोभनशब्दसापेक्षस्यापि राजशब्देन सह समासो दृष्ट इत्याशङ्क्य—उपसर्जनोभूतेत्युक्तम् । 'भवति हि प्रधानस्य सापेक्षस्यापि समास' इति स्मृतेः । पुरुषस्य राजानं प्रति प्राधान्याद्युक्तः समासः । लिङ्गस्याभावं प्रत्युपसर्जनत्वात् वृद्धस्य राज्ञः पुरुष इति वद्युक्त इत्याशयः । ननु नित्यशब्दस्य प्रतिपाद्यं नियतत्वं लिङ्गशब्दार्थस्य लिङ्गत्वानुपपत्तेर्लिङ्गशब्दार्थेनैव नित्यशब्दार्थक्षेपाच्छब्दस्यान्यत्र व्यापाराभावेन सामर्थ्याविघातात् उपसर्जनसापेक्षत्वेऽपि देवदत्तस्य गुरुकुलमितिवन्नित्यसापेक्षत्वात्समासाविरोध इत्याशङ्कते—नन्विति । यदि हि सम्बन्ध्यन्तरस्य नित्यशब्दस्यार्थो नियतत्वं लिङ्गशब्दार्थेनैव स्वार्थसम्बन्धितया समभिव्या- हारानुपपत्त्याऽऽक्षिप्येत, ततोऽन्यत्र व्यापृतत्वात्तावत्सम्बन्धाक्षेपेऽसामर्थ्यं स्यात् लिङ्गशब्दार्थेनैव तु हेतुत्वेन नित्यशब्दार्थक्षेपान्न तेन लिङ्गशब्दस्याभावात् शब्दं प्रति सामर्थ्यं विहन्यत इत्यर्थः। गुरुशब्दस्य सम्बन्धिशब्दत्वाच्छिष्यसम्बन्धिरूपं विना स्वार्थ- प्रतिपादनाशक्तेस्तद्रूपमन्तरेण स्वार्थाभिधानापर्यवसानादपर्यवसितस्वार्थाभिधान एव शब्दान्तराभिधानसंयोगात्स्वार्थाभिधानवेलायामेव सम्बन्ध्यन्तरशिष्यमात्रप्रतीतौ निर्विशेष- सामान्यानुपपत्तेस्तद्विशेषापेक्षायामपि पर्यवसितस्वार्थाभिधानव्यापारस्य शब्दस्य सम्बन्ध्यन्त- रान्वयसिद्धौ व्यापारान्तराभावेन सामर्थ्याविघातात्समासो युक्तः । लिङ्गशब्दस्य तु सम्बन्धिशब्दत्वाभावात्सम्बन्ध्यन्तरमनपेक्ष्यैव पर्यवसिते स्वार्थाभिधाने, अर्थापेक्षया प्रतीत- स्यापि सम्बन्ध्यन्तरस्याशब्दत्वेनान्वयात्पर्यवसितव्यापारस्यापि शब्दस्यैव सम्बन्ध्यन्तरा- पेक्षाकल्पनायामभावशब्देन सहैकार्थलक्षणम्, व्यपेक्षालक्षणं वा सामर्थ्यं न सम्भवतीत्य- भिप्रायेण परिहरति—नैतदिति । सम्बन्धिशब्देषु हि सम्बन्ध्यन्तरापेक्षां विना शब्दप्रवृत्त्यसम्भवाच्छब्दप्रवृत्तिनिमित्तत्वेन सम्बन्ध्यन्तरापेक्षा सम्भवति । इह तु तदभावाच्छब्दकृतापेक्षातोऽपेक्षान्तरेणार्थंकृतेन लिङ्ग- शब्दस्य नित्यशब्देन सह सङ्गतेर्नैतल्लिङ्गशब्दस्य नित्यशब्दसापेक्षत्वम् । अनेन गुरुशब्दस्य देवदत्तशब्दसापेक्षत्वेन तुल्यमित्यर्थः । एतदेवोत्तरार्थत्वेन तूपपादितं लिङ्गत्वं चेन्नित्यत्वमेव प्रति सत्तां लभते यथा भार्या त्वं पतिमेव प्रति, न स्त्री त्वमिव सर्वसाधारणं ततो लिङ्गशब्दः स्वार्थस्य लिङ्गशब्दस्य नित्यापेक्षां विनात्मलाभायोगात्तदपेक्षेत, न त्वेतदस्ति । तथा हि । नित्यशब्दोऽयं नियताभिप्रायो वा स्यात्, तद्धर्मनियतत्वाभिप्रायो वा । तत्राग्न्यादिनियामकमेव प्रतिधूमादेर्लिङ्गत्वदर्शनान्नियतापेक्षा तावदनाशङ्कनीयैव । नियत- त्वेन तु विना यद्यपि लिङ्गत्वं नास्ति, तथापि नियतत्वप्रतियोगिकत्वाभावान्न तत्प्रत्येव लिङ्गत्वस्य सत्ता । साधारणसत्तानिबन्धनापेक्षिकत्वाभावेन तत्प्रतिपादकस्य लिङ्गशब्दस्य स्वार्थाभिधानकाले नित्यशब्दप्रतिपाद्यार्थान्तरापेक्षा निरस्ता । तत्पर्यवसितस्वार्थाभिधान- व्यापारस्यार्थान्तरान्वयसिद्धेर्व्यापारान्तरापत्तेः सामर्थ्यविघात इत्याशयः ।