नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
सर्गः २ ] जीवातु-मदयन्तिकासहितम् ८९ 'चक्रो गणे चक्रवाके चक्रं सैन्येरथाङ्गयोः' 'भ्रमजालं कुलालस्य भाण्डं शङ्कास्त्रयोरपि' इत्युभयत्रापि विश्वः । अत्र समवायिकारणगुणा रूपादयः कार्ये संक्रामन्ति न निमित्तगुणा इति तार्किकाणां समये स्थिते, गुण इति चक्रभ्रम इति चोभयत्रापि वाच्यप्रतीयमानयोरभेदाध्यवसाय एव 'स तदुच्चकुचौ भवन्' इति कुचकलशयोर- भेदातिशयोक्त्युत्थापितझरचक्रभ्रमात्मकक्रियानिमित्ता कुचात्मनि कलशे कार्ये चक्र- भ्रमकारितालक्षणनिमित्तकारणगुणसंक्रमलक्षणेनोत्प्रेक्षेति सङ्क्षेपः । तार्किकसमये विरोधात् विरोधाभासोऽलङ्कार इति कैश्चिदुक्तम् । तदेतदत्यन्ताश्रुतचरमलङ्कार- पारदृश्वानः शृण्वन्तु ॥ ३२ ॥ कलश में—जो चाक को घुमाने का गुण दिखाई पड़ता है, वह क्या उसे अपने निमित्तकारणीभूत कुम्हार के डण्डे से मिला है ? क्योंकि कलश—दमयन्ती के उच्चस्तन का रूप धारण कर, अपने लावण्य के प्रवाह से, कामीजनों के चित्त में, चक्र ( चाक और चकवा ) का भ्रम उत्पन्न करता है ॥ ३२ ॥ भजते खलु षण्मुखं शिखी चिकुरैर्निर्मितबर्हगर्हणः । अपि जम्भरिपुं दमस्वसुर्जितकुम्भः कुचशोभयेभराट् ॥ ३३ ॥ भजत इति । दमस्वसुः = दमयन्त्याश्चिकुरैर्निर्मितबर्हगर्हणः = कृतपिच्छ- निन्दः, जितबर्ह इत्यर्थः । शिखी = मयूरः षण्मुखं = कार्त्तिकेयं भजते खलु । तथा कुचशोभया जितकुम्भ इभराट् = ऐरावतोऽपि जम्भरिपुं = इन्द्रं भजते । परपरिभूताः प्राणत्राणाय प्रबलमाश्रयन्त इति प्रसिद्धम् । अत्र शिख्यैरावतयोः षण्मुखजम्भारिभजनस्य जितबर्हत्व-जितकुम्भत्वपदार्थहेतुकत्वात् तद्धेतुके काव्यलिङ्गे तदसम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्तिश्च ॥ ३३ ॥ दमयन्ती के केश-कलाप से, अपनी पूँछ को तुच्छ समझकर, मोर तो स्कन्द- कुमार की सेवा करता है और उसके स्तनों की कान्ति से, अपने कुम्भों को पराजित ( हीन ) समझकर, ऐरावत इन्द्र की परिचर्या करता है ॥ ३३ ॥ उदरं नतमध्यपृष्ठता-स्फुरदङ्गुष्ठपदेन मुष्टिना । चतुरङ्गुलिमध्यनिर्गतत्रिबलिभ्राजि कृतं दमस्वसुः ॥ ३४ ॥ उदरमिति । दमस्वसुः उदरं, [ नतमध्य-पृष्ठता-स्फुरदङ्गुष्ठपदेन ] नत- मध्यं निम्नमध्यप्रदेशं, पृष्ठं यस्योदरस्य तस्य भावस्तत्ता तया स्फुरत् दृढग्रहणात् पृष्ठफलके स्फुटीभवदङ्गुष्ठपदमङ्गुष्ठन्यासस्थानं यस्य तेन मुष्टिना करणेन, [चतुरङ्गुलि-
९० नैषधचरितम् । [द्वितीयः मध्य-निर्गत-त्रिवलिभ्राजि ] चतसृणामङ्गुलीनां समाहारश्चतुरङ्गुलि, 'तद्धित' इत्यादिना समाहारे द्वि block गुरेकवचननपुंसकत्वे । तस्य मध्येभ्योऽन्तरालेभ्यो निर्गतं यत्त्रिवलि, पूर्ववत् समासादिः कार्यः । यत्तूक्तं वामनेन-'त्रिवलिशब्दः संज्ञा चेत्'इति सूत्रेण सप्तर्षय इत्यादिवत् 'दिक्संख्ये संज्ञायां' इतिद्विगुरिति तदपि चेत्करणसामर्थ्यात्, त्रिवलय इति बहुवचनप्रयोगदर्शने स्थितं गतिमात्रं न सार्वत्रिकमिति प्रतीमः । तेन भ्राजत इति तद्भ्राजि, वलित्रयशोभि कृतम् इत्युत्प्रेक्षा कौतुकिनेति शेषः । मुष्टिग्राह्यमध्ययमित्यर्थः । मुष्टिग्रहणादङ्गुष्ठनोदनात् पृष्ठमध्ये नम्रता उदरे च चतुर- ङ्गुलिनोदनाद्वलित्रयाविर्भावश्चेत्युत्प्रेक्षते ॥ ३४ ॥ दमयन्ती के उदर को - ब्रह्माजी ने मुट्ठी में पकड़कर बनाया क्योंकि पीठ का विचलाभाग (कसकर पकड़ने के कारण) पिचका होने से वहाँ अँगूठे का दबाव झलकता है और चारो अंगुलियों के बीच से निकली हुई तीन रेखाओं (त्रिवली) से उदर शोभायमान है ॥ ३४ ॥ उदरं परिमाति मुष्टिना कौतुकी कोऽपि दमस्वसुः किमु । धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः ॥ ३५ ॥ उदरमिति । कोऽपि कौतुकी दमस्वसुः उदरं मुष्टिना परिमाति किमु = परिच्छिनत्ति किम् ? इत्युत्प्रेक्षा । कुतः ? यत्=यस्मात् सहेमकाञ्चिभिर्वलिभिः= हेमकाञ्च्या सह चतसृभिस्त्रिवलिभिरित्यर्थः । एतस्याः कनकसावर्ण्य सूचितम् [धृत- तच्चतुरङ्गुलीव] धृतं तस्य मातुश्चतुरङ्गुली अङ्गुलिचतुष्टयं येन तत्, इव भाति इत्युत्प्रेक्षा । अत्रोत्प्रेक्षयोर्हेतुहेतुमद्भूतयोरङ्गाङ्गिभावेन सजातीयः सङ्करः । पूर्वश्लोके वलीनां तिसृणां चतुरङ्गुलिमध्यनिर्गतत्वमुत्प्रेक्षितम् । इह तु तासामेव काञ्चीसहितानां चतुरङ्गुलित्वमुत्प्रेक्षत इति भेदः प्रेक्षितुरिति भावः । ३५ कोई कौतुकी अपनी मुट्ठी से (कृशोदरी) दमयन्ती के उदर को, नापने लगा (कि देखें, वह मुट्ठी की पकड़ में आता है या नहीं) तो सोने की (महीन) करधनी और त्रिवली (तीनों रेखाओं) के साथ वह (उदर) ऐसा शोभित हुआ कि मानो नापने वाले की चारों अंगुलियों के, उस पर रखने से चिह्न पड़ गये हैं ॥ ३५ ॥ पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया । विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम् ॥३६॥
[सर्गः २ ] जीवातु-मदयन्तिकासहितम् ९१
पृथ्विति । [ पृथु-वर्तुल-तन्नितम्बकृत् ] पृथु वर्तुलं च तस्याः नितम्बं करोतीति नितम्बकृन्नितम्बं कृतवान्, बिधिः=ब्रह्मा, मिहिरस्यन्दनशिल्प- शिक्षया= रविरथनिर्माणाम्यासपाटवेन, [ एकक-चक्र-चारिणं ] एककमेकाकिं । 'एकादाकिनिच्चासहाये' इति चक्रारात् कप्रत्ययः । तेन चक्रेण चरतीति तच्चारिणं मान्मथं रथं निर्मित्सति किमु ?, सूर्यस्येव मन्मथस्यापि एकचक्रं रथं निर्मातु- मिच्छति किमु ? इत्युत्प्रेक्षा । अन्यथा, किमर्थमिदं नितम्बनिर्माणमिति भावः । माङेः सन्नन्ताल्लट् । 'सनि मीमा'इत्यादिना ईसादेशः । 'स्त्यत्स्यार्द्धधातुके' इति सकारस्य तकारः । 'अत्र लोपोभ्यासस्य' इत्यभ्यासलोपः ॥३६॥ सूर्य के ( एक पहिए वाले ) रथ के निर्माण की निपुणता द्वारा, (नितम्बिनी) दमयन्ती के नितम्ब को विशाल और गोलाकार बनाने वाले ब्रह्मा, क्या ( अधुना ) एक ( अद्वितीय ) पहिए से चलनेवाला कामदेव का रथ बनाना चाहते हैं ? ( ऐसा प्रतीत होता है ) ॥ ३६ ॥ तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् । तरुणीमपि जिष्णुरेव ता धनदापत्यतपःफलस्तनीम् ॥३७॥ तरुमिति । सुन्दरी, = दमस्वसा, परिणाहिना = विपुलेन, ऊरुयुगेन रम्भां = रम्भां नाम तरुं परं तरुमेव । 'न लोक'इत्यादिना षष्ठीप्रतिषेधः । जिष्णुः किमु ? किन्तु, [ धनदापत्यतपःफल-स्तनीं ] धनदापत्यस्य नलकूबरस्य, तपसः फलस्तनीं फलभूतकुचां, तां रम्भां नाम तरुणीमपि जिष्णुरेव । 'रम्भाकदल्प्स- रसोः' इति विश्वः । रम्भे इव, रम्भाया इव, चोरू यस्याः सा, इत्युभयथा रम्भोरुरित्यर्थः ॥ ३७ ॥ यह आभास होता है कि सर्वाङ्गसुन्दरी दमयन्ती अपनी विशाल युगल जंघाओं से एकमात्र वृक्षरूपी रम्भा ( कदली ) को भी जीतने की अभिलाषा रखती है । यह भी प्रतीत होता है कि वह-उस पूर्णयौवना रम्भा ( अप्सरा ) को भी जीतना चाहती है - जिसके स्तन कुबेर-तनय नलकूबर को तपस्या के फल से स्पर्श करने को प्राप्त हुए थे [ अर्थात् रम्भा = १कदलीस्तम्भ २ अप्सरा से भी बढ़कर विशाल, सुचिकण, सुडौल, आकर्षक और रमणीय उसकी जांघ हैं ] ॥३७॥ जलजे रविसेवयेव ये पदमेतत्पदतामवापतुः । ध्रुवमेत्य रतः सहस्रकी कुरुतस्ते विधिपत्रदम्पती ॥३८॥
९२ नैषधचरितम् । [ द्वितीयः जलजे इति ॥ जलजे = द्विपद्मे रविसॆवया = सूर्योपासनया इव [ एतत्पदतां ] एतस्याः पदतां चरणत्वमेव पदं = प्रतिष्ठाम् अवापतुः । ते = जलजे कर्मभूते, विधिवत्रदम्पती = द्वन्द्वचारिणौ ब्रह्मवाहन-हंसौ, एत्य = आगत्य, रुतः = रवात्, कूजनादित्यर्थः । रौतेः सम्पदादित्वात् क्विपि तुगागमः । सहंसकी= सकटकौ सहंसकी च, कुरुतः । अभूततद्भावे च्विः । 'हंसकः पादकटकः' इत्यमरः। हंसपक्षे वैभाषिकः कप्रत्ययः । ध्रुवम् इत्युत्प्रेक्षायाम् । पद्महंसयोरविनाभावात् कयो- श्चिद्दिव्यपद्मयोस्तत्पदत्वमुत्प्रेक्ष्य दिव्यहंसयोरेव हंसकत्वं चोत्प्रेक्षते ॥३८॥ जिन कमल-दम्पती ने मानो सूर्य की उपासना करके, दमयन्ती के पद (चरण) रूप ( उच्च ) पद पाया, वे ब्रह्मा के वाहन ( पत्र ) स्वरूप हंसदम्पती को, ( मरालग़ामिनी दमयन्ती के चरणयुगल के ) पास लाकर, यह निश्चित है कि नूपुर ( पाजेब ) द्वय के रूप में परिणत कर, उसे मुखरित ( छम छम की आवाज़ ) कर रहे हैं ॥ ३८ ॥ श्रितपुण्यसरःसरित् कथं न समाधिक्षपिताखिलक्षपम् । जलजं गतिमेतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि ॥३९॥ श्रितेति । [ श्रित-पुण्य-सरःसरित् ] श्रिताः सेविताः, पुण्याः, सरःसरितः मानसादीनि सरांसि गङ्गाद्याः सरितश्च ये तत् । [ समाधि-क्षपिताखिलक्षपं ] समाधिना ध्यानेन निमीलनेन क्षपिताखिलक्षपं यापितसर्वरात्रं, जलजं [ दमयन्ती- पद-नाम्नि ] दमयन्तीपदमिति नाम यस्मिन् जन्मनि, मञ्जुलां गतिं = रम्य- गतिम्, उत्तमदशाञ्च । 'गतिर्मार्गे दशायां च' इति विश्वः । कथं नैतु=एत्वे- वेत्यर्थः । पदस्य गतिसाधनत्वात् तत्रापि दमयन्तीसम्बन्धाच्चोभयगतिलाभः । तथापि जन्मान्तरेऽपि सर्वथा तपः फलितमिति भावः । सम्भावनायां लोट् ॥३६॥ पवित्र ( मान- ) सरोवर एवं ( गङ्गा आदि ) नदियों में ( स्वाभाविक रूप से, धर्मार्जन की अभिलाषा से ) आश्रय लेने ( रहने ) वाले तथा ( सूर्य के दिख- लायी न पड़ने से कलीरूप में आँखें मूंदकर ) समाधि में, ध्यानावस्थित हो, सारी रात बिताने वाले कमल—'दमयन्ती के चरण' नाम वाले ( अर्थात् दमयन्ती के पद रूप में उत्पन्न) जन्मान्तर में, क्यों न मनोहर गति (चाल, दशा) पावें ? ॥३६॥ सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता । अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी ॥४०॥
सर्गः २] जीवातु-मद्यन्तिकासहितम् ९३ अथ कथं त्वमेनां व्यलोकीरित्याह—सरसीरिति। सरसः=जलानि परि- चोलितुं = परिचेतुं, तत्र विहर्तुमित्यर्थः। चुरादिणेरनित्यत्वादण्यन्तप्रयोगः। [गमि- कर्मीकृत-नैक-निवृता] गमिर्गमनं शब्दपरशब्देनार्थो गम्यते। तस्य कर्मीकृताः कर्मकारकीकृताः, नैके अनेके, नञर्थस्य नशब्दस्य 'सुप्सुपा' इति समासः। नितरां वर्तन्ते जना येष्विति नीवृतः, जनपदाः येन तेन क्रान्तानेकदेशेनेत्यर्थः। 'नहि- वृति'इत्यादिना दीर्घः। मया [सदसत्संशयगोचरोदरी] सदसदिति संशय- गोचरः सन्देहास्पदं उदरं यस्याः सा, कृशोदरीत्यर्थः। 'नासिकोदर'इत्यादिना ङीप्। सा = दमयन्ती दृशोरतिथित्वमनायि = स्वविषयतां नीता, दृष्टेत्यर्थः। नयतेः कर्मणि लुङ् ॥ ४० ॥ सरोवरों में स्नान, जलक्रीडा आदि करने के उद्देश्य से, अनेक देशों में गमन करके मैंने अपनी आँखों को—'दमयन्ती को कमर है या नहीं है' इस द्विविध संशय के बारे में, उसे अपना अतिथि बनाया (अर्थात् विश्वसुन्दरी दमयन्ती को दृष्टिगोचर किया) ॥ ४० ॥ अवधृत्य दिवोऽपि यौवतैर्न सहाधीतवतीमिमामहम् । कतमस्तु विधातुराशये पतिरस्या वसतीत्यचिन्तयम् ॥ ४१ ॥ अवधृत्येति। अहम्, इमां = दमयन्तीं दिवः = स्वर्गस्य सम्बन्धिभिः यौवतैः = युवतिसमूहैरपि। 'गार्भिणं यौवतं गणे' इत्यमरः। भिक्षादित्वात्समूहार्थे अण्प्रत्ययः। तत्राप्यस्य युवतीति स्त्रीप्रत्ययान्तस्यैव प्रकृतित्वेन तद्ग्रहणात् तत्साम- र्थादेव 'भस्याढे तद्धिते'इति पुंवद्भाव इति वृत्तिकारः। न सहाधीतवतीम् = असदृशीं ततोऽप्यधिकसुन्दरीमित्यर्थः। नञर्थस्य न शब्दस्य 'सुप्सुपा' इति समास इति वामनः। अवधृत्य = निश्चित्य, विधातुः = ब्रह्मणः, आशये = हृदि अस्याः पतिः कतम स्तु = कतमो वा, वसति इत्यचिन्तयम्। तदैवेति शेषः ॥ ४१ ॥ मैंने दमयन्ती को, देवलोक की युवतियों के साथ, अध्ययन न करनेवाली (अर्थात् देवाङ्गनाओं से भी बढ़कर सुन्दरी) निश्चय किया, 'ब्रह्मा के मन में इसके लिए कौनसा पति है ?'—फिर इसकी चिन्ता मेरे मन में समायी ॥ ४१ ॥ अनुरूपमिमं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् । युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तधियं न्यवेशयम् ॥ ४२ ॥ अनुरूपमिति। अथ = इदानीम् अनुरूपं = योग्यं इमं निरूपयन् = तस्याः
पतित्वेनालोचयन्, सर्वेष्वपि युवसु पूर्वपक्षतां = पूर्वकोटित्वं व्यपनेतुमक्षमः सन् त्वयि सिद्धान्तधियं न्यवेशयम् = त्वमेवास्याः पतिरिति निरचैषमित्यर्थः। अयमेव विधातुरप्याशय इति भावः ॥ ४२ ॥ इस चिन्ता के बाद अपने मन में दमयन्ती के पति योग्य होने का निरूपण करते हुए, मैंने अन्य सभी युवकों में 'पूर्वपक्ष' ( दमयन्ती के अयोग्य रूप होने की 'पूर्वपक्ष' के समान धारणा ) के दूर करने में असमर्थ होकर, ( शास्त्रों में जिस प्रकार 'पूर्वपक्ष' के निरसन के बाद 'सिद्धान्त' का प्रतिपादन होता है, उसी प्रकार ) आप में ( उसके सौन्दर्य के अनुरूप पति होने की ) अपनी 'सिद्धान्त-' बुद्धि को दृढ़ किया ॥ ४२ ॥ अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे । चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥ ४३ ॥ अथ त्वद्रूपदर्शनमेव सम्प्रति तत्स्मारकमित्याह—अनयेति । चिरमवलोकि- ताऽपि सा शुचिस्मिता = सुन्दरी अद्य = अधुना—हस्तेन निर्दिशन्नाह—अनया तव रूपसीमया = सौन्दर्य-काष्ठया कृतसंस्कारविबोधनस्य = उद्बुद्धसंस्कारस्य मे स्मृतिमारूढवती = स्मृतिपथं गता, सदृशदर्शनं स्मारकमित्यर्थः ॥४३॥ आपके इस सौन्दर्य की पराकाष्ठा से, पूर्वकालजन्य संस्कार ( भावना ) के कारण स्मृति हो आने से, बहुत दिनों पहले देखी हुई, भोली मुस्कानवाली दमयन्ती की स्मृति, आज हमारे मन में जाग उठी ॥ ४३ ॥ त्वयि वीर ! विराजते परं दमयन्ती-किलकिञ्चितं किल । तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् ॥ ४४ ॥ ततः किमत आह-त्वयीत्यादि । हे वीर ! [दमयन्ती-किलकिञ्चितं] दम- यन्त्याः किलकिञ्चितम् । 'क्रोधाश्रुहर्षभीत्यादेः सङ्करः किलकिञ्चितम्' इत्युक्तलक्षण- लक्षितशृङ्गारचेष्टितं, त्वयि परं = त्वय्येव विराजते किल=शोभते खलु । तथाहि- [मणिहारावलि-रामणीयकं] मणिहारावलेर्मुक्ताहारपङ्क्तेः, रामणीयकं रमणी- यत्वम् । योपधाद्गुरूपोत्तमाद्वुञ् । तरुणीस्तने एव दीप्यते; नान्यत्रेत्यर्थः । स्तना- दीनां द्वित्वविशिष्टा जातिः प्रायेणेति प्रायग्रहणादेकवचनप्रयोगः । अत्र हारकिलकिञ्चि- तयोरुपमानोपमेययोर्वाक्यद्वये बिम्बप्रतिबिम्बतया स्तननृपयोः समानधर्मत्वोक्तेर्दृष्टान्ता- लङ्कारः । लक्षणं तूक्तम् ॥ ४४ ॥
सर्गः २ ] जीवातु-मदयन्तिकासहितम् । ९५ हे वीर ! केवल आप में, दमयन्ती के किल-किञ्चित ( मुस्कराने, हँसने, रूठने, मान करने आदि विलास चेष्टाओं ) के आविर्भाव विशेष रूप से शोभा देंगे; क्योंकि ( जिस प्रकार वृद्धा नारी के ढलके हुए स्तनों पर नहीं, प्रत्युत ) तरुणी के (दृढ़ तथा उन्नत ) उरोजों पर ही मोतियों के रत्न-हार की रमणीकता झलकती है (उसी प्रकार अद्वितीय सुन्दरी दमयन्ती की सभी चेष्टाएं, दुर्बल-अयोग्य-नपुंसक पति के योग्य नहीं, बल्कि आप जैसे वीर के योग्य हैं) ॥४४॥ तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः । इयमृद्धधना वृथावनी स्ववनी सम्प्रवदत्पिकापि का ॥४५॥ तवेति । हे वीर ! तवेदं रूपं = सौन्दर्यं तया = दमयन्त्या विना, अवके- शिनः = वन्ध्यवृक्षस्य । 'बन्ध्योऽफलोऽवकेशी च' इत्यमरः । पुष्पमिव विफलं = निरर्थकम् । ऋद्धधना = सम्पूर्णवित्ता इयमवनी वृथा = निरर्थिका । सम्प्रव- दत्पिका=कूजत्कोकिला स्वबनी=निजोद्यानमपि । गौरादित्वात् ङीष् । का=तुच्छा, निरर्थिकेल्यर्थः । तद्योगे तु सर्वं सफलमिति भावः । 'किं वितर्के परिप्रश्ने क्षेपे निन्दापराधयोः' इति विश्वः । अत्र नलरूपावनीनां दमयन्त्या विना रम्यतानिषेधाद्विनोक्तिरलङ्कारः । 'विना सम्बन्धि यत्किञ्चिद्रम्यमन्यत्र परा भवेत् । रम्यतारम्यता वा स्यात् सा विनोक्ति- स्तुस्मृता' इति लक्षणात् । तस्याश्च पुष्पमिवेत्युपमया संसृष्टिः ॥४५॥ आपका यह (अप्रतिम) लावण्य, दमयन्ती के बिना - फलहीन बाँझ पेड़ के फूल के समान - निरर्थक है; समृद्ध धन (प्रचुर सम्पत्ति) वाली (आप द्वारा शासित) यह पृथ्वी (साम्राज्य) व्यर्थ है और कुहू कुहू करके बोलने वाली कोयल जिसमें हो-ऐसी (आप की) सुन्दर उद्यान-वाटिका भी किस काम की ? ॥४५॥ अनयामरकाम्यमानया सह योगः सुलभस्तु न त्वया । घनसंमृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥ ४६ ॥ अत्रान्यापेक्षां दर्शयितुं तस्याः दौर्लभ्यमाह - अनयेति । [ अमर-काम्य- मानया ] अमरेरिन्द्रादिभिः, काम्यमानया ऽभिलष्यमाणया, अनया = दमयन्त्या सह, योगः, अम्बुदागमे घनसंवृतया = मेघावृतया निशाकरत्विषा सह योगः कुमुदेन इव त्वया न तु सुलभः=दुर्लभ इत्यर्थः । अत्र तत्संयोगदौर्लभ्यस्य अमर- कामनापदार्थ हेतुकत्वात् काव्यलिङ्गभेदः । तत्सापेक्षा चेयमुपमेति सङ्करः ॥ ४६ ॥ देवताओं द्वारा कामना की जानेवाली दमयन्ती के साथ आपका मिलन
९६ नैषधचरितम् । [ द्वितीयः ( सम्बन्ध ) उसी प्रकार दुर्लभ है—जिस प्रकार वर्षाकाल में, मेघ से ढँके हुए चन्द्रमा की चाँदनी के साथ, कुमुद का संयोग सुलभ नहीं होता ॥ ४६ ॥ तदहं विदधे तथा तथा दमयन्त्याः सविधे तव स्तवम् । हृदये निहितस्तया भवानपि नेन्द्रेण यथापनीयते ॥ ४७ ॥ अत्र का गतिरिति आह—तदिति । तत् = तस्मात्, कार्यस्य सप्रतिबन्धत्वाद् अहं दमयन्त्याः सविधे=समीपे तथा तथा तव स्तवं = स्तोत्रं विदधे=विधास्ये इत्यर्थः । सामीप्ये वर्त्तमाने प्रत्ययः । यथा तया हृदये निहितो भवानिन्द्रेणापि नापनीयते; नेतुमशक्य इत्यर्थः । यथेन्द्रादिप्रलोभितापि त्वय्येव गाढानुरागा स्यात्तथा करिष्यामीत्यर्थः ॥ ४७ ॥ इस लिए मैं दमयन्ती के सन्निकट आपकी प्रशंसा उस उस प्रकार से करूंगा— जिससे ( पति रूप से ) धारण किये गये उसके चित्त में निवास करनेवाले, आपको इन्द्र भी न हटा सके ॥ ४७ ॥ तव सम्मतिमत्र केवलमधिगन्तुं धिगिदं निवेदितम् । ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् ॥ ४८ ॥ तर्हि तथैव क्रियतां, किं निवेदनेनेत्यत आह—तवेति । अत्र = अस्मिन् कार्ये केवलम् = एकां तव सम्मतिम्=अङ्गीकारम्, अधिगन्तुमिदं निवेदितं= निवेदनं धिक् । तथा हि-साधवो निजोपयोगितां = स्वोपकारित्वं फलेन = कार्येण ब्रुवते = बोधयन्ति किंतु कण्ठेन = वाग्वृत्त्या 'निजोपयोगितां' न ब्रुवते । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४८ ॥ इस (तरुणी दमयन्ती) के बारे में केवल आप (तरुण) की सम्मति जानने के उद्देश्य से ही मैने यह (४७श्लोकोक्त) बात कही है अन्यथा यह (निवेदन) भी निन्दा के योग्य है। क्योंकि सहृदय व्यक्ति कण्ठ-स्वर (मौखिक- रूप) से नहीं (कहते), बल्कि फल के परिणाम से ही अपनी उपयोगिता स्पष्ट सूचित कर देते हैं ॥४८॥ तदिदं विशदं वचोऽमृतं परिपीयाभ्युदितं द्विजाधिपात् । अतितृप्ततया विनिर्ममे स तदुद्गारमिव स्मित सितम् ॥४९॥ तदिति । स = नलो द्विजाधिपात् = हंसाच्चन्द्राच्च, अभ्युदितम्=आविर्भूतं विशदं = प्रसन्नमिशदीतं च तत् = पूर्वोक्तम् इदम्=अनुभूयमानं [ वचोऽमृतं ]
सर्गः २] जीवातु-मदयन्तिकासहितम् । ९७ वच एवामृतमिति रूपकम् । तत्परिपानं अत एव अतितृप्तता च सङ्गीतेत्यनेन [तदुद्गारं ] तस्य वचोऽमृतस्य उद्गारमिव सितं स्मित विनिर्ममे = निर्मितवान् । माङः कर्त्तरि लिट् । अतितृप्तस्य किञ्चिन्निःसार उद्गारः । सितत्व- साम्यात् स्मितस्य वागमृतोद्गारोत्प्रेक्षा ॥ ४६ ॥ पक्षिराज हंस (द्विजराज चन्द्र) से निकले हुए, पूर्वोक्त विशद (स्पष्ट, नैसर्गिक श्वेत) वाक्य-सुधा (वचनरूप अमृत) का पान कर (आदरपूर्वक श्रवण कर, अशेषतः पीकर), और उस (अत्यधिक पान) से अतीव सन्तुष्ट होने के कारण, नल ने उस (विशद वचोमृत) के उद्गार (उफान) के समान, श्वेत मुस्कराहट प्रकट की ॥ ४६ ॥ परिमृज्य भुजाग्रजन्मना पतगं कोकनदेन नैषधः । मृदु तस्य मुदेऽगिरद्गिरः प्रियवादाऽमृत-कूप-कण्ठजाः ॥५०॥ परिमृज्येति । निषधानां राजा नैषधः = नलः । जनपदशब्दात् क्षत्रियादञ् । भुजाग्रजन्मना कोकनदेन = पाणिशोणपङ्कजेनेत्यर्थः । पतगं=हंसं परिमृज्य तस्य = हंसस्य तथा मुदे = हर्षाय [प्रियवादाऽमृत-कूप-कण्ठजाः ] प्रियवादा- नामेवामृतानां कूपो निधिः कण्ठो वागिन्द्रियं तज्जाः तज्जन्याः, गिरो मृदु यथा तथा । अगिरत् = प्रियवाक्यामृतैरसिञ्चदित्यर्थः । अत्र भुजाग्रजन्मना कोकनदेनेति विषयस्य पाणेर्निगरणेन विषयिणः कोकनदस्यैवोपनिवन्धनात् अतिशयोक्तिः । 'विष- यस्याद्यनुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात् कविप्रौढोक्तिसम्मता' इति लक्षणात् । सा च पाणिकोकनदयोरभेदोक्तिः अभेदरूपा । यस्याः प्रियवादामृत- कूपकण्ठेति रूपकसंस्सृष्टिः ॥५०॥ निषधाधिपति नल ने लाल-कमल-रूप-भुजा के अगले भाग में उत्पन्न हुए- हाथ से, उस हंस को सहला कर, उस के प्रमोद के लिए, स्नेहमय वचनरूपी अमृत के कूप रूपी कण्ठ से निकली हुई, कोमल वाणी कही-॥५०॥ न तुलाविषये तवाकृतिर्न वचो वर्त्मनि ते सुशीलता । त्वदुदाहरणाकृतौ गुणा इति सामुद्रकसारमुद्रणा ॥५१॥ न तुलेति । हे हंस ! तब आकृतिः=आकारः, तुलाविषये = सादृश्यभूमौ न वर्तते, असदृशीत्यर्थः । ते = तव, सुशीलता = सौशील्यं वचो वर्त्मनि न वर्तते, वक्तुमशक्येत्यर्थः । अत एव आकृतिं गुणाः = 'यत्राकृतिस्तत्र गुणाः' इति ७
९८ नैषधचरितम् । [ द्वितीयः [ सामुद्रकसारमुद्रणा ] सामुद्रिकाणां या सारमुद्रणा सिद्धान्तप्रतिपादनं सा, त्वमेवोदाहरणं यस्याः सा तथोक्ता । आकृतिसौशील्ययोस्त्वय्येव सामानाधिकरण्य- दर्शनादित्यर्थः । अत एवोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुकत्वात् काव्यलिङ्गमलङ्कारः । 'हेतोर्वाक्यार्थहेतुत्वे काव्यलिङ्गमुदाहृतम्' इति लक्षणात् ॥५१॥ तुम्हारा स्वरूप किसी की तुलना का विषय नहीं है ( अर्थात् किसी के साथ तुम्हारे सौन्दर्य की उपमा नहीं दी जा सकती ), और तुम्हारी सुशीलता ( सुन्दर स्वभाव ) भी वाणीपथ का विषय नहीं है ( अर्थात् वर्णनातीत है ) । 'जहाँ आकृति होती है, वहीं गुण रहते हैं' - सामुद्रिकशास्त्र के सारांश के मुद्रण ( प्रतिपादित सिद्धान्त ) के तुम्हीं उदाहरण हो ॥५१॥ न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा । न परं पथि पक्षपातिताऽनवलम्बे किमु मादृशेऽपि सा ॥५२॥ न सुवर्णेति । ननु हे हंस ! तवेयं तावकी । 'युष्मदस्मदोरन्यतरस्यां खञ् च' इति चकारादण् प्रत्यये ङीप् । 'तवक ममकावेकवचने' इति तवकादेशः । तनुः परं मूर्तिरेव सुवर्णमयी हिरण्मयी न । किं तु वागपि तथा = सुवर्णमयी, शोभनाक्षर- मयीत्यर्थः । अनवलम्बे = निरवलम्बे पथि परम् = आकाश एव पक्षपातिता = पक्षपातित्वं न । किमु=किंत्वित्यर्थः । निपातानामनेकार्थत्वात् । अनवलम्बे निराधारे मादृशेऽपि सा = पक्षपातिता, स्नेहवत्तेत्यर्थः । अत्र तनुवाचोः प्रकृताप्रकृतयोः सुवर्णमयीति शब्दश्लेषः एवं पथि मादृशेऽपि पक्षपातितेति सजातीयसंसृष्टिः । तया चोपमा व्यज्यते ॥ ५२ ॥ हे हंस ! तुम्हारी आकृति ही केवल सुवर्ण-मयी ( सोने की ) नहीं है; किन्तु तुम्हारी वाणी भी उसी प्रकार सुवर्ण-मयी ( सुन्दर वर्ण-अक्षर-मयी) है । अवलम्बन- शून्य गगन-मार्ग में ही केवल तुम्हारा पक्ष-पात ( पंखों से उड़ना ) नहीं है; पर यह स्पष्ट है कि मुझ जैसे आश्रयहीन व्यक्ति के प्रति भी तुम्हारा पक्ष-पात ( अनुकूल आचरण ) है ॥ ५२ ॥ भृशतापभृता मया भवान् मरुदासादि तुषारसारवान् । धनिनामितरः सतां पुनर्गुणवत् सन्निधिरेव सन्निधिः ॥ ५३ ॥ भृशेति। भृशतापभृता=अतिसन्तापभाजा मया भवान् [तुषार-सारवान्] तुषारैः शीकरैः, मरुत् = मारुतः सन्, आसादि, सन्तापहृत्त्वादिति
सर्गः २ ] जीवातु-मदयन्तिकासहितम् । ९९ भावः । तथा हि-धनिनां = धनिकानां कुबरादीनाम् इतरः = पद्मशंखादिः । संज्ञासौ निधिश्चेति सन्निधिः, सतां = विदुषां पुनः [ गुणवत् सन्निधिः ] गुणवतां गुणिनां सन्निधिः सान्निध्यमेव सन्निधिः महानिधिः, सन्तापहारित्वात् त्वमेव शिशिर- मारुतः, अन्यस्तु दहन एवेति भावः । दृष्टान्तालङ्कारः । लक्षणं तूक्तम् ॥ ५३ ॥ काम-ज्वर से अत्यन्त सन्तप्त हुए मुझे - तुम बरफ की वनौरी मिली हुई ( अत्यन्त शीतल ) हवा के रूप में मिले । धनियों की (शङ्ख, पद्म आदि निधि रूप आनन्ददायक ) सन्निधि ( खजाना ) दूसरी है; पर सज्जनों की तो गुणवानों की सन्निधि ( समागम ) ही सन्निधि ( श्रेष्ठ खजाना ) है ॥ ५३ ॥ शतशः श्रुतिमागतैव सा त्रिजगन्मोहमहौषधिमम । अधुना तव शंसितेन तु स्वदृशैवाधिगतामवैमि ताम् ॥ ५४ ॥ शतश इति । [ त्रिजगन्मोहमहौषधिः ] त्रिजगतः त्रैलोक्यस्य, मोहे सम्मोहने, महौषधिः महौषधमिति रूपकम् । सा = दमयन्ती शतशो मम श्रुतिं = श्रोत्रम् आगतैव । अधुना तव शंसितेन = कथनेन तु स्वदृशा = मम दृष्ट्या एवाधिगतां = दृष्टाम् अवैमि = साक्षाद् दृष्टां मन्ये । आप्तोक्तिप्रामाण्यादिति भावः ॥ त्रिलोकी के ( युवकों के ) मोहित करने की महौषधिरूप दमयन्ती ( का नाम ) मेरे कानों में सैकड़ों बार आयी रही ( अर्थात् उसके सौन्दर्य का वर्णन सुना था ); परन्तु अभी-अभी तुमने जो उसके ( नख-शिख पर्यन्त ) सौन्दर्यगुणों का वर्णन किया, उससे तो मैंने साक्षात् उसे अपनी आँखों से देख लिया-ऐसा मानता हूँ ॥ अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् । सविधेऽपि न सूक्ष्मसाक्षिणौ वदनालङ्कृतिमात्रमक्षिणी ॥ ५५ ॥ अथ स्वदृष्टेरप्याप्तदृष्टिरेव गरीयसीत्याह-अखिलमिति । सुहृदा = आप्तमुखेन च स्वहृदा = स्वान्तःकरणेन च सुहृत् ग्रहणं तद्गतसुहृदः श्रद्धेयत्वज्ञापनार्थम् अखिलं = कृत्स्नमर्थम् अनाविलम् = असन्दिग्धं अविपर्यस्तं यथा तथा पश्यताम् = अवधारयतां विदुषां = विवेकिनां सविधे = पुरोऽपि न सूक्ष्मसाक्षिणी = असू- क्ष्मार्थदर्शिनौ । 'सुप्सुपा'इति समासः । अक्षिणी वदनालङ्कृतिमात्र, न तु दूरसूक्ष्मार्थदर्शनोपयोगिनीत्यर्थः ॥ ५५ ॥ ( परम विश्वसनीय ) सुहृद् के द्वारा और अपने अन्तःकरण से सब पदार्थों को स्पष्टरूप से ( 'वाक्य' तथा 'अनुमान' द्वारा ) देखनेवाले ( निर्णय करनेवाले )
१०० नैषधचरितम् । [ द्वितीयः विवेकी पुरुषों के (चर्म-) चक्षु तो मुखमण्डल के अलङ्कार-मात्र हैं, क्योंकि वे सन्निकट की सूक्ष्म वस्तु भी नहीं देख सकते ॥ ५५ ॥ अमितं मधु तत्कथा मम श्रवणप्राघुणिकीकृता जनैः । मदनानलबोधनेऽभवत् खग ! धाय्या धिगधैर्यधारिणः ॥ ५६ ॥ अमितमिति । हे खग ! जनैः = विदर्भगतजनैः मम श्रवणप्राघुणिकी- कृता = कर्णातिथीकृता, तद्विषयीकृतेत्यर्थः । 'आवेशिकः प्राघुणिक आगन्तुरतिथि- स्तथा' इति हलायुधः । अमितम् = अपरिमितं मधु = क्षौद्रं, तद्वदतिमधुरेत्यर्थः । तत्कथा = तद्गुणवर्णना, अधैर्यधारिणः = अत्यन्ताधीरस्य मम मदनानल- बोधने = मदनाग्निप्रज्वलने धाय्या = सामिधेनी अभवत् । 'ऋक् सामिधेनी धाय्या च या स्यादमिसमिन्धने' इत्यमरः । 'पाय्यसान्नाय्य' इत्यादिना निपातः । धिक् वाक्यार्थो निन्द्यः । अत्र तत्कथायाः धाय्यात्मना प्रकृतमदनाग्नीन्धनोपयोगात् परिणा- मालङ्कारः । आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम इत्यलङ्कारसर्वस्वकारः ॥ ५६ ॥ हे हंस ! (विदर्भ देश से आये हुए) नागरिकों ने, अपरिमित मधु के समान (अति मधुर) दमयन्ती की कथा को, मेरे कानों का अतिथि बनाया है। जो (मधुर कथा) मेरी कामाग्नि प्रज्वलित करने में सामिधेनी ऋचा हो गयी (जिस प्रकार अग्नि प्रज्वलित करने में समर्थ ऋचा, अग्नि प्रज्वलित कर देती है, उसी तरह दमयन्ती की मधुर कथा मेरी कामाग्नि प्रज्वलित करने में समर्थ हो जाती है)। मुझ जैसे अधीर धारण करने वाले कामातुर पुरुष को धिक्कार है ॥५६॥ विषमो मलयाहिमण्डला-विषफूत्कारमयो मयोहितः । बत कालकलत्रदिग्भवः पवनस्तद्विरहानलैधसा ॥ ५७ ॥ विषम इति । विषमः = प्रतिकूलः कालकलत्रदिग्भवः = यमदिग्भवः, प्राणहर इति भावः । पवनः = दक्षिणमारुतः, तद्विरहानलैधसा = दमयन्तीविरहा- ग्निसमिधा, तद्दाह्येनेत्यर्थः । मया [ मलयाहिमण्डली-विषफूत्कारमयः ] मलये मलयाचले, या अहिमण्डली सर्पसङ्घः, तस्याः विषफूत्कारमयः, ऊहितः = तद्रूप इति तर्कित इत्यर्थः । लोके च अग्नीरेधांसि फूत्कारवातैर्धमायत इति भावः । बत इति खेदे । विरहानलैधसेति रूपकोत्थापितेयं दक्षिणपवनस्य मलयाहिमण्डली- फूत्कारत्वोत्प्रेक्षेति सङ्करः ॥ ५७ ॥ यमराज की भार्या की दिशा [अर्थात् प्राणान्तकारिणी दक्षिण दिशा] से
सर्गः २ ] जीवातु-मदयन्तिकासहितम् । १०१ उत्पन्न, दक्षिणानल को--हाय ! दमयन्ती की वियोगाग्नि को समीपवर्ती मैं,-- (दक्षिण के) मलय-पर्वत पर रहने वाले सर्प-समूहों की जहरीली फुफकारों से भराहुआ--असह्य (सन्तापकारी) मानता हूँ ॥५७॥ प्रतिमासमसौ निशाकरः खग ! सङ्गच्छति यदिनाधिपम् । किमु तीव्रतरैस्ततः करैर्मम दाह्याय स धैैर्यतस्करैः ॥ ५८ ॥ प्रतिमासमिति । हे खग ! असौ निशाकरो मासि मासि प्रतिमासं = प्रति- दर्शमित्यर्थः । वीप्सायामव्ययीभावः । दिनाधिपं = सूर्ये संगच्छति = प्राप्नोतीति यत् । ततः = प्राप्तेः स = निशाकरः तीव्रतरैरत एव धैर्यतस्करैर्मम = धैर्य- हारिभिः करैः = सौरैः तत आनीतैः मम दाह्याय संगच्छतीत्यनुषङ्गः । किमुशब्द उत्प्रेक्षायाम् । अत्र सङ्गमनस्य दाहार्थत्वोत्प्रेक्षणात् फलोत्प्रेक्षा ॥५८॥ हे हंस ! यह चन्द्रमा जो प्रतिमास (अमावास्या के दिन) सूर्य में प्रवेश करता है तो इसी (सूर्य के सम्पर्क के) कारण ही, उसकी अति तीक्ष्ण और धैर्य का अपहरण करनेवाली किरणों द्वारा मुझे जला रहा है- ऐसा मेरा अनुमान है, (क्योंकि चन्द्र-किरण तो शीतल होती है) ॥५८॥ कुसुमानि यदि स्मरेषवो न तु वज्रं विषवल्लिजानि तत् । हृदयं यदमूमुहन्ममम यच्चातिंतमामतीतपन् ॥५९॥ कुसुमानीति । स्मरेषवः यदि कुसुमान्येव वज्रम् = अशनिः न तु, सद्योमरणभावादिति भावः । तत् = तथा अस्तु, किन्तु विषवल्लिजानि = विष- लतोत्पन्नानि । यत् = अस्माद् अमूः = स्मरेषवः । 'पत्री रोप इषुद्वयोः' इति स्त्री- लिङ्गता,मम हृदयममूमुहन् = अमूर्च्छयन् । मुहृतेर्णौ चङ् । यच्च यस्माद् अतित- माम्=अतिमात्रम् । अव्ययादाम्प्रत्ययः । अतीतपन् = तापयंति स्म । तपतेर्णौ चङ् । मोहितापलक्षणविषमकार्यदर्शनाद्विषवल्लिजत्वोत्प्रेक्षा ॥५९॥ कामदेव के बाण (लोकप्रसिद्धि के अनुसार) यदि फूल ही हैं, वज्र नहीं हैं; तो वे फूल (साधारण पुष्प नहीं, प्रत्युत) विष-बेलि से उत्पन्न हुए हैं; क्योंकि उन्होंने मेरे हृदय को (दमयन्ती के) मोह में डाल दिया है और इसी लिए उस (हृदय) को खूब सन्तप्त करते रहते हैं (साधारण पुष्पों में दाहिका शक्ति नहीं होती) ॥ तदिहानवधौ निमज्जतो मम कन्दर्पशराधिनीरधौ । भव पोत इवावलम्बनं विधिनाऽकारि कतम्प्रणिधिः ॥ ६० ॥
१०२ नैषधचरितम् । [द्वितीयः तदिति । तत् = तस्माद् इह = अस्मिन् अनवधौ = अपारे [कन्दर्प-शराधि- नीरधौ] कन्दर्पशरैर्य आधिर्मनोव्यथा । 'पुंस्याधिर्मानसी व्यथा'इत्यमरः । तस्मि- न्नेव नीरधौ समुद्रे, निमज्जतः=अन्तर्गतस्य मम विधिना=दैवेन । [आकस्मिक- सृष्ट-सन्निधिः] अकस्मादकाण्डे भवमाकस्मिकम् । अध्यात्मादित्वाट् ठक् । अव्ययानां भमात्रे टिलोपः । तद्यथा तथा सृष्टः कृतः सन्निधिः सन्निधानं यस्य सः । भाग्यादागत इत्यर्थः । त्वं पोतः=यानपात्रम् इव । 'यानपात्रं तु पोतः' इत्यमरः । अवलम्बनं भव ॥ ६० ॥ अतः जिस प्रकार समुद्र में डूबते हुए व्यक्ति को, दैवयोग से कहीं से जहाज बनकर, उसके समीप पहुँच जाय और उसका सहायक हो जाय उस प्रकार, पूर्व- वर्णित अथाह कामबाण-जन्य मानसी-व्यथारूपी सागर में डूबते हुए मुझको-तुम दैवयोग से अचानक कहीं से जहाज के रूप में आये और अब (दमयन्ती के मिलने में) सहायक होओ ॥ ६० ॥ अथ वा भवतः प्रवर्त्तना न कथं पिष्टमियं पिनष्टि नः । स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥ ६१ ॥ अथवेति । अथवा इयं नः=अस्माकं सम्बन्धिनी । 'उभयप्राप्तौ कर्मणि'इति नियमात् कर्त्तरि कृद्योगे षष्ठीनिषेधेऽपि शेषषष्ठीपर्यवसानात् कर्त्तर्यर्थलाभः । भवतः । 'उभयप्राप्तौ कर्मणि'इति षष्ठी । प्रवर्त्तना प्रेरणा एथास्रन्थो युच् । कथं पिष्टं न पिनष्टि, स्वतः प्रवृत्तिविषयत्वात् पिष्टपेषणकल्पेत्यर्थः । हि = यस्माद् ग्रहणानां = ज्ञानानां यथार्थता=याथार्थ्यं यथा प्रामाण्यमिव, स्वतः सर्वप्रमाणानां प्रामाण्यमिव, 'गृह्यतां जाता मनीषा स्वत एव मानम्'इति मीमांसकाः । सतां परार्थता = परार्थ- प्रवृत्तिः स्वत एव, न तु परतः । उपमा-संसृष्टोऽर्थान्तरन्यासः ॥ ६१ ॥ अथवा, क्या आपको प्रेरित करनेवाली यह मेरी प्रार्थना पिष्ट-पेषण नहीं है ? क्योंकि सत्पुरुषों की परोपकारिता स्वतः (अपने आप) ही है; जैसे ज्ञान की यथार्थता (प्रामाणिकता) स्वतः होती है (अथवा, जैसे इन्द्रियों की यथार्थता स्वतः पदार्थ- ग्राहकता है) ॥ ६१ ॥ तव वर्त्मनि वर्त्ततां शिवं पुनरस्तु त्वरितं समागमः । अपि साधय साधयेप्सितं स्मरणीयाः समये वय वयः ! ॥ ६२ ॥ तवेति । हे वयः ! हे पक्षिन् ! तव वर्त्मनि शिवं = मङ्गलं वर्त्ततां, त्वरितं =
[सर्गः २ ] जीवातु-मदयन्तिकासहितम् । १०३
क्षिप्रमेव पुनः समागमोऽस्तु । अविसाध्यं कार्यं साधयेत्याह—साधय= सम्पादय; समये=कार्यकाले वयं स्मरणीयाः; अनन्यगामि कार्यं कुर्या इत्यर्थः ॥ हे हंस ! मार्ग में तुम्हारा कल्याण हो; फिर शीघ्र तुम्हारा समागम हो । जाओ, मेरे अभीष्टकार्य को पूरा करो और उपयुक्त समय पर मेरा स्मरण करना ॥ इति तं स विसृज्य धैर्यवान् नृपतिः सूनृतवाग्बृहस्पतिः । अविशद्वनवेश्म विस्मितः श्रुतिलग्नैः कलहंसशंसितैः ॥६३॥ इतीति । धैर्यवान् = उपायलाभात् सधैर्यः [ सूनृतवाग्बृहस्पतिः ] सूनृतवाक् सत्यप्रियवादेषु बृहस्पतिः तथा प्रगल्भ इत्यर्थः । 'सूनृतं च प्रिये सत्यम्' इत्यमरः । स नृपतिः इति = इत्थं तं = हंसं विसृज्य श्रुतिलग्नैः = श्रोत्रप्रविष्टैः [ कलहंसशंसितैः ] कलहंसस्य शंसितैर्विस्मितः सन् वनवेश्म = वनविहार गृहम् अविशत् ॥६३॥ कान में पड़े हुए, राजहंस के कहे हुए वाक्यों से विस्मित हो, सत्य तथा प्रिय बात कहने में बृहस्पति के समान राजा नल ने—इस प्रकार उस हंस को विदा करके-(दमयन्ती के मिलन पर) धैर्यवान् हो, उद्यान-भवन में प्रवेश किया ॥ अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः । क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ ॥६४॥ अथेति । अथ सोऽण्डजः = हंसः तत् एव अहः [भीमसुतावलोकनैः] भीमसुतायाः भैम्याः अवलोकनैः, सफलं कर्तुं तस्मिन्नेव दिने, तां द्रष्टुमित्यर्थः । [क्षितिमण्डलमण्डनायितं] क्षितिमण्डलस्य मण्डनायितमलङ्कारभूतं कुण्डिनं = कुण्डिनाख्यं नगरं ययौ ॥६४॥ तत्पश्चात् वह हंस—भीमराजकुमारी दमयन्ती के दर्शन से (अपने नेत्रों को) सफल बनाने के लिए, भूमण्डल के अलङ्कार के समान कुण्डिनपुर को, उसी दिन रवाना हुआ ॥६४॥ प्रथमं पथि लोचनातिथिं पथिकप्रार्थितसिद्धिशंसिनम् । कलशं जलसम्भृतं पुरः कलहंसः कलयाम्बभूव सः ॥६५॥ अथ श्लोकत्रयेण शुभनिमित्तान्याह-प्रथममित्यादिना। स कलहंसः प्रथमम् = आदौ पथि = मार्गे लोचनातिथिं = अक्षिप्रियं, पथिकानां प्रस्थातृणां, प्रार्थितस्य
१०४ नैषधचरितम् । [ द्वितीयः
इष्टार्थस्य, सिद्धिशंसिनं = सिद्धिसूचकं, जलसम्भृतं = जलपूर्णं कलशं = पूर्णकुम्भं पुरः = अग्रे कल्याम्बभूव = ददर्श ॥६५॥ उस राजहंस ने राह में पहले-पहल, यात्रियों के अभिलषित मनोरथों की सिद्धि की सूचना देनेवाले, सामने से आते हुए जलपूर्ण कलश को देखा ॥६५॥ अवलम्ब्य दिदृक्षयाम्बरे क्षणमाश्चर्यरसालसं गतम् । स विलासवनेऽवनीभृतः फलमैक्षिष्ट रसालसङ्गतम् ॥६६॥ अवलम्ब्येति । स = हंसो दिदृक्षया = स्वगन्तव्यमार्गालोकनेच्छया अम्बरे क्षणम् [ आश्चर्यरसालसं ] आश्चर्यरसेन तद्वस्तु दर्शननिमित्तेन अद्भुतरसेन, अलसं मन्दं, गतं=गतिम् अवलम्ब्य अवनीभृतः=नलस्य विलासवने=विहारवने [ रसाल-सङ्गतं ] रसालेन चूतवृक्षेण, सङ्गतं सम्बद्धम् । 'आम्रश्चूतो रसालोऽसौ' इत्यमरः । फलम् ऐक्षिष्ट = दृष्टवान् ॥६६॥ राजहंस ने (विलास-कानन के) देखने की इच्छा से, आकाश में क्षणभर तक, आश्चर्य-रस के कारण मन्द गति का आश्रय लेकर, राजा नल के क्रीडा-उद्यान में, आम्र के पेड़ में लटकता हुआ आम का फल देखा ॥६६॥ नभसः कलभैरुपासितं जलदैर्भूरितर-क्षुपन्नगम् । स ददर्श पतङ्गपुङ्गवो विटप-च्छन्न-तरक्षु-पन्नगम् ॥६७॥ नभस इति । पुमान् गौः वृषभः, विशेषणसमासः । 'गोरतद्धितलुकि' इति समासान्तष्टच् । स इव पतङ्गपुङ्गवः = पक्षिश्रेष्ठः उपमितसमासः । स नभसः कलभैः=खेचरकरिकल्पैरित्यर्थः । जलदैरुपासित=व्याप्तं । [भूरितर-क्षुपन्नगम् ] भूरयः बहवस्तरक्षवो मृगादनाः पन्नगा यस्य तम् । [विटप-च्छन्न-तरक्षु-पन्नगम् ] विटपैः शाखाविस्तारेण । 'विस्तारो विटपोऽस्त्रियाम्' इत्यमरः । छन्नतराः अतिशयेन छादिताः, क्षुपा ह्रस्वशाखाः । 'ह्रस्वशाखाशिफः क्षुपः' इत्यमरः । यस्य तम् । नगं पर्वत ददर्श । पूर्णकुम्भादिदर्शनं पान्थक्षेमकरमिति निमित्तज्ञाः ॥६७॥ पक्षिश्रेष्ठ हंस ने—आकाश के कलभ (हाथी के बच्चों) के आकार के (काले- काले) मेघों से व्याप्त और बहुत सी झाड़ियों से शोभायमान एक पहाड़ को देखा — जिसके पेड़ों की शाखाओं में लकड़बग्घा और सर्प छिपे हुए थे ॥६७॥ स ययौ धुतपक्षतिः क्षण क्षणमुदूर्ध्वायनदर्विभावनः । विततर्क्षततिर्निश्चलच्छदः क्षणमालोककदत्तकौतुकः ॥६८॥
सर्गः २ ] जीवातु-मदयन्तिकासहितम् । १०५ स इति । स = हंसः क्षण॑ धुतपक्षतिः = कम्पितपक्षमूलः क्षण [ऊर्ध्वाय- नदुर्विभावनः ] ऊर्ध्वायनेन ऊर्ध्वगमनेन, दुर्विभावनो दुष्करावधारणो दुर्लक्ष इत्यर्थः । [ विततीकृतनिश्चलच्छदः ] विततीकृतौ विस्तारीकृतौ निश्चलौ छदौ पक्षौ यस्य सः तथा क्षणम् [ आलोककदत्तकौतुकः ] आलोककानां द्रष्टृणां, दत्त- कौतुकः सन्, ययौ । स्वभावोक्तिः ॥६८॥ वह हंस कुछ देर तक अपने पंखों को फड़कड़ाता, फिर कुछ देर तक बहुत ऊँचाई पर उड़ने से अलक्ष्य हो जाता, बाद में कुछ देर तक अपने दोनों पंखों को निश्चल फैलाकर उड़ता—इस प्रकार दर्शकों को तमाशा देखाता हुआ ( कुण्डिनपुर की ओर ) चला ॥६८॥ तनुदीधितिधारया रयाद्गतया लोकविलोकानामसौ । छदहेम कषन्निवालसत् कषपाषाणनिभे नभस्तले ॥६९॥ तन्विति । असौ = हंसो रयात् हेतोः उत्पन्नयेति शेषः । [ लोकविलोकानां] लोकस्य आलोकिजनस्य, परीक्षकजनस्य च, विलोकनां दर्शनं, गतया = कौतुकादूर्ण- परीक्षां च विलोक्यमानयेत्यर्थः । [ तनुदीधितिधारया ] तनोः शरीरस्य, तन्वा सूक्ष्मया च, दीधितिधारया रश्मिरेखया निमित्तेन । कषपाषाणनिभे = निकषोपल- सन्निभे नभस्तले छदहेम = निजपक्षसुवर्णं कषन् = घर्षन् इव अलसत् = अशो- भतेत्युत्प्रेक्षा ॥६६॥ वह हंस वेग के कारण लोगों के दृष्टिगोचर हुए, अपने शरीर के ( पीले रंग की पतली रेखा के ) प्रभा-प्रवाह के कारण ऐसा शोभित हुआ, मानों कसौटी के समान ( नीले रंग के ) आकाश में पंख के सोने को कस (जाँचने के लिए घिस) रहा हो ॥६६॥ विनमद्भिरधःस्थितैः खगैर्झटिति श्येननिपातशङ्किभिः । स निरैक्षि दृशैकयोपरि स्यद-सांकारि-पतत्र-पद्धतिः ॥७०॥ विनमद्भिरिति । [ स्यद-सांकारि-पतत्र-पद्धतिः ] स्यदेन वेगेन, सांका- रिणी सामिति शब्दं कुर्वाणा, पतत्रिपद्धतिः पक्षिसरणिर्यस्य-स = हंसः [ श्येन- निपात-शङ्किभिः ] श्येननिपातं शङ्कत इति तच्छङ्किभिः अत एव विनमद्भिः = विलीयमानैः अधःस्थितैः खगैः झटिति = द्राक् एकया दृशा उपरि निरैक्षि = निरीक्षितः । कर्मणि लुङ् । स्वभावोक्तिः ॥ ७०॥
१०६ नैषधचरितम् । [द्वितीयः उस से नीचे उड़ते हुए पक्षियों ने—बाज़ के झपटने की आशंका से, एक ही नज़र से, झट ऊपर की ओर उस राजहंस की तरफ देखा—जिसके दोनों पंखों में से वेग के कारण साँय साँय की आवाज़ निकल रही थी ॥ ७० ॥ ददृशे न जनेन यन्नसौ भुवि तच्छायामवेक्ष्य तत्क्षणात् । दिवि दिक्षु वितीर्णचक्षुषा पृथुवेगद्रुतमुक्तदृक्पथः ॥७१॥ ददृश इति । यन् = गच्छन् । इणो लटः शत्रादेशः । असौ = हंसः, भुवि तच्छायां = तस्य हंसस्य छायां । 'विभाषा सेना' इत्यादिना नपुंसकत्वम् । अवेक्ष्य तत्क्षणात् प्रथमं दिवि पश्चात् दिक्षु च वितीर्णचक्षुषा = दत्तदृष्टिना जनेन [ पृथु-वेग-द्रुत-मुक्त-दृक्पथः ] पृथुवेगेन द्रुतं शीघ्रं मुक्तदृक्पथः सन्, न ददृशे = न दृष्टः, क्षणमात्रेण दृष्टिप्रथमतिक्रान्त इत्यर्थः ॥ ७१ ॥ पृथ्वी पर उसकी छाया देख कर, उसी क्षण आकाश और दिशाओं की ओर नज़र फेंकते हुए लोगों को—तेज चाल के कारण—शीघ्र ही दृष्टिमार्ग से ओझल हो जाने वाला, उड़ता हुआ वह हंस नहीं दिखलाई पड़ता ॥ ७१ ॥ न वनं पथि शिश्रियेऽमुना क्वचिदप्युच्चतर-द्रु-चारुतम् । न स गोत्रजमन्ववादि वा गति-वेग-प्रसरद्रुचा रुतम् ॥७२॥ नेति । [ गतिवेग-प्रसरद्रुचा ] गतिवेगेन प्रसरद्रुचा प्रसर्पत्तेजसा, अमुना =हंसेन पथि क्वचिदपि [ उच्चतर-द्रु-चारुतं ] उच्चतराणां अत्युन्नतानां द्रूणां द्रुमाणां, चारुता रम्यता, यस्मिंस्तत् । वनं न शिश्रिये । सगोत्रजं = बन्धुजन्यं रुतं = कूजितं वा नान्ववादि = नानूदितम् । मध्यमार्गे अध्वश्रमापनोदनं बन्धु- सम्भाषणादिकमपि न कृतमिति सुहृत्कार्यानुसन्धानपरोक्तिः । 'पलाशी द्रुद्रुमागमाः' इत्यमरः ॥ ७२ ॥ अपनी तेज चाल से कान्ति फैलाता हुआ वह हंस—मार्ग में कहीं भी बड़े ऊँचे-ऊँचे पेड़ों से सौन्दर्यशाली वनमें, (विश्राम करने के लिए) न ठहरा और न तो अपने स-जातीय हंसों के कूजन (के प्रत्युत्तर में उस) का अनुमोदन ही किया । अथ भीमभुजेन पालिता नगरी मञ्जरसौ धराजिता । पतगस्य जगाम दृक्पथं हर-शैलोपम-सौध-राजिता ॥ ७३ ॥ अथेति । अथ धराजिता = भूमिजयिना । 'सत्सू द्विष'इत्यादिना किपि तुक् । [ भीमभुजेन ] भीमस्य भीमभूपस्य, भुजेन पालिता, [ हर-शैलोपम-सौध-
सर्गः २ ] जीवातू-मदयन्तिकासहितम् । १०७ राजिता ] हरशैलोपमैः सौधैः राजसद्मभिः, राजिता, मंजुमनाशी असौ = पूर्वोक्ता नगरी = कुण्डिनपुरी पतगस्य = हंसस्य दृक्पथं जगाम = स तां ददर्शेत्यर्थः । अत्र यमकाख्यानुप्रासस्य हिमशैलोपमेति उपमायाश्च संसृष्टिः ॥ ७३ ॥ तदनन्तर पृथ्वी-विजेता भीमराजा की भुजाओं से पालित, सुन्दर, कैलास पर्वत के समान ( सफेदी से धवल ), राज-प्रासादों से सुशोभित ( कुण्डिन ) नगरी उस हंस के दृष्टिगोचर हुई ॥ ७३ ॥ दयितं प्रति यत्र सन्तता रतिहासा इव रेजिरे भुवः । स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तानरङ्कभित्तयः ॥७४॥ तां वर्णयति — दयितमिति । यत्र = नगर्यां, स्फटिकोपलविग्रहाः = स्फुटि- कमयशरीरा इत्यर्थः । अत एव शशभृद्भित्तनिरङ्कभित्तयः = शशाङ्कशकलनिष्कल- ङ्कानि कुड्यानि येषां ते । 'भित्तं शकलखण्डे वा' इत्यमरः । भिदेः क्तिप्रत्ययः । 'भित्तं शकलम्' इत्यादि निपातनात् 'रदाभ्याम्' इत्यादिना निष्ठानत्वभावः । गृहाः दयितं = भीमं प्रति सन्तता भुवः = भूमेर्नायिकायाः, रतिहासाः = केलिहासा इव रेजिरे । इत्युत्प्रेक्षा ॥ ७४ ॥ जिस नगरी में बिल्लौर के बने हुए शरीर वाले, चन्द्रमा के टुकड़े की भाँति ( जड़ी हुई मणियों से ) निष्कलङ्क दीवाल वाले घर—अपने प्राणवल्लभ के प्रति निरन्तर किये गये, पृथ्वी-नायिका के रतिकाल के समय के (मन्द) हास्य के समान—शोभायमान हो रहे थे ॥ ७४ ॥ नृपनीलमणिग्रहोत्विषामुपधेर्यत्र भयेन भास्वतः । शरणाप्तमुवास वासरेऽप्यसदावृत्त्युदयत्तमं तमः ॥७५॥ नृपेति । यत्र=नगर्यां तमः=अन्धकारः भास्वतः=भास्करात् भयेन [ नृप- नीलमणी-गृह-त्विषाम् ] नृपस्य ये नीलमणीनां गृहाः, तेषां त्विषः, तासां उपधेः= कुहनादित्यपह्नवभेदः । 'रत्नं मणिर्द्वयोः' इत्यमरः । कृदिकारादक्तिनः इति ङीष् । शरणाप्तं शरणं गृहं रक्षितारमन्वागतम् । 'शरणं गृहरक्षित्रोः' इत्यमरः । वासरे = दिवसेऽप्यसदावृत्ति=अपुनरावृत्ति किञ्च उदयत्तमम्=उद्यत्तमं सद्उवास ॥७५॥ उस नगरी में नीलम मणि के बने हुए, राजमहलों की कान्ति के बहाने, अतिशय गहन अन्धकार, मानो सूर्य के भय से सदा एक भाव से विद्यमान, घरके भीतर आकर ( ऐसा रक्षक पाकर ) 'दिन' में भी रहता था ॥ ७५ ॥
१०८ नैषधचरितम् । [ द्वितीयः सित-दीप्र-मणि-प्रकल्पिते यद्गारे हसद्ङ्करोदसि । निखिलान्निशि पूर्णिमा तिथीनुपतस्थेऽतिथिरैकिका तिथिः॥७६॥ सितेति । [ सित-दीप्र-मणि-प्रकल्पिते ] सितैः दीप्रैश्च मणिभिः प्रकल्पिते = उज्ज्वलस्फटिकनिर्मिते हसद्ङ्करोदसि = विलसद्ङ्करोदस्के, द्यावापृथिवीव्यापि- नीत्यर्थः । यद्गारे = यस्या नगर्या गृहेष्वित्यर्थः । जातावेकवचनम् । निशि निखि- लान् तिथीन् एकिका = एकाकिनी, एकैवेत्यर्थः । 'एकादाकिनच्चासहाये' इति चकारात् कन्प्रत्ययः । 'प्रत्ययस्थात् कात् पूर्वस्य' इतीकारः । पूर्णिमा तिथिः = राकातिथिः । 'तदाद्यास्तिथयो द्वयोः' इत्यमरः । अतिथिः सन् उपतस्थे = अति- थिर्भूत्वा सङ्गतेत्यर्थः । 'उपाद्देवपूजा' इत्यादिना सङ्गतिकरणे आत्मनेपदम् । स्फटिक- भवनकान्तिनित्यकौमुदीयोगात् सर्वा अपि रात्रयो राकारात्रय इवासन्नित्यभेदोक्ते- रतिशयोक्तिभेदः ॥७६॥ उस नगरी के सफेद और दीप्तिशाली ( स्फटिक ) मणि के बने हुए, आकाश एवं पृथ्वी के बीच के हँसते हुए ( प्रकाशमान ) भाग वाले—भवनों में, 'रात्रि' के समय, अकेली पूर्णिमा तिथि, सब तिथियों के पास, अतिथि होकर आती थी ( अर्थात् स्फटिक मणि के बने हुए विशाल तथा गगनचुम्बी भवनों की शुभ्र चमक से, आकाश से लेकर धरातल के बीच का भाग, रात्रि में चन्द्रकिरण से सम्पर्क पाकर, जगमगाता रहता था; जिस से अमावास्या आदि तिथियों में भी अन्धकार का अभाव रहता था और लोग सब रात को पूर्णिमा की ही रात समझते थे ) ॥ सुदतीजन-मज्जनार्पितैर्घुसृणैर्यत्र कषायिताशया । न निशाखिलयापि वापिका प्रससाद ग्रहिलैव मानिनी ॥७७॥ सुदतीति । यत्र = नगर्यां [ सुदतीजन-मज्जनार्पितैः ] शोभना दन्ता यासां ताः सुदत्यः स्त्रियः । अत्रापि विधानाभावाद्दन्तादेशश्चिन्त्य इति केचित् । 'अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च' इति चकारात् सिद्धिरित्यन्ये । सुदत्यादयः स्त्रीषु योगरूढाः, 'स्त्रियां संज्ञायाम्' इति, दत्रादेशात् साधव इत्यपरे । तदेतत्सर्वमभि- सन्धायह वामनः- 'सुदत्यादयः प्रतिषेधयाः इति । ता एव जना लोकाः तेषां मज्जनादवगाहनादर्पितैः क्षालितैः, घुसृणैः = कुङ्कुमैः कषायिताशया = सुरभिता- भ्यन्तरा भोगचिह्नैः कलुषितहृदया च, आशयेन वापिका=दीर्घिका ग्रहिला=ग्रहः । 'ग्रहोऽनुग्रहनिर्वन्धौ' इति विश्वः । तद्वती दीर्घरोषा । पिच्छादित्वादिलच्, दिवादिः ।