भारतकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

तृतीय उच्छ्वासः । ८३ गगनलक्ष्मीमभिसारिकामिवान्धावन्धकारे, राज्ञः संध्यावसरमावेदयत्किं- नरमिशुनमिदमगायत् ॥ क ॥ 'भोगान्भो गाङ्गवीचीविमलितशिरसः प्राप्य शंभोः प्रसादा- न्मोहान्मोहानभिज्ञाः क्वचिदपि भवत प्राणिनो दर्पभाजः । यस्माद्यः स्मार्तविप्रप्रणतिनुतपदः सर्वसंपन्नभोगो भास्वान्भाः स्वाङ्गभूता अपि स परिहरन्नस्तमेष प्रयाति'॥२२॥ एतदाकर्ण्य नरपतिः सांध्यं विधिमन्वतिष्ठत् ॥ ख ॥ क्रमेण प्रचुरचलच्चाँपकुलकालकान्तिकाशिभिर्बहलंतमःकल्लोलैरा- लोडिते लोके लोकेश्वरो विहितविकालवेलान्यापारः पारसीकोपनीत- पारावारपारीणपारावतपत्रिपञ्जरसनाथे विकीर्णवासधूलिनि धूपधूम- मुचि विचित्रचित्रशालिनि प्रान्तप्रदीपितंदीपदीपिद्विदण्डखण्डिततमसि सज्जितशय्ये शय्यागृहे गृहीतस्पृहणीयाङ्गरागो रागसागरकल्लोललोच- नयानया प्रियया प्रियंगुमञ्जर्या अलीककलहकोपकुटिलभ्रमद्भ्रूकूणत- र्जनजनितस्मितः स्मरविकारकारिकरिकुलकुम्भविव्रमायमाणोत्तुङ्ग- पीवरकुचकुम्भपीठमारोपितो रजनी मनैषीत् ॥ ग ॥ एवमस्य सकलसंसारसुखपरम्परामनुभवतो यान्ति दिवसाः ॥घ॥ कदाचिच्चारुचामीकराचलचलद्देहाधिदेवतेव बहुधानन्दने सुरुचि- पश्चिमदिगानने रक्ते जाते । अन्यस्या अपि मुखमीदृग्गुणायामपरकान्तायामनुरा- गिणमुपरि पतितं पतिमवलोक्येर्ष्यावशाद्रक्तं स्यात् ॥ क ॥ भोगानिति ॥ भोगानित्यनन्तरो भोःशब्द आमन्त्रणे । गाङ्गोर्मिनिर्मलीकृता- ङ्गस्य शंभोः शिवस्य प्रसादाद् भोगान् प्राप्य भो दर्पभाजः प्राणिनः, मोहात्स- काशाद् ऊहानभिज्ञा अविमर्शकाः क्वचिदपि विषये मा भवतेति । मायोगेऽपि सानुबन्धकलाद्विधौ पञ्चमी । यस्माद्धेतोः स्मार्तविप्रैः प्रमाणसमये स्तुतपादपद्मः । तथा सर्वसंपत् सकलश्रीको नभोगो वियद्गामी च यो भाखान् रविः । सोऽपि स्वाङ्गभूता भा दीप्तीः परिहरन् एष भवतां प्रत्यक्षोऽस्तं प्रयाति सर्वे सुलभा दुर्ल- भाश्च संपन्ना भोगा अस्येत्युक्ताभिहितम् । तस्मादेवंविधस्य महात्मनोऽपि रवेरस्तं विलोक्य शंभोराराधनादिकार्ये न प्रमदितव्यमित्यर्थः ॥ २२ ॥ कदाचिदिति ॥ बहुधा नन्दयति हर्षयति यस्तस्मिन् । यौवनारम्भे । सुरु १ 'आवेदयितुम्'. २ 'क्रमेण च'. ३ 'चापकुलकान्ति'. ४ 'बहलतमतमः'. ५ 'दीपप्रदीप'. ६ 'कल्लोललोललोचनया'. ७ 'पीवर'. ८ 'कुलकुम्भकण्ठपीठ'. ९ 'आरोपितकर'

रवा यौवनारम्भे सुरतोत्सवमनुभवन्ती पत्युः प्राणप्रिया प्रियंगुमञ्जरी गर्भं बभार ॥ क ॥ तेन च विकचचूतमञ्जरीव कोमलफलवन्धेन बन्धुररमणीयाकृतिः, चन्द्रकलेव कलाप्रवेशेनोपचीयमानप्रभा, प्रभातवेलेवोन्मीलदंशुमालि- मण्डलेनानन्द्यमाना, रत्नाकरतरङ्गमालेवान्तःस्फुरन्माणिक्यकान्तिक- लापेनोद्भासमाना, गर्भसंदर्भितेन लावण्यपरमाणुपुञ्जेन व्यराजत राजमहिषी ॥ ख ॥ गच्छत्सु च केषुचिद्दिवसेषु सुवृत्ततुहिनाचलगण्डशैलयुगलमिव वालमयूरिकाक्रान्तम्, अनङ्गसौधशिखरद्वयमिव शेखरीकृतेन्द्रनीलक- लशम्, उज्ज्वलरौप्यनिधानकुम्भयुग्ममिव भुजंगसंगतमुखम्, उल्ला- सिहंसमिथुनमिव चञ्चूत्खातपङ्किर्कमलकन्दम्, ऐरावतमस्तकपिण्ड- पाण्डुरमुच्चचूचुकश्यामलिम्नाऽलंकृतमापूर्यमाणमन्तःक्षीरेण क्षणं क्षण- मखिद्यत पयोधरद्वन्द्वमुद्वहन्ती ॥ ग ॥ बबन्ध च चन्द्रकलाङ्कुरकवलने स्पृहाम् ॥ घ ॥ अभिलाषमकरोच्च चञ्चलचञ्चरीककुलकलरवरमणीयविकचचूत- वनविहारेषु ॥ ङ ॥ स्पर्शममन्यत बहु वहलमभ्यर्णावकीर्णविकसितकमलवननिष्य- न्दिमकरन्दविन्दोर्मन्दतरेतरङ्गसङ्गशीतलमलयमारुतस्य ॥ च ॥ चिन्तयांचकार च चतुरुदधिलावण्यरसमास्वादयितुम् ॥ छ ॥ अभ्यवाञ्छदुतुच्छमच्छमशेषममन्दमन्दरमन्थानमन्थोत्पन्नममृत- मातृप्ति पातुम् ॥ ज ॥


रुचिरिच्छा रवः स्वरो यस्याः । शोभनाभिलाषा कलभाषिणी च । सुरतं मोहन- मेवोत्सबमनुभवन्ती प्रियंगुमञ्जरी गर्भं दधे । चामीकराचलो मेरुस्तस्य चलद्देहा अधि- ष्ठातृदेवतेव । सोऽपि बहुधानेकधा नन्दनाख्ये वनारम्भे सुष्ठु अतिशयेन रुचिर- वायौ सुरताया देवत्वस्योत्सबमनुभवति । आरम्भणमारम्भः आदिरित्यर्थः । नन्दनं हि वनानामादिरम्यं प्रधानमित्यर्थः । यदिवा वनान्यरभ्यन्तेऽनेनेति कृत्वा वनारम्भः । शतानन्देन हि प्रथमं नन्दनं सृष्ट्वा तद्वृक्षावयवैर्बीजशाखादि- भिरितरवनानि जगति सृष्टानि ॥ क ॥


१ 'बन्धुरा'. २ 'अंशुनांशुमाली'. ३ 'लावण्यपुण्यपरमाणु'. ४ 'बालमयूर'. ५ 'संगतम्'. ६ 'कमलकोमलकन्दम्'. ७ 'पिण्डमिवोपरि मदलुब्धभ्रमदलिकुलारंकृतं पाण्डुरम्'. ८ 'क्षीरेण क्षणमखिद्यत'. ९ 'बहुलम्'. १० 'तरङ्गशीतलमारुतस्य'. ११ 'अभ्यवाञ्छदच्छ'. १२ 'मथनोत्पन्न'.

तृतीय उच्छ्वासः । ८५ इत्यनेकधोत्पन्नगर्भप्रभावोदानुरूपदोहदसंपत्तिसंपन्नाधिककमनीय- कान्तिरुल्लसद्बहुलमृगमदजललिखितविचित्रपत्रभङ्गभव्यविपुलकपोल- मण्डलेन मुखेन शशाङ्कमन्तःस्फुरत्कलङ्कमुपहसन्ती द्विगुणमवनिफ्ते- स्तस्य प्रिया प्रियंगुमञ्जरी बभूव ॥ क ॥ तथा हि । सा समीपस्थितज्येष्ठा पयःपूर्णपयोधरा । अग्रप्रावृडिवाह्लादमकरोत् तस्य भूपतेः ॥ २३ ॥ एवमविरतविविधवाञ्छोत्सवाविच्छेदकर्तरि भर्तरि, संज्ञयैवाज्ञा- कारिण्यपारे पैरिंकारे, वैहुभङ्गिभाग्योपभोगक्रमेणातिक्रामति कुत्रचि- त्काले, कालकलाकुशलश्लाघनीये पूर्णप्राये प्रसवसमये, विलीनजात्य- शातकुम्भभासि भास्वत्युदयमारोहति, हततिमिरासु दिक्षु क्षणमेकं सा प्रसववेदना व्यतिकरमन्वभूत् ॥ ख ॥ ततश्च प्रभासंयोगिविख्यातं योग्यं नालस्यकर्मणः । पृथ्वीय पुण्यतीर्थ सा कन्यारत्नमजीजनत् ॥ २४ ॥ तत्र च दिवसे 'विकसितकुमुदकुन्दकान्तिकीर्तनीयकीर्तिसुधया धवलानिकरिष्यत्येषा प्रवर्धमानास्मन्मुखानि' इति प्रियादिव प्रसन्नाः तेनेति ॥ कुसुमान्तर्गूढः फलारम्भकरसकणिकारूपो बन्धः कोमलफलबन्धः ॥ क ॥ सा समीपेति ॥ समीपे स्थिता ज्येष्ठा वृद्धस्त्रियो ज्ञातप्रसवस्वरूपा यस्याः । तथा पयसा क्षीरेण पूर्णौ पयोधरौ स्तनौ यस्याः । सा प्रियंगुमञ्जरी तस्य राज्ञो मुदमकरोत् । अग्रे प्रावृषोऽग्रप्रावृट् आषाढवर्षाः । तत्पक्षे समीपे स्थितो ज्येष्ठः शुक्लो मासो यस्याः । तथा पयसा जलेन पूर्णः पयोधरो मेघो यस्याः । भुवो हि प्रावृट् परमोदकारिणीति भुवः पत्युराह्नादं करोति ॥ २३ ॥ प्रभेति ॥ कान्तिसंयोगि । विख्यातं प्रसिद्धम् । नलस्य नृपतेरिदं नाल्मम् । कर्म अगण्यपुण्यात्मकं तस्य । योग्यमुचितम् । कन्यारत्नम् । सा । अजीजनदुत्पा- दयामास । पृथ्वी पुण्यतीर्थमिव । तदपि प्रभासाख्यम् । योगिभिर्योगमार्गस्तैर्वि- ख्यातम् । आलस्य असारस्य कर्मणो न योग्यम् । अथ च आलस्यकर्मणो न योग्यम् । किं तर्हि उद्यमक्रियायोग्यम् । ततस्तदर्थे केनापि न प्रमदितव्यमिति भावः ॥ २४ ॥ तत्र चेति ॥ कन्यारत्नान्वेषिणो हि । सुरभयः सौरभ्यवन्तः । समा सश्री- १ 'शशाङ्कमङ्क'. २ 'भूसूतः'. ३ 'परिजने'. ४ 'अङ्गोपभोग'. ५ 'क्षणमिव सा'. ६ 'कान्ति'. ८

८६ नलचम्पूः । समपद्यन्त दश दिशः। 'मा स्म पुनरस्मद्गुणानेषापहार्षीत्' इत्यपहृतैकै- कसारगुणाः सभया नमस्यन्त इव तस्यै कुसुमाञ्जलिममुञ्चँश्चेन्द्रादयो देवाः। स्वकान्तिसर्वस्वापहारभयादिव दिवि ननृतुरप्सरसः। 'किमस्याः समं समुत्पन्नमन्यदपि कन्यारत्नम्' इत्यन्विष्यन्त इव परितः परि- बभ्रमुः सुरभयः समाः समीराणाः ॥ क ॥ किं बहुना । अमन्दानन्दनिष्यन्दमपास्तान्यक्रियाक्रमम् । जगज्जन्मोत्सवे तस्याः पीतामृतमिवाभवत् ॥ २५ ॥ अथ बहोः कालादनुरूपप्रौढप्रहरणप्राप्तिप्रीतहृदयेनास्फोटितमिव सकलजगद्विजयव्यवसायसाहसिकेन कुसुमसायकेन, चिरादुचिताश्र- यलाभमुदितमनसा स्फूर्जितमिव शृङ्गाररसेन, शुचिकाशकुसुमहास्येन योग्यसहकारिकारणोपलम्भपूर्णमनोरथेन वल्गितमिव वसन्तमासेन, निजकर्मणः सफलतां मन्यमानेनोच्छ्वसितमिव मलयानिलने, चिर- कालोपलब्धश्लाघ्याधारतया हसितमिव रूपसंपदा, विकँसितमिव लावण्यलक्ष्म्या, प्रनृत्तमिव समस्तस्त्रीलक्षणाधिदेवतया, कलकलित- मिव कान्तिकलापश्रिया ॥ ख ॥ किं बहुना । सर्गव्यापारखिन्नस्य बहोः कालाद्विधेरपि । आसीदिमां विनिर्माय श्लाघ्यः शिल्पपरिश्रमः ॥ २६ ॥ एवमस्याः सततविस्तीर्णस्वर्णपूर्णपात्रपूजितपूज्यद्विजन्मनि संपन्ने नामकर्मसमये सँमान्य मान्यजनं जनेश्वरो वरप्रदानमनुस्मृत्य दमन- कमुनेः 'दमयन्ती' इति नाम प्रतिष्ठितवान् ॥ ग ॥ क्रमेण च प्रचुरौमृतसंसिक्ता इव सुकुमाराः प्रसर्तुमारभन्ताङ्गाव- यवपल्लवाः, चकार च चञ्चच्चामीकररुचिरुचिराङ्गणमणिवेदिकासु कैश्चिद्दिवसैरनुच्चचरणप्रचारचारुचापत्यलीलाः, सहासमकरोत्परिजनं जनयन्ती बांलकेलीः, स्वच्छन्दमानन्दयांचकार पितरं तैरङ्गभङ्गीँरङ्गि- काश्च भवन्ति ॥ क ॥ १ 'प्रवर्धमाना शश्वदस्मात्'. २ 'इन्द्रादयः'. ३ 'स्वविकासहासयोग्य'. ४ 'आधारया'. ५ 'विलसितमिव'. ६ 'सामान्यजनो जनेश्वरः'. ७ 'अमृतरससंसिक्ताः'. ८ 'बालके- लिम्'. ९ 'तरत्तरङ्ग'. १० 'रिङ्गितैन'.

तृतीय उच्छ्वासः । ८७ तेन, जननीमजीजनज्जातविस्मयां स्मितमुग्धदर्शितदन्तकान्तिकुन्दपु- ष्पमनिष्पन्नाक्षरमल्पालपं जल्पन्ती ॥ क ॥ किं बहुना । अपि रेणुकृतक्रीडं नरेणुक्रीड्यान्वितम् । तस्याः प्रौढं शिशुत्वेऽपि वयो वैचित्र्यमावहन् ॥ २७ ॥ एवमियमनवरतस्वैरविहाराहारिणि क्रमेणातिक्रामति शैशवे वयसि पितुर्नियोगाद्गुरूपदेशात्साधुवृद्धसंवासाद्बुद्धिविकासाच्च नातिचिरेण, प्राप्ता नैपुण्यं पुण्यकर्मारम्भेषु, जाता प्रवीणा वीणासु, निराकुला कुलाचारेषु, कुशला शलाकालेख्येषु, विशारदा शारिदायेषु, प्रबुद्धा प्रबन्द्धालोचनेषु, चतुरा चातुरानाथजनचिकित्सासु ॥ ख ॥ किं चान्यत् । अकरोदनालस्यं लास्ये, प्राप प्राधान्यं धन्योचितव्यवहारेषु, वैचित्र्यं चित्रेषु, चातुर्यं तौर्यत्रिके, कौशलं शल्योद्धारे, पाटवं पटहवादने, वैमल्यं नवमाल्यग्रथने, प्रागीत्यं गीत्याम्, प्राकाम्यं कामकथासु ॥ग॥ किं बहुना । न तत्काव्यं न तन्नाट्यं न सा विद्या न सा कला । यत्र तस्याः प्रबुद्धाया बुद्धिर्नैव व्यजृम्भत ॥ २८ ॥ एवमस्याः शैशव एव निजजरठप्रज्ञाप्रज्ञातज्ञातव्यवस्तुविस्तरायाः क्रमेण तिलकभूतं नूतनचूतवनमिव वसन्तप्रवेशप्रथमपल्लवोल्लासेन, प्रत्यग्रघनससमयमहीमण्डलमिवामन्दविर्दलत्कन्दलकलापेन केसरिकि- शोरकण्ठपीठमिव नवकेसराङ्कुरोद्वारेण, करिकलभकपोलस्थलमिव प्रथममदोद्भेदेन, निशावसाननभस्तलमिव प्रभातप्रारम्भप्रभाप्रभावेण, सरःसलिलमिव विदलितकोमलकमलकान्तिसंतानेन, मनोहारिणा अपीति ॥ रेणुना कृता क्रीडा यत्र । तथा 'कस्त्वां परिणेष्यति, त्वं कस्मै दातव्या' इत्याद्युक्तिभिर्नरे पुंसि विषये अणुक्रीडान्वितमल्पक्रीडाकरम् । तस्याः संबन्धि । वयः । शैशवेऽपि प्रौढं वैचित्र्यं दधौ । अपिर्विरोधार्थः । स च तुल्या- र्थव्याख्यया ॥ २७ ॥ अकरोदिति ॥ प्रगीता प्रसिद्धा तस्या भावः प्रागीत्यम् ॥ ग ॥ १ 'स्मितमुग्धदुग्धस्निग्धदर्शित'. २ 'कान्तिजितकुन्द'. ३ 'एवमस्या अनवरत'. ४ 'विहार'. ५ 'सप्रबन्धा'. ६ 'चतुगातुरा'. ७ 'चित्रे'. ८ 'शल्योद्धारेषु'. ९ 'कथायाम्'. १० 'विजृम्भते'. ११ 'प्रज्ञातव्य'. १२ 'विगलत्'. १३ 'प्रभातप्रभा'. १४ 'प्रसरेण'. १५ 'विदल्लत्'.

संसारसारभूतेनाभूष्यत वपुः कान्ततरतारुण्यावतारप्राक्प्रारम्भेण ॥ क ॥ ततश्च । परिहरति वयो यथा यथाऽस्याः स्फुरदुरुकन्दलशालि बालभावम् । द्रढयति धनुषस्तथा तथा ज्यां स्पृशति शरानपि सज्जन्मनोभूः ॥ २९ ॥ अपि च । मुञ्चन्त्याः शिशुतां भरादवतरत्तारुण्यमुद्राङ्कित- स्फारीभूतनितान्तकान्तवपुषस्तस्याः कुरङ्गीदृशः । उन्मीलत्कुचकाञ्चनाव्जमुकुलं यूनां मुहुः पश्यतां बाह्वोरन्तरमन्तरायसदृशा मन्ये निमेषा अपि ॥ ३० ॥ ततश्च तत्तस्याः कमनीयकान्तविजितत्रैलोक्यनारीवपुः शृङ्गारस्य निकेतनं समभवत्संसारसारं वयैः । यस्मिन्विस्मृतपक्ष्मपालिचलनाः कामाल्सा दृष्टयो नो यूनां पुनरुत्पतन्ति पतिताः पाशे शकुन्ता इव ॥ ३१ ॥ अपि च । आबभ्रत्परिवेषमण्डलमलं वक्त्रेन्दुविम्बाद्वहिः कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् । तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥३२॥” एतदाकर्ण्य राजा रञ्जितस्तत्कथया पुनरुद्गच्छदुच्चरोमाञ्चकञ्चु- कितकायस्तत्कालमेवान्तः स्फुरन्मन्मथमनोरथभरभज्यमानमानसं तं हंसमपृच्छत् ॥ “पक्षिराज राजीववनावतंस हंस, पुनः कथ्यतां तस्याः संप्रति वयोवृत्तवृत्तान्तव्यतिकरः ” ॥ इत्युक्तः पुनरेशं तं बभाषे । “देव, किमेकोऽस्मद्विधः पक्षी क्षीरतरङ्गधवललोचनां तां वर्णयेत् यस्याः सर्वदेवमय इवाकारो लक्ष्यते ॥ ख ॥


पादटिप्पण्यः (Footnotes): १ 'वयः'. २ 'मुद्राङ्कितम्'. ३ 'अपि च'. ४ 'वपुः'. ५ 'वलनाः'. ६ 'उज्ज्वलम्'. ७ 'तदाकर्ण्य'. ८ 'उद्गच्छद्रोमाञ्च'. ९ 'एवं तं बभाषे;' 'एनं बभाषे'. १० 'विभाव्यते'.

तृतीय उच्छ्वासः। ८९ तथा हि। सुतारा दृष्टिः, सकामाः कटाक्षाः, सुकुमाराश्चरणपाणिपल्लवाः, सुधाकान्ति स्मितम्, अरुणो दन्तच्छदः भाखन्तो दन्ताः सुकृष्णाः केशाः, प्रबुद्धा वाणी, गौरी कान्तिः, गुरुः स्तनाभोगः, पृथ्वी जघन- स्थली, सुरभिर्निःश्वासः सुगन्धवाहः प्रस्वेदः, सश्रीकः सकलाङ्ग- भोगः ॥ क ॥ किं चान्यत् । नक्षत्रमयीव निर्मिता विधिना ॥ ख ॥ तथा हि। भद्रपदा ज्येष्ठा सुहस्ता पूर्वोत्तरा सार्द्रहृदया मूलं कंदर्पस्य ॥ ग ॥ किं बहुना । लावण्यातिशयः स कोऽपि मधुरस्ते केऽपि दृग्विभ्रमाः सा काचिन्नवकन्दलीमृदुतनोस्तारुण्यलक्ष्मीरपि । सौभाग्यस्य च विश्वविस्मयकृतः सा कापि संपद्यया लग्नानङ्गमहाग्रहा इव कृताः सर्वे युवानो जनाः ॥ ३३ ॥ राजा—'ततस्ततः' । हंसः—'ततस्तस्याः पुनरिदानीं दूराभोगभरेण सुप्रगतिना श्लिष्टा नितम्बस्थली धत्ते स्वर्णसरोजकड्मलकलां मुग्धं स्तनद्वन्द्वकम् । आलापाः स्मितसुन्दराः परिचितभ्रूविभ्रमा दृष्टय- स्तस्यास्तर्जितशैशवव्यतिकरं रम्यं वयो वर्तते ॥ ३४ ॥ सुतारेति ॥ तारा कनीनिका देवी च । कामः अभिलाषः स्मरश्च । सम्यक् कामो येभ्यः । तुमः समश्च काममनसोर्मलोपः । सुकुमाराः कोमलाः । तथा महेन्द्रवत्कार्तिकेयोऽपि सुकुमारः । सुधावत्कान्तिरस्येति सुधाकान्ति शुभ्रं चन्द्रश्च । अरुण आरक्तो रविसारथिश्च । भाखान् दीप्यमानः सूर्य्यश्च । कृष्णो मेचको विष्णुश्च । प्रबुद्धा व्युत्पन्ना । बुद्धः सुगतः । गुरुर्विशालो वृहस्पतिश्च । पृथ्वी पृथुला भूश्च । सुरभिः सुगन्धिवंसन्तश्च । गन्धवाहः परिमलवाही वायुश्च । श्रीः कान्तिर्लक्ष्मीश्च ॥क॥ भद्रेति ॥ भद्रं पदं पादन्यासो यस्याः । ज्येष्ठा प्रथमापत्यम् । शोभनौ हस्तौ यस्याः । पूर्वमुत्कृष्टमुत्तरं वचो यस्याः । सार्द्रमनिष्ठुरं हृदयमस्याः । कामस्य मूलं कारणम् । पक्षे भद्रपदा ज्येष्ठा हस्तः पूर्वा उत्तरा आर्द्रा मूलं नक्षत्राणि ॥ग॥ लावण्येति ॥ नवकन्दलीवन्मृद्वी तनुर्वपुर्यस्याः ॥ ३३ ॥ १ 'कुसुमारश्चरणपल्लवः'. २ 'अधरपल्लवः'. ३ 'सा विनिर्मिता'. ४ 'दृष्टिभ्रमाः'. ५ 'स्पृष्टा'. ६ 'कुलम्'.

९० : नलचम्पूः । तदेष तस्याः सकलयुवजनमनोम्यूरवासयष्टेः समस्तसंसारसौन्द- र्याधिदेवतायाः कथितो वृत्तान्तः ॥ किमन्यत् । हरचरणसरोजाराधनावाप्तपुण्यः परमसुकृतकन्दो वदनीयः स कोऽपि । अपि जयतु स यस्तां दुर्लभां लप्स्यतेऽस्मि- न्निति कथितकथः सन्नैसोऽपि हंसो व्यरंसीत् ॥ ३५ ॥ इति श्रीत्रिविक्रमभट्टस्य कृतौ दमयन्तीकथायां हरचरणसरो- जाङ्कायां तृतीय उच्छ्वासः समाप्तः ॥ ─── चतुर्थ उच्छ्वासः । एवमेतदाकर्ण्य राजा तत्कालमाघूर्णितमाश्चर्येण, आकुलितमौत्सु- क्येन, आमन्त्रितमुत्कण्ठया, कैटाक्षितं कंदर्पेण, अभिवादितं रणरण- केन, ज्योत्कारितमाग्रहग्रहेण, पृष्टकुशलमकालतरलतया, स्वीकृतम- स्वास्थ्येन, अवलोकितं चिन्तया चेतः स्वं स्वयमेव स्वस्थ्यी कृत्य वित- र्कितवान् ॥ ख ॥ 'प्रायः सैव भवेदेषा पान्थादश्रावि या मया । युगायितं विनिद्रस्य यत्कृते मे त्रियामया ॥ १ ॥

इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः ।
शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ १ ॥
इति श्रीचण्डपालविरचिते दमयन्तीकथाविवरणे तृतीय
उच्छ्वासः समाप्तः ॥
एवमेतदिति ॥ ख ॥
प्राय इति ॥ यदर्थे मे मम विगतनिद्रस्य त्रियामया रात्र्या युगेनेवाचरि-
तम् ॥ या च पथिकान्मया श्रुता । सैवेयं हंसेनापि कथिता प्रायो भवेत् । युगं
कृतयुगादि । त्रियामयेति त्रिसंख्यामितप्रहररात्रिवाचकत्वेन साभिप्रायम् । प्रायः-
शब्दो वितर्के ॥ १ ॥
───
१ 'जयति'. २ 'सोऽथ; योऽथ. ३ 'आकाङ्क्षितम्'. ४ 'झात्कारित'. ५ 'आग्रहेण'.
६ 'आपृष्ट'. ७ 'आलोचितम्'; 'आलोकितम्'.

चतुर्थ उच्छ्वासः । ९१ तदेतन्मे तद्वार्तामृतपानार्थं भूयोऽपि श्रवणेन्द्रियम् । तृप्यते केनवानन्दकन्दे कान्ताकथानके ॥ २ ॥ तत्किमेनं पुनः पृच्छामि ॥ क ॥ नेदं नायकस्थानम् ॥ ख ॥ अतः संप्रति मण्डलीकृतकोदण्डः कामः कामं विचेष्टताम् । न व्यथिष्ये स्थितः स्थैर्ये धैर्यं धामवतां धनम्¹ ॥ ३ ॥ इति वितर्क्य विहसन्हंसमावभाषे—'साधु भोः सुभाषितामृतम- होदधे, साधु । श्रुतं श्रोतव्यम् । इदानीं भद्र भूयिष्ठो दिवसः । तद्द्वयं वयस्य, समासन्नाह्निकसमयाः³ समुचितव्यापारं साधयामः ॥ ग ॥ भवतापि एताः सान्द्रद्रुमतलचलच्चक्रवाकीचकोराः क्रीडावापीपरिसरभुवः स्थीयतां स्वेच्छयेति⁴ । यत्रोन्मीलत्कमलमुकुलान्याश्रयन्त्यः कुरङ्गयो भृङ्गश्रेण्याः श्रवणसुभगं गीतमाकर्णयन्ति ॥ ४ ॥ अपिच अतिललिततरं तरङ्गभङ्गै- रिदमपि तृङ्गरवारि वारि वाप्याः । भ्रमदलिनिवहं वहन्ति यस्मि- न्महिमकरं मकरन्दमम्बुजानि ॥ ५ ॥ त्वमपि भद्रे वनपालिके, कृतकमलमालानितम्बकक्रीडमिममादाय भुक्तावसानास्थानगोष्ठीस्थितस्य मम समीपमेष्यसि' इत्यभिधाय राजा राजभवनमयासीत् ॥ घ ॥ नेदमिति ॥ नायकस्य ईदृशं स्थानं स्थितिरौचित्यं न भवतीत्यर्थः । यतो धैर्यं हि नायकपदं परं वदन्ति ॥ ख ॥ अतीति ॥ यस्मिन्वारिणि महिमकरं माहात्म्यकरं भ्रमद्भृङ्गगणं मकरन्दं पद्मा- नि वहन्ति । तदिदं वाप्या वारि तरङ्गभङ्गैरतिचारुतरं वर्तते । किंविशिष्टम् । तृष्णातिशयं वारयति छिनत्ति । पूर्ववृत्तक्रीडावापीभूकथनापेक्षयापिशब्दोऽत्र समु- च्चये ॥ ५ ॥ CC-0. १ 'धैर्यं हि महतां धनम्' - २ 'गतः' - ३ 'समयसमुचितम्'- ४ 'स्वेच्छयैव'.

९२ नलचम्पूः । गते च राजनि राजीविनीनां जीवितसमाः समास्वाद्यन्स्वादुको- मलमृणालकन्दलीः, दलयन्दलानि, कवलयन्बहुलमधुरस्निग्धमुकु- लानि, अनुशीलयञ्शीतलशैवलावलीः, विलासेन स हंसस्तरंस्तरङ्गा- न्तरेषु चिरं चिक्रीड ॥ क ॥ चिन्तितवांश्च 'तेन राज्ञा 'कृतकमलमालानितम्बक्रीडमिममा- दाय मत्समीपमेष्यसि' इति श्लिष्टार्थमिवादिष्टा वनपालिका । तन्न युक्तमिह चिरं स्थातुमिति' ॥ ख ॥ इत्यस्थान एवाशङ्कमानः सह तेन राजहंसकदम्वकेनाम्बरतलमुद्- पतत् ॥ ग ॥ तत्र च व्यतिकरे दिवापि स्फारस्फुरत्तारामण्डलमिव, विकचनव- कुवलयवनगहनमिव, अन्तरान्तरोन्निद्रकुमुदखण्डमुड्डीनास्ते क्षणमशो- भयन्त नभस्तलम् ॥ घ ॥ अविलम्बिताश्च न चिराद्देवापुर्विदर्भमण्डलमण्डनं कुण्डिनपुरम्॥ङ॥ अवतेरुश्च चकितचलचक्रवाकालोक्यमानकृतान्धकारविभ्रमभ्रम- द्भ्रमरभरभज्यमानाम्भोजभाजि राजभवनासन्नकन्यान्तःपुरोद्यानक्री- डासरसि ॥ च ॥ संरभसप्रधावितेन सरस्तीरविहारव्यसनिना कन्यकाजनेन निवे- दितांस्तानवलोकयितुमतिकौतुकेन दमयन्ती कन्यान्तःपुरात्पुराणमदि- रारुणायताक्षी क्षिप्रमाजगाम ॥ छ ॥ आगत्य च चटुलतरचरणचञ्चुप्रहारविदलितारविन्दकन्दलानुत्ता- लवालनलिनीवनविहारिणस्तान्गृहीतुमेकैकशः सखीजनमादिदेश॥ज॥ चिन्तितवांश्चेति ॥ तेन राज्ञा इत्यमुना प्रकारेण श्लिष्टार्थमिव यथा भवति तथैव वनपालिकादिष्टा । इतीति किम् । यत् कृता कमलमालाया नितम्बके घनप्राये मध्यप्रदेशे क्रीडा येनेति राजाभिप्रायः । मालाशब्दगतस्त्रीत्वेन कमलमालायाः साक्षात्स्त्रीत्वाध्यवसायान्नितम्बशब्दः रूढवयवोऽपि तदर्थमात्रे प्रयुक्तः । हंसेन त्वेवं प्रतीतम् । यथा कृतकं कापटिकंचा । तथा अलमत्यर्थम् । आलानिबं बद्धम् । तथा बकवत् क्रीडा यस्य । तादृशमिमं गृहीत्वा मत्समीपमायास्यसीति ॥ ख ॥ १ 'बहुल'. २ 'मधु'. ३ 'स्निग्धमुग्ध'. ४ 'हंसस्तरङ्गभङ्गान्तरेषु'; 'हंसस्तरङ्गा- न्तरेषु'. ५ 'श्लिष्टाक्षरम्'. ६ 'अस्थानम्'. ७ 'अम्बरमुदपतत्'. ८ 'विकचकुवलयग- हनम्'. ९ 'तत्क्षण'. १० 'एवापुः'. ११ 'कुण्डिनं पुरम्'. १२ 'नवाम्भोजराजिभाजि'. १३ 'रभस'. १४ 'कन्दलानुत्ताननलिनी'.

चतुर्थ उच्छ्वासः । ९३ स्वयं च चेलवलयचोरुरववाचालितप्रकोष्ठेन सविलासं विस्मयकरं करपल्लवेन तं⁴ राजपुत्री राजहंसमुच्चिक्षेप ॥ क ॥ पाणिपङ्कजस्थित एव सोऽप्यभिमुखीभूय विभाव्य च चेतश्चमत्का- रकारिणमस्याः कान्तिविशेष⁵माशिषमदात् ॥ ख ॥ 'कंदर्पस्य जगज्जैत्रशस्त्रेणाश्चर्यकारिणा । रूपेणानेन रम्भोरु दीर्घायुः सुखिनी भव ॥ ६ ॥ अपिच । निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण यं स्वव्यापारपरिश्रमस्य कलशं वेधाः संमारोपयत्⁷ । कंदर्पं पुरुषाः स्त्रियोऽपि⁸ दधते दृष्टे च यस्मिन्सति द्रष्टव्यावधिरूपमाप्नुहि पतिं तं दीर्घनेत्रं⁹ नलम्' ॥ ७ ॥ दमयन्ती तु तस्मिन्क्षणे 'कं¹⁰ संस्कृतवाचः पक्षिणो विवक्षितवा- चश्च' इति मनसि विस्मयं भयं च, 'नामाप्याह्लाद़¹¹र्जननं नलस्य' इति वपुषि वेपथुं रोमाञ्चं च हृदयेऽनुरागमौत्सुक्यं च, समकालमुल्लोला- यमानमुद्वहन्ती चिन्तयांचकार ॥ ग ॥ 'सोऽयं यस्तेन पान्थेन यान्त्या गौरीमहोत्सवे । नलोऽप्यनल एवासीद्वर्णितो मे पुरः पुरा' ॥ ८ ॥ अथास्याः सेखी¹² परिहासशीला नाम नाम्नैव नलस्योद्भिन्नबहुलपु- लकाङ्कुरामिमामवलोक्य नर्मालापमकरोत् ॥ घ ॥ कंदर्पस्येति ॥ रूपेणेत्युपलक्षणे तृतीया । रम्भावदूरूयस्याः । 'उरूत्तर-' इत्यूङ् संबुद्धौ ह्रस्वत्वम् ॥ ६ ॥ निर्मायेति ॥ दर्पमहंकारं पुरुषाः कं दधते । न कमपीत्यर्थः । स्त्रियः पुनः कंदर्पं मन्मथं दधते । सकामा भवन्तीत्यर्थः । अपिः पुनरर्थे समुच्चये वा ॥ ७ ॥ सोऽयमिति ॥ यो नलः स कथमनेलः । परिहारे त्वनलो वह्निः । स्मरसन्ता- पहेतुत्वात् ॥ ८ ॥ १ 'चलद्वलय' २ 'चारुवाचालित' ३ 'सविलासविस्मयकरन्' ४ 'तं राजहंसं राजपुत्री समुच्चिक्षेप' ५ 'कारणम्' ६ 'सदृशम्' ७ 'संमारोपयन्' ८ 'स्त्रियो विदधते' ९ 'दीर्घनेत्रे' १० 'क्व पक्षिणः' ११ 'जनकम्' १२ 'परिहासशीला नाम सखी'

९४ नलचम्पूः । कोष्णं किं नु निषिच्यते तव वैलातैलं सखि श्रोत्रयो- रन्तस्तित्तिरिपक्षिपत्त्रमथवा मन्दं मृदु भ्राम्यति । येनाङ्गेषु निखातमन्मथशरप्रस्फारपिच्छच्छवि- र्नीलीमेचकितोच्चकञ्चुकरुचं रोम्णां वहत्युद्गमः ॥ ९ ॥ दमयन्ती तु तस्याः सवैलक्ष्यस्मितमेवोत्तरं कल्पयन्ती शनैः शिरः- कम्पतरलितावतंसोत्पला सलज्जा चलद्विलोचनान्तेन तामतर्जयत्॥क॥ अवादीच्च तं राजहंसम् 'अहो महानुभाव, सर्वथाश्चर्यहेतुरसि ॥ख॥ तथाहि । द्रष्टव्यानुरूपं रूपम्, महाश्चर्यगर्भाः प्रपञ्चितवाच्या वाचः, सूचि- तसंस्कारातिरेको विवेकः, सौजन्याश्रयः प्रश्रयः, निष्कारणोपकार- धात्री मैत्री ॥ ग ॥ तत्त्वमनेकधा जनितविस्मयो बहु प्रष्टव्योऽसि ॥ घ ॥ किं तु प्रस्तुतं पृच्छामः ॥ ङ ॥ कथय । कोऽयमात्मरूपसंभावितकंदर्पदर्पदावानलो नलो नाम॥च॥ यस्यैतानि मन्दरमंथनक्षणक्षुभितक्षीरसागरतरङ्गभ्रमभ्रान्तिभाञ्जि भ्रमन्ति यशांसि' ॥ छ ॥ इत्येवमुक्तः सोऽपि 'सुन्दरि, यद्येवमुपविश्यताम् । अवधीयतां मनः । श्रूयतां संविश्रब्धम्' इत्यभिधाय कथयितुमौरब्धवान् ॥ ज ॥ 'अस्ति समस्तसुरासुरलोककर्णपूरीकृतकान्तकीर्तिकुन्दकुसुमः, कुसु- मायुधरूपरमणीयदेहप्रभः, प्रभावयुक्तो विप्रभावश्च, शुचिरनुपताप- कोष्णमिति ॥ सखीत्यामन्त्रणे । न्विति वितर्के । तव कर्णयोर्मध्ये किं वला- तैलं निषिच्यमानमस्ति। किं वा मृदुतित्तिरिपिच्छं मन्दं भ्रमदस्ति । येन हेतुना। अङ्गेषु शरीरावयवेषु । निमग्ना ये कामशराः तेषां प्रस्फाराणि पिच्छानि तद्व- च्छविर्यस्य स तथोक्तो रोम्णामुद्गमो रोमाञ्चो नील्या ओषधिविशेषेण मेचकितस्य श्यामलितस्य उच्चकञ्चुकस्य कान्तिं दधाति । प्रस्फारत्वं पिच्छानामप्रवेशे हेतुः । अन्यथा शरेषु प्रविष्टेषु पिच्छान्यपि कथं न प्रविष्टानि । तेन पिच्छच्छविरिति कविराचष्टे ॥ ९ ॥ अस्तीति ॥ प्रभावो माहात्म्यम् । विप्राणां भां तेजोऽवतीति । विरोधे विर्व्य- पेतार्थः । शुचिः पुण्यम् । विरोधे तु ग्रीष्मः । यद्विश्वप्रकाशः— 'शुचिः शुद्धेऽनु- पहते शृङ्गाराषाढयोः'. इति । 'ग्रीष्मे हुतवहेऽपि' इति ॥ घनः प्रचुर आगमः १ 'बलातैलम्'. २ 'शरप्रसार'. ३ 'रुचिम्'. ४ 'मन्थान'. ५ 'विभ्रम'. ६ 'मन्ति'; 'कृन्ति'. ७ 'श्रोतव्यं श्रूयतामिति'. ८ 'विश्रब्धम्'. ९ 'आरभत'.

कारी च, घनागमसमयो न वारिबहुलश्च, शिशिरस्वभावो न जाड्य- युक्तश्च, रामः कुशलवयोरामणीयेकेन, जनको वैदेहभागेन, नैषधः प्रजानां पतिः, विरञ्च इव नाभिभूतः समरे, वीरो वीरसेनो नामा॥क॥ यस्य च बहुशोभयाऽङ्कप्रभया सह स्फुरत्युदारा मनोवृत्तिः, अख- ण्डनयाज्ञया सदृशी राजते राज्यस्थितिः, सज्जया सेनया सह श्लाघ- नीया कृपाणयष्टिः ॥ ख ॥ यश्च सशृङ्गारो नारीषु, वीरो वैरिषु, वीभत्सः परदारेषु, रौद्रो द्रोहिषु, सहास्यो नर्मालापेषु, भयानकः सङ्ग्रामाङ्गनेषु, सकरुणः शरणागतेषु ॥ ग ॥ यस्य च चतुरुदधितटीटीकमानशरच्चन्द्रविशदयशोराशिराजहंसस्य, निस्त्रिंशता कृपाणेषु, कुचातुर्यं कलत्रेषु, कूपदेशसेवा पापर्धिकेषु, लुब्ध- कपर्यायः कैवर्तकेषु, तीक्ष्णता शस्त्रेषु, धर्मच्छेदो धनुर्विद्यायाम्॥ घ॥ सिद्धान्तो यस्य । वा समुच्चये । अरिः शत्रुः । विरोधे घनागमसमयो वर्षाकालः । स च वारिबहुलो भवति ॥ शिशिरः शीतो माघफाल्गुनौ च । जाड्यं मौर्ख्यं हिमं च । इत्युष्णवर्षाशीतकालव्यतिरेकः । तथा कुशलेन चतुरेण वयोवस्थासौन्दर्येण रामश्चारुः । तथा विदेहा देशास्तेषामयं वैदेहो भागस्तेन जनकाख्यनृपतिप्रतिमः । अन्यत्र रामो दाशरथिः । वै वितर्के । देहस्य भां कान्तिं गच्छति व्याप्नोति इति कृत्वा डप्रत्यये देहप्रभागेन शरीरकान्त्यनुसारिणा रामणीयेकेन सौन्दर्येण । कुशस्य लवस्य च जनको जनयिता । नैषधो निषधदेशीयः प्रजापती राजा । समरे युद्धे न कदाचिदभिभूतः । विरञ्चस्तु विष्णुनाभेर्भूतो जातः ॥ क ॥ यस्य चेति ॥ अत्र प्रथमातृतीययोः श्लेषः । बहुश इति भिन्नम् । अभया भयरहिता । तृतीयान्ते वही शोभा यस्यां तया । तथा अखण्डो नयः षाड्गुण्यं यस्याम् । तृतीयायां न खण्डनमस्याः । तथा सञ्छोभनो जयो यस्याः । सेनापक्षे सज्जया प्रवणया ॥ ख ॥ यस्य चेति ॥ निस्त्रिंशता खड्गत्वम् । कुचाभ्यामातुर्ये दुर्बहभरत्वात् । कूप्रदेशस्य सेवामृगयाभ्यासेषु तथा लुब्धक इति 'पर्यायः एकार्थे शब्दान्तरम्' । तथा धर्मनामा द्रुमो यन्मयं धनुर्विधीयते । तस्य च्छेदः कर्तनम् । कृपाणादिष्वेव निस्त्रिंशतादीनीति परिसंख्योक्त्या न तस्येति शेषः । तस्य राज्ञो न । निस्त्रिंशता क्रूरकर्मत्वम् । कुत्सितं चातुर्यम् । तथा कुत्सित उपदेशो येषां तेषां दाम्भिकानां सेवा । तथा कुत्सितो लुब्धो लुब्धकः । तस्य पर्यायः परिणामः । तीक्ष्णता आयःशूलिकत्वम् । धर्मस्य पुण्यस्य च्छेदः ॥ घ ॥ १ 'पतिः प्रजानाम्' २ 'विरञ्चिरिव' ; 'विरिञ्च इव' ३ 'द्रोहेषु' ४ 'यस्य चतुरुदधि' ५ 'कूपसेवा'

९६ . नलचम्पूः । एवमस्य हरस्येव करस्थं कृत्वाशेषमण्डलमनवरतविख्यातविजया- भिनन्दिनः, सुन्दरकैलासनाभिरम्यवनान्तरेषु विहरतः, मदननिरुद्ध- नैषधीपीनोच्चकुचकुम्भावष्टम्भमसृणितवक्षःस्थलस्य सुखेनाभिक्रामन्ति दिवसाः ॥ क ॥ कदाचिच्चतुरुदधिवेलावलयितवसुंधराविख्यातमपत्यमभिलषन्नना- दरचरणाङ्गुष्ठनिष्ठ्यूतकैलासोन्मूलनागतपतद्दशवदनविरसविरुतविह- सितामरमण्डलीमहितमहिमानमनवरतविर्रिश्चिरचितविचित्रनामसा- मवस्तुतिं॑मनवरतसकललोककल्याणकामधेनुमनुपमवर्चसमर्चयां- चकार भगवन्तमम्बिकापतिम् ॥ ख ॥ अतिभक्तितोषितहरलब्धवरश्च निरुपमरूपयानुरूपया रूपवत्यभि- धानया प्रधानया प्रियया सह मकरकेतनकेलिफलमनुभवन्नतिचिर- मासांचक्रे ॥ ग ॥ अतिक्रामति तु कियत्यपि समये संपन्नसत्त्वा समपद्यत रूपवती॥घ॥ तेन च संमस्तसंसारसारवस्तु धृतकान्तिकणकलितगर्भारम्भेण, नारायणाभिरिव विरञ्चोत्पत्तिकमलकन्दबन्धेन, कल्पपादपलतेव पल्लवारम्भोच्छ्वासेन, मनाङ्ञ्छेदुरितोदरा रराज राजीविनयना राजपत्नी ॥ घ ॥ एवमस्येति ॥ करे रजभागे स्थितमशेषं मण्डलं देशम् । अनवरतप्रथित- विजयैर्हृष्टस्य । कं जलम् । एला लता । असनः पीतमालः । तैः सुन्दरैरभिरम्येषु काननविशेषेषु । विचरतस्तस्य सकामनिषधस्त्रीपीनोच्चकुचकुम्भयोरवष्टम्भेन मसृ- णितं वक्षःस्थलं यस्य तथोक्तस्य सतः सुखेन यान्ति दिवसाः । विहरणकृतमिह हरेण सहौपम्यम् । तदा । करः पाणिः । शेषाख्यो नागः । तस्य मण्डलं कुण्ड- लाकारं वपुः । विजया गौरीसखी । नन्दी हरप्रतीहारः । कैलासो गिरिः । नाभिमुल्यार्थः ॥ क ॥ कदेति ॥ निष्ठ्यूतं निरसनम् । 'निष्ठापितम्' इति पाठे तु निःशेषेण स्थाप- नम् । अविरतम् । विचित्रनामभिर्भर्ग-भगवन्त्रिेत्रादिभिः । सामवेदार्थैश्च। विरञ्चेन विरचितस्तुतिम् ॥ ख ॥ १ 'एवं तस्य'. २ 'विजयानन्दिनः'. ३ 'कदाचिदपि'. ४ 'विरुति'. ५ 'अविरत'. ६ 'विरञ्चि'. ७ 'विरचित'. ८ 'अनवरतमवनत'. ९ 'रूपया च'. १० 'सकल'. ११ 'कणकलाप'. १२ 'विरिञ्च'.

चतुर्थ उच्छ्वासः । ९७ क्रमेण च मेचकोच्चचूचुककुचकुम्भकपोलिपाण्डिम्ना निम्नयन्ती मृग- लाञ्छनच्छायमवाञ्छदच्छामृतपयःपिष्टमूर्तिमन्मधुसमयमदनमृगाङ्क- मण्डलरसेनात्मानमौलेप्तुम् ॥ क ॥ अग्रतः सखीजनविधृतमपास्य मणिमयमुकुरमण्डलमनवरतनिशा- निर्मलकरवालतलेष्वात्ममुखकमलमवलोकयांचकार ॥ ख ॥ निरस्य नीलोत्पलमरजठरकण्ठीरवकण्ठकेसरस्तवकमकरोत्कर्णाव- तंसम् ॥ ग ॥ अतिबहलकुङ्कुमाङ्ककस्तूरिकापङ्कमपहाय मत्तमातङ्गमदकर्दमेन नि- जभुजशिखरयोर्विरचयांचकार विचित्रपत्रभङ्गान् ॥ घ ॥ एवमन्तःस्फुरद्गर्भानुरूपदोहदसुखमनुभवन्ती कदाचिदुच्चस्थानस्थि- ते सौम्यग्रहग्रामे, महाराजजन्मोचितेऽह्नि शुभसंभारकारणायां काल- वेलायां जातप्राये प्रभाते प्रभाप्रतानजनितपरिवेषमशेषतेजस्वितेजःपु- ञ्जापहारिणमालोहितपादपल्लवोल्लसितपङ्कजच्छायम, द्यौरिव रविमण्ड- लम्, उन्नमन्मेघमालेव विद्युल्लोलम्, अरणिरिव वितानवैश्वानरम्, नरपालप्रिया प्रीणितगोत्रं पुत्रमजीजनत् ॥ ङ ॥ तत्र च दिवसे सांशूकोन्नतवंशस्य तस्य राज्ञः पुरस्य च । बभूव लक्ष्मीः सा कापि यया स्वर्गोऽपि निर्जितः ॥ १० ॥ अपिच । क्रमेणेति ॥ कुचकुम्भस्य चन्द्रमाः । मेचकचूचुकस्य लाञ्छनमुपमानम् ॥ अच्छामृतमेव यत्पयो नीरं तेन पिष्टो घृष्टो योऽसौ मूर्तिमत्तां मधुसमयमदनमृ- गाङ्कमण्डलानां रसः तेनालेप्तुमात्मानमियेष ॥ क ॥ एवमन्तरिति ॥ द्यौरपि प्रगे रविमण्डलं जनयति । तमपि दीप्तिततिकृतवेष्ट- नम् । तथा समस्तदीपप्रभृतितजस्वितेजोमुषम् । पादाः किरणाः । पुत्रपक्षे आ ईषत् लोहितौ पादपल्लवौ तयोरुल्लसितपङ्कजवच्छाया यस्य । तथा विद्युतां लोलनं लोलो विलासः । मण्डलः पुंस्यपि ॥ ङ ॥ सांशुकैति ॥ राज्ञः पुरस्य च सा काचिदजनि शोभा । यथा खर्गच्छतीति कृत्वा खर्गो देवः स्वर्गलक्षणो लोकश्च जितः । अंशुना रविणा सह सांशुक उन्नतो वंशो यस्य । रवेर्वंशस्य च तुल्यमुदयनमिष्टम् । प्रगे तस्याप्युदितत्वात् । पुरं च सपताकोच्छ्रितवेणुकम् ॥ १० ॥ १ 'अनुलेप्तुम्'. २ 'मुखम्'. ३ 'संसार'. ४ 'पल्लवोपहसित'.

९८ नलचम्पूः ।

सबुद्धबालाः कालेऽस्मिन्मुक्ताहारविभूषणाः । प्राप्ताः प्रीतिं पुरे पौरा वनेषु च तपस्विनः ॥ ११ ॥ सूतीगृहे च अलंकृतनिशान्तेन तरुणरुणरोचिषा । प्रदीपानां प्रभा तेन प्रभातेन यथा जिता ॥ १२ ॥ चिरात्पल्लवितं राजवंशेन, समुच्छ्वसितं राज्यश्रिया, प्रीतं प्रण- यिभिः, प्रनृत्तं पौरैः, प्रमुदितं बान्धवैः, विद्राणं द्रोहिजनैः, उन्नदितं वियत्यदृष्टमङ्गलवादित्रैः, चित्रायितमतिबहलपरिमलपतत्पुष्पवृष्ट्या, विकसितं दिग्वधूवदनारविन्दैः, विलसितमतिसुरभिसुखस्पर्शसमीर- णेन, स्वच्छन्दायितं बन्दीकृतारातिरमणीभिः, आढ्यायितमर्थिलो- केन ॥ क ॥ किं बहुना । अवृष्टिनष्टधूलीकमशरन्निर्मलाम्बरम् । अपीतमत्तलोकं च जगज्जन्मोत्सवेऽभवत् ॥ १३ ॥ भूते च विभवभूयिष्ठे षष्ठीजागरणव्यतिकरे, अतिक्रान्तेषु च सूत- कदिवसेषु नामकरणोचितेऽह्नि 'न लॉस्यति धर्मधनान्येष साधुभ्यः'


सबुद्धेति ॥ वृद्धः पितामहादिः । बालः पुत्रादिः । ताभ्यां सह । मौक्ति- कहारालंकरणाः पौराः । मुनयस्तु सबुद्धकेशाः कूर्चादैरसंस्कारात् । तथा मुक्ता आहारा यैः । तथा व्यपेतभूषाश्च ॥ ११ ॥ अलमिति ॥ येन प्रभातेनेव प्रदीपानां प्रभा जिग्ये । अलंकृतं निशान्तं गृहं येन । तथा तरुणारुणो मध्याह्नार्कस्तद्वद्रोचिर्यस्य । अत एवं दीपप्रभा निष्प्रभा । महात्मनां हि भूयिष्ठेन तेजसा दीपप्रभाप्यभिभूयते । प्रभातेन तु अलमत्यर्थम् । तरुणया नूतनया अरुणस्य रविसारथे रोचिषा । कृतो निशाया रात्रे्रन्तो येन । यदिवा अरुणरोचिषा लोहितकान्तिना तरुणोपलक्षितेन प्रभातेन । तत्समये हि दिनकरकरस्पर्शात्तस्तरवो रक्तीभवन्ति ॥ १२ ॥ चिरादिति ॥ चित्रायितं भक्तिविशेषविन्यासायितम् । कुमारजन्मोत्सवे गु- प्तीनां मोक्षणाद्बन्दीनां स्वाच्छन्द्यम् । आढ्यत्वे त्यागातिशयो हेतुः ॥ क ॥ अवृष्टीति ॥ वृष्ट्या हि धूली नश्यति । शरदा द्योरमलता । पानेनोन्मदः । यच्चेदृशं तदन्तरेणापि जगदजायत स तदुत्पत्तिप्रभावः ॥ १३ ॥ भूते चेति ॥ प्रविष्येति । निमित्तात्सामुद्रिकलक्षणाज्जन्मसभाद्वा साधूनां


१ 'सूतिकागृहे च'. २ 'चित्रीदितम्'. ३ 'अर्थिलोकेः'. ४ 'लात्येष धर्मधनानि'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

चतुर्थ उच्छ्वासः । ९९ इति ब्राह्मणाः प्रविश्य तस्य ‘नलः’ इति नाम प्रतिष्ठापयामासुः ॥ क ॥ क्रमेण च चतुरुदधिवेलावनविकासोचितकीर्तिकुन्दकन्दलैर्विश्ववि- श्वंभराभिलम्भलम्पाकौः कुमारसेवकैरिव सकलचक्रवर्तिचिह्नैरलंकृता- वयवो विस्तरजटालवालः कल्पपादपाङ्कुर इव वर्धितुमारभत ॥ ख ॥ विरचितचूडाकरणादिसंस्कारक्रमश्च प्राप्ते विद्याग्रहणकाले निमि- त्तमात्रीकृतोपाध्यायः स्वयमेव समस्तानवद्यविद्याम्भोनिधेः परं पारम- वाप ॥ ग ॥ तथाहि । प्रबुद्धबुद्धिर्बौद्धे, सविशेषशेमुषीको वैशेषिके, विख्यातः सांख्ये, रञ्जितलोको लोकायते, प्राप्तप्रभः प्राभाकरे, प्रतिच्छन्दकश्छन्दसि, अनल्पविकल्पः कल्पज्ञाने, शिक्षाक्षमः शिक्षायाम्, अकृतापशब्दः शब्दशास्त्रे, अभियुक्तो निरुक्ते, सज्जो ज्योतिषि, तत्त्ववेदी वेदान्ते, प्रसिद्धः सिद्धान्तेषु, स्वतन्त्रस्तन्त्रीगणेषु, पटुः पटहे, अप्रतिमल्लो झल्ल- रीषु, निपुणः पणवेषु, प्रवीणो वेणुषु, चित्रकृच्चित्रविद्यायाम्, उद्दामः कामतन्त्रे, कुशलः शालिहोत्रे, श्रेष्ठः काष्ठकर्मणि, सावलेपो लेप्ये, पण्डितः कोदण्डे, शौण्डः शारिषु, गुणवान्गणिते, बहुलो बाहुयुद्धेषु, चतुरश्चतुरङ्गद्यूतक्रीडायाम् उपदेशको देशभाषासु, अलौकिको लोक- ज्ञाने ॥ घ ॥ धनाग्रहणे अन्तर्मुखमभिप्रायमाश्रित्येत्यर्थः ॥ क ॥ क्रमेणान्ते ॥ कुमारसेवका युवराजानुचराः । तदुपमै राजचिह्नै रेखाकृतैश्चक्र- चापकुलिशादिभिर्भूषिताङ्गः । तथा विस्तरन्तो जटालाः स्वभावजटाबन्धा बालाः कचा यस्य । वृत्तचूडाकरणस्य हि केशा विजटीभवन्ति । कल्पवृक्षस्तु प्रसरन्मूला- लवालः ॥ ख ॥ प्रबुद्धेति ॥ चित्रवृत्तलक्षणं छन्दः । कल्पः पितृदेवताद्याराधनविधिशास्त्रम् । अकारादिवर्णजन्मस्थानानां बोधिका शिक्षा । अन्वयस्य प्रकाशकं निरुक्तम् । अ- तीन्द्रियशुभाशुभकर्मणां प्रकाशकं ज्योतिषम् ॥ घ ॥ १ 'शुश्रुवाणः'. २ 'कन्द.' ३ 'विश्वंभरालम्भ'. ४ 'अलंकृताङ्गावयवः'. ५ 'विस्तरत्'. ६ 'समये'. ७ 'अकलङ्कोऽकलङ्के'. ८ 'प्रतिभः'. ९ 'छन्दःशास्त्रे'. १० 'कल्पजाते'. ११ 'सिद्धान्ते'. १२ 'वीणावेणुषु.'. १३ 'शालिहोत्रेषु, अमुद्रः सामुद्रिके'. १४ 'शरेषु'; 'शारेषु'. १५ 'गुणिने'. १६ 'बहुगुणो'. १७ 'बाहुयुद्धे'. १८ 'तुरङ्गमक्रीडा', 'तुरङ्गव्यूहक्रीडा'. १९ 'भाषासु'.

किं बहुना । रसे रसायने ग्रन्थे शस्त्रे शास्त्रे कलास्वपि । नले न लेभिरे लोकाः प्रमाणं निपुणा अपि ॥ १४ ॥ क्रमेण शैशवमतिक्रामतोस्य सेवकैरिवाङ्गावयवैरप्यनुवृत्तिः कृता॥क॥ तथाहि । श्रवणासक्तस्य लोचनद्वयमपि श्रवणसंमतिमकरोत् ॥ ख ॥ उन्नतस्वभावस्य नासावंशोऽप्युन्नतिं जगाम ॥ ग ॥ वक्रोक्तिकुशलस्य केशकलापोऽपि वक्रतां भंजे ॥ घ ॥ शङ्खनिर्मलगुणस्य कण्ठोऽपि शङ्खाकारमधारयत् ॥ ङ ॥ पृथुलमतेरंसकूटद्वयमपि पृथुलमभूत् ॥ च ॥ प्रमाणवेदिनो वक्षःस्थलमपि सुप्रमाणमजायत ॥ छ ॥ मध्यस्थस्य तस्य रोमराजिरपि मध्ये स्थिता शुशुभे ॥ ज ॥ सुवृत्तस्य बाहूयुगलमपि सुवृत्तमभवत् ॥ झ ॥ गम्भीरप्रकृतेर्नाभिरपि गम्भीरा व्यराजत ॥ ञ ॥ पल्लवसुकुमारहृदयस्य हस्तचरणैरपि पल्लवसौकुमार्यमङ्गीकृतम् ॥ट॥ अथ किं बहुना । सोष्णीषमूर्धा ध्वजवर्चक्रपाणि- रूर्णाङ्कविस्तीर्णललाटपट्टः । सुस्निग्धमूर्तिः ककुदुन्नतांसः कस्यैष न स्यान्नयनाभिरामः ॥ १५ ॥ रस इति ॥ रसः पारदः । रसायनं जरामरणापहं औषधयोगः । ग्रन्थः काव्यशास्त्रादिरचना । शस्त्रं खङ्गादि । शास्त्रं व्याकरणतर्कादि । कला गीतनृत्यादयः । एतेषु निपुणा अपि सन्तो लोका नले राज्ञि प्रमाणमियत्तां न प्रापुः ॥ १४ ॥ श्रवणेति ॥ श्रवणे शास्त्राकर्णने आसक्तः । श्रवणसंगतिः कर्णसंगतिः ॥ ख ॥ पृथुलेति ॥ अंसकूटेति कूटशब्दः शिखरार्थः ॥ च ॥ प्रमाणेति ॥ प्रमाणं तर्कशास्त्रं मानं च ॥ छ ॥ मध्येति ॥ मध्यस्थोऽकृतपक्षपातः । अन्यत्र मध्ये उदरे तिष्ठतीति ॥ ज ॥ सुवृत्तेति ॥ वृत्तं शीलं वर्तुलं च ॥ झ ॥ गम्भीरेति ॥ गम्भीरप्रकृतिरलक्ष्यकोपप्रसादः । निम्ना च गम्भीरा ॥ ञ ॥ सोष्णीषेति ॥ उष्णीषाकारं शारीरिकं लक्षणमुष्णीषम् । ऊर्णा भ्रूमध्ये शुभ्रोमावर्तः ॥ १५ ॥ १ 'क्रमेण च'. २ 'वादिनो'. ३ 'मध्यस्था'. ४ 'कर'. ५ 'किं बहुना'. ६ 'चिह्न'- CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

चतुर्थ उच्छ्वासः । १०१ अपि च । आस्यश्रीः संनिभेन्दोः समदृषक्ककुद्बन्धुरः स्कन्धसंधिः स्निग्धा रुक्कुन्तलानामनुहरति दृशोर्द्वन्द्वमिन्दीवरस्य । स्थानं वक्षोऽपि लक्ष्म्याः, स्पृशति भुजयुगं जानुनी, वृत्त रम्ये जङ्गे, क्षामोऽवलग्नः, किमु निषधपतेः श्लाघनीयं न तस्य ॥ १६ ॥ अस्ति च तस्य नरपतिसूनोः समानशीलवयोविद्यालंकारकान्ति- क॑लापपरिपूर्णदेहः, शरीरमात्रद्वितीयोऽप्यद्वितीयहृदयमेकं जीवितम- पर उच्छ्वासः, सालङ्कायनसूनुः श्रुतशीलो नौम मन्त्री मित्रं च ॥ क ॥ एकदा तु पूर्वदिग्वधूकुङ्कुमपङ्कपल्लवितवदनायमाने निरुद्धान्धतमसे सौगन्धिकबन्धुनि बन्धूककुसुमारुणे वियति तरतीव तरुणतरे तरणि- मण्डले, मण्डयति कुसुम्भैकुसुमकेसरप्रैकरायमाणे गगनाङ्गणमम्भो- जमुकुलनि॑िद्रामुषि रोचिषां चये, चलिते च विच॑रितुमुपवनतरुराजि- कर्णोत्पले निद्राविरामवि॑धुतपक्षे पक्षिकुले, कृतप्राभातिककर्मणः से- भाङ्गणमण्डपमध्यवर्तिनो दत्तसेवावसरस्य राज्ञः प्रविष्टे मन्त्रिणि साल- ङ्कायने, प्रणामपर्यस्तकणोत्पलर्धवलितसभाङ्गणे यथासनमुपविष्टे प्रस्तु- तसेवालावापरञ्जितराजनि राजन्यचक्रे, प्रक्रान्ते शास्त्रीयविनोदे, श्रुत- शीलेन समर्मेन्यैश्च क्रीडासहायैरनुचरैरनुगम्यमानो नलः सेवासुखम- नुभवितुमागतवान् ॥ ख ॥ आगत्य च क्षितितलमिलन्मौलिमण्डलः प्रणम्य पितुः पादारवि- न्दद्वयमदू॑रेदत्तमासनं भेजे ॥ ग ॥ उपविष्टे च तस्मिन्ननभिवादनादुत्पन्नमन्युरीषत्कोपॅकम्पितकरपरा- मृष्टकूर्चाग्रिमग्रन्थिरमणीर्मन्त्रिमण्डलस्य भ्रूभङ्गभीषणया शोणकोणा- न्तरतरत्तरलतारया दृशाऽभिमुखम॑स्य सालङ्कायनः प्रणयपरुषाक्षरम- भाषत ॥ घ ॥ अस्तीति ॥ अपर उच्छ्वास इति । न परोऽस्मादित्यपर उत्कृष्टः ॥ क ॥ उपविष्ट इति ॥ आत्मनोऽप्रणामाद्विदितविनयाकौशलं नलं प्रीतिभाक् पैतृको मन्त्री शिक्षाबुद्ध्या परुषवर्णमवादीत् ॥ घ ॥ १ 'कलाकलाप'. २ 'अद्वितीयम्'. ३ 'नाम मित्रम्'. ४ 'कुङ्कुम'. ५ 'करायमाणे'. ६ 'मुद्रा'. ७ 'चरितुम्'. ८ 'अवधूत'. ९ 'सभामण्डप'; 'सभामणिमण्डपः'. १० 'मकरन्दशवलित'; 'शवलित'. ११ 'अन्यैरपि'. १२ 'आसनम्'; 'अदूरदत्तासनम्'. १३ 'सकम्प'. १४ 'अस्यावलोक्य'.

१०२ नलचम्पूः । 'कुमार, राजहंसोऽपि 'अहंसरूपः' इति मा स्म मोहवान्भूः ॥ क ॥ अनुभवति चमूढः शस्त्रसंघात इव कोशशून्यताम् ॥ ख ॥ अविभवः पुरुषो मेष इव कम्बलस्योपयोगं गच्छति ॥ ग ॥ प्रद्युम्नजातोऽपि बाणयुद्धव्यतिकरकारिण्या सदोषया यौवनाव- स्थया निरुद्धोऽनिरुद्ध इव को नाम न क्लेशमनुभवति ॥ घ ॥ ततात, सुविषमेघवर्तिनि विद्युद्विलास इवास्थिरे स्थितस्तारुण्ये मा स्म विस्मरः स्मयेन विनयम् ॥ ङ ॥ कुमारेति ॥ कुमारेत्यामन्त्रणे । राजमुख्योऽपि संस्त्वं सरूपो रूपवानहमि- त्यमुना प्रकारेण । मोहवान् मा स्म भूः मोहं मागाः । रूपमदो हि नीचचिह्नम् । यश्च राजहंसः स कथमहंसस्वरूप इति विरोधद्योतकोऽपिशब्दः ॥ क ॥ ननु यदि रूपादर्हंकाराद्वा नृपो मूढः स्यात्तत्को दोष इत्याशङ्क्याह—अनुभव- तीति ॥ चकारो यौगपद्ये । यदैव कुतो मुह्यति तदैव कोशेन गञ्जेन शून्यतां व्यतिरेकमनुभवति । यथा चम्बा स्वसेनया ऊढो धृतः शस्त्रनिचयः प्रत्याकारशून्य- तामायाति ॥ ख ॥ भ्रष्टकोशस्यापि किं तदाह—अविभवेति ॥ निर्धनः पुमान् अज इव बलस्य सैन्यस्य शक्तेर्वा कमुपयोगं साफल्यं याति न कमपीत्यर्थः । एतेन निष्कोशस्या- बलित्वमिति ख्यापितम् । अजस्तु अवेर्मेण्डाद्भवति स्म । तथा कम्बलस्याच्छाद- नविशेषस्योपयोगं याति ॥ ग ॥ तस्माद्वलस्य का कथेत्याह—प्रद्युम्नेति ॥ यतः प्रद्युम्नजातोऽपि प्रकृष्टौ- जःपुञ्जोऽपि । बाणैः शाब्दैर्यैर्युद्धं कोलाहलस्तत्संपर्ककारिण्या । सह दोषैरिति दो- षान्वितया । तारुण्यावस्थया । निरुद्ध आत्मवशीकृतः । को नाम क्लेशं दुःखं नानु- भवति । सर्वोऽप्यनुभवत्येवेत्यर्थः । नामाभ्युपगमे । द्युम्नं द्रव्यमपि । वणधातुः शब्दार्थो घञन्तः ।' प्रद्युम्नः कामः । तस्माज्जातोऽनिरुद्धाभिधो बाणाख्येन दैत्येन समं युद्धसंबन्धविधायिन्या यौवनेऽवतिष्ठत इति कृत्वा तारुण्ये स्थितया उषया उषाख्यया पत्न्या सदा निरुद्ध आत्मीकृतो दुःखमनुभूतवानित्यागमः । युद्धव्य- तिकरोऽनङ्गसूनोः क्लेशानुभवहेतुः ॥ घ ॥ तत्तातेति ॥ तदित्युपसंहारे । तातेति प्रणयपूर्वामन्त्रणे । तस्माद्वत्स । सुष्ठु- तिशयेन । विषमे । तथाऽघवर्तिनि पापं कारयितरि । अस्थिरे चञ्चले । तथा वि- शेषेण द्योतन्त इति विद्युतो रोचमाना विलासाः शृङ्गारादयो यस्मिन् । तथाविधे तारुण्ये स्थितः सन्स्मयेन गर्वेण विनयं मा स्म विस्मार्षीः । विद्युद्विलासोऽपि सुष्ठु विषं जलं यत्रेति कृत्वा सुजले मेघे वर्तते । तथा अस्थिरो लोलः तथाविधे ॥ङ॥