नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
चतुर्थ उच्छ्वासः । ९३ स्वयं च चेलवलयचोरुरववाचालितप्रकोष्ठेन सविलासं विस्मयकरं करपल्लवेन तं⁴ राजपुत्री राजहंसमुच्चिक्षेप ॥ क ॥ पाणिपङ्कजस्थित एव सोऽप्यभिमुखीभूय विभाव्य च चेतश्चमत्का- रकारिणमस्याः कान्तिविशेष⁵माशिषमदात् ॥ ख ॥ 'कंदर्पस्य जगज्जैत्रशस्त्रेणाश्चर्यकारिणा । रूपेणानेन रम्भोरु दीर्घायुः सुखिनी भव ॥ ६ ॥ अपिच । निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण यं स्वव्यापारपरिश्रमस्य कलशं वेधाः संमारोपयत्⁷ । कंदर्पं पुरुषाः स्त्रियोऽपि⁸ दधते दृष्टे च यस्मिन्सति द्रष्टव्यावधिरूपमाप्नुहि पतिं तं दीर्घनेत्रं⁹ नलम्' ॥ ७ ॥ दमयन्ती तु तस्मिन्क्षणे 'कं¹⁰ संस्कृतवाचः पक्षिणो विवक्षितवा- चश्च' इति मनसि विस्मयं भयं च, 'नामाप्याह्लाद़¹¹र्जननं नलस्य' इति वपुषि वेपथुं रोमाञ्चं च हृदयेऽनुरागमौत्सुक्यं च, समकालमुल्लोला- यमानमुद्वहन्ती चिन्तयांचकार ॥ ग ॥ 'सोऽयं यस्तेन पान्थेन यान्त्या गौरीमहोत्सवे । नलोऽप्यनल एवासीद्वर्णितो मे पुरः पुरा' ॥ ८ ॥ अथास्याः सेखी¹² परिहासशीला नाम नाम्नैव नलस्योद्भिन्नबहुलपु- लकाङ्कुरामिमामवलोक्य नर्मालापमकरोत् ॥ घ ॥ कंदर्पस्येति ॥ रूपेणेत्युपलक्षणे तृतीया । रम्भावदूरूयस्याः । 'उरूत्तर-' इत्यूङ् संबुद्धौ ह्रस्वत्वम् ॥ ६ ॥ निर्मायेति ॥ दर्पमहंकारं पुरुषाः कं दधते । न कमपीत्यर्थः । स्त्रियः पुनः कंदर्पं मन्मथं दधते । सकामा भवन्तीत्यर्थः । अपिः पुनरर्थे समुच्चये वा ॥ ७ ॥ सोऽयमिति ॥ यो नलः स कथमनेलः । परिहारे त्वनलो वह्निः । स्मरसन्ता- पहेतुत्वात् ॥ ८ ॥ १ 'चलद्वलय' २ 'चारुवाचालित' ३ 'सविलासविस्मयकरन्' ४ 'तं राजहंसं राजपुत्री समुच्चिक्षेप' ५ 'कारणम्' ६ 'सदृशम्' ७ 'संमारोपयन्' ८ 'स्त्रियो विदधते' ९ 'दीर्घनेत्रे' १० 'क्व पक्षिणः' ११ 'जनकम्' १२ 'परिहासशीला नाम सखी'
९४ नलचम्पूः । कोष्णं किं नु निषिच्यते तव वैलातैलं सखि श्रोत्रयो- रन्तस्तित्तिरिपक्षिपत्त्रमथवा मन्दं मृदु भ्राम्यति । येनाङ्गेषु निखातमन्मथशरप्रस्फारपिच्छच्छवि- र्नीलीमेचकितोच्चकञ्चुकरुचं रोम्णां वहत्युद्गमः ॥ ९ ॥ दमयन्ती तु तस्याः सवैलक्ष्यस्मितमेवोत्तरं कल्पयन्ती शनैः शिरः- कम्पतरलितावतंसोत्पला सलज्जा चलद्विलोचनान्तेन तामतर्जयत्॥क॥ अवादीच्च तं राजहंसम् 'अहो महानुभाव, सर्वथाश्चर्यहेतुरसि ॥ख॥ तथाहि । द्रष्टव्यानुरूपं रूपम्, महाश्चर्यगर्भाः प्रपञ्चितवाच्या वाचः, सूचि- तसंस्कारातिरेको विवेकः, सौजन्याश्रयः प्रश्रयः, निष्कारणोपकार- धात्री मैत्री ॥ ग ॥ तत्त्वमनेकधा जनितविस्मयो बहु प्रष्टव्योऽसि ॥ घ ॥ किं तु प्रस्तुतं पृच्छामः ॥ ङ ॥ कथय । कोऽयमात्मरूपसंभावितकंदर्पदर्पदावानलो नलो नाम॥च॥ यस्यैतानि मन्दरमंथनक्षणक्षुभितक्षीरसागरतरङ्गभ्रमभ्रान्तिभाञ्जि भ्रमन्ति यशांसि' ॥ छ ॥ इत्येवमुक्तः सोऽपि 'सुन्दरि, यद्येवमुपविश्यताम् । अवधीयतां मनः । श्रूयतां संविश्रब्धम्' इत्यभिधाय कथयितुमौरब्धवान् ॥ ज ॥ 'अस्ति समस्तसुरासुरलोककर्णपूरीकृतकान्तकीर्तिकुन्दकुसुमः, कुसु- मायुधरूपरमणीयदेहप्रभः, प्रभावयुक्तो विप्रभावश्च, शुचिरनुपताप- कोष्णमिति ॥ सखीत्यामन्त्रणे । न्विति वितर्के । तव कर्णयोर्मध्ये किं वला- तैलं निषिच्यमानमस्ति। किं वा मृदुतित्तिरिपिच्छं मन्दं भ्रमदस्ति । येन हेतुना। अङ्गेषु शरीरावयवेषु । निमग्ना ये कामशराः तेषां प्रस्फाराणि पिच्छानि तद्व- च्छविर्यस्य स तथोक्तो रोम्णामुद्गमो रोमाञ्चो नील्या ओषधिविशेषेण मेचकितस्य श्यामलितस्य उच्चकञ्चुकस्य कान्तिं दधाति । प्रस्फारत्वं पिच्छानामप्रवेशे हेतुः । अन्यथा शरेषु प्रविष्टेषु पिच्छान्यपि कथं न प्रविष्टानि । तेन पिच्छच्छविरिति कविराचष्टे ॥ ९ ॥ अस्तीति ॥ प्रभावो माहात्म्यम् । विप्राणां भां तेजोऽवतीति । विरोधे विर्व्य- पेतार्थः । शुचिः पुण्यम् । विरोधे तु ग्रीष्मः । यद्विश्वप्रकाशः— 'शुचिः शुद्धेऽनु- पहते शृङ्गाराषाढयोः'. इति । 'ग्रीष्मे हुतवहेऽपि' इति ॥ घनः प्रचुर आगमः १ 'बलातैलम्'. २ 'शरप्रसार'. ३ 'रुचिम्'. ४ 'मन्थान'. ५ 'विभ्रम'. ६ 'मन्ति'; 'कृन्ति'. ७ 'श्रोतव्यं श्रूयतामिति'. ८ 'विश्रब्धम्'. ९ 'आरभत'.
कारी च, घनागमसमयो न वारिबहुलश्च, शिशिरस्वभावो न जाड्य- युक्तश्च, रामः कुशलवयोरामणीयेकेन, जनको वैदेहभागेन, नैषधः प्रजानां पतिः, विरञ्च इव नाभिभूतः समरे, वीरो वीरसेनो नामा॥क॥ यस्य च बहुशोभयाऽङ्कप्रभया सह स्फुरत्युदारा मनोवृत्तिः, अख- ण्डनयाज्ञया सदृशी राजते राज्यस्थितिः, सज्जया सेनया सह श्लाघ- नीया कृपाणयष्टिः ॥ ख ॥ यश्च सशृङ्गारो नारीषु, वीरो वैरिषु, वीभत्सः परदारेषु, रौद्रो द्रोहिषु, सहास्यो नर्मालापेषु, भयानकः सङ्ग्रामाङ्गनेषु, सकरुणः शरणागतेषु ॥ ग ॥ यस्य च चतुरुदधितटीटीकमानशरच्चन्द्रविशदयशोराशिराजहंसस्य, निस्त्रिंशता कृपाणेषु, कुचातुर्यं कलत्रेषु, कूपदेशसेवा पापर्धिकेषु, लुब्ध- कपर्यायः कैवर्तकेषु, तीक्ष्णता शस्त्रेषु, धर्मच्छेदो धनुर्विद्यायाम्॥ घ॥ सिद्धान्तो यस्य । वा समुच्चये । अरिः शत्रुः । विरोधे घनागमसमयो वर्षाकालः । स च वारिबहुलो भवति ॥ शिशिरः शीतो माघफाल्गुनौ च । जाड्यं मौर्ख्यं हिमं च । इत्युष्णवर्षाशीतकालव्यतिरेकः । तथा कुशलेन चतुरेण वयोवस्थासौन्दर्येण रामश्चारुः । तथा विदेहा देशास्तेषामयं वैदेहो भागस्तेन जनकाख्यनृपतिप्रतिमः । अन्यत्र रामो दाशरथिः । वै वितर्के । देहस्य भां कान्तिं गच्छति व्याप्नोति इति कृत्वा डप्रत्यये देहप्रभागेन शरीरकान्त्यनुसारिणा रामणीयेकेन सौन्दर्येण । कुशस्य लवस्य च जनको जनयिता । नैषधो निषधदेशीयः प्रजापती राजा । समरे युद्धे न कदाचिदभिभूतः । विरञ्चस्तु विष्णुनाभेर्भूतो जातः ॥ क ॥ यस्य चेति ॥ अत्र प्रथमातृतीययोः श्लेषः । बहुश इति भिन्नम् । अभया भयरहिता । तृतीयान्ते वही शोभा यस्यां तया । तथा अखण्डो नयः षाड्गुण्यं यस्याम् । तृतीयायां न खण्डनमस्याः । तथा सञ्छोभनो जयो यस्याः । सेनापक्षे सज्जया प्रवणया ॥ ख ॥ यस्य चेति ॥ निस्त्रिंशता खड्गत्वम् । कुचाभ्यामातुर्ये दुर्बहभरत्वात् । कूप्रदेशस्य सेवामृगयाभ्यासेषु तथा लुब्धक इति 'पर्यायः एकार्थे शब्दान्तरम्' । तथा धर्मनामा द्रुमो यन्मयं धनुर्विधीयते । तस्य च्छेदः कर्तनम् । कृपाणादिष्वेव निस्त्रिंशतादीनीति परिसंख्योक्त्या न तस्येति शेषः । तस्य राज्ञो न । निस्त्रिंशता क्रूरकर्मत्वम् । कुत्सितं चातुर्यम् । तथा कुत्सित उपदेशो येषां तेषां दाम्भिकानां सेवा । तथा कुत्सितो लुब्धो लुब्धकः । तस्य पर्यायः परिणामः । तीक्ष्णता आयःशूलिकत्वम् । धर्मस्य पुण्यस्य च्छेदः ॥ घ ॥ १ 'पतिः प्रजानाम्' २ 'विरञ्चिरिव' ; 'विरिञ्च इव' ३ 'द्रोहेषु' ४ 'यस्य चतुरुदधि' ५ 'कूपसेवा'
९६ . नलचम्पूः । एवमस्य हरस्येव करस्थं कृत्वाशेषमण्डलमनवरतविख्यातविजया- भिनन्दिनः, सुन्दरकैलासनाभिरम्यवनान्तरेषु विहरतः, मदननिरुद्ध- नैषधीपीनोच्चकुचकुम्भावष्टम्भमसृणितवक्षःस्थलस्य सुखेनाभिक्रामन्ति दिवसाः ॥ क ॥ कदाचिच्चतुरुदधिवेलावलयितवसुंधराविख्यातमपत्यमभिलषन्नना- दरचरणाङ्गुष्ठनिष्ठ्यूतकैलासोन्मूलनागतपतद्दशवदनविरसविरुतविह- सितामरमण्डलीमहितमहिमानमनवरतविर्रिश्चिरचितविचित्रनामसा- मवस्तुतिं॑मनवरतसकललोककल्याणकामधेनुमनुपमवर्चसमर्चयां- चकार भगवन्तमम्बिकापतिम् ॥ ख ॥ अतिभक्तितोषितहरलब्धवरश्च निरुपमरूपयानुरूपया रूपवत्यभि- धानया प्रधानया प्रियया सह मकरकेतनकेलिफलमनुभवन्नतिचिर- मासांचक्रे ॥ ग ॥ अतिक्रामति तु कियत्यपि समये संपन्नसत्त्वा समपद्यत रूपवती॥घ॥ तेन च संमस्तसंसारसारवस्तु धृतकान्तिकणकलितगर्भारम्भेण, नारायणाभिरिव विरञ्चोत्पत्तिकमलकन्दबन्धेन, कल्पपादपलतेव पल्लवारम्भोच्छ्वासेन, मनाङ्ञ्छेदुरितोदरा रराज राजीविनयना राजपत्नी ॥ घ ॥ एवमस्येति ॥ करे रजभागे स्थितमशेषं मण्डलं देशम् । अनवरतप्रथित- विजयैर्हृष्टस्य । कं जलम् । एला लता । असनः पीतमालः । तैः सुन्दरैरभिरम्येषु काननविशेषेषु । विचरतस्तस्य सकामनिषधस्त्रीपीनोच्चकुचकुम्भयोरवष्टम्भेन मसृ- णितं वक्षःस्थलं यस्य तथोक्तस्य सतः सुखेन यान्ति दिवसाः । विहरणकृतमिह हरेण सहौपम्यम् । तदा । करः पाणिः । शेषाख्यो नागः । तस्य मण्डलं कुण्ड- लाकारं वपुः । विजया गौरीसखी । नन्दी हरप्रतीहारः । कैलासो गिरिः । नाभिमुल्यार्थः ॥ क ॥ कदेति ॥ निष्ठ्यूतं निरसनम् । 'निष्ठापितम्' इति पाठे तु निःशेषेण स्थाप- नम् । अविरतम् । विचित्रनामभिर्भर्ग-भगवन्त्रिेत्रादिभिः । सामवेदार्थैश्च। विरञ्चेन विरचितस्तुतिम् ॥ ख ॥ १ 'एवं तस्य'. २ 'विजयानन्दिनः'. ३ 'कदाचिदपि'. ४ 'विरुति'. ५ 'अविरत'. ६ 'विरञ्चि'. ७ 'विरचित'. ८ 'अनवरतमवनत'. ९ 'रूपया च'. १० 'सकल'. ११ 'कणकलाप'. १२ 'विरिञ्च'.
चतुर्थ उच्छ्वासः । ९७ क्रमेण च मेचकोच्चचूचुककुचकुम्भकपोलिपाण्डिम्ना निम्नयन्ती मृग- लाञ्छनच्छायमवाञ्छदच्छामृतपयःपिष्टमूर्तिमन्मधुसमयमदनमृगाङ्क- मण्डलरसेनात्मानमौलेप्तुम् ॥ क ॥ अग्रतः सखीजनविधृतमपास्य मणिमयमुकुरमण्डलमनवरतनिशा- निर्मलकरवालतलेष्वात्ममुखकमलमवलोकयांचकार ॥ ख ॥ निरस्य नीलोत्पलमरजठरकण्ठीरवकण्ठकेसरस्तवकमकरोत्कर्णाव- तंसम् ॥ ग ॥ अतिबहलकुङ्कुमाङ्ककस्तूरिकापङ्कमपहाय मत्तमातङ्गमदकर्दमेन नि- जभुजशिखरयोर्विरचयांचकार विचित्रपत्रभङ्गान् ॥ घ ॥ एवमन्तःस्फुरद्गर्भानुरूपदोहदसुखमनुभवन्ती कदाचिदुच्चस्थानस्थि- ते सौम्यग्रहग्रामे, महाराजजन्मोचितेऽह्नि शुभसंभारकारणायां काल- वेलायां जातप्राये प्रभाते प्रभाप्रतानजनितपरिवेषमशेषतेजस्वितेजःपु- ञ्जापहारिणमालोहितपादपल्लवोल्लसितपङ्कजच्छायम, द्यौरिव रविमण्ड- लम्, उन्नमन्मेघमालेव विद्युल्लोलम्, अरणिरिव वितानवैश्वानरम्, नरपालप्रिया प्रीणितगोत्रं पुत्रमजीजनत् ॥ ङ ॥ तत्र च दिवसे सांशूकोन्नतवंशस्य तस्य राज्ञः पुरस्य च । बभूव लक्ष्मीः सा कापि यया स्वर्गोऽपि निर्जितः ॥ १० ॥ अपिच । क्रमेणेति ॥ कुचकुम्भस्य चन्द्रमाः । मेचकचूचुकस्य लाञ्छनमुपमानम् ॥ अच्छामृतमेव यत्पयो नीरं तेन पिष्टो घृष्टो योऽसौ मूर्तिमत्तां मधुसमयमदनमृ- गाङ्कमण्डलानां रसः तेनालेप्तुमात्मानमियेष ॥ क ॥ एवमन्तरिति ॥ द्यौरपि प्रगे रविमण्डलं जनयति । तमपि दीप्तिततिकृतवेष्ट- नम् । तथा समस्तदीपप्रभृतितजस्वितेजोमुषम् । पादाः किरणाः । पुत्रपक्षे आ ईषत् लोहितौ पादपल्लवौ तयोरुल्लसितपङ्कजवच्छाया यस्य । तथा विद्युतां लोलनं लोलो विलासः । मण्डलः पुंस्यपि ॥ ङ ॥ सांशुकैति ॥ राज्ञः पुरस्य च सा काचिदजनि शोभा । यथा खर्गच्छतीति कृत्वा खर्गो देवः स्वर्गलक्षणो लोकश्च जितः । अंशुना रविणा सह सांशुक उन्नतो वंशो यस्य । रवेर्वंशस्य च तुल्यमुदयनमिष्टम् । प्रगे तस्याप्युदितत्वात् । पुरं च सपताकोच्छ्रितवेणुकम् ॥ १० ॥ १ 'अनुलेप्तुम्'. २ 'मुखम्'. ३ 'संसार'. ४ 'पल्लवोपहसित'.
९८ नलचम्पूः ।
सबुद्धबालाः कालेऽस्मिन्मुक्ताहारविभूषणाः । प्राप्ताः प्रीतिं पुरे पौरा वनेषु च तपस्विनः ॥ ११ ॥ सूतीगृहे च अलंकृतनिशान्तेन तरुणरुणरोचिषा । प्रदीपानां प्रभा तेन प्रभातेन यथा जिता ॥ १२ ॥ चिरात्पल्लवितं राजवंशेन, समुच्छ्वसितं राज्यश्रिया, प्रीतं प्रण- यिभिः, प्रनृत्तं पौरैः, प्रमुदितं बान्धवैः, विद्राणं द्रोहिजनैः, उन्नदितं वियत्यदृष्टमङ्गलवादित्रैः, चित्रायितमतिबहलपरिमलपतत्पुष्पवृष्ट्या, विकसितं दिग्वधूवदनारविन्दैः, विलसितमतिसुरभिसुखस्पर्शसमीर- णेन, स्वच्छन्दायितं बन्दीकृतारातिरमणीभिः, आढ्यायितमर्थिलो- केन ॥ क ॥ किं बहुना । अवृष्टिनष्टधूलीकमशरन्निर्मलाम्बरम् । अपीतमत्तलोकं च जगज्जन्मोत्सवेऽभवत् ॥ १३ ॥ भूते च विभवभूयिष्ठे षष्ठीजागरणव्यतिकरे, अतिक्रान्तेषु च सूत- कदिवसेषु नामकरणोचितेऽह्नि 'न लॉस्यति धर्मधनान्येष साधुभ्यः'
सबुद्धेति ॥ वृद्धः पितामहादिः । बालः पुत्रादिः । ताभ्यां सह । मौक्ति- कहारालंकरणाः पौराः । मुनयस्तु सबुद्धकेशाः कूर्चादैरसंस्कारात् । तथा मुक्ता आहारा यैः । तथा व्यपेतभूषाश्च ॥ ११ ॥ अलमिति ॥ येन प्रभातेनेव प्रदीपानां प्रभा जिग्ये । अलंकृतं निशान्तं गृहं येन । तथा तरुणारुणो मध्याह्नार्कस्तद्वद्रोचिर्यस्य । अत एवं दीपप्रभा निष्प्रभा । महात्मनां हि भूयिष्ठेन तेजसा दीपप्रभाप्यभिभूयते । प्रभातेन तु अलमत्यर्थम् । तरुणया नूतनया अरुणस्य रविसारथे रोचिषा । कृतो निशाया रात्रे्रन्तो येन । यदिवा अरुणरोचिषा लोहितकान्तिना तरुणोपलक्षितेन प्रभातेन । तत्समये हि दिनकरकरस्पर्शात्तस्तरवो रक्तीभवन्ति ॥ १२ ॥ चिरादिति ॥ चित्रायितं भक्तिविशेषविन्यासायितम् । कुमारजन्मोत्सवे गु- प्तीनां मोक्षणाद्बन्दीनां स्वाच्छन्द्यम् । आढ्यत्वे त्यागातिशयो हेतुः ॥ क ॥ अवृष्टीति ॥ वृष्ट्या हि धूली नश्यति । शरदा द्योरमलता । पानेनोन्मदः । यच्चेदृशं तदन्तरेणापि जगदजायत स तदुत्पत्तिप्रभावः ॥ १३ ॥ भूते चेति ॥ प्रविष्येति । निमित्तात्सामुद्रिकलक्षणाज्जन्मसभाद्वा साधूनां
१ 'सूतिकागृहे च'. २ 'चित्रीदितम्'. ३ 'अर्थिलोकेः'. ४ 'लात्येष धर्मधनानि'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
चतुर्थ उच्छ्वासः । ९९ इति ब्राह्मणाः प्रविश्य तस्य ‘नलः’ इति नाम प्रतिष्ठापयामासुः ॥ क ॥ क्रमेण च चतुरुदधिवेलावनविकासोचितकीर्तिकुन्दकन्दलैर्विश्ववि- श्वंभराभिलम्भलम्पाकौः कुमारसेवकैरिव सकलचक्रवर्तिचिह्नैरलंकृता- वयवो विस्तरजटालवालः कल्पपादपाङ्कुर इव वर्धितुमारभत ॥ ख ॥ विरचितचूडाकरणादिसंस्कारक्रमश्च प्राप्ते विद्याग्रहणकाले निमि- त्तमात्रीकृतोपाध्यायः स्वयमेव समस्तानवद्यविद्याम्भोनिधेः परं पारम- वाप ॥ ग ॥ तथाहि । प्रबुद्धबुद्धिर्बौद्धे, सविशेषशेमुषीको वैशेषिके, विख्यातः सांख्ये, रञ्जितलोको लोकायते, प्राप्तप्रभः प्राभाकरे, प्रतिच्छन्दकश्छन्दसि, अनल्पविकल्पः कल्पज्ञाने, शिक्षाक्षमः शिक्षायाम्, अकृतापशब्दः शब्दशास्त्रे, अभियुक्तो निरुक्ते, सज्जो ज्योतिषि, तत्त्ववेदी वेदान्ते, प्रसिद्धः सिद्धान्तेषु, स्वतन्त्रस्तन्त्रीगणेषु, पटुः पटहे, अप्रतिमल्लो झल्ल- रीषु, निपुणः पणवेषु, प्रवीणो वेणुषु, चित्रकृच्चित्रविद्यायाम्, उद्दामः कामतन्त्रे, कुशलः शालिहोत्रे, श्रेष्ठः काष्ठकर्मणि, सावलेपो लेप्ये, पण्डितः कोदण्डे, शौण्डः शारिषु, गुणवान्गणिते, बहुलो बाहुयुद्धेषु, चतुरश्चतुरङ्गद्यूतक्रीडायाम् उपदेशको देशभाषासु, अलौकिको लोक- ज्ञाने ॥ घ ॥ धनाग्रहणे अन्तर्मुखमभिप्रायमाश्रित्येत्यर्थः ॥ क ॥ क्रमेणान्ते ॥ कुमारसेवका युवराजानुचराः । तदुपमै राजचिह्नै रेखाकृतैश्चक्र- चापकुलिशादिभिर्भूषिताङ्गः । तथा विस्तरन्तो जटालाः स्वभावजटाबन्धा बालाः कचा यस्य । वृत्तचूडाकरणस्य हि केशा विजटीभवन्ति । कल्पवृक्षस्तु प्रसरन्मूला- लवालः ॥ ख ॥ प्रबुद्धेति ॥ चित्रवृत्तलक्षणं छन्दः । कल्पः पितृदेवताद्याराधनविधिशास्त्रम् । अकारादिवर्णजन्मस्थानानां बोधिका शिक्षा । अन्वयस्य प्रकाशकं निरुक्तम् । अ- तीन्द्रियशुभाशुभकर्मणां प्रकाशकं ज्योतिषम् ॥ घ ॥ १ 'शुश्रुवाणः'. २ 'कन्द.' ३ 'विश्वंभरालम्भ'. ४ 'अलंकृताङ्गावयवः'. ५ 'विस्तरत्'. ६ 'समये'. ७ 'अकलङ्कोऽकलङ्के'. ८ 'प्रतिभः'. ९ 'छन्दःशास्त्रे'. १० 'कल्पजाते'. ११ 'सिद्धान्ते'. १२ 'वीणावेणुषु.'. १३ 'शालिहोत्रेषु, अमुद्रः सामुद्रिके'. १४ 'शरेषु'; 'शारेषु'. १५ 'गुणिने'. १६ 'बहुगुणो'. १७ 'बाहुयुद्धे'. १८ 'तुरङ्गमक्रीडा', 'तुरङ्गव्यूहक्रीडा'. १९ 'भाषासु'.
किं बहुना । रसे रसायने ग्रन्थे शस्त्रे शास्त्रे कलास्वपि । नले न लेभिरे लोकाः प्रमाणं निपुणा अपि ॥ १४ ॥ क्रमेण शैशवमतिक्रामतोस्य सेवकैरिवाङ्गावयवैरप्यनुवृत्तिः कृता॥क॥ तथाहि । श्रवणासक्तस्य लोचनद्वयमपि श्रवणसंमतिमकरोत् ॥ ख ॥ उन्नतस्वभावस्य नासावंशोऽप्युन्नतिं जगाम ॥ ग ॥ वक्रोक्तिकुशलस्य केशकलापोऽपि वक्रतां भंजे ॥ घ ॥ शङ्खनिर्मलगुणस्य कण्ठोऽपि शङ्खाकारमधारयत् ॥ ङ ॥ पृथुलमतेरंसकूटद्वयमपि पृथुलमभूत् ॥ च ॥ प्रमाणवेदिनो वक्षःस्थलमपि सुप्रमाणमजायत ॥ छ ॥ मध्यस्थस्य तस्य रोमराजिरपि मध्ये स्थिता शुशुभे ॥ ज ॥ सुवृत्तस्य बाहूयुगलमपि सुवृत्तमभवत् ॥ झ ॥ गम्भीरप्रकृतेर्नाभिरपि गम्भीरा व्यराजत ॥ ञ ॥ पल्लवसुकुमारहृदयस्य हस्तचरणैरपि पल्लवसौकुमार्यमङ्गीकृतम् ॥ट॥ अथ किं बहुना । सोष्णीषमूर्धा ध्वजवर्चक्रपाणि- रूर्णाङ्कविस्तीर्णललाटपट्टः । सुस्निग्धमूर्तिः ककुदुन्नतांसः कस्यैष न स्यान्नयनाभिरामः ॥ १५ ॥ रस इति ॥ रसः पारदः । रसायनं जरामरणापहं औषधयोगः । ग्रन्थः काव्यशास्त्रादिरचना । शस्त्रं खङ्गादि । शास्त्रं व्याकरणतर्कादि । कला गीतनृत्यादयः । एतेषु निपुणा अपि सन्तो लोका नले राज्ञि प्रमाणमियत्तां न प्रापुः ॥ १४ ॥ श्रवणेति ॥ श्रवणे शास्त्राकर्णने आसक्तः । श्रवणसंगतिः कर्णसंगतिः ॥ ख ॥ पृथुलेति ॥ अंसकूटेति कूटशब्दः शिखरार्थः ॥ च ॥ प्रमाणेति ॥ प्रमाणं तर्कशास्त्रं मानं च ॥ छ ॥ मध्येति ॥ मध्यस्थोऽकृतपक्षपातः । अन्यत्र मध्ये उदरे तिष्ठतीति ॥ ज ॥ सुवृत्तेति ॥ वृत्तं शीलं वर्तुलं च ॥ झ ॥ गम्भीरेति ॥ गम्भीरप्रकृतिरलक्ष्यकोपप्रसादः । निम्ना च गम्भीरा ॥ ञ ॥ सोष्णीषेति ॥ उष्णीषाकारं शारीरिकं लक्षणमुष्णीषम् । ऊर्णा भ्रूमध्ये शुभ्रोमावर्तः ॥ १५ ॥ १ 'क्रमेण च'. २ 'वादिनो'. ३ 'मध्यस्था'. ४ 'कर'. ५ 'किं बहुना'. ६ 'चिह्न'- CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
चतुर्थ उच्छ्वासः । १०१ अपि च । आस्यश्रीः संनिभेन्दोः समदृषक्ककुद्बन्धुरः स्कन्धसंधिः स्निग्धा रुक्कुन्तलानामनुहरति दृशोर्द्वन्द्वमिन्दीवरस्य । स्थानं वक्षोऽपि लक्ष्म्याः, स्पृशति भुजयुगं जानुनी, वृत्त रम्ये जङ्गे, क्षामोऽवलग्नः, किमु निषधपतेः श्लाघनीयं न तस्य ॥ १६ ॥ अस्ति च तस्य नरपतिसूनोः समानशीलवयोविद्यालंकारकान्ति- क॑लापपरिपूर्णदेहः, शरीरमात्रद्वितीयोऽप्यद्वितीयहृदयमेकं जीवितम- पर उच्छ्वासः, सालङ्कायनसूनुः श्रुतशीलो नौम मन्त्री मित्रं च ॥ क ॥ एकदा तु पूर्वदिग्वधूकुङ्कुमपङ्कपल्लवितवदनायमाने निरुद्धान्धतमसे सौगन्धिकबन्धुनि बन्धूककुसुमारुणे वियति तरतीव तरुणतरे तरणि- मण्डले, मण्डयति कुसुम्भैकुसुमकेसरप्रैकरायमाणे गगनाङ्गणमम्भो- जमुकुलनि॑िद्रामुषि रोचिषां चये, चलिते च विच॑रितुमुपवनतरुराजि- कर्णोत्पले निद्राविरामवि॑धुतपक्षे पक्षिकुले, कृतप्राभातिककर्मणः से- भाङ्गणमण्डपमध्यवर्तिनो दत्तसेवावसरस्य राज्ञः प्रविष्टे मन्त्रिणि साल- ङ्कायने, प्रणामपर्यस्तकणोत्पलर्धवलितसभाङ्गणे यथासनमुपविष्टे प्रस्तु- तसेवालावापरञ्जितराजनि राजन्यचक्रे, प्रक्रान्ते शास्त्रीयविनोदे, श्रुत- शीलेन समर्मेन्यैश्च क्रीडासहायैरनुचरैरनुगम्यमानो नलः सेवासुखम- नुभवितुमागतवान् ॥ ख ॥ आगत्य च क्षितितलमिलन्मौलिमण्डलः प्रणम्य पितुः पादारवि- न्दद्वयमदू॑रेदत्तमासनं भेजे ॥ ग ॥ उपविष्टे च तस्मिन्ननभिवादनादुत्पन्नमन्युरीषत्कोपॅकम्पितकरपरा- मृष्टकूर्चाग्रिमग्रन्थिरमणीर्मन्त्रिमण्डलस्य भ्रूभङ्गभीषणया शोणकोणा- न्तरतरत्तरलतारया दृशाऽभिमुखम॑स्य सालङ्कायनः प्रणयपरुषाक्षरम- भाषत ॥ घ ॥ अस्तीति ॥ अपर उच्छ्वास इति । न परोऽस्मादित्यपर उत्कृष्टः ॥ क ॥ उपविष्ट इति ॥ आत्मनोऽप्रणामाद्विदितविनयाकौशलं नलं प्रीतिभाक् पैतृको मन्त्री शिक्षाबुद्ध्या परुषवर्णमवादीत् ॥ घ ॥ १ 'कलाकलाप'. २ 'अद्वितीयम्'. ३ 'नाम मित्रम्'. ४ 'कुङ्कुम'. ५ 'करायमाणे'. ६ 'मुद्रा'. ७ 'चरितुम्'. ८ 'अवधूत'. ९ 'सभामण्डप'; 'सभामणिमण्डपः'. १० 'मकरन्दशवलित'; 'शवलित'. ११ 'अन्यैरपि'. १२ 'आसनम्'; 'अदूरदत्तासनम्'. १३ 'सकम्प'. १४ 'अस्यावलोक्य'.
१०२ नलचम्पूः । 'कुमार, राजहंसोऽपि 'अहंसरूपः' इति मा स्म मोहवान्भूः ॥ क ॥ अनुभवति चमूढः शस्त्रसंघात इव कोशशून्यताम् ॥ ख ॥ अविभवः पुरुषो मेष इव कम्बलस्योपयोगं गच्छति ॥ ग ॥ प्रद्युम्नजातोऽपि बाणयुद्धव्यतिकरकारिण्या सदोषया यौवनाव- स्थया निरुद्धोऽनिरुद्ध इव को नाम न क्लेशमनुभवति ॥ घ ॥ ततात, सुविषमेघवर्तिनि विद्युद्विलास इवास्थिरे स्थितस्तारुण्ये मा स्म विस्मरः स्मयेन विनयम् ॥ ङ ॥ कुमारेति ॥ कुमारेत्यामन्त्रणे । राजमुख्योऽपि संस्त्वं सरूपो रूपवानहमि- त्यमुना प्रकारेण । मोहवान् मा स्म भूः मोहं मागाः । रूपमदो हि नीचचिह्नम् । यश्च राजहंसः स कथमहंसस्वरूप इति विरोधद्योतकोऽपिशब्दः ॥ क ॥ ननु यदि रूपादर्हंकाराद्वा नृपो मूढः स्यात्तत्को दोष इत्याशङ्क्याह—अनुभव- तीति ॥ चकारो यौगपद्ये । यदैव कुतो मुह्यति तदैव कोशेन गञ्जेन शून्यतां व्यतिरेकमनुभवति । यथा चम्बा स्वसेनया ऊढो धृतः शस्त्रनिचयः प्रत्याकारशून्य- तामायाति ॥ ख ॥ भ्रष्टकोशस्यापि किं तदाह—अविभवेति ॥ निर्धनः पुमान् अज इव बलस्य सैन्यस्य शक्तेर्वा कमुपयोगं साफल्यं याति न कमपीत्यर्थः । एतेन निष्कोशस्या- बलित्वमिति ख्यापितम् । अजस्तु अवेर्मेण्डाद्भवति स्म । तथा कम्बलस्याच्छाद- नविशेषस्योपयोगं याति ॥ ग ॥ तस्माद्वलस्य का कथेत्याह—प्रद्युम्नेति ॥ यतः प्रद्युम्नजातोऽपि प्रकृष्टौ- जःपुञ्जोऽपि । बाणैः शाब्दैर्यैर्युद्धं कोलाहलस्तत्संपर्ककारिण्या । सह दोषैरिति दो- षान्वितया । तारुण्यावस्थया । निरुद्ध आत्मवशीकृतः । को नाम क्लेशं दुःखं नानु- भवति । सर्वोऽप्यनुभवत्येवेत्यर्थः । नामाभ्युपगमे । द्युम्नं द्रव्यमपि । वणधातुः शब्दार्थो घञन्तः ।' प्रद्युम्नः कामः । तस्माज्जातोऽनिरुद्धाभिधो बाणाख्येन दैत्येन समं युद्धसंबन्धविधायिन्या यौवनेऽवतिष्ठत इति कृत्वा तारुण्ये स्थितया उषया उषाख्यया पत्न्या सदा निरुद्ध आत्मीकृतो दुःखमनुभूतवानित्यागमः । युद्धव्य- तिकरोऽनङ्गसूनोः क्लेशानुभवहेतुः ॥ घ ॥ तत्तातेति ॥ तदित्युपसंहारे । तातेति प्रणयपूर्वामन्त्रणे । तस्माद्वत्स । सुष्ठु- तिशयेन । विषमे । तथाऽघवर्तिनि पापं कारयितरि । अस्थिरे चञ्चले । तथा वि- शेषेण द्योतन्त इति विद्युतो रोचमाना विलासाः शृङ्गारादयो यस्मिन् । तथाविधे तारुण्ये स्थितः सन्स्मयेन गर्वेण विनयं मा स्म विस्मार्षीः । विद्युद्विलासोऽपि सुष्ठु विषं जलं यत्रेति कृत्वा सुजले मेघे वर्तते । तथा अस्थिरो लोलः तथाविधे ॥ङ॥
चतुर्थ उच्छ्वासः । १०३ अविनीतोऽग्निरिवं दहति ॥ क ॥ अजाततनयश्च्छाग इव नाभिनन्द्यते जनेन ॥ ख ॥ किं च ब्रूमः । सुसहायशून्यस्य भवतो यस्यामीमांसाभियोगा राक्षसा इव, अन्या- याः पारदारिका इव, अयोगक्रिया लोहकारा इव, अश्रुतागमाः शोक- वेगा इव सहायाः ॥ ग ॥ न च ते दुःशिक्षितनृपकलभव्याकरणमार्गेषु निपुणा नर्तकीव मित्रमण्डली ॥ घ ॥ तदायुष्मन्नहितया प्रकृत्या भुजंग इव भयाय लोकस्य ॥ ङ ॥ विनयविस्मृतौ दूषणमाह—अविनीत इति ॥ अविनयी पुमानग्निरिव दाहमुत्पा- दयत्यात्मनः परस्य वा । अविरूर्णाद्युस्तेन नीतो यथाम्निस्तन्नेतारं दहति । ज्वलन्ती हि गड्डरिका स्वीकृता दहतीति लोकोक्तिः । अथवा अविरग्निवाहनम् ॥ क ॥ नन्वात्मदाहकाः पतिविपत्तौ रूयादयः परदाहकाः कामत्रिपुरान्तकप्रभृतयश्च श्रूयन्ते । ततश्चाविनयाद्दाहात्मकपि मां जनः स्तोष्यतीति निरस्यन्नाह—अजा- तेति ॥ न जातो नयो यस्य स छाग इव न स्तूयते जनेन । स्तुतिमपि न प्राप्नो- तीत्यर्थः । छागस्त्वजायास्तनयः सुतः ॥ ख ॥ नन्वात्मनः स्वामी यादृक्तादृग्वा भवतु चेत्सुसहायः । तदपि त्वयि नास्तीत्या- विष्कुर्वन्नाह—सुसहायेति ॥ यस्य ते ईदृशाः सहायाः । न मीमांसाभियोगो विचारोत्साहो येषाम् । राक्षसास्तु मांसेऽभियोगो येषां ते । अमी इति तद्विशे- षणम् । न विद्यते न्यायो येषामित्यन्याया न्यायरहिताः । उपमाने तु अन्यामन्य- संबद्धाशयन्ते गच्छन्तीत्यन्यायाः । परस्त्रीरता इत्यर्थः । अलब्धलाभो लब्धपरिर- क्षणं रक्षितविवर्धनं च योगः । तस्य क्रिया नास्ति येषां ते तथोक्ताः असंबद्धक- र्माणो वा । पक्षे अयो गच्छतीत्ययोगा लोहगता क्रिया येषाम् । तथा न श्रुत आगमः शास्त्रं यैस्ते । शोकप्रसरस्तु अश्रुताया नयनजलत्वस्यागमो येषु ॥ ग ॥ एवं सहायसंपदं निषिध्य मित्रमण्डलीमवद्ययन्नाह—न चेति ॥ दुःशिक्षिक्ष- तेति नृपकलभेति चामन्त्रणम् ॥ ते तव मित्रमण्डली नच व्याकरणमार्गेषु कु- शला । शब्दतत्वावबोधे हि नीतिशास्त्राधिगमः । नीत्यवगमे हि कृत्याकृत्यविमर्श- नम् । तस्मात्संपदः । न च तन्नैपुण्यं भवन्मित्रमण्डल्यामस्तीति भावः । नर्तकी- पक्षे दुःशिक्षितनृपकलेति संबोधनम् । सा च भरतोक्तेषु करणमार्गेषु भव्या प्रशस्ता ॥ घ ॥ तदेति ॥ तदित्युपसंहारे । आयुष्मन्नित्यामन्त्रणे । अहितया हितेतरया । प्रकृत्या अविनयादिस्वभावेन । अयुक्तसहायमित्रलक्षणया चामात्यादिकया युक्तः १ 'स्वात्मानं परं च' २ 'प्रकृत्या युक्तो'
१०४ नलचम्पूः । उग्रसेनः कंसानुरागं जनयेत् ॥ क ॥ अमृतमथनोद्यतहरिबाहुपञ्जर इव मन्दरसानुगतः को न घृष्यते ॥ ख शुनीमिवास्थिरतां परिहर ॥ ग ॥ कुशीलताग्राही मा स्म तैलिक इव केवलं खलोपभोगाय भूः ॥ घ ॥ आवर्जय गुणान् ॥ ङ ॥ निर्गुणे धनुषीव सुवंशयेऽपि कस्याग्रहो भवति ॥ च ॥ अभ्यस्य कलाः ॥ छ ॥ निष्कलो वीणाध्वनिरिव प्रशस्यते न पुरुषः ॥ ज ॥ संबद्धो भवाँल्लोकस्य भयहेतुः । भुजंगस्तु अहेर्भावोऽहिता तया दशनलक्षणया प्रकृत्या युक्तः ॥ ङ ॥ दुष्टप्रकृतिर्नृपंश्लोकस्य भयाय ततः किमित्याशङ्क्याह—उग्रेति ॥ उग्रा सेना यस्य स कं प्राणिं सानुरागं कुर्यात् । न कमपीत्यर्थः । विरागहेतुरेवेति भावः । उचितपरिवारो हि जनानुरागाय । परिवारो हि लोकस्योपद्रवं रक्षणं वा कुरुते । उग्रसेनो दैत्यः स कंसासुरस्यानुरागं जनयतीत्यागमोक्तोल्लिङ्गनम् ॥ क ॥ चेदमी विरुद्धबुद्धयः सहायादयः । पृथिवी वा मयि मन्दानुरागा । ततः किं ममेति निरस्यन्नाह—अमृतेति ॥ मन्दो रसः प्रीतिर्येषां तैर्मन्दानुगण्या पृथ्व्या चानुगत को न घृष्यते । उपमाने तु पुरा देवैः दैत्यैरमृतायाम्भोधिर्ममन्थे । तत्र च मुख्यो बलिष्ठश्च विष्णुः । तस्य भुजपञ्जरो मन्दरनाम्नो गिरेर्मन्थानभूतस्य सानूनि तटानि गतः प्राप्तः सङ्घृष्टः ॥ ख ॥ शुनीमिति ॥ तस्मादस्थिरतां चञ्चलत्वं त्यज ॥ शुनी त्वस्थि रता ॥ ग ॥ कुशीलतेति ॥ कुत्सितं शीलं लौल्यादिलक्षणं यस्य स कुशीलः । तस्य भावः कुशीलता । तां गृह्णातीत्येवंशींलस्तथोक्तस्त्वं केवलं दुर्जनानामुपभोगाय मा स्म भूः । कुशीलो हि दुर्जनानामेवोपयोगी न साधूनाम् । तैलिकस्तु कुशीलक्षणां लतां गृह्णाति । खलः पिण्याकः स एवोपयोगस्तस्य । अयोविकारः कुशी ॥ घ ॥ अकृत्यानि परिहार्य कृत्यमुपदिशन्नाह—आवर्जयेति ॥ ङ ॥ सुवंशत्वादेवास्माकं लोकाग्रहो भविष्यतीति न विमृश्यं यतः ॥ निर्गुण इति ॥ गुणानामेवाग्रह आदरो जनस्य न केवलं कुलीनानाम् । वेणुसंभूतस्य धनुषोऽपि गुणेन ज्यया आ आभिमुख्येन बाणाकर्षणाय ग्रह आग्रहः ॥ च ॥ अभ्यस्येति ॥ कला विद्वत्तादिका तामभ्यभ्यस्य । अस् दैवादिको ल्सहि- प्रत्ययः ॥ छ ॥ निष्कल इति ॥ वीणाध्वनिस्तु निष्कलः कलयितुमशक्यः ॥ ज ॥ १ 'उग्रसेन इव'. २ 'मन्थन'. ३ 'सुवंशेऽपि'.
चतुर्थ उच्छ्वासः। १०५ त्यज जाड्यम् ॥ क ॥ जाड्ययोगेन हिमानी दूष्यतां याति ॥ ख ॥ मा स्म मुखरो भूः ॥ ग ॥ कर्णाटचेटीमिव मुखरतां न शंसन्ति साधवः ॥ घ ॥ भज माधुर्यम् ॥ ङ ॥ धवलवलीवर्दपङ्क्तिरिव समाधुर्या वाणी मनो हरति ॥ च ॥ वर्जय वैपरीत्यम् ॥ छ ॥ विपरीतं शवमिव को न परिहरति ॥ ज ॥ कमलदीर्घाक्ष, शिक्षाक्रमेऽस्मिन्नपरमप्यभिधीयसे ॥ झ ॥ मा गाः स्त्रियाः श्रियो वा विश्वासम् ॥ ञ ॥ आवर्जितशौर्यादिगुणोऽभ्यस्तसप्ततिकलः पुरुषो यस्तब्धः स नश्यते इत्याह— त्यजेति ॥ क ॥ जाड्येति ॥ हि यस्माज्जाड्ययोगेन मानी स्तब्धः पुमान्दूष्यत्वमाप्नोति । हि- मानी हिमंसंहतिः । सापि जाड्यातऽतिशैत्याद्दूष्येत्यर्थान्तरम् ॥ ख ॥ जाड्यपरित्यागे किं पितृमन्त्रिमूखरस्तर्हि स्यामित्येतदपि निषिध्यन्नाह—मास्मे- ति ॥ मुखरो वाचालोऽपि माभूः ॥ ग ॥ कर्णाटेति ॥ यस्मान्मुखरस्य भावं मुखरतां वाचलतां साधवो न स्तुवन्ति । कर्णाटचेटी तु मुखे रतं सुरतं यस्याः ॥ घ ॥ धवलेति ॥ यस्माद्या वाणी सह माधुर्यण सा मनोहारिणी । न च वाचाल- तायां वाचो माधुर्यम् । वृषश्रेणी तु. समा अविषमा । धुर्या धूर्वाहिनी । धुरं वह- तीत्यर्थे 'धुरो यड्ढकौ' इति यत् । अनः शकटम् । अणीं वा । अक्षाग्रकीलिका- मिव हरति वहतीत्यर्थः । वा अथवाऽर्थे ॥ च ॥ वर्जये.ति ॥ पूर्वोक्तादसद्गुणदेशद्वैपरीत्यमन्यथाभावं त्यज ॥ छ ॥ यतः— विपरीतेति ॥ विपरीताचारं को न परिहरति । शवं तु विमिः पक्षि- भिः परीतं व्याप्तम् ॥ ज ॥ सुविनीतानामावर्जितगुणानामभ्यस्तकलानामपि प्रायः प्रभवन्ति व्यसनानि, रक्षितव्यप्रमादाश्च । व्यसनेषु स्त्रीध्वत्यासकिर्महद्व्यसनम् । द्रव्यशरीरयोः क्षयहेतु- त्वात् । स्त्रीव्यसने हि राजयक्ष्मोद्भवः । ततः स्त्रीव्यसनं लक्ष्मीप्रमादं च परिहार- यन्नाह— कमलेति ॥ रूपवान्भवान् सर्वस्त्रीप्रियः स्यादतस्तासु विश्वासकरणं तव तत्कमलदलेत्यामन्त्रणेनाभिहितम् ॥ झ ॥ मागा इति ॥ स्तृणाति दुर्विनीता सती आत्मनः परस्य वा गुणगणं प्रच्छा- १ 'साधवः धवल'. २ 'शिवम्'. ३ 'कमलदलदीर्घाक्ष'. ४ 'प्रक्रमे'. ५ 'धीमन्' ; 'अस्मिन्'. ६ 'स्त्रियः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
An exact, line-by-line transcription of the Sanskrit text from the page:
अधिकमलवसतिरनार्यसंगता स्त्री श्रीश्च कं न प्रतारयति ॥ क ॥$^१$ याकालकूटद्वितीया नीरोषितापि नार्द्रहृदया भवति । स्वीकृतापि विवाहेन कंसानलङ्घनचापलेनोद्वेजयति ॥ ख ॥
दयतीति स्त्री । यस्यां तु सतीधर्मयोगादस्यार्थस्यान्यथात्वम् । तत्राशृणोति कल्या- णपरंपराभिः स्वकुलं पतिकुलं चेत्यर्थः । तस्या दुर्विनीतायाः स्त्रिया अबलाया विश्वासं विश्रम्भं मात्राजीः । खलोभात्स्वभावाद्वा ता अतीवानुरागं दर्शयन्ति । परं परिणामे विरुद्धा एवेति भावः । तथा विश्वसिन्सर्वत्र निक्षेपस्य योग्थेऽयोग्य वा आस उपवेशनं स्थापनं विश्वासः । तं स्त्रिया लक्ष्म्या मा गाः । धनार्थे हि पितरः पुत्रेभ्यः पुत्राश्च पितृभ्यो द्रुह्यन्तीति । तस्साय एवाद्रोहेण उपधाशुद्धश्च तत्रैवासौ निक्षेपणीयेति भावः ॥ ञ ॥
किमिति स्त्रिया न विश्रम्भणीयम् । श्रीश्च सर्वत्राप्यनिधेयेत्याह—अधीति ॥ अधिको योऽसौ मलः पापं तस्य वसतिरासदम् । तथा अनार्यैरसधुभिः कृतमै- त्रीका स्त्री कं पुरुषं न वञ्चयति । सर्वमपि प्रलम्भयतीत्यर्थः । श्रीस्तु अधिकमलं पद्मे वसतिर्यस्याः । कमलं हि तरणशीलम् । सा च तेनाविनाभावसंबद्धा । ततः पद्मासना श्री कं पुरुषं न प्रकर्षेण तारयति । किंवाविशिष्टा । न नारी अनारी अमा- नुषी । तथा ओ विष्णुः । तत्संगता असंगता ॥ क ॥
याकालेति ॥ या स्त्री अकालेऽकस्माद्यत्कूटं कपटं द्वितीयं यस्याः । तथा नोरोष्यते स्मेति नीरोषिता प्रसादिताप्यार्द्रहृदया स्निग्धहृदया न भवति । तथा विवाहेनोपयामेन सानलमग्निसाक्षिकं स्वीकृतापि सा स्त्री कं पुरुषं घनेन लौल्येन नोद्वेजयति । श्रीपक्षे कालकूटं विषं द्वितीयमस्याः । तदनन्तरमुत्पन्नत्वात् । तथा नीरे जले उषिता । जलधिपुत्रीत्वात् । परं नार्द्रहृदया । किं तु निर्जलवक्षाः । दैवतानुभावाज्जलेन तद्वक्षो वैसादृश्यं न नीतमिति भावः । तथा आप्रोत्यवश्यमि- त्यापी स्मृतमात्रागामुको यो विः पक्षी गरुडलक्षणः स वाहो वाहनं यस्य । तथा कंसासुरस्य न अलङ्घनमनलङ्घनम् । अर्थातुकंसस्य लङ्घनं मारणात्मकम् । तथाभूतं चापलं यस्य । अर्थाद्विष्णुस्तेन स्वीकृता । तथा उश्च अथ वा शिवविष्णू उत्कृष्टौ वौ यस्य स उद्वः (ईश्वरो विष्णुश्च यस्य प्रसन्नः) तस्मिन् जयति । अथवा या श्रीर्विष्णुना स्वीकृतापि सती नीरे उषिता । कालकूटद्वितीयापि सती घनस्य मेघ- स्य चापलेन विलसितेन कंसमेव जगत्संतापकारित्वादनलमुद्वेजयति पीडयति अर्था- च्छमयितरि विवाहे गरुडवाहने आर्द्रहृदया न न भवति । भवत्येवेत्यर्थः । या किल कालकूटद्वितीया सा कथमिवार्द्रहृदयेति विरोधोद्भावनयापिशब्दो भिन्नक्रमे । आर्द्रशब्दोऽत्र स्निग्धार्थः । यदि वा विवाहो विष्णुस्तेनापि श्रीः स्वीकृता । तत उपादेयेत्यर्थः । अपिरत्रापि भिन्नक्रमे ॥ ख ॥
१ ‘विप्रतारयति’.
चतुर्थ उच्छ्वासः । १०७ अस्याः कारणेऽभ्रान्तः समस्तोमन्दरागः सदालोकः, लोलनेत्री- कृता धृष्टा भुजंगमण्डली, प्राप्नो जलधी राजकुमारपराभवम् ॥ क ॥ अनयावष्टब्धः को न गुरुवौरणयोग्यो भवति, को न वाजिपृष्ठमौ- रोहति, कः कंकणन्नवञ्चनातः प्रकटयति, कः कण्ठे हारावमोचनं न कुरुते, को न काञ्चनशृङ्खलामनुभवति । कुरङ्ग इवान्धीभूतः को वागुरावैञ्चनं करोति, कः कार्मुकनिर्मुक्तशिलीमुख इव न वैलक्ष्य- मागच्छति ॥ ख ॥ अस्या इति ॥ अस्याः श्रिया हेतोर्लोकः समस्तोऽप्यमन्दरागो दृढानुरागः स- न्सदा भ्रान्तः । तथा भुजंगानां विटानां मण्डली चपलाक्षीकृता सती धृष्टा विप्र- लब्धा । तथा जडा धीरस्येति जडधीर्जडबुद्धिः राज्ञः सकाशात् कुत्सितो योऽसौ मारः पञ्चबिल्वादिबन्धने न विगोप्यहिंसा स एव पराभवस्तं प्राप्तः । अथवा राज्ञ- स्तथा कुत्सिताच्च मारात् स्मरात्पराभवं प्राप्नोति कुबुद्धिः । 'अपि भ्राता सुतो- ऽर्च्यो वा श्वशुरो मातुलोऽपि वा । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्धि चलितः स्वकात्' इति स्मार्ताः । ततः स्वपितुरपि राज्ञः सकाशाद्राजकुमारस्यान्यायवतः परिभवो युज्यत एव । पक्षे अस्याः श्रियो निमित्ते । मन्दरोऽगः पर्वतः । अभ्र- माकाशमन्तोऽस्येत्यभ्रान्तो व्योमावसानः । सन्नू शोभन आलोकोऽस्येति सदालोकः । सम्यगस्तः क्षिप्त इत्यर्थः । संपूर्वादस्यतेः क्तः । यद्वा सम्यगस्तः सन्नप्सु भ्रान्तः क्षुब्धोऽभ्रान्तः ( अर्थान्तरे भङ्गित्त्वेन न दोषः ) । तथा अलोलनेत्रं लोलनेत्रं कृता भुजंगमण्डली वासुकिप्रभृतिनागमण्डली । नेत्रं मन्थानरज्जुः । तथा जल- धिरब्धिः पराभवं मन्थनलक्षणं प्राप्तः । राजकुमारेल्यामन्त्रणे ॥ क ॥ अनयेति ॥ अनया श्रिया आश्रितः कः पुरुषो गुरूणां वारणे निषेधे । वा अथवाऽर्थे । आजिः कलहः । वञ्चनाया वञ्चनातः ( पञ्चम्यास्तसिल् ) प्रतारणात् । कं सुखं वञ्चनाकृतं सुखमित्यर्थः । कणन् शब्दायमानः । को न प्रकटयति । कण्ठे गलान्तः हा इति य आरावास्तस्य मोचनम् । कांचनेति कांचिदर्थे । शृङ्खलां बन्ध- नम् । गुरौ गुरुविषये अञ्जना पूजा । कुरङ्गपक्षे वागुराया मृगजालिकाया वञ्चना । पराभवादेः प्रागवस्थाया विसदृशो लक्ष्यत इति विलक्षः । तस्य भावो वैलक्ष्यम् । धनुर्मुुक्तबाणस्तु वै स्फुटं लक्ष्यं वेध्यमायाति । पक्षे अनया लक्ष्म्या । गुरुर्महान् वारणो गजः । वाजिपृष्ठं तुरंगपृष्ठम् । कंकणं हस्तसूत्रम् । नवमविच्छायम् । चः समुच्चये । नेति निषेधे । अतोऽस्या इत्यर्थः । हारस्य मुक्तासरस्य । अवमोचनं बन्धनम् । काञ्चनस्य शृङ्खलामाभरणविशेषम् । अगौरवार्हं नीचे । अन्धीभूतो निर्विवेकः । अपिंतु सविवेकः सन्गुरुनेव पूजयति । वै स्फुटम् । लक्षं शतसहस्रं नाप्नोति ॥ ख ॥ १ 'भुजंगावली.' २ 'वारण'. ३ 'अधिरोहति'. ४ 'वञ्चनां न'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
कस्य न पराभूतिर्भवति । कस्य नापूर्व यशः समुच्छलति ॥ क ॥ किमतोऽप्यस्याः परमुच्यते ॥ ख ॥ यादवप्रियं शार्दूलमिव शूरं महत्तरं भयान्नोपसर्पति । सुनयनादे- वरं सिंहमिव बलभद्रं दृष्ट्वा प्रपलायते । न वसुदेवेऽपि चक्षुः पातयति ॥ ग ॥ केवलमनवरतशिक्षितवैदग्ध्यकलापराधात्मिकात्रपापरापरिहृत्य गु- णिनो गुरून्परपुरुषे मायाविनि कृतकेशिवधे धृतमन्दरागे रागं बध्नाति ॥ घ ॥
कस्येति ॥ क्लीवभागस्य पराभूतिः पराभवः। प्रतिषेधवाची अः पूर्वो यस्माद्य- शःशब्दस्वरूपात्तदपूर्वं यशोऽयश इत्यर्थः । पक्षे परा प्रकृष्टा भूतिरुन्नतिः । अपूर्व- मुत्कृष्टं यशः ॥ क ॥ खस्थावस्थायां स्त्रैणानि वञ्चनाकूटराजपराभवादीन्यभिधाय संप्रति परं परि- णामे यत्स्यात्तदाह—यादवेति ॥ दवमुपतापं प्रीणाति दवप्रियं रागणम् । अथवा दुनोतीति दवः कुतश्चिद्वैगुण्यादुपतापजनको यः प्रियः कान्तस्तं शूरं वि- क्रान्तं महत्तरं वृद्धं भयान्न समीपे व्रजति । अगमने वार्धकं भये च शूरत्वं हेतुः । शार्दूलपक्षे दवः काननम् । सुनयेति नयप्रवर्तनप्रोत्साहनायामामन्त्रणम् । नादे शब्दे, वरं प्रियंवदं, बलेन शक्त्या भद्रं, दृष्ट्वापि प्रणश्यति । प्रियमिति शेषः । सिंहस्तु नादे शब्दे वरः सिंहनादस्य प्रतीतत्वात् । तथा वसुदे धनप्रदे । अवे रक्षकेऽपि चक्षुर्नयनं न पातयति । संमुखमपि नालोकत इत्यर्थः । यदिवा वेपते- ऽवश्यमिति वेपीति चक्षुर्विशेषणम् । पक्षे यादवा यदुवंश्यास्तेषां प्रियः शूरनामा- द्यपुरुषस्तं भयात्स्थितिलङ्घनलक्षणात् नोपसर्पति न तत्समीपे व्रजति । एतेन श्वशुरो वध्वा न स्पृश्यते इति स्थितिरुक्ता । शोभने नयने यस्याः सा देवरं गदनामानं कृष्णस्य गदाग्रजत्वात् । बलभद्रमपि ज्येष्ठसंबन्धेन प्रतीतं वीक्ष्य प्रकर्षेण पलायते स्पर्शभयात् । तथा वसुदेवः कृष्णस्य पिता ॥ ग ॥ यदीदृशे परमोपकारिणि न प्रेमवती स्त्री, तदान्यत्र कस्मिन्नपि गुणिणि प्रेम- बन्धं विधास्यतीति निरस्यन्नाह—केवलेति ॥ नूयते इति नवं प्रशस्यं न नवम- नवमप्रशस्यं रतं यस्याः । केवलं बीजक्षयहेतुत्वात् । नहि तस्याः संततिः। रतं च संतत्या सफलम् । तथा विशेषेण दग्धो विदग्धः। तस्य भावो वैदग्ध्यं संतापस्तस्य कला वैदग्ध्यकला शिक्षिता यया । पश्चात्कर्मधारयः । अपराधा एवात्मा स्वरूपं यस्याः। तथा न त्रायते नरकाद् अत्रं तथाभूतं यत्पापं कमप्युपसर्गं राति ददाती- त्यत्रपापरा । गुरून् पित्रादीन् गुणिनः सगुणांश्च ग्राह्यपुरुषान् परिहृत्य परस्याः पुरुषेऽन्यनारीकान्ते मायाविनि कापटिके कृतके कृत्रिमे अशिवमकल्याणं दधाती-
१ 'गदमिव'. २ 'दृष्ट्वापि'. ३ 'पलायते'.
चतुर्थ उच्छ्वासः । १०९ तदायूष्मन्नतिगम्भीरगुहा गिरीन्द्रभूरिव हृदयहराश्रेयोऽर्थिनां शरणं नै स्त्री श्रीर्वा ॥ क ॥ शृङ्गारप्रधानास्तात, गाव ईव विचारिताः सरसा भवन्ति नै स्त्रियः ॥ ख ॥
ल्यशिवधे मन्दरागे क्षणप्रेमण्यनुरज्यते । परपुरुष इत्यत्र सर्वनामत्वाद्द्वृत्तौ पूर्वप- दस्य पुंवत्त्वम् । पक्षे अनवरतं शश्वच्छिक्षितो वैदग्ध्यकलापो दक्षतातिशयो यया सा चासौ राधात्मिका । राधा च कृष्णपत्नी । सापि श्रिया एव भेदः । त्रपापरा सलज्जा सती । गुणिनो गुरुञ्छूरादीन्यदूनामादिपुरुषान् परिहृत्य परपुरुषे मुरारौ रागं प्रीतिं बध्नाति । किम्भूते माया त्रिलोकीनिर्माणलक्षणा वामननृसिंहमहिलात्वा- दिलक्षणा वा विद्यते यस्य । तथा कृतः केशिनोऽस्वरूपस्य दैत्यस्य वधो येन । तथा धृतो मन्दरनामाऽगोऽद्रिर्येन ॥ क ॥ एवमुक्तकपटानामनाईहृदयत्वादिवोपान्वितानां स्त्रीणां विश्वासं विश्रम्भं स्त्रीणां च विश्वासं यत्र तत्र निक्षेपं सर्वथा परिहरन्सर्वोऽप्यायुष्मानित्यायुष्मन्निति संबोधने- नाभिहितम् । तदित्युपसंहारे । श्रेयोर्थिनां पुण्यार्थिनां स्त्री न रक्षित्री । कीदृशी । हृदयं चेतो हरति मोहकारिणी । एतेन क्षयहेतुत्वमुक्तम् । तथा अतिगमतिशयेन बिभेतीति भीर्भीरुः स्त्रीस्वभावत्वात् । अथवा भीर्भयहेतुत्वात् । दुष्टाशयत्वात् । तथा न गौर्वाग्यस्य सोऽगुस्तं जहाति अगुहा । य एव मायामयं वक्तुं वेत्ति क्षण- मपि तमेव श्रयतीत्यर्थः । अथवा गौर्धन्वर्थः । तच्चोपलक्षणम् । तेन निर्धनं वि- हाय धनिनमेवाश्रयतीति । यदिवा नतौ नम्रतायां गम्भीरा गौर्वाग्यस्य तमपि जहा- तीत्यर्थः । नच भवादृशाश्चाद्वनि कुत्रापि वक्तुं प्रभविष्णवः । सर्वोन्नतत्वात् । यदिवा अतिगमतिशयम् भियं राति ददातीति भीरा गौर्यस्य तमतिगम्भीरगुं जहाति । हिमाचलभूरपि अतिगम्भीरा गुहाः पाषाणसन्धयो यस्याम् । श्रीश्चाश्रेयोऽर्थिनां न शरणम् । किंतु श्रेयोऽर्थिनाम् । कीदृशी हृत्स्वान्तं तथाऽयं शुभकर्म हरति । तत्प्राप्त्या शुभकर्मणो भुक्तत्वात् । यदुक्तं नैषधे— 'पूर्वजन्मविभवव्ययसृष्टाः संपदोऽथ विपदश्च विमृष्टाः' इति । गौरी अपि हृदये हरो यस्याः । तथा नतिग- म्भीरः प्रणामप्रगल्भो गुहः कार्तिकेयो यस्याः । तत्पुत्रत्वात् ॥ क ॥ अधुना दुःस्त्रियः सर्वथा परिहार्य साध्या अपत्यन्तविश्वासप्रतिषेधद्वारेण 'सेवेत विषयान्काले मुक्त्वा तत्परतां वशी । सुखं हि फलमर्थस्य तन्निरोधे वृथा श्रियः' इति पूर्वकृतिकथितमनुगामुकोऽप्यासक्तिमनासक्तिं च निषेधयन्नाह— शृङ्गारेति ॥ रूक्षशिक्षावचोभिरास्त्राकीनैरसौ विमनस्को भविष्यतीति चित्ते धारयन् कृत्यं चोपदिशन् तातेति कोमलमामन्त्रयति । शृङ्गारो रसः प्रधानं यासु । तथा विचारिता विवेचिता गावो गिर एव सरसाः प्रीतिहेतवो भवन्ति । अथवा
१ 'न पुनः स्त्री श्रीश्च'; 'न लक्ष्मीः स्त्री च'. २ 'एव'. ३ 'श्रियः स्त्रियश्च'.
१०८ नलचम्पूः । कस्य न पराभूतिर्भवति । कस्य नापूर्वं यशः समुच्छलति ॥ क ॥ किमतोऽप्यस्याः परमुच्यते ॥ ख ॥ यादवप्रियं शार्दूलमिव शूरं महत्तरं भयान्नोपसर्पति । सुनयनादे- वरं सिंहमिव वलभद्रं दृष्ट्वा $^२$ प्रपलायते $^३$ । न वसुदेवेऽपि चक्षुः पातयति ॥ ग ॥ केवलमनवरतशिक्षितवैदग्ध्यकलापराधात्मिकात्रपापरापरिहृत्य गु- णिनो गुरून्परपुरुषे मायाविनि कृतकेशिवधे धृतमन्दरागे रागं बध्नाति ॥ घ ॥ कस्येति ॥ स्त्रीवशगस्य पराभूतिः पराभवः । प्रतिषेधवाची अः पूर्वो यस्माद्य- शःशब्दस्वरूपात्तदपूर्वं यशोऽयश इत्यर्थः । पक्षे परा प्रकृष्टा भूतिरुन्नतिः । अपूर्व- मुत्कृष्टं यशः ॥ क ॥ खस्थावस्थायां छैणानि वञ्चनाकूटराजपराभवादीन्यभिधाय संप्रति परं परि- णामे यत्स्यात्तदाह—यादवेति ॥ दवमुपतापं . प्रीणाति दवप्रियं रागगणम् । अथवा दुनोतीति दवः कुतश्चिद्वैगुण्यादुपतापजनको यः प्रियः कान्तस्तं शूरं वि- क्रान्तं महत्तरं वृद्धं भयान्न समीपे व्रजति । अगमने वार्धकं भये च शूरत्वं हेतुः । शार्दूलपक्षे दवः काननम् । सुनयेति नयप्रवर्तनप्रोत्साहनायामामन्त्रणम् । नादे शब्दे, वरं प्रियंवदं, बलेन शक्त्या भद्रं, दृष्ट्वापि प्रणश्यति । प्रियमिति शेषः । सिंहस्तु नादे शब्दे वरः सिंहनादस्य प्रतीतत्वात् । तथा वसुदे धनप्रदे । अवे रक्षकेऽपि चक्षुर्नयनं न पातयति । संमुखमपि नालोकत इत्यर्थः । यदिवा वेपते- ऽवश्यमिति वेपीति चक्षुर्विशेषणम् । पक्षे यादवा यदुवंश्यास्तेषां प्रियः शूरनामा- द्यपुरुषस्तं भयात्स्थितिलङ्घनलक्षणात् नोपसर्पति न तत्समीपे व्रजति । एतेन श्वशुरो वध्वा न स्पृश्यते इति स्थितिरुक्ता । शोभने नयने यस्याः सा देवरं गदनामानं कृष्णस्य गदाग्रजत्वात् । बलभद्रमपि ज्येष्ठसंबन्धेन प्रतीत वीक्ष्य प्रकर्षेण पलायते स्पर्शभयात् । तथा वसुदेवः कृष्णस्य पिता ॥ ग ॥ यदीदृशे परमोपकारिणि न प्रेमवती स्त्री, तदान्यत्र कस्मिन्नपि गुणिने प्रेम- बन्धं विधास्यतीति निरस्यन्नाह—केवलेति ॥ नूयते इति नवं प्रशस्यं न नवम- नवमप्रशस्यं रतं यस्याः । केवलं बीजक्षयहेतुत्वात् । नहि तस्याः संततिः । रतं च संतत्या सफलम् । तथा विशेषेण दग्धो विदग्धः। तस्य भावो वैदग्ध्यं संतापस्तस्य कला वैदग्ध्यकला शिक्षिता यया । पश्चात्कर्मधारयः । अपराधा एवात्मा स्वरूपं यस्याः । तथा न त्रायते नरकाद् अत्रं तथाभूतं यत्पापं कमप्युपसर्गं राति ददाती- त्यत्रपापरा । गुरून् पित्रादीन् गुणिनः सगुणांश्च ग्राह्यपुरुषान् परिहृत्य परस्याः पुरुषेऽन्यनारीकान्ते मायाविनि कापटिके कृतके कृत्रिमे अशिवमकल्याणं दधाती- १ 'गदमिव'. २ 'दृष्ट्वापि'. ३ 'पलायते'.
चतुर्थ उच्छ्वासः । १०९ तदायूष्मन्नतिगम्भीरगुहा गिरीन्द्रभूरिव हृदयहराश्रेयोऽर्थिनां शरणं न॑ स्त्री श्रीर्वा ॥ क ॥ शृङ्गारप्रधानास्तात, गाव इव² विचारिताः सरसा भवन्ति न³ स्त्रियः ॥ ख ॥ ल्यशिवधे मन्दरागे क्षणप्रेमण्यनुरज्यते । परपुरुष इत्यत्र सर्वनामत्वाद्दृत्तौ पूर्वप- दस्य पुंवत्त्वम् । पक्षे अनवरतं शश्वच्छिक्षितो वैदग्ध्यकलापो दक्षतातिशयो यया सा चासौ राधात्मिका । राधा च कृष्णपत्नी । सापि श्रिया एव भेदः । त्रपापरा सलज्जा सती । गुणिनो गुरूञ्छूरादीन्यदूनामादिपुरुषान् परिहृत्य परपुरुषे मुरारौ रागं प्रीतिं बध्नाति । किम्भूते माया त्रिलोकीनिर्माणलक्षणा वामननृसिंहमहिलात्वा- दिलक्षणा वा विद्यते यस्य । तथा कृतः केशिनोऽस्वरूपस्य दैत्यस्य वधो येन । तथा धृतो मन्दरनामाऽगोऽद्रिर्येन ॥ क ॥ एवमुक्तकपाटानामनाईहृदयत्वादिदोषान्वितानां स्त्रीणां विश्वासं विश्रम्भं स्त्रीणां च विश्वासं यत्र तत्र निक्षेपं सर्वथा परिहरन्सर्वोऽप्यायुष्मानित्यायुष्मन्निति संबोधने- नाभिहितम् । तदित्युपसंहारे । श्रेयोऽर्थिनां पुण्यार्थिनां स्त्री न रक्षित्री । कीदृशी । हृदयं चेतो हरति मोहकारिणी । एतेन क्षयहेतुत्वमुक्तम् । तथा अतिगमतिशयेन बिभेतीति भीर्भीरुः स्त्रीस्वभावत्वात् । अथवा भीर्भयहेतुत्वात् । दुष्टाशयत्वात् । तथा न गौर्वाग्यस्य सोऽगुस्तं जहाति अगुहा । य एव मायामयं वक्तुं वेत्ति क्षण- मपि तमेव श्रयतीत्यर्थः । अथवा गौर्धेन्वर्थः । तच्चोपलक्षणम् । तेन निर्धनं वि- हाय धनिनमेवाश्रयतीति । यदिवा नतौ नम्रतायां गम्भीरा गौर्वाग्यस्य तमपि जहा- तीत्यर्थः । नच भवादृशाश्वाद्गनि कुत्रापि वक्तुं प्रभविष्णवः । सर्वोन्नतत्वात् । यदिवा अतिगमतिशयम् भियं राति ददातीति भीरा गौर्यस्य तमतिगम्भीरगुं जहाति । हिमाचलभूरपि अतिगम्भीरा गुहाः पाषाणसन्धयो यस्याम् । श्रीश्चाश्रेयोऽर्थिनां न शरणम् । किंतु श्रेयोऽर्थिनाम् । कीदृशी हृत्स्वान्तं तथाऽयं शुभकर्म हरति । तत्प्राप्त्या शुभकर्मणो भुक्तत्वात् । यदुक्तं नैषधे— 'पूर्वजन्मविभवव्ययसृष्टाः संपदोऽथ विपदश्च विमृष्टाः' इति । गौरी अपि हृदये हरो यस्याः । तथा नतिग- म्भीरः प्रणामप्रगल्भो गुहः कार्त्तिकेयो यस्याः । तत्पुत्रत्वात् ॥ क ॥ अधुना दुःस्त्रियः सर्वथा परिहार्य साध्या अपत्यन्तविश्वासप्रतिषेधद्वारेण 'सेवेत विषयान्काले मुक्त्वा तत्परतां वशी । सुखं हि फलमर्थस्य तन्निरोधे वृथा श्रियः' इति पूर्वकविकथितमनुगामुकोऽप्यासक्तिमनासक्तिं च निषेधयन्नाह— शृङ्गारेति ॥ रूक्षशिक्षावचोभिरास्माकीनैरसौ विमनस्को भविष्यतीति चित्ते धारयन् कृत्यं चोपदिशन तातेति कोमलमामन्त्रयति । शृङ्गारो रसः प्रधानं यासु । तथा विचारिता विवेचिता गावो गिर एव सरसाः प्रीतिहेतवो भवन्ति । अथवा १ 'न पुनः स्त्री श्रीश्च'; 'न लक्ष्मीः स्त्री च'. २ 'एव'. ३ 'श्रियः स्त्रियश्च'.
तदेताः कंदर्पकण्डूक्षणविनोदमात्रोपकारिण्यो नात्यन्तविश्वास- योग्याः सर्वथा विश्वस्तं विश्वासमेव नरं कुर्वन्ति स्त्रियः ॥ क ॥ श्रियोऽपि दानोपभोगाभ्यामुपयोगं नयेत् । न लोभं कुर्यात् बहुलोभानुगतः किरणकलापोऽपि संतापयति जनम् ॥ ख ॥ अतः पुत्र, प्राप्स्यसि नचिरात्निजकुलकमलराजहंसीं राज्यश्रियम् ॥ अनवरतं कृतयशोदानन्देहि नारायण इव त्वयि चिरं रंस्यते खल्वियं लक्ष्मीः ॥ ग ॥ पाहि प्रजाः ॥ प्रजापो ब्राह्मण इव क्षत्रियोऽपि न लिप्यते पोतकैः ॥ घ ॥ गावो विशेषेण चारिता दत्तास्वादवृत्तणकवलाः । तथा शृङ्गस्यारमग्रं प्रधानं यासु । तास्तथोक्ताः । तथा सरसाः सदुग्धाः । स्त्रियस्तु शृङ्गारो मण्डनं प्रधानं यासाम् । विचारिताः स्तृणन्तिं दुःशीलाः सत्यो गुणगणं छादयन्तीति तत्त्वतो विमृष्टाः सत्यो न सरसाः । किंतु वैराग्यहेतवः ॥ ख ॥ तदेता इति ॥ तत्तस्माद्धेतोरेताः स्त्रियो नात्यन्तं विश्रम्भाः । कियदेवे- त्यर्थः । तत्र हेतुमाह—कंदर्पेत्यादि । सर्वथा विश्वन्धं नरं स्त्रियो विगतश्वासमिव कुर्वन्ति । तत् साध्योऽपि नात्यन्तं विश्रम्भाः । तथाच चाणक्यः—'अन्तर्गृ- हगतः स्थविरस्त्री-परिशुद्धां देवीं पश्येत् । अपरिशुद्धां न कांचिदभिगच्छेत्' । श्रूयते हि—'देवीगृहगतो भ्राता भद्रसेनं जघान मातुः शय्यान्तर्गतश्च पुत्रः कारूपम्' इत्यादि ॥ क ॥ स्त्रीणां दोषान्कण्डूविनोदमात्रफलं चाभिधाय संप्रति स्त्रीणां फलमाह— श्रि- योऽपीत्यादि ॥ लोभे दूषणमाह—वहिति । बहुना लोभेनानुगतः । करौघस्तु । बहुलः प्राज्यः । तथा भानुं रविं गतो भानवीय इत्यर्थः ॥ ख ॥ यदि लोभवता मया संतप्यते जनस्तत्किमित्याशङ्कयाह—अत इति ॥ अत एतस्माज्जनाच्छ्रियमाप्स्यसि । जनानुरागप्रभवा हि संपदः । अथवा एतस्मात्पूर्वो- क्तादस्मदुपदेशात् । प्राप्य च श्रियं निरन्तरं कृतं यशो येन तद्वानं देहि धर्मादि- पात्रेषु श्रियं नियुङ्क्ष्वेति भावः । खलु निश्चितमियं लक्ष्मीः पात्रेषु व्यवकलयति त्वयि विष्ण्वाविव बहुकालं सहर्षं स्थास्यति । विष्णौ कीदृशि । कृतो यशोदाख्याया जनन्या आनन्दो येन तस्मिन् । हि स्फुटम् ॥ ग ॥ बलादपि प्रजाभ्यो वित्तमादाय पात्रेषु मयोपकरणीयमिति मा कृथा हृदि तदाह—पाहीति ॥ पालय प्रजाः । यस्मात्प्रजां पाति यः क्षत्रियः स न पापी। ब्राह्मणस्तु प्रकृष्टो जपो यस्य स प्रजापः । जपनं जापः ॥ घ ॥ १ 'श्रियः स्त्रियोऽपि'. २ 'दानोप'. ३ 'पापैः'.