नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पञ्चम उच्छ्वासः । १३१ दुरगिरां गच्छति श्रवणपथमतिमधुरे मधुलिहां झंकारे, आकर्णपूरीकृ- तकार्मुकगुणे रणरणकारम्भिणि तत्रावसरे ॥ क ॥ आविर्भूतविषादकन्दमसमव्यामोहमीलन्मन- श्चिन्तोत्तानितनिर्निमेषनयनं निःश्वासदग्धाधरम् । जातं स्थानकमुत्सुकस्य नृपतेस्तत्तस्य यस्मिन्नभू- त्प्रेयान्पञ्चमराग एव रिपवः शेषास्तु सर्वे रसाः ॥१६॥ ततश्च वृश्चिकदंशदुःसहव्यथामवस्थामनुभवन्निव, १कण्टकैश्चरणम- र्मणि विध्यमान इव, मुहुर्मुहुर्मुर्मुर२पुञ्जराजीवाङ्गानि धारयन्नुमग्रीष्मा- निलोल्लोलैरिवानिङ्ग्यमानो, ३मनागपि न क्वापि शर्म लेभे ॥ ख ॥ तथाहि । ४श्च्योतच्चन्द्रमणि५प्रणालशिशिराः सौगन्ध्यरुद्धाम्बरै- र्निर्गच्छन्नवधूपधूमपटलैः संभिन्नवातायनाः । सौधोत्सङ्गभुवो विकीर्णकुसुमाः पूर्णेन्दुरश्मि६श्रिया रम्यायां निशि नो हरन्ति हृदयं हृद्यं किमुद्वेगिनाम् ॥ १७ ॥ अपि च । तापन्नम् । विदर्भराज एव हंसस्तस्य पुत्र्यां तरलयन्त्यां सत्याम् । तथा श्रवणीकृ- तधनुर्गुणे अनङ्गधनुर्धरे । तथा मधुलिहां मधुरगिरां झंकारे कर्णे गच्छति औत्सु- क्यकारिणि वावसरे सति । ‘हंसो विहंगभेदे स्यान्निर्लोभनृपतावपि’ ॥ क ॥ आविरिति ॥ उत्कण्ठितस्य नृपतेस्तत्स्थानकमवस्थान्तरं जातम्। यत्र (स्थान- के ) पञ्चमे पञ्चमाख्ये रागविशेषे रागो रसवत्ता स एव प्रियः । शेषास्तु रसा विषयानुरागा रिपवः ॥ १६ ॥ ततश्चेति ॥ तापातिरेकात्प्रतिक्षणं क्षणमात्रशुष्कम्लान्मुर्मुरः पुञ्जो येषां तानि मुर्मुरपुञ्जानि, तथाभूतानि राजीवानि येष्वङ्गेषु तानि । मुर्मुवस्तुषवह्निः । यद्विश्वप्र- काशः-‘मुर्मुवस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि' ॥ ख ॥ श्च्योतदिति ॥ क्षरच्चन्द्रकान्तप्रणालशीताः । सुगन्धितनभोभिर्धूपधूमैर्मिश्रग- वाक्षाकीर्णपुष्पाः । प्रासादभूमयः परिपूर्णचन्द्रेण रमणीयायामपि रात्रौ चेतो हरन्ति । उद्वेगायेत्यर्थः । राज्ञ इति शेषः । युक्तं चैतत् । दुःखितानां किं हृद्यं । न किमपीति भावः ॥ १७ ॥ १ 'भिन्न इव'. २ 'पुञ्जमाक्षीव'. ३ 'मनागपि क्वापि शयितो विप्रबुधो वा न शर्म'. ४ 'श्चोतन्'. ५ 'प्रणालि'. ६ 'श्रियो'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
१३२ नलचम्पूः ।
हृद्योद्यानसरस्तरङ्गशिखरप्रेङ्खोलनायासिताः संभोगश्रमखिन्नकिंनरवधूस्वेदोदबिन्दुच्छिदः । सायं सान्द्रविनिद्रकैरववनान्यन्दोलयन्तः शनै- रङ्गेऽङ्गारसमाः पतन्ति पवनाः प्रालेयशीता अपि ॥ १८ ॥ तदाप्रभृति चास्य प्रायः प्रीतिरभूद्दाक्षिणात्यजनेष्वेव, पुलकमकरो- न्नामापि विदर्भदेशस्य, श्रुतापि श्रवणयोः सुखमजीजनद्दक्षिणा दिक् ॥ क ॥ किं बहुना । लिप्तेवामृतपङ्केन स्पृष्टेवानन्दकन्दलैः । आसीद्दिग्दक्षिणा तस्य कर्णयोर्मनसो दृशोः ॥ १९ ॥ दमयन्त्यपि हंसदर्शनदिवसादारभ्य भ्रमद्भृङ्गकुलकलकलोन्नादि- तपर्यन्तेषु, प्रत्यग्रोल्लूनपुष्पपल्लवास्तरणेषु, विचलद्विनोदविहंगेषु विह- रति नासन्नोद्यानलतामण्डपेषु, न च विकचकुवलयकहारकुशेशयै- सारवारिणि रणच्चटुलचञ्चरीकचक्रवाकचक्रे क्रीडति क्रीडासरसि, न च स्पृशति पाणिनापि माणिक्यमालामण्डनानि, न च रचयति रुचि- रालकवल्लीर्भङ्गान्तरालेषून्मिषत्कुसुमविन्यासान् 'न च कचिदुच्चहंस- तूलिकातल्पेऽपि कोमलकपोलावष्टम्भभाजि निद्रासुखमनुभवति, केव- लमधिपाण्डुगण्डस्थलस्थापितपाणिपल्लवा प्रेषयन्ती प्रतिक्षणमुत्तरस्यां दिशि दृशं, तद्देशागतानागने पक्षिणोऽपि सस्पृहं पश्यन्ती, तत्रत्यान- ध्वगानपि बन्धुबुद्ध्यालापयन्ती, तन्मण्डलागताय मरुतेऽप्यपनीतोत्त- रीयांशुका हृद॑यमर्पयन्ती दिनं दिनमनङ्गेनाभ्यभूयत ॥ ख ॥ तथाहि । लास्यं पांसुकणायते नयनयोः, शल्यं श्रुतेर्वल्लकी, नाराचाः कुचयोः सचन्दनरसाः कर्पूरवारिच्छटाः । तस्याः काप्यरविन्दसुन्दरदृशः सा नाम जज्ञे दशा प्राणत्राणनिबन्धनं प्रियकथा यस्यामभूत्केवलम् ॥ २० ॥
हृद्योद्यानेति ॥ रम्यतडागोर्मितरलनेन खेदिताः । तथा किंनरीस्वेदजलवि-
न्दुमुषः । वनानि कम्पयन्तः । शनैरङ्गे लगन्तो हिमसमा अपि वायवोऽङ्गारा इव
पतन्ति ॥ १८ ॥
---------------------------------------------
१ 'स्पृष्टेव'. २ 'दिनात्'. ३ 'कुरेशये सार'; 'कुशेशयचारु'. ४ 'स्पृहयति'.
५ 'रुचिता'. ६ 'भङ्गान्तरेषु'. ७ 'तूली'. ८ 'अधिकपाण्डु'. ९ 'गण्डपालिनिहित'.
१० 'स्वयं हृदय'.
पञ्चम उच्छ्वासः । १३३ एवमनयोरन्योन्यप्रेषितप्रच्छन्नदूतोक्तिवर्धितानुरागयोः च१लन्त्य- ङ्गानि न मनोरथाः, परिवर्तते चक्षुर्न हृदयम्, कृशतामेत्यङ्गयष्टिनो- त्कण्ठा, मन्दतां यात्युत्साहो नाभिलाषः, स्फारीभवति निःसहता न निद्रा, वर्धते चिन्ता न रतिः, शुष्यत्यधरपल्लवो नाग्रहरसः ॥ क ॥ किं बहुना । कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलै- र्दो२स्तीर्णेऽपि विवर्तमानवपुषोः स्रस्तस्रजि स्र३स्तरे । मन्दोन्मेषदृशोः किमन्यदभवत्सा काप्यवस्था तयो४- र्यस्यां चन्दनचन्द्रचम्पकद५लश्रेण्यादि वहीयते ॥ २१ ॥ आसीच्च तयोः कृतान्योन्यगुणप्रशंसालापजपयोः पुनरुक्तावर्तित- नामधेयस्वाध्याययोः संकल्पसमागमविबद्ध६ध्यानयोः स्मरानले खं७ हृदयं जुह्वतोस्तप्यमानयोरङ्गीकृतमौनव्रतयोरपि वियोग एव, न८ योगः॥ख॥ कदाचित्तु तरुणजननयनकुरङ्गवागुरामनङ्गगजेन्द्रमदप्रवाहढक्का- मं९पहसितसुरासुरसुन्दरीरूपश्रियं शृङ्गाररस१०राजधानीमवलोक्य यौव- नावस्थां दमयन्त्याः ‘कोऽस्याः किलानुस्पः पतिर्भवेत्’ इति, चिरं चिन्ताकुलो विदर्भेश्वरः स्वयं स्वं११यंवरधर्मप्रारम्भाय समं मन्त्रिभिर्म- न्त्रनिश्चयं चकार ॥ ग ॥ न चिराच्च प्रा१२च्यप्रतीच्यादीच्यदाक्षिणात्यनरपतिनिम१३न्त्रणे समा- वृतान्प्रगल्भप्रौ१४यान्प्रधानप्रेष्यान्प्रेषयामास ॥ घ ॥ एवमिति ॥ तां दिशं प्रति चलन्त्यभिमुखीभूय निवर्तन्ते । एवं चक्षुरपि ॥ क ॥ आसीच्चेति ॥ कृतोऽन्योन्यगुणप्रशंसालाप एव जपो जाप्यं यकाभ्याम् । पुन- रावर्तितं नामैव स्वाध्यायो ययोः । संकल्पे चित्तकर्मणि यः समागमस्तत्राबद्धं ध्यानं यकाभ्याम् । कामाग्नौ स्वचेतो होमयतोः । तप्यमानयोः । मौनिनो- रप्यनयोर्वियोगो विरह एवासीत् । न योगः । योगः संबन्धोऽध्यात्मविषयश्च । अन्यस्य जपं स्वाध्यायं ध्यानं होमं तपो मौनं व्रतं च कुर्वतो योगलाभः स्यात् । तप्यमानेति संतापपक्षे कर्मकर्तरि, तपःपक्षे तु कर्तरि, तपेः कर्मविषयत्वात् ॥ ख ॥ १ ‘स्खलन्ति’; ‘वलन्ति’. २ ‘आकीर्णे’. ३ ‘प्रस्तरे’. ४ ‘द्वयोः’. ५ ‘वन’. ६ ‘अव- बद्ध’. ७ ‘स्वहृदयम्’. ८ ‘नियोगः’. ९ ‘उपहसित’. १० ‘रसराजराजधानी’. ११ ‘स्वयंवरकर्म’; ‘स्वयंवरधर्मकर्म’. १२ ‘प्राच्योदीच्यावाच्यदाक्षिणात्य’. १३ ‘निमन्त्रणाय’. १४ ‘प्रश्रयान्’. १२
१३४ नलचम्पूः । प्रस्थितं च कंचिदुदीच्यनरपतिनिमन्त्रणाय प्रबुद्धवृद्धब्राह्मणमास- सखीमुखेन दमयन्ती श्लिष्टार्थमिदमवादीत् ॥ क ॥ 'भूपालामन्त्रणे तात तथा संचार्यतां यथा । नलोप्यागमबुद्धिः स्यात्प्रार्थ्यसे किमतः परम्' ॥ २२ ॥ सोऽप्यवगतश्लोकार्थस्तथाविधमेव प्रत्युत्तरमदात् ॥ ख ॥ 'केनापि व्यवहारेण कयापि प्रौढलीलया । करिष्याम्यागमस्यार्थे रभसेन नलङ्घनम्' ॥ २३ ॥ तदायुष्मति सुखमास्ताम्' इत्यभिधाय गतवान् ॥ ग ॥ अथ नातिचिरेणागतस्तया रहः समाहूय स ब्राह्मणः सोमशर्मा नर्मलापलीलया दमयन्त्या बभाषे ॥ घ ॥ 'आहूतोदीच्यभूपेन तातादेशविधायिना । नालीकापि त्वया वार्ता विद्वन्नावेदिता मम' ॥ २४ ॥ सोऽपि 'एष कथयामि श्लेषोक्तिकुशले, श्रूयताम्' इत्यभिधाय विहसन्नाख्यातुमारब्धवान् ॥ ङ ॥ इतो निर्गत्य मया मण्डलेश्वरामन्त्रणक्रमेण परिभ्रमताऽभ्रंकषानेक- कूटकोटिस्थपुटितकटकस्य निषधनाम्नो महीध्रस्य दक्षिणारण्यस्थलीषु मृगयासक्तः ॥ च ॥ माद्यन्मांसलतुङ्गपुंगवककुत्कूटांनतांसस्थलः कालिन्दीजलकान्तिकुन्तलशिराः पूर्णेन्दुविम्वाननः । एकः कोऽपि मनोहरः पथि युवा दृष्टः स यस्मिन्सकृ- दृष्टे नष्टनिमेषया मम दृशा लब्धं फलं जन्मनः ॥ २५ ॥ तेनापि 'दाक्षिणात्योऽयम्' इति निश्चित्य साभिलाषमाभाषितो- ऽस्मि ॥ छ ॥ भूपेति ॥ तातेति संबोधने । नृपनिमन्त्रणे तथा संचार्यतां, यथा आगमाव- गतिः शास्त्रप्रतीतिर्लोप्या न स्यादिति बाह्यार्थः । इष्टार्थस्तु नलनामापि नृपो यथा- गमनबुद्धिर्भवेदिति ॥ २२ ॥ केनेति ॥ आगमस्य शास्त्रस्य । अर्थे लङ्घनं न करिष्यामीति बाह्यार्थः । इष्टा- र्थस्तु आगमनस्यार्थे रभसेनाौत्सुक्येन घनं निबिडं नलाल्यं नृपं करिष्यामि आने- ष्याम्येवेत्यर्थः ॥ २३ ॥ आहूतेति ॥ आकारितोत्तरनृपेण त्वया विद्वन्नलीकापि वार्ता न कथितेति बा- ह्योऽर्थः । आन्तरस्तु नलस्येयं नाली वार्ता सा कापि त्वया नाभ्यधायि ॥ २४ ॥ १ 'संचय्र्यताम्'. २ 'उत्तरम्'. ३ 'गुर्वा'. ४ 'परिभ्रमता सवाञ्न'. ५ 'क्रान्त'.
मयापि कृतोचितालापेनोक्तम् ॥ क ॥ 'यथेयमाकृतिर्लोकलोचनानन्ददायिनी । तव भद्र तथा सत्यं सत्यागोऽसि नलोभवान्' ॥ २६ ॥ एवमुक्तः सोऽपि मनाङ्मुग्धस्मितमेवोत्तरं कल्पितवान् ॥ ख ॥ अथ प्रथमवयोविभूषिताङ्गस्तुङ्गतुरंगमारूढो गाढग्रंथितपरिकरः करेण कोदण्डमाकलयंस्तद्वितीयो युवा तमेव देशमंगतवान् ॥ ग ॥ आगत्य च बालनीलनलशालिनि शिलोच्चयस्थलीप्रदेशे कांचित्का- ञ्चनकुम्भकान्तिकुर्चकंठलुलितर्तंकुसुममालिकामवलोकयन्निदमवादीत् ॥ घ ॥ 'युवराज, पश्य । नद्यास्तीरे विदर्भायाः कापि गोपालवालिका । गाः समुच्चारयत्येषा क्षेत्रीकृत्य नलं वरम्' ॥ २७ ॥ एतदाकर्ण्य मयाप्युक्तम्— 'महानुभाव, न केवलमियंमैन्यापि काँपि कापि' इति ॥ ङ ॥ इत्युक्तवन्तं मामवलोक्य भावितार्थः स पुनः सस्मितमवो- चत् ॥ च ॥ 'इयं च सा च
यथेयमिति ॥ सन् शोभनस्त्यागो यस्य । तथा न लं लोभवान् । असीत्य- व्ययं युष्मदर्थे । पक्षे सत्यागस्त्वम् । तथा नलाख्यो भवान् इति पृथग्वाक्यद्वयम् । एकवाक्यतायां तु भवानसीति मध्यमपुरुषो दुर्लभः ॥ २६ ॥ नद्या इति ॥ विशिष्टदर्भाया नद्यास्तीरे । काप्यनिर्दिष्टनामा । गोपी । वरं श्रेष्ठं नलं ( डं ) तृणविशेषं । केदारीकृत्य । गा धेनूः । समुत् सहर्षा । चारयति । श्लेषवक्रोक्त्या तु विदर्भाभिधानाया नद्यास्तीरे, कापि महनीयमहिमा, गोपालस्य भूपस्य, बालिका सुता, नलं राजानं, वरं वरयितारं, क्षेत्रीकृत्याश्रयीकृत्य, गिरः समुच्चारयति । वर ईप्सायाम्, वर्यत इति वरः । क्षेत्रं सद्भूमिः ॥ २७ ॥
१ 'ततो मया'; 'मया च'. २ 'कृतोचिताचारालापेन'. ३ 'प्रथम वयोविशेषभूषि'; 'प्रथमवयोभू'. ४ 'तुरङ्ग'. ५ 'ग्रन्थिग्रथितप'; 'ग्रथित'. ६ 'तमेवोद्देशम्'. ७ 'आया- तवान्'. ८ 'नलशाद्दलशालि'. ९ 'कान्त'. १० 'कुचकुम्भ'. ११ 'लुलित'. १२ 'मालिकां बालिका'; 'मालिकां गोपबालिकाम्'. १३ 'इयमेवान्यापि'. १४ 'कापि कापि नद्यास्तीरे विदर्भायाः कापि गोपालबालिका । गाः समुच्चारयत्येषा क्षेत्रीकृत्य नलं वरमित्युक्तवन्तं'. १५ 'पुनः पुनः'.
१३६ नलचम्पूः । अनुभवतु चिराय चञ्चलाक्षी- रसपरिणामफलानि गोपपुत्री । अपसरति महोद्यमेन यस्याः कथमपि संप्रति नैषधेऽनुरागः' ॥ २८ ॥ आस्तां तावदन्यत् । अध्वन्य, कथय कुतः प्रष्टव्योऽसि, किंच कियद्धाद्यापि वर्त्मातिक्रमितव्यम्' इति ॥ क ॥ अथ कथितस्ववृत्तान्तेन मयापि 'कोऽयमशेषमनुष्यमस्तकमणिः, कश्च भवानपि स्वप्रज्ञाप्राग्भारपराङ्मुखीकृतपुरंदरगुरुः' इति पर्यन्वयु- क्तः स पुनरुक्तवान् ॥ ख ॥ 'अयमसो सौम्य, समस्तशर्स्त्राशास्त्रकोविदो विदारितवैरीवैरसेनि- र्नलैः । किमन्यदहमपि श्रुतशीलो नामास्यैवाज्ञाकारी, इत्यभिधाय विश्रान्तवान् ॥ ग ॥ नलोऽपि कृत्वा त्वदाश्रयास्तास्ताः प्रकटितप्रेमकन्दलाः कथाः, समर्थ्य चैं स्वयंवरआमन्त्रणमुत्सुकतया तत्कालमेवोड्डीर्य गन्तुमीहमानः संभाषितैन स्मितेनैर्नालोकितेन च माममृतवर्षेणेवाह्लादयन्ननिच्छन्तमपि प्रतिग्राह्य च वलादनर्घ्याणि स्वाङ्गाभरणानि चिराँदेव व्यसर्ज- यत् ॥ घ ॥ स्वयं च मृगयाव्यसनितया मृगयालुभिः सह ॥ ङ ॥ धीरं रङ्गन्तमारुह्य सारं रंहसि वाजिनम् । हारं रम्यं गले विभ्रत्स्वैरं रन्तुमगात्पुनः ॥ २९ ॥ अनुभवत्विति ॥ गोपालिका क्षीरस्य सपरिणामानि परिणतानि यानि फला- नि क्षैरेयीदधिघृतप्रभृतीनि तान्यनुभवतु चिराय । चञ्चला लोला गोचारणवशात् । यस्याः संप्रत्येष धेनुरागो । महोद्यमेन हेतुना । कथमपि केनापि प्रकारेण । न निवर्तते । श्लेषे तु गोपपुत्री भूपपुत्री दमयन्तीलक्षणा चञ्चलाक्षी लोलनेत्रा शृङ्गारादिरसपरिपाकफलान्यपभुङ्क्ताम् । यस्याः संप्रति नैषधे नले महोद्यमेऽनुरागः प्रेमबन्धः । कथमपि नापसरति ॥ २८ ॥ धीरमिति ॥ धीरमत्रासं रङ्गन्तं वलगन्तं रंहसि वेगे सारमुत्कृष्टं वाजिनमश्व- मारुह्य कण्ठे हारं गुणं बिभ्राणः स्वच्छन्दं क्रीडितुं पुनरप्यगात् ॥ २९ ॥ १ 'आस्तां च'. २ 'कियच्चाद्यापि'. ३ 'सौम्यः'. ४ 'शस्त्रास्त्रशास्त्र'. ५ 'नलो नाम'. ६ 'श्रुतशीलनाम'. ७ 'च स्वयं स्वयं'. ८ 'उड्डीयेवागन्तुम्'. ९ 'सस्मितेन'; 'कुत्रचित्पुस्तके स्मितेनेत्येतन्नास्ति'. १० 'अवलोकितेन'. ११ 'चिरादिव'.
तदायुष्मति, स्वामिसुते यथा मया तँत्कथाप्रश्नानुराग उपलक्षित- स्तथा निश्चितमँचिरादयमेष्यति' इत्यभिधाय स ब्राह्मणः स्वगृहैम- गात् ॥ क ॥ गते च तस्मिन्दमयन्ती 'श्लाघ्यः स कः कालः, धन्यः स कैतमो वासरः, सँलक्षणा सा का नाम वेला, यस्यामिदमिन्दुदर्शनेनेव कुमु- द्मसच्चक्षुस्तदालोकनेन कैम्प्यानन्दमनुभविष्यति, इति चिन्तयन्ती कान्यपि दिनानि कयाप्यवस्थया व्यनैषीत् ॥ ख ॥ अथ नलोऽप्याम्मन्त्रितस्तेन ब्राह्मणेन रणरणकेन च, प्रेरितो म- न्त्रिणा मदनेन च, परिवृतः सेनयोत्कण्ठया च, तत्कालमेव विदर्भ- मण्डलाभिमुखमुद्चलत् ॥ ग ॥ चलिते च चैतुरङ्गबैलचलनचूर्णितशिलोच्चयचक्रवाले चक्रिचक्रच- ङ्क्रमणचीत्कारबधिरितककुभि विषमवैरिवृन्दवनवैश्वानले नले, चल- न्तश्चटुलतरचरणप्रहाररणितधरणिमण्डलाः कान्तकाञ्चनरचनारोचि- ष्णवश्चकासांचक्रुश्चक्रवर्तिवाहनोचिताः साश्चर्यमपर्यन्तपर्यायाः पर्या- णितास्तुरङ्गाः, शृङ्गारिताश्च चलचारुचामरावेधूलनालंकृतकपोलभि- त्तिभागसंलॅगितभृङ्गसंगीतमुखरितमुखमण्डलाः कथमप्याधोरणनि- रुध्यमानशौर्यविकारस्फुरणाः स्फुरत्कुम्भभित्तिसिन्दूरा दूरापसा- रितस्यन्दनाः स्यन्दमानामन्दमदकर्दमितमेदिनीकाः कम्पयांबभूवुर्भुवं भूरिभारभुग्नाङ्गपन्नगशिरैः शिथिलावष्टम्भामिभेन्द्राः ॥ घ ॥ किंबहुना । तत्रावसरे पूर्वापरपयोराशिसिमासंक्रान्तसैनिके । तस्मिन्सस्मार भूर्भाराद्वराहवपुषो हरेः ॥ ३० ॥ अपिच । पूर्वेति ॥ पूर्वापरसागरावधिसंक्रान्तचमूचरे तस्मिन्नले भूर्मेदिनी भाराद्धेतो- र्हरेः सस्मार । 'अधीगर्थ-' इति सूत्रेण कर्मणि षष्ठी ॥ ३० ॥ १ 'त्वत्कथा'. २ 'अचिरादेष्यति'. ३ 'स्वगृहान्'. ४ 'कः'. ५ 'सुलक्षणा'. ६ 'कथमपि'. ७ 'चलच्चतुरङ्ग'. ८ 'बलचमूचलन'. ९ 'काञ्चनाभरणरचना'. १० 'धूनना'; 'चूला'. ११ 'संकलित'; 'संमिलितमदमिलित'; 'संग्रलितमदजललुलित'. १२ 'विस्फु- रणः'. १३ 'शिरःसहस्रैः'.
१३८ नलचम्पूः। आसीत्पिण्डितपाण्डुपङ्कजवनं श्वेतातपत्रैः क्वचि- न्मायूरातपवारणैः क्वचिदभूदुन्नालनीलोत्पलम् । उन्मेघं क्वचिदूर्ध्वधूलिपटलैस्तस्य प्रयाणेऽभव- त्प्रोद्वीचि क्वचिदम्बरं सर इव प्रेङ्खत्पताकापटैः ॥ ३१ ॥ जाताश्च जङ्घाजघनस्पृशो, वक्षःस्थलीलोलनलम्पटा, ग्रीवाग्रहणा- ग्रहिण्यः, प्रसमं लगन्त्यो वक्त्रेषु, निस्त्रपाः स्त्रिय इव, नखपदामिघा- तोद्यताः, चुम्बन्त्यश्चिबुककपोलधराक्षूंषि सैनिकानाम्, अतिप्रसरेण शिरोऽवलग्नाः, प्रबला धूलयो, वियदावरणाश्च चक्रुरुच्चैरतिप्रसङ्गमा- सन्नवननिकुञ्जेषु ॥ क ॥ कूजन्तश्च कोटिशः कोदण्डमण्डलाग्रव्यग्रपाणयः, पाणिनीया इवा- धिकरणकर्मकुशलाः समुल्लसन्तो विचेलुर्बलानपटवो लाम्पट्योल्लुण्ठि- तरिपुर्पुरः पुरः पदातयः ॥ ख ॥ तत्र च व्यतिकरे मन्दं मन्दरमन्दिरेषु शयितानुन्निद्रयन्किन्नरा- न्मेरोर्मस्तक्कंदरे प्रतिरवानुत्थापयन्नुल्बणः । आध्वं धावत यात मुञ्चत पुरः पन्थानमेवंविध- स्त्रैलोक्यं बधिरीचकार बहलः सैन्यस्य कोलाहलः ॥ ३२॥ आसीदिति ॥ सितच्छत्त्रैः पिण्डितपुण्डरीकवनं, श्रीकरीभिः सनीलोत्पलं, रेणुपटलैरून्नतमेघं, क्वचिच्चलद्ध्वजाञ्चलैः प्रवृद्धोर्ध्वरङ्गं, तडागमिवाम्बरमाकाशं तत्प्र- याणेऽभूत् । प्राच्यदेशे महासरःसु मेघा अम्भो ग्रहीतुमुन्नमन्त इति प्रसिद्ध्योन्मे- घत्वमुक्तम् ॥ ३१ ॥ जाताश्चेति ॥ धूलयो निर्लज्जाः स्त्रिय इव । जङ्घेत्यादीन्युभयत्र समानानि । नखा अश्वादीनां खुराः, पदं पादविन्यासस्तेषामभिघातादुत्थिताः । पक्षे नखक्षत- पदयोश्चाभिघाते उद्यताः सोद्यमाः । बलात्सैन्यात्प्रवृद्धाः, पक्षे प्रवृद्धवीर्याः । विय- दावरणा नभश्छादिन्यो विगच्छद्ध्वजाश्च । वियन्नभः । विपूरेण्वेषेणः शतरि च विय- दिति । अतिप्रसङ्गमभिव्याप्तिं, पक्षे रतिप्रसङ्गं सुरतप्रबन्धम् ॥ क ॥ कूजन्तश्चेति ॥ पदातयो विचेलुः । किं कुर्वन्तः । कोटिशोऽनेकधा कूजन्तः शब्दायमानाः । तथा कोदण्डेन धनुषा मण्डलाग्रेण चासिना व्याकुलाः पाणयो येषां ते । तथाधिकं रणकर्मणि कुशलाः । पाणिनीयपक्षेऽधिकरणकर्मणी कारके । लाम्पट्येनोल्लुण्ठिता अरिपुरोऽरिनगर्यो यैः । पुरोऽग्रतः ॥ ख ॥ १ 'पुरः पदातयः'; 'अरिपुरःपुरः पदा', २ 'कन्दर', ३ 'बृहतः'
पञ्चम उच्छ्वासः। १३९ एवमसौ क्रीडितानेकपामरान्गीरीन्द्रानांमांश्च बहुतराङ्गोपशोभिताः सरितः सीम्नँश्च व्यूढपत्ररथान्पथः पादपांश्च लङ्घयन्, सालसहिताः पुरीर्नारींश्च सेवमानः, पच्यमानगोधूमश्यामलाः क्षेत्रभुवो भिल्लपल्लीश्च परिहरन्, विधवाः शत्रुसीमन्तिनीरतवीश्चातिक्रामन्, परिवारीणि ब- न्धुकुलानि सरांसि च बहुमानयन्, नातिचिरेण रविरथतुरंगपरि- हृतविषमशिरःशिखरसहस्रमजस्रममरगणगन्धर्वसिद्धरुद्धस्कन्धमध्यं विन्ध्याचलमनुससार ॥ क ॥ ततश्च। दिशि दिशि किमिमानि प्रच्यवन्तेऽन्तरिक्षा- द्विरतमुत देवी भूतधात्री प्रसूते। इति शवरवधूभिस्तर्क्यमाणान्यवापुः सपदि विपुलविन्ध्यस्कन्धमध्यं बलानि ॥ ३३ ॥ श्रुतशीलस्तु तुङ्गशृङ्गरङ्गत्सारङ्गाङ्गनासु नक्षत्रासन्नाकाशावकाश- विशेंद्वंशजालजटिलासु चलचित्रचित्रककरिकलभकदम्बकसंचारशव- लासु हारिहरिताङ्कुररमणीयासु वनस्थलीषु निक्षिप्तचक्षुषमवलोक्य राजानमिदमवादीत् ॥ ख ॥ 'देव, एवमिति ॥ अमुना प्रकारेणासौ नल इदमिदं कुर्वन्तरणिरथाश्वलक्ष्याधित्य- कामध्यं विन्ध्याद्रिमनु लक्ष्यीकृत्य ससार । किं कुर्वन् । लङ्घयन् । कान् । गिरी- न्द्रानामांश्च । संप्रत्युभयानपि विशिनष्टि । क्रीडिता अनेकपा गजा अमराश्च देवा येषु । पक्षे पामरा ग्राम्याः । सरितो बहुभिस्तरङ्गैरलंकृताः । सीमानश्च बहुतरं यथाभवत्येवं गोपैर्गोपालैः शोभिताः । विशेषेणोढानि पत्राणि वाहनानि रथाश्च यैः । पक्षे पत्ररथः पक्षी । सालेन प्राकारेण सहिताः । नार्यः सालसा हिताश्च । अलसशब्दो भावप्रधानो लक्षणादिवत् । पचेलिमैगोधूमैः सस्यविशेषैः श्यामलाः । पल्ली तु गोर्भूमेर्धूमो गोधूमः । ततः पच्यमानः परिपाकं गच्छन् बहुलीभवन्द्यो- ऽसौ गोधूमस्तेन श्यामलाः । न तु पच्यमाना चासौ गौश्चेति । टच्प्रसङ्गात् । कृष्यावनी हि दग्धा समधिकं फलतीति । तथा च (रघुवंशे नवमे सर्गे) 'कृष्यां दहनपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति' । गोशब्दो- भूम्यर्थो न धेन्वर्थोऽनौचित्यात् । विर्विशेषे विगमे च । धवो भर्त्ता तरुविशेषश्च । परिवृण्वन्ति परिवारीभवन्ति परिवारीणि । अन्यत्र परि समन्ताद्वारि जलं येषु॥क॥ १ 'गिरीन्द्रान्' २ 'सीमाश्च' ३ 'विशद्विकसत्'.
१४० नलचम्पूः । माद्यद्दन्तिकपोलपालिविगलद्दानाम्बुसिक्तद्रुमाः क्रीडत्क्रोडकुलार्थचर्वितपतन्मुस्तारसामोदिताः । अन्तः सुस्थितपान्थसन्थरमरुल्लोलल्लतामण्डपाः कस्यैता न हरन्ति हन्त हृदयं विन्ध्यस्थलीभूमयः ॥३४॥ इतश्च पश्यतु देवः । एषा सा विन्ध्यमध्यस्थलविपुलशिलोत्सङ्गरङ्गत्तरङ्गा संभोगश्रान्ततीराश्रयशबरवधूशर्मदा नर्मदा च । यस्याः सान्द्रद्रुमालीगलिततलमिलत्सुन्दरीसंनिरुद्धैः सिद्धैः सेव्यन्त एते मृगमृदितदलत्कन्दलाः कूलकच्छाः ३५ अपिच । अन्तरेऽप्यस्याः मज्जत्कुञ्जरकुम्भमण्डलगलद्दानाम्बुनः सौरभा- द्भ्राम्यद्भृङ्गकुलावलीः कुवलयश्रेणीः समाविभ्रतः । कल्लोलाः कलिकालकल्मषमुषः प्रोल्लोललीलाकृतः खःसोपानपरंपरा इव वियद्वीथीमलंकुर्वते ॥ ३६ ॥ इतश्चास्यास्तीरे अंससंसिजलार्द्रजर्जरजटाजूतैर्मनाङ्कन्थरा- स्तिम्यत्तारवतन्तुनिर्मितकुथत्कौपीनमात्रच्छदाः । शीतोत्कण्टकितास्थिशेषतनवः स्नात्वोत्तरन्तः शनै- रेते पश्य पतन्ति पिच्छिलशिलाजाले जरत्तापसाः ॥३७॥ इतोऽपि पश्यैताः करिकुम्भसंनिभकुचद्वन्द्वोल्लसद्वीचयः क्रीडन्त्यब्जविकाशभासि पयसि स्वैरं पुलिन्दस्त्रियः । माद्यदिति ॥ मुस्तायाः कन्दविशेषस्य रसेन निर्यासेनामोदिताः । अन्त- र्मध्ये सुस्थिताः पान्था यासु । तथा मन्थरमरुता मन्दानिलेन लोलन्तश्चलन्तो लता मण्डपा यासु । पश्चात्कर्मधारयः ॥ ३४ ॥ मज्जदिति ॥ भृङ्गकुलानां कुवलयान्युपमानम् । विभ्रत इति कल्लोलविशेषणं जसन्तम् । ‘नाभ्यस्ताद्–’ इति नुमभावः ॥ ३६ ॥ अंसेति ॥ तरुषु जातास्तारवाः । ते च ते तन्तवश्च । पिच्छिलं मसृणं कर्द- मिलम् ॥ ३७ ॥ १ ‘विन्ध्यशैलस्थल’। २ ‘यस्याः’। ३ ‘गण्ड’। ४ ‘मृत’। ५ ‘तीरेषु’। ६ ‘विकास’ ।
३. पञ्चम-सप्तम उच्छ्वास: स्वयंवर-विधान, देव-परीक्षा, नल-दमयन्ती विवाह एवं उपसंहार
पञ्चम उच्छ्वासः । १४१ उन्मीलन्नवनीलनीरजधिया पक्ष्मान्तरे नेत्रयोर्यासां हस्तलैताहता अपि परिभ्राम्यन्ति भृङ्गाङ्गनाः ॥ ३८ ॥ इतोऽप्यवलोकयतु देवः । बालोन्मीलत्कुवलयवनं विस्तरद्गन्धरुद्ध- भ्राम्यद्भृङ्गैरनुकृतपयःपूर्णमेघान्धकारम् । हर्षात्पश्यत्ययमतितरां तीरचारी मयूरो मुग्धः पार्श्वे भ्रमति च॑ भयाच्चक्रवच्चक्रवाकः ॥ ३९ ॥ इदं च कुररभरसहं सहंसमालं मुदितमयूरचकोरचक्रवाकम् । क इह सुरुचिरं चिरं विलोक्य प्रवरमते रमते नरो न रोधः ॥ ४० ॥ इतश्च । बककृतनिनदं नदं न दम्भा- त्कृतसवनं सवनं भजन्त एते । निरुपमविभवं भवं स्मरन्तः प्रशमधना मुनयो नयोपपन्नाः ॥ ४१ ॥ विधूतपाप्मानः खल्वमी महानुभावाः ॥ क ॥ तथाहि । बालेति ॥ विस्तरता प्रसरता गन्धेन रुद्धाः । अतएव भ्राम्यन्तो भृङ्गास्तैर- नुकृतः पयःपूर्णमेघोऽन्धकारश्च येनेति वनविशेषणम् । मेघाद्धि मयूरस्य हर्षः । अन्धकाराच्च रात्रिशङ्कया चक्रवाकस्य भयम् ॥ ३९ ॥ कुररेति ॥ प्रवरा मतिर्यस्य तत्संबोधनम् । इह रोधस्तटं विलोक्य को नरो न रमते क्रीडत्येव सर्वः । कथंभूतम् । कुरराणां भरमतिशयं सहते । तथा सह हंसमालया तथा मुदिता मयूराश्चकोराश्चक्रवाकाश्च यत्र । यतः सुष्ठु रुचिरम्॥४०॥ बकेति ॥ प्रशम एव धनं येषां ते मुनयो नययुक्ताः । अनुपमसामर्थ्यं भव- मीश्वरं स्मरन्तो बकैः कृतशब्दम् । तथा न दम्भात्कपटादपि तु धर्मवासनया कृतं सवनं स्नानं यत्र तम् । तया सह वनैः सवनं वनयुक्तम् । नदं जलाधारविशेषम् । एते भजन्ते ॥ ४१ ॥ १ 'तलाहता'. २ 'तु'.
१४२ नलचम्पूः । मुहुरधिवसतां सतां मुनीना- मपविपदां विपदाङ्कपङ्कभाञ्जि । तटनिकटवनानि नर्मदायाः कथमिवभ्वन्ति भवन्ति कल्मषाणि ॥ ४२ ॥ इतश्च । क्वचित्प्रवरगैरिकासमसमुल्लसत्पल्लवं लवङ्गलवलीलतातरलचलच्चकोरं क्वचित् । क्वचिद्गिरिसरित्तटीतरुणविस्फुरत्कन्दलं दलन्निचुलमञ्जरीमधुनिरुद्धभृङ्गं क्वचित् ॥ ४३ ॥ क्वचिच्चुलकोकिलाकुलितनूतचूताङ्कुरं कुरङ्गकुलसेवितप्रवलसालमूलं क्वचित् । क्वचित्प्रवरसंचरत्सुरवधूपदैः पावनं वनं नयति विक्रियामिह मनो मुनीनामपि ॥४४॥ युग्मम् ॥ तदिद्धर्मद्यतनं दिवसमस्य सैन्यस्याध्वश्रमापन्नखेदोपनुत्तिनिमित्त- मधिवसतु देवः ॥ क ॥ यत्र वायुस्कन्धमवष्टभ्य स्फारितैः पुष्पलोचनैः । वियद्विस्तारमेते हि वीक्षन्त इव पादपाः ॥ ४५ ॥ अपिच येषाम् स्कन्धशाखान्तरालेषु पश्य जीमूतपङ्क्तयः । लम्बमाना विलोक्यन्ते चैलडङ्गुलिका इव ॥ ४६ ॥ मुहुरिति ॥ इभवन्ति गजवन्ति तथा वीनां पक्षिणां पदमङ्को यत्र तथोक्तं पङ्कं भजन्ते तानि नर्मदायास्तटसमीपवनानि कर्मभूतानि अधिवसतां सतां विदु- षाम् । अपगता विपद्येभ्यस्तादृशां मुनीनां कथं कल्मषाणि पापानि भवन्ति । न भवन्त्येवेत्यर्थः ॥ ४२ ॥ क्वचिदिति ॥ प्रवरं गैरिकं यत्र । तथा असममप्रतिमम् । सर्वोत्कृष्टमिति यावत् । तथा समुल्लसन्तः पल्लवा यत्र । पश्चाद्यथायुक्ति कर्मधारयः । गैरिकशब्दो नपुंसकः । 'प्रवरगैरिकोपम' इति वा पाठः ॥ ४३ ॥ ४४ ॥ तदिति ॥ खेदापनुत्तिः खेदापनोदः ॥ क ॥ वायुस्कन्धमिति ॥ स्कन्धः संहत्यर्थोऽसार्थश्च । कुतोऽत्रावासः । हि य- स्मात् तुङ्गाः पुष्पिताश्चात्र पादपाः सन्ति ॥ ४५ ॥ १ 'अबतन'. २ 'वलगङ्गुलिः', 'वटवङ्गुलि'.
पञ्चम उच्छ्वासः । १४३ येषां च उच्चैः शाखाग्रसंलग्ना मन्ये नूनं वेनौकसाम् । कुर्वन्ति पुष्पसंदेहं निशि नक्षत्रपङ्क्तयः ॥ ४७ ॥ इतश्च । एतेषु प्रचण्डपवनाहततरुतलगलितसुगन्धिविविधविकचकुसुमप्रक- रमकरन्दैमापीय पुनः शिखरशाखाभिमुखमुत्पतन्त्यो विभान्ति दुरा- रोहतया कृताः केनापि निश्रेणय इव श्रेणयो मधुलिहाम् ॥ क ॥ इतश्च । निश्चलानां सैन्यभयेन तुङ्गतरुशिखरपञ्जरपुञ्जितगोलाङ्गूलमण्ड- लानां निर्यन्नवप्ररोहाङ्कुराकाराः कुर्वन्ति वनदेवतानां क्रीडान्दोलनदो- लारज्जुशङ्कामधोविलम्बिलाङ्गूललतिकाः ॥ ख ॥ इतश्च चकासत्युड्डीयमानास्तरुशिरःशिखरशाखाग्रस्खलनविलग्नग्रहगण- विमानपङ्क्तिपताका इव विहँगावलयो निश्चलम् ॥ ग ॥ इतश्च । विजृम्भमाणमञ्जरीजालेषु सर्वर्तुविकासिसहकारवनेषु वनदेवता- भिरुद्दामदवदहनप्रतीकारार्थमनागतमेव संगृहीतवारिगर्भाब्मोदपटल- मिवालोक्यते कोकिलाकुलकदम्बकम् ॥ घ ॥ इतश्च । विकसितसितपुष्पपिण्डपाण्डुरंशिखराः सुधाधवलितोर्ध्वभूमयो वि- लासप्रासादा इव कुसुमसायकस्य जराधवलमौल्यः कञ्चुकिन इव व- नदेवतानाम्, उन्मादयन्ति मनोऽमन्दमुचुकुन्दपादपाः ॥ ङ ॥ तदेवंविधेपून्मिषन्मुकुलविगलितवहलमरन्दसीकरासारसुरभित- भूतलेषु मुग्धमृगपरिहृतदावानलज्वालायमानोन्मदशबरसीमन्तिनी- चरणप्रहारविकसिताशोककाननेषु नवजलधरनिकुरम्बकान्तितमाल- इतश्चेति ॥ गोलाङ्गूलानां कृष्णमुखमर्कटानां । लाङ्गूललतिकाः पुच्छवल्ल्यः । अतिलोमशत्वान्निर्यन्नवप्ररोहाङ्कुर आकारो यासाम् ॥ ख ॥ तदेवमिति ॥ मुग्धमृगेत्यादि वनविशेषणम् । लौहित्यान्मुग्धमृगैर्दावानल- १ 'नगौकसाम्'. २ 'पवनाहततितल'; 'पवनाहतलतागलित'. ३ 'मकरन्दामोदम्'. ४ 'तुङ्गतरा'. ५ 'अधोलम्बित'. ६ 'विहङ्ग'. ७ 'जृम्भमाण'. ८ 'संगृहीतमिब'. ९ 'अवलोक्यते'. १० 'पाण्डुशिख'.
१४४ नलचम्पूः । १तरुशिरःस्थितशब्दानुमेयमाद्यन्मयूरमण्डलेषु मदनालसपुलिन्दराजसु- न्दरीशिक्ष्यमाणवनकपोतकुक्कुटकुक्कुहकुलकुहरितेषु कूजत्कुररपरिवा- रितसरःपरिसरेषु २चेलच्चकोरसारसरवरमणीयेषु विहरतु देवः सह सैन्येन नर्मदोर्मिमन्दानिलान्दोलितलतापल्लवेषु वनेषु ॥ क ॥ राजापि श्रुतशीलेन दर्शितांस्तांस्तान्३देशानवलोक्य चिन्तितवान् ॥ ख ॥ 'कृतक्रीडाः क्रोडैर्मदकलकुरङ्गी४हृतमृगाः परिभ्राम्यद्भृङ्गाः परभृतकुलाक्रान्ततरवः । वनोद्देशाः पौष्पैः सुरभितदिगन्ताः परिमलै- र्न चेतः कस्यैते विलसितविकारं विदधति ॥ ४८ ॥ इतश्च । वीचीनां निचयाः स्पृशन्ति जलदानुद्गन्धिसौगन्धिका नृत्यत्केकिकदम्बकानि विकसद्भीरुन्धि रोधांसि च । धत्ते सैकत५मुन्नदन्मदकल६क्रौञ्चावलीसारसा- नस्याः पद्मपरागपिञ्जरपयसः सेव्यं ७चँ सिन्धोर्न ८किम्॥४९॥ तदुचितमिहाद्य ९दिवसमावासं कर्तुम्' इति विचिन्त्य भ्रूकोणसं- ज्ञाज्ञापितसेनासंनिवेशस्तत्कालमेव 'विरचयत तुरङ्गममन्दुुराः सरस- दीर्घदूर्वा१०नलनीलनिम्नस्थलीषु, कुरुत कायमानानि सरित्सेव्यसैकतेषु, उन्नमयत पटकुटीः कूलकाननेषु, आलानयत ११मदमत्तमत्तङ्गजान्१२मर्दैके- ण्डूकपोलकाषसहेषु सरलसालसल्लकीसर्जार्जुनस्कन्धेषु, दूरमुत्सारयत शैवलशिलाजालकाष्ठकूटकण्टकपटलानि, समीकुरुत विषमभूभागान्' इति सेनापतिप्रमुखमुखरलोककलकल१३मुत्तालमुत्थितमसहमानस्तद्वि- भ्रान्त्या कुसुमिताशोककाननानि परिहृतानीति भावः ॥ क ॥ वीचीनामिति ॥ उद्गन्धिसौगन्धिका वीचिनिचया जलदान्स्पृशन्ति । रोधां- सि च स्पृशन्ति । तदेवं यस्याः सिन्धोः, किं वा न सेव्यम् । चकारो वार्थे ॥४९॥ तदुचितमिति ॥ मन्दुुरा वाजिहाला । कायो माल्यत्रेति कायमानं लोकप्र- सिद्ध्या रोहिषादितृणमयावासविशेषः । मदमत्तमत्तङ्गजानिति । मदेन वीर्यविपाकेन १ 'तरुशिखरशिरः'. २ 'चरत'. ३ 'प्रदेशान्'; 'उद्देशान्'. ४ 'वृत'. ५ 'मुन्नमन्'. ६ 'क्रौञ्चावलीः सालसास्तस्याः'. ७ 'न'. ८ 'किमु'. ९ 'समावासं'. १० 'नाल'. ११ 'समदमत्तङ्गा'. १२ 'मलकण्डूलकपोल'. १३ 'मुत्तुङ्गमत्थित'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
पञ्चम उच्छ्वासः । १४५ रामावसरं प्रतिपालयन्नेकान्तेऽन्यतमप्रदेशे तस्याः सरितः सूक्ष्ममुक्ता- फलक्षोदधवलवालुकापुलिनपृष्ठ एवास्थानगोष्ठीं बबन्ध ॥ क ॥ अथ नातिदूरे पुरोऽस्य शीतशैवलचक्रवाले चरतश्चक्रवाककदम्ब- कस्य मध्ये कोऽप्युत्क्षिप्य पक्षपुटम्, उन्नमय्य ग्रीवाग्रम्, अनङ्गपर- वशो दूरादुपसर्पन्ननुरागिणीं कांचिच्चक्रवाकीं, दर्शितचाटुचातुर्यश्चक्र- वाकयुवा दृष्टिपथमवातरत् ॥ ख ॥ अपरे च चत्वारो राजहंसास्तामेव चक्रवाकीं कामयमानास्तमाप- तन्तमन्तरान्तरा निपत्य स्खलयांबभूवुः ॥ ग ॥ तांश्चावलोक्य राजा विहसन्नासन्नवर्तिनं श्रुतशीलमावभाषे ॥ घ ॥ 'वयस्य, विलोक्यतामिदमसमञ्जसम् ॥ ङ ॥ अमी राजहंसाः सतीष्वपि स्वजात्युचितानुचरीषु कथमण्यासक्ता- मपीमां चक्रवाककामिनीं कामयन्ते ॥ च ॥ न खल्वेषामियमनङ्गभूमिः ॥ छ ॥ अथवा किमु कुवलयनेत्राः सन्ति नो नाकनार्य- स्त्रिदिवपतिरहल्यां तापसीं यत्सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराग्ना- वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥ ५० ॥ एवंवादिनि राजनि, अकस्मात्कोमलकण्ठकुहरप्रेङ्खोलनालंकारसु- न्दरोऽमन्दमूर्छनावच्छिन्नसरसस्वरस्वरूपः प्रसन्नप्रयुज्यमानतानविशे- षोभिव्यक्तिस्पष्टश्रुतिसुभगो गगने गान्धारग्रामगामी गीतध्वनिरुदच- रत् ॥ ज ॥ मत्ता नलोषधादिप्रयोगात् । जालानि मर्कडिकाख्यकृमिकृतगृहाणि । कूटं वप्रम् ॥ क ॥ न खल्विति ॥ यथा चक्रवाकी चक्रवाकस्य सजातीया, एवं मनुष्यजातेर्न- लस्य मानुषी दमयन्त्युचिता । यथा हंसानां सानुचिता, एवं लोकपालानामति दमयन्तीति ॥ छ ॥ किमु इति ॥ ह्रस्वा कुटी कुटीरः । 'ह्रस्वे' इत्यधिकारे 'कुटीशमी-' इति सूत्रेण रप्रत्ययः ॥ ५० ॥ १ 'अन्तरा'. २ 'तां च'. ३ 'एतेषाम्'. ४ 'अनङ्गक्रीडाभूमिः'. ५ 'त्रिदश'. ६ 'अभिव्यक्त'. १९
१४६ नलचम्पूः । अैवाहीच्च चलदलिपटलपीयमानापूर्वपरिमलोद्गारिपारिजातमञ्जरी- मकरन्दबिन्दुवर्षवाही वायुः ॥ क ॥ अथ कौतुकोत्तानितानेनेन नरपतिनाप्यदृश्यत, शातकुम्भभङ्गोपि- शङ्गप्रभामण्डलमध्यवर्तिनः प्रधानपुरुषस्याग्रे गृहीतजात्यजाम्बूनददीर्घ- दण्डः कुण्डलालंकारवानुन्मिषन्मन्दारमुकुलमालामण्डितमौलिरवतर- न्नम्बराग्निर्निमेषः सुवेषः पुरुषः ॥ ख ॥ अवतीर्य च सोऽतिविस्मयविस्फारितविलोचनमवनिपालमवा- दीत् ॥ ग ॥ 'निषधेश्वर, त्वरितमुत्तिष्ठ । अर्घाय सज्जो भव ॥ घ ॥ किं न पश्यसि । अवतरति घृताचीस्कन्धविन्यस्तहस्तः श्रुतिसुखकृतगीते किंनरे दत्तकर्णः । किमपि सपरिरम्भं रम्भयारभ्यमाण- व्यजनविधिरधीशः स्वर्गिणामेष देवः ॥ ५१ ॥ अपि च । विरचितपरिवेशाः स्वाभिरङ्गप्रभाभि- र्भुवनवहनभारोद्धारधुर्यांसपीठाः । उरसि परिविलोलदीर्घदामान एते यमवरुणकुबेराः स्वामिनो लोकपालाः ॥ ५२ ॥ राजा तु तदाकर्ण्य ससंभ्रमोत्थानवशवलितोत्तरीयाञ्चलस्खल- त्कनककंकणरणत्कारमुखरितमाधाय मूर्ध्नि संपुटितपाणिपल्लवयुगल- माश्चर्यरसरभसवशसमुच्छ्वास्यमानसवाङ्गपुलकः कतिपयपदान्यभिमु- खं सह परिजनेनोच्चलितवान् ॥ ङ ॥ अथ सकलसुरशिरःशेखरायमाणचरणरेणुरनेकनाककामिनीकुचकु- म्भकुङ्कुममञ्जरीमुद्राङ्कितविपुलवक्षःस्थलीदृश्यमानमहानीलमणिमण्ड- ननिभभव्यवृत्रशत्रुव्रणः, श्रवणशिखरारोपितप्रत्यग्रपारिजातमञ्जरीग- अथ सकलेति ॥ अथानन्तरं पूर्वदिग्भागव्योम्नः पुरंदरोऽवातरत् । हारय- ष्टिर्मुक्तालता । अन्यत्र हरस्येयं हारी यष्टिः शूललक्षणा । अन्धको दैत्यविशेषः । १ 'अवाच्च'. २ 'कुम्भनिभाङ्ग'. ३ 'लोचन'. ४ 'धरण'; 'भरण'. ५ 'संपुटपाणि'. ६ 'रभसोत्थाप्यमान'. ७ 'शिरःशयचरण'; 'शिरःपर्यस्तचरण'; 'शयनचरण'. ८ 'नि- रुद्ध'; 'निभस्य'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
पञ्चम उच्छ्वासः । १४७ लद्वहत्किंजल्ककणानुपान्ते गायतास्तुम्बुरोः साक्षादमृतायमानगीतर- सतुषारानिव परिपूर्णकर्णोद्गीर्णान्कपोलपालिलभानुद्वहन्, अनवरतश- चीचुम्बनसंक्रान्तताम्बूललाञ्छनायमानाच्छाच्छहरिचन्दननिरुद्धव- न्धुरस्कन्धसंधिः, अन्धक इव हारयष्ट्यास्फ़ालितवक्षःस्थलः, विन्ध्यगिरि- रिव सहस्राक्षः, पन्नगेन्द्र इव कुण्डली पातालमुद्भासमानश्च, ❊कलिकाल- शापावतीर्णसरस्वतीगीतप्रवाह इव मत्तमातङ्गगामी, दिशि दिशि वि- कीर्णकनककपिशांशुंशुमानिवाविकृतपद्मरागारुणप्रभामण्डलमण्डनः, सह लोकपालैर्भगवान्पुरंदरः पूर्वदिग्भागान्म्वरादवातरत् ॥ क ॥ अवतीर्य चक्षुषां सहस्रेणोन्मीलन्नीरजवनानुकारिणा निरूप्य पाद्- योः पुरः पतितमष्टाङ्गाश्लिष्टभूतलमिमम्, ऐरावतकुम्भकूटास्फालन- कर्कशाङ्गुलिना, दुर्दान्तदैत्यदानववधूवैधव्यदानशालामूलस्तम्भेन, श- चीकुचकलशसंस्पर्शसंक्रान्तकुङ्कुमपत्रवल्लीकेन, दक्षिणपाणिना, सहेल- मुन्नमय्य मूर्ध्नि पस्पर्श ॥ ख ॥ कृत्वा च कुशलप्रश्नालापव्यवहारानुच्चैः काञ्चनासनं समुल्लसन्म- णिमयूखमञ्जरी जालजटिलमवनिभुजा ^२स्वभुजोपनीतमध्यतिष्ठत् ॥ ग ॥ उपविष्टेषु यथोचिता^३सँन्नमासनेषु यमवरुणकुवेरप्रमुखेषु देवेषु क्रमे- ण कृतोचिताचारः पुरः पृथ्वीपृष्ठ एव ^४विनैयन्निपद्य नृपधेश्वरः पुरं- दरमवादीत् ॥ घ ॥ दिष्ट्या दिवौकसां नाथ जातो युष्मत्समागमात् । आकल्पं कीर्तनीयानां श्रेयसामस्मि भाजनम् ॥ ५३ ॥ अपि च । सहस्रमक्षीणि यस्य । 'बहुव्रीहौ-' इति समासान्तः षच् । विन्ध्यपक्षे सहस्र- शब्दः प्राचुर्यवचनः । अक्षा बिभीतकाः । कुण्डलं कर्णांलंकारः तद्वान् । तथा पाता रक्षिता । अलमर्थे रोचमानश्च । पन्नगेन्द्रस्तु कुण्डलाकारः । तथा पाताले मृतपातालमुत्त्या भासमानः । मत्तमातङ्ग औचित्यादैरावणः क्लीबचाण्डालश्च । पद्मरागस्य मणेर्यरुणं लोहितं प्रभामण्डलं तन्मण्डनमस्य । अंशुमांस्तु अविकृतः पद्मानां रागोऽरुणस्य प्रभा मण्डलं विम्बम् । एतानि मण्डनं यस्य ॥ क ॥ ❊ पुराणादौ किल श्रूयते—पुरा सरस्वतीदधीच्योर्देवैलविषये संवादे जायमाने क्रुद्धेन दधीचिना शप्ता सती सरस्वती कलिकालै चाण्डालकुलेऽवततार । अतएव कलिकालै चाण्डाला एव मधुरं गायन्तीति विवृतिनामवटीका ॥ १ 'लाञ्छनाच्छाच्छ'. २ 'स्वहस्तोप'. ३ 'सनमासनेषु'; 'चितमासनमासनेषु'. ४ 'सविनय'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
१४८ नलचम्पूः । इष्ट्वा क्रतून्युगशतानि तपश्चरित्वा वाञ्छन्ति संगमरसुखं मुनयोऽपि येषाम् । तेषामनुग्रहकृतां स्वयमेत्य मेऽद्य युष्माकमादिशत किं प्रियमाचरामि ॥ ५४ ॥ इति प्रकाशितप्रश्रयालापे पार्थिवपुंगवे पुरंदरो दरदलितकुन्दकलि- काकान्तदन्तद्युतिद्योतिताधरदलमीषद्विहस्य लीलावलीतकंधरः कुबेर- मुखमवलोकयांचकार ॥ क ॥ सोऽपि 'निषधेश्वर, श्रूयतामस्मदागमनकारणम् ॥ ख ॥ 'अस्ति विदर्भाधिपतेर्भीमभूमिपालस्य सुता सुतारनयननिर्जितेन्दी- वरा वरार्थिनी निजकान्तितिरस्कृतत्रिदिवनारीरूपसंपत्तिः कुन्ददन्ती दमयन्ती नाम ॥ ग ॥ तस्याश्च चम्पकदलावदातदेहायाः किल स्वयंवरमहोत्सवः सांप्रतं प्रस्तुत:' इति नारदादधिगम्य वयमपि विदर्भाधिपतिपुरं प्रस्थिताः॥घ॥ किंतु लघयति पुरुषं स्वमुखेनार्थिभावो यतः तत्र गत्वापि दम- यन्तीं किं ब्रूमो वयमिन्द्रादयो लोकपालास्त्वामर्थयामहे इत्यसदृशं महिन्नोऽस्मद्विधेषु, स्पृहणीयरूपासि कं नोत्सुकयसीत्यनुचितमपरिचि- तेषु चाटुचातुर्यम्, अजराः खल्वमरा वयमिति ग्राम्यः स्वप्रशंसोप- क्रमः, प्राप्नुहि त्रयाणामपि लोकानामाधिपत्यमस्मत्सङ्गमादिति मह- त्प्रागल्भ्यप्रलोभनम्, अल्पायुषो मनुष्यास्तदस्माकं देवानां मध्ये कं- चिद्वृणीष्वेति पापीयः परदोषोदाहरणद्वारेणाभ्यर्थनम् ॥ ङ ॥ अतो देशकालकार्योक्तिकुशलस्त्वमुच्यसे । गच्छाग्रे, भव दूतो देवाना मशेषवैदग्ध्यविशेषोक्तिकविद, किमन्यदिह शिक्ष्यसे, तैस्तैरु- पायैः, ताभिस्ताभिः कलाभिः, तैस्तैः प्रलोभनप्रकारैः, क्रियतां देव- कार्यम्, आर्याणां प्रायः परोपकारकरणार्थमेव जन्म च जीवितं च, न च भवन्तमस्मदनुभावादन्यः कोऽपि कन्यान्तःपुरे रहस्यपि वर्तमानां विदर्भेश्वरसुतामुपसर्पन्तमुपलक्षिष्यते' इत्यभिधाय व्यरंसीत् ॥ च ॥ इति प्रकाशितेति ॥ दरदलितेत्यत्र दरेत्यव्ययमीषदर्थे ॥ क ॥ अस्तीति ॥ कुन्ददन्तीत्यत्र 'नासिकोदरौ-' इति सूत्रेण ङीष् ॥ ग ॥ १ 'स्वयमेव मेऽद्य'. २ 'प्रकाशितप्रश्रये'. ३ 'निर्जित'. ४ 'धिपपुरं'; 'धिपतेः पुरं'. ५ 'मद्विधेषु'. ६ 'प्रागल्भ्यप्रमं प्र'. ७ 'मानुषाः'. ८ 'अथोदेश'. ९ 'विशेषकोविदः'. १० 'उपलब्धिष्यते'.
पञ्चम उच्छ्वासः । १४९ नलोऽप्येतदाकर्ण्य तदिदं संकटम् 'इतो व्याघ्र इतस्तटी, इतो दवा- ग्निरितो दस्यवः, इतो दुष्टदन्दशूक इतोऽप्यन्धकूपः' इति न्यायात् । इतः कर्णान्तैकृष्टशरासनो मर्मप्रहारी प्रहरति मकरध्वज इतश्चायमेतेषामल- ङ्घनीयै आदेशः । तन्न जानीमः किमत्रोत्तरम् । एकत्रार्थेऽस्माकं भवतां च प्रवृत्तिरिति प्रणयप्रार्थनाभङ्गकारिणी विहतविनया प्रतिकूलोक्तिः, अनभिज्ञोऽस्मि दूतोक्तीनामिति शाठ्यम्, असमर्थोऽस्मि संदिग्धक्रिया- कारितायामित्याज्ञालङ्घनम्, आज्ञालङ्घनं च सेतुबन्धनमिव स्खल- यति श्रेयःस्रोतः, षण्ढमुखदर्शनमिव वर्धयत्यलक्ष्मीम्, रजस्वलाभिगम- नमिव हरत्यायुः, इत्यनेकविधमवधार्य 'न नाम दुरधिगमाः केऽपि पदार्थास्तत्रभवतामशेषजगदीश्वराणाम्, न च न जानीथ ममापि प्र- सिद्धमध्यवसायम्, एवं स्थितेऽप्येष वः करोम्यादेशम्, आदिष्टपरा- मर्शो न श्रेयानादेशकारिणः, किं तु बलीयान्परतो विधिः प्रमाणम्' इत्यभिधाय भक्त्या भयेन च देवानां दौत्यादेशं समर्थितवान् ॥ क ॥ स्थित्वा च कंचित्क्षणमुचितालापलीलया कृत्वा च कांश्चिदन्योन्य- प्रस्तुतप्रियव्यवहारान्, आपृच्छ्य, यथागतं गतेष्वथ तेषु देवेषु निष्- षेधेश्वरश्चिरं चिन्तयांचकार ॥ ख ॥ तदिदम्, अनुच्छ्वासविरामं मरणम्, अमोहं मूर्छनम्, अरोगमङ्ग- व्यथनम्, अशल्यप्रवेशमन्तःशूलम्, अदारिद्र्यो निद्राविघातः ॥ ग ॥ किमन्यत् । तस्यामाकर्णितानुरागायां यन्ममाद्य दीर्घदौर्जन्यदोह्रदिना दैवेना- कस्मिकमौत्सुक्यानुरागव्यवसायं वन्ध्यमध्यवसितं कर्तुम् ॥ घ ॥ इदानीं किमत्र श्रेयो यस्माद्, अनुपयोगं गमनम्, श्लाघ्यं निव- र्तनम्, अपार्थकमासनम्, असाधीयानध्यवसायः ॥ ङ ॥ इति चिन्ताकुले नले भयान्मूकीभूतेष्वासन्नवर्तिषु परिजनेषु प्रण- यात्प्रावरणप्रान्तप्रच्छादितवदनभागं किमप्यासन्नमुपसृत्य शनैस्तत्का- लयोग्यालापैरनुशीलयञ्शीलज्ञः श्रुतशीलो नलमावभाषे ॥ च ॥ नलोऽपीति ॥ न नाम दुरधिगमा इत्यत्र 'नाम' इत्यभ्युपगमे ॥ क ॥ १ 'दावाग्नि'. २ 'कर्णान्ताकृष्ट'. ३ 'अलङ्घनीयादेशः'; 'अलङ्घनीयो निदेशः'. ४ 'आज्ञालङ्घनमिति क्वचित्पुस्तके नास्ति'. ५ 'षण्ढदर्शनमिव'. ६ 'किंचित्'. ७ 'तेषु निषधेश्वरश्चिरं चिन्त्यां'. ८ 'दौर्गत्य'. ९ 'प्रान्तच्छादित'.
१५० नलचम्पूः । 'देव, जानामि देवस्य देहं दहति देहन इव दारु दारुणो दौत्यचि- न्ताभारः । को नाम सामान्योऽपि स्वयमभिलषितेऽर्थे दूतत्वदासभा- वमङ्गीकुर्यात् । विशेषतोऽनुरागिण्यङ्गनाजने । तथापि किं न जानाति देवो, यथा याचको ब्राह्मण इव निर्वेदः कस्य संतोषाय, विषवैद्य इव विषादः संदेहकारी शरीरस्य, भीमाभिमन्यु्निरुद्धं कुरुबलमिव मनो महान्तं संतापमनुभवति ॥ क ॥ तदलमेन वातूलीभ्रमेणेव मीलयता चक्षुरुद्वेगेन ॥ ख ॥ किं देवेन न श्रुतम्, अमृतमथनावसरे सुरासुरकरपरिवर्त्यमानम- न्दरमन्थाननिर्घोषबधिरितसमस्तरोदःकंदरादिवापि दूरोच्छलितदुग्ध- तुषारसारतारकितनभसः, समुत्पन्नानेककौस्तुभादिवस्तुविस्तारादुद्ग- च्छदप्सरोमुखमण्डलैः क्षणमिव विहितविकचनलिनखण्डशोभाद्, अनेकाश्चर्यकुक्षेः क्षीरसागरादजनि जनितजगद्विस्मया स्मरजननी हस्तस्थिततरुणारविन्दा देवी देदीप्यमानपुण्यलक्ष्मा लक्ष्मीः ॥ ग ॥ यस्याः सर्वाङ्गलावण्यमधु विकचलोचनचषकैरापीय पीयूषजुषो म॑दैंनमदपरवशाः परस्परमेवेष्यन्तश्चक्रुश्चक्रपाणिना समं संगरम् ॥घ॥ अ॑थ सा सर्वानप्यन्तरान्तरापततस्तानुल्लङ्घ्य मन्दरगिरिशिखरशा- तकुम्भनिकषोपलायितबाहोर्भग॑वतश्चिक्षेप क्षेपीयः कण्ठे वैकुण्ठस्य स्वयंवरकुसुममा॑लाम् ॥ ङ ॥ एवं साऽपि कदाचिच्चम्पककलिकाकलापगौराङ्गीरागिणी त्वयि वञ्चयिष्यति देवान् । वञ्चितो यतः पूर्वमात्ममुखमण्डलश्रिया शशी, तिरस्कृतो मदनः सौभाग्येन् । संकृत्प्रवृत्तायाश्च किमवगुण्ठनेन । विधेरिव वामभुवामचिन्त्यानि चरितानि भवन्ति ॥ च ॥ देवेति ॥ निर्वेदः खेदो वेदरहितश्च । विषादोऽतीव शोचनम् यश्च विषं काल- कूटमादयति । भीमो रौद्रोऽमितो मन्युर्दैन्यं तेन निरुद्धम् । कुरुबलं तु भीमेन मध्यमपाण्डवेनाभिमन्युना चार्जुनसुतेन निरुद्धम् ॥ क ॥ तदलमिति ॥ उद्वेगो दुःखम् । वातूलीभ्रमस्तु ऊर्ध्वं वेगः ॥ ख ॥ अथ सेति ॥ अतिशयेन क्षिप्रं क्षेपीयः । 'स्थूलदूर-' इत्यादिना सिद्धम् ॥ ङ॥ एवं सापीति ॥ सकृत्प्रवृत्तायाः। स्तोकमपि नर्तितुमारब्धवत्याः किं नीरङ्कथाः ॥ च ॥ १ 'दहनदाहदारुणो'. २ 'दूत्य'. ३ 'तथापि इति कुत्रचिन्नास्ति'. ४ 'विकचनवन- लिन'. ५ 'मदनपरवशाः'. ६ 'अथामिलपतः सा सर्वा'; 'अथ सा समभिलुपतः सर्वां'. ७ 'भगवत इति नास्ति'. ८ 'सालिकाम्'. ९ 'असकृत्प्रवृत्तायाश्च'