भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां प्रकाशः । रत्नकोषकृतस्तु, रसविशेषवृत्तिरेव दुग्धत्वादिजातिः । द्रव्यवृत्तित्वेऽपि तद्व्यञ्जकस्य रसस्या- वश्यकत्वात् । द्रव्यत्वादिसामानधिकरण्यबुद्धिश्च परम्परासम्बन्धात् । तथाच दुग्धारम्भका एवा- वयवाः पाकजरसविशेषशालिनो दध्यारम्भका इति न विरोध इत्याहुः ॥ प्रकाशिका शस्यापि कद(चिन्महापटध्वंसद्वारा खण्डपटजनकत्या द्रव्यपदोपादानेऽपि व्यभिचारतादवस्थ्यात् यत्त मङ्गलस्य विघ्नध्वंसद्वारा समाप्तिजनकत्वं समाप्तिश्च चरमसमुदायिरूपा एवं च मङ्गलजन्या- यां द्रव्यसमाप्तौ व्यभिचारो विघ्नध्वंसस्य तज्जनकत्वादिति व्यपदमिति तत्तच्छम् । विघ्नध्वंस- स्य मङ्गलजन्यत्वेऽपि समाप्तिजनकतायां संसर्गाभावत्वस्यैव प्रयोजकत्वात् । अन्यथा कदाचिद्वि- ध्वंस्य द्रव्यरूपत्वेन द्रव्यपदे दत्तेऽपि व्यभिचारतादवस्थ्यात् । यत्तु प्रलयजनकादृष्टध्वंसस्य सर्ग- जनकत्या व्यभिचार इति द्रव्यपदमिति । तदपि तुच्छम् । प्रलयात्मककालोपाधिसंसर्गाभावमा- त्रस्यैव सर्गजनकत्वात् । मिश्रास्तु दण्डप्रागभावध्वंसात्मकदण्डजन्ये घटे व्यभिचार इति द्रव्य- पदम् । न च तस्य ध्वंसत्वेन न कारणता उत्तरग्रन्थविरोधः ध्वंसत्वनियतकारणताकत्वस्योत्तरग्र- न्थार्थत्वात् । अन्यथा दृष्टान्तासङ्गतैः, न हि महापटध्वंसस्य ध्वंसत्वेन कारणत्वं तथाहि खण्डपटं प्रति समानाधिकरणपटध्वंसत्वेन कारणत्वम् यावत् तादृशपटध्वंसत्वेन वा पूर्वोत्पन्नयावत्तादृश- पटध्वंसत्वेन वा, आद्ये द्वितीयखण्डपटोत्पत्त्यनन्तरं तत्काले वा तृतीयखण्डपटोत्पत्तिः कालवि- लम्ब्रेन तु विलम्बे ध्वंसस्याहेतुत्वमेव कुतो ध्वंसत्वेन हेतुत्वशङ्का । द्वितीये द्वितीयखण्डपटोत्पत्तिर्न स्यात् । तृतीयखण्डपटध्वंसस्याभावात् । तृतीये संसर्गाभावत्वमेव जनकतावच्छेदकं, वारणीययोर- त्यन्ताभावप्रागभावयोः समानाधिकरणपूर्वोत्पन्नपदाभ्यामेव वारणात । यदि च ध्वंसत्वसंसर्गाभा- वत्वयोर्विशिष्टयोसमनियतत्वे शरीरतौल्ये च संसर्गाभावत्वेन जनकत्वे मानाभावः । तथापि मास्तु दृष्टान्तासङ्गतिः । तथा विवक्षाबीजं द्रव्यपदसार्थकत्वायैव तथाविवक्षास्ति । नच दण्डप्रागभावो- पादानाप्रसिद्ध्या व्यभिचाराप्रसिद्धेः कथं द्रव्यपदस्य तद्वारकतो । नियतसामानाधिकरण्यरूपव्याप्त्या- प्तेरप्रसिद्ध्या प्रहासम्भवेन व्याप्तिग्रहोपयिकत्वाद्विशेषणस्य समानोपादानकत्वस्य व्यापकस्यान्यत्र मकरन्दः । वावश्यं वाच्यतया तत एव तदुद्धारात् । अन्यथा ब्राह्मणशरीरशालग्रामध्वंसादेर्धर्मद्वारा नारकि- शरीरजनकत्या व्यभिचारतादवस्थ्यापत्तेः । अन्ये तु प्रागभावध्वंसात्मककपालजन्यघटे व्यभि- चारवारणाय तदुपादानम् । न च ध्वंसत्वेन जनकत्वविवक्षयैव तद्वारणमिति वाच्यम् । ध्वंसत्वे- नेत्यस्य ध्वंसत्वनियताया जनकत्ताया विवक्षितत्वादित्यर्थात्, तावतैव प्रतिबन्धकाभावजन्ये व्य- भिचारस्य निरासात् । यद्यपि प्रागभावोपादानाप्रसिद्ध्या व्यभिचारोऽपि तत्राप्रसिद्ध इति कथं तद्वारणाय तत्,, तथापि नियतसामानाधिकरण्यरूपव्याप्तिग्रहोपयिकतया सार्थकत्वम् । यद्वा, य- द्द्रव्यध्वंसजन्यं यद्द्रव्यं तदुभयमेकोपादानकमित्यत्र तात्पर्यम् । एकोपादानकत्वञ्चान्यत्र प्रसि- द्धमिति तत्र व्यभिचारप्रसिद्धिरिति वदन्ति । यत्तु, अवयवसंयोगध्वंसजन्यखण्डपटे व्यभिचारवा- रणाय द्रव्यपदम् । न च तत्र साध्यमस्त्येवेति वाच्यम् । तत्संयोगाश्रयतन्तूनामपि नाशे तद्द्वि- ष्ठमात्रसमवेतखण्डपटे तथापि व्यभिचारादिति । ततुच्छम् । तस्य महापटध्वंसोपक्षीणत्वेन ख- ण्डपटं प्रत्यहेतुत्वात् । अन्यथा तन्तुनाशजन्यखण्डपटमादाय दोषतादवस्थ्यापत्तेः । एतेन ज- न्यत्वेन प्रयोज्यत्वमात्रं विवक्षितमित्यपास्तम् । तथाचेति । दुग्धरूपरसविशेषारम्भका एवावयवाः पाकजरसविशेषशालिनो यतोऽत एव दध्यारम्भकाः । तस्य रसविशेषात्मकत्वादित्यर्थः । यद्वा; दुग्धादिपदं द्रव्यपरमेव । दुग्धत्वादेः परम्परासम्बन्धेन द्रव्यवृत्तित्वाभ्युपगमादिति । न विरोध इति । नैकोपादानकत्वविरोधः । रस-

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ८१ एतेनाऽपोहवादे नियमो निरस्तः । (१) कार्यकारणभावाद्वा इत्यादिविप्लव- बोधनी एतेन-इति तृणान्यन्यापोहात्मनैकजातीयानामेव तृणादीनामग्न्यन्यापोहात्मना एकजातीयं कार्यं प्रति कारणत्वमिति जात्यपेक्षयैव नियम इति बौद्धादयः, तान् प्रत्याह-एतेन-इति । कार्या- दिना कारणादीनामनुमानप्रसङ्गेनापोहजात्यपेक्षयापि कार्यकारणभावो निरस्त इति । तमेव प्रसङ्गं स्मारयति=कार्य-इति । तृणादित्रयमात्रानुगतात्यनिनिवृत्तेरभावात् प्रत्येकमन्यनिवृत्तेर्व्यभिचाराद- न्यमात्रनिवृत्तेश्च तृणादिष्वप्यभावात् कार्यकारणयोरविनाभावो न सिध्येत्, तदसिद्धौ च स्वभाव- नियमोऽपि न सिध्यतीति । यद्वा, एतेन-विजातीयेभ्योऽप्येकजातीयकार्यदर्शनेन । अपोहवादेऽपि कार्यकारणभावनियमो निरस्तः । तृणायनुगतायास्तदितरनिवृत्तेरनुपलम्भात् तस्याः सूक्ष्मायाः शक्तेर्वाभ्युपगमेन नियमाङ्गीकारे कार्यकारणयोः स्वभावतद्वतोश्थाविनाभावस्य दुर्गहत्वेनासिद्धेरिति । तस्मान्नियतजातिशक्तियोंवृत्तीनामभावात् कार्यजातिनियति प्रति नियतजातीयस्वभावेन कारणेन प्रकाशः । तृणादेरग्निं प्रति तृणान्यन्यान्त्यत्वेन कारणत्वं गृह्यते, इति न व्यभिचार इति व्यावृत्तिपदार्थ- वादिना यत् समाहितं, तत्राप्यनुमानभङ्ग इत्यतिदिशति । एतेनेति । नियमः = अविनाभावः । वह्निं विना तदन्यस्मादपि धूमसम्भवेन ततो वह्न्य- नुमानाभावापातात्, तृणादिवत्तद्व्यावृत्त्या तत्रापि कारणत्वग्रहसम्भवादित्यर्थः । कार्यकारणभा- प्रकाशिका । प्रसिद्धस्य प्रकृतेऽभावेन व्यभिचारस्यापि प्रसिद्धेश्चेति । अत्र च सर्वत्र कल्पेऽदृष्टाद्वारकत्वं विशे- षणम् । अन्यथा शालिग्रामशिलाध्वंसजन्यनारकिशरीरे व्यभिचारात् । अत एव गङ्गामरणजन्य- स्वर्गिशरीरे व्यभिचारवारणाय द्रव्यपदं मरणस्य संयोगध्वंसरूपत्वादिति परास्तम् । आवश्यकौ- दृष्टाद्वारकत्वविशेषणेनैव तद्वारणदिति । तथा चेति । दुग्धतामकरसविशेषारम्भका एवावयवाः पाकजसविशेषशालिनो यतोऽत एव दध्यारम्भका इत्युच्यन्ते । दध्नो रसविशेषात्मकत्वादित्यर्थः । यद्वा दधिदुग्धपदाभ्यामत्र रसविशेषाश्रयद्रव्यमेवोक्तम् । दधित्त्वदुग्धत्वयोरपि परम्परासम्बन्धेन द्रव्ये वृत्तेः । यद्यपि प्रकृतासम्बद्धमिदम् । द्रव्ययोरेकोपादानकत्वे साजात्यनियम इत्यत्र दधिदुग्धयो- र्व्यभिचार इति हि प्रकृतम् । तस्य चासङ्गतिरेव दधिदुग्धयो रसात्मकत्वे । तथापि दधिदुग्धाश्रय- रुपद्रव्ययोर्विजातीययोरेकोपादानत्वमेव तन्मतेऽपीति भवति प्रकृतसङ्गतिः । केचित्तु मूलाक्षेपपरमे- वैतन्मतं दधिदुग्धयो रसात्मकत्वे मूलोक्तव्यभिचारोद्धारादिति । तन्न । तदाश्रयद्रव्ययोस्तथापरत्वेऽ- पि व्यभिचारेणाक्षेपतात्पर्यकल्पनाभावात् । अत्राहुरित्यरुचौ । तद्बीजन्तु महद्दधि शुक्लरूपवद्द- धीत्यादिप्रतीतौ परम्परासम्बन्धविषयत्वे गौरवमेव । अन्यथा पृथिवीत्वादेरपि गन्धादिवृत्तित्वा- पत्तिः । व्यञ्जकत्वयुक्तस्तेस्तुल्यत्वादिति । अपोहवादे विषवे नियम इत्यन्वये कदाचिदपोहस्वीकारः स्यादत आह । नियमोऽविनाभावः, वह्निधूमयोरिति शेषः । अपोहवाद इति च सति सप्तमीति भावः । तृणादिवदिति । यद्यपि कार्यवैजात्यपक्षेऽपि न धूमसामान्याद् दहनसिद्धिरिति । धूम- मकरन्दः । विशेषात्मकयोर्दधिदुग्धयोरेकत्र प्रमाणसिद्धत्वादित्यर्थः । अनभिमतिवीजञ्चात्र द्रव्यत्वादिसामान्या- धिकरण्यबुद्धेः साक्षात्सम्बन्धविषयत्वे बाधकाभावान्न परम्परासम्बन्धविषयत्वम् । अन्यथा पृथिव्यादि- त्वादेरप्यभिव्यञ्जकगन्धादिवृत्तित्वापत्तेरिति । ( १ ) कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न तु दर्शनात् ॥ इति । ११ न्या० कु०

८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां प्रसङ्गात्। तस्मान्नियतजातीयतास्वभावभङ्गेन व्यक्त्यपेक्षयैव नियम इति। न। फूत्कारेण तृणादेरेव, निर्मन्थेनारणेरेव, प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रका- बोधनी। भवितव्यमिति नियमस्य भङ्गात् कार्यस्य यया कयाचिद् व्यक्त्या भवितव्यमित्येव नियमः स्या- दित्युपसंहरति—तस्मात्-इति। सिद्धान्त्याह—नेति। एवशब्दो भिन्नक्रमः, तृणादेः फूत्कारेणैवेत्यादि योजनीयः। प्रकारनियमः = सहकारिनियमः। फूत्कारादिस्तृणादीनां नि- प्रकाशः। वासिद्धौ स्वभावनियमोऽपि दुरवगमः। कार्यानुपलब्धिप्रसङ्गरूपविपक्षबाधकसाध्यत्वात्तस्येति भा- वः। तदेवं गत्यन्तराभावाद् व्यक्तीनामेव कारणत्वमित्युपसंहरति। तस्मादिति। वह्न्यवान्त- रजातीये तृणादीनां प्रत्येकं कारणत्वस्वीकारादेव सर्वं समञ्जसमित्याह। फूत्कारेणेति। प्रका- रनियमः = सहकारिनियमः। वह्न्यनुकूलशक्तिमत्त्वेन कारणत्वे मणिफूत्कारादिस्तोमादपि कार्या- प्रकाशिका। विशेषस्यैव वह्निजन्यत्वमिति शङ्कायाः सम्भवात्। यदि चोपस्थितरूपस्यावच्छेदकत्वे बाधके सत्येव कल्पनीयजातेः कार्यतावच्छेदकत्वमिति न तत्र शङ्का तर्हि कारणतावच्छेदकत्वमपि तत्रैवान्या- न्यत्वस्य यत्रोपस्थितरूपस्यावच्छेदकत्वे बाधकमिति तुल्यम्। एवञ्च शक्तिवैजात्यान्यतरकल्पनाव- सरे तयोरक्लृप्तत्वादन्यान्यत्वस्य च क्लृप्तत्वात्तदेवावच्छेदकं कारणतायामिति। तथापि तन्मते सहकारिनियमानुपपत्तिरेव बाधिका शक्तिपक्षवत्। अत एवं मूलं प्रकारनियमवदिति। यद्यपि फूत्कारतृणसंयोगादीनामन्यान्यत्वेन जनकत्वपक्षे नैतद् दूषणम्। नचैवं तृणादेरकारणत्वम्। संयोग- विशिष्टस्यैव तृणादेः कारणत्वात्। अन्यथा तृणत्वेन कारणत्वस्वीकारेऽपि अनतिप्रसङ्गाय संयोगकारण- त्वे वाच्ये तृणाद्यकारणतापत्तेस्तुल्यत्वात् कारणतावच्छेदकन्तु तृणादावन्यान्यत्वमेव। नचैवं जन्य- ज्ञानत्वावच्छिन्नं इन्द्रियसन्निकर्षादीनामन्यान्यत्वेन जनकत्वे एकप्रमाणपरिशेषापत्तिः। तत्र ज्ञाने वैजात्यस्यानुभवसाक्षिकतया तन्नियामकत्वेनासाधारणधर्मस्य कारणतावच्छेदकत्वात् जन्यज्ञानत्व- स्य कार्यतावच्छेदकत्वे मानाभावात्। तत् सत्त्वेपि तदवच्छिन्नेऽन्यान्यत्वेन जनकत्वे विशेषमादा- यैव प्रमाणानां भेदात्। एवं च यत्र कार्ये न वैजात्यमनुभूयते कारणानामननुगमश्च तत्रैवान्या- मकरन्दः। तदेवमिति। नन्वेवं तवापि वह्निप्रयोज्यवैजात्यशङ्कया न धूमसामान्यमग्निं गमयेत्। यदि चोपस्थितधूमत्वावच्छेदेन व्यभिचाराग्रहात्तेनैव रूपेण कार्यत्वग्रहः, तदा यत्रोपस्थितरूपे व्यभि- चारस्तत्रैव रूपान्तरेण कारणत्वकल्पनमतो न रासभमेन्तर्भाव्य तत्कल्पनम्। किञ्च, शक्तिवैजा- त्ययोरन्यतरकल्पनावसरे तयोः कल्पनीयतया लाघवेन क्लृप्तान्यान्यत्वस्यैवावच्छेदकत्वकल्पना- दिति। तत्र ब्रूमः। वैजात्यस्यापि प्रमाणान्तरसिद्धतया तत्राप्यवच्छेदकत्वकल्पनेव। अन्यथा सहकारिनियमानुपपत्तेः। तदिदमुक्तं मूले, तेनैव व्यज्यमानस्येति। न च सामग्रीत्रयकल्पने गौरवं, तस्यावश्यकत्वात्। अन्यथा सहकारिनियमानुपपत्तिरेव। स हि कार्यतावच्छेदकभेदेन फ- लविरोधे सत्येव स्यात्। अन्यथा प्रत्यक्षादिप्रमाणानामपि जन्यज्ञानत्वावच्छिन्ने तदन्यान्यत्वेन हेतुतापत्तेः। यदि च सहकारिनियमानुपपत्त्या सामग्रीभेद-फलवैजात्यावश्यकत्वे गौरवान्न तथा, तदा प्रकृतेऽपि तुल्यं, तत्तत्सहकारिसम्बन्धानामपि तदन्यान्यत्वेन हेतुत्वान्नियमोपपत्तेरित्यपि तुल्यम्। यद्विशेषयोः कार्यकारणभावग्रह इत्यादिकमपि तुल्यम्। तेन रूपेणान्वयव्यतिरेकग्रहश्च तथेति च तुल्यम्। अपि चैवं भौमत्वस्यापि विशेषतया गुरुत्वेन वह्नित्वसामान्यावच्छिन्ने औद- र्यादिवह्निकारणमप्यन्तर्भाव्य तदन्यान्यत्वेन हेतुत्वापत्तिः। किञ्चैवं, जन्यतावच्छेदकमपि तत्

प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ८३ रानियमवत्तेनैव व्यज्यमानस्य कार्य्यजातिभेदस्य भावात् । दृश्यते च पावकत्वा- विशेषेऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते, न तथा ज्वालाजालज- टिलोऽपि दारुदहनो, न तराञ्च कारीषः ॥ बोधनी । गमाश्रितयतसामग्रीव्यङ्ग्याया जातेर्भेदोऽस्ति । नहि सामग्री भिद्यते न भिद्यते च कार्यमिति सम्भ- वति । तथा च प्रयोगः—तार्णाद्यग्नयोऽग्नित्वावान्तरजातिभेदवन्तः विलक्षणसामग्रीजन्यत्वात् तैलवर्त्त्या विलक्षणसामग्रीकप्रदीपादिवदिति । न च साध्यविकलो दृष्टान्त इत्याह-दृश्यते-च- इति । प्रदीपादौ कार्यभेददर्शनादवान्तरजातिभेदोऽवश्याभ्युपगन्तव्य इति । प्रकाशः । पत्तेरित्यर्थः । न चानुपलब्धिबाधितं वैजात्यमित्याह । तेनेति । विवादपदमग्नयो वह्नित्वव्या- प्यजातिमन्तः नियतसहकार्य्यनुप्रवेशेन जायमानवह्नित्वात् प्रदीपदारुदहनवदिति कारणविशेषस- म्बन्धव्यङ्ग्यत्वान्न जातीनामित्यर्थः । न च दृष्टान्तः साध्यविकल इत्याह । दृश्यते चेति । तत्र तैलादिकारणविशेषव्यङ्ग्यत्वं यथा जातीनां, तथाऽत्रापीति नादृष्टचरकल्पनमित्यर्थः । यद्यपि दुरु- हत्वान्नौष विशेष आपाततः स्फुरति, तथापि विशेषानाकलनेऽपि तदनुकूलकारणमात्रमनुमीयते, प्रकाशिका न्यत्वमवच्छेदकं न तु सर्वत्रेति न दण्डवेमादीनां घटपटान्यन्यतरत्वावच्छिन्नकारणत्वशङ्का न तु वह्नौ तृणादिजन्ये वैजात्यमनुभूयत इति । तथाप्येवं मणेरपि तृणफूत्कारविशेषसंयोगसहकारित्वे तरणिकिरणसमवहितमणेरपि रात्रौ वह्न्यर्थिप्रवृत्तिविषयतापत्तिः । न च तरणिकिरणसम्बद्धमणेरेवं जनकत्वं सम्बद्धानां तृणादीनां च स्वस्वनिष्ठान्यान्यत्वेन जनकत्वे भवदुक्तनियमस्यैवानुपपत्तेः । न च सम्बन्धमात्रमेव कारणं न तु मण्यादीति वाच्यम् । उपजीव्यबाधात् । अन्वयव्यतिरेकगृहीततृ- णादिकारणतारक्षार्थमेव कारणप्रत्यासत्तितया सम्बन्धानां कारणत्वस्वीकारादिति । मिश्रास्तु अन्या- न्यत्वं न कारणतावच्छेदकम् तथासति तृणान्यन्यस्य वह्न्यवयवादेरकारणतापत्तेः, भावाभावयोरे- कत्राप्रयोजकत्वात् । नचैवं भवन्मतेऽपि तृणतदन्ययोः कथं वह्निप्रयोजकत्वमिति वाच्यम् । प्रयो- जकप्रतियोगिकाभावस्याप्रयोजकत्वमिति नियमशरीरत्वात् । त्वया च कारणीभूतवह्न्यवयवादि प्रतियोगिकस्यान्योन्याभावस्यावच्छेदकतया प्रयोजकत्वाभ्युपगमादिति वदन्ति । तच्चिन्त्यम् । भा- वाभावयोरेकत्राजनकत्वेऽपि एकाप्रयोजकत्वे मानाभावात् । वस्तुतस्तु तदपि न । घटघटान्योन्याभा- वाविति समूहालम्बनस्थले व्यभिचारात् । नच कारणाभावस्य न कारणतावच्छेदकत्वमिति नियमः, अप्रयोजकत्वादिति दिक् । विवादपदमिति । प्रदीपादावंशतः सिद्धसाधनवारणाय विशेषणमिदम्। मकरन्दः । स्यादिति घटपटान्यान्यतरत्वावच्छेदेन दण्डवेमान्यान्यत्वेन हेतुत्वापत्तिः । तथाचोक्तगौरवादतिप्रस- ङ्गाच्च न तदन्यान्यत्वमवच्छेदकमिति दिक् । यत्तु, नैकं विरुद्धद्वयप्रयोज्यम् । भावाभावयोरेकका- र्यजनकतापत्तेः । अत एव न यागध्वंसेनापूर्वस्यान्यथासिद्धिः । तदिह वह्नित्वं यदि तृणान्यान्य- प्रयोज्यं स्याद् , न स्यात्तदन्यवह्वयवयवादिप्रयोज्यं विरोधादिति । तच्चिन्त्यम् । एवं हि तृण- प्रयोज्यत्वेऽपि तदन्यवह्वयवयवादिप्रयोज्यत्वं विरुध्येत । यदि च तयोः परस्परविरहरूपत्वाभा- वात्तदुभयप्रयोज्यत्वं न विरुद्धं, तदा तुल्यम् । वह्न्यवयवत्वेनैव तस्य प्रयोजकत्वं, न तु तृणाय- न्यान्यत्वेनेत्यपि तुल्यमिति । विवादपदमिति । एतच्च प्रदीपादौ साध्यसिद्धया अंशतः सिद्धसाधनवारणार्थम् । नियतेति । ननु वृश्चिकादौ हेतुसत्त्वेऽपि साध्यासत्त्वाद्यभिचार इति चेत् । मैवम् । नियत-

८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां यस्तु तं नाकलयेत् , स कार्यसामान्येन कारणमात्रमनुमियादिति किमनु- बोधनी । ननु कार्यावान्तरजातिभेदस्य दुरूहत्वात् कथं तत्तत्तृणादिविशेषानुमानमित्यत्राह-यस्त्विति । तमवान्तरजातिभेदं तृणादिजन्यमन्वयव्यतिरेकयोर्बलवानेवाकलय्य तृणादिकारणविशेषमनुमिनोति, यस्त्वलसो दुरूहमवान्तरजातिभेदं नावगच्छति स सामान्यमात्रात्सामान्यमात्रं तन्निवृत्तेश्च तन्निवृ- त्तिमनुमिनुयात् का नो हानिरिति । ननु यदि तृणादीनामनुपलभ्यमानमग्न्यवान्तरजातिभेदं प्रत्यु- पयोगान्नाग्निमात्रदर्शिनस्तृणाद्यनुमानसिद्धिः, एवं तर्ह्यनुपलक्ष्यमाणधूमावान्तरजातिभेदं प्रत्येव प्रकाशः । तदाकलने तु विशेषोऽप्यनुमीयत एवेत्याह । यस्त्विति । नन्वग्न्यवान्तरजातीये तृणादीनां कारणत्वं न युक्तम् , कारणगतैकशक्तिरूपमपहाय कार्यगतबहुतरजातिकल्पने गौरवात् । तृणादि- जन्याग्निश्ववान्तरजातेर्योग्यानुपलम्भबाधितत्वात् । यत्र च तत्तत्कारणप्रयोज्यं प्रदीपादौ वैजा- त्यमनुभूयते । तत्रैकशक्तिमत्त्वमपि कारणे नास्ति । अत एवानुमानमप्रयोजकम् । अथास्ति तृणा- दीनां फूत्कारादिसहकारिता । तत्र फूत्कारादीनां सहकारित्वं तृणत्वाद्यवच्छिन्नं प्रति स्यात् ? तृणादिसाधारणैकशक्तिमन्तं प्रति वा । नाद्यः । तृणत्वाद्यवच्छिन्नस्य प्राक्कालानैयत्याभावेन कार- णत्वाभावात् तत्सहकारित्वस्य दूरनिरस्तत्वात् । नान्त्यः । तृणादिवाऽरणेरपि फूत्कारसमवहिता- दग्न्युत्पत्त्यापत्तेः । न च फूत्कारादिविशिष्टे तृणादौ शक्तिर्न केवल इति वाच्यम् । तस्य तृणादि- भिन्नत्वे तृणादीनामजनकत्वापत्तेः । तदभिन्नत्वे च यत् तृणं फूत्कारेणोपधीयते, तत्र वा शक्तिः, प्रकाशिका । अत्र कारणविशेषप्रयोज्यधर्म्मवत्त्वमेव साध्यं, यथाश्रुतेन च पक्षधर्म्मतावल्लभ्यसाध्योपदर्शनं तेन न घटादौ, न वा ध्वंसे व्यभिचार इत्यवधेयम् । यद्यपि यथानिरुक्तसाध्ये सिद्धसाधनं जायमानत्व- स्यैव हेतुत्वे व्यर्थविशेषणत्वञ्च वह्न्यवयवादिकारणप्रयोज्यवह्नेः सत्त्वात् तत्तत्कारणप्रयोज्यतत्तदव- च्छेदकधर्म्मवत्त्वाच्च कार्यमात्रस्य । तथापि तृणादिप्रयोज्यधर्म्मवत्त्वमेव साध्यम् नियततत्तदर्थप्रवेशे न जायमानत्वं हेतुः । सामान्यव्याप्तौ च प्रदीपो दृष्टान्त इति भावः, प्रदीपादिदृष्टान्तोपादानप्रया- सश्चात्तेजस्त्वाद्युपाधेः साध्याव्यापकत्वप्रदर्शनपरः । सहकारिपदञ्चानन्यथासिद्धपरं नियतरासभो- त्तरभाविघटे व्यभिचारवारकमिति मिश्राः । वस्तुतो वह्नित्वादिति हेतुः यथाश्रुतमेव च साध्यं निय- तेत्यादिकञ्च विपक्षबाधकतर्कप्रदर्शनपरमिति ध्येयम् । अत एवेति । वस्तुतः स्वरूपासिद्धिरेव नियतेत्यादिहेतोर्नियतत्वं हि तृणादीनां वह्नित्वावच्छिन्ने वा तदवान्तरजात्यवच्छिन्ने वा उभयथापि स्वतः परतो वाऽसिद्धिः । नचोभयमतेऽपि शक्तिमत्त्वेन तृणत्वेन वा नियमोऽस्त्येवेति साधारणरूपो हेतुः सिद्ध एवेति वाच्यम् । तथा सति तृणादिप्रयोज्यवह्नौ सिद्धसाधनापत्तेः । तस्मात् तृणत्वावच्छिन्न- नियमाश्रयजन्यत्वेन तृणत्वावच्छिन्नप्रयोज्यधर्म्मवत्त्वं साध्यमिति स्वरूपासिद्धिरेव परंमते । न च स्वमतेनैवाऽयं हेतुः साध्यसिद्धिनियतसिद्धिकत्वादिति। तदभिन्नत्वे चेति । फूत्कारप्राक्काल एव तृणे मकरन्दः । सहकारिप्रयोज्यजातिकत्वस्य साध्यत्वात् । प्रकृते च पक्षधर्मतावलेन वह्नित्वव्याप्यैव सा जातिः सिद्ध्यतीति तथा प्रतिज्ञानात् । न चैवमपि ध्वंसे व्यभिचारः । जातिपदस्य धर्ममात्रपरत्वात् । प्रदीपादिदृष्टान्तोपादाननिर्वन्धश्चातेजस्त्वाद्युपाधेः साध्याव्यापकत्वप्रदर्शनार्थमित्याहुः । वस्तुतस्तु साध्यदृष्टान्तालोचनेन वह्नित्वादिति हेतुरभिमतः । स्फुटत्वात् कण्ठरवेण नाभिहितः । नियतेत्या- दिकञ्च विपक्षबाधप्रदर्शनपरमिति युक्तमुत्पश्यामः । ननु प्रागुक्तसहकारिनियम एव विपक्षबाधक इत्याह । अथेति । तदभिन्नत्वे चेति । फू-

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ९५ प्रकाशः । 'फूत्कारसमवधाने सति वा ? नाद्यः । फूत्काराद्यसमवधानेऽपि तस्मात् तृणादेरग्न्युत्पत्त्यापत्तेः । नापरः । तथा सति सैव शक्तिस्तृणे फूत्कारादरणौ निर्मन्थनादिति शक्तावनियतहेतुकत्वापत्तेः । तत्राप्येकशक्तिमत्त्वेन हेतुत्वेऽनवस्थापत्तेरिति ॥ मैवम् । यथा ह्यन्वयव्यतिरेकाभ्यां तृणफूत्कारयोरन्योन्यसहकारित्वं तथैव तच्छक्त्योरपि परस्परसहकारित्वेन वह्नयनुकूलत्वम् । तथैव कार्यदर्शनात् । न तु मणिफूत्कारयोः सहकारित्व- मिति, न तच्छक्त्योरपि परस्परसहकारित्वम् । कार्यविशेषात् कारणविशेषानुमानं तु वह्निवृद्धि कादौविष्यत एव । निरूपितनियतवह्र्यादिकारणके धूमादौ अनुमानं स्यादेव । अन्यथा कार्यवै- जात्येऽपि वह्नित्वेन धूमविशेष एव कारणत्वं, न धूममात्र इति शङ्कया तवाप्यनुमानं न स्यादिति । अत्रास्मत्पितृचरणाः । तृणारणिमणिफूत्कारादिव्यक्तीनामनन्तत्वेन प्रतिव्यक्ति भावहेतुजानि- त्यानन्तशक्तिस्वीकारे गौरवम् । तावदनन्तव्यक्त्तिजन्यानन्तवह्निव्यक्तिषु जातित्रयकल्पने लाघव- मिति तदेव कल्प्यते । न च जातौ योग्यानुपलब्धिबाधः । गोमयवृश्चिकप्रभववृश्चिकयोरिपच्छद्या- मत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्यक्षसिद्धत्वात् । तृणादिजन्याग्निष्वपि तृणजन्यत्वज्ञानानन्तरं मणिजन्यव्यावृत्तानुगतबुद्धेर्जातिविषयत्वाद् बाधकाभावात् । ननु तृणादीनामग्नौ कारणत्वग्रहे शक्तिवैजात्ययोरन्यतरकल्पनम् । तद्ग्रहश्च नान्वयव्यतिरेकाभ्याम् । व्यभिचारात् । अथारणिम- ण्यभाववति स्तोमविशेषे तृणं विना न वह्निः तृणान्वयेऽवश्यं वह्निरित्यन्वयव्यतिरेकाभ्यां, तत्रैव स्तोमे इतरकारणसमवधाने तृणान्वयेऽवश्यं वह्निरिति नियतेनान्वयेन वा रासभव्यावृत्तेन तृणादि- कारणताग्रह इति चेन्न । तृणं विनाऽपि वह्निरिति ज्ञाने सति वह्नि नियतपूर्ववर्तित्वस्य कारणत्वस्य ग्रहीतुमशक्यत्वात् । अबाधिताभावग्रहे भावग्रहस्याभावात् ॥ प्रकाशिका शक्तिः फूत्कारजन्या वेति विकल्पार्थः । मनवस्थेति । उत्तरोत्तरमपि भिन्नभिन्नसहकारिपरंपरांया एवं स्वीकारादिति भावः । तथैव तच्छक्त्योरपीति । तथा च कारणतावच्छेदकसाम्येऽपि तृणफूत्- कारयोरेव समवहितयोः फलोपधानं स्वभावादिति भावः । वस्तुतः सम्बन्धनामेकशक्तिमत्त्वेन कार- णत्वमित्यभिप्रायः । कारणतावच्छेदकयावद्धर्म्माश्रयैकैकव्यक्तिसमवधाने स्वभावविरहप्रयुक्तस्य फला- नुपधानस्यादृष्टत्वात् यद्यप्ययमभिप्रायो न युक्तस्तरणिकिरणसमवहितमणेरपि वह्न्यर्थिप्रवृत्तिविषय- त्वापत्तेरुक्तत्वात् । तथापि स्फुटत्वात् तदुपेश्यान्यदाह । तृणेति । ननु जातित्रयकल्पनमपि किम र्थं वह्वयन्वयव्यतिरेकानुविधायित्वस्यैव तृणादौ वह्निकारणतावच्छेदकत्वात् , धर्म्मिकल्पनातो धर्म्मक- ल्पना लघीयसीति न्यायात् । मैवम् । अन्वयव्यतिरेकानुविधानस्य सहकार्यान्तरसाधारन्येन तृणादि- मकरन्दः । त्कारप्राक्काल एव तृणे शक्तिस्तत्समवधाने तज्जन्या वेति विकल्पार्थः । तथैव तच्छक्त्योर- पीति । यद्यप्येवं कार्यवैजात्यमावश्यकम् । एकजातीयकार्ये सहकारिनियमानुपपत्तेः । तथापि तृणफूत्कारसम्बन्ध-तरणिकिरणमणिसम्बन्धादिष्वप्येकजातीयशक्तिमत्त्वं कारणतावच्छेदकम् । त- था च तदन्यतमसम्बन्धाभावे तृणनिर्मन्थनसमवधानेऽपि नाग्न्युत्पत्त्यापत्तिरिति भावः । तृणेति । ननूक्तगौरवेण मा भूच्छक्तिकल्पना, जातिकल्पनाऽपि कुतः । यावता वह्वयनुविधायित्वमेव धर्मि- कल्पनात् इति न्यायेनावच्छेदकमस्तु । नचेदमेव वह्निजनकत्वं, येनात्माश्रयान्नावच्छेद्यावच्छेदक- त्वं, किन्त्वनन्यथासिद्धादिघटितमिति चेन्न । तदनुविधायित्वस्य सहकार्यान्तरसाधारणतया तत्स- त्त्वे तृणान्यतमासत्त्वेऽपि वह्न्युत्पादापत्तेः । कारणतावच्छेदकावच्छिन्नव्यक्तिक्षत्सत्त्व एव का- र्योत्पादनात् ।

८६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्याया प्रकाशः । मैवम् । उक्तग्राहकैर्वह्निनिष्ठकार्यता निरूपितकारणतावच्छेदकरूपवत्त्वं तृणस्य तृणनिष्ठकारणता- निरूपितकार्यतावच्छेदकरूपवत्त्वं वह्नेर्वा अकार्यकारणव्यावृत्तं परिच्छिद्यते, न तु तृणत्वेन कारणत्वं, वह्नित्वेन कार्यत्वं वा । तच्चोभयथाऽपि सम्भवति । वह्नित्वेन कार्यत्वमेकशक्तिमत्त्वेन कारणतया वा, तृणत्वेन कारणता वह्निविशेषत्वेन कार्यतया वा । तत्र च विनिगमकमुक्तमेव । एतेन मण्या- द्यजन्यवह्नौ तृणादीनां हेतुत्वं गृह्यते इत्यपास्तम् । अन्योन्याश्रयाच्च । मणिजन्यत्वग्रहे हि तद- जन्यत्वग्रहः, तृणजन्यत्वेन च तद्ग्रह इति । तथापि यत्र कार्ये वैजात्याभावः सामग्रीभेदश्च तत्र का गतिः ? यया द्रव्यनाशः क्वचित् प्रतियोग्याश्रयनाशात् , क्वचिदसमवायिकारणनाशात् । नचाश्रयनाशजन्यद्रव्यध्वंसत्वावच्छिन्नं प्रत्यसमवायिनाशस्य नियतत्वात् कारणत्वग्रहः । उक्त- प्रकाशिका । त्रयासत्त्वे अन्यकारणसत्त्वे च वन्ध्यापत्तेः । कारणतावच्छेदकाश्रययत्किञ्चित्समवधानस्य सत्त्वात् । यत्तु व्यभिचारादन्वयाद्यनुविधानमेव नास्तीति दूषणम् । तन्न । अरणिमण्यभाववति स्तोमे अन्व- यव्यतिरेकानुविधानस्य तृणे सत्त्वादेवमितयोरपि । अन्यथा तृणादिकारणताग्रहाभावे कल्पनाभावे न शक्तिवैजात्यान्यतरकल्पनस्याप्यभावादिति । मिश्रास्तु वैजात्यमपि तत्रैवावच्छेदकं यत्रानुभव- सिद्धः, न तु कारणनियमानुरोधेन वैजात्यकल्पनं तद्व्यक्तिं प्रति तद्व्यक्तित्वेन नियमात् । अत एवोभयजन्यध्वंसे तद्व्यक्तिरेव नियम इति प्रकाशोऽपि सङ्गच्छते । नचैवमपूर्वतृणे वह्न्यर्थिप्रवृत्त्य- नुपपत्तिः । कारणतावच्छेदकानिश्चयादिति वाच्यम् । कारणताज्ञानस्यैव प्रवर्तकत्वात् न तु विशे- षतः कारणतावच्छेदकज्ञानस्य । अत एवेदं ते ज्वरहरमित्याप्तवाक्यादनवगतेऽपि कारणतावच्छे- दके प्रवर्तन्ते कारणताज्ञानञ्च वैजात्यकल्पकत्वेन त्वयापि स्वीकरणीयमेव । तस्माद् यत्र वृश्चिका- दावीषन्नीलत्वपीत्वादिकं प्रतीयते तत्र तन्नियामकत्वेन गोमयवृश्चिकादीनां कारणत्वेऽपि यत्र तृणादिजन्याग्निषु न विशेषप्रतीतिः तत्र तद्व्यक्त्योरेव कारणत्वं कार्यत्वं च । नचैवं यागदानादि- जन्यस्वर्गेष्वपि नावान्तरवैजात्यं स्यादिति वाच्यम् । तत्र बहुवित्तव्ययायाससाध्ये कर्मणि प्रवृ- त्त्यनुपपत्त्या वैजात्यस्यानुमानसिद्धत्वात् नहि प्रत्यक्षैव प्रमितिः, नच तृणजन्यत्वज्ञानानन्तरं वैजात्यप्रतीतिः प्रकृतेऽपीति वाच्यम् । तस्यास्तृणजन्यत्वोपाधिविषयकत्वात् । अन्यथा वह्निज- नकतावच्छेदिका जातिरेकैव तृणादौ किमिति न कल्प्या त्रयाणां पार्थिवतया जातिसङ्कराप्रसङ्गात् । न च तथा सति सहकारिनियमानुपपत्तिः, तृणोत्तरभाविवह्नित्वावच्छिन्नं प्रति फूत्कारादीनां जन- कत्वात् । नच तस्यां जातौ योग्यानुपलब्धिबाधः कार्यव्यङ्ग्यतया तद्ग्रहादित्याहुः । उक्तग्राहकै- रिति । अन्वयव्यतिरेकाभ्यां नियतेनान्वयेन चेति व्यक्तीरादाय बहुवचनम् । अकार्यकारणव्या- वृत्तमिति । कार्यकारणभावः सामान्यतः अत एव विशेषनिषेधमाह - न तु तृणत्वेनेत्यादि । एतेनेति । व्यवस्थापितजातीनामेव लाघवादवच्छेदकत्वेनेत्यर्थः । अन्योन्याश्रयाच्चेति । म- णिजन्यत्वग्रहे मणिजन्यवह्नित्वमपि सकलवह्नित्तित्वेनैव ज्ञातमिति न तृणजन्यतावच्छेदकत्वेन ज्ञातुं शक्यते तथाच मणिजन्यत्वज्ञानमपेक्षणीयं तच्च तृणाजन्यत्वेन ग्राह्यं तदपि क्वचित्तृणजन्यग्रहे मकरन्दः । उक्तग्राहकैरिति । अन्वयव्यतिरेकाभ्यां नियतेनान्वयेन चेति बहुवचनोपपत्तिः । अधिक- म्नुमानप्रकाशे प्रपञ्चितम् । एतेनेतीति । व्यवस्थापितजातीनामेव लाघवादवच्छेदकत्वेनेत्यर्थः । अन्योन्याश्रयाच्चेति । वह्नौ मणिजन्यत्वे गृहीत एव मणिजन्यवह्निभिन्नवह्नित्वेन तृणजन्यत्व- ग्रहः, तृणजन्यत्वे च वह्नौ गृहीत एव तृणजन्यवह्निभिन्नवह्नित्वेन मणिजन्यत्वग्रह इत्यन्योन्याश्र- याहित्यर्थः । अन्यथा वह्निमात्रस्यैव तदजन्यत्वेनोपस्थितौ वह्नित्वावच्छिन्न इतरव्यभिचारादेव

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ८७ प्रकाशः । रीत्याऽन्योन्याश्रयात् । उच्यते । निमित्तकारणेतरकारणनाशत्वेन कारणत्वम् । यद्वा, विद्यमानाश्रय- द्रव्यनाशे असमवायिनाशो हेतुरेवं साऽसमवायिकारणकद्रव्यनाशे प्रतियोग्याश्रयनाशः । तथाप्यु- भयजन्ये द्रव्यनाशे का गतिः ? आश्रयनाशाजन्यद्रव्यनाशं प्रत्यसमवायिनाशस्य हेतुत्वात् तस्य चाश्रयनाशजन्यत्वात् । अत्राहूः । तन्नेतरसमवधाने तदुभयाभावाभावाभ्यां व्यक्तिविशेषाभावाभावाद् प्रकाशिका । सत्येवानतिप्रसक्तत्वेन ग्राह्यमिति परस्पराश्रय इत्यर्थः । न तु प्रतियोगिप्रसिद्धयर्थं मणिजन्यत्वग्रहो- वह्नावपेक्षणीय इत्यर्थो रूपादावेव मणिनिष्ठे प्रतियोगिप्रसिद्धेरिति । निमित्तकारणेति । नचैव- मपीन्धनानाशजन्यवह्निनाशेऽदृष्टनाशजन्यशरीरनाशे च व्यभिचार इति वाच्यम् । इन्धननाशाद्देवा- न्तरानन्तरं नोत्पद्यते पूर्वानलस्तु स्वावयवक्रियाविभागादिन्यायैनैव नश्यति, एवं शरीरमपीति स्वीका- रात् । नच निमित्तकारणत्वं समवाय्यसमवाय्यन्यत्वमिति तदन्यकारणनाशत्वेन कारणत्वमायाताम् । नचान्यान्यत्वमवच्छेदकमिति वाच्यम् । तस्य कारणतानवच्छेदकत्वेऽपि तत्कोटिप्रवेशे बाधका- भावात् सामान्ये सामान्यस्याप्रयोजकत्वेऽपि विशेषे विशेषस्य प्रयोजकत्वमविरुद्धमेवेत्याशयेनाह । यद्वेति । तथाप्युभयेति । उभयनाशोत्तरभाविनित्यर्थः । आश्रयनाशाजन्येत्याद्युपलक्षणम् । अव्यवहितपूर्वविद्यमानामंवायिकारणकद्रव्यनाशेऽपि समवायिकारणनाशस्य हेतुत्वात् प्रकृतना- शस्य चासमवायिकारणनाशोत्तरकालीनत्वादित्यपि द्रष्टव्यम् । तन्नेतरेति । अव्यवहितविद्यमा- नोभयद्रव्यनाश उभयनाशस्य दण्डचक्रवत्कारणत्वमिति भावः । यथाश्रुतेऽनन्तकारणताकल्पनाप- त्तेः । यत्त्वसमवायिकारणनाशसहितसमवायिकारणनाशत्वेन हेतुत्वे तात्पर्यमिति । तन्न । विशे- ष्यविशेषणभावे विनिगमकाभावात् । किञ्च समवायिकारणसमकालीनद्रव्यस्य नाशे ऽसमवायिकार- णनाश एवासवायिनाशसमकालीनस्य तस्य नाशे समवायिनाशो हेतुरेवं चोभयोत्तरकालीने फलत उभयनाशो हेतुः । वस्तुतो द्रव्यनाशं प्रत्यसमवायिकारणनाशस्य द्व्यणुकादिनाशस्थले कारणत्वावधारणात् यत्रापि समवायिकारणनाशानन्तरं द्रव्यनाशस्तत्राप्यसमवायिकारणनाश एव नाशकः, न चैवं क्षणद्वय आश्रयं विना कार्यस्वीकारापत्तिः । प्रथमक्षणेऽनाश्रितत्ववत् , द्विती- यक्षणेऽपि तथास्वीकाराविरोधात्, एवं च सति गुणकर्मादिनाशे समवायिकारणनाशस्य कारणत्वे क- ल्प्यमाने सामान्यत एव समवायिकारणनाशसमानकाली स्य समवेतस्य नाशे समवायिकारणनाशः कारणत्वेन कल्प्यते अनुगमानुरोधादित्येव बीजमाश्रयनाशस्य द्रव्यनाशहेतुत्वे, तथा चोदाहृतनाशे- मकरन्दः । हेतुत्वप्रहाणुपपत्तेः । तथा च विशेषणोपादानायासोऽपि व्यर्थ इति भावः । निमित्तकारणेति । न चेन्धननाशादपि वह्निनाशादनुगमः । तत्रेन्धननाशाद्वह्नयन्तरं नोत्पद्यते । पूर्ववह्नित्ववयववि- भागन्यायेनैव नश्यतीत्युपगमात् । एवं शरीरनाशोऽपि नादृष्टनाशजन्य इत्यभ्युपगमेनेदम् । ननु निमित्तकारणत्वं समवाय्यसमवायिभिन्नकारणत्वमिति कारणत्वान्तर्भावे गौरवम् । तदनन्तर्भावे तद्गन्यान्धत्वमवच्छेदकं पर्यवस्यति । तच्चानभ्युपगतमिति चेन्न । तदन्यान्यनाशत्वस्यात्र तत्प- र्यवसानात् । तथाच प्रतियोग्यनुगमकतया तत्प्रवेशे तद्धटितस्यावच्छेदकत्वं, न तु तस्यैव । अन- भ्युपगतञ्च तदिति भावः । केचित्तु, एतदस्वरसादेवाह-यद्वेति । तथापीति । न चाश्रयनाशे तदाश्रितद्रव्यतदसमवायिनोर्युगपदेव नाशादिदमसम्भवीति वा- च्यम् । समवायिनाशसमकालं विभागाद् यत्रीसमवायिनाशस्तत्र तत्सम्भवात् । आश्रयनाशा- जन्येत्युपलक्षणम् । असमवायिनाशाजन्यद्रव्यनाशं प्रत्याश्रयनाशस्य हेतुत्वात्, तस्य चासम- वायिनाशजन्यत्वादित्यपि द्रष्टव्यम् । तन्नेतरेति । नचाविद्यमानोभयक्रव्यनाशत्वावच्छिन्ने अस-

८८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां पपन्नम् । एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्याद् यस्य दह- नाऽपेक्षेति न धूमादिसामान्याद्वह्निसामान्यादिसिद्धिः । एतेन व्यतिरेको व्याख्यातः । तथा च कार्यानुपलब्धिलिङ्गभङ्गे स्वभाव- स्याप्यसिद्धेर्गतमनुमानेनेति चेत् । बोधनी । दहनादीनामुपयोग इत्यपि सम्भवान्न धूमादिमात्राद्दहनानुमानसिद्धिरित्याह—एवं तर्ही-इति । एतेन धूमादिविशेषस्य दहनाद्यपेक्षत्वसम्भावनाप्रतिपादनेन दहनादिव्यतिरेकान्न धूमादिमात्रव्य- तिरेकोऽपि सिद्ध्यतीत्याह—एतेन-इति । एवं चानुमानमात्रोच्छेद एव स्यादित्याहँ—तथाच- इति । शिंशपाया वृक्षत्वस्वभाव इत्येतद् वृक्षे शिंशपात्वानुपलब्ध्या लिङ्गेन शिंशपात्वव्यति- रेकोऽनुमानात् सिद्ध्यति, तेन व्यतिरेकासिद्धौ स्वभावस्यासिद्धेरनुमानमात्रोच्छेद एवं इति । प्रकाशः । व्यक्तिविशेषं प्रति तदुभयव्यक्त्योरनन्यथासिद्धयोः कारणत्वं गृह्यते इत्येषा दिक् । ननुः कार्यवैजात्ये तृणस्य वह्निविशेष इव वह्नित्वेन धूमविशेष एव कारणत्वं, न धूममात्रे इति शङ्कया न कार्यात् कारणं काप्यनुमीयेत । यदि चोपस्थितरूपे व्यभिचाराभावात्तेनैव रूपेण कार्यत्वग्रहस्तर्हि कारणतायामपि यत्रोपस्थितरूपे व्यभिचारस्तत्रैव रूपान्तरेण कारणताग्रह इति तुल्यमित्याह । एवं तर्हीति । एवं वह्नेर्धूमविशेष एव प्रयोजकत्वाद् वह्निमात्रव्यतिरेकाद् धूम- मात्रव्यतिरेको नानुमीयेतेत्याह । एतेनेति । निषेध्यतेयेति शेषः । तथा चेति । विपक्षवा- धकमानवेदनीयो हि स्वाभावनियमो बौद्धानाम् । बाधकं च कार्यानुपलब्धी, ततस्तद्भङ्गे कथमनु- पायकः सिद्धयेदित्यनुमानमात्रविलयान्निधैव तदुपगमादित्यर्थः । तदेतद् दूषणं बीजत्वसामान्यं प्रत्यक्षसिद्धमङ्कुरे न प्रयोजकं, किन्तु तद्विशेषः कुर्वद्रूपत्वमतीन्द्रियमिति वदतो बौद्धस्य, प्रकाशिका ऽस्ति द्वयमवच्छेदकं समवायिकारणनाशसमानकालीनसमवेतनाशत्वमसमवायिनाशसमानका- लीनद्रव्यनाशत्वञ्चेति उभयावच्छेदेनोभयोः कारणत्वमित्यभिसन्धायाह । दिगिति । मकरन्द भवायिनाशसहितसमवायिनाशत्वेन हेतुत्वमस्तु । तथाच कथं व्यक्तिविशेषे व्यक्तिविशेषस्य हेतु- त्वम् ? अन्यथा अनन्तसामग्रीकल्पनापत्तेरिति वाच्यम् । तत्रैव तात्पर्यात् । नचात्राप्यन्यतर- स्यावच्छेदकत्वे विनिगमकाभावः । असमवायिनाशात्वादिना तदुभयोरपि हेतुत्वादेव । अत एव सामग्रीभेदः । अन्यत्रान्यतरस्यैव हेतुत्वात् । नचात्राप्यन्यतरस्यैव हेतुत्वमस्तु, कार्यतावच्छेदकभे- दाच्च सामग्रीभेद इति वाच्यम् । विनिगमनाविरहेणोभयोरपि तुल्यत्वात् । वस्तुतस्तु समवायि- कारणानाशाद् द्रव्यगुणकर्मणां नाशदर्शनात् तत्तन्नाशस्याननुगमादनुगतस्य सति सम्भवे त्यागा- योगादविद्यमानांश्रयकासमवेतकार्यनाशत्वावच्छेदेनास्य हेतुत्वकल्पनाद् द्रव्यनाशेऽपि तथा । तथाच युगपत् समवाय्यसमवायिनाश्योरुत्पत्तावपि तन्निप्तकार्यमात्रनाश एवाश्रयनाशो हेतुः । तथाच न सामग्रीभेदः । अत एव समवायिनाशस्थलेऽपि तज्जन्यासमवायिनाशस्यैव द्रव्यनाशकत्वं कॢप्त- त्वादित्यपास्तम् । गुणादिनाशे तस्यापि कॢप्तत्वात् । किञ्चाविद्यमानाश्रयकद्रव्यनाशे आश्रयनाशो हेतुरविद्यमानासमवायिकारणकद्रव्यनाशेऽसमवायिनाशो हेतुरस्तु । तथाच कॢप्तसामग्रीत एव प्रकृतकार्योपपत्तौ न सामग्रीभेदः । अविद्यमानता च द्रव्यनाशपूर्वक्षणे बोध्या । तेन सत्समका- लाविद्यमानत्वमादाय न व्यभिचार इति विद्वद्भिः परिचिन्तनीयमिति । एतत् सर्वमभिसन्धा- योक्तं दिगिति ॥

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ८६ प्रत्यक्षाद्यनुपलम्भगोचरो जातिभेदो न कार्य्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः(१) । अस्माकन्तु यत्सामान्याक्रान्तयोर्ययोरन्वयव्यतिरेकवत्ता तयोस्तथैव हेतुहेतुमद्भावनिश्चयः । तथाचावान्तरविशेषसद्भावेऽपि न नो विरो- बोधनी । परिहरति-न-इति । प्रत्यक्षाद्यनुपलम्भाभ्यां गृहीतान्वयव्यतिरेकं बीजत्वादिव्यजातीयमङ्कुरादिकार्य्यं न प्रयोजकं कारणं किन्तु तद्विशेषः कुर्व्वद्रूपजातीयत्वमिति वदतो बौद्धस्यैष प्रसङ्गो बाधक इति तस्या- प्रामाणिकं कारणगतं विशेषमिच्छतोऽप्रामाणिकस्यैव कार्य्यगतस्यापि विशेषस्य सम्भावनया तस्यैव तत्कारणप्रयोज्यत्वं, नतु तद्विजातीयस्येति शङ्कावशादनुमानोच्छेदप्रसङ्गात् । एतच्च क्षणभङ्गे स्फुटी- भविष्यति । अस्माकं पुनः परिदृश्यमानजातीययोरेव कार्यकारणभावं नियच्छतां कार्य्यगतवि- शेषसम्भावनायामपि तज्जातीयमात्रात्तज्जातीयानुमाने न कश्चिद्विरोधः । न च तृणादिजन्योऽग्न्य- प्रकाशः । नास्माकमित्याह । प्रत्यक्षेति । अप्रामाणिकबीजकुर्व्वद्रूपत्ववदप्रामाणिक एव कार्य्यविशेषो यस्य कारणविशेषापेक्षेति बौद्धस्य दोष इत्यर्थः । अस्माभिस्त्वप्रामाणिको विशेषो नोपेयत इति भावः । अस्माकं त्विति । यत्र कारणसामान्यं कार्य्यसामान्ये व्यभिचारि दृश्यते, तत्रैव विशिष्य कारणताग्रहः । यत्र तु स न दृश्यते तत्रोपस्थितसामान्येनैव कार्यकारणताग्रहः । यदि च तृणा- दिवह्निविशेषाद् धूमविशेषः स्यादित्युच्यते, तदा नेदमनिष्टमित्यर्थः । ननु, कार्यकारणभावग्रहो न तावद्व्यक्त्योरेव । स हि व्यक्तिमात्रमपेक्ष्य ? तद्विशेषं वा ? । नाद्यः । घटो यदि यावत्पटजातीयापेक्षणीयापेक्षः स्यात् पटजातीयः स्याद् , घटजातीयो न स्या- दित्यत एव बाधकात् । विशेषोऽपि पूर्ववर्त्तित्वमात्रं वा ? तत्तद्व्यक्तित्वं वा ? । नाद्यः । यावत्पटा- दिजनकजन्यत्वे घटादिव्यक्तीनामभेदाद्वैजात्यापत्तेः । रासभादिसाधारण्याच्च । अत एव नान्त्यः । व्यक्त्योरेव कार्यकारणभावे पूर्वं तदनिश्चये प्रवृत्त्याद्यनुपपत्तेश्च । नाऽपि जात्यपेक्षया । भक्षित- विनष्टबीजादिव्यक्तिष्वव्याप्तेः । न चेष्टापत्तिः । तस्य सर्वथा कार्याजननाच्छिलाशकलतुल्य- त्वात् । मैवम् । बीजादिव्यक्तीनामेव बीजत्वादिन। सामान्येनानन्यथासिद्धान्वयव्यतिरेकवत्त्वेन कारणत्वात् । क्वचित् कार्य्यव्यतिरेकश्च सहकारिवैकल्यात् । अत एव शिलाशकलवैषम्यम् । न हि यस्मिन् सति कार्यं भवत्येव तत्कारणम् , अपि तु यस्मिन् सत्येव भवति । एतच्च भक्षित- विनष्टेऽपि सामान्यतोऽस्त्येव । न च सामान्येनापि रूपेण या व्यक्तिः कार्यं जनयत्येव सा कारणं प्रकाशिका । अस्माभिरिति । वह्निवैजात्यं चोक्तयुक्त्या प्रामाणिकमेवेति भावः । घटो यदीति । व्यक्ति- मात्रकारणत्वे यावत्पटापेक्षत्वाभ्युपगमे घटस्येति बोध्यम् । एवं पूर्ववर्त्तिव्यक्तिमात्रकारणत्वेऽपि । यावत्पटजनकजन्यत्वाभ्युपगम इत्यवधेयम् । रासभादीति । पूर्ववर्त्तित्वमात्रस्य तत्रापि सत्त्वा- दित्यर्थः । अत एवेति । रासभादिसाधारण्यादेवेत्यर्थः। ननु रासभादिविलक्षणव्यक्तीनामेव कार- णत्वं तत्त्वेनेत्यरुचेराह । द्रव्यत्वे सतीति । तद्व्यक्तेः कारणताप्रमाणकाभावादिति भावः । य- स्मिन् सत्येवेति । यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने सत्येवेत्यर्थः । तदुक्तम् । सामान्यत इति । मकरन्दः । उभयत्र व्यक्तिमात्रापेक्षित्त्वेन यावत्पटापेक्षणीयापेक्षित्त्वं घटस्य बोध्यम् । एवं पूर्ववर्त्तिमात्रा- पेक्षित्त्वेन यावत्पटादिजनकजन्यत्वं घटादेर्बोध्यम् । अत एवेति । रासभादिसाधारण्यादेवेत्यर्थः । यस्मिन् सत्येवेति । यद्धर्मावच्छिन्ने सत्येव सहकारिसमवधानात् कार्यं भवति तदवच्छिन्नं कार- णमित्यर्थः । तदिदमाह । सामान्यत इति । यागादौ बहुवित्तव्ययायाससाध्ये फलावश्यम्भाव- ( १ ) प्रसङ्ग इति पाठान्तरम् । १२ न्या० कु०

६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [६ कारिकाव्याख्यायां धः । किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकम् ? तृणादीनां विशेष एव नियतत्वादिति चेत् । न । तेजोमात्रोत्पत्तौ पवनो निमित्तम्, अवयवसंयोगो- ऽसमवायी, तेजोऽवयवाः समवायिनः । इयमेव सामग्री गुरुत्ववद्द्रव्यसहिता बोधनी । वान्तरजातिभेदोऽप्रामाणिको येन तदङ्गीकारे सर्वत्रानाश्वासः स्यादिति किं पुनः-इति । किमा- क्षेपे । विशेषे स्वे स्वे कार्यविशेषे नियतत्वेनाभ्युपगमादिति । अनुवृत्तं तु न किञ्चित् दृश्यते इति भावः । न-इति । समवाय्यसमवायिनिमित्तानामनुवृत्तिरस्ति तावत् सामान्यप्रयोजकम् । अनुवृ- त्तैव च सामग्री तत्तत्सहकारिभेदवशात्पिण्डितादिविशेषोत्पत्तौ निबन्धनमुद्भूतस्पर्शतेजोऽवयवत- त्संयोगपवनास्तार्णतार्णसामान्यसामग्रीति न कुत्रचिद्विरोध इति ॥ ६ ॥ प्रकाशः । न त्वन्येति वाच्यम् । यागादौ बहुवित्तव्ययायाससाध्ये यागत्वसत्त्वेऽपि किमियं व्यक्तिः स्वर्गजनिका, न वेति संशये प्रवृत्त्यभावापत्तेः । यदि सा पापव्यक्तिर्नरकजनिका, तदा कृतेऽपि प्रायश्चित्ते नरकं जनयिष्यत्येव अन्यथा तु प्रायश्चित्तं विनाऽपि न नरकमित्यभयथापि प्रायश्चित्ते प्रवृत्त्यनुपपत्ते- श्चेति । किं पुनरिति । दहनगतं सामान्यं दहनसामान्यं तेजस्त्ववह्नित्वादि । तेन नोत्तर- विरोधः । तृणादीनामिति । तथा च सामान्यमाकस्मिकं स्यादिति भावः । तेजोमात्रेति । तेजः पदं कार्यतेजःपरम् । न च सूर्यालोके व्यभिचाराद् न पवनस्तेजोमात्रे निमित्तमिति वाच्यम् । निर्वातस्थितस्य दीपस्य वातं विना नाशदर्शनेन तत्र पवननिमित्तकत्वनिश्चयादन्यत्रापि तेजस्त्वेन पवनजन्यत्वानुमानात् । न च वह्नित्वमुपाधिः । तैजसशरीरस्य पाञ्चभौतिकत्वेन पवनजन्यतया प्रकाशिका । यदि सेति । नचाजनकत्वेऽपि तस्या जनकजातीयनाशार्थं प्रायश्चित्ते प्रवृत्तिरिति वाच्यम् । दुःखा जनकत्वेन द्वेषाविषयतया तन्नाशार्थमप्रवृत्तेः, निष्प्रयोजनकत्वेन द्वेषमात्रात् कृतेरनुत्पत्तेश्चेत्या शयात् । निर्वातस्थेति । ननु वाताभावे दीपध्वंस इत्येतावता तस्य कारणत्वं नायाति कार्या- नुत्पादप्रयोजकव्यतिरेकप्रतियोगिन एव कारणत्वात् । न वा वाताभावो वह्निनाशे कारणं समवा- यिकारणासमवायिकारणनाशयोरेव द्रव्यनाशकत्वादिति चेन्न । विनाशपदेन सजातीयानुत्पादप्रयु- क्तसन्तानोच्छेदस्य विवक्षितत्वात् । तथाचाशुविनाशितया पूर्वदीपनाशे वातरूपकारणाभावेनाग्रि- मानुत्पादे सति सन्तानोच्छेद इत्यत्र तात्पर्यम् । तेजस्त्वेन=जन्यतेजस्त्वेन । न चेति । साधना- वच्छिन्नसाध्यव्यापको यः स उपाधिरतो न वातध्वंसे साध्याव्यापकत्वम् । नन्वेवमपि वह्नित्त्वाव- च्छिन्नने पवनस्य कारणत्वमायाति न तु जन्यतेजोमात्रे, पवनोत्कर्षण वह्न्युत्कर्षादपि वह्नित्त्वावच्छि- न्ने पवनस्य कारणत्वमिति चेत् ? वह्नित्वापेक्षया जन्यतेजस्त्वस्य सामान्यतया तस्यैवावच्छेदकत्वात् । नच वह्नित्वं जातिरूपतया लघ्विति वाच्यम् । भास्वररूपसमवायिकारणतावच्छेदकतया जन्यतेज- मकरन्दः । निश्चये सत्येव प्रवृत्तेरिष्टापत्तिरिति यदि ब्रूयात्, तदा दोषान्तरमाह । यदि सेति । नचाजनकव्य- क्तेरपि तज्जातीयतया द्वेषात्तन्नाशार्थं प्रवृत्तिरिति वाच्यम् । दुःखजनकत्वे द्वेषस्याप्यभावात्, निष्प्रयोजने द्वेषमात्रात् कृतेरनुत्पत्तेश्चेति भावः । निर्वातस्थितस्येति । ननु नैतावता कारणत्वम् न हि कारणाभावेन कार्यध्वंसः, किन्त्वनुत्पाद इति चेन्न । नाशपदेन प्रवाहानुत्पादेनात्यन्तो- च्छेदस्य विवक्षितत्वात् । तथाचाऽऽशुनाशितया पूर्व प्रदीपनाशेऽपि वातं विनाऽग्रिमतदनुत्पादा- दित्यत्र तात्पर्यम् ॥ तेजस्त्वेन=कार्यतेजस्त्वेन । न चेति । न च पवनध्वंसादिषु साध्याऽव्याप्तिः । साधनावच्छि-

प्रथमस्तबके ] ब्रह्मप्रकृतिकारणतावादपूर्वपक्षः । ४१ पिण्डितस्य । इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनं, तत्रापि जलं प्राप्य दिव्यं, पार्थिवं प्राप्य भौमम् , उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयम् ॥ ६ ॥ तथाप्येकमेकजातीयमेव वा किञ्चित् कारणमस्तु, कृतं विचित्रेण । दृश्यते बोधनी । अथ वैचित्र्यादिति हेतुमवतारयितुं शङ्कते—तथापि-इति । यद्यपि कार्यस्य नियतजातीय- कारणनियमस्तथापीति । कथं तर्हि कार्यवैचित्र्यमित्यत आह—दृश्यते हीति । न चात्र प्रकाशः । तत्र साध्याव्यापकत्वात् । आगमोऽप्यत्रास्त्येवेत्येके । पवनोत्कर्षेण वह्न्युत्कर्षदर्शनात् तेजोमात्रे तस्य निमित्तत्वं न वह्निमात्रे, सामान्यस्य सामान्यं प्रति प्रयोजकत्वे विशेषस्योपाधितायामतिप्रस- ङ्गादित्यन्ये । पिण्डितस्य=सुवर्णस्य । दिव्यमिति दृष्टान्तार्थम् । तत्राप्रश्नात् ॥ ६ ॥ एतावता कारणमात्रे सिद्धेऽपि सापेक्षत्वादित्यत्र सिद्धसाधनं शङ्कते । तथापीति । एकमिति त्रिदण्डिमतसमुत्थानम् , तेषां ब्रह्मण एव सकलकारणत्वात् । एक- जातीयमिति साङ्ख्यमतम् । तेषां पुरुषाणां भेदात् प्रतिपुरुषं च महत्तत्त्वानां भेदेऽपि प्रकृति- विकारत्वात् प्रकृतेश्चैकत्वादेकजातीयत्वात् । तथाच कारणस्यैकव्यक्तित्वेनैकजातीयत्वेन वा नेश्वर- सिद्धिरस्मदादिनापि तद् द्रष्टुं शक्यत्वादिति प्रकृतसङ्गतिः । न चाविचित्राद् कारणाद्विचित्रं कार्य- प्रकाशिका । स्त्वस्यापि जातेः सिद्धेः । अत एव तेजस्त्वपेक्षया द्रव्यत्वमेव सामान्यमिति तदेव पवनजन्य- तावच्छेदकं किमिति न स्वीक्रियत इत्यनुयोगो निरस्तः । द्रव्यत्वस्य नित्यवृत्तित्वात्, जन्यद्रव्य- त्वस्य पृथिवीत्वसङ्करेणोपाधित्वात् । ननु पृथिवीजन्यत्वमेवोपाधिः स्यादत आह । आगमो- ऽपीति । तथाच पक्ष एव साध्यव्यापकत्वमिति भावः । आगमस्तु— वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भ्राजस्तद्रूपगुणमुच्यते ॥ इत्यादिः । यदिद्वेषयोरित्यादिन्यायावतारे निर्वातस्थदीपस्येत्यादिकमेव सम्यक् । तदनवतारे त्वेताव- तापि वह्निमात्रे कारणत्वमायाति न तु जन्यतेजोमात्र इत्यरुचिं विभावयति । अन्य इति । तत्राप्रश्नादिति । यद्यपि तत्गतसामान्यमपि प्रश्नविषय एव दिव्यस्यापि दहनत्वात्, तथापि तार्णादिदहनसामान्यस्यैव प्रस्तुततया प्रश्नविषयत्वमित्याशयेनेदमुक्तम्। एवं च पिण्डितस्य सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्येको ग्रन्थः, तेन पिण्डितस्यापि दृष्टान्तता लभ्यते । अन्यथा तस्यापि प्रश्नविषयत्वेनासङ्ग्रहापत्तेः । न च औदर्यस्यापि प्रश्नाविषयतया तत्रोत्तरविरोधः, तार्णपदेन पार्थिवेन्धनजन्यवह्नेरेवोक्तत्वेन तस्यापि प्रश्नाविषयत्वात् । दृष्टान्तपरत्वाद्वा ॥ ६ ॥ प्रकृतेरिति । एकप्रकृतिविकारत्वादेकजातीयत्वं महत्तत्त्वानां पुरुषभेदेन भेदेऽपीत्यर्थः । अस्म- मकरन्दः । न्नसाध्यव्यापकत्वादिति भावः । अत एवाह । तैजसेति । आगमोऽपीति । “ज्योतिरुत्पद्यते वायो”रित्यादिविष्णुपुराणरूप इत्यर्थः । यदिद्वेषयोरिति न्यायात्तावता वह्निसामान्यमात्रे तद्धेतुत्वं सिद्ध्यति, न तु तेजोमात्रे । अन्यथा द्रव्यमात्र एव तदापत्तेरित्यनुशयादाह । अन्य इति । दिव्य- मितीति । यद्यपि दिव्यस्यापि दहनतया तद्गतसामान्यमपि प्रश्नविषयः, तथापि तार्णऽऽदिदह- नसामान्यस्य प्रश्नविषयत्वादस्यातथात्वमित्याशयः । यद्यप्येवं पिण्डितस्येत्यप्ययुक्तं, तत्राप्य- प्रश्नात् । तथापि तदपि दृष्टान्तार्थमेव । एवञ्च पिण्डितस्य सुवर्णस्य दिव्यमिति दृष्टान्तार्थमित्ये- कग्रन्थो बोध्यः । दिव्यमित्युपलक्षणम्, उदर्यस्यापि दृष्टान्तत्वमित्येके । तार्णपदस्य पार्थिवेन्धन- दहनपरतया तत्र प्रश्न एवेत्यन्ये ॥ ६ ॥ प्रकृतेश्चेति । तथाचैकप्रकृतिविकारत्वान्महत्तत्त्वादीनामेकजातीयत्वमित्यर्थः । तद् द्रष्टु-

३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्या ह्यविलक्षणमपि विलक्षणाऽनेककार्यकारि । यथा प्रदीप एक एव तिमिरापहारी, वर्त्तिविकारकारी रूपान्तरव्यवहारकारीति चेन्न । वैचित्र्यात् कार्य्यस्य । एकस्य न क्रमः क्वापि वैचित्र्यञ्च समस्य न । शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः ॥ ७ ॥ बोधनी । दृश्यते स्वरूपसहकारिवैलक्षण्यमिति भावः । अत्र हेतुमवतारयति—वैचित्र्यात्-इति । कथं साध्यमेव कारणवैचित्र्यं हेतुरित्यत्राह-कार्य्यस्य—इति । व्याचष्टे-एकस्य-इति । न तावदेकमेव कारणम्, एकस्याक्रमत्वेन कार्य्यक्रमानुपपत्तेः । अनेन कालकृतवैचित्र्यं कारणवैजात्ये हेतुर्दर्शितः । यद्वा, प्रथमसंग्रहश्लोकानुपन्यस्तमेव कार्य्यक्र- ममैवाशङ्कितस्य कारणैकत्वस्य निराकरणाद्योक्तासंग्रहोक्तं वैचित्र्यमवतारितमिति । समस्यापि शक्तिभेदात्कार्य्यवैचित्र्योत्पत्तिमाशङ्कयाह-शक्तिभेदो न च-इति । धर्मिव्यतिरेकान्यतिरेकविक- ल्पदुःस्थत्वादित्येति भावः । यद्वा, भावादभिन्नः शक्तिभेदो न कारणं भावमात्रकारणत्वेन समान- योगक्षेमत्वादिति । एकप्रसरेण योजनाभेदे तु कारणवैचित्र्यस्वीकार इति भावः । ननु स्वभाव एवायं भावस्य यत्समं च विषमं कार्य्यं करोतीति तत्राह-अभिन्नस्वभाव-इति । य एवास्यैक- स्मिन् जनयितव्ये स्वभावः स एवान्यस्मिन् जनयितव्येऽपि, स्वभावस्य दुर्लङ्घ्यत्वात् । ततश्चा- भिन्नस्वभावस्य कथं विलक्षणकार्य्यनिर्माणमिति भावः । अभिन्न इत्यस्य पूर्वशेषत्वे त्वयमर्थः प्रकाशः । महच्चरमित्याह । दृश्यते हीति । तिमिरमालोकाभावः । तदपहार आलोकः । तत्कारी दीपः पिण्डितरूपः । रूपान्तरं घटादिरूपम् । प्रदीपे च. न स्वरूपभेदसहकारिभेदावित्यर्थः । तथाच तद्दृष्टान्तेनान्येषामपि विचित्रकार्याणामविचित्रकारणजन्यत्वमनुमेयमिति भावः ॥ न वैचित्र्यादिति । दृष्टान्तेऽप्यविचित्रकारणजन्यत्वमसिद्धमिति भावः ॥ एकस्येति ॥ एकस्य कारणस्य सम्बन्धी न क्रमः कार्याणाम् । समस्यैकजातीयस्य च कार- णस्य सम्बन्धि न वैचित्र्यं कार्याणाम् । शक्तिविशेषो न कार्यवैचित्र्यहेतुः, धर्म्यभिन्नो यतः । चो हेत्वर्थे । विचित्रकार्यजननस्वभावादपि कार्यवैचित्र्यमुपपाद्यम् । एकत्र कार्ये यत्स्वभावो जनकस्त- दितरकार्यजननेऽपि तत्स्वभावो वाच्यः । अन्यथैकस्य स्वभावभेदादेकत्वादिहानिप्रसङ्ग इत्येकस्व- प्रकाशिका । दादीनापीति । यद्यपि ब्रह्माणास्मदादिना वा शक्याधिष्ठानं तथापि तावन्मात्राभिज्ञसिद्धावपि न सकलदर्शित्वसिद्धिरित्यत्र तात्पर्यम् । तदित्यव्ययं षष्ठ्यन्तम् । तथाच तस्य द्रष्टुं शक्यत्वादित्यर्थः । तिमिरस्य तेजोऽभावतया तदपसारस्तेज एव न च तत्कारित्वं तस्येत्यत आह । पिण्डितरूप इति । तथा च तेजःकारित्वं तेजसो व्यक्तिभेदादविरुद्धमिति भावः । प्रदीपे चेति । अयं पूर्वपक्षिणोऽभिमानं इति भावः । अत एवाग्रेऽभिमानखण्डनमेव करिष्यति दृष्टान्तेऽपीत्यादिना । एकस्य क्रमः परैरपि नाभ्युपगत इत्यतः पूरयति सम्बन्धी कार्याणामिति चेति । एवमग्रे- मकरन्दः । मिति । तदित्यव्ययं षष्ठ्यन्तम् । तेन, तस्य द्रष्टुं शक्यत्वादित्यर्थः । ननु तिमिरं तेजोऽभावः, तदपहारं एव प्रदीपो, न तु तत्कारी, अभेदे जन्यजनकभावा- नुपपत्तेरित्यत आह । तिमिरमिति । तथा च व्यक्तिभेदमादायाविरोध इति भावः । प्रदीपे चेत्यापातः अत एव दूषयति । दृष्टान्तेऽपीति । एकस्य कारणस्य क्रमो न पराभ्यु- पग़तोऽपीत्यनाक्षिप्तसमाधानमिति पूरयित्वा व्याचष्टे । एकस्येति । एवमग्रेऽपि । अक्रमा

न तावदेकस्मादनपेक्षादनेकम् । अक्रमात् क्रमवत्कार्यानुपपत्तेः । क्रमवत्ता- वत्कार्यकारणस्वभावत्वात्तस्य तत्तथा यौगपद्यवदिति चेत् । अयमपि क्षणभङ्गे परिहारो न तु सहकारिवादे, पूर्वपूर्वानपेक्षायां क्रमस्यैव व्याहतेः । क्रमनियमे स्वभावः कार्यान्तरे जनयितव्येऽपि नापैति यावद्द्भावभावित्वात् स्वभावस्येति । आद्यं पादं विवृणोति- न तावत्-इति । नैकस्मात् क्रमवत्सहकारिविधुरादनेकं क्रमवत् कार्यं, भवतीति शेषः । अक्रमात्-इति । क्रमवत्सहकारिवैधुर्य्येणासम्भवायितक्रमादिति । यद्वा, कार्यस्य भेदस्तावत् कारणभेदात् स्यात् यथा घटपटयोः, तदभावेऽपि कालभेदाद्वा यथा दुग्ध- दध्नोः । अत्र तु पूर्वः कल्पो न भवति कारणस्यैकत्वाभ्युपगमादित्यभिप्रेत्योत्तर आह-न तावत्- इति । सहकार्यभावेन कालक्रमायोगादिति । अत्र तु नानेककार्यं भवतीति यथास्थित एव ग्रन्थः सङ्गच्छत इति । शङ्कते-क्रमवत्-इति । तस्य कारणस्य । तत् कार्यं । 'तथा क्रमवद् । यथा ह्येकस्य यौगपद्यम् । अनेकेषामेककालता हि यौगपद्यं, तत् कथमेकस्य भवेत् तत्रापि स्वभावत एव युगपत् कार्याणि कुर्वन् दृष्टान्त इत्यर्थः । एवं वदतां चार्वाकवराकेण सहकारिवाद एवाभ्युपगतः स्यादिति प्रतिपादयन्नाह-अयमपि-इति । यावत्कार्यकरणसमर्थस्वभावो भावो जातः स ताव- न्त्यपि कार्याणि तदैव कुर्यात् समर्थस्य क्षेपायोगात् । ततः स क्षणान्तरे अर्थक्रियाभावादसत्त्व- मेवेति यदा बौद्धः क्षणभङ्गं ब्रूयात् तत्रैष परिहारः सङ्गच्छते । एकस्यैव स्वभावतः क्रमेणानेकका- र्यकरणमुपपद्यत इति । अपि चेति समुच्चयो बौद्धस्यैव शिरसि सम्प्रहार इत्येतदपेक्ष्येति । सह कारिसन्निधिक्रमेणैकमेव तत्तत्कार्यं करोतीति सहकारिवादः, न तस्यायं बाघ इति । कथमबाधकं यावत्ता स्वेतरनिरपेक्षमेकमेव क्रमेण कार्याणि करोतीत्युक्तिः सहकारिवादं बाधेतैवात आह-पूर्व- भावजन्यत्वेन विजातीयकार्याणामप्यैकजात्यं स्यादित्यर्थः । अक्रमादिति । क्रमप्रयोजकसहकारि- विधुरादित्यर्थः । क्रमवदिति । सहकारिविरहेऽपि क्रमिककार्यजनशीलत्वादक्रमस्यापि क्रमिकका- र्यजनकत्वं स्यादित्यर्थः । यौगपद्यवदिति सप्तमीसमर्थाद्वतिः । यथा कार्ययौगपद्ये अयुग- पत्स्वभावोऽपि दीपः कारणमेवमक्रमोऽपि क्रमिककार्येपु कारणं स्यादित्यर्थः । तत्-कार्यम् । तथा-क्रमवदित्यर्थः । अयमपीति । समर्थस्य विलम्बानुपपत्तेरनेकानि क्रमिकाणि कार्याण्युत्प- त्त्यनन्तरमेव कुर्यादित्यत्र समर्थोऽपि न तथा, क्रमवत्तावत्कार्यकरणस्वभावस्योत्पादादिति न विरुद्धधर्माध्यास इति क्षणभङ्गपक्षे परिहारः सम्भवी । स्थैर्यपक्षे तु क्रमिकसहकार्यापेक्षां विना तादृशः स्वभाव एव न स्यादित्यर्थः । पूर्वपूर्वकर्मिककार्यानपेक्ष उत्तरकार्योत्पादः ? तत्सापेक्षो वा ? । आद्ये, पूर्वेति । विलम्बे ऽपि नित्यस्य कालादेः क्रमिककार्यजनकत्वमस्त्येवेत्यत आह । क्रमप्रयोजकेति । ननु प्रथमांस- मर्थत्वे वैम्यम् न हि यौगपद्यं कारणस्वभावजन्यं किन्तु युगपत्कालीननि कार्याणीत्यत आह । सप्तमीसमर्थादिति । ननु स्वभाववादेन परिहारः स्थैर्यपक्षेऽपि संभवत्येव तत्कुतो न सहका- रिवाद इत्युक्तमत आह । समर्थस्येत्यादि स्वभाव एव न स्यादित्यन्तम् । तथा च परैः सहकारिविलम्बेन विलम्बाभ्युपगमात्, स्वभावस्य कुर्वद्रूपात्मकस्य नियामकत्वं वक्तुं शक्यते स्थिरवादिनान्तु तादृशस्वभावस्य सहकारिणं विनानुपपत्तिः । तत्स्वीकारे तु विजातीयं कारणं सिद्धमेवेत्यर्थः । ननु कारणभेदे कार्यभेदः सत्यदहनत्वे दहनत्वे चोपपद्यत इति कुतो नियतं- दपि नित्यात् कालादेः क्रमेण कार्याणीत्यत आह । क्रमप्रयोजकेति ।

६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां त्वनपेक्षाऽनुपपत्तेः । नाप्यनेकमविचित्रम् । यदि ह्यन्यूनमनतिरिक्तं वा दहनकारणमदहनस्या- पि हेतुर्नासावदहनो दहनो वा स्यादुभयात्मको वा स्यात् । न चैवम् । बोधनी । इति । पूर्वपूर्वमुत्पाद्योत्तरोत्पादनं हि क्रमः, अन्यथा यौगपद्यप्रसङ्गात् । तत्र स्वेतरनिरपेक्षस्य कार्योत्पादने पूर्वोत्पादनमपेक्ष्योत्तरोत्पादनमित्येवमात्मकः क्रमो बाध्यते । क्रमाङ्गीकारे च पूर्वपूर्व- मुत्पादनमुत्पाद्यमानं वापेश्क्षमाणस्य कार्यकारकत्वमिति स्यात् । तत्र स्वेतरापेक्षालक्षणसहकारिवादः सिद्धः स्यादिति । द्वितीयपादं व्याचष्टे—नाप्यनेकमिति । नानेकमप्यविचित्रमेकजातीयं कारणं विचि- त्रस्य कार्यस्येति । कुतो नैवमित्याशङ्क्य किं तत् कारणं दहनैकजननस्वभावम्, अदहनैकजनन- स्वभावम् उभयजननस्वभावं वेति विकल्पं हृदि निघाय प्रथमे दोषमाह—यदि हि—इति । असावदहनाभिमतो नादहनः स्यात् किन्तु दहनसामग्रीजन्यत्वेन दहन एव स्यादिति भावः । द्वितीयेऽप्याह—दहनो वा—इति । अदहनसामग्रीजन्यत्वादिति । तृतीयेऽप्याह—उभयात्मक- इति । उभयमप्युभयात्मकं भवेदिति । विपर्ययस्तु दृश्यत इति । शक्तिभेदो नचेत्येतदवतारयितुं प्रकाशः। हेत्वभावादित्यर्थः । अन्त्ये, क्रमेति । तस्यैव द्वितीयस्य कारणस्यापेक्षणादित्यर्थः । एकजातीयं कारणं दहनजनकैकस्वभावं वा ? अदहनजनकैकस्वभावं वा ? उभयजनकस्वभावं वा ? । आद्ये दोषमाह । नासाविति । कारणाभावादित्यर्थः । भवन् वा दहनात्मकॊ भवेदित्याह । दहनो वेति । इतरदहनवत्तद्धेतुस्वभावप्रसूतत्वादित्यर्थः । दहनजनकैकस्वभावस्य अदहनजनकत्वे व्याघातोऽ- पीति भावः । द्वितीये तु यथाव्याख्यातवैपरीत्यं फक्किकार्थः,- नाऽसौ दहनोऽदहनो वा स्यादिति, कृत्वा । तृतीये, उभयात्मक इति ॥ अत्र च पटो यदि यावद्दहनजनकजन्यः स्यात् पटो न स्याद् , दहनो वा स्यादित्यदहनदहनत्वयोरापादनम् । अदहनो वा यदि तथा स्याद् दहनः प्रकाशिका । दहनत्वमेवापादनीयमतो विकल्पयति । एकजातीयमित्यादि । अदहनत्वाभावदहनत्वयोः पौनरुक्त्यमतोऽन्यर्थार्थप्रतिपत्तये हेतुं पूरयति । कारणाभावादिति । तथा चादहनेऽनुत्पत्ति- दहनत्व आपात, इत्यर्थः । एवमग्रेऽपि । यथाश्रुते वैयधिकरण्यं तृतीये चोभयात्मकत्वमापायम- प्रसिद्धमित्यन्यथा तर्कमाह । अत्र च पटो यदीति । इत्यदहनदहनत्वयोरिति । यद्यप्य- 'दहनत्वं प्रथमतर्केण नापाद्यं किन्तु तदभावो दहनजकस्वभावत्वे तर्कानुपदर्शनं च,तथाप्यत्रेतिशब्दः प्रकारवची तथा च दहनो यद्यदहनजनकस्वभावजन्यः स्याद्दहनो न स्यात् अदहनो वा स्यादिति द्वितीयस्तर्कः। स च द्वितीयकल्पे यथाव्याख्यातवैपरीत्यमित्यादिग्रन्थेन दर्शितप्रयोग इति तत्फलमेव दर्शितं अदहनदहनत्वयोर्यथायोग्यं प्रथमद्वितीयात्त्वयः । तृतीयतर्कमाह अदहनोऽयमिति । मकरन्दः । यथाश्रुते वैयधिकरण्यादाह । अत्र चेति । श्रीगणेशाय नमः । यदि हि अन्यूनमनतिरिक्तं चेति । अन्यूनानतिरिक्तं दहनकारणमेव तदेकजातीयं कारणं यदि स्यादसौ प्रसिद्धोऽदहनो न स्यात् नोत्पद्येत दहन एव वा स्यादित्येका योजना । अन्यूना नतिरिक्तमित्यत्र विभक्तिविपरिणामेन अदहनस्यापि हेतुर्यद्यन्यूनानतिरिक्तस्तदेकजातीयकारणं स्यादसौ दहनो न भवेत् अदहन एव वा स्यादिति द्वितीया । तदेकजातीयं कारणमन्यूनानतिरिक्तं दहनकारणमदहनस्यापि हेतुः स्यादसावुभयात्मको भवेदिति तृतीया ॥

प्रथमस्तबके ] प्रकृतिकारणतायादखण्डनम् । ६५ शक्तिभेदादयमदोष इति चेन्न । धर्मिभेदाभेदाभ्यां तस्यानुपपत्तेः । असङ्कीर्णो- भयजननस्वभावत्वादयमदोष इति चेत् । न । न हि स्वाधीनमस्यादहनत्वम् , अपि तु तज्जनकस्वभावाधीनम् । तथाच तदायत्तत्वादहनस्यापि तत्त्वं केन वारणीयम् । न हि तस्मिञ्जनयितव्ये नासौ तत्स्वभावः । तस्माद्विचित्रत्वात् बोधनी । शङ्कामाह-शक्तिभेदात्-इति । नानात्वादेकस्यैव कार्यवैचित्र्योपपत्तेर्न पूर्वोक्तदोष इति । न- इति । सा हि शक्तिर्धर्मिणो स्याद् भिन्ना वा ऽभिन्ना वा भिन्नाभिन्ना वा, प्रथमे शक्तिरेव कारणं स्यात् तदन्वयव्यतिरेकानुविधानात् कार्यस्य । न द्वितीयः, शक्तेरेवापलापात् । न तृतीयः, प्रमाणा भावात् तद्व्याघाताच्च । तेन भेदाभेदाभ्यामिति ग्रन्थश्च प्रत्येकसमुदायपरो योजनीयः । यद्वा, दहनादहनजननशक्तिमतः कारणाज्जातस्य कार्यस्य दहनादहनात्मकत्वप्रसङ्गेन विरुद्धधर्मसंस- र्गाद् भेदः स्यात् एकसामग्रीजन्यत्वेनाभेदश्च स्यादिति शक्तिभेदानुपपत्तिरिति । श्लोकशेषं विवरीतुं शङ्कते — असङ्कीर्ण-इति । नायं दहनादहनायात्मकत्वप्रसङ्कदोषोऽस्तीत्यर्थः । न- इति । यदि हि स्वाधीनमस्यादहनस्यादहनत्वं तदा दहनस्यादहनप्रसङ्गो वक्तुं न शक्येतापि, न चैवं, किन्तु कारणगतादहनजननस्वभावायत्तम् , तथा च दहनस्यापि तदेकसामग्रीकस्य तत्त्वमदहनत्वं दुर्वारमिति । एतदेव श्लोकशेषेणोपपादयति नहि-इति । तस्मिन् दहने जनयि- तव्येऽनासौ भावो दहजननस्वभावो न भवति, स्वभावभेदाम्युपगमे तु कारणवैजात्यं स्यादिति भावः । उपसंहरति-तस्मात्-इति । वस्तु कार्यवैचित्र्यात् कारणवैचित्र्यमभ्युपगम्यैव क्षणभ ङ्गित्वाद् भावानां स्वरूपत एव वैचित्र्यं न त्वेकस्यैवानुयायिनः सहकारिनिबन्धनं वैचित्र्यमिति प्रकाशः । स्यादित्युभयापादनमिति नाप्रसिद्धिः । ननु, दहनजनकस्यैव धर्मभेदमुपादायादहनजनकत्वान्नो- क्तदोष इति शङ्कते । शक्तिभेदादिति । स धर्मभेदो न धर्मिभिन्नः तथा सति धर्मिणोऽभिन्न- त्वात्तदभिन्नस्य शक्तिरूपधर्मस्य भेदानुपपत्तेः । नापि धर्मिभिन्नः, तस्यैव कारणान्तरत्वे प्रतिज्ञा- तैकजातीयकारणत्वव्याघातापत्तेः । नापि धर्मिणो भिन्नाभिन्नो, विरोधादिति परिहरति । धर्मिभे दाभेदाभ्यामिति । परस्परविलक्षणानेकजनकस्वभावस्य कारणत्वमिति नोभयात्मकत्वमेकस्येत्याह । असङ्कीर्णेति । जनितादहनस्य दहनेऽपि जनयितव्ये अदहनजनकस्वभावत्वमनुवर्त्तते न वा ? आद्ये, न हीति । अस्य अदहनत्वेनाभिमतस्य । अन्त्ये पुनरेकजातीयकारणव्याघातः । तस्यैवादह- नजनकस्वभावत्वमतिक्रम्य स्वभावान्तरेण दहनजनकत्वादिति भावः । तथाचेति । दहनो यद्यहन जनकस्वभावजन्यः स्याददहनः स्यादिति । एवं विपरीतमप्यापाद्यमित्यर्थः । विचित्रकार्याणां विचित्रकारणजन्यत्वे प्रत्यक्षानुमाने प्रमाणमुपसंहरन्नेवाह । तस्मादिति । ननु स्वरूपमेव विचित्र- प्रकाशिका । उभयापादनमिति । यद्यपि दहनत्वमेवापाद्यं तथापि पक्षतावच्छेदक महिम्ना तदुभयापादन- मित्यभिप्रेत्येदमुक्तम् । यद्यपि घटपक्षकदहनत्वापादककतर्कादविशेषोऽस्य, तथापि तत्र घटत्वम- त्रादहनत्वं पक्षतावच्छेदकमिति भेदः । वस्तुतोऽत्र तथाशब्देनोभयजनक स्वभावजन्यत्वस्यापाद- कत्वे, न लाभः तत्र दहनजनकैकस्वभावजन्यत्वमापादकमिति भावः । नाप्रसिद्धिरित्युपलक्षणं न वैयधिकरण्यमित्यपि द्रष्टव्यम् । ननु शक्तिभेदेऽपि शक्तस्य भेदादेककारणकत्वं भज्येतेत्यत आह । नन्विति । तथाचैवमपि धर्मानभिन्न इत्यर्थः । उभयशब्दस्य द्वितयार्थकत्वेन सर्वसङ्ग- तिरित्यन्यथा व्याचष्टे । परस्परेति । तत्त्वं दहनत्वमिति भ्रमं निवारयन्नेव वैयधिकरण्यादन्यथा- तर्कमाह । दहनो यद्यदहनेति ॥ ७ ॥ मकरन्दः । नाप्रसिद्धिरित्युपलक्षणं, नापि वैयधिकरण्यमित्यपि द्रष्टव्यम् ॥ ७ ॥

६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ८ कारिकाव्याख्यायां कार्यस्य कारणेनापि विचित्रेण भवितव्यम् । न च तत् स्वभावतस्तथा । ततः सहकारिवैचित्र्यानुप्रवेशः । न तु क्षणोऽपि तदनपेक्षस्तथा भवितुमर्हतीति ॥ ७ ॥ अस्तु दृष्टमेव सहकारिचक्रं किमपूर्वकल्पनयेति चेन्न । विश्ववृत्तिः । विफला विश्ववृत्तिर्न न दुःखैकफलाऽपि वा । दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः ॥ ८ ॥ यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनं, न परलोका- बोधनी । बौद्धो मन्यते तं प्रत्याह-न च-इति । न च तत्=कारणम् । स्वभावतः=स्वरूपतः । तथा=वि- चित्रं, तत्त्वेन प्रत्यभिज्ञायमानत्वादिति । यद्वा, प्रदीपवत् स्वभावत एव विचित्रमस्तु कारणं किं सहकारिवैचित्र्येणेत्युक्तमिति चेत्, तत्राह-न च-इति । प्रदीपे तिमिरापहारादिकार्यभेदस्य तैलवर्त्यादिसहकारिभेदनिबन्धनत्वादित्यर्थः । क्षणभङ्गवादेऽपि सहकारिवैचित्र्यमादरणीयमित्याह- न च क्षणोऽपि-इति । न चान्त्यक्षणोऽपि सहकार्यानपेक्षस्तथा विचित्रकार्यसन्ततिहेतुर्भवति । सोऽपि हि यदृच्छया सिद्धसहकारिमध्यमध्यासीन एव विचित्रकार्ये हेतुः, अन्यथा कुसूलनिहितः बीजः कृषीवलः कृतार्थः स्यादिति ॥ ७ ॥ अथ विश्ववृत्ति इत्येतदवतारयितुं शङ्कते-अस्तु-इति । ततोनेश्वरसिद्धिरिति अवतार- यति-न, विश्ववृत्तिः-इति । अस्यानन्यथासिद्धिं दर्शयन् विवक्षितसाध्यकत्वमुपपादयति- विफला-इति । यागादौ तावद्विश्वस्य जगतः प्रवृत्तिर्दृश्यते, नेयं विफला, नापि दुःखैकफला, विश्ववृत्तित्वादेव । नापि दृष्टपूजादिफला स्वरूपतो हेतुत्वात् । परैर्विप्रलब्धत्वात् परविप्रलिप्सया वा प्रवृत्तिरित्यपि न युक्तम् । ईदृशविप्रलम्भासम्भवात् तस्मात् यागादौ विश्ववृत्तिरनन्यथासिद्धा तस्यापि तावत् कारणत्वं कल्पयति । न तु दृष्टमेव सहकारिचक्रं कारणमित्यर्थः । तदेतद् व्या- प्रकाशः । मस्तु कृतं सहकारिवैचित्र्येणेत्यत आह । न चेति । ननु सहकारिवैचित्र्यानुप्रवेशं विनैव यथोत्पन्न- क्षणस्वरूपमुपादाय कार्यवैचित्र्यमुपपत्स्यत इत्यत आह । न त्विति । तदनपेक्षः=सहकार्यान- पेक्षः । तथा=विचित्रकार्यार्जकः । बौद्धमते सहोत्पन्नविचित्रसहकारिसहितस्यैव विचित्रकार्यजनक- त्वादित्यर्थः । तदेवं विलक्षणसामग्री विचित्रकार्यजनिकेति प्रसाधितम् ॥ ७ ॥ सम्प्रति दृष्टकारणमेलकात्मिकैव सा तथा, तदधिष्ठानं चास्मदादिभिरेव शक्यमिति पुनरपि सिद्धसाधनमित्याक्षिपति - अस्त्विति । विश्ववृत्तिः=विश्वेषां=लोकानां वृत्तेः=प्रवृत्तेरदृष्टं सिद्ध्यतीत्यर्थः । तदेव प्रपञ्चयति । विफलेति । भूतचैतन्ये भूतानामेव परिणतिभेदाद्वासनात् एवोत्तरकार्यमिति न परलोकसिद्धिरित्यत्र दोषमाह-यदि हीति । प्रकाशिका भूतचैतन्ये हीति । परिणतिभेद एव वासनेत्यभेदेनान्वयो विकल्पेन वा परिणतिभेदाद्वासा- नयोरन्वयः । भूतचैतन्यपक्ष आत्मनोऽनङ्गीकारात् भूतस्य शरीरादेर्भस्मीभावाच्च परलोकसिद्धिरिति मकरन्दः । भूतचैतन्य इति । भूतस्य शरीरादेर्भस्मीभावादात्मनश्चानङ्गीकारात् कस्य परलोक इति न तत्सिद्धिरित्यर्थः ॥ क्षणोऽपीति । क्षणिकपदार्थोऽपीत्यर्थः ।

र्थी कश्चिदिष्टपूर्तयोः प्रवर्त्तेत, न हि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् । लाभपूजाख्यात्यर्थमिति चेद् ? लाभादय एव किन्निबन्धनाः? न हीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः, यतो वाऽनेन लब्धव्यं, यो वैनं पूजयिष्यति । स किमर्थम् ? ख्यात्यर्थमनुरागार्थञ्च, जनो दातरि मान- बोधनी । ख्यास्यन्ननन्यथासिद्धिं तावत् प्रतिजानाति-यदि हि- इति । भूतानां परिणतिः कार्य, तत्पर- म्परा, उर्वं बीजमङ्कुरं जनयति, तत् सस्यं, तद्ब्रीह्यादिकमिति पूर्वं पूर्वं दृष्टमेवोत्तरोत्तरं प्रति का- रणमिति यद्युच्येतेति । यद्वां भूतानां सहकारिणां परिणतिः साकल्यम् । इष्टं=यागादि श्रौतं कर्म । पूर्तं = खातादि स्मार्त्तम् इति । अत्र हेतुत्वेन संग्रहं व्याचष्टे-न हि - इति । शङ्कते- लाभ इति । दुःखात्मकयोरपि श्रौतस्मार्त्तयोर्लाभादिदृष्टसिद्धयर्थमर्थं प्रवर्त्तत इति दूषयति-ला- भादय-इति । तेऽप्यदृष्टनिबन्धना इत्यर्थः । कुत इत्यत आह-न हि-इति । न हीयं यागा- दौ प्रवृत्तिः स्वरूपेणैव लाभादिहेतुः, तेषां प्रवृत्त्यानन्तर्यनियमाभावात्; तेनादृष्टद्वारेणैव हेतुत्व मिति भावः । यतो वा-इति । स किमर्थं लम्भयति पूजयति वेति शेषः । तत्र प्रवृत्तिरपि नादृ- ष्टमन्तरेणोपपद्यत इति भावः । शङ्कते- ख्यात्यर्थम् इति । नतु पारलौकिकं किञ्चिल्लिप्समानः पूज- प्रकाशः । इष्टं यागादि । पूर्तं तडागादि । न हीति । बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानजन्यत्वात् प्रवृत्तेरिति भावः । प्रागेवेति निपातसमुदायोऽतिशयार्थः । लाभेति । तथाच दृष्टेष्टसाधन- ताज्ञानादेव तत्र प्रवृत्तिर्न पारलौकिकेष्टसाधनताज्ञानादिति भावः । न हीति । चिरातीतायामेव यागादिक्रियायां लाभाद्युत्पादादिति भावः । यद्वा, स्वरूपतो लाभादिहेतुत्वे, नास्तिकैरपि तत्कर- णप्रसङ्गादिति भावः । यतो चेति । लाभाद्युद्दिश्य यागादौ प्रवर्त्तमानाय परेण धनदानमदृष्टार्थ- मेवेति तत्सिद्धिरित्यर्थः । ख्यात्यर्थमिति । दृष्टार्थमेव तद्दानमिति नादृष्टमुद्देश्यमिति भावः । टिप्पणी । [ पृ० ८७-१ ] यद्वा विद्यमानाश्रयेत्यादि । स्वाश्रयाधिकरणक्षणोत्पन्नद्रव्यनाश इत्यर्थः । [पृ० ८७-२] सासमवायिकारणक इति । असमवायिकारणसहितस्य द्रव्यस्य नाशे । अर्था- दसमवायिकारणनाशोत्पत्तिकक्षणोत्पन्नद्रव्यनाश इत्यर्थः । [पृ० ८७-३] उभयजन्ये द्रव्यनाश इति । पूर्वोत्पन्नविभागादाश्रयनाशक्षण एव यत्रासमवायिनाशस्तत्रोभयजन्यत्वं प्रसिद्धयति । [पृ० ८८-१२] व्यक्तिविशेषमप्रतीति । अन्यवहिविद्यमानोभयनाशकद्रव्यनाश उभयना- शस्य दण्डचक्रादिवत्कारणत्वम्बोध्यम् । यथाश्रुते कार्य्यकारणभावानन्त्यापत्तेः ॥ ६ ॥ [पृ० ९१-१४] एकजातीयत्वात् इति । महत्तत्वादीनां पुरुषभेदेन भेदेप्येकप्रकृतिविकार- त्वादेकजातीयत्वमिति पर्य्यवसितार्थः । [पृ०९१-१५]द्रष्टुं शक्यत्वादिति । ज्ञातुं शक्यत्वा- दित्यर्थः । तेन दशधातोश्चाक्षुषप्रत्यक्षार्थक तया तदभावेऽपि न क्षतिः । अल्पविषयतयाऽनुमानाव- तारसम्भवात् । यद्यप्युपादानगोचरप्रत्यक्षस्यैव कार्य्यजनक तया ब्रह्म नास्मदादिना द्रष्टुं शक्यम् । तथापि तन्मात्राभिज्ञसिद्धावपि न सकलदर्शीश्वरसिद्धिः । यद्वा द्रष्टुं शक्यत्वादित्यनेनादृष्टव्यव- च्छेदः । तथाच नादृष्टाधिष्ठातृत्वेनेश्वरसिद्धिरित्यत्र तात्पर्य्यम् । स्वरूपभेदसहकारिभेदाद्वित्यर्थे इति पूर्वपक्षिणोऽभिमानमिति शेषः । अग्रे दृष्टान्तेऽपीत्यादिना तदूखण्डनमेव करिष्यति । [पृ० ९२-२१] दृष्टान्तेऽप्यविचित्रकारणेति । कारणपदं सामग्रीपरम् , तस्यैव वैचित्र्यनियामकत्वं "तदेवमित्यादि प्रसाधितम्" इत्यन्तेनोपसंहरिष्यति । तथा च दृष्टान्तस्थलेऽपि यस्या वैचित्र्यप्र- योजकत्वं सा विचित्रेवेति भावः । [पृ० ९२-२२] सम्बन्धी न क्रम इत्यादि एकस्य क्रमः, एवं समस्य वैचित्र्यम् परैरपि नाभ्युपगतमित्यतः पूरयति सम्बन्धी कार्याणामिति ॥ ७ ॥ १३ न्या० कु०

६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ८ कारिकाव्याख्यायां यितरि च रज्यते, जनानुरागप्रभवा हि सम्पद इति चेत् । न । नीतिनर्मसचिवेष्वेव तदर्थं दानादिव्यवस्थापनात् । त्रैविद्यतपस्विनो धूर्त्तबका एवेति चेन्न । तेषां दृष्टसम्पदं प्रत्यनुपयोगात् । सुखार्थं तथा करोतीति चेन्न । नास्तिकैरपि तथाकरणप्रसङ्गात् , सम्भोगवत् । लोकव्यवहारसिद्धत्वादफलमपि क्रियते, वेदव्यवहारसिद्धत्वात् संध्योपासनवदिति चेद्, गुरुमतमेतन्न तु गुरोर्म- बोधनी । यति ददाति वेति । अनुरागो वा किमर्थ इत्यत्रोक्तं-जनानुराग इति । परिहरति-न-इति । ख्या- त्यनुरागार्थयोर्दानपूजयोर्यथाक्रमं नर्मनीतिसचिवयोर्व्यवस्थितत्वादत्र च तदमिसन्धिविरहान्न ताद- र्ध्यमिति । पुनः शङ्कते-त्रैविद्य-इति । वैदिका यागादिकर्त्तारो विप्रलम्भका दृष्टार्थमेव भावयन्तो- ऽदृष्टार्थमिवाचरन्ति, तेऽपि तेन नर्मसचिवप्राया इत्यर्थः । परिहरति न-इति । नीतिनर्मस- चिवा हि दृष्टोपयोगिनः, नैवं त्रैविद्याः, अतस्तेषु पूजादि न दृष्टार्थमिति । ननु तेषां पूजादिकमनु- तिष्ठतः किञ्चिद् दृष्टमेव सुखं जायते, ततस्तदर्थमेव पूजानुष्ठानमित्याह सुखार्थम्-इति । न- इति । न हि तात्त्विकं किञ्चिद् दानादिजन्यं सुखमस्ति, पारलौकिकसुखाध्यवसायादेव हि तदनु- ष्ठायिनस्तदा प्रीतिरिति भावः। शङ्कते-लोक-इति । अनादिना लौकिकाचारेण कर्तव्यतया सिद्ध- त्वादफलमपि दानादि क्रियते, वैदिकविधानेन सिद्धसन्ध्योपासनवत् । तद्विधायकवाक्येषु फला- श्रवणाज् जीवनादिकर्माधिकारालाभाच्च विधित एव अनुष्ठानसिद्धौ फलकल्पनायां प्रमाणाभावादफ- लमेव सन्ध्योपासनादिकमिति भावः । गुरुमतमेतत्-इति । निष्फलं कर्मेति प्राभाकरगुरोरयं प्रकाशः। नीतिनर्मेति । राजादिभिः प्रयोजनमुद्दिश्यैव दानाद्नस्ततपस्विभ्यः प्रयोजनाननुसन्धानेन दा- नामावादित्यर्थः। त्रैविद्येति । त्रिवेदीविदोऽपि तपस्विनः परप्रतारणार्थं तपसि प्रवर्त्तन्त इत्यर्थः। तेषामिति । दृष्टप्रयोजनमुद्दिश्यैव परप्रतारणात् तेषाञ्च दृष्टे निस्पृहत्वात् तदसम्भवः । प्रच्छ- न्नमपि परोपनीतधननिःस्पृहैस्तपःकरणादित्यर्थः । वेदेति । सन्ध्योपासनमकरणे निन्दोपदेशात् प्रायश्चित्तोपदेशाच्च नित्यम् , नित्ये च यदि फलाऽर्थिनः प्रवृत्तिः स्यात् तदा यागवन्नित्यताभङ्ग- प्रसङ्ग इत्यफलैव तत्र प्रवृत्तिः । कार्यताज्ञानं हि तत्र प्रवर्त्तकम् , तच्च लोके पाकादाविष्टसाधनता- ज्ञानात् कार्यताऽनुमित्या निर्वहति । वैदिके च नित्ये कार्यताज्ञानं वेदाधीनमिति किमिष्टसाधनता- ज्ञानेन । न च नित्यापूर्वमेव फलं, तथापि नित्यताभङ्गात् । काम्यस्थले धर्मिग्राहकमानात् काम्य- साधनत्वेनैव सिद्धेर्गौणप्रयोजनतया स्वतःप्रयोजनत्वाभावाच्च लोके प्रवृत्ताविष्टज्ञानान्वयव्यतिरे- प्रकाशिका । भावः । चिरेति । तथा च तद्धेतुत्वमप्यदृष्टद्वारैवेत्यर्थः । दानाभावादिति=दानाभावापत्ते- रित्यर्थः। दृष्टप्रयोजनस्य तत्राभावाददृष्टस्य चानभ्युपगमादिति भावः । सन्ध्योपासनस्य निष्फलत्वे मानमाह । सन्ध्योपासनमिति । निष्फलत्वेऽपि प्रवृत्तिमपपादयति । कार्यताज्ञानं हीति । मकरन्दः । चिरेति । तथाच तद्धेतुत्वमप्यदृष्टद्वारैव स्यादिति भावः । दानाभावादिति । दानाभा- वापत्तेरित्यर्थः । दृष्टप्रयोजनस्य तत्राभावाददृष्टस्य चानभ्युपगमादिति भावः । निष्फलत्वेऽपि तत्र प्रवृत्तिमपपादयति । सन्ध्योपासनमिति । काम्यस्थल इति । अपूर्वस्येति शेषः । टिप्पणी । नच नित्यापूर्वमेव फलमिति । एवकारेण स्वतः प्रयोजनत्वलाभः । अपूर्वसम्पादनीयस्य प्रयोजनस्याश्रुतत्वात् । स्वतः प्रयोजनत्वाभावाच्चेति । उभयसम्प्रतिपन्नस्य काम्यस्थली-

तम्, ततो नेदमनवसर एव वक्तुमुचितम् । वृद्धैर्विप्रलब्धत्वाद् वालानामिति- चेन्न । वृद्धानामपि प्रवृत्तेः । न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते । तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् । न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रता- रणशङ्का स्यात् । इदं प्रथम एव कश्चिदनुष्ठायापि धूर्त्तः पराननुष्ठापयतीति बोधनी । राद्धान्तः, नास्मद्गुरोः, तस्य निष्फलोपदेशासंभवात् । तत्राप्युपात्तदुरितक्षयादिफलमस्तीति राद्धान्तः । यद्वा, गुरु श्लाघ्यं तन्मतमित्युपालम्भगर्भः, न तु गुरोर्हितोपदेशिनः कस्यचिन्मतं-त स्मादप्रस्तुतमिदानीं न वक्तव्यमिति । तस्माद् यागादिकर्तृपूजादेर्दृष्टहेतुभावादवश्यं धार्मिक इति बुद्ध्या तदाचार इत्यभ्युपगन्तव्यम् । तेन यागादेस्तदनुष्ठातृपूजादेश्चामुष्मिकं फलं सिद्धमिति रह- स्यम् । तुरीयपादमवतारयितुं शङ्कामाह—वृद्धैः-इति । बालानां प्रवृत्तिरिति शेषः । न- इति । विप्रलम्भका यत्र परं प्रवर्त्तयन्ति न तत्र स्वयमपि प्रवर्त्तन्त इति । स्वैरेव विप्रलब्धाः प्रवर्त्तन्त इति मन्दाशङ्कां निराकरोति-न-च इति । आत्मवञ्चनमशक्यमप्रयोजनं चेति भावः । तर्हि सर्वेऽपि पूर्वैर्विप्रलब्धाः प्रवर्त्तन्त इत्याह-तेऽपि-इति । सर्वेषामेव भावाभ्युपगमेनेयं विप्र- लम्भकमूला प्रवृत्तिः । अन्यथा संविदानोऽन्यथोपदिष्य प्रवर्त्तको विप्रलम्भकः, न चात्र तादृशः कश्चित् ; अतः प्रमाणमूलत्वमेवोपपन्नमिति भावः । पुनः शङ्कते—इदं प्रथमः-इति । विप्रलि- प्सातिशयेन हि स्वयमप्यनुष्ठानोपपत्तिरिति भावः । तदतिशयप्रदर्शनार्थमुक्तं-धूर्त्तः-इति । किमसाविति धूर्त्तविप्रलम्भकास्तावदुपदेशमात्रेण विप्रलभन्ते । क्वचित्तु केचिदलपायाससाध्येपु कर्मसु स्वयमनुष्ठायापीति संभाव्येत । न तु सर्वस्वदक्षिणादिसाध्ये वैदिककर्मकलापानुष्ठाने कश्चिद् प्रकाशः । काविष्टसाधनताज्ञानजननद्वारा कार्यताज्ञान एवोपक्षोणाविति फलज्ञानं न प्रवृत्तिहेतुः । न चान्य- थाऽपि निष्फले प्रवृत्तिप्रसङ्गः । वेदस्येष्टसाधनत्वस्य वा लिङ्गस्य कार्यताज्ञानहेतोरभावादिति जर- न्मीमांसकमंतं दृष्टान्त इत्यर्थः । अत्र सोपहासमाह । गुरुमतमिति । गुरोः प्रभाकरगुरोः, गुरु महद्वा मतमेतद्, न त्वस्मद्गुरोर्मतमित्यर्थः । निष्फले प्रेक्षावतां प्रवृत्तेरनुत्पादनियमात् प्रयोजनज्ञानस्य प्रवृत्तिहेतुत्वेन निष्फले कार्यत्वस्यायोग्यतया वेदेन बोधयितुमशक्यत्वात् प्रवर्त्तक- स्य कार्यत्वज्ञानस्यासम्भवात् । अत एव नेष्टज्ञानं कार्यताज्ञान एवोपक्षीणम् । अनन्यथासिद्धत्वा- दिति भावः । वृद्धैरिति । तथाच निष्फल एवान्यैः प्रतारणादाकुमारं प्रवृत्तिरिति न तत्र प्रयोजन- गवेषणमिति भावः । विप्रलिप्सुरन्यथाज्ञातमर्थमन्यथा बोधयति, भ्रान्तो वा ? । आद्ये वृद्धानामिति । प्रकाशिका । कार्यस्य साधनत्वेनैव सिद्धेरपूर्वस्येति शेषः । तथा च नापूर्वं स्वतःप्रयोजनम्, काम्यापूर्ववदिति भावः । उपहासबीजमाह । निष्फल इति । तथाचेति । प्रयोजनमिति भावः । अनन्यथासि- द्धत्वादिति । यद्यपि फलेच्छाद्वारेष्टसाधनताज्ञाने तदुपक्षीणम् । तथापि प्रवृत्तिप्रयोजकतायामपि निष्फले प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् । नचैवं नित्यताभङ्गः, त्रिकालकाम्यस्तवपाठवत् मकरन्दः । तथाच तद्गत्तित्यापूर्वस्यापि न स्वतः प्रयोजनत्वमिति भावः । उपहासबीजमाह निष्फल इति । अनन्यथासिद्धत्वादिति । यद्यपि फलेच्छाद्वारेष्टसाध- नताज्ञानेऽपि तदन्यथासिद्धमित्युपपादितं प्रत्यक्षप्रकाशेऽन्यथाख्यात्यवसरे । त्रिस्त्रीस्वरसोऽप्ये- वमेव । तथापि तस्य प्रवृत्तिप्रयोजकत्वान्निष्फलेऽपि प्रवृत्तिरिति मतनिराकरणमात्रे तात्पर्यम् । न चैवं नित्यताभङ्गप्रसङ्गः । त्रिकालकाम्यस्तवपाठवत् कामनाऽवश्यम्भावादिति भावः । वृद्धतरैरिति । विप्रलब्धा इति शेषः ।