न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
Here is the complete, line-by-line transcription of the text from the image:
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४५ यति । कर्मणश्चाभिव्यक्तिः सहकारिलाभ एव । तच्च सहकारि, सोऽहमनेन वि- धिना तुलामधिरूढो योऽहं पापकारी निष्पापो वेति प्रत्यभिज्ञानम् । यदाहुः “ताँस्तु देवाः प्रपश्यन्ति स्वहृत्स्थैवान्तरपुरुषः” इति । अथवा प्रतिज्ञानुरूपां विशुद्धिमपेक्ष्य तेन धर्मो जन्यते निमित्ततो विधाना- द्विजसफलश्रुतेश्च । भविशुद्धिश्चापेक्ष्याधर्मः । पराजयलक्षणानपेक्षितफलोपदर्श- नेन फलतो निषेधात् । बोधनी । कर्मणश्च-इति। सहकारिलाभे फलोत्पत्त्या कर्माभिव्यज्यते, तेनाभिव्यक्तिहेतुत्वात् सहकारिलाभोऽ- भिव्यक्तिरुपचर्यत इति । कथं लोकपालाद्यर्चनादिकर्मणां क्षणिकत्वेन साहित्यानुपपत्तेः सहकारिते- त्यत्राह-तच्च-इति । कर्मक्षणानां स्वरूपतः साहित्याभावेऽपि तद्विषयज्ञानद्वारा तत्साहित्यात् सह- कारित्वोपपत्तिः तत्र निष्पापत्वेन प्रत्यभिज्ञानं जयनिमित्तं कर्माभिव्यनक्तीतरदितरदिति विवेकः । सुगूढमपि पापं चरद्विरात्मनः पापकारित्वं ज्ञायत एवेत्यत्र स्मार्त्तवचनमुदाहरति-यदाहुः-इति । एवं तावत् संग्रहो व्याख्यातः । इदानीं तु न तावज्जयपराजयमात्रफलमनेनानुष्ठितं कर्मास्ति यदनेनाभिव्यज्येत, तादृशकर्मणामश्रुतत्वात् । न चानुष्ठितं स्तेयादि पराजयहेतुस्तस्य नरकादिक- फलत्वात् , न च विजयमानेन विजयहेतुः कश्चित् धर्मोऽनुष्ठितः किन्तु स्तेयादिरनुष्ठितः, न चाननु- ष्ठानस्य किञ्चित्फलमस्तीति तत्रापरितुष्यन् परिहारान्तरमाह । अथवा इति । प्रतिज्ञानु- रूपशुद्धिसहकृतेन परीक्षाविधिना धर्मो जन्यत इति । ननु किञ्चिदुद्दिश्य विहितात् कर्मणो धर्मो जन्यते न त्विह किञ्चिदुद्दिश्यारोहणविधिरस्तीत्यत्राह-निमित्ततः-इति । मिथ्याभि- शस्ततां निमित्तीकृत्य विधिरस्ति । न चाविहितस्य फलश्रुतिः सम्भवतीति निषेधलक्षणमधर्महेतु- त्वं, न चात्राविशुद्धो नारोहेदिति निषेधः श्रूयते इत्यत्राह-पराजय इति । अप्रस्तुतोऽपि प्रकाशः । चैतन्ये । सोऽहमिति । ननु यत्र पापविस्मरणान्निष्पापत्वप्रत्यभिज्ञानं, तत्र कुतो न जयः । न च सत्यं तादृशं प्रत्यभिज्ञानं जयहेतुः, तथापि भङ्गहेतुपापवत्त्वप्रत्यभिज्ञानाभावेन भङ्गानुप- पत्तेः । न च स्वरूपसदेव पापवत्त्वं भङ्गहेतुः । तस्यैव प्रयोजकत्वे परीक्षाविधेरतत्त्वापत्तेः । मै- वम् । पापत्तदभावयोः स्वरूपसत्त्वे सति, योऽहं पापवत्त्वादिना सन्दिह्यमानः सोऽहमनेन वि- धिना तुलामारूढ इति तस्य प्रत्यभिज्ञानस्य तन्त्रत्वात् । तच्च न परीक्षाविधिं विनेति तस्यापि तत्त्वात् । यत्र तु सभाशोभादिना तादृशप्रत्यभिज्ञानाभावस्तत्र गत्यन्तरमाह । अथवेति । तेन=परीक्षाविधिना । ननु तादृशविधित्वाक्याभावात् परीक्षाविधेर्धर्मजनकत्वे मानाभाव इत्यत आह । निमित्तत इति । साक्षात्तादृशविधित्वाक्याभावेऽप्यभिशापनिमित्तकत्वात् परीक्षाविधेरि- तरनैमित्तिकवदभिशस्तः सत्यप्रत्यभिज्ञो जयकामस्तुलामारोहेदिति विधिकल्पनमित्यर्थः । विज- येति । कालान्तरभाविजयसाधनताऽनुपपत्तेरपूर्वकल्पनाच्चेत्यर्थः । पराजयेति । भङ्गलक्षणानिष्ट- प्रकाशिका । पापत्तदभावयोरिति । सत्यन्तमात्रस्य प्रयोजकत्वे परीक्षायैय्यर्थ्यमित्युत्तरदलम्, तच्च न परीक्षाविधिं विनेति परीक्षाविधेः कथमित् स्वज्ञानद्वारा प्रत्यभिज्ञानप्रयोजकत्वमिति मन्तव्यम् । निमित्तत इतीति । निमित्ते सति विधानादिति मूलार्थः । भङ्गेति । कालान्तरभाविभङ्गेत्यर्थः । मकरन्दः । पापत्तदभावयोरिति । सत्यन्तमात्रस्य तन्त्रत्वे परीक्षायैय्यर्थमेवेति विशिष्टस्य तथात्व- मुक्तमिति भावः । भङ्गेति । कालान्तरभाविभङ्गलक्षणफलश्रुतेरित्यर्थः । यद्यप्यकरणे प्रत्यवाया-
Here is the line-by-line transcription of the Sanskrit text provided in the image:
१५० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां अथ शक्तिनिषेधे किं प्रमाणम् ? । न किञ्चित् । तत् किमस्त्येव ? बाढम् । न हि नो दर्शने शक्तिपदार्थ एव नास्ति । कोऽसौ तर्हि ? कारणत्वम् । किं तत् ? पूर्वकालनियतजातीयत्वं, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वेति । ततोऽधिक- बोधनी । निषेधः कल्प्यते, अविशुद्धं प्रत्यारोहणस्यानिष्टहेतुत्वान्निषिद्धस्यैव च तथात्वादिति । तदेवम्भूतसमवायिनी शक्तिः सहजा आधेया वास्तीति न किञ्चित्प्रमाणमस्तीत्युक्तम् । इतरस्तु वादजल्पयोरन्यतरेण कथाप्रवृत्तिं कृत्वा तयोर्न स्वपक्षसाधनमन्तरेण परसाधनस्य दूषणमात्रेण पर्य- वसानमिति मन्वानः पृच्छति-अथ इति । गूढाभिसन्धिः प्रतिब्रूते-न किञ्चित् इति । अज्ञात- पराभिसन्धिः पुनः । पृच्छति-तत् किमस्त्येव - इति । निषेधकाभावे त्वस्तित्वमेवावशिष्यत इति । गूढाभिसन्धिरेव सम्प्रतिपत्तिमूत्तरमाह-बाढम् इति । यद्येवमपसिद्धान्तप्रसङ्ग इत्यत्र स्वा- भिसन्धिमुद्घाटयितुमाह-न हि-इति । अस्मत्सिद्धान्तानभिज्ञो भवानिति भावः । पुनरप्यनभिज्ञः पृच्छति-कोऽसौ-इति । आशयमाविष्करोति-कारणत्वम्-इति । शक्तिमत्तैव कारणत्वमिति मन्वानः पृच्छति-किं तत्-इति । ज्ञातपराभिसन्धिराह-पूर्वकाल-इति । पूर्वकालनियत त्वमित्येव वक्तव्ये नियतजातीयत्वाभिधाने जात्यपेक्षयैव नियम इति स्मारयितुमिति । अन्यथा कारणत्वं निरूपयति-सहकारि-इति । यस्य सहकारिवैकल्यप्रयुक्तः कार्यप्रागभावो न तु स्वरूप- प्रकाशः । फलसाधनत्वेन निषेधविधेरेन्मयनाङ्गफलश्रुतेश्चाधर्मजनकत्वं कल्प्यत इत्यर्थः । यद्यपि तुलारो- हणादेरधर्मजनकत्वे मानाभावः । पूर्वाधर्मादेवावनमनोपपत्तेः । तथापि परीक्षाविधिं विनाऽवनमने- ऽपि भङ्गाभावानियमेन तस्याधर्महेतुत्वम् । जल्पकथामारित्य पृच्छति- अथेति । उत्तरं नेति । शक्तिपदार्थमेव न निषेधाम इत्यर्थः । तर्हि स्वीकार एव शक्तेः स्या दित्यभिप्रेत्याह । कोऽसाविति । पूर्वकालेति । ननु पूर्वत्वं प्रागभावावच्छिन्नकालत्वम् , प्रकाशिका । यद्यपि नैमित्तिकत्वे तदकरणे प्रत्यवायापत्तिः । तथापि निमित्ते सति कर्तव्यत्वमित्येवात्र नैमित्तिकत्वम् । तन्मात्रकरणेऽपि न प्रत्यवायो जातेष्ट्याद्यकरणे प्रत्यवायाभावात् देवतासन्निधान एव तात्पर्य्य- मत एव मूलमित्यस्माकं सिद्धान्त इति कश्चित् । अधर्म्मजनकत्वे मानाभाव इति । जयपक्षे भवतु धर्मजनकता अगम्यागमनाद्यनाचरणस्य धर्महेतुत्वेनोन्मन्नकारणस्य तस्य स्वीकरणीय- त्वादिति भावः । तथापीति । परीक्षाविधिजन्याधर्मेणावनमनस्यैव भङ्गहेतुत्वमिति परीक्षाया आशु बिनाशिन्याः कारणतानिर्वाहाय व्यापारत्वेनाधर्म्मः कल्पनीय इति भावः । वस्तुतोऽ- गम्यागमनजन्याधर्म्मस्यावनमनहेतुत्वे मानाभावो नरकफलत्वेन तस्य श्रुतेरिति ध्येयम् । जल्पेति । तत्रैवोभयसाधनोपन्यासनियमादिति भावः । नाशस्येति । प्रागभाव- मकरन्दः । श्रुतेः परीक्षाविधेरभिशापनिमित्तकत्वाभावान्न विधिकल्पनं, न वा भङ्गलक्षणाऽनिष्टसाधनत्वेन नि- षेधविध्युन्नयनम् । व्यभिचारादप्रयोजकत्वाच्च । तथापि देवतासन्निधिपक्षे तात्पर्य्यम् । अत एवो- क्तं मूले, इत्यस्माकं सिद्धान्त इति । अधर्मजनकत्वे मानाभाव इति । विजयपक्षे धर्मज- ननं भवतु । अगम्यागमनाद्यनाचरणस्य धर्महेतुत्वेन प्राक्तनधर्माभावादिति भावः । तथापीति । टिप्पणी । जल्पकथामारित्येति । उक्तरीत्या शक्तिनिराये शक्तिसाधकस्य मीमांसकस्य तदेतो
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५१ निषेधे का वार्त्ता ? । न का चित् । तत् किं विधिरेव ? सोऽपि नास्ति प्रमाणा- भावात् । सन्देहस्तर्हि ? । कथमेवं भविष्यति, अनुपलब्धचरत्वात् । विवाद- स्तर्हि ? कुत्र ? । अनुग्राहकत्वसाम्यात् सहकारिष्वपि शक्तिपदप्रयोगात् । सह- कारिभेदे तत्रापि दहनादेरनुग्राहकोऽधिकोऽस्त्येव, यः प्रतिबन्धकैरपनीयत इति बोधनी । प्रयुक्तः, यः सहकारिषु सत्सु करोत्येवेत्यर्थः । न त्वभावादकारणत्वमिति । तर्हि कारणत्वा- तिरिक्तमदभिमतातीन्द्रियशक्तिनिषेधः किंप्रमाण इत्याह-तत इति । एकत्र हि सिद्धस्यान्यत्र निषेधः न त्वत्यन्तानुपलब्धस्येत्याशयेनाह-न काचित्-इति । अविदितपराशयः पृच्छति- तत् किम्-इति । विधिः=अस्तित्वम् । यदि निषेधो नास्ति तर्हि विधिरेव स्यात् भावाभावयोरितरे- तराभावात्मकत्वादिति । न हि निषेधवद् विधिरपि निष्प्रमाणः सिध्यतीत्युत्तरमाह-सोऽपि-इति । निषेधे प्रमाणं नास्तीत्युक्तं न तु निषेधो नास्तीति भावः । तर्हि साधकबाधकयोरभावान्नच्छक्तेरस्तित्व नास्तित्वयोः सन्देह एव स्यात्, एवमपि भवदभिमतं न सिध्येदित्यभिप्रायवानाह-तर्हि-इति । उत्तरं कथमेवम्-इति । न तावानेव सन्देहहेतुरपि तर्हि धर्म्युपलब्धिरपि, ततश्चानुपलब्धे शक्तिरूपे धर्मिणि कथं सन्देह इति । यदि शक्तेर्बुद्धावनारोह एव तर्हि तत्सत्त्वासत्त्वविषयो विवादः कथमावयोर्भवेत् तस्यापि सामान्यतो ज्ञाते धर्मिणि विशेषविषयत्वादित्याह-विवादः-इति । सुहृद्भावेनोत्तरमाह-अनुग्राहकत्व इति । अत्रोभयसिद्धसहकारिपदार्थमधिकृत्य तद्विशेषवि प्रकाशः । प्रागभावश्च न प्रतियोगिजनकोऽभावः । अन्योन्याश्रयात् । नापि विनाश्यभावः । नाशस्य प्राग- भावनिरूप्यत्वात् । उत्पत्तिमानभावो ध्वंस इति चेत् । काऽसावुत्पत्तिः । आद्यसमयसम्बन्धः सेति चेत् । किमाद्यत्वम् । स्वसमानकालीनपदार्थप्रतियोगिकध्वंसानाधारसमयसम्बन्ध प्रकाशिका । प्रतियोग्यभावत्वस्यैव नाश लक्षणत्वादित्यर्थः । तथा चान्योन्याश्रय इति भावः । किमाद्य- त्वमिति । क आद्यसमयसम्बन्ध इत्यर्थः, तेन नोत्तरविरोधः । श्वेति । प्रतिक्षणं कस्य मकरन्दः । तथा च परीक्षाविधिजन्यावगमनस्यैव भङ्गहेतुत्वम् । तस्य चाशुविनाशित्वेनाध ॑व्यापारकत्वमिति भावः । अगम्यागमनादिजन्याधर्माणामपि नरकफलश्रवणात् पराजयहेतुत्वे मानाभावाच्चे- त्यपि द्रष्टव्यम् । नाशस्येति । प्रागभावप्रतियोग्यभावस्यैव नाशत्वादित्यर्थः । किमाद्यत्वमिति । किमा- द्यसमयसम्बन्धत्वमित्यर्थः । तेन नोत्तरविरोधः । स्वेति । तथा च तादृशध्वंसानाधारत्वमात्रर्थ, टिप्पणी । पृच्छा विजिगीषुकथारूपे जल्प उभयसाधनोपन्यासनियमादिति । प्रागभावनिरूप्यत्वादिति । प्रागभावप्रतियोग्यभावरूपत्वात् तथा चान्योन्याश्रय इति भावः । किमाद्यत्वमिति । क आ- द्यसमयसम्बन्ध इत्यर्थः । तेन सम्बन्धपर्यन्तविवक्षणे न दोषः । स्वसमानकालीनपदार्थेति । स्थितिक्षणस्यापि स्वप्रतियोगिकध्वंसानाधारत्वात् तदानीमुत्पन्नत्ववारणाय स्वसमानकालीनेति । अत्र समानत्वमविवक्षितम्, वैयर्थ्यादुक्तदोषाच्च । इदन्तु प्रतिक्षणं कस्य चिदुत्पादः कस्य चिद् विनाश इति मतानुसारेणैव, अन्यथा कल्पान्तरस्थितिक्षणस्य ? ध्वंसानाधारत्वे तदुपादानेऽपि तद्दोषतादवस्थ्यं सन्देहस्तर्हि साधकबाधकमानाभावे तस्य तत्कारणत्वात् । कथमेवं भविष्यतीति । को ट्युपस्थितेरभावात् । मनुंपलब्धचरत्वादिति संदेह इति शेषः ।
१५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकान्याख्यायो प्रकाशः । इति चेन्न । परस्पराश्रयात् । नापि प्रतियोग्यन्यूनतिरिक्तकालीनावधिकसामयिकया- वत्परत्वाश्रयसमानकालीनकादाचित्काभावः । प्रलयकालीनपरमाणुक्रियाप्राग्भावाव्याप्तेः । न च तदाऽपि ब्रह्माण्डान्तरवर्तिद्रव्येणापरत्वाश्रयेण परत्वनिरूपणम् । तस्य विशिष्टाज्ञानात् । प्रकाशिका । चिदुत्पत्तिः कस्यचिद् विनाश इति मतानुसारेणेदम् । न च महाप्रलयोत्पत्तावव्याप्तिः, तत्र समानकालपदार्थध्वंसाप्रसिद्धेरिति वाच्यम् । स्ववृत्तिध्वंसप्रतियोगियावत्समानकाल पदार्थसमयसम्बन्धस्य तदुत्पत्तित्वात् । प्रतियोग्यन्यूनेति । प्रतियोग्यवधिकेति कृते गुणप्रा- गभावाव्याप्तिरपरत्वाश्रयस्यैव परत्वावधित्वादित्यन्यूनतिरिक्तकालीनपदम् । एवं च तादृशं द्रव्य- मादायैव गुणप्राग्भावेऽपि लक्षणं नेयम् । तदन्यूनतिरिक्तकालत्वं च तद्व्यापककालकत्वमतोऽन्त्य- शब्दस्यैव क्षणिकतया तदन्यूनारिक्तकालीनद्रव्याप्रसिद्धेः, तत्प्राग्भावाव्याप्तिरपास्ता, प्रतिक्षणं कस्य चिद् द्रव्यस्य उत्पत्तिः कस्य चिद् विनाश इति मतेनेदम् । प्रतियोगिकालीनेत्येतावति कृते प्राग्- भावस्य प्रतियोग्युत्पत्त्यनन्तरोत्पत्तिकावधिकपरत्वाश्रयप्रतियोग्यसमानकालत्वाद्यावदर्थाभावादव्या- प्तिरिति व्यापकत्वपर्यन्तम् । अत्र केचित् प्रतियोगिकालीनत्वमेव सम्यक् । न चोक्तदोषः, प्रतियोगि- कालीनयत्किञ्चित्पदार्थावधिकयावत्परत्वाश्रयगर्भमेव हि तल्लक्षणम् न तु प्रतियोगिकालीनेऽपि यावत्त्वं विशेषणम् तथा च तत्प्रतियोग्युत्पत्तिकालीनद्रव्यमादायैव सर्वत्र लक्षणमित्याशयादिति । ते भ्रान्ताः, मकरन्दः । तत्समयसम्बन्ध उत्पत्तिरिति भावः । प्रतिक्षणं कस्य चिदुत्पत्तिः कस्य चिन्नाश इति मतानुसारेणे- दम् । प्रतियोग्यन्यूनेति । प्रतियोग्यवधिकेति कृते गुणादिप्राग्भावाव्याप्तिः । तदवधिकपर- त्वाभावात् । अपरत्वाश्रयस्यैव तथात्वादित्यत उक्तमन्यूननातिरिक्तति । तथा च तादृशं द्रव्य- मादाय तत्र लक्षणगमनमिति नोक्तदोषः । प्रतियोगिकालीनेत्येतावति कृते घटध्वंसाव्यवहितपूर्व- क्षणोत्पन्नं प्रतियोगिकालीनं द्रव्यान्तरमादाय तद्घटध्वंसेऽतिव्याप्तिः । तस्य तदवधिकयावत्पर- त्वाश्रयसमानकालीनत्वात्, परत्वापरत्वयोः परस्पराश्रयावधिकत्वस्वीकारेण तत्कालविद्यमानस्यैव टिप्पणी । स्यादिति ध्येयम् । नापि प्रतियोग्यन्यूनतिरिक्तकालीनावधिकेति । अत्र प्रतियोग्यव- धिकेति कृते गुणादिप्राग्भावेऽव्याप्तिः, अपरत्वाश्रयस्यैव परत्वनिरूपकत्वात्, प्रतियोगिकालीनेत्यु- क्तावपि न सामञ्जस्यम् प्रतियोग्यनन्तरोत्पन्नावधिकपरत्वाश्रयप्रतियोग्यसमानकालीनत्वात् प्राग्भाव- स्येत्यव्याप्तेः। नापि प्रतियोगिकालीनयत्किञ्चिदवधिकत्वोक्तावपि । प्रतियोगिक्षणोत्पन्नपदार्थमादाय लक्षणसम्भवेऽपि प्रतियोगिनाशाव्यवहितपूर्वक्षणोत्पन्नावधिकपरत्वस्य नाशकालोत्पत्तिकतया तदानीं तदाश्रयस्यावश्यम्भावनियमेन तत्त्कालीनत्वाद् ध्वंसस्यातिव्याप्तिः। नापि प्रतियोगिकालीनयाव- दवधिकपरत्वाश्रयकालीनत्वम् । यत्किञ्चित्प्रतियोगिकालीनं वस्तु प्रतियोग्याद्याश्रयकमेव परत्वमु- त्पाद्य नष्टं तमादायाव्याप्तेः । सामयिकव्यापकत्वार्थकं प्रतियोग्यन्यूनतिरिक्तकालीनत्वानुधाव- नम् । व्यापकत्वव्यापकव्याप्यत्वयोर्विवक्षणे प्रयोजनाभावः । क्षणिकान्यशब्दप्राग्भावेऽव्याप्तिश्च, प्रतियोगिनस्तथाविधद्रव्याभावात् यावत्त्वाविवक्षायां ध्वंसपर्यन्तस्थायिप्रतियोगिज्येष्ठपदार्थमादाय ध्वंसेऽतिव्यप्तिः। अत्र सर्गीयकालीनपदार्थप्रतियोगिकप्राग्भावाव्याप्तिः, तद्व्यापकं हि द्रव्यं नित्य- मनित्यं वा तत्कालोत्पत्तिकं तस्य परत्वनिरूपकत्वाभावादिति चेत् । तस्य प्रन्योक्तदोषतुल्य- त्वात्तत्रापि ब्रह्माण्डान्तरवर्तिद्रव्यमादाय समाधानस्य सम्भवात्, तदस्वीकारे दोषः, अत्र वदन्ति । नानासर्गस्थायिन्यदृष्टप्राग्भावेऽव्याप्तिः, तादृशादृष्टव्यापकद्रव्याप्रसिद्धेः, एवं
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५३ बोधनी । षयो विवादः कथं तर्हि शक्तिविषय इत्यत्रोक्तं-अनुग्राहकत्वेन-इति । सहकारिविशेषो भवद- भिमतया शक्त्या सहानुग्राहकत्वेन साम्यात् शक्तिपदास्पदं भवति । ततश्च सहकारिविशेषविषय एव विवादः शक्तिविषय इत्युच्यते । नन्वसावपि सहकारिभेदः सम्प्रतिपन्नश्चेत् न विवादगोचरः, असम्प्रतिपत्तौ सुतरां शक्तिवद् बुद्धावनारोहादतः पुनरपि विवादविषयाभाव इत्यत्राह—तत्रो- पि-इति । दहनादेरधिकः प्रतिबन्धकापाकरणीयः कश्चिदनुग्राहकः सम्प्रतिपन्न इति न तस्य प्रकाशिका । तथा सति प्रतियोगिनाशाव्यवहितपूर्वक्षणोत्पन्नद्रव्यमादाय ध्वंसातिव्याप्तेः तदवधिकपरत्व- स्य तद्ध्वंसानन्तरमुत्पत्तेः, दैशिकपरत्वाश्रयं प्रतियोग्यनन्तरोत्पत्तिकं द्रव्यमादाय या- वदर्थाभावादव्याप्तिरिति सामयिकेति । इदन्तु विजातीयपरत्वपरं यत्किञ्चित्प्रतियोगि- ज्येष्ठसमानकालीनत्वं ध्वंसस्यापीति यावदिति । यावत्त्वञ्चाश्रयविशेषणम् । अन्यथा यावत्परत्वा- श्रयस्यैकस्याप्रसिद्धेः, विशेषणावच्छेदादेव च विशिष्टस्य सावधिकत्वान्वयः । प्रत्येकं यावत्पर- त्वनिरूपिताश्रयप्रसिद्ध्या यावत्त्वं परत्वविशेषणमेवेत्येके । यावत्परत्वेत्येतावति च कृते प्रतियोगि- मकरन्दः । तदवधिकपरत्वाश्रयत्वादिति विशिष्टमुपात्तम् । तदर्थश्च कालिकव्याप्त्या प्रतियोगिव्यापकत्वम् । तच्च द्रव्यान्तरं, न तद्धटव्यापकमिति नोक्तदोषः । एतेनान्यूनपदेनैव तद्दोषनिरासेऽनतिरिक्त- पदं तथापि व्यर्थमेव । कारणाद्यत्वेनानन्यशब्दस्य क्षणिकतया तत्प्रागभावाव्याप्तिः । तदन्यू- नानतिरिक्तकालीनद्रव्याप्रसिद्धेरित्यादि दूषणमपास्तम् । प्रतियोगिव्यापकञ्च किञ्चिदेव विवक्षितं, न तु यावत् । तेन तादृशव्योमाद्यवधिकपरत्वाप्रसिद्ध्या नासम्भव इति ध्येयम् । प्रतियोगिव्या- पकावधिकदैशिकपरापरत्वाश्रयः प्रतियोग्यपि कदाचिद्भवतीति तत्प्रागभावस्य तत्समानकालीन- त्वाभावादव्याप्तिरित्यत उक्तं, सामयिकेति । समयपिण्डसंयोगसमवायिकारणकेत्यर्थः । प्रतियो- गिव्यापकावधिकपरत्वाश्रयेण येन केन चित् पर्वतादिना समानकालत्वाद् घटध्वंसेऽतिव्याप्तिरित्यत उक्तं, यावदिति । प्रतियोगिन्युत्पन्ने ज्येष्ठे यत्परत्वमुत्पद्यते तत्समानकालीनत्वाभावात् तत्प्रा- टिप्पणी । ध्वंसप्रागभावेऽव्याप्तिः, ध्वंसव्यापकद्रव्याप्रसिद्धेः । न च तस्यालक्ष्यत्वम् । ध्वंसकारण- त्वस्य प्रतियोगिनो निर्वाहाय लक्ष्यत्वात् । अत्र ब्रूमः । प्रतियोगिकालीनपदार्थाव- धिकपरत्वाश्रयकालीनकादाचित्कोऽभावः प्रागभावः, उक्तध्वंसातिव्याप्तिश्च परत्वाश्रयं प्रति- योगिकालावृत्तित्वेन विशिष्य वारणीया । ध्वंसस्य च प्रतियोगिकालमात्रवृत्तिपरत्वाश्रयसमान- कालीनत्वात् । एवमदृष्टप्रागभावे ध्वंसप्रागभावे च नाव्याप्तिः । तत्कालीनयत्किञ्चित्पदार्थावधि- कपरत्वाश्रयसमानकालीनत्वसत्त्वात् , एतादृशार्थलाभश्चैतादृशार्थतात्पर्यग्राहकसकलपदसमभि- व्याहारात् । अत्र कादाचित्कत्वानुपदानेऽत्यन्तान्योन्याभावातिव्याप्तिः । अभावपदानुपादाने- भावेऽतिव्याप्तिः । न च चरमध्वंसप्रागभावेऽव्याप्तिः, चरमध्वंसकालीनद्रव्याप्रसिद्धेः, विभाज- कोपाधिपक्षेऽप्यस्यालक्ष्यत्वात् । तस्य कर्म्मस्वरूपतयैवोपपत्तेः, कारणनिर्वचने तु सुतरां तथे- त्यलमधिकं पल्लवितेनेति । यावत्परत्वाश्रयसमानकालीनेति । इदञ्च परत्वं कालि- कम् अन्यथा दैशिकपरत्वाश्रयप्रतियोग्यनन्तरोत्पन्नपदार्थसमानकालीनत्वाभावेन यावदर्थाभावा- दव्याप्तिः स्यादिति । प्रवृत्त्युपयोगिकारणत्वस्यैव लक्ष्यत्वात् यावत्परत्वसमानकालीनत्वोक्तौ पूर्वोत्पन्नत्वज्ञानस्य परत्वकारणतया तेन प्रतियोग्यन्तरोत्पन्नपरत्वसमानकालीनत्वाभावादव्याप्तिः स्यादत आश्रयपर्यन्तानुधावनम् । प्रलयकालीनपरमाणुक्रियेति । प्राच्यादृष्टसहकृतानां परमाणूनां सर्गान्तरोत्पत्त्यर्थं प्रलयकालेऽपि क्रियाङ्गीकारादिति भावः । २० न्या० कु०
१५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां प्रकाशिका । गिज्येष्ठावधिकप्रतियोग्यनन्तरोत्पत्तिकपरत्वासमानकालीनत्वात् प्रागभावस्याव्याप्तिरित्याश्रयेति । अत्यन्ताभावान्योऽन्याभावयोरतिव्याप्तिरिति कादाचित्कपदम् । अभावपदं च संपातायातम् कादा- चित्कभावस्य पूर्वविशेषणनिरस्ततया व्यावर्तनीयाभावात् । न च महाप्रलयाव्यवहितप्राक्कालिकक- र्मप्रागभावाव्याप्तिः तद्व्यापककालावधिकपरत्वाप्रसिद्धेरिति वाच्यम् । तदनभ्युपगन्तृमतेनैवास्य लक्षणत्वात् । ननु सर्गाद्यकालीनघटप्रागभावाव्याप्तिः, तत्कालव्यापकं हि द्रव्यं नित्यं वा स्यात् तत् कालोत्पन्नमेव वा, न च नित्यावधिकं परत्वं क्वचित् , न वा तत्कालोत्पन्नावधिकम् । आश्रयाभावात् । नित्यस्य परत्वानधिकरणत्वात्, अनित्यस्य तु ज्येष्ठस्याभावादिति चेत् । न । प्रलयकालीनपरमाणु- क्रियाप्रागभावतुल्यतया ब्रह्माण्डान्तरवर्तिद्रव्यमादाय समाधानस्य सत्त्वात्। तदनभ्युपगमे ग्रन्थकृदु- क्ताव्याप्तितुल्यतयैव तदव्याप्तेरपि दोषत्वेनेष्टत्वमेव । अत एव खण्डप्रलयाव्यवहितपूर्वक्षणोत्पन्न- क्रियाप्रागभावाव्याप्तिरपि न दोषः । प्रलयकालीनपरमाणुक्रियाप्रागभावतुल्यत्वादिति सम्प्रदायः । अत्र वदन्ति । नानासर्गस्थायिनोऽदृष्टस्य प्रागभावेऽव्याप्तिः, तत्र प्रतियोगिकालव्यापकस्यानित्यस्य द्रव्यस्याभावाद् । नित्यस्य च परत्वावधित्वाभावात् । किं च भावरूपे प्रागभावेऽव्याप्तिः, न च तद- लक्ष्यमेव, कारणताघटकस्य हि प्रागभावस्य लक्षणमिह प्रकृतं तथा च ध्वंसे प्रतियोग्यादेः कारणता- निर्वाहाय भावरूपस्यापि तस्य लक्ष्यत्वात् । एतेन द्रव्यप्रागभावमात्रस्यैवेदं लक्षणं, तेन नोक्तादृ- ष्टप्रागभावेऽव्याप्तिः । तस्यालक्ष्यत्वात् । यावद्द्रव्यप्रागभावसमानकालत्वं च प्रागभावसामान्यल- क्षणम् , तदुपयोगितयैव च विशेषलक्षणमपि निरुक्तम् , उक्तसामान्यलक्षणं तूक्तादृष्टप्रागभावादाव- विकलमेवेत्यपास्तम् । *ध्वंसप्रागभावात्मकभावान्याप्तेरिति । अत्र वयं ब्रूमः । प्रतियोगिसमानका- लीनत्वमात्रमत्र लक्षणे प्रविष्टमित्यदृष्टप्रागभावे लक्षणमविकलम् । न च विनश्यत्क्षणोत्पन्नद्रव्यमा- मकरन्दः । गभावान्याप्तिरित्यत उक्तमाश्रयेति । न च यावत्परत्वानामाश्रयाप्रसिद्ध्याऽसम्भव इति वाच्यम् । प्रत्येकिनिरूपिताश्रयस्यैव विवक्षितत्वात् । केचित्तु यावत्त्वमाश्रयविशेषणमेव । विशेषणस्य साव- धिकत्वेन विशिष्टे तदवधिकत्वान्वय इत्याहुः । अत्यन्तान्योन्याभावयोरप्यनादितया तथा- त्वादतिव्याप्तेराह कादाचित्केति । कादाचित्कभावस्यानादित्वानभ्युपगमेन व्यावत्त्याभावाद्- भावपदं स्वरूपाख्यानपरमित्याहुः । न च महाप्रलयपूर्वक्षणभाविकर्मादिप्रागभावाव्याप्तिः । तदा ब्रह्माण्डान्तरस्याप्यभावादिति वाच्यम् । तदनभ्युपगन्तृमतेनैवास्योक्तत्वात् । अत एव लीला- वतीप्रकाशे सिद्धान्तितमिदमेव लक्षणम् । ननु तथापि सर्गाद्यकालीनघटादिप्रागभावाव्याप्तिः । तत्र हि प्रतियोगिव्यापकं सर्गाद्यकालीनमेव स्याद् नित्यं व्योमादि वा ? तदवधिकञ्च परत्वमप्रसि- द्धम् । नित्यस्य तदवधिकत्वाभावात् । अपरावधिकपरत्वस्य चाश्रयाभावादनुत्पत्तेः । न हि नि- त्यद्रव्यं तदाश्रयः । बहुतरतपनपरिस्पन्दान्तरितजन्मत्वाभावेन तत्र तदनभ्युपगमात् । नापि कार्यद्रव्यम् । तज्ज्येष्ठस्य तदानीमभावात् । सर्गान्तरे तद्वत्त्वेऽपि तदानीमवधेरेवानुत्पन्नतया तदवधिकपरत्वानुत्पत्तेः । यदवधिकं यत्रापरत्वं तदवधिकमेव तत्र परत्वमित्यभ्युपगमादिति चेत् । मैवम् । जन्मांशस्य गुरुत्वेन नित्यद्रव्येऽपि तदभ्युपगमादित्याहुः । अवधिर्न परत्वकारणं, किन्तु तज्ज्ञानम् । तथा चानागतस्यैवावधेरीश्वरादीनां ज्ञाने सर्गान्तरद्रव्येषु तदुत्पाद इत्यप्याहुः । व- स्तुतो ब्रह्माण्डान्तरद्रव्यमादाय अत्रापि समाधिसम्भवे प्रलयकालक्रियाप्रागभाववदत्राप्यव्याप्ति- रभिप्रेतैवेति न दोषः । अत एव खण्डप्रलयपूर्वक्षणक्रियाप्रागभावान्याप्तिशङ्काऽपि न दोषायेति मन्तव्यम् । वस्तुतस्तु प्रतियोगिव्यापकत्वविवक्षायामपि क्षणिकशब्दाऽऽदिध्वंसे पूर्वोक्तन्यायेना- तिव्याप्तिरेवेति प्रतियोगिकालीनत्व एव तात्पर्यम् । परत्वाश्रयतयोरैक्यविवक्षया च नोक्ताति-
[प्रथमस्तबके] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५५
प्रकाशः ।
नियतत्वमपि व्यक्त्यपेक्षया, जात्यपेक्षया वा ? । नाद्यः । वह्निव्यक्तेः पूर्वं रासभस्यापि भावात् । अत एव नान्त्यः । न हि कापि वह्निजातीयपूर्वकाले न रासभसत्त्वम् । देशतोऽपि नियम इति चेत् । सोऽपि संयोगी समवायी वा प्रत्यासन्नमात्रं वा ? आद्ये गुणादीनामकारणत्वप्रसङ्गः । द्वितीये धूमं प्रति वहेरकारणत्वप्रसङ्गः । तयोरेकदेशसमवायित्वाभावात् । अन्त्ये व्योम्नः कार्यमात्रं प्रति कारणत्वप्रसङ्गः । अन्यथासिद्धत्वेऽसतीति चेन्न । कारणेतरत्वेन तत्सिद्धेः कारणज्ञानापेक्षित्वात् । नापि कार्याभावव्यापकाभावसमूहै कदेशप्रतियोगित्वं कारणत्वम् । व्योमादेः कार्यमात्रे तत्त्वापत्तेः ।
प्रकाशिका ।
दाय तथा सति ध्वंसातिव्याप्तिरित्युक्तमेवेति वाच्यम् । प्रतियोगिकालावृत्तित्वस्याऽऽश्रयविशेषणत्वा- त् । ध्वंसस्य च प्रतियोगिकालमात्रवृत्तितया तथाविधपरत्वाश्रयसमानकालत्वात् । यावत्पदसम- भिव्याहारेणैव च प्रतियोगिकालावृत्तित्वलाभो ग्रन्थाधिक्यादिति न्यायादिति न यावत्पदव्यर्थ- ताशङ्कापि । सामयिकपदं तु ध्वंसातिव्याप्तिवारणाय । प्रतियोगिनाशोत्तरानुवर्त्तमानप्रतियोगिसमा- नकालीनावधिकदैशिकपरत्वाश्रयप्रतियोगिनाशोत्तरजातपदार्थसमानकालत्वात्तस्य । एवं च भावरूप- प्रागभावाव्याप्तिरप्यपास्ता । तस्यापि ध्वंसरूपप्रतियोगिकालावृत्तिध्वंससमानकालतत्पूर्वोक्तन्नपदार्थ- र्थावधिकपरत्वाश्रयसमानकालत्वात् । अभावपदं तु विरोधिमात्रपरं तत्तत्प्रागभावलाभाय । यदा च विभाजकोपाधिनिर्वचनं तदा भावातिव्याप्तिवारणायाभावपदम् । एवं च महाप्रलयाव्यवहितक- र्म्मप्रागभावाव्याप्तिरपि निरस्ता । तत्रापि कर्म्मसमानकालीनानित्यद्रव्यावधिकपरत्वाश्रयकर्म्मपूर्वनि- ष्ठपदार्थसमानकालतासत्त्वात् । यावदनित्यद्रव्यनाशानन्तरं परमाणुकर्मोत्पत्तौ च मानाभावात् । न च चरमध्वंसप्रागभावरूपे कर्म्मण्यव्याप्तिः, विभाजकोपाधिपक्षे तस्यालक्ष्यत्वात्, कारणतानिर्व- चनेऽपि तदसंग्रहे क्षतेरभावात् । तत्कारणताया भिन्नत्वेऽपि प्रवर्त्तकज्ञानविषयकारणताया अनु- गमात्, चरमध्वंसेऽर्थं तत्प्रतियोगिन्यप्रवृत्तेः । महाप्रलयानभ्युपगमनैवेदं लक्षणमित्युपयुक्तमेवेति दिक् । कारणेतरत्वेनेति । कारणेतरत्वस्यैवान्यथाशब्दार्थत्वादिति भावः । व्योमादेरिति । तद-
मकरन्दः ।
व्याप्यादिदोषः । एतन्मतेनैवाभावपदस्य स्वरूपाख्यानपरत्वमुक्तम् । अन्यथा पर्वतादिकमादाय व्यावर्त्त्यसम्भवादित्यवधेयम् । नन्वेवमपि ध्वंसप्रागभावात्मनि घटादावव्याप्तिः, तन्न लक्ष्यमिति चेद्, भ्रान्तोऽसि । न हि प्रागभावलक्षणमिह प्रकृतं, किन्तु कारणत्वलक्षणम् । तच्च सामान्यत एव लक्ष्यं, मूलस्वरसात् । तथा च ध्वंसप्रागभावस्यालक्ष्यत्वे ध्वंसकारणसाधारणं लक्षणं न स्यात् । किञ्चैवमनुगतं कारणत्वमपि न स्यादिति तदनुगमात् प्रवृत्त्यननुगम इति चिन्त्यम् । अन्यथेत्यस्यार्थमाह । कारणेतरत्वेनेति । व्योमादेरिति । तदभावस्य केवलान्वयित्वा-
टिप्पणी ।
व्यापकाभावसमूहेति । कार्याभावव्यापकतावच्छेदकसमुदायत्वाश्रयैकदेश इत्यर्थः । अवच्छेदकत्वञ्च स्वरूपेण, न पर्याप्त्या, एवञ्च कारणाभावस्य कार्याभावव्यापकत्वेऽपि प्रत्येकन्न क्षतिः । घटत्ववदिति । युगपत्सर्वब्रह्माण्डनाशपक्षे घटत्वस्य दृष्टान्तता । वस्तुत- स्त्वैन्नत्वादिरथ दृष्टान्तः । तदाश्रयानधिकरणकालस्य प्रसिद्धत्वादिति । ननु गन्धानधिकरणकाल- सिद्धावपि तद्वृत्तित्वं प्रागभावस्य कथं सिद्धम् । शब्दप्रत्यक्षयोरभावात् । अनुमान- स्य च साध्यप्रसिद्धिमात्रेणासम्भवादिति चेन्न । प्रागभावत्वावच्छिन्नो गन्धानधिकरण- कालावृत्तिः, गन्धप्रागभाववितिप्रतीतित्रिषयत्वाद् गन्धवदित्यनुमानात्तत्सिद्धिः । गन्धे साध्यप्रसि- द्धिश्च प्रकाशोक्तानुमानादेव । तेन च काले गन्धानधिकरणत्वसिद्धौ गन्धेऽपि तुष्ट्यवितिवेद्यतया
१५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां प्रकाश । नापि सामग्र्येकदेशत्वं कारणत्वं, कारणसमूहस्यैव सामग्रीत्वात् । उच्यते । गन्धानधिकरणका- प्रकाशिका । भावस्य केवलान्वयित्वाभ्युपगमादिति भावः । गन्धानधिकरणेति। स्नेहप्रागभावेऽव्याप्तिरिति कालपदम् । अभावपदं तु विरोधिपरं तत्प्रागभावलाभाय । तत्तत्कारणतायास्तत्तत्प्रागभावघटि- तत्वात् । यत्तु भावातिव्याप्तिवारणायाभावपदं यथाश्रुतार्थमेवेति । तत्तूच्छम् । प्रकृते कारणता- निर्वचनाय प्रागभावनिर्वचनमिति ध्वंसे प्रतियोगिनः कारणत्वनिष्पत्तये भावस्यापि लक्ष्यत्वात् यदा तु विभाजकोपाधिनिर्वचनं तदा तद्व्याख्यानं समीचीनमिति । ननु गन्धानाधारसमयो नास्तीत्य- वधारितवतो मीमांसकस्य कथं प्रागभावघटितकारणताज्ञानं तदज्ञाने च कथं प्रवृत्तिः, इष्टसाधन- ताज्ञानसाध्यत्वात् प्रवृत्तेः, किञ्चैवं कारणताबोधकशब्दस्यैव महाप्रलये प्रमाणमिति तत्र विप्रति- पत्तिरपि कथं मीमांसकादेरिति चेत् । न । अनुगतप्रागभावत्वाज्ञानेऽपि तत्तत्कार्यनिरूपिततत्तत्प्रा- गभावत्वज्ञानात् तत्तत्कार्यनिरूपिततत्तत्प्रागभावव्यक्तिघटिततत्तत्कारणताज्ञानेन तत्तत्कार्या- र्थिनः प्रवृत्तेः शब्देनापि प्रतियोग्यनुगतोकृततत्तत्प्रागभावघटितकारणताया एवाभिधानात् प्राग- भावलक्षणानुगतमेवेदं स्वमते । वस्तुतः कारणत्वं स्वरूपसम्बन्धविशेषो विषयस्य ज्ञानेनैव कार्येण कारणस्य प्रतीतिसिद्धेः तज्ज्ञानमेव च प्रवृत्त्यनुकूलम् इदन्तु नियामकमात्राभिधानम् । अत एव गन्धानाधारत्वेनेव नीलानाधारत्वादिनारिप स कालो लक्षयितुं शक्य एवेति विनिगमकाभावादु- भयगर्भप्रागभावत्वघटितकारणत्वज्ञानस्य प्रवर्त्तकत्वेऽननुगम इत्यपास्तम् । नियामकानेकत्वस्या- मकरन्दः । दिति भावः । गन्धानधिकरणेति । निर्गन्धान्योन्याभावादावतिव्याप्तेराहे । कालेति । अ- भावपदञ्च घटादिवारणायेत्याहुः । तन्न । कारणत्वसामान्यलक्षणार्थं तस्य लक्ष्यतौचित्यमित्युक्त- त्वात् । तस्मात् तत्प्रतियोगिकाभावलाभार्थमभावपदम् । न हि प्रागभावसामान्यगर्भे कारणत्वं, किन्तु तत्प्रतियोगिप्रागभावावच्छिन्नसमयवृत्तित्वं तत्कारणत्वम् । तथा च तादृशकालावृत्तिस्तद- भावस्तत्प्रागभाव इति पर्यवस्यति । ननु गन्धानाधारसमयो नास्तीति निर्णयवतो मीमांसकस्येष्ट- साधनतालिङ्गककार्यताज्ञानेन प्रवृत्तिदर्शनान्नैतत्प्रागभावगर्भं कारणत्वम् । किञ्च, कारणत्वबोधक- शब्दादिरेवैवं महाप्रलयकाले प्रमाणं स्यात् । तस्य तद्घटितत्वात् । तथा च तदनभ्युपगमोऽपि तस्य व्याहन्येतेति चेत् । मैवम् । विशेषतो बाधावतारेऽपि सामान्यतस्तस्य तद्ग्रहाभ्युपगमादि- त्येके । वस्तुत इदं कारणत्वं न प्रवृत्त्यनुकूलम् । अनन्यथासिद्धिघटितत्वेन गुरुत्वात् । तथा च स्वमतेन लक्ष्यतावच्छेदकतया निरुक्तं, वक्ष्यमाणं तदनुकूलं लाघवादिति । एतेन गन्धानाधारगर्भ- वन्नीलाधारगर्भत्वादिनारिप तन्निर्वचनात्तद्गर्भं कारणत्वमपि भिद्येत । तथा च विनिगमकाभावादु- भयगर्भैष्टसाधनताज्ञानप्रवर्त्तकतायां प्रवृत्त्यननंगम इत्यापास्तम् । अन्ये तु आकाशादिपदात् कदा- टिप्पणी । तद्वृत्तित्वस्यापि सिद्धेः, पक्षतावच्छेदकप्रागभावत्वञ्च प्रतीतिविशेषविषयाभावत्वमेवेति न परम्प- राश्रयः । प्रतीतेर्व्यावृत्तिश्च कालविशेषपुरुषविशेषादेवेति न प्रतीतिविषययोः परस्परव्यावर्त्तकत्वे ऽन्योन्याश्रय इति दिक् । गन्धानधिकरणकालावृत्तिरभाव इति । ननु गन्धान धिकरणसमयो नास्तीत्यवाधितज्ञानवतो मीमांसकस्य कथं प्रागभावघटितकारणताज्ञानं तद- ज्ञाने च कथं वृत्तिः, कारणताबोधकशब्दस्यैव प्रलये मानत्वात्कथं महाप्रलये विप्रतिपत्तिरिति चेन्न । अनुगतप्रागभावत्वाज्ञानेऽपि तत्तत्प्रागभावव्यक्तिघटितकारणताविशेषज्ञानादेव प्रवृत्तेः ।
प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५७ प्रकाशः । लावृत्तिरभावः प्रागभावः । न च तत्र मानाभावः । गन्धत्वं स्वाधिकरणानधिकरणकालवृत्ति, प्रकाशिका । दोषत्वात् । वस्तुतोऽननुगमोऽपि न, कालोपाधिविशेषघटितत्वात् प्रागभावस्य स च नीलानाधारत्वेन वोपलक्ष्यतां गन्धानाधारत्वेन वेति न कश्चिद्विशेषः, उपलक्ष्यस्यैकत्वात् । केचित्तु प्रागभावगर्भं कारणत्वं लक्ष्यतावच्छेदकं, लक्षणं तु सहकारिवैकल्येत्यादिवक्ष्यमाणमिति नाननुगमादिदोषाशङ्केत्या- हुः । स्वाधिकरणेति । स्वाधिकरणत्वावच्छिन्नभिन्नवृत्तीत्यर्थः । गन्धवृत्तितया सिद्धसाधनवारणाय कालपदम् । कार्यमात्रेति । आत्मत्वादौ व्यभिचार इति कार्येति । सत्तादौ व्यभिचार इति मात्रेति । ध्वंसत्वे व्यभिचार इति जातीति । तदर्थश्च समवेतत्वमात्रमितरदलप्रवेशस्य व्यर्थत्वात् कार्यत्वं च क्षेमसाधारणकृतिसाध्यत्वमात्रमतः प्रागभावप्रतियोगित्वरूपं कार्यपदार्थमादायान्योन्याश्रय शङ्कापा- मकरन्दः । विच्छब्दाश्रयत्वेन कदाचिदघटद्रव्यातिरिक्तद्रव्यत्वेनेतिवत् कदाचिन्नीलाधारत्वेनापि समयविशेषो- पलक्षणान्न काऽपि क्षतिः । तत्समयविशेषावृत्त्यभावावच्छिन्नसमयत्वस्यैव हेतुत्वरूपतया च न प्रवृत्त्यननुगम इति वदन्ति । स्वरूपसम्बन्धविशेषः कारणता प्रतियोगित्वादिवत् , तत्परिचायक एवायं धर्मविशेष उक्त इत्याहुः ॥ स्वाधिकरणेति । स्वाधिकरणतावच्छिन्नेत्यर्थः । अत एव गन्धवृत्तित्वेन सिद्धसाधन- वारणाय, कालेति । आत्मत्वादौ व्यभिचारवारणाय कार्येति । द्रव्यत्वादौ व्यभिचारवार- णाय मात्रेति । ध्वंसत्वादौ व्यभिचारवारणाय जातीति । जातिपदार्थनिर्वचने यदि व्यर्थ- त्वशङ्का तदा तावन्मात्र एव तात्पर्यम् । ननु कार्यत्वं प्रागभावप्रतियोगित्वमित्यन्योन्या- श्रय इति चेन्न । प्रागभावसाधारणकृतिसाध्यत्वमात्रस्य तत्त्वेनाभिमतत्वादित्याहुः । खण्ड- प्रलयवृत्तितया घटत्वस्य दृष्टान्तत्वम् । तदसिद्धावपि चैत्रत्वादैर्दृष्टान्तत्वं बोध्यम् । ननु सि- द्ध्यतु गन्धानाधारसमयस्तथापि प्रागभावस्य तदनधिकरणत्वं कथं ग्राह्यम् ? न हि तत्र प्रत्य- क्षमागमो वा सम्भवति । अनुमानञ्च सम्भवेत् तत्प्रसिद्ध्युत्तरम् । तथा चानुमानप्रवृत्तौ प्रागभाव- त्वेन धीस्तस्याञ्चानुमानप्रवृत्तिरित्यन्योन्याश्रय इति चेन्न । तादृशसमयो नास्तीति निर्णयवतो मीमां- सकस्य, भविष्यतीति बुद्धिनिर्भाकातिरिक्त रूपेण प्रागभावस्यावश्यं तद्बुद्धिविषयत्वात्तेन रूपेण तद्- बुद्धिविषयत्वेन वोपस्थितस्य प्रागभावस्य लिङ्गाभासादिनापि तादृशसमयानाधारत्वमिति सम्भ- वाद् गन्धस्यैव दृष्टत्वात् । यद्वा, कादाचित्काभावत्वेनैवोपस्थितस्य तदनुमानं ध्वंसांशे बाधादे- वानुमानात् । तदनवतारे तदंशे भ्रमत्वेऽपि न क्षतिरिति । टिप्पणी । अनुगतप्रागभावत्वच्छेदं स्वमतेनैव । अन्यथा तु शब्देनापि प्रतियोग्यनुगतीकृत्य तत्तत्प्रागभा- वघटितकारणताया एवाभिधानात् । अन्यथा विषयस्य ज्ञानेनैव कार्येण कारणस्य स्वरूपसम्बन्ध- विशेषः कारणत्वं तज्ज्ञानेनैव प्रवृत्त्यादिनिर्वाहः । प्रागभावघटितकारणत्वं तु नियामकमात्रम् । अत एव च गन्धानाधारत्वेनेव नीलानाधारत्वादिनापि स काल उपलक्ष्यतां विनिगमकाभावादित्य ननुगतकारणत्वज्ञानादप्रवृत्तिरित्यप्यपास्तम् । नियामकाननुगमस्यादोषत्वात् । यद्वाननुगमोऽपि न कालोपाधिविशेषघटितत्वात् प्रागभावस्य स कालोनीलानाधारत्वेन वा गन्धानाधारत्वेन वोपलक्ष्यतां तथापि नानुगमः । उपलक्ष्यस्यैक्यात् । अथवा प्रागभावघटितकारणत्वं लक्ष्यतावच्छेदकम् ,
१५= व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां प्रकाशः। कार्यमात्रवृत्तिजातित्वात्, घटत्ववत्। स एव सर्वमुक्तिकालः। अन्यथासिद्धिश्च पञ्चधा। येन सहैवः प्रकाशिका। स्ता। घटत्ववदिति। युगपत् सर्वेश्च ब्रह्माण्डप्रलयपक्ष घटत्वं दृष्टान्तः। अन्यथा तु चैत्रत्वादिकं दृष्टान्त इति ध्येयम्। ननु गन्धानधिकरणकालसिद्धावपि तद्वृत्तित्वं प्रागभावस्य कथं ग्राह्यं प्रत्य- क्षशब्दयोरभावात्, अनुमानस्य च साध्यप्रसिद्धिमन्तरेणाप्रवृत्तेरिति चेत् न, प्रागभावत्वावच्छिन्नो गन्धानधिकरणकालावृत्तिः गन्धप्रागभावादिति प्रतीतिविशेष्यत्वात् गन्धवदित्यनुमानेन तद्प्र- हात् प्रतीतिविशेषविषयाभावत्वमेव च प्रागभावत्वमतो नान्योन्याश्रयावकाशः, पक्षनिर्वचने- तैत्पुरुषीय तत्कालीनलवमेव च प्रतीतेर्व्यावर्त्तकमिति न विषयप्रतीत्योंः परस्परव्यावर्त्तकत्वेनान्यो- न्याश्रयः, प्रतीतिश्चेत् प्रागभावीयेदानीं स्मृतेत्यनादितैव इयञ्च कल्पना भविष्यतीति मीमांसको- दिसाधारणप्रतीत्यनुरोधेन गन्धे च साध्यं प्रकाशोक्तानुमानसिद्धमेव गन्धे तत्तत्कालावृत्तित्वस्य तत्तत्काले गन्धानधिकरणत्वग्राहकेन तेन समानसंवित्संवेद्यतया विषयीकरणात् विपक्षबाधकं च प्रागभावस्य विनाशत्वनियम एवाविनाशे च प्रागभावत्वव्याघात इति। ननु गन्धानधिकरणकालेऽपि कर्मप्रागभावावृत्तिसन्देहेनाव्याप्तिसन्देहादलक्षणमिदमत आह स एवेति। तथा च कोऽपि प्रागभावो न तदेति नान्याप्तिरिति भावः। ननुयुगपन्नाशे मानाभावः, यावद्गन्धनाशो हि यावद्- दृष्टनाशात् कालविशेषद्वारा वाच्यः, स च सर्वनाशे साधारण एवेत्याशयात् पूर्वोक्तदोषभयेन योगार्थमपहाय रूढ्या अन्यथासिद्धपदार्थमाह। अन्यथासिद्धिश्चेति। एतन्निर्वचनञ्च निरुक्त- कारणतालक्षणानुसारेण, स्वरूपसम्बन्धात्मककारणताभ्युपगमे तु नैतदुपयोग इति मन्तव्यम्। येन सहैवेति। येन पृथगन्वयादिमताऽवच्छेदकीभूतेन सह यस्यापृथगन्वयादिमतः पूर्ववर्त्तित्वं गृह्यते तेन तदन्यथासिद्धमित्यर्थः। पृथगित्यादिविशेषणेन दण्डत्वेन न दण्डस्यान्यथासिद्धिः, अपृथ- गित्यादिविशेषणेन न दण्डेन दण्डसंयोगोऽन्यथासिद्धः। घटं प्रति अवच्छेदकीभूतेनेति विशेषणा- द्दण्डत्वस्याप्यनेनैव संग्रहे तत्संग्राहकान्यथासिद्धयन्तरवैय्यर्थ्यमिति दूषणमपास्तम्। अत्र ह्यवच्छे- मकरन्दः। स एवेति। नन्वत्र मानाभावः, युगपन्नाशे मानाभावात्। तथा च यावद्गन्धनाशानन्तर- मपि वस्त्वन्तरसत्त्वसम्भावनया तत्प्रागभावस्य गन्धानाधारत्वसंशयेन तत्कारणेऽपि तद्गर्भका- रणत्वलक्षणाऽव्याप्तिसन्देहः। एवञ्च व्यर्थविशेषणतासन्देहात्तद्धारणाय विशेषणमप्यदेयमिति। अत्राहुः। यावद्गन्धनाशो ह्यदृष्टभावात्। अन्यथा संयोगविभागयोरन्योन्यनाश्यतयाऽन्यतराव- स्थितौ सर्वमुक्त्यनुपपत्तेः। तथा च सर्वाद्दष्टाभावाद् यावत्कार्याभावो वाच्य इति युगपदेव सर्वना- श इति। कारणेतरत्वेनेत्यादिदोषभिया योगार्थमपहाय रूढमन्यथासिद्धिपदार्थमाह। अन्यथा- सिद्धिश्चेति। येन सहैवेति। ननु शब्दादिना दण्डपूर्ववर्त्तित्वज्ञानं विनापि तद्रूपपूर्ववर्त्तित्वग्रहसम्भवा- न्नियमोऽसिद्धः। न च प्रत्यक्षेणेति विशेषणीयम्। अतीन्द्रियान्यथासिद्धयव्याप्तेः। नियमाविवक्षा- यां दण्डरूपेणैव दण्डस्यान्यथासिद्ध्यापत्तेरिति चेन्न। रूपत्वमात्रस्यातिप्रसक्ततया दण्डरूपत्वेनैव पूर्ववर्त्तित्वग्रहो वाच्यः। तथा च साहित्यनियमात्। न चैवं द्रव्यत्वादेरतिप्रसकतया दण्डत्वेनैव टिप्पणो। लक्षणन्तु सहकारिवैकल्येत्यादि वक्ष्यतीति न किमप्यनुपपन्नमिति ध्येयम्। येन सहैवेति। येन पृथगन्वयादिमता अवच्छेदकीभूतेन यस्यापृथगन्वयादिमत इत्यर्थः। यथाश्रुते दण्डत्वेन दण्डोऽन्यथासिद्धः स्यात्। पृथगिति विशेषात् परमाण्वादीनीलघटादिनीलयोर्नीलत्वस्यैक्याद्
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५४ प्रकाशिका । दकेनावच्छेदकमन्यथासिद्धमित्यर्थोऽग्रे तु विपरीतमिति भेदात् । न चोद्भूतरूपतेजसोरेकेनापरस्यान्यथा- सिद्धिः । तत्रोभयोभयावच्छेदेनैव पूर्ववर्तित्वग्रहात् पृथगित्यादि विशेषणेनैव निरासात् । ननु कुम्भकारपितृत्वेनापि कारणत्व इयमेवान्यथा सिद्धिरिति किमिति तत्संग्राहकान्यथासिद्ध्यन्तरा- भिधानमिति चेत् न । यस्येत्यत्र स्वनियतपूर्ववर्त्तिभिन्नस्येति विशेषणात् मननव्यापारकश्रवणत्वेन कारणत्वरक्षार्थमेव तद्विशेषणस्यावश्यकत्वात् । न च तथापि रूपत्वेन दण्डरूपस्य कारणत्वमस्तु तत्रोक्तान्यथासिद्धिविरहादिति वाच्यम् । तेन रूपेणान्यत्रैत्यायन्यथासिद्धावेव प्रवेशात् । न च दण्ड- रूपत्वेनापि तदन्यथासिद्धिप्रवेशोऽस्तु तथा च किमनयान्यथासिद्धयेति वाच्यम् । तन्न ह्यवश्यकल्पनीय पूर्ववर्त्तिसाहित्यनियतत्वमित्यर्थः । तथा सति उद्भूतरूपतेजसोरुभयोर्भाभ्यामन्यथासिद्धि मकरन्दः । दण्डपूर्ववर्तित्वग्रहात्तेन दण्डस्यान्यथासिद्धिरस्त्विति वाच्यम् । येन पृथगन्वयवता सहेत्यर्थात् । अत्रापृथगन्वयादिमत इत्यपि यस्येति विशेषणं देयम् । तेन दण्डेन दण्डसंयोगस्य नान्यथासि- द्धिः । एतद्विशेषणद्वयमहिम्नैव यत्रोभयोभयविशेषणावच्छेदेनान्वयव्यनुविधानं, तत्र नैकेनापर- स्यान्यथासिद्धिः, यथोद्भूतरूपतेजसोरिति । यत्रोभयविशेषणावच्छेदेनान्वयाद्यनुविधानं, तद्भिन्न- त्वेन विशेषणान्न तादृशस्थलेऽतिप्रसङ्ग इत्यन्ये । ननु रूपवत् कुम्भकारपिताऽप्यत्रैवान्यथासि- द्धावन्तर्भवति, कुम्भकारत्वेन तदन्यथासिद्धत्वस्येष्टत्वात् कुम्भकारपितृत्वेनैव तदन्यथासिद्धित्वं वाच्यम् । तत्र तत्साहित्यनियमाद् अन्यं प्रतीत्यन्त्राप्यन्तर्भावयितुं शक्यते । कुम्भकारं प्रति पूर्व- वर्त्तित्वे ज्ञात एव तत्पितृत्वेन घटपूर्ववर्तित्वग्रहात् । तथा च तत्संग्रहार्थमन्यथासिद्धयन्तरोपवर्ण- नमयुक्तम् । एवञ्च एतत्त्वेनान्यथासिद्धस्यापि कुम्भकारत्वनेव दण्डरूपत्वेनान्यथासिद्धस्यापि रूप- त्वादिनाऽनन्यथासिद्धत्वमस्तु । ननु तदतिप्रसक्तमिति चेत् । तत् किमतिप्रसक्तत्वमप्यन्यथासि- द्धिः ? तथा चानन्यथासिद्धत्वनियतपूर्ववर्तित्वयोरप्रतिषेपे किं तेन ? किञ्च, फलानुपहितवृत्तिस्त्वस्या- तिप्रसक्तत्वस्य दण्डत्वादिसाधारणत्वाद् एतादृशस्य चाभावात् । न च तेन रूपेणान्यत्र क्लृप्तेत्य- त्रान्तर्भवतीति वाच्यम् । तर्हि दण्डरूपत्वेनाऽपि तथाऽस्तु । एवञ्च दण्डसाहित्येनैव दण्डत्वत्वेन घटपूर्ववर्त्तित्वग्रहाद्दण्डत्वमप्यत्रान्तर्भवति । यदि च रूपान्तरेण तस्य तद्ग्रहे साहित्यनियमाभा- वान्न तथा, तदा दण्डरूपेऽपि तुल्यम् । तथा च तत्संग्रहार्थमपरान्यथासिद्धिनिर्वचनमप्यसङ्गतम् । अत एवावच्छेदकजनकजन कयोरपि त्रयेणैव संग्रहसम्भवात् त्रिधैवान्यथासिद्धिरिति गङ्गेशः । न चो- भयेनापि तत्संग्रहे को दोष इति वाच्यम् । कारणत्वस्य तदभावगर्भत्वे गौरवादिति चिन्तनीयम् । टिप्पणी । घटान्तर्भावेण महत्त्वसम्बन्धात् । उष्मरूपवह्यादिरूपयोरुपत्वस्यैक्यात् उद्भूतरूपसम्ब- न्धस्य वह्न्यन्तर्भावेण सत्त्वात् परमाण्वादीनीलान्तभावेण नीलत्वादिप्रत्यक्षापत्तिः । एवं यत्रैक- देशावच्छेदेन चक्षुःसंयोगोऽपरदेशावच्छेदेनाऽऽलोकसंयोगस्तत्र प्रत्यक्षापत्तिरतः प्रत्यक्षकारणानां महत्त्वोद्भूतरूपाद्योलोकादीनां विशेष्यविशेषणभावापन्नानां कारणत्वं वाच्यम् । तथा चैकेना- परान्यथासिद्धिप्रसङ्गो वारितः । एतेनान्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकशाळित्वरूपस्य तस्य तत्राभावात् तेषां परस्परविशेष्यविशेषणभावेन विशिष्टसत्त्वस्य विशेषणसत्त्वाधीनत्वात् समवायेन कपालद्वयसंयोगसत्त्वस्य कपालसत्त्वाधीनत्वेन पृथगन्वयव्यतिरेकवत्त्वात् पृथगितिसत्त्वेन तस्या- न्यासिद्धिवारणम्, अवच्छेदकीभूततद्विशेषणेन दण्डत्वेन दण्डस्यान्यथासिद्धत्वात् संग्राहक- मन्यथासिद्धयन्तरानुधावनं विफलमिति निरस्तम् । ननु कुलालेन कुलालपितुरत्रैवान्तर्भावस्तत्- संग्राहकान्यथासिद्धद्यनुधावनं व्यर्थमिति चेत् । न । मोक्षं प्रति मननव्यापारकश्रवणत्वेन हेतु-
१६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां प्रकाशः । यस्य यं प्रति पूर्ववर्त्तित्वज्ञानम् , यथा घटं प्रति दण्डरूपस्य । अन्यं प्रति पूर्ववर्त्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववर्त्तित्वज्ञानम् , यथा शब्दं प्रति पूर्ववर्त्तित्वे ज्ञात एव घटं प्रत्याकाशस्य । प्रकाशिका । प्रसङ्ग इति अवश्यकल्पनीये स्वावच्छेदकभिन्नत्वस्यापि विशेषणात् । अन्यं प्रतीति । अन्यम्=उदा- सीनमित्यर्थः, तेन कुम्भकारपिता नास्यामन्यथासिद्धौ प्रविशतीति तदर्थमन्यथासिद्धयन्तरमुक्तम् । मननव्यापारकश्रवणत्वेन कारणत्वेऽर्थादुदासीनत्वविवक्षाया आवश्यकत्वात् । न चापूर्वं यागस्यान्य- थासिद्धिः स्वर्गापूर्ववर्तिताग्रहोत्तरमेव तस्य तत्पूर्ववर्त्तित्वग्रहादिति वाच्यम् । यं प्रत्यन्यथासि- द्धत्वं तन्निरूपितनियतोत्तरवर्त्तित्वनियतपूर्ववर्त्तित्वान्यशून्यस्योदासीनपदार्थत्वात् । पूर्ववर्तित्व इत्यत्र साक्षादिति विशेषणाद्वा । तत्पक्षे च नियतपूर्ववर्तिभिन्नस्योदासीनपदार्थत्वमित्यवधेयम् । मिश्रास्तु यस्य पूर्ववर्तित्वमित्यत्र तत्पूर्ववर्तित्वानुपपादकमिति विशेषणमित्याहुः । न च परत्वादि पूर्ववर्तित्वग्रहोत्तरमेव कालादेः कार्यान्तरपूर्ववर्तित्वग्रह इति तत्र कालादेरन्यथासिद्ध्यापत्तिः, तत्पूर्ववर्तिताग्रहं विनापि अधिकरणत्वेन कार्यमात्रे घटं प्रति कपालकारणत्वग्रहे तद्ग्रहात् । एतेन संयोगं प्रति आकाशस्यान्यथासिद्धिः स्यादित्यपास्तम् । द्रव्यत्वेन सामान्यत एव तद्ग्रहसम्भ- वात् , आकाशत्वेनान्यथासिद्धत्वस्येष्टत्वात् । ननु शब्दपूर्ववर्त्तित्वग्रहं विनापि शब्दोऽष्टद्रव्यातिरि- क्तद्रव्याश्रितो अष्टानाश्रितत्वेसत्याश्रितत्वादित्यनुमानेनाकाशोपस्थितौ तस्य घटपूर्ववर्त्तित्वग्रहात् तं प्रति कथमाकाशमन्यथासिद्धम् । न चात्राप्यनुमाने शब्दपूर्ववर्तित्वमेव विपक्षबाध- कमिति वाच्यम् । तथा सति मीमांसकानां शब्देनाकाशसिद्धिप्रसङ्गादनुकूलतर्कान्तरस्यावश्य- वाच्यत्वादिति चेन्न । नियतजातीयसिद्ध्यधीनसिद्धिकस्य तज्जातीयान्यकार्यं प्रत्यन्यथासिद्धिस्तेन- रूपेणेति विवक्षितत्वात् । नियतजातीयत्वञ्च गुणत्वव्याप्यजात्या । नन्वेवमपि द्रव्यत्वेन ज्ञानं प्रत्याकाशस्य कारणत्वमस्तु, नच तत्र ग्राहकाभावः, ग्राह्यसत्त्वे तस्यावश्यकत्वादिति चेन्न । तेन रूपेणान्यत्रेत्यादावन्तर्भावात् । न चाकाशत्वेनापि तत्रैव प्रवेशोऽस्तीति वाच्यम् । अवश्यक्लृप्तपूर्व- वर्त्तिनियतसहवृत्तिधर्मवत्त्वस्य तदर्थत्वात् । आकाशस्य चावृत्तित्वेनाकाशत्वस्यातथात्वात् । न च शब्दसाक्षात्कारं प्रत्यपि श्रोत्रस्यान्यथासिद्धिः स्यात् शब्दपूर्ववर्तिताग्रहोत्तरं तत्पूर्ववर्तिताप्र- हादिति वाच्यम् । इन्द्रियत्वेन पूर्वमपि पूर्ववर्तिताग्रहात् । न च श्रोत्रत्वेन तथाप्यन्यथासिद्धिरिति- वाच्यम् । अवद्यवधिमदभावावच्छेदकधर्म्माना श्रयतवे सतीति विशेषणात् । श्रोत्रस्य च सामान्यतः शब्दसाक्षात्कारं प्रति तथात्वात् ईश्वरज्ञानादीनां क्षितिपूर्ववर्तित्वग्रहानन्तरमेव घटपूर्ववर्तिता- ग्रहात् तत्र तदन्यथासिद्धिः स्यादिति दूषणं दूरपरास्तम् । नियतजातीयसिद्ध्यधीनसिद्धिकत्वात् मकरन्दः । अन्यं प्रतीति । न चैवं संयोगादिकमपि प्रत्याकाशस्यान्यथासिद्धत्वप्रसङ्गः । आकाशत्वे- नेष्टत्वात् । द्रव्यत्वेन शब्दपूर्ववर्तितामज्ञात्वाऽपि तत्पूर्ववर्तित्वग्रहात् । नन्वेवं यागादेरपूर्वेऽन्य- थासिद्ध्यापत्तिः । स्वर्गं प्रति पूर्ववर्तित्वे ज्ञात एव तत्र तद्ग्रहादिति चेन्न । साक्षादिति पूर्ववर्तित्व- टीप्पणी । त्वस्य सिद्धान्तसिद्धेः श्रावणज्ञानस्य मननेनान्यथासिद्धत्ववारणाय तस्येत्यत्र अनियतपूर्ववर्ति- भिन्नत्वं विशेषणं देयम् तथा च कुलालपितुरपि वारणम् । एवञ्च तत्तद्धर्म्मावच्छिन्ननिरूपितस्वतन्त्रान्व- न्वयव्यतिरेकशून्यत्वे सति तादृशान्वयव्यतिरेकबद्घर्म्मावच्छिन्ना या स्वनियतपूर्ववर्त्तिभिन्ननिष्ठा तत्तद्धर्म्मावच्छिन्ननिरूपितनियतपूर्ववर्त्तित्वग्रहविशेष्यता तदाश्रयत्वं प्रथमान्यथासिद्धेः पर्य्य-
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १६१ यदि, तदा न विवदामहे । अस्मदभिप्रेतस्य चाभावादेरनुग्राहकत्वमङ्गीकृत्य बोधनी । बुद्धानवारोहोदोष इति । तर्हि सम्प्रतिपत्तौ न विवाद इत्येतत् तदवस्थमित्यत आह-यदि-इति । प्रतिबन्धकापाकरणीयः कश्चिदधिको मीमांसकस्यापि सम्प्रतिपन्न इति कृत्वा यदि वयं न विवदा- महे ततः सोऽधिकः प्रमाणसिद्धः प्रतिबन्धकाभाव एव भविष्यतीति । अस्मदभिप्रेतस्यैवानुग्राहक- त्वमङ्गीकृत्य ततोऽधिकभावे निःसाधनको मीमांसकोऽपि न विप्रतिपत्तुमर्हतीति । एके व्याचक्षते सम्प्रतिपन्नान्वयव्यतिरेकसहकार्यपेक्षं कार्यमिति मीमांसको यदि ब्रूयान् नास्माकमत्र विवाद इत्याह-तत्रापि-इति । यदि च नैयायिकोक्तं प्रतिबन्धकाभावादेः सहकारित्वं मीमांसकोऽङ्गी- कुर्यात् तदा प्रतिबन्धकाभावसहितायाः सामग्र्याः कार्यव्यभिचाराभावात् तदतिरिक्तकल्पनं नि- ष्प्रमाणकमिति निःसाधनो मीमांसको न विप्रतिपत्तुमर्हतीत्याह-अस्मदभिप्रेतस्य च-इति । प्रकाशः । अन्यत्र क्लृप्तपूर्ववर्तिन एव कार्यसम्भवे तत्सहकृतत्वम् । यथा गन्धवति गन्धानुत्पादाद् प्रकाशिका । सामान्यत उपादानगोचरज्ञानत्वेन पूर्ववर्तित्वग्रहाच्चेति दिक् । मन्येतति । अवश्यपरिकल्पनीय- नियतपूर्ववर्त्तिसमवधाननियतत्वमित्यर्थः । तेन महत्त्वानकद्रव्यत्वयोर्बहिरिन्द्रियजन्यसाक्षात्कार- मकरन्दः । विशेषणात् । तत्पूर्ववर्तित्वानुपपादकं यस्य पूर्ववर्तित्वं गृह्यते इत्यर्थादित्यन्ये । न च परत्वादि- पूर्ववर्तित्वग्रहानन्तरमन्यकार्यं दिक्कालयोस्तद्वदित्यन्यथा सिद्धथापत्तिः । अधिकरणत्वेन तद्ग्रहं विनाऽपि कार्यमात्रे तद्ग्रहात् । नन्वन्धं प्रति पूर्ववर्तित्वे गृहीत एवेत्यत्र किं येन केनचित् ? सर्वे- ण वा ? नाद्यः । दण्डादावतिप्रसङ्गात् । नान्त्यः । शब्दोऽष्टद्रव्यातिरिक्तद्रव्याश्रितोऽष्टद्रव्यानाश्रि- तत्वे सति गुणत्वादित्यनेनाकाशसिद्धौ शब्दपूर्ववर्तित्वाग्रहेऽपि घटं प्रति तद्ग्रहसम्भवात् । न च तत्रापि शब्दं प्रति कारणतामुपजीव्यैवाकाशसिद्धिः । शब्दनित्यत्वानित्यत्वसन्देहेऽपि तदा- श्रयत्वेन तत्सिद्धयविरोधात् । अनुकूलतर्केण तत्सम्भवाच्च । वस्तुतः, शब्दनित्यत्वनिर्णयवतो मीमांसकस्य तत्पूर्ववर्तित्वमज्ञात्वैव घटादिपूर्ववर्तित्वग्रह इति नियमासिद्धिः । किञ्च, द्रव्यत्वेनैवा- काशस्य संयोग इव ज्ञानादौ हेतुत्वमस्तु । न च तत्र ग्राहकाभावेन नियतपूर्ववर्तित्वाग्रह इति वाच्यम् । प्रत्यक्षत्वे ग्राहकाभावासत्त्वात् । न च तेनैव रूपेणान्यत्रेत्यत्रान्तर्भवतीति वाच्यम् । तथा सत्याकाशत्वेनापि तथात्वापत्तेः । अपि चैवं शब्दसाक्षात्कारं प्रत्यपि तस्यान्यथासिद्धिः स्यात् । न च शब्दपूर्ववर्तितामज्ञात्वाऽपि इन्द्रियत्वेन तत्पूर्ववर्तित्वग्रह इति वाच्यम् । श्रोत्रत्वे न तथाप्यन्यथासिद्धयापत्तेः । तस्याकाशघटितत्वादाकाशस्य च शब्दपूर्ववर्तित्वग्रहं विनाभ्युप- पगमात् । अन्यथा घटेऽपि तस्यान्यथासिद्धत्वं न स्यात् । एवञ्च पाञ्चभौतिकं शरीरं प्रत्यपि तद- न्यथासिद्धं स्यात् । किञ्चेश्वरज्ञानादेः क्षितिपूर्ववर्तित्वे ज्ञात एव घटपूर्ववर्तित्वग्रहात्तत्रान्यथासि- द्धयापत्तिः । न च कार्यमात्रे कर्तृमात्रस्यैकदैव पौर्वापर्यग्रहात्तैवेमिति वाच्यम् । प्रकृतेऽपि विभु- मात्रस्यैकदैव पौर्वापर्यग्रहस्य शब्दादिना सम्भवादन्यथासिद्धयभावापत्तेः । विभुत्वेन पूर्ववर्तित्व- मात्रं गृह्यते, न तु जनकत्वमिति चेत् । ततः किम् ? न हिजनकत्वगर्भा प्रकृतान्यथासिद्धिः, आ- त्माश्रयापत्तेः । यत्तु अन्यमित्यस्य यमित्यर्थः । तेन यं प्रति पूर्ववर्तित्वे गृहीत एवेत्यर्थः, न च क्षित्यादिस्तथा । अन्यतमपूर्ववर्तित्वग्रहेणापि सम्भवेन नियमाभावात् । तत्र शब्दत्ववदत्राप्यनु गतपक्षतावच्छेदकस्याऽन्यतमत्वादेर्वा सम्भवादिति चिन्त्यम् ॥ मन्येथेति प्रायिकम् । अवश्यकल्प्यं यल्लघु नियतपूर्ववर्ति, तत् समवधाननियतत्वं तत्त्व- मित्यत्र तात्पर्यम् । तेन गुणेन दोषाभावस्य महत्त्वनानेकद्रव्यत्वस्यान्येषां वा गुरूणां पदार्था- २१ न्या० कु०
१६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्या प्रकाशः। गन्धं प्रति गन्धकादाचित्काभावस्य नियतपूर्ववर्तित्वकल्पनाद् गन्धं प्रति पाकजस्थले रूपप्रा- गभावादीनाम् । यत्र च जन्यपूर्वभावे ज्ञाते जनकस्य पूर्वभावो ज्ञायते, तत्र जन्येन जनकमन्य- प्रकाशिका। समवधाननियतत्वेनान्यत्रेत्याद्यभावादनेकद्रव्यत्वेऽव्याप्तिः, पूर्ववर्तिन इति पञ्चम्यर्थहेतुता- घटितत्वेनात्माश्रयः, रासभादेरप्येवमन्यथासिद्धतय। नियतपदस्य कारणतालक्षणे व्यावत्र्त्याभावेन व्यर्थत्वमित्यादीनि दूषणान्यनवकाशानि । नियतयद्धर्मविशिष्टस्यावश्यकल्प्यत्वं तदवच्छिन्नसमवधा- ननियतत्वं यद्धर्मावच्छिन्नस्येति वार्थः। तेन रूपवत्त्वेन दण्डस्य कारणत्वमित्यपि सिद्धं भवति । यथा च दण्डरूपाकाशयोरत्र न प्रवेशः, तथा पूर्वान्यथासिद्धिलक्षणद्वयनिरुक्तावेव व्याख्यातम् । न चाग्रिमान्यथासिद्धिसंग्राह्यस्य दण्डत्वस्यानयैव संग्रहात् तद्वैयर्थ्यमिति वाच्यम् । चक्षुःसंयोगका- रणत्वेऽवच्छेदकीभूतस्य चक्षुषोऽन्यथासिद्धत्वं स्यादिति भयेनावच्छेदकभिन्नत्वस्य विशेषणतया दण्डत्वस्यैतद्बहिर्भावात् । नन्ववश्यक्लृप्यत्वं नियतपूर्ववर्तित्वमात्रेण कारणतया वा, नाद्यः, गन्धं प्रति रूपप्रागभावस्य तथात्वेन तत्सहभूतस्य गन्धप्रांगभावस्यान्यथासिद्धापत्तेः । नान्त्यः, आत्माश्रयादिति चेत् । न । अवध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्नत्वेनावश्यकल्प्यत्व- स्य विवक्षितत्वात् । न च तदेव कारणत्वमिति वाच्यम् । बीजादङ्कुरोत्पत्तिरिति प्रतीतिबलेनोत्पत्ते- रपि सावधिकतया तस्याश्चाहेतुकतया तादृशसम्बन्धस्य कारणताभिन्नत्वात् । न च कार्यकारणयोस्ता- दृशसम्बन्धे मानाभावः प्रतीतेर्हेतुहेतुमद्भावेनैवोपपत्तेरिति वाच्यम् । उत्पत्तिनिरूपिततादृशस- म्बन्धावच्छिन्नत्वस्यैव प्रकृतनिरुक्तिप्रवेशात् । न च सहकारिणो परस्परमन्यथासिद्धिरुभयोरवश्यक- ल्प्यसमवधाननियमादिति वाच्यम् । तादृशसम्बन्धावच्छिन्नत्वेनावश्यकल्प्यत्वस्य प्रकृते विशेषण- त्वात् । गन्धकादाचित्काभावस्येति । गन्धप्रागभावस्येत्यर्थः । यत्र चेति । जन्यं नियतोत्तर- वर्त्तिनं प्रति पूर्वभावे नियते ज्ञाते तत्पूर्ववर्त्तिनो यं प्रति पूर्वभावो ज्ञायते इत्यर्थस्तेन नात्माश्रय- शङ्का, अन्यं प्रतीत्यत्र च यथा नैतत्प्रवेशस्तथा तत्रैव व्याख्यातम् । न चैवं मननव्यापारकश्रव- णत्वेन कारणत्वं न स्यादन्यथासिद्धेरिति प्रकाशविरोध इति वाच्यम् । जन्यपूर्ववर्त्तित्वग्रहमन्तरेण मकरन्दः । नामन्यथासिद्धिर्भवति । अत एव पञ्चम्या हेतुत्वाभिधानादात्माश्रय इत्यपास्तम् । पूर्ववर्त्तिन इत्यत्र पञ्चम्या अवधित्वेन तस्योक्तत्वादित्यन्ये । अत एव च रासभादेरपि यथाश्रुतान्यथासिद्धान्तर्भा- वेऽनन्यथासिद्धपदेनैव तद्वारणे नियतपदं व्यर्थमित्यपास्तम् । नन्वेवं दण्डरूपाकाशदण्डत्वाना- मप्यत्रैवान्तर्भावे तत्संग्राहकान्यथासिद्धीनामानर्थक्यम् । किंन्वावश्यकल्प्यत्वं नियतपूर्ववर्तित्वमा- त्रेण, कारणतया वा ? नाद्यः । गन्धं प्रति रूपविशेषप्रागभावस्यापि तथात्वेन तेनैव गन्धप्राग- भावाऽन्यथासिद्धापत्तेः । नान्त्यः । आत्माश्रयात् । अपि च सहकारिणां परस्परस्य परस्परेणा- न्यथासिद्धापत्तिः, द्वयोरप्यवश्यकल्प्यलघुनियतपूर्ववर्तित्वेन तत्समवधाननियतत्वात् । न च पृथगन्वयाद्यननुविधायित्वे सतीत्यपि विशेषणम् । तद्धि पृथगन्वयादिग्रहाविषयत्वं वा समनिय- तत्वं वा ? नाद्यः । रूपप्रागभावस्यापि शब्दादिना तादृशग्रहविषयत्वेन तथात्वापत्तेः । नान्त्यः । आलोकतद्रूपादेरीश्वरज्ञानादेश्चैवमपि परस्परमन्यथासिद्धापत्तेः । एतेनावश्यकल्प्यपूर्ववर्तिन एव कार्यसम्भवे तन्नियतसहभूतत्वमित्यर्थः । पञ्चमी चावधित्वे, न हेतुत्वे इत्यपास्तमिति चिन्त्यम्॥ गन्धकादाचित्काभावस्येति । गन्धप्रागभावस्येत्यर्थः । यत्र च जन्येति । जन्यजन- कत्वं वास्तवं नियतपूर्ववर्तित्वमात्रं विवक्षितमिति नात्माश्रयः । इयञ्च तत्पितृत्वेनान्यथासिद्धि- र्बोध्या । कुलालत्वेन तस्यापि हेतुत्वात् । अत्रापीदं चिन्त्यम् । पूर्वेनैवास्यान्तर्भावे वैयर्थ्यमित्यु-
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १६३ प्रकाशः । थासिद्धम् , यथा कुम्भकारेण कुम्भं प्रति तत्पिता । यमादायैव यस्यान्यवयव्यतिरेकौ तेन तदन्यथासिद्धम् , यथा दण्डेन दण्डत्वम् । एतावदन्यथासिद्ध्यभावे सति यस्य नियतपूर्ववर्त्ति- त्वं, तत् कारणम् । (पृ० १५०) सहकारीति । नन्वत्रात्माश्रयः सहकारित्वस्य कारणत्वात् , प्रकाशिका । तज्जन्यं यत्कार्यप्रयोजकत्वं, न यस्य गृह्यते तत्कार्यं प्रति तदन्यथासिद्धमित्यर्थात् । श्रवणस्य श्रोतव्य इत्यादिशब्देन मनन पूर्ववर्त्तित्वामगृहीतवापि मुक्तिप्रयोजकताग्रहात् , अत एव परामर्शजनक- त्वेन व्याप्तिग्रहादीनां कारणत्वेऽपि नान्यथासिद्धिः । अनुमितेः करणजन्यत्वानुमानेनैव परामर्शपूर्व- वर्त्तित्वमगृहीत्वाप्यनुमितिप्रयोजकत्वग्रहात् । कुम्भकारपितुः कुम्भकारपितृत्वमगृहीत्वा मानाभावे- न घटप्रयोजकत्वाग्रहाद् घटं प्रति सोऽन्यथासिद्ध इति दिक् । यमादायैवेति । यं पृथगन्वयाद्यन- नुविधायिनमवच्छेदकीकृत्य यस्यान्यवयव्यतिरेकौ तेनान्वयव्यतिरेकवतावच्छेदकमन्यथासिद्धमित्यर्थः । पृथगित्यादिविशेषणेन न दण्डरूपेण दण्डेऽन्यथासिद्धिः । प्रथमान्यथासिद्धिरवच्छेदकेनावच्छेद्यस्ये यन्त्ववच्छेद्येनावच्छेदकस्येति ततो भेदः । यमित्यत्र कार्येण सहावच्छेद्यापेक्षयाऽव्यवहितसम्बन्ध मिति वा विशेषणम् । तेन दण्डावच्छिन्नस्य दण्डत्वस्यान्यवयव्यतिरेकग्रहेऽपिन दण्डत्वेन दण्डेऽन्यथा सिद्धिः । अत एव नोद्भूतरूपतेजसोः परस्परमन्यथासिद्धिः । विषयतया साक्षात्कारेण तुल्यवदुभयोः सम्बन्धत्वात् । अत एव नेन्द्रियसंयोगेनेन्द्रियान्यथासिद्धिः । विषयद्वारा तुल्यवदुभयोः साक्षा- त्कारसम्बन्धात् यथा च न दण्डत्वस्य पूर्वत्रान्तर्भावः, तथा तत्रैव व्याख्यातमिति । नियतेति । यद्धर्मावच्छिन्नकार्याव्यवहितक्षणत्वव्यापकाधिकरणताप्रतियोगित्वं यद्धर्मावच्छिन्नस्य तद्धर्माव- च्छिन्नं प्रति तद्धर्मावच्छिन्नं कारणमित्यर्थः । अधिकरणता च स्वस्वप्रागभावव्यापकप्रागभाव- प्रतियोग्यन्यतरस्य तेन यागादेः स्वर्गकारणत्वाविरोधः । अधिकरणता च कार्यदेशावच्छिन्ना बो- द्धव्या, तेन रासभस्य नियतघटानव्यवहितपूर्वकालत्वेऽपि न तत्कारणत्वम् । ननु तद्देशाधिकरणता साक्षात्सम्बन्धेन वा साक्षात्परम्परासाधारणसम्बन्धेन वा, आद्ये अदृष्टस्य घटकारणत्वं न स्यात् , अन्त्ये रासभस्यापि घटकारणतापत्तिरितिचेन्न । एकजातीयतानियतेन सम्बन्धेन साक्षादेव वा पर मकरन्दः । क्तमेव । मननव्यापारकश्रवणत्वेन हेतुत्वमिति द्रव्यप्रकाशविरोधश्च । यदि मननपूर्ववर्त्तित्वमज्ञा- त्वाऽपि, श्रोतव्य. इत्यादिशब्दादिना श्रवणपूर्ववर्त्तित्वग्रहसम्भवे भिन्नग्रहसामग्रीकत्वादिति नैर्षं, तदा प्रकृतेऽपि तुल्यमिति । यमादायति । न च येन सहेत्यनेनाभेद इति वाच्यम् । तत्र साहित्यप्रतियोगिना दण्डेनान्वयादिप्रतियोगि रूपमन्यथासिद्धमिति हि विवक्षितम् । अत्र च साहित्यप्रतियोगिदण्डत्वमेव दण्डेनान्यथासिद्धमिति भेदात् । अत्रापीदं चिन्त्यम् । पूर्वत्रैवास्या- न्तर्भावे वैयर्थ्यम् । उद्भूतरूपतेजसोः परस्परमन्यथासिद्ध्यापत्तिः । इन्द्रियादेरिन्द्रियसंयोगा- दिनाऽन्यथासिद्ध्यापत्तिश्च । किञ्च दण्डत्वावच्छेदकसमियतधर्म्मान्तरमादायापि शब्दादिना- ऽन्वयादिग्रहसम्भवान्नियमसिद्धिः । प्रत्यक्षपरत्वेऽतीन्द्रियावच्छेदकाऽव्याप्तिः । अन्यथा दण्ड- मादाय दण्डत्वेन तद्व्यान्वयादिग्रहात्तेन दण्डान्यथासिद्ध्यापत्तेरिति । नियतेति । ननु नियतत्वं देशमपेक्ष्य कालमपेक्ष्य वा ? । नाद्यः । रासभेऽपि गतत्वात् । घटपटादिपूर्वकाले रासभजातीयस्य नियमेन सत्त्वात् । नान्त्यः । साक्षात्सम्बन्धेनादृष्टादेर्घटा- दिदेशेऽनियतत्वात् । साक्षात्परम्परासाधारणसम्बन्धमात्रापेक्षया रासभे घटादिदेशनियतत्वेना- तिप्रसङ्गादिति चेत् । मैवम् । साक्षात्परम्परासाधारणैकजातीयसम्बन्धेन देशनियतत्वस्य विवक्षि- तत्वात् । रासभादेरेकजातीयसम्बन्धेन घटादिदेशनियतत्वाभावाद् घटादेरेकजातीयसम्बन्धेना-
१६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां प्रकाशः । प्रयुक्तत्वं च न जन्यत्वं, प्रागभावस्याजन्यत्वात् । नापि जनकत्वम् , असम्भवात् । नापि व्या- पकत्वम् । शिलाशकलेऽपि तादृशाभावस्य सत्त्वेन तत्रातिव्याप्तेः । नाऽपि व्याप्यत्वम् । कार्य- संसर्गाभावमात्रस्य सहकार्याभावाव्याप्यत्वात् । शिलाशकलादौ कार्याभावे सत्यपि सहकार्याभाव- स्याऽसत्त्वात् । न च कार्यप्रागभावस्तद्व्याप्यः । निमित्तसमवायिनोः कार्यप्रागभावाभावेन तद- व्याप्तेः । उच्यते । यस्य कार्याभावव्याप्यत्वमितराभावावच्छिन्नं, तत् कारणम् । बीजेऽङ्कुरा- भावव्याप्यता न बीजत्वेनावच्छिद्यते, इतरसमवधाने सति बीजादङ्कुरसत्त्वात् । किन्त्वितराभावे प्रकाशिका । म्परया वा तद्देशाधिकरणत्वस्य विवक्षितत्वात् । न च कियत्सु घटेष्वपि रासभस्यापि नियतः सम्बन्धोऽस्त्येवेति कार्यतावच्छेदकावच्छिन्न एकजातीयः सम्बन्धो नादृष्टस्यापि द्रव्यगुणादौ तस्य- नानाजातीयतद्देशसम्बन्धादिति वाच्यम् । कारणता हि प्रतिकार्यं प्रतिकारणं च भिन्नेति तत्र तत्र कार्येऽदृष्टस्य नियतजातीयदेशसम्बन्धात् । न च कार्यत्वावच्छिन्नेऽदृष्टत्वेन कारणतायां नैकजातीयसम्बन्ध इति वाच्यम् । तस्याः कारणतायाः साक्षात्परम्परासाधारणनानाजातीय सम्बन्धमात्रघटितत्वात् । न चैसैव कारणता रासभेऽतिव्याप्तेति वाच्यम् । तस्यां कारणतायामुक्त रूपविशेषकारणताश्रयत्वस्य विशेषणत्वात् । ताश्च विशेषकारणताः कार्यत्वव्याप्यधर्मनिरूपितत्वे सत्यदृष्टत्वव्याप्यधर्मनिरूपितत्वेनानुगमनीया इति न तद्घटितसामान्यकारणतानुगम इति दिक् । यस्य कार्याभावेति । यस्यावध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्नकार्याभावव्याप्यता- इतरसहकार्याभावावच्छिन्ना तदवच्छिन्नं कारणमित्यर्थः । तेन शिलात्वेऽपि संयोगावच्छिन्नाङ्कुराभा- वव्याप्यता न शिलात्वेनावच्छिद्यते शिलायां कदाचिदङ्कुरसत्त्वादिति तत्रातिव्याप्तिः, यत्र दण्डाभा- ववत्त्वं तत्र घटाभाव इति व्याप्तावधिकरणतया दण्डाभावस्यावच्छेदकतया तदवच्छिन्ने दण्डाभाववत्त्वे ऽतिव्याप्तिः, कार्याभावव्याप्यता इतरसहकृतत्वावच्छिन्ना बीजत्वस्येति तत्रातिव्याप्तिरित्यादीनि दूषणानि न भवन्ति । न च चरमकारणे कार्याभावाभावादव्याप्तिः, चरमकारणेऽपि परामर्शादौ सति प्रतिबन्धके कार्याभावात् यत्रापि न विलम्बः परामर्शादनुमितौ, तत्रापि तज्जातीयत्वम- स्त्येव, तदेव च लक्षणम् । न चैवमपि विभागकारणे कर्म्मणि प्रतिबन्धकस्याप्यभावादसङ्गतिरिति वाच्यम् । उत्पत्तिकालावच्छिन्नस्य कर्म्मणो विभागाभावाधिकरणत्वात् । एवं च स्वासाधारणेतर- धर्म्मावच्छिन्नं यस्योक्तसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं तदवच्छिन्नं कारणमिति लक्षणवा- क्यार्थः । अन्यथासिद्धानाञ्च स्वभावत एवोक्तसम्बन्धावच्छिन्नकार्याभाव इति न तत्रातिप्रसङ्गः । अत एव तदवच्छिन्नस्य धर्मिणः कारणत्वमित्येवार्थो न तु तदवच्छेदैन कारणत्वमिति तेन न रूपवद् दण्डत्वमादायातिप्रसङ्गः । अरण्यस्थदण्डत्वं यद्यपि स्वरूपेण घटाभावव्याप्यम् , तथापि दण्डत्वमादायैव तत्र कारणता। अग्रे च बीजबीजत्वपदे बीजत्वबीजत्वपरे इति दिक् । ननु कार्य- कारणयोरवध्यवधिमद्भावसम्बन्धे मानाभावः । प्रतीतेः कार्यकारणभावेनैवोपपत्तेरित्युत्पत्ति- मकरन्दः । ऽदृष्टादेर्नियतत्वादिति वदन्ति । तन्नेदं चिन्त्यम् । कियत्सु घटेषु रासभस्याऽप्येकजातीयसम्बन्धेन देशनियतत्वादतिप्रसङ्गः । कार्यतावच्छेदकावच्छेदेनादृष्टस्याप्यतथात्वम् । द्रव्यगुणाद्यनेककार्ये एकजातीयसम्बन्धाभावादिति ॥ यस्य कार्याभावव्याप्यत्वमिति । इतराभावसहकारावच्छिन्नं तदवच्छिन्नं कारणमि- टिप्पणी । वक्षितार्थः। प्रागभावस्याजन्यत्वादिति । ध्वंसस्योत्तरभावितयात्राप्रयोजकत्वात् कार्याभावस्य तस्य जन्यत्वमपि न किञ्चित्करमतः प्रागभावस्येति प्रागभावेत्युपलक्षणमत्यन्ताभावस्येत्यपि बोध्यम् । यस्य कार्याभावव्याप्यत्वमिति । अवध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्न
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १६५ प्रकाशः । नावच्छिद्यते । इतराभावे बीजेऽङ्कुराभावनियमात् । शिलायां तु तत् , शिलात्वेनैवावच्छिद्यते । मकरन्दः । त्यर्थः । तेन बीजत्वस्य कार्याभावव्याप्यत्वस्य जनकत्वाभावान्नासम्भवः । न वा यत्र दण्डाभा- ववत्त्वं तत्र घटाभाव इति दण्डाभावनिष्ठव्याप्तौ दण्डाभावस्यैवावच्छेदकतयाऽजनके दण्डा- भावादौ चातिव्याप्तिः । तत्र दण्डाभावसहकृतत्त्वस्यानवच्छेदकत्वात् । एवञ्चाग्रे बीजत्वादि- पदं तद्धर्मपरमिति । ननु कार्याभावस्तजनकत्वाभावो वा, तदभावमात्रं वा ? । आद्ये आत्माश्रयः । अन्त्ये शिलायामप्यङ्कुरस्य संयोगवृत्त्या सत्त्वेन तत्रापीतराभावसहकृतशिला- त्वस्य कार्याभावव्याप्यत्वात् । किञ्च घटकारणे ज्ञानादौ कार्याभावव्याप्यत्वं ज्ञानत्वादिनै- वावच्छिद्यते । दण्डाद्यभावसाहित्यस्य तत्र नीलधूम इव व्यर्थत्वादिति चेत् । अत्र वदन्ति । उत्पत्तिकालीनसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं विवक्षितम् । संयोगसम्बन्धस्योत्पत्त्यनन्तर- कालीनतया तदवच्छिन्नाभावमादाय न शिलादौ प्रसङ्गः । उत्पत्तिकालीनसम्बन्धो द्वयमेव, कार- णता समवायश्च । तदवच्छिन्नाङ्कुराभावश्च समवायिनि बीजादौ च । द्वयञ्च कारणमेव । न चैवं कारणतागर्भत्वेनात्माश्रयः । सम्बन्धत्वेनैव तज्ज्ञानादिति । अत्र वदन्ति । विषयविषयिभाव- सम्बन्धस्याप्युत्पत्तिकालीनतया तदवच्छिन्नकार्याभाववत्त्वस्येतराभावावच्छेदकतया वह्न्यादेरनुमिति- जनकत्वापत्तिः । चरमकारणे कार्याभावाभावादव्याप्तिश्चेति । बीजादङ्कुर इति प्रतीतिबलादवध्यव- धिमद्भावलक्षणः स्वरूपसम्बन्धविशेष एव विलक्षणः । कार्यकारणयोस्तत्सम्बन्धावच्छिन्नकार्या- भावश्च कारण इतराभावावच्छेदेन । स्वरूपायोग्ये च तादृशसम्बन्धाभावात् तदवच्छिन्नकार्याभावः स्वासाधारणशिलात्वादिकर्मोवच्छेद्यः । एवञ्च तादृशसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं यन्त्र स्वा- साधारणधर्मेत्तरावावच्छिन्नं तदवच्छिन्नं कारणमित्यत्र तात्पर्यम् । चरमकारणे च यद्यपीतराभावो नावच्छेदकस्तथाप्युत्पादकाल एव तथा । उत्पादामन्तरमेव कार्योत्पादेन तदा कार्याभावात् । यद्वा, परामर्शदौ चरमकारणेऽपि प्रतिबन्धकाभावविलम्बेन कार्योत्पत्तिविलम्बादितराभावावच्छिन्नमेव । टीप्पणी । कार्याभावव्याप्यता यस्य स्वासाधारणधर्मातिरिक्तधर्मावच्छिन्ना तत्त्वमित्यर्थः। तेन यत्र दण्डा- भाववत्त्वं तत्र कार्याभाव इति दण्डाभाववत्त्वनिष्ठव्याप्तेरधिकरणविधया दण्डाभावावच्छिन्नत्वेऽपि नातिव्याप्तिः । शिलाशकलेऽपि कदाचित् संयोगेन कार्यस्य सत्त्या तत्स्वरूपस्यापि निःस्वरूपेण व्याप्यता रासभस्यापि सामग्रीकाले कार्यदेशे सत्त्या दण्डाद्यभावावच्छिन्नैव कार्यभावाव्याप्यतेति न तयोः कारणत्वप्रसङ्गः । स्वरूपायोग्येन सहकार्यस्यावध्यवधिमद्भावसम्बन्धानङ्गीकारात् शिला- शकलादङ्कुरं रासभाद् घट इत्यप्रतीतेः सर्वदैव स्वरूपत एव तयोः कार्याभाववत्त्वमितीतरस्य धूमे वह्निव्याप्यतायां नैल्यस्येव वैयर्थ्यान्नावच्छेदकत्वम् । स्वरूपयोग्येषु बीजदण्डकपालादिषु स्व- रूपतो न सदा कार्याभावः, बीजादङ्कुरम् दण्डाद् घटः सति कारणान्तर इति प्रतीतेः, किन्तु सहकार्य- न्तरविरहे बीजादपि नाङ्कुरमिति प्रतीतेरितरकारणाभावविशिष्ट एव बीजादौ निरुक्तसम्बन्धाव- च्छिन्नकार्याभावनियम इति तन्निष्ठव्याप्यतवैवेतरावावच्छिन्नेति तेषु समन्वयः । कर्मसद्भावे विभागनियमेऽप्युत्पत्तिकाले कार्याभावेन तन्निष्ठाया व्याप्यताया इतराभावानवच्छिन्नत्वेऽप्युत्पत्ति- कालेनेतरेणावच्छेद्यत्वात् । परामर्षनिष्ठातुमित्यभावव्याप्यतायाश्च प्रतिबन्धकेनापीतरेणावच्छेद्यत्व- सम्भवान्न तयोर्व्याप्तिः । न च विनश्यदवस्थाद्यतो जन्म कार्यस्य तस्य कार्यक्षणेऽविद्यमानत्वात् कदाचिदपि कार्यवत्त्वासम्भवात् तस्य स्वरूपेणैव कार्याभावनियतत्वम् । कार्योत्पत्तेः प्राक् सम्ब- न्धसत्त्वेऽपि कार्यस्यैवाभावात् कार्याभाववत्त्वम् । अन्यथा कर्मण उत्पत्तिकालावच्छिन्नं कार्याभा-
१६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां निःसाधना मीमांसका अपि न विप्रतिपत्तुमर्हन्ति । ततोऽभावादिरनुग्राहक इत्येके, नेत्यपरे, इति विवादकाष्ठायां व्युत्पादितञ्चैतस्यानुग्राहकत्वम् । किमपरमव शिष्यते यत्र प्रमाणमभिधानीयमित्यलमतिविस्तरेण ॥ बोधनी । ततश्चार्यं विवादविषयोऽवशिष्यत इत्याह-ततः-इति । तस्याभावादेरनुग्राहकत्वमनन्यथासिद्धा- न्वयव्यतिरेकित्वे व्युत्पादितम् , अतः शक्तिनिषेधो नाम न कश्चिदन्योऽर्थः प्रमाणसाध्योऽस्तीति- शक्तिविषयेयं कथोपरम्यत इति । नन्वेवमपि भूतधर्म्मत्वमपूर्व्वस्य न सिद्ध्यतु, चेतनधर्म्मत्वेऽपि विनिगमना कुतस्त्येत्याह- प्रकाशः । यद्वा, अन्यासमावधानावच्छिन्नकार्यानुत्पत्तिव्याप्यत्वं कारणत्वम् । रासभादेश्च स्वत एव कार्याभाव- व्याप्यतयाऽन्यासमावधानस्य वैय्यर्थ्येनानवच्छेदकत्वादिति । (पृ. १५१) ततोऽधिकेति । कार- णत्वस्योभयसिद्धत्वात् तदन्यशक्तिनिषेधकमित्यर्थः । (पृ. १५१) अनुग्राहकत्वेति । कारणत्वस्य शक्तिपदवाच्यत्वेऽपि अनुग्राहकत्वस्य कारणसहकारिसाधारणत्वात् सहकारिष्वपि शक्तिपदप्रयोगः । यत्समवधाने नियतं कार्यं, तस्यैवानुग्राहकत्वादित्यर्थः । तत इति । मन्त्रादिप्रयोगे किं भावरूपो- ऽनुग्राहको नास्त्यभावरूपो वेति विप्रतिपत्त्या कथायामभावस्यानुग्राहकत्वे व्युत्पादिते कान्यत्र प्रमाणं वाच्यमित्यर्थः । प्रकाशिका । गर्भलक्षणमाह । अन्यासमाधानेति । दण्डाद् घटोत्पत्तिरिति प्रतीतेरनन्यगतिकतया तयोः तादृशसम्बन्ध इति भावः । अत्रापि यस्य व्याप्यत्वं तदवच्छिन्नत्वं कारणत्वमिति पूर्व्वदेव व्या- ख्यानं सर्व्वम् । रासभादेः=रासभत्वादेः । अनुग्राहकत्वेति । तथा च भक्तित्वेन रूपेण सह- कारिविषयक एव विवाद इत्यर्थः । गुरुत्वादिरित्यादिपदसंग्राह्यशक्तिपदशान्तनिषेधेऽपि गुरुत्वद- मकरन्दः । यदि च कचिच्च तथात्वं, तदा तज्जातीयत्वं लक्षणं बोध्यम् । न चारण्यस्थदण्डे तद्दण्डत्वादिनैव तदवच्छेदाद्व्याप्तिरिति वाच्यम् । दण्डत्वमादाय लक्षणसत्त्वादिति । अन्यासमावधानावच्छिन्नेति । अन्यासमावधानावच्छिन्नं कार्यात्नुत्पत्तिव्याप्यत्वं यस्य, तदवच्छिन्नं कारणत्वमित्यर्थः । उत्पत्तिगर्भतया पूर्व्वस्माद्भेदः । शेषं पूर्ववत् । कारणत्वसहकारी- त्यत्र द्वन्द्वः । टिप्पणी । वत्त्वं न स्यादिति वाच्यम् । तज्जातीयवत्त्वस्य लक्षणात् । स्वरूपायोग्यश्च कार्य्यकालेऽपि सम्बन्धस्यैवा भावेन कार्य्याभाववत्त्वं बोध्यम् । व्याप्यता च तादात्म्येनेति । यद्वा यद्धर्म्मस्य स्वेतरावच्छिन्नं व्याप्यत्वं यद्धर्म्मवत्त्वं कारणत्वम् । न ह्येवंविवधं किञ्चित् कारणमस्ति यज्जातीयं कार्य्योत्पत्ति- क्षणेऽपि नास्ति । एतेनोत्पत्त्यवच्छिन्नकर्मणो विभागावच्छिन्नकर्मव्यतिरेकेऽपि न क्षतिः । उत्पत्त्यवच्छिन्नकर्म्मत्वाधिकरणताया विलक्षणत्वात् । न च प्रागभावस्य सामग्रीनाश्यत्वे स्वरूपत एव सदैव कार्य्याभाववत्त्वमिति तत्र का गतिरिति वाच्यम् । प्रतियोगिनाश्यत्वस्यैव तस्य स्वीका- रात् । उत्पन्नपुनरुत्पत्तेः कार्य्यसहभावेन कारणत्वाभ्युपगमेन वारणीयत्वात् । प्रागभावानभ्युपग- माद् वा सर्व्वमवदातम् । कारणेन सह कार्य्यस्य नावध्यवधिमद्भावलक्षणसम्बन्धः, उक्तप्रतीतेः कार्यकारणभावेनैवोपपत्तेरित्यत आह यद्वा मन्द्यासमवधानावच्छिन्नेति । उत्पत्तेर हेतु- कत्वाद् बीजादङ्कुरोत्पत्तिरिति प्रतीतेस्तस्यावश्यकत्वादिति भावः ।(१) इति प्रथमस्तबकप्रकाशटिप्पणी । ( १ ) इतः परं प्रथमस्तबकप्रकाशटीप्पणी आदर्शपुस्तके नास्ति ।
ऽ प्रथमस्तबके ] अंपूर्वस्य चेतनधर्मत्वाक्षेपः । १६७ तथापि चेतन एवायं संस्क्रियते, न भूतानीति कुतो निर्णय इति चेत् । उ- च्यते । भोक्तॄणां नित्यविभूनां सर्वदेहप्राप्तावविशिष्टायां विशिष्टैरपि भूतैर्निया- मकाभावात् प्रतिनियतभोगासिद्धेः । न हि तच्छरीरं तन्मनस्तानीन्द्रियाणि विशिष्टान्यपि तस्यैवेति नियमः । नियामकाभावात् । तथा च साधारणविग्रह- वत्त्वप्रसङ्गः । न च भूतधर्म एव कश्चिच्चेतनं प्रत्यसाधारणः । विपर्ययदर्शनात् । द्वित्वादिवदिति चेन्न, तस्यापि शरीरादितुल्यतया पक्षत्वात् । नियतचेतनगुणो- पग्रहेणैव तस्यापि नियमो, न तु तज्जन्यतमात्रेण, स्वयमविशेषात् । बोधनी । तथापि इति । अत्र संभोगो निर्विशेषाणामित्येतदुत्तरयति — उच्यत-इति । अदृष्टविशेषविशिष्टे- ष्वपि शरीरादिभूतेषु सर्वात्मनां सर्वत्र सर्वदा सन्निधानाविशेषादिदमस्यैव शरीरं नान्यस्येति नि- यामकाभावेन प्रतिनियतभोगासिद्धेः चेतन एव संस्क्रियत इति निर्णयत इति । तदेवोपपादयति- न हि-इति । तच्छरीरं यस्यैवेति दृश्यते तदपूर्वविशिष्टमपि तस्यैवेति नियमो न स्यादिति । तदनियमे दोषमाह — तथा च-इति । ननु भूतधर्मत्वेऽप्यपूर्वस्य कञ्चिच्चेतनं प्रत्यसाधारण्यं भविष्यति । ततस्तद्विशिष्टं शरीरादि तस्यैवेति नियमः स्यादित्यत्राह न-च-इति । भूतधर्मा हि रूपादयः सर्वान् प्रति ज्ञानजनकत्वेन साधारणा दृश्यन्त इति । शङ्कते—द्वित्वादिवत्— इति । द्वित्वादयो हि भूतधर्माः केनचिदेव ज्ञायन्ते नान्येनेत्यसाधारण्येन दृष्टान्ता इति । न-इति । द्वित्वादेरपि शरीरादिना तुल्ययोगक्षेमत्वात् भूतधर्मत्वेनासाधारणत्वस्यासिद्धत्वादिति । तुल्यतामेवाह—नियत-इति । यस्यापेक्षाबुद्धिजन्या द्वित्वादयस्तस्यैव ते स्वविषयां बुद्धिं जनयन्ति नान्यस्येति नियतचेतनगुणोपगृहीतत्वेनैव तेषामसाधारण्यं, न तु भूतधर्मत्वमात्रेण, स्वयमविशेषादिति । रूपादिभ्यो द्वित्वादीनां स्वगतविशेषाभावादिति । यद्वा, स्वरूपेणासाधा- रण्यादित्यर्थः । यद्यपि द्वित्वादीनां स्वयमविशेषः, तथापि नियतचेतनगुणोपग्रहाभावे किं बाधकं येन नियम- प्रकाशः । भोक्तॄणामिति । भोक्तृप्रत्यासत्तेरविशेषात् किञ्चिच्छरीरं कस्यचिदेव भोगं जनयतीति प्रतिनियतभोगान्यथानुपपत्त्या प्रतिनियतभोक्तृकर्मोपार्जितत्वं शरीरादावभ्युपेयमित्यर्थः । विशि- ष्टैरित्यभ्युपगमवादः । असाधारण इति । प्रतिनियतभोगजनक इत्यर्थः । विपर्ययेति । भूत- धर्मस्य नीलादेस्तथात्वादर्शनादित्यर्थः । द्वित्वादीति । यथा भूतधर्मोऽपि द्वित्वादि यस्यैवापे- क्षाबुद्ध्या जनितं तस्यैव भोगजनकं, तथा अपूर्वमपि तद्धर्मः स्यादित्यर्थः । द्वित्वादेरप्यसाधारणत्वं नियतचेतनगुणोपग्रहेणैवेत्याह । तस्यापीति । तस्यैवेति = तदवच्छेदकस्यैवेत्यर्थः । विपर्ययदर्शनात् = भूतधर्मत्वेन स्थितस्य नीलादेस्तथात्वादर्शनादित्यर्थः । पक्षत्वादिति । चेतनगुणोपसंग्रहं विनैव तज्जन्यतमात्रेणासाधा- रणभोगजनकत्वं द्वित्वदृष्टान्तेनापूर्वादौ प्रसाध्यम् । दृष्टान्तो हि निश्चितसाध्यकः, तत्रास्मदादिभिः शरीरस्येव द्वित्वस्यापि चेतनगुणोपग्रहेणैवासाधारणभोगनियामकत्वं स्वीक्रियते तज्जन्यतयैव- चान्यं प्रत्यपि स्यात्, मालाकारकृतिप्रसाधितमालाद्यत् उपग्रहेण तथात्वे सहकारिणामपेक्षाबुद्धिद्वि- त्वनिर्विकल्पकादीनां तदात्मन्येव भाव इति तत्रैव द्वित्वं प्रत्यक्षजनकमिति न नियमभङ्गः । तथा च सन्दिग्धसाध्यकत्वान्न दृष्टान्तत्वमिति भावः । उपग्रहो नाम सहकारित्वं तथा च चेतनगुणोपसंग्रहेणे- त्यस्य चेतनगुणसहकारेणेत्यर्थः ।
१६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकान्याख्यायां तथापि तज्जन्यतयैव नियमोपपत्तौ विपक्षे बाधकं किमिति चेत्, कार्यकारण- भावभङ्गप्रसङ्गः । शरीरादीनां चेतनधर्मोपग्रहेणैव तद्धर्मजननोपलब्धेः । तत् यथा, इच्छोपग्रहेण प्रयत्नो ज्ञानोपग्रहेणेच्छादयः, तदुपग्रहेण सुखादय इत्यादि । प्रकृ- तेऽपि चेतनगता एव बुद्ध्यादयो नियामकाः स्युरिति चेद् ? न । शरीरादेः प्राक् बोधनी। स्य नियतगुणोपगृहीतत्वेन व्याप्तिः सिध्येदित्याशयेन पृच्छति-तथापि-इति । यदि द्वित्वादयो नियतचेतनगुणानुगृहीता भवेयुस्तर्हि तेषां चेतनधर्मेण स्वविषयज्ञानेन सह यः कार्यकारणभावः स भज्येतेत्याह-कार्यकारण-इति । स्वविषयज्ञानजनकत्वानुपपत्तिर्बाधकमित्यर्थः । कुत इत्यत आह- शरीरादीनाम्-इति । चेतनधर्मजनकत्वस्य तद्धर्मोपगृहीतत्वेन व्याप्तिप्रदर्शनादित्यर्थः। व्याप्तिमेवोदाहरणे दर्शयति-तद् यथा इति । न ह्यनिष्टे प्रवृत्तिप्रयत्नः, न वाज्ञातविषयेच्छा, नापि तदविषयस्य सुखहेतुत्वमित्यादि । ततश्च द्वित्वशरीरादीनां नियतत्वं चेतनगुणोपग्रहेण व्याप्यत इति ततस्तत्सिद्धिरिति । सन्तु तर्हि प्रकृते शरीरेन्द्रियाणां प्रतिनियतभोगा- धनत्वेऽपि नियतचेतनगताः सम्प्रतिपन्ना एव नियामका इत्याह-प्रकृत-इति । शरीरादेः पूर्वं प्रकाशः। ननु भूतधर्मान्तरस्य साधारण्येऽप्यपूर्वं तद्धर्मस्तत्कार्यत्वमात्रेणैवासाधारणं स्यादित्यत आह- तथापीति । कार्यकारणभावमेवाह । शरीरादीनामिति । प्रकृतेऽपीति । यथा शरी- रादीनां चेतनगुणबुद्ध्यादिसहितानां नियतानां नियतभोगजनकत्वं, तथा प्रकृतेऽपि तेषां तत्स- हितानामेव तज्जनकत्वमस्त्विति कृतमपूर्वेणेत्यर्थः । शरीरादेरिति । न शरीराद्युत्पत्तेः पूर्वं बुद्ध्यादिसम्भव इति तदन्यचेतनगुणापूर्वसिद्धिरित्यर्थः । देवदत्तशरीरं, स्वाव्यवहितप्राक्काल- वर्त्तिदेवदत्तसमवेतविशेषगुणजन्यम् कार्यत्वे सति तद्भोगसाधनत्वात् तन्निर्मितस्रग्वत् । घटा- दीनां पक्षसमत्वाद् न तैर्व्यभिचारः । न च संस्कारेणार्थान्तरं, तस्य भोगजनकत्वेनाकल्पनात् । प्रकाशिका। दृष्टान्तेनैवातीन्द्रियो धर्मः सिद्धेदिति शङ्का तदवस्थ्यैवेत्यतस्तां स्मारयति । तथापि चेतन एवेति मूलम् । देवदत्ताद्येति । प्रथमशरीरोत्पन्नज्ञानादिनैव द्वितीयशरीरेऽर्थन्तरमित्याद्य पदम् यत्किञ्चिदपेक्ष्याऽऽद्यत्वं द्वितीयशरीरस्यापि सर्वापेक्षया चाद्यत्वमप्रसिद्धमिति देवद- त्तेति । देवदत्तत्वं तत्तच्छरीरपरम्परावृत्तिजातिरिति तदाश्रयेषु मध्ये सर्वाद्यत्वं पक्षतावच्छे- दकमिति भावः । जन्मान्तरीयज्ञानादिभिरर्थान्तरवारणाय साध्येऽवृत्तीत्यन्तम् । अन्यविशेषगुण- जन्यत्वमादायार्थान्तरादिवारणाय देवदत्तेति । संख्यादिभिस्तदीयैरर्थान्तरवारणाय विशेषेति । हेतौ मनसा व्यभिचारवारणाय सत्यन्तम् । अन्यशरीरादौ व्यभिचारवारणाय तदिति । तन्निर्मि- तेति । तद्भोगसाधनेत्यपि द्रष्टव्यम् । तस्येति । यद्यप्येवमपि शरीरजनकत्वे विरोधाभावः । मकरन्दः। देवदत्ताद्येति । द्वितीयशरीरादेराद्यशरीरजन्यबुद्ध्यादिजन्यत्वेनाऽर्थान्तरं स्यादित्याद्य- पदम् । अन्यशरीरे बाधवारणाय पक्षे देवदत्तपदम् । जन्मान्तरबुद्धिजन्यत्वेनार्थान्तरवारणाय वर्त्यन्तम् । ईश्वरज्ञानादिजन्यत्वेन सिद्धसाधनवारणाय । देवदत्तेति । सङ्ख्यादिजन्यत्वेनार्थो- न्तरवारणाय, विशेषेति । मनसा व्यभिचारवारणाय सत्यन्तम् । अन्यशरीरादौ व्यभिचार- वारणाय, तदिति । तन्निर्मितेति ॥ तद्भोगसाधनेत्यपि द्रष्टव्यम् । तस्येति । यद्यप्येवमपि शरीरजनकत्वे विरोधाभावस्तथापि तद्द्वारा भोगजनकत्वमाश्रित्येदमुक्तम् । यद्यपि, धर्मकल्प- प्रकृतेऽपि = भूतसंस्कारपक्षेऽपि । तथाचापूर्वेणात्मनि भोगे जननीये आद्यशरीरस्य चेतन- गुणोपग्रहेण भोगजनकत्वानुपपत्तिः, सहकारिणश्चेतनगुणस्य तदानीमभावादिति भावः।